पृष्ठम्:चम्पूभारतम्.pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६
चम्पूभारते ।

 वातायुराकारमसौ महर्षेर्जातायुरन्त सहस्साललम्बे ॥ २७ ॥

 तत छुपामन्दमना किदमनामधेय सदा[१] रिततनुस्यन्दमानरुधिरेण महारुषा कल्परविकम्पमहा रुषा तस्मिन्महीभृति सभोगसभेदकमम्भोजदृशा दम्भोलिमिव सहस्राक्ष शापमुदस्राक्षीत् ।

 तदनु तापसशापेन विरचितमनस्तापेन तेन भू[२]पेन च[३]तुरङ्गबळमिव स[४] प्ताङ्गराज्यमपि व्ये[५]सृज्यत ।

 अष्टाङ्गयोगानवतोऽस्य राज्ञो मिष्टान्नमासीन्मृदुकन्दमूलम् ।

 गर्भों वनस्याजनि केलिसौधो दर्भाऽपि सिहासनता जगाहे ॥२८॥


आललम्बे खीकृतवान् । यत्तु ‘जातारूरन्तम् इति पाठान्तरम्, तन्मूलकृदभिमतळाटानुप्रासभङ्गादुपेक्ष्यम् ॥ २७ ॥

 तत इति । तत ऋष्याकारस्वीकरणानन्तर क़िदम इति नामधेय यस्य स ऋषि कृपया कारुण्येन मन्द शून्य मनो यस्य तथोक्त सन् सम्यग्दारिताया बाणविपाटितायास्तनो शरीरात्स्यन्दमान रुधिर रक्त यस्मिस्तेन महतारुषा व्रणेन । ‘व्रणोऽस्त्रियामीर्ममरु’ इत्यमर । रुषा कोपेन च कल्परविकल्प प्रलयार्कतुल्य महस्तेजो यस्य तथोक्त सन् तस्मिन्महीभृति पाण्डौ पर्वते च अम्भोजदृशा स्त्रीणा सभोगस्य सुरतस्य सम्यग्भोगस्य सुखस्य च सभेदक नाशक शापम् । सहस्राक्षो दम्भोलिं वज्रमिव । उदस्राक्षीत्पातितवान् । सृजते कतरि लुड्।‘यथा मिथुनीभूय क्रीडस्त्वया मारितोऽहम्, तथा त्वमपि निधुवनाय वधूमुपगच्छन्मारिष्यसि’ इति शप्तवानित्यर्थ ॥

 तन्विति । तदन्वनन्तर तापसस्य किदमस्य शापेन विरचितो मनसि तापो यस्य तेन भूपेन पाण्डुना चत्वार्यङ्गानि हस्त्यश्वरथपादातरूपाणि यस्य तथोक्त बलमिव सप्त अङ्गानि स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्गबलरूपाणि यस्य तथोक राज्यमपि व्यसृज्यत । तदुभयमपि त्यक्तवानित्यर्थ । सृजते कर्मणि लड्। भोगमूल राज्यमू, राज्यमूल बलम्, भोगप्रतिबन्धे ताभ्या प्रयोजनाभावादिति भाव । अत्र बलराज्ययो केवलप्रकृतयोस्त्यागक्त्रियान्वयित्वेन केवलप्रकृतास्पदतुल्ययोगिताभेद । ‘वर्ण्यानामितरेषा वा धमैक्य तुल्ययोगिता' इति लक्षणात् । एवमुत्तरत्रापि । प्रायेणात्रायमलकार ॥

 अष्टेति । अष्टावङ्गैरन्त करणादिभिर्ये योगास्तत्साध्या यमानेयमासनप्राणायमप्रत्याहारध्यानधानरणसमाधयो योगशास्त्रप्रसिद्धास्तानवतो । रक्षतोऽस्य राज्ञ पाण्डोर्मृडु कोमल कन्दमूल मिष्ट षड्रसोपेतमन्नमासीत् । वनस्य गर्भो मध्यदेश केलिसौधोऽजनि जात । जने कर्तरि लुड् । दर्भोऽपि सिंहासनता जगाहे प्राप


  1. सदानित’ इति पाठ
  2. ‘धरणीपतिना’ इति पाठ
  3. ‘चतुरङ्गम्' इति पाठ
  4. ‘सप्ताङ्गम्’ इति पाठ
  5. ‘व्यसृजस’ इति पाठ