पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८ अग्निहोत्रचन्द्रिका । धानात् । अन्यत्र कार्यार्थं पृथक्कृतस्य कार्यपरिमाप्तौ त्याग एव कर्तव्यः । तैजावज्वल नार्थ पृथक्कृतमवञ्चलने कृते पृथगेव निधाय तेनेव परिहरणमांपे कृत्वा त्यजेत् ।। २५ ॥ समुदन्तं कर्षन्निवोदगुद्धासयेदिवे त्वाऽन्तरिक्षाय त्वा पृथिव्यै त्वेति निदधत् ॥ २६ ॥ दे० भाष्यम्-समन्तत उदन्तं समुदन्तं कर्षतीव कर्पनिव भूमिसंनिकृष्टं नीयत उदगुद्वासयेदुदीच्यां दिश्युद्वासयेत् स्थापयेत् । दिवे त्वन्येतैस्त्रिभिर्मन्त्रेत्रिभूमौ निदधानि दध्यादुद्वासयेदित्यनेनैवाऽऽधाने सिद्धे निदध्यादिति न वक्तव्यम् । तस्यैतत्प्रयोजनं निदध दुद्वासयतीति । तस्मात्रिभूमौ प्रतिष्ठापयति त्रय एवैते मघ्रात्रिभूमौ प्रतिष्ठापयतीत्य न्येषाम् ॥ २६ ॥ वत्तिः-सम्यगुद्रतोऽन्तो यस्य द्रव्यस्य तत्समुदन्तं द्रव्यम् । प रतः स्थालीसैबद्रप्रदे शोऽन्त इत्युच्यते । यदा पच्यमानं पय एवमवस्थं भवेत्तदा कर्षन्निवोदगुद्वासयेत् । कर्ष न्निवेति मन्दगयेत्यर्थः । निदधदिति । त्रिभिर्मन्त्रैत्रिर्निधानं कुर्वन्नवतारयेत् । प्रथमाद्विती याभ्यामाकाशे धृत्वा तृतीयेन भूम्यां निदध्यात् ॥ २६ ॥ सुहुतकृतः स्थ सुहुतमकाटत्यङ्गारानातस्सृज्य स्रुक्सुषुव प्रतिपत्प्रत्युष्ट रक्षः प्रत्युष्टा अरातयो निष्ट रक्षो निष्टप्ता अरातय इति ।। २७ ।। दे० भाष्यम्-सुहुतकृतः स्थ इत्यनेन मत्रेणाङ्ग रानझावेवातिसृजति गमयति अतिसृज्य स्थालीमुत्तरतः कुशेपूपसादयेदतिसृजेदित्यत्र साकाङ्क्षत्वादासादयेदियध्या हर्तव्यम् । अन्यथाऽऽसादनमुपदिष्टं स्याद्वक्ष्यति चोत्तरतः स्थाल्याः लुचमासाद्येति स्थाली मासन्ना दर्शयति । सूत्रुचं लुत्रं चोभयं सह प्रतिपेत् प्रत्युष्टमियेतेन यथोष्माभिधा भवांते ।। २७ वृत्तिः—अतिसर्गेऽङ्गराणां गार्हपत्ये प्रक्षेपः ॥ २७ ॥ उत्तरतः स्थाल्याः स्रुचमासाद्योमुन्नयानीत्यतिसर्जयीत ॥ २८ ॥ दे० भाष्यम्-उत्तरतः स्थाली प्रागासना भवति तस्या उत्तरतः श्रुचमासाद्य स्थापयित्वोमुन्नयानीत्यतिसर्जयीत यजमानः । आसाद्येति वचनात्तत्र देशे कुशाः स्तीर्णा भवान्त। ओमुन्नयानीति त्रिमात्रमकार.न्तं कुर्यात् । अतिसर्जनत्वादुवैर्यथा शृणोति ।। २८ ॥ वृत्तिः-स्थाल्पा उत्तरतः त्रुचमासाद्य त्रुवहस्त एव सनोमुन ानीत्यनेन मन्त्रेणाऽऽ हितामितिसर्जयेत् ॥ २८ ॥ उबाहिताग्रेिराचम्यापरेण वेदिमत्रिज्य दक्षिणत उपविश्यैतच्छोमन्नये त्यविसृजेत् ॥ २९ ॥