पृष्ठम्:चम्पूभारतम्.pdf/७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
चम्पूभारते ।

यत्राङ्गनावनाभवतीशहव्ष्य
च्चन्द्राश्मसौधगलित सलिलप्रवाह ।
वृन्दारकेन्द्रनगरीबृहदुत्सवाय
मन्दाकिनीति लभते महतीमभिख्याम् ॥ ५ ॥

दीप्रैरगारमणिभिर्दिवसायमाना
निश्चिन्वते मनसि यत्र निशा युवान ।
कार्तान्तिकैरखिलकालनिवेदनाय
घण्टामणेरमिहितस्य घनारवेण ॥ ६ ॥


सबन्धिन्या दिनसततेर्दिवससमूहस्य दीर्घभावो दीर्घत्व चिह्न लिङ्ग भवति । अत्र निदाघदिनदैध्र्यस्य नैसर्गिक्स्य सूर्याश्वफालक्षेपहेतुत्वोक्त्तेर्हेतूत्प्रेक्षा व्यञ्जकाप्रयो- गाद्रम्या । तथा तादृशदिनदैर्ध्येण रव्यश्वविश्रमानुमानादनुमानालकारश्च । तयो रेक्वाचकानुप्रवेशसकर ॥ ४ ॥

 यत्रेति । यत्र नगर्यामङ्गनाना वदनेनैव यामवतीशेन चन्द्रेण हृष्यभ्ध रत्रवभ्धक्ष्चन्द्राश्मना चन्द्रकान्ताना सौधेभ्यो राजगृहेभ्यो गलित सलिलप्रवाह । वृन्दारकेन्द्रनगर्या स्वर्गस्य । तत्रत्यजनस्येति यावत् । बृहत उत्सवाय सलिल क्त्रीडादिरूपायेति तादर्थ्ये चतुर्थी । मन्दाकिनीत्याकाशवगङ्गेति महती क्ष्लाघ्याम- भिख्या नाम लभते । ‘अभिख्या नामशोभयो ' इति विश्व । अत्र मन्दा- किन्या मन्दाकिनीत्व निषिध्य तादृशसलिलप्रवाहारोपत्वादपह्नव । स च वदन- यामवतीशेति रूपकानुप्राणित इति तयोरङ्गाङ्गिभावेन सकर ॥ ५ ॥

 दीप्रैरिति । यत्र नगर्या युवानस्तरुण्यस्तरुणाश्च । । पुमान्त्रिया' इत्येक- शेष । बालाना वृद्धाना च रात्रौ प्रयोजनाभावाधुवान इत्युक्तम् । दीप्रैर्विराज मानैर[१]गारमणिभिर्गृहखचितरत्नप्रभाभिर्दिवस इवाचरन्ती दिवसायभानाम् । निस्त मस्कामिति यावत् । निशा रात्रिम् । कृतान्त ज्योतिषसिद्धान्तप्रतिपादकग्रन्थ विदुरिति कार्तान्तिकैर्ज्योति शास्त्रविद्धि । ‘तद्वेद’ इत्यधिकारे वेदित्रर्थे उक्था दित्वाद्वक् । ‘स्युर्मौहूर्तिकमौहूर्तज्ञानिकार्तान्तिका अपि’ इत्यमर । अखिलस्या होरात्ररूपस्य कालस्य नेिवेदनाय विज्ञापनायाभिहितम्य प्रमाणीकृतस्य घण्टा- मणे कास्ययश्रस्य धनेन दीर्घेण आरवेण ध्वनिना निश्चिन्वते ।इदानी रात्रिरिति विशिष्य जानन्तीत्यर्थे । रात्रावेव घण्टानिनादादीना महत्त्वेन श्रूयमाणत्वादिति भाव । अत्र गृहमणीना दिवसकरणासबन्धेऽपि तत्सबन्धोक्त्तेरतिशयोक्त्ति । तदनुप्राष्पितक्ष्चाय घण्टारवेण रात्र्यनुमानादनुमानाळकार इति तयोरङ्गाङ्गिभा- वेन संकर । यत्तु ‘अपि इतस्य’ इति पाठ मत्वा ‘ताडितस्य’ इति व्याख्याय यामचतुष्टयधोतनाय घण्टामणौ ताडिते सति इदानीं रात्रिरिति निश्चिन्वते इति


  1. ’अभिहतस्य‘ अपि हतस्य इति च पाठ