पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका । दे० भाष्यम्-गार्हपल्यादारभ्याविच्छिन्नां कमण्डलुनेोदकधारां हरेनयेत् । तन्तुं तन्वन्नेतेन मन्त्रेणाऽऽहवनीयाद्यावदाहवनीयं प्राप्तोति ॥ १४ ॥ वृत्तिः-अयमाकारो मर्यादायामन्युपघातविरोधात् ॥ १४ ॥ पश्चाद्भार्हपत्यस्योपविश्योदगङ्गारानपोहेत्सुहुतकृतः स्थ सुहुतं करिष्यथेति । दे० भाष्यम्-पश्चादपरस्यां दिशि गार्हपत्यस्यान्नेः पश्चादुपविश्याऽऽध्वर्यवत्वान्निर सनेोपवेशने न भवतः । उदगुदीच्यां दिश्यङ्गारानोहेदपनयेत् । सुहुतकृतः स्थेत्यनेन मन्त्रेण ॥ १५ वृत्तिः-पश्चाद्रार्हपत्यस्य तूष्णीमेव दक्षिणेोत्तरणोपस्थेनोपविश्य गार्हपत्यात्कतिपया नङ्गारानुदक्पृथक्कुर्यादधिश्रयणार्थम् ॥ १५ ॥ तेष्वग्हिोत्रमधिश्रयेदधिश्रितमध्यधिश्रितमधिश्रितं हि ३म् इति ॥ १६ ।। दे० भाष्यम्-तेष्वङ्गारेषु समिद्धेष्वन्निहोत्रद्रव्यमधिश्रयेदयुपश्रयेत् स्थापयेदधिात्र तमित्यनेन मन्त्रेण ॥ १६ ॥ वृत्तिः—तेष्विति । पृथक्कृतेष्वङ्गारेष्वित्यर्थः । अग्निहोत्रमिति होमसाधनभूतं द्रव्यमु पचर्यते ॥ १६ इळायास्पदं घृतवचराचरं जातवेदो हविरिदं जुपस्व । ये ग्राम्याः पशवो विश्वरूपास्तेषां सप्तानां मयि पुष्टिरस्त्विति वा ।। १७ ।। दे० भाष्यम्-इळायास्पदमित्यनेन मन्त्रेण वा विकल्पः ॥ ॥ १७ वृत्तिः-अनेन वा मन्त्रेणाधिश्रयेत्पर्वेण वेति विकल्पविधि ॥ ॥ १७ न दध्यधिश्रयेदधिश्रयेदित्येके ।। १८ ।। दे० भाष्यम्-पयआदीनि दश द्रव्याणि तेषां सर्वेषामावशेपवचनादधिश्रयणे प्राते मतिषेधो न दध्यधिश्रयेत्, दधि नाधिश्रयेत्, अधिश्रयेदित्येके । दध्यधिश्रयेदित्याधिश्रयणे प्राप्त न दध्यधिश्रयेदिति प्रतिषेधे तु न दध्यधिश्रयेदित्येक इति वचनात्प्राप्तादन्यदेवे दमधिश्रयणं धर्ममात्रं विधीयते यथा दधि द्रव्यान्तरं न संपद्यते तथाऽधिश्रयणं कर्तव्यं भवति ।। १८ ॥ वृत्तिः-अधिश्रयेन्न बेल्येतावतैव सिद्धे गुरुसूत्रकरणं न्यायविकल्पोऽयमिति प्रदर्शना थेम् । अत्रैक आचार्याः प्रवृत्तिपरत्वाच्छास्त्रस्य कार्यस्य चातीन्द्रियत्वादलोपमाहुः । आचा र्यस्तु कार्यार्थत्वात्प्रवृत्तेः कार्यस्य च दृष्टस्य त्यागे प्रमाणाभावात्तदत्यागे संस्कार्यस्वरूप विनाशात्संस्कार्यसंपादकत्वात्संस्कारस्य लोप एवात्र श्रेयानित्याह ॥ १८ ॥ पयसा नित्यहोमः ॥ १९ ॥ दे० भाष्यम्--पयो दुग्धं नित्यं सततं होमो नित्यहोमः कामान्न भवति पयसा