पृष्ठम्:चम्पूभारतम्.pdf/३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३१
प्रथम स्तबक ।

कि शुकस्य वदने रुचिरत्व कि [१]शुकस्य ह्रुदयेऽपि वशित्वम् ।
किशुकस्य कुसुमेषु नदन्ती शसति स्म मधुपालिरितीव ॥६८॥

कुरबके रवकेलिभृत सुघासधुर मधुर मधु षट्पदा ।
पपुरवापुरवार्यमपि स्मय नृपवने पवनेरितपादपे ॥६१॥

 अथास्मित्रमुना त [२]पोवनपरिसरे पटीरगिरिबन्धुना गन्धवह्स्तनधयेन सनिधि नीयमानो मद्रज परिग्रहस्तपस्यन्तमापि मनस्यन्त क परितापसपदा न लिम्पेदित्यर्थान्तरमप्यलिगिरा बोधयन्त्यामिव वनवासन्त्यामय क्षणादेव क्षितिपतिरिक्षुधन्वनो लक्ष्यतामध्यरुक्षत् ।


 किंशुकस्येति । शुकस्य वदने चञ्चो रुचिरत्व सौन्दर्य किमिति कुत्सायाम् । शुकस्य व्यासपुत्रस्य ह्रदये वशित्व जितेन्द्रियस्वमपि किम् । न भवत्येवेत्यर्थ । मदवलोक्ने पलायत एवेति भाव । इत्युक्तप्रकारेण मधुपालिर्मृङ्गपङ्क्त्ति किंशुकस्य पलाशवृक्षस्य कुसुमेषु नदन्ती झकुर्वती सती शसति स्म ज्ञापयामासेत्युत्प्रेक्षा । शुकत्रोटिकुटिलारुणानि पलाशमुकुलानि मुनीनाभपि मोहनान्यासन्नित्यर्थ । स्वागता वृत्तम् ॥६८॥

 कुरबक इति । पवनेन बायुनेरिता कम्पिता पादपा वृक्षा यस्मिस्तस्मित्रृपवने पाण्डुराजाक्षमारण्ये कुरबमे कुसुमे। जात्येकवचन्म् । रवाञ्झङ्कारान्केलीरिच्छाविहाराक्ष्च बिभ्रतीति भृत षट्पदा भृङ्गा सुधयामृतेन समो धूर्भारो यस्य तयोक्तम् । अतएव मधुर मधु मकरन्द पपु पिबन्ति स्म । अतएवावार्य निरङ्कुश स्मयमपि मद चावापु प्राप्तवन्त । अत्र स्मयावाप्तौ कुरबकमधुपानवाक्यार्थहेतुकस्य काव्यलिङ्गस्य यमकेन सहैकवाचकानुप्रवेशसकर । दुतविलम्बितवृत्तम् ॥६९॥

 अथेति । अथ वसन्तप्रादुर्भावानन्तर पटीरगिरेक्ष्चन्दनाचलस्य बन्धुना । तदियसौरभभरितेनेत्यर्थ । अमुना गन्धवहस्तनधयेन बालमारुतेन अस्मिंस्तपोवनस्य पाण्ङ्वाक्ष्रमस्य परिसरे समीपे सनिधि स्वसानिध्य नीयमान प्रापयमाणो मम रजस परागस्य परिग्रह सबन्धस्तपस्यन्त निगृहीतेन्द्रिय तप कुर्वाणमपि क पुरुषमन्त मनसि परितापस्य सपदा समृध्द्या न लिम्पेन्न घटयेत् । इत्युक्तमर्थे एकम् । अर्थान्तरमपि अन्यमर्थे च अलिगिरा । भृङ्गारवव्याजेनेत्यर्थ । बोधयन्त्या सूचयन्त्यामिव सिथताया वनवासन्त्या माधवीकुसुमे । जात्येकवचनम् । समुन्मिषन्त्या विकसन्त्या सत्याम् । अय क्षितिपति पाण्डु क्षणादेवेक्षुधन्वनो मन्मथस्य लक्ष्यता बाणविषयत्वमध्यरुक्षत्प्राप्तवान् । रुहे कर्तरि लुड् । अर्थान्तरं तु नीयमान'इत्यन्त उभयत्र समम् ।


  1. 'तपोवनकुटिरपरिसरे'इति पाठ
  2. 'वासन्त्यामियम्'इति पाठ