पृष्ठम्:चम्पूभारतम्.pdf/५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५७
द्वितीय स्तबक ।


वृक्षेण वृक्ष गिरिणा गिरीन्द्र हस्तेन हस्तेन वचसा वचश्र्च।
परस्परेण प्रतिरुध्य घोर समीक्रमेतौ सममादधाते॥३४॥

स्वसु समक्ष स्वयमेव मुष्टया बल बिडौजा इव वज्रसख्या।
हिडिम्बमेन यमराजधानीकुटुम्बिमुख्य कुरुते स्म भीम॥३५॥

 तदनु तिमिरकदम्बेनेव हिडिम्बेन निर्मुक्तात्तस्मादहर्मुखादिव [१]वनात्सध्ययेव सरागया तया कमलपालिफया सह तपनभानव इव राजसूनवस्ते निष्कम्य शालिहोत्रमुने [२]सरसि वीतिहोत्रभास व्यास भगवन्तमासेव्य तत्र तन्निदेशादहानि [३]कतिचिदतिवाहयाचक्रु।


सति।अनिलस्यात्ममभवो भीमोऽपमृत्युरकालिकमृत्युवोदस्थादुत्यितवान्। युद्धाय सनद्धोऽभूदित्यर्थ। अत्र 'नाश्र्लील कीर्तयेत्' इति परषवचसाममङ्गल त्वस्मरणात्तत्कीर्तनेन हिडिम्बस्य मरणा त्मकामङ्गलस्फोरणाय भीमेऽपमृत्यूपमेत्यलकारेण वस्तुधवनि॥३३॥

 वृक्षेणेति। एतौ भीमहिडिम्बौ वृक्षेण वृक्ष परस्परेणान्योन्येन प्रतिरुध्य निवार्य।इति पदद्वयमग्नेऽपि योज्यम्।गिरिणा गिरीन्द्रम्,हस्तेन् हस्तम्,वचसा वचश्र्च,एव सम तुल्य घोर दारुण समीक युद्धमादधाते कुरुत । उपजातिवृत्तम्॥३४॥

 स्वसुरिति। भीम स्वय वज्रस्याशने सख्या।तद्वदतिसारयेत्यर्थ।मुध्टथा मुष्टिघातेनैव । न त्वायुधेनेर्त्य। स्वसुर्भगिन्या हिडिम्बाया समक्ष प्रत्यक्षे एन हिडिम्ब बिडौजा इन्द्रो बल बलासुरमिव यमराजधान्या कुटुम्बिषु वास्तव्येषु मुख्य कुरुते स्म।अवधीदित्यर्थ।उपमालकार । उपेन्द्रवज्रा॥३५॥

 तदम्बिति । तदनु हिडिम्बवधानन्तरं तिमिरस्य कदम्बेन समूहेनेव हिडिम्बेन राक्षसेन निमुक्तात्।उभाभ्यामपि व्यक्तादित्यर्थ।एवमग्नेऽपि।अहर्मुखात्प्रात कालादिव तस्माद्वनाध्दिडिम्बारण्याद्रागेण रक्तकान्त्या अनुरागेण च सहितया सध्ययेव तया कमलपालिकया हिडिम्बया सह निष्कम्य विनिर्गत्य तपनस्य सूर्यस्य भानव किरणा इव ते राजसूनव पाण्ढवा शालिहोत्रस्य नाम मुने सरसि।तत्तिर इत्यर्थ।वीतिहोत्रस्य अग्नेरिव भा कान्तिर्यस्य त भगवन्त व्यास मुनिमासेव्य तस्य व्यासस्य निदेशादाज्ञाया कतिचिदहानि दिनानि तत्र शालिहोत्रमुनिसरस्तीरेऽतिवाहयाचकुर्गमयामासु।अत्र निर्मोचनक्रियया।


  1. 'वनमध्यात्' इति पाठ
  2. 'सदसि' इति पाठ
  3. 'कानिचित्' इति पाठ