पृष्ठम्:चम्पूभारतम्.pdf/५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४९
द्वितीय स्तबक ।

आवर्जितै कलशवरिभि[१] रभ्यषिञ्च-
 दानन्दबाष्पसलिलै[२] रवनीं च पौरा ॥ १४ ॥
आबिभ्रतो धरणिमङ्गदनिर्विशेष
 नानाध[३]नयतिभिरस्य नयोदिताभि।
[४] स्त्य समस्तमपि वासवसनिभस्य
 कोशीबभूव कुतुकै सह कौरवाणाम् ॥ १५ ॥

पारेसिन्धु प्रथितमै[५]थित प्रत्यह वर्धमान सोढु पार्थाभ्युदयमपटो स्वात्मजस्यानुरोधात्।


सदचिदुत्पन्ने चक्षुष्युत्कटानुरागादिंति भाव। चमस्य यमस्य तनय युधिष्टिरम् धर्मस्य प्रथमपुरुषार्थस्य तनय मूर्त चर्ममिव स्थितमित्यपि। 'आत्मा व पुत्रनामासि' इति श्रुतेरिति भाव। तपनियपीठमारोप्य । कनकपीठे उपवेश्येत्यर्थ। आवर्जितैरानमितै, समुद्रगङ्गादिभ्य आनितैरिति वा। कलशेषु वारिभि पुण्यै मन्त्रपूतैश्र्च जलैरभ्यषिञ्चत्पट्टाभिषेक कृतवान्। 'उपसर्गात्सुनोति -' इत्यादिना अङ्व्यवयेऽपि षत्वम्। पौराश्र्चनन्देन चिरात्काङ्क्षितलाभजनितेन यानि बष्पस लीलानि यैरवनी तद्भार्या भूमिमम्यषिञ्चन् । भ्र्तु पट्टाभिषेके भार्याया अपि तैदौचित्यादिति भाव। पौरास्तदा ननन्दुरिति परमार्थ। व्यञ्जकाप्रयोगाद्रम्योत्प्रेक्षा। बसन्ततिलका वृत्तम्॥ १४॥

 आबिभ्रत इति। वरणिं भूमिमङ्गदेन केयूरेण सह निर्विशेष तारतम्यराहित्य यथा तथा बिभ्रतो हेलया भुजेन वहत इति प्रभावोत्कर्षे। वासवसनिभस्येन्द्रतुल्यस्य अस्य युधिष्टिरस्य नयेन षष्टाशग्रहणरूपेणोदिताभि। आजिताभिरित्यर्थ। नानामणिकनकरौप्यादिरूपाणा वनानामायतिभिर्लाभै समस्त वस्त्य गृहमपि। 'निशान्तवस्त्यसदनम्' इति गृहनामस्वमर। कौरवाणा दुर्योधनादीना कुतुकै कुतुहलै सह कोशीबभूव वनभवनीबभूव मुकुलीबभूवेति च। युधिष्टिरस्य तादृक्समृध्घा दुर्योधनदयोऽखिद्यन्नित्यर्थ।'कोशोऽस्त्री कुह्यले खङ्गपिधाने वनवेश्मनि' इति विश्र्व। महतामन्युदये खलना खेदस्य औत्सर्गिकत्वदिति भाव। अत्र धनगृहमुकुलयो श्र्लेषभित्तिकाभेदाध्यवसायमूला तिशयोक्त्तिकीर्ण सहोत्तयलकार। 'सहोक्त्ति सहभावश्र्चेद्भासते जनरञ्जन' इति लक्षणात्॥१५॥

 पारेसिन्ध्विति। अथ राजा धृतराष्ट्र प्रीतो भक्तिप्रजारञ्जन वनार्जनादिभि सतुष्टोऽपि पारेसिन्धु समुद्रतटपर्थन्त प्रथित प्रसिद्धम्। किंच अहन्यहनि प्रत्यह वधमान पार्थस्य युधिष्टिरस्याभ्युदयमैश्र्वर्ये सोढु क्षन्तुमपटोरशक्तस्य । तद


  1. ’अभ्यषिञ्चन्’ इति पाठ
  2. ’अवान’ इति पाठ
  3. ’न दनस्य’ इति पाठ
  4. ’पस्त्यम्’ इति पाठ
  5. ’अमित’ ’अय तभ्’ इति पाठौ