पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका दिश्यादित्यो भवति तमेवाभिमुखो निदध्यात् । एवं प्रातरिति प्राप्तेऽपि पुनरुच्यते तदानीमादित्यस्याभावादादित्याभिमुख इत्येतस्यार्थालोपः स्यात् ॥ ५ ॥ चिः-एवमेव प्रातहॉमार्थमप्यादित आरभ्य निधानान्तं कुर्यात् । तमेवाभिमुखो निधी यमानाहवनीयाभिमुख इत्यर्थः । एवं सति प्रातःकाल आहवनीयायतनात्पश्चास्थि तेन निधानं भवति । सायं तु पुरस्तास्थितेन व्युष्टायामुषस्युदितायामादित्योदयात् प्राक् ।। ५ राञ्या यदेन इति तु प्रणयेत् ॥ ६ ॥ दे० भाष्यम्-एवं प्रातरिति यथाम्नाते प्राप्त इहाऽऽरभ्याहा यदेन इत्येतस्य स्थाने रात्र्या यदेन इत्यूह्य प्रणयेत् । तुशब्दो विशेषणार्थः—अयं तु विशेषोऽन्यत्समान मिति । तुशब्देऽक्रियमाण एतावानेव प्रणयनमन्त्रः स्यात् प्रणयेदिति वचनात् । प्रणयनमन्त्र स्योहो भवति । अन्यथाविधानार्थं तमेवाभिमुखो रात्र्या यदेन इत्यान्नानात् ।। ६ ।। वृत्तिः-प्रणयनमन्त्रेऽह्मा यदेन इत्यस्य स्थाने रात्र्या यदेन इति कर्तव्यं प्रातः काले ।। ६ अत ऊध्र्वमाहितामित्रैतचार्याहोमात् ।। ७ ।। दे० भाष्यम्--अत ऊर्धमतोऽस्मादुद्धरणादूर्धमाहितान्निर्यजमानो व्रतचारी भवति व्रतचारीति कर्मनामधेयमग्किमैव चरति नित्यवदाचरल्या होमसमातेश्चातुर्मास्यादिषु ब्रतान्या दिष्टान्येवमिहानादिष्टानि तस्मात्कमैव व्रतमुपदिशत्येतदेव व्रतं पत्न्या अपि समानम् ॥ ७ ॥ दृ०-सत्रिधर्माश्चातुर्मास्यव्रतानि चात्र व्रतशब्देनोच्यन्ते । विहरणादध्माऽग्निहोत्रप्रयो गसमाक्षेत्रंतचारी भवत्याहिताग्ःि ।। ७ ।। अनुदितहोमी चोदयात् ॥ ८ ॥ दे० भाष्यम्-अनुदितहोमी च व्रतचारी भवति समाते होम आदित्योदयादनु दितहोमी, अनुदित आदित्ये जुहोति, अनुदितहोमी च व्रतचारी भवत्याहोमादिति प्राप्त ओदयाद्भवति हुतेऽपि होमे ॥ ८ ॥ वृत्तिः-अनुदितहोमी चेत्समातेऽपि प्रयोग ओदयाद्व्रतचारी भवेत् ॥ ८ ॥ अस्तमिते होमः ॥ ९ ॥ दे० भा०-अस्तमित आदित्ये होमकाल उदितेषु नक्षत्रेषु सायमित्यन्येषाम् ॥९॥ वृत्तिः-कर्तव्यः । अङ्गान्यपि प्रधानकाल एव कर्तव्यानि । यत्पुनरङ्गं विहरणव त्स्वकालविशिष्टं तत्स्वकाल एव कर्तव्यम् ।। ९ ।। नित्यमाचमनम् ॥ १० ॥ दे० भाष्यम्-नियतं होमकाले प्रयतस्यापि कर्माङ्गमाचमनं िवधीयते ॥ १० ॥ वृत्तिः-उक्तं प्राङ्मुखस्याऽऽचमनं यत्पुरस्तात्तदिदानीं कर्तव्यमस्याङ्गत्वाय ॥१०॥