पृष्ठम्:चम्पूभारतम्.pdf/६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रथम स्तबक।

हसितसुरपुरश्रीरस्ति सा हस्तिनाख्या
रिपुजनदुरवापा राजधानी कुरूणाम् ॥२॥

यस्यामुदग्रनृपमन्दिरचन्द्रशाला-
वातायने गतिवशाद्वपुषि प्रसक्ताम् ।
दीपाग्रधूममषिका शिशिराशुबिम्बे
मोहात्कुरङ्ग इति मुग्धजना वदन्ति॥३॥

ग्रीष्मेषु शीतकरकान्तकृतोदरासु
यद्रोपुराग्रिमदरीषु पथागतस्य ।
विश्राम्यतों हरिहयस्य विलम्बनेषु
चिह्न तदीयदिनसततिदीर्घभाव ॥४॥


वर्गे इति विश्व । वेणुषु मौक्तिकोत्पत्तिर्लोकप्रसिध्दा । विपुलयोर्दीर्घयोर्भुजयोवि राजन्वीरलक्ष्म्या विभूमातिशयो येषा तेषा कुरूणा नाम राग्ना सबन्धिनी हसिता तिरस्कृता सुरपुरुश्री सुरपुरस्य स्वर्गस्य श्री शोभा यया सा । रिपुजनेन प्राप्तु मशक्या दुरवापाहस्तिनेत्याख्या यस्या सा राजवानी प्रवाननगरी । 'प्रधाननगरी राज्ञा राजधानीति कथ्यते'इति शब्दार्णवे । अस्ति । मालिनीवृत्तम्‌--"ननमयययुतेय मालिनी भोगिलोकै'इति लक्षणात् ॥२॥

 तामेव नवभिर्वसन्ततिलकाभिर्गद्येनैकेन च विशिनष्टि‌--यस्यामिति । यस्या हस्तिननगर्यामुदग्राया उन्नताया न्रुपमन्दिराणा राजगृहाणा चन्द्रशालाया शिरोगृहस्य वातायने गवाक्षे । 'चन्द्रशाला शिरोगृहम्',वातायन गवाक्षस्यात्' हत्युभयत्राप्यमर । गतेर्गमनस्य वशात् अधीनत्वाद्धेतो । 'वश प्रभुस्पृहायत्तेष्वायत्तत्वप्रभुत्वयो' इति विश्व । वपुषि शशीरे मध्यात्मके प्रकर्षेण सक्ता लग्नाम् । दीपाग्राणा सबन्धिनो धूमस्य मषिका मषिम् । द्दष्टेवति शेष । मुग्धा मूढा जना मोहादग्नानाच्छिशिराशोश्र्चन्द्रस्य बिम्बे कुरङ्ग हरिणोऽस्तीति वदन्ति । अत्र चन्द्रस्य ताद्दशमष्वसबन्धेऽपि तत्सबन्धोक्तेरतिशयोक्ति । तदनुप्राणितश्र्च नाय कुरङ्ग,किंतु ताद्दशमष्येवेति कुरङ्गे कुरङ्गत्व निषिध्य मषीत्वारो परूपोऽपह्नवालकार । तयोरङ्गाङ्गिभावेन सकर---'शुद्धापह्नुतिरन्यस्यारोपार्थो र्धर्मनिह्नव' इति लक्षणात् । वसन्ततिलकावृत्तम्--'उक्ता वसन्ततिलका तभजा जगौ ग' इति लक्षणात्॥३॥

 ग्रीष्मेष्विति । शीतकरकान्तौश्र्चन्द्रकान्तरत्नै कृतो निर्मित उदरो मध्यदेशो यासा तासु । यस्या हस्तिनपुर्या गोपुरस्य पुरद्वारस्याग्रिमदरीषूर्ध्वद्वारेषु य पन्थाश्र्चन्द्रनिर्गमनमार्गस्तेन ग्रीष्मेषु निदाधवासरेष्वागतस्य अतएव विश्राम्यतो विश्राम कुवतो हरिहयस्य सुर्याश्र्वस्य । तस्यैकस्यैव सप्तत्वेन व्यवहार 'एको अश्र्वो वहति सप्तनामा' इति श्रुतिसिद्ध । विलम्बनेषु कालक्षेपेषु तदीयाया ग्रीष्म-