पृष्ठम्:चम्पूभारतम्.pdf/१०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
तृतीय स्तबक ।

राजा निदेशकृदभूदिति धातृसूनो-
 रन्तर्मुदो निरवधेरिदमास चिन्हम् ।
यन्तस्य पाणिरकरोन्मृदुकण्ठगीते -
 र्वीणागुणे विवशरिङ्स्वणमङ्गुलीनाम् ॥ १५ ॥
तस्मिन्नभ सरणिभुत्पतिते मुनिन्द्रे
 सा तेषु पञ्चसु सम ववृते मृगाक्षी।
साक्रन्दनेषु विटपिष्विव दानलक्ष्मी-
 र्मानोभवेषु जयसिध्दिरिवाशुगेषु[१] ॥ १६ ॥
विप्र कक्ष्चन तत्र जात्त्वथ भुजावुध्दृत्य चोरैर्हृता
 गावो मे निखिला हतोऽस्मि विधिना वत्सोऽपि नो शिष्यते।
राजन्ऱाज्यमिद् विमुण्च वसुधा शास्मीति सर्वा[२]न्नृरपा
 न्किंवा हास[३]यसीति रोषकटुवाग्द्वार ययौ भूपते॥ १७ ॥

मृगचर्म परिधाय वृत्वा सुकृतसार्थस्य पुण्यराशे समार्थापकै सपादकैस्तीर्थैर्न- दनदीसरोभि परिमृष्टासु पवित्रास्वष्टासु दिक्षु तासामष्टदिशा त्रिगुण त्रिराव्रुत्ता स्ंख्या चतुर्विशत्यात्मिका येषा तानू । तस्या अष्टत्वसख्यायास्त्रिगुण्सख्यानिति वा । पक्षान्पञ्चदशतियथ्यात्मन्क्षपयेत् । सवत्सरं तीर्थयात्रया गमयेदित्यर्थ । इत्युत्कप्रकारा सधामाबबन्धुरिति पूर्वेणान्वय ॥

 राजेति । मृद्वी सुकुमार । मधुरेति यावत् । कण्ठस्य गीतिर्गान यस्य तस्य नारदस्य पाणि । वीणाया गुणे तन्त्र्याम् । इति जात्येकवचनम् । महत्या शततन्त्रीकत्वेन प्रसिध्देरिति भाव। अङ्गुकलीन विवशमस्वायत्त रिल्ङणमारोहणावरोहणात्मक स्खलनमकरोदिति यत्तदिद यत्र विनैव स्खलनम् । राजा धर्मराजो निदेशकृत् स्वाज्ञाकारी अभूदित्युक्तप्रकाराया निरवधेरनन्ताया धातृसूनोर्नारदस्यान्तर्मनसि मुद सतोषस्य चिह ज्ञापकमास अभूत् । सतुष्टा विनैव सकल्प गाय न्तीति भाव । अत्र विवशाङ्गुलीस्खलनेनान्तर्मुदोऽनुमानादनुमानालकार । वस्रन्ततिलका ॥१५॥ इति नारदसवाद॥

 तस्मिन्निति। तस्मिन्मुनीन्द्रे नभ सरणिमाकाशमार्गे प्रत्युत्पतिते। गते सतीत्यर्थं । सा मृगाक्षी द्रौपदी पक्ष्चसु तेषु पाण्डवेषु दानलक्ष्मीर्वीतरणस्रपत्सां- क्रन्दनेष्विन्द्रसबन्धिषु विटपिषु कल्पकादिवृक्षेष्विव जयस्रिध्दिर्मानोभवेषु मन्मथ- सबन्धिष्वाशुगेष्वरविन्दादिबाणेष्विव। उभयत्र पञ्चस्विति योज्यम्। सममविशेष ववृते वर्तते स्म । वर्तते र्क्तरि लिट्। उपमाद्वयस्य ससृष्टि॥ १६ ॥

 विप्र इति। तत्रेन्द्रप्रस्थे जातु कदाचित् । निखिला मे मम गावक्ष्चोरहैर्ता ।


  1. "एतदनन्तरम्" "इति नारदसवाद्" इति कचित्
  2. "इमान् इति पाठ
  3. 'हासयति इति पाठ