पृष्ठम्:चम्पूभारतम्.pdf/१४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३८
चम्पूभारते

शोणरुचा शिखयातिमहत्या बाणपुरावृतिवासनयेव ।
[१]चण्डतरोऽस्य वनस्य समन्तात्कु[२]ण्डलना कलयन्ववृधेऽग्नि ॥ ११४ ॥
 प्रथम पावकषिङ्गे परिरभ्य गृहीतपल्लवोष्ठपुटे ।
 उप[३] कण्ठे वनरजेरुदगादाकुलकपोतनादतति ॥ ११५ ॥

 क्रमेण प्रबलीभवतो भगवत पवमानसखस्य तमालादिषु केषुचि[४]त्तरुषु प[५] र्णोच्चयायमनैर्धूमैर्धूमै किंशुकादिषु केषुचिद्रु[६]मेषु स्तवकायमानैर्ज्वालाकदलैस्तिलकादिषु केषुचित्पचेलिमफलबीजायमानै[७] स्फुलिङ्गैर्हरिचन्दनादिषु केषु[८]चिद्विटपिषु वल्कलायमानै-


श्याभ उद्गतानि प्रवालानि किसलयानि विद्रुमाक्ष्च यस्मिंस्तत् ।वन खाण्डव सामुद्रजल चाशितु भक्षितु सननाह सनध्दोऽभूत्।श्लिष्टविशेषणेयमुपमा॥११३॥

 शोणेति।अथ चण्डतरोऽतिभीषणोऽग्निर्बाणपुरस्य बलिपुत्रनगरस्य शोणारयस्य आनृतिवासनया प्राफारात्मना स्वावस्थानसस्कारेणेव स्थितयेत्युत्प्रे क्षा। अतिमहत्या शोणस्चा रक्तप्रभया शिखया ज्वालया अस्य वन्स्य खाण्ड वस्य समन्तात्परिन कुण्डलना कुण्डलाकारेण वेष्टन कलयन्कुर्वन्सन् । वपृधे वर्धते स्म। वर्वते कर्तरि लिट्।वाणपुरस्याग्निमय प्राकार पुराणत्रसिद्व । तोटकवृत्तम्-'तोटकवृत्तमिद भभभा गौ' इति लक्षणात्॥११४॥

 प्रथममिति।पावकोऽग्नि षिङ्ग् इव तस्मिन्।'षिङ्ग् पाल्लविफो विट' इत्यमर।त्रथममादौ परिरम्य सवेष्टय आक्ष्लिकष्य च गृहीतो दग्व आखादितश्च पल्लच ओष्टपुट इव येन तयोक्ते सति।वनराजे खाण्डवस्य स्त्रीलिङ्गात्कस्याश्चिन्नायिकायाश्च।उपकण्ठे समीपे कण्ठदेशे च आकुला तापार्त्या दन्तक्षतवेदनया च सकुला कपोताना पारावताना तेषामिव च नादतति कलकलरवराशि उदगादाविर्बभूव । अत्र प्रस्तुताग्निपनराजिलिष्टसावारणविशेषणसाम्यादप्रस्तुतपरिरम्भ पूवकावरचुम्पनमणितमनोहरविटकामिनीसभोगव्यापारप्रतीते समासोक्तिरल कार-'समासोक्ति परिस्फूति प्रस्तुतेऽप्रस्तुतस्य चेत्' इति । लक्षणात् । अत्र सभोगस्यालिङ्गनपूर्कत्व र्तिकूजिताना कपोतदसानम्य च रतिरहस्ये ‌-- 'आदौ रत बाहयमिह प्रयोज्य तत्रापि चालिञ्गनमेव पूर्वम्' इति । तत्र भावु कपोतवारिदेत्यादिना प्रसिध्द रत्यायासजनितो हुकारो मणितमिति। आर्यावृत्तम् ॥११५॥

 क्रमेणेति। कमेण त्रबलीभवत त्रवर्धमानस्य भगवत पवमानसखस्याग्ने सचन्धिमि । इतीद तृतीयान्तपच्च्केऽपि योज्यम् । तमालादिषु केषुचित्तरुषु


  1. 'चण्डतरस्य' इति पाठ
  2. 'कुण्डलनम्' इति पाठ
  3. 'उपकण्ठम्' इति पाठ
  4. 'द्र्मेषु' इति पाठ
  5. 'पत्रोच्चयाय' इति पाठ
  6. दुमेषु इति नास्ति कचित्
  7. 'पकित्रम्' इति पाठ
  8. केषुचिदम्कायमनै’ इति पाठ