पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्)

विकिस्रोतः तः
पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्)
[[लेखकः :|]]

THE KUPPUSWAMI SASTRI RESEARCH INSTITUTE, MADRAS. 77 आनन्दाश्रमसंस्कृतग्रन्थावलिः। ग्रन्थाङेकः४७ वाचस्पतिमिश्रविरचितटीकासंवलितव्यासभाष्यसमेतानि पातञ्जलयोगसूत्राणि। तथा भोजदेवविरचितराजमार्तण्डाभिधवृत्तिसमेतानि पातञ्जलयोगसूत्राणि । (सूत्रपाठसूत्रवर्गानुक्रमसूचीभ्यां च सनाथीकृतानि) एतत्पुस्तकं वे.शा. रा. रा. काशीनाथ शास्त्री आगाशे " इत्येतैः संशोधितम् । हरि नारायण आपटे इत्यनेन पुण्याख्यपत्तने आनन्दाश्रममुद्रणालये आयसाक्षरैर्मुद्रयित्वा प्रकाशितम् । द्वितीयेयं मुद्रणावृत्तिः। शालिवाहनशकाब्दाः १८४० खिस्ताब्दाः १९१९ अस्य सर्वेऽधिकारा राजशासनानुसारेण स्वायत्तीकृताः)

मूल्यं रूपकत्रयम् (रु. ३) पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२ पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/३ पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/४

ॐ तत्सद्ब्रह्मणे नमः।

वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि

पातञ्जलयोगसूत्राणि ।


( तत्र समाधिपादः प्रथमः।)

( अथ व्यासभाष्यम् ।)

[१]यस्त्यक्त्वा रूपमाद्यं प्रभवति जगतोऽनेकधाऽनुग्रहाय
प्रक्षीणक्लेशराशिर्विषमविषधरोऽनेकवक्त्रः सुभोगी ।
सर्वज्ञानप्रसूतिर्भुजगपरिकरः प्रीतये यस्य नित्यं
देवोऽहीशः स वोऽव्यात्सितविमलतनुर्योगदो योगयुक्तः ॥१॥

(अथ पातञ्जलसूत्राणि।)

अथ योगानुशासनम् ॥१॥

अथेत्ययमधिकारार्थः।


(अथ वाचस्पतिकृता टीका।)

नमामि जगदुत्पत्तिहेतवे वृषकेतवे ।
क्लेशकर्मविपाकादिरहिताय हिताय च ॥१॥
नत्वा पतञ्जलिमृर्षिं वेदव्यासेन भाषिते ।
संक्षिप्तस्पष्टबह्वर्था भाष्ये व्याख्या वि[२]धास्यते ॥२॥

 इह हि भगवान्पतञ्जलि: प्रारिष्सितस्य शास्त्रस्य संक्षेपतस्तात्पर्यार्थं प्रेक्षावत्प्रवृत्यङ्गं श्रोतुश्च सुखावबोधार्थमाचिख्यासुरादायिदं सूत्रं रचयांचकार-अथ योगानुशासनम् । तत्र प्रथमावयवमथशब्दं व्याचष्टे-अथेत्ययमधिकारार्थः । अथैष ज्योतिरितिवत्, न त्वानन्तर्यार्थः । अनुशासनमिति हि शास्त्रमाहानुशिष्यतेऽनेनेति व्युत्पत्त्या । न चास्य शमदमाद्यनन्तरं प्रवृत्तिरपि तु तत्त्वज्ञानचिख्यापयिषानन्तरम् । जिज्ञासाज्ञानयोस्तु स्यात् । यथाऽऽम्नायते-"तस्माच्छान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वाऽऽत्मन्येवाऽऽत्मानं पश्येत्” [बृ०४।४।२३ ] [३]इति । शिष्यप्रश्नतपश्चरणरसायनाधुपयोगानन्तर्यस्य च संभवेऽपि नाभिधानं, शिष्यप्रतीतिप्रवृत्योरनुपयोगात्प्रामाणिकत्वे योगानुशासनस्य तदभावेऽप्युपेयत्वादप्रामाणिकत्वे च तद्भावेऽपि,हेयत्वात् । एतेन तत्वज्ञानचिख्यापयिषयोरानन्तर्याभिधानं परास्तम् । अधिकारार्थत्वे तु शास्त्रेणाधिक्रि

योगानुशासनं शास्त्रमधिकृतं वेदितव्यम् । योगः
समाधिः । स च सार्वभौमश्चित्तस्य धर्मः ।


यमाणस्य प्रस्तूयमानस्य योगस्याभिधानात्सकलशास्त्रतात्पर्यार्थव्याख्यानेन शिष्यः सुखेनैव बोधितश्च प्रवर्तितश्च भवतीति । निःश्रेयसस्य हेतुः समाधिरिति हि श्रुतिस्मृतीतिहासपुराणेषु प्रसिद्धम् । ननु किं सर्वसंदर्भगतोऽथशब्दोऽधिकारार्थः, तथा सति "अथातो ब्रह्मजिज्ञासा " [ब्र० सू० १।१।१ ] इत्यादावपि प्रसङ्ग इत्यत आह ---अयमिति । ननु-

  “हिरण्यगर्भो योगस्य वक्ता नान्यः पुरातनः "

 इति योगियाज्ञवल्क्यस्मृतेः कथं पतञ्जलेर्योगशास्त्र[४]कर्तृत्वमित्याशङ्क्य सूत्रकारेणानुशासनमित्युक्तम् । शिष्टस्य शासनमनुशासनमित्यर्थः । यदाऽयमथशब्दोऽधिकारार्थस्तदैष वाक्यार्थः संपद्यत इत्याह---योगानुशासनं शास्त्रमधिकृतमिति । ननु व्युत्पाद्यमानतया योगोऽत्राधिकृतो न तु शास्त्रमित्यत आह-वेदितव्यमिति । सत्यं व्युत्पाद्यमानतया योगः प्रस्तुतः, स तु तद्विषयेण शास्त्रेण करणेन व्युत्पाद्यः । करणगोचरश्च व्युत्पादकस्य व्यापारो न कर्मगोचर इति कर्तृव्यापारविवक्षया योगविषयस्य शास्त्रस्याधिकृतत्वं वेदितव्यम् । शास्त्रव्यापारगोचरतया तु योग एयाधिकृत इति भावः । अधिकारार्थस्य चाथशब्दस्यान्यार्थं नीयमानोदकुम्भदर्शनमिव श्रवणं मङ्गलायापि कल्पत इति मन्तव्यम् । शब्दसंदेहनिमित्तमर्थसंदेहमपनयति-योगः समाधिरिति । “युज समाधौ " [ धा० पा० ४ ] इत्यस्माद्व्युत्पन्नः समाध्यर्थो न तु " युजिर्योगे" [ धा० पा० ७ ] इत्यस्मात्संयोगार्थ इत्यर्थः । ननु समाधिरपि वक्ष्यमाणस्याङ्गिनो योगस्याङ्गम् । न चाङ्गमेवाङ्गीत्यत आह- स च सार्वभौमः। चस्त्वर्थोऽङ्गादङ्गिनं भिनत्ति । भूमयोऽवस्था वक्ष्यमाणा मधुमती मधुप्रतीका विशोका संस्कारशेषास्ताश्चित्तस्य, तासु सर्वासु विदितः सार्वभौमश्चित्तवृत्तिनिरोधलक्षणो योगः । तदङ्गं तु समाधिर्नैवंभूतः । व्युत्पत्तिनिमित्तमात्राभिधानं चैतद्योगः समाधिरिति । अङ्गाङ्गिनोरभेदविवक्षामात्रेण प्रवृत्तिनिमित्तं तु योगशब्दस्य चितवृत्तिनिरोध एवेति परमार्थः । वृत्तयो ज्ञानान्यात्माश्रयाण्यतस्तन्निरोधोऽप्यात्माश्रय एवेति ये पश्यन्ति तन्निरासायाऽऽह---चित्तस्य धर्म इति । चित्तशब्देनान्तःकरणं बुद्धिमुपलक्षयति । न हि कूटस्थनित्या चितिशक्तिरपरिणामिनी ज्ञानधर्मा भवितुमर्हति बुद्धिस्तु भवेदिति भावः । स्यादेतत्सार्वभौमश्चेद्योगो हन्त भोः क्षितमूढविक्षिप्ता अपि चितभूमयः । अस्ति च परस्परापेक्षया वृत्तिनिरोधोऽप्यास्विति तत्रापि योगत्वप्रसङ्ग इत्याशङ्कय हेयोपादेयभूमीरुपन्यस्यति-

क्षिप्त मूढं विक्षिप्तमेकाग्रं निरुद्धमिति चित्त[५]भूमयः[६] । तत्र
विक्षिप्ते चेतसि विक्षेपोपसर्जनीभूतः समाधिर्न योगपक्षे वर्तते ।

 यस्त्वेकाग्रे चेतसि सद्भूतमर्थं प्रद्योतयति[७] क्षिणोति च क्लेशाकर्मवन्धनानि श्लथयति निरोधमभिमुखं करोति स संप्र-


क्षिप्तमित्यादि । क्षिप्तं सदैव रजसा तेषु तेषु विषयेषु क्षिप्यमाणमत्यन्तमस्थिरम् । मूढं तु तमःसमुद्रेकान्निद्रावृत्तिमत् । क्षिप्ताद्विशिष्टं विक्षिप्तम् । विशेषोऽस्थेमबहुलस्य कादाचिकः स्थेमा । सा चास्यास्थेमबहुलता सांसिद्धिकी वा वक्ष्यमाणव्याधिस्त्यानाद्यन्त रायजनिता वा । एकाग्रमेकतानम् । निरुद्धसकलवत्तिकं संस्कारमात्रशेषं चित्तं निरुद्धम् । तत्र क्षिप्तमृढयोः सत्यपि परस्परापेक्षया वृत्तिनिरोधे पारम्पर्येणापि नि.श्रेयसहेतुभावाभावात्तदुपघातकत्वाच्च योगपक्षादृूरोत्सारितत्वमिति न तयोर्योगत्वं निषिद्धम् । विक्षिप्तस्य तु कादाचित्कसद्भूतविषयस्थेमशालिनः संभाव्येत योगत्वमिति निषेधति । तत्र विक्षिप्ते चेतसि समाधिः कादाचित्कसद्भूतविषय[८]स्य चित्तस्य स्थेमा न योगपक्षे वर्तते । कस्मात् । यतस्तद्विपक्षविक्षेपोपसर्जनीभूतः । विपक्षवर्गान्तर्गतस्य हि स्वरूपमेव दुर्लभं प्रागेव कार्य[९]करणं न खलु दहनान्तर्गतं बीजं त्रिचतुरक्षणवस्थितमुप्तमप्यङ्कुराय कल्पत इति भावः ।

 यदि विक्षेपोपसर्जनीभृतः समाधिर्न योगः कस्तर्हीत्यत आह-यस्त्वेकाग्रे चेतसीति । भूतमिति समारोपितमर्थं निवर्तयति । निद्रावृत्तिरपि स्वालम्बने तमसि भूते भवत्येकाप्रेत्यत उक्तम्--सदिति । शोभनं नितान्ताविर्भूतं सत्वं तमःसमुद्रेकस्त्वशोभनस्तस्य क्लेशहेतुत्वादिति । द्योतनं हि तत्वज्ञानमागमाद्वाऽनुमानाद्वा भवदपि परोक्षरूपतया न साक्षात्कारवतीमविद्यामन्छिनत्ति द्विचन्द्रदिङ्म हादिष्वनुच्छेदकत्वादत आह--प्रेति । प्र[१०]कारो हि प्रकर्ष द्योतयन्साक्षात्कारं सूचयति । अविद्यामूलवादस्मितादीनां क्लेशानां, विद्यायाश्चाविद्योच्छेदरूपत्वाद्विद्योदये चाविद्यादिक्लेश समुच्छेदो विरोधित्वं त्कारणविनाशाचेत्ह--क्षिणोति चेति । अत एव कर्मरूपाणि बन्धनानि श्लथयति । कर्म चात्रापूर्वमभिमतकार्ये कारणोपचारात् । श्लथयति स्वकार्यादवसदयति । वक्ष्यति हि-- "सति मूले तद्विपाकः" (२११३] इति । किंच निरोधमभिमुखं करोत्यभिमुखी करति । स च संप्रज्ञातश्चतुष्प्रकार ज्ञातो योग इत्याख्यायते । स च वितर्कानुगतो विचारानुर्गत आनन्दानुगतोऽस्मितानुगत इत्युपरिष्टानिवेदयिष्यामः । सर्ववृ. त्तिनिरोधे त्वसंप्रज्ञातः समाधिः ॥१॥

 तस्य लक्षणाभिधित्सयेदं सूत्रं प्रववृते--

योगश्चित्तवृत्तिनिरोधः ॥२॥

 सर्वशब्दाग्रहणात्संप्रज्ञातोऽपि योग इत्याख्यायते । चित्तं हि प्रख्याप्रवृत्तिस्थितिशीलत्वात्त्रिगुणम् ।

 प्रख्यारूपं हि चित्तसत्त्वं रजस्तमोभ्यां संसृष्टमैश्वर्यविषय-


इत्याह- चेति । असंप्रज्ञातमाह-सर्ववृत्तीति । रजस्तमोमयी किल प्रमाणादि. वृत्तिः सात्त्विकी वृत्तिमुपादाय संप्रज्ञाते निरुद्धा । असंप्रज्ञाते तु सर्वासामेव निरोध इत्यर्थः । तदिह भूमिद्वये समाप्ता या मधुमत्यादयो भूमयस्ताः सर्वास्तासु विदितः सार्व- भौम इति सिद्धम् ॥ १॥ द्वितीयं सूत्रमवतारयति-तस्य लक्षणेति । तस्येति पूर्वसूत्रोपात्तं द्विविधं योगं परामृशति-योगश्चित्तवृत्तिनिरोधः । निरुध्यन्ते यस्मिन्प्रमाणादिवृत्तयोऽवस्थाविशेषे चित्तस्य सोऽवस्थाविशेषो योगः । ननु संप्रज्ञातस्य योगस्याव्यापकत्वादलक्षणमिदम् । अनिरुद्धा हि तत्र सात्विकी चित्तवृत्तिरित्यत आह ---सर्वशब्दाग्रहणादिति । यदि सर्व- चित्तवृत्तिनिरोध इत्युच्येत भवेदव्यापकं संप्रज्ञातस्य । क्लेशकर्मविपाकाशयपरिपन्थी चित्तवृत्तिनिरोधस्तु तमपि संगृह्णाति । तत्रापि राजसतामसचित्तवृत्तिनिरोधात्तस्य च तद्भावादित्यर्थः । कुतः पुनरेकस्य चित्तस्य क्षिप्तादिभूमिसंबन्धः किमर्थं चैवमवस्थस्य चित्तस्य वृत्तयो निरोद्धव्या इत्याशङ्कय प्रथमं तावदवस्थासंबन्धे हेतुमुपन्यस्यति-चित्तं हीति । प्रख्याशीलत्वात्सत्त्वगुणम् । प्रवृत्तिशीलत्वाद्रजोगुणम् । स्थितिशीलत्यात्तमोगुणम् । प्रख्या ग्रहणमुपलक्षणार्थम् । तेनान्येऽपि सात्त्विकाः प्रसादलाधवप्रीत्यादयः सूच्यन्ते । प्रवृत्त्या च परितापशोकादया राजसाः । प्रवृत्तिविरोधी तमोवृत्तिवर्गःस्थितिः । स्थितिग्रहणागौरवावर- णदैन्यादय उपलक्ष्यन्ते । एतदुक्तं भवति--एकमपि चित्तं त्रिगुणनिर्मिततया गुणानां च वैषम्येण परस्पर विमर्दवैचित्र्याद्विचित्रपरिणामं सदनेकावस्थमुपपद्यत इति । क्षिप्ताद्या एव चित्तस्य भूभौर्यथासंभवमयान्तरावयाभेदवतीरादर्शयति-प्रख्या- रूपं हीति । चित्तरूपेण परिणतं सत्त्वं चित्तसत्त्वम् । तदेवं प्रख्या- रूपतया सत्त्वप्राधान्यं चित्तस्य दर्शितम् । तत्र चित्ते सत्त्वास्किंचिद्ने रज- १ ग. घ. ड. च. 'टात्यवे । २ ख. वर्तते ।  प्रियं भवति । तदेव तमसाऽनुविद्धमधर्माज्ञानावैराग्यानैश्वर्यो- पगं भवति । तदेव प्रक्षीणमोहावरणं सर्वतः प्रद्योतमानयनुविद्धं रजोमात्रया धर्मज्ञानवैराग्यैश्वर्योपगं भवति ।  तदेव रजोलेशमलापेतं स्वरूपप्रतिष्ठं सत्त्वपुरुषान्यता- ख्यातिमात्रं धर्ममेघध्यानोपगं भवति । तत्परं प्रसंख्या-


स्तमसी यदा मिथः समे च भवतस्तदैश्वयं च विषयाश्च शब्दादयस्तान्येव प्रियाणि यस्य तत्तथोक्तम् । सत्त्वप्राधान्यात्खलु चित्तं तत्त्वे प्रणिधित्सदपि तत्वस्य तमसा पिहितत्वादणिमादिकमैश्वर्थमेव तत्त्वमभिमन्यमानं तत्प्रणिधित्सति प्रणिधत्ते च क्षणम् । अथ रजसा क्षिप्यमाणं तत्राप्यलब्धस्थिति तत्प्रियमात्रं भवति । शब्दा- दिषु पुनरस्य स्वरसवाही प्रेमा निरूढ एव । तदनेन विक्षिप्तं चित्तमुक्तम् । क्षिप्तं चित्तं दर्शयन्मूढमपि सूचयति-तदेव तमसेति । यदा हि तमो रजो विजित्य प्रसृतं तदा चित्तसत्त्वावरकतमःसमुत्सारणेऽशक्तत्वाद्रजसस्तमःस्थगितं चित्तमधर्माद्युपगच्छति । अज्ञानं च विपर्ययज्ञानम् । अभावप्रत्ययालम्बनं च निद्राज्ञानमुक्तम् । ततश्च मूढावस्थाऽपि सूचितेति । अनैश्वर्य सर्वत्रेच्छापतघातः । अधर्मादिव्याप्तं चित्तं भवतीत्यर्थः । यदा तु तदेव चित्तसत्त्वमावि तसत्त्वमपगततमःपटलं सरजस्कं भवति तदा धर्मज्ञानवैराग्यैश्वर्या- प्युपगच्छतीत्याह-प्रक्षीणेत्यादि । मोहस्तमस्तदेव चाऽऽवरणं प्रकर्षण क्षीणं यस्य तत्तथोक्तम् । अत एव सर्वतो विशेषाविशेषलिङ्गमात्रालिङ्गपुरुषेषु प्रद्योतमानम् । तथाऽपि न धर्मायैश्वर्याय च कल्पते प्रवृत्त्यभावादित्यत आह----अनुविद्धं रजोमात्रया । रजसः प्रवर्तकत्वादस्ति धर्मादिप्रवृत्तिरित्यर्थः । तदनेन संप्रज्ञातसमाधिसंपन्नयोर्मधुभूमिकप्रज्ञाज्यो. तिपोर्मध्यमयोयोगिनोश्चित्तसत्वं संगृहीतम् ।  संप्रत्यतिक्रान्तभावनीयस्य ध्यायिनश्चतुर्थस्य चित्तावस्थामाह--तदेव चित्तं रजोले- शान्मलादपेतमत एव स्वरूपप्रतिष्ठम् । अभ्यासवैराग्यपुटपाकप्रबन्धविधूतरजस्तमोमलस्य हि बुद्धिसत्त्वतपनीयस्य स्वरूपप्रतिष्ठस्य विषयेन्द्रियप्रत्याहृतस्यानवसिताधिकारतया च कार्य- कारिणो विवेकख्यातिः परं कार्यमवशिष्यत इत्याह-सत्त्वपुरुषान्यताख्यातिमात्र चित्तं धर्ममेघध्यानोपगं भेकति । धर्ममेघश्च वक्ष्यते । अत्रैव योगिजनप्रसिद्धिमाह --~- तदिति । सत्त्वपुरुषान्यताख्यातिमात्रं चित्तं धर्ममेघपर्यन्तं परं प्रसंख्यानमित्याचक्षते ध्यायिनः । चित्तसामानाधिकरण्यं च धर्मधामणोरभेदविवक्षया द्रष्टव्यम् । विवेकख्याते.

१ क. "तिविशेषात्तत्मि। २ क. ज. झ. विरि । ३ ख. ग. "तिष्ठायां वि ।
[१ समाधिपादे]
वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि-
       नमित्याचक्षते ध्यायिनः । चितिशक्तिरपरिणामिन्यप्रतिसंक्रमा
      दर्शितविषया शुद्धा चानन्ता च सत्त्वगुणात्मिका चेयमतो
      विपरीता विवेकख्यातिरिति । अतस्तस्यां विरक्तं चित्तं
      तामापि ख्याति निरुणद्धि । तदवस्थं संस्कारोपगं भवति । स .
      निर्मजः समाधिः । न तत्र किंचित्संप्रज्ञायत इत्यसंप्रज्ञातः ।
      द्विविधः स योगश्चित्तवृत्तिनिरोध इति ॥२॥

  हनिहेतुं चितिशक्तेश्चोपादानहेतुं निरोधसमाधिमवतारयितुं चितिशक्तेः साधुतामसाधुतां च
  विवेकल्यातेर्दर्शयति--चितिशक्तिरित्यादि । सुखदुःखमोहात्मकत्वमशुद्धिः । सुखमो-
  हावपि हि विवेकिनं दुःखाकुरुतः । अतो दुःखबद्धेयौ । तथा चातिसुन्दरमप्यन्तवडुनोति।
  तेन तदपि हेयमेव विवेकिनः । सेयमशुद्धिरन्तश्च चितिशक्तौ पुरुषे न स्त इत्युक्तम्---
  शुद्धा चानन्ता चेति । ननु सुखदुःखमोहात्मकशब्दादीनियं चेतयमाना तदाकारापन्ना
  कथं विशद्धा तदाकारपरिग्रहपरिवर्जने च कुर्वती कथमनन्तेत्यतः उक्तम्--दर्शितविष-
  येति । दर्शितो विषयः शब्दादिर्यस्यै सा तथोक्ता । भवेदेतदेवं यदि बुद्धिवञ्चितिशक्ति-
  विषयाकारतामापयेत, किंतु बुद्धिरेव विषयाकारेण परिणता सत्यतदाकारायै चितिशक्त्यै
  विषयमादर्शयति । ततः पुरुषश्चेतयत इत्युच्यते । ननु विषयाकारां बुद्धिमनारूढायाश्चितिशक्तः
  कथं विषयवेदनं विपयारोहे वा कथं न तदाकारापत्तिरियत उक्तम्--अतिसंक्रमेति ।
  प्रतिसंक्रमः संचारः। स चितेर्नास्तीत्यर्थः । स एव कुतोऽस्या नास्तीयत उक्तम्--अपरि-
  णामिनीति । न चितेत्रिविधोऽपि धर्मलक्षणावस्थालक्षणः परिणामोऽस्ति । येन क्रिया.
  रूपेण परिणता सती बद्धिसंयोगेन परिणमेत चितिशक्तिः । असंक्रान्ताया अपि विष.
  यसंवेदनमुपपादयिष्यते । तत्सिद्धं चितिशक्तिः शोभनेति । विवेकख्यातिस्तु बुद्धिसत्त्वा-
  स्मिकाऽशोभनेत्युक्तम्-- अतश्चितिशक्तेविपरीतेति । यदा च विवेकख्यातिरपि हेया
  तदा कैव कथा वृत्त्यन्तराणां दोषबहुलानामिति भावः । ततस्तद्धेतोनिरोधसमाधेरवतारो
  युज्यत इत्याह---अतस्तस्यामिति । ज्ञानप्रसादमात्रेण हि परेण वैराग्येण विवेकल्या-
  तिमपि निरुणद्धीत्यर्थः । अथ निरुद्ध शेषवृत्ति चित्तं कीदृशमित्यत आह--तदवस्थ.
  मित्यादि ।' स निरोधोऽवस्था यस्य तत्तथोक्तम् । निरोधस्य स्वरूपमाह--'स निर्बीज
  इति । क्लेशसहितः कर्माशयो जात्यायुर्भोगबीजं तस्मानिर्गत इति निर्बीजः । अस्यैव
  योगिजनप्रसिद्धामन्यर्थसंज्ञामादर्शयति--न तत्रेति । उपसंहरति--द्विविधः स योग-
  चित्तत्तिनिरोध इति ॥ २॥  सदबस्थे चेतसि विषयाभावाबुद्धिबोधात्मा पुरुषः किंस्त्र-

भाव इति--

तदा द्रष्टुः स्वरूपेऽवस्थानम् ॥ ३ ॥

 स्वरूपप्रतिष्ठा तदानीम् चितिशक्तिर्यथा कैवल्ये । व्युत्थानचित्ते तु सति तथाsपि भवन्ती न तथा ॥ ३॥ कथं तर्हि, दर्शितविषयत्वात्-

वृत्तिसारूप्यमितरत्र ॥ ४॥ ·

 __ संप्रत्युत्तरसूत्रमवतारयितुं चोदयति-तदवस्थे चेतसीति । किमाक्षेपे । तत्तदाकारप- रिणतबुद्धिबोधात्मा खल्वयं पुरुषः सदाऽनुभूयते न तु बुद्धिबोधरहितोऽतोऽस्य पुरुषस्य बुद्धिबोधः स्वभावः सवितरिव प्रकाशः । न च संस्कारशेष चेतसि सोऽस्ति । न च स्वभावमपहाय भावो वर्तितुमर्हतीति भावः । स्यादेतत् । संस्कारशेषामपि बुद्धिं कस्मा. त्पुरुषो न बुध्यत इत्यत आह --विषयाभावादिति । न बुद्धिमात्रं पुरुषस्य विषयोऽपि तु पुरुषार्थवती बुद्धिः । विवेकख्यातिविषयभोगौ च पुरुषार्थों । तो च निरुद्धावस्थायां न स्त इति सिद्धो विषयाभाव इत्यर्थः । सूत्रेण परिहरति--तदा द्रष्टुः स्वरूपेऽवस्थानम् । स्वरूप इत्यारोपितं शान्तधोरमूढस्वरूपं निवर्तयति । पुरुषस्य हि चैतन्यं स्वरूपमनौ- पाधिकं न तु वुद्धिबोधः शान्तादिरूप औपाधिको हि स स्फटिकस्येव स्वभावस्वच्छधव- लस्य जपाकुसुमसंनिधानोपाधिररुणिमा । न चोपाधिनिवृत्तावुरपितनिवृत्तिरतिप्रसङ्गादिति भावः । स्वरूपस्य चाभेदेऽपि भेदं विकल्प्याधिकरणभाव उक्त इति । अयमेवार्थो भाष्यकृता द्योत्यते-स्वरूपप्रतिष्ठेति । तदानीं निरोधावस्थायां न व्युत्थानावस्थाया- मिति भावः । स्यादेतद्युत्थानावस्थायामप्रतिष्ठिता स्वरूपे चितिशक्तिनिरोधावस्थायां प्रतितिष्ठन्ती परिणामिनी स्यात् । व्युत्थाने वा स्वरूपप्रतिष्ठाने व्युःथाननिरोधयोरविशेष इत्यत आह --व्युत्थानचित्ते स्विति । न जातु कूटस्थनित्या चितिशक्तिः स्वरूपा- च्च्यवते तेन यथा निरोधे सथैव व्युत्थानेऽपि । न खलु शुक्तिकायाः प्रमाणविपर्ययज्ञान- गोचरत्वेऽपि स्वरूपोदयव्ययौ भवतः । प्रतिपत्ता तु तथाभूतमप्यतथात्वेनाभिमन्यते । निरोधसमाधिमपेक्ष्य संप्रज्ञातोऽपि व्युत्थानमेवेति ॥ ३ ॥ __ सूत्रान्तरमवतारयितुं पृच्छति--कथं तहीति । यदि तथा भवन्ती न तथा केन तर्हि प्रकारेण प्रकाशत इत्यर्थः । हेतुपदमध्याहृत्य सूत्रं पठति-दर्शितविषयत्वात्ति- सारूप्यमितरत्र । इतरत्र व्युत्थाने याश्चित्तवृत्तयः शान्तघोरमूढास्ता एवाविशिष्टा

१ ख. ज. रयंश्वोइ । २ ख. ज. °थाऽपि भ ।

वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि- [ १ समाधिपादे- व्युत्थाने याश्चित्तवृत्तयस्तदविशिष्टवृत्तिः पुरुषः । तथा च सूत्रम्-' एकमेव दर्शनं ख्यातिरेव दशेनम् । इति । चित्तम- यस्कान्तमणिकल्पं संनिधिमात्रोपकारि दृश्यत्वेन स्वं भवति

 अभिधा वृत्तयो यस्य पुरुषस्य स तथोक्तः । सारूप्यमित्यत्र सशब्द एकपर्यायः । एतदुक्तं भवति--जपाकुसुमस्फटिकयोरिव बुद्धिपुरुषयोः संनिधानादभेदग्रहे बुद्धिवृत्तीः पुरुषे समारोप्य शान्तोऽस्मि दुःखितोऽस्मि मूढोऽस्मीत्यध्यवस्यति । यथा मलिने दर्पणतले प्रतिबिम्बितं मुखं मलिनमारोप्य शोचत्यात्मानं मलिनोऽस्मीति । यद्यपि पुरुषसमारोपोऽपि शब्दादिविज्ञानवबुद्धिवृत्तिर्यद्यपि च प्राकृतत्वेनाचिद्रूपतयाऽनुभाव्यातथाऽपि बुद्धेः पुरुषत्वमापादयन्पुरुषवृत्तिरिवानुभव इवावभासते । तथा चायमविपर्ययोऽप्यात्मा विपर्यय- वानिवाभोक्ताऽपि भोक्तेव विवेकख्यातिरहितोऽपि तत्सहित इव विवेकख्यात्या प्रकाशते । एतच्च "चितेरप्रतिसंक्रमायास्तदाकारापत्तौ स्वबुद्धिसंवेदनम्" [४।२२ ] इत्यत्र "सत्त्व. पुरुषयोरत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोगः” [३।३५] इत्यत्र चेपपादयिष्यते । एतच्च मतान्तरेऽपि सिद्धमित्याह-तथा चेति । पञ्चशिखाचार्यस्य सूत्रम् " एकमेव दर्शनं ख्यातिरेव दर्शनम् " इति । ननु कथमेकं दर्शनं यावता बुद्धेः शब्दादिविषया विवेक- विषया च वृत्तिः प्राकृततया जडत्वेनानुभाव्या दर्शनं ततोऽन्यत्पुरुषस्य चैतन्यमनुभवौो दर्शनमित्यत आह-ख्यातिरेव दर्शनमिति । उदपव्ययधर्मिणी वृत्तिं ख्यातिं लौकिकी- मभिप्रेत्यैतदुक्तम्-एकमेवेति । चैतन्यं तु पुरुषस्य स्वभावो न ख्यातेः । तत्तु न लोक- प्रत्यक्षगोचरोऽपि त्यागमानुमानगोचर इत्यर्थः । तदनेन व्युत्थानावस्थायां मूलकारणमविद्यां दर्शयता तद्धेतुकः संयोगो भोगहेतुः स्वस्वामिभावोऽपि सूचित इति तमुपपादयन्न ह- चित्तं स्वं भवति पुरुषस्य स्वामिन इति संबन्धः । ननु चित्तजनितमुपकारं भजमानो हि चेतनश्चित्तस्येशिता । न चास्य तज्जनितोपकारसंभवस्तदसंबन्धादनुपकार्यत्वात्तत्संयोग. तदुपकारभागित्वे परिणामप्रसङ्गादित्यत आह-अयस्कान्तमणिकल्पं संनिधिमात्रोप- कारि दृश्यत्वेनेति । न पुरुषसंयुक्तं चित्तमपि तु तत्संनिहितम् । संनिधिश्च पुरुषस्य न देशतः कालतो वा तदसंयोगास्किंतु योग्यतालक्षणः । अस्ति च पुरुषस्य भोक्तशक्तिश्चित्तस्य भोगशक्तिः । तदुक्तम्-दृश्यत्वेनेति । शब्दाद्याकारपरिणतस्य भोग्यत्वेनेत्यर्थः । भोगश्च यद्यपि शब्दाद्याकारा वृत्तिश्चित्तस्य धर्मस्तथाऽपि चित्तचैतन्ययोरभेदसमारोपावृत्तिसारूप्या- त्पुरुषस्येत्युक्तम् । तस्माचित्तेनासंयोगेऽपि तजनितोपकारभागिता पुरुषस्यापरिणामिता १ ज. ख्यातेरन्यत् । त° । झ. ख्यातिः । त । २ ख. तेः । चैतन्यं तु न । पुरुषस्य स्वामिनः । तस्माञ्चित्तवृत्तिबोधे पुरुषस्यानादिः संवन्धो हेतुः ॥ ४ ॥ ताः पुननिरोद्धव्या बहुत्वे सति चित्तस्य----

वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः ॥ ५॥

क्लेशहेतुकाः कर्माशयमचये क्षेत्रीभूताः क्लिष्टाः। . ख्यातिविषया गुणाधिकारविरोधिन्योऽक्लिष्टाः ।


चेति सिद्धम् । गनु स्वस्वामिसंबन्धो भोगहेतुरविद्यानिमित्तोऽविद्या तु किंनिमित्तान खल्लनिमित्तं कार्यमुत्पद्यते । यथाऽऽहु:---

___

स्वप्नादिवदविद्यायाः प्रवृत्तिस्तस्य किंकृता "।

इति शङ्कामुपसंहारम्याजेनोद्धरति----तस्माचित्तवृत्तिबोधे शान्तधोरमुढाकारचि. त्तवृत्युपभोगेऽनाद्यविद्यानिमित्तत्वादनादिः संयोगो हेतुरविद्यावासनयोश्च संतानो बीजा- करसंतानवदनादिरति भावः ॥ ४॥  स्यादेतत्पुरुषो हि शक्य उपदिश्यते । न च वृत्तिनिरोधो वृत्तीरविज्ञाय शक्यः । न च सहस्त्रेणापि पुरुषायुपौलमिमाः कश्चित्परिगणयितुम् । असंख्याताश्च कथं निरोद्धव्या इत्याशङ्कय तासामियत्तास्वरूपप्रतिपादनपरं सूत्रमवत्तारयति---ताः पुनर्निरोद्धव्या बहुत्वे सति चित्तस्य-वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः । क्तिरूपोऽवयव्येकस्तस्य प्रमाणादयोऽवयवाः पञ्च । ततस्तदवयवा पञ्चतयी पञ्चाययवा वृत्तिर्भवति । ताश्च वृत्तय- चैत्रमैत्रादिचित्तभेदाह्वय इति बहुवचनमुपपन्नम् । एतदुक्तं भवति-चैत्रो वा मैत्री वाऽन्यो वा कश्चित्सर्वेषामेव तेपो वृत्तयः पञ्चतय्य एवं नाधिका इति । चित्तस्येति चैकब- चनं जात्यभिप्रायम् । चित्तानामिति तु द्रष्टव्यम् । तासामवान्तरविशेषमनुष्ठानोपयोगिनं दर्शयति---क्लिष्टाक्लिष्टा इति । अक्लेिष्ठा उपादाय क्लिा निरोद्धव्यास्ता अपि परेश चैराग्येणेति । अस्य व्याख्यानं--क्लेशहेतुका इति । क्लेशा अस्मितादयो हेतवः प्रवृत्ति- कारणं यासां वृत्तीनां तास्तथोक्ताः । यद्वा पुरुषार्थप्रधानस्य रजस्तमोमयीनां हि वृत्तीना क्लेशकारणत्वेन क्लेशायव प्रवृत्तिः । क्लेशः क्लिष्टं तदासामस्तीति लिष्टा इति । यत एवं क्लेशोपार्जनार्थममूपां मवृत्तिरत एवं कर्माशयप्रचये क्षेत्रीभूताः । प्रमाणादिना खल्वयं प्रति. पत्ताऽर्थमवसाय तत्र सक्तो द्विष्ठो वा कर्माशयमाचिनोतीति भवन्ति धर्मधर्मप्रचयप्रसत्रभू. मयो वृत्तयः लिष्ठा इति ।  अक्लिष्टा ब्याचष्टे----ख्यातिविषया इति । विधुतरजस्तमसो बुद्धिसत्वस्य पशान्त. वाहिनः प्रज्ञाप्रसादः ख्यातिस्तया विषयिण्मा तद्विषयं सत्वपुरुषविवेकमुपलक्षयति । तेन

१ ख. छ. 'या अति ।

[१ समाधिपादे-
क्लिष्टप्रवाहपतिता अप्यक्लिष्टाः । क्लिष्टच्छिद्रेष्वष्यक्लिष्टा भवन्ति ।
अक्लिष्टच्छिद्रेषु क्लिष्टा इति । तथाजातीयकाः संस्कारा वृत्तिभिरेव
क्रियन्ते। संस्कारैश्च वृत्तय इति । एवं वृत्तिसंस्कारचक्रमनिशमाव-
र्तते। तदेवंभूतं चित्तमवसिताधिकारमात्मकल्पेन व्यवतिष्ठते प्रलयं
वा गच्छतीति । ताः क्लिष्टाश्वाक्लिष्टाश्च पञ्चधा वृत्तयः॥ ५॥
प्रमाणविपर्ययविकल्पनिद्रास्मृतयः ॥६॥
प्रत्यक्षानुमानागमाः प्रमाणानि ॥ ७ ॥

सत्त्वपुरुषविवेकविषया यतोऽत एव गुणाधिकारविरोधिन्यः । कार्यारम्भणं हि गुणानाम- धिकारो विवेकख्यातिपर्यवसानं च तदिति चरिताधिकाराणां गुणानामधिकार वीिरुन्धन्तीति । अतस्ता अक्लिष्टाः प्रमाणप्रभृतयो वृत्तयः । स्यादेतद्वीतरागजन्मादर्शनात्क्लिष्टवृत्तय एव सर्व प्राणभृतः । न च क्लिष्टवृत्तिप्रवाहे भवितुमर्हन्त्यक्लिष्टा वृत्तयो न चामूषां भावेऽपि कार्यकारिता विरोधिमध्यपातिवात्तस्मादिक्लष्टानामक्लिष्टाभिनिरोधस्तासां च वैरा- ग्यण परणेति मनोरथमात्रमित्यत आह-क्लिष्टप्रवाहेति । आगमानुमानाचार्योपदेशपरि- शीलनलब्धजन्मनी अभ्यासवैराग्ये क्लिष्टच्छिद्रमन्तरा तत्र पतिताः स्वयमक्लिष्टा एव यद्यपि क्लिष्टप्रवाहपतिताः । न खलु शालग्रामे किरातशतसंकीर्णे प्रतिवसन्नपि ब्राह्मणः किरातो भवति । अक्लिष्टच्छिद्रेष्विति निदर्शनम् । क्लिष्टान्तरवर्तितया च क्लिष्टाभिरनभिभूता अक्लिष्टाः । स्वसंस्कारपरिपाकक्रमेण क्लिष्टा एव तावदभिभवन्तीत्याह---तथाजातीयका इति । अक्लिष्टाभिर्वृत्तिभिरक्लिष्टाः संस्कारा इत्यर्थः । तदिदं वृत्तिसंस्कारचक्रमनिशमावर्तते, आ निरोधसमाधेः । तदेवंभूतं चितं निरोधावस्थं संस्कारशेषं भूत्याऽऽमकल्पेनावतिष्ठत इत्यापाततः प्रलयं वा गच्छतीति परमार्थतः । पिण्डीकृत्य सूत्रार्थमाह---ता इति । पञ्चधेत्यर्थकथनमात्रं न तु शब्दवृत्तिव्याख्यानम् । तयपः प्रकारेऽस्मरणात् ॥ ५ ॥ ताः स्वसंज्ञाभिरुद्दिशति-प्रमाणविपर्यविकल्पनिद्रास्मृतयः । निर्देशे यथावचनं विग्रहश्वार्थे द्वंद्वः समास इतरेतरयोगे । यथा-अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या [ २।५ ] इत्युक्तेऽपि न दिड्योहालातचक्र दिविभ्रमा व्युदस्यन्त एवमिहापि प्रमाणाद्यभिधानेऽपि वृत्त्यन्तरसद्भावशङ्का न व्युदस्यतेति तन्निरासाय वक्तव्यं पञ्च तथ्य इति । एतावत्य एव वृत्तयो नापराः सन्तीति दर्शितं भवति ॥ ६॥ तत्र प्रमाणवृत्तिं विभजन्सामान्यलक्षणमाह-प्रत्यक्षानुमानागमाः प्रमाणानि । अन- १ ग. घ. इ. च. छ. यः ॥ ५॥ तत्र-। सू० ६-७] पातञ्जलयोगसूत्राणि। इन्द्रियप्रणालिकया चित्तस्य बाह्यवस्तूपरागातद्विपया सामा- न्यविशेषात्मनोऽर्थस्य विशेषावधारणप्रधाना वृत्तिः प्रत्यक्षं प्रमाणम् । फलमविशिष्टः पौरुषेयश्चित्तवृत्तिबोधः । प्रतिसंवेदी पुरुष इत्युपरिष्टादुपपादयिष्यामः। ___ अनुमेयस्य तुल्यजातीयेष्वनुवृत्तो भिन्नजातीयेभ्यो व्यावृत्तः संवन्धो यस्तद्विषया सामान्यावधारणप्रधाना वृत्तिरनुमानम् । धिगततत्त्वबोधः पौरुषेयो व्यवहारहेतुः प्रमा । तत्करणं प्रमाणम् । विभागवचनं चः न्यूनाधिकसंख्याव्यवच्छेदार्थम् । तत्र सकलप्रमाणमूलत्वात्प्रथमतः प्रत्यक्षं लक्षयति--- इन्द्रियेति । अर्थस्येति समारोपितत्वं निषेधति । तद्विषयेति बाह्यगोचरतया ज्ञाना. कारगोचरत्वं निवारयति । चित्तवर्तिनो ज्ञानाकारस्य वाह्यज्ञेयसंबन्धं दर्शयति- वाह्यवस्तूपरागादिति । व्यवहितस्य तदुपरागे हेतुमाह-इन्द्रियप्रणालिकयेति । सामान्यमात्रमर्थ इत्येके । विशेषा एवेत्यन्ये । सामान्यविशेषतद्वत्तेत्यपरे वादिनः प्रतिप. न्नास्तन्निरासायाऽऽह- सामान्यविशेषात्मन इति । न तद्वत्ता किं तु तादात्म्यमर्थस्य । एतच्चैकान्तानभ्युपगम इत्यत्र प्रतिपादयिष्यते । अनुमानागमविषयात्प्रत्यक्षविषयं व्यवच्छि- नत्ति-विशेषावधारणप्रधानेति । यद्यपि सामान्यमपि प्रत्यक्षे प्रतिभासते तथाऽपि. विशेषं प्रत्युपसर्जनीभूतमित्यर्थः । एतच्च साक्षात्कारोपलक्षणपरम् । तथा च विवेकख्याति- रपि लक्षिता भवति । फलविप्रतिपत्तिं निराकरोति-फलं पौरुषेयश्चित्तवृत्तिबोध इति । ननु पुरुषवर्ती बोधः कथं चित्तगताया वृत्तेः फलम् । न हि खदिरगोचरव्यापारेण पस्शुना पलाशे छिदा क्रियत इत्यत आह-अविशिष्ट इति । न हि पुरुषगतो बोधो जन्यते, अपि तु चैतन्यमेव बुद्धिदर्पणप्रतिबिम्बितं बुद्धिवृत्याऽर्थाकारया तदाकारतामापद्यमानं. फलम् । तच्च तथाभूतं बुद्धरविशिष्टं बुद्धयात्मकं, वृत्तिश्च बुद्धयात्मिकेति. सामानाधिकर- ण्याद्युक्तः प्रमाणफलभाव इत्यर्थः । एतच्चोपपादयिष्याम इत्याह-प्रतिसंवेदीति । प्रत्यक्षानन्तरं प्रवृत्यादिलिङ्गकश्रोतृबुद्धयनुमानप्रभवसंबन्धदर्शनसमुत्थतयाऽऽगमस्थानुमा- नजत्वादनुमितस्य चाऽऽगमेनान्वाख्यानादागमात्प्रागनुमानं लक्षयति-अनुमेयस्येति । जिज्ञासितधर्मविशिष्टो धर्म्यनुभेयस्तस्य तुल्यजातीयाः साध्यधर्मसामान्येन. समानार्थाः सप- क्षास्तेष्वनुवृत्त इत्यनेन विरुद्धत्वमसाधारणत्वं च साधनधर्मस्य निराकरोति । भिन्नजातीया असपक्षास्ते च. सपक्षादन्ये तद्विरुद्धास्तदभाववन्तश्च, तेभ्यो व्यावृत्तस्तदनेन साधारणानै- कान्तिकत्वमपाकरोति । संबध्यत इति संबन्धो लिङ्गमनेन पक्षधर्मतां दर्शयन्नसिद्धतां निवारयति । तद्विषया तन्निबन्धना, “पिञ् बन्धने, " [ धा-पा० ५ ] इत्यस्माद्विषयपद- व्युत्पत्तेः । सामान्यावधारणेति प्रत्यक्षविषयाद्वयवच्छिनत्ति । संबन्धसंवेदनाधीनजन्मानुमानं

        १२            वाचस्पतिकतटीकासंवलितव्यासभाष्यसमेतानि- [ १ समाधिपादे-
                   यथा देशान्तरमाप्तेर्गतिमञ्चन्द्रतारकं चैत्रवत् , विन्न्व्यश्चाप्तिर-
                   गतिः । आप्तेन दृष्टोऽनुमितो वाऽर्थः परत्र स्वबोधसंक्रान्तये शब्दे-
                   नोपदिश्यते, शब्दातदर्थविषया वृत्तिः श्रोतुरागमः । यस्याश्र-
                   देयार्थों वक्ता न दृष्टानुमितार्थः स आगमः प्लवते । मूलवक्तरि
                    तु दृष्टानुमितार्थे निर्विप्लवः स्यात् ॥ ७॥ 
                           विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् ॥ ८॥
        विशेषेषु संबन्धग्रहणाभावेन सामान्यमेव सुकरसंबन्धग्रहणं गोचरयतीति । उदाहरणमाह-
       यथेति । चौ हेत्वर्थे । विन्ध्योऽगतिर्यतस्तस्मात्तस्याप्राप्तिरतो गतिनिवृत्तौ प्राप्तेनिव्रत्तिदै.
       शान्तरप्राप्तेर्गतिमञ्चन्द्रतारकं चैत्रवदिति सिद्धम् । आगमस्य वृत्तेर्लक्षणमाह-आप्तेनेति।
       तत्त्वदर्शनकारुण्यकरणपाटवाभिसंबन्ध आप्तिस्तयों वर्तत इत्याप्तस्तेन दृष्टोऽनुमितो वाऽर्थः ।
       श्रुतस्य पृथगनुपादानं तस्य दृष्टानुमितमूलत्वेन ताभ्यामेव चरितार्थत्वादाप्तचित्तवर्तिज्ञानस-
       दृशस्य ज्ञानस्य श्रोतृचित्ते समुत्पादः स्वबोधप्तम्क्रान्तिस्तस्यै, अर्थ उपदिश्यते श्रोतृहिताहि.
       तपातिपरिहारोपायतया प्रज्ञाप्यते । शेषं सुगमम् । यस्याऽऽगमस्याश्रद्धेयार्थों वक्ता, यथा
       यान्येव दश दाडिमानि तानि षडपूपा भविष्यन्तीति । न दृष्टानुमिताओं यथा चैयं वन्देत
       स्वर्गकाम इति । स आगमः प्लवते । नन्वेवं मन्वादीनामप्यागमः प्लवेत । न हि तेऽपि
        दृष्टानुमितार्थाः । यथाऽऽहु:-
             यः कश्चित्कस्यचिद्धर्मो मनुना परिकीर्तितः ।
             स सर्वोऽभिहितो वेदे सर्वज्ञानमयो हि सः" ।
       इत्यत आह-मूलवक्तरि त्विति । मूलवक्ता हि तत्रेश्वरो दृष्टानुमितार्थ इत्यर्थः ॥७॥
       विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् । विपर्यय इति लक्ष्यनिर्देशः । मिथ्या-
       ज्ञानमित्यादि लक्षणम् । यज्ज्ञानप्रतिभासिरूपं, तद्रूपाप्रतिष्टमेवातद्रूपप्रतिष्ठम् । यथाऽ-
       श्राद्धभोजीति । अतः संशयोऽपि संगृहीतः । एतावाम्स्तु विशेषः-तत्र ज्ञानारू-
       दैवाप्रतिष्ठता द्विचन्द्रादेस्तु बाधज्ञानेन । नन्वेवं विकल्पोऽपि तद्रूपाप्रतिष्ठानाद्विचारतो
       विपर्ययः प्रसज्येतेत्यत आह--मिथ्याज्ञानमिति । अनेन हि सर्वजनीनानुभवसिद्धो
       बाध उक्तः । स चास्ति विपर्यये न तु विकल्पे, तेन व्यवहारात् । पण्डितरूपाणामेव
                              १ क. प. च. पार । २ क. 'या सहव। सू०८-९] पातञ्जलयोगसूत्राणि । '

स कस्मान्न प्रमाणम् । यतः प्रमाणेन बाध्यते । भूतार्थविषय- त्वात्प्रमाणस्य । तत्र प्रमाणेन बाधनमप्रमाणस्य दृष्टम् । तद्यथा-- द्विचन्द्रदर्शनं सद्विषयेणैकचन्द्रदर्शनेन बाध्यत इति । सेयं पञ्चपर्वा भवत्यविद्या, अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशा इति । एत एव स्वसंज्ञाभिस्तमो मोहो महामोहस्तामिस्रोऽ- न्धतामिस्र इति । एते चित्तमलप्रसङ्गेनाभिधास्यन्ते ॥ ८ ॥ शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ॥ ९ ॥ स न प्रमाणोपारोही । न विपर्ययोपारोही च । वस्तुशून्य- तु विचारयतां तत्र बाधबुद्धेरिति । चोदयति--स कस्मान्न प्रमाणम् । नोत्तरेणोपजा- तविरोधिना ज्ञानेन पूर्वं बाधनीयमपि तु पूर्वेणैव प्रथममुपजातेनानुपजातविरोधिना पर- मिति भावः । पारिहरति-यतः प्रमाणेनेति । यत्र हि पूर्वापेक्षा परोत्पत्तिस्तत्रैवमिह तु स्वकारणादन्योन्यानपेक्षे ज्ञाने जायते । तेनोत्तरस्य पूर्वमनुपमद्योदयमनासादयतस्तदप- बाधात्मैवोदयो न तु पूर्वस्योत्तरबाधात्मा, तस्य तदानीमप्रसक्तेः । तस्मादनुपजातविरोधिता बाध्यत्वे हेतुरुपजातविरोधिता च बाधकत्वे । तस्माद्भूतार्थविषयत्वात्प्रमाणेनाप्रमाणस्य बाधनं सिद्धम् । उदाहरणमाह-तत्र प्रमाणेनेति । ___ अस्य कुत्सितत्वं हानाय दर्शयति-सेयं पञ्चेति । अविद्यासामान्यमविद्यास्मितादिषु पञ्चसु पर्वस्वित्यर्थः । अव्यक्तमहदहंकारपञ्चतन्मात्रेष्वष्टस्वनात्मस्वात्मबुद्धिरविद्या तमः । एवं योगिनामष्टस्त्राणिमादिकेष्वैश्वर्येष्यश्रेयःसु श्रेयोबुद्धिरष्टविधो मोहः पूर्वस्माज्जघन्यः । स चास्मितोच्यते । यथा योगेनाष्टविधमैश्वर्यमुपादाय सिद्धो भूत्वा दृष्टानुश्रविकाञ्शब्दादी- न्दश विषयाभोक्ष्य इत्येवमास्मिका प्रतिपत्तिर्महामोहो रागः । एवमेतेनैवाभिसंधिना प्रवर्त- मानस्य केनचित्प्रतिबद्धत्वादणिमादीनामनुत्पत्तौ तन्निबन्धनस्य दृष्टानुश्रविकविषयोपभोग- स्यासिद्धेः प्रतिबन्धकविषयः क्रोधः स तामिस्राख्यो द्वेषः । एवमणिमादिगुणसंपत्तौ दृष्टानुश्रविकविषयपत्युपस्थाने च कल्पान्ते सर्वमेतन्नड्क्ष्यतीति यस्त्रासः सोऽभिनिवेशोऽ- न्धतामिस्रः। तदुक्तम्---" भेदस्तमसोऽष्टविधो मोहस्य च दशविधो महामोहः । तामिस्रोऽष्टादशधा तथा भवत्यन्धतामिस्रः" इति ॥ ८॥ शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः । ननु शब्दज्ञानानुपाती चेदागमप्रमा- णान्तरगतो विकल्पः प्रसज्येत निर्वस्तुकत्वे वा विपर्ययः स्यादित्यत आह–स नेति । न प्रमाणविपर्ययान्तर्गतः । कस्माद्यतो वस्तुशून्यत्वेऽपीति प्रमाणान्तर्गतिं निषेधति । १ ग, अत । २ क. ख. च. छ. ॰ही ।व° । ३ ज. ताऽत्र बा°। पादश्यत । . त्वेऽपि शब्दज्ञानमाहात्म्यनिबन्धनो व्यवहारो दृश्यते । तद्यथा- चैतन्यं पुरुषस्य स्वरूपमिति । यदा चितिरेव पुरुषस्तदा किमत्र केन व्यपदिश्यते । भवति च व्यपदेशे वृत्तिः । यथा चैत्रस्य गौरिति । तथा . प्रतिषिद्धवस्तुधर्मो निष्क्रियः पुरुषः, तिष्ठति बाणः स्थास्यति स्थित इति, गतिनिवृत्तौ धात्वर्थमात्रं गम्यते । तथाऽनुत्पत्तिधर्मा पुरुष इति उत्पत्तिधर्मस्याभावमात्रमवगम्यते न पुरुषान्वयी धर्मः। तस्माद्विकल्पितः स धर्मस्तेन चास्ति व्यवहार इति ॥ ९॥
शब्दज्ञानमाहाम्यनिबन्धन इति विपर्ययान्तर्गतिम् । एतदुक्तं भवति-क्वचिदभेदे भेदमारोपयति क्वचित्पुनर्भिन्नानामभेदम् । ततो भेदस्याभेदस्य च वस्तुनोऽभावात्तदाभासो विकल्पो न प्रमाणं नापि विपर्ययो. व्यवहाराविसंवादादिति । शास्त्रप्रसिद्धमुदाहरणमाह-तद्यथेति । किं विशेष्यं केन व्यपदिश्यते विशेष्यते नाभेदे विशेष्यविशेषणभावो न हि गवा गौर्विशेष्यते । किंतु भिन्नेनैव चैत्रेण । तदिदमाह-भवति च व्यपदेशे वृत्तिः । व्यपदेशव्यपेदश्ययोर्भावो व्यपदेशः । विशेषणविशेष्यभाव इति यावत् । तस्मिन्वृत्तिर्वाक्यस्य यथा चैत्रस्य गौरिति । शास्त्रीयमेवोदाह- रणान्तरं समुच्चिनोति-तथेति । प्रतिषिद्धो वस्तुनः पृथिव्यादेर्धर्मः परिस्पन्दो यस्य स तथोक्तः । कोऽसौ निष्क्रियः पुरुषः । न खलु सांख्यीये राद्धान्तेऽभावों नाम कश्चिदस्ति वस्तुधर्मो येन पुरुषो विशेष्येतेत्यर्थः । क्वचित्पाठ: प्रतिषिद्धा वस्तुधर्मा इति । तस्यार्थ:- प्रतिषेधव्याप्ताः प्रतिषिद्धा न वस्तुधर्माणां तद्वयाप्यता भावाभावयोरसंबन्धादय च तथा प्रतीतिरिति । लौकिकमुदाहरणमाह-तिष्ठति वाण इति । यथा हि पचति भिनत्तीत्यत्र पूर्वापरीभूतः कर्मक्षणप्रचय एफफलावच्छिन्नः प्रतीयत एवं तिष्ठतीत्यत्रापि । पूर्वापरीभावमेवाऽऽह-स्थास्यति स्थित इति.। ननु भवतु पाकवत्पूर्वापरीभूतयाऽवस्थानक्रियया बाणाद्भिन्नया बाणस्य व्यपदेश इत्यत आह-गतिनिवृत्तौ धात्वर्थमात्रं गम्यते। गतिनिवृत्तिरेव तावत्कल्पिता तस्या अपि भावरूपत्वं तत्रापि पूर्वापरीभाव इत्यहो कल्पनापरम्परेत्यर्थः । अभावः कल्पितो भाव इव चानुगत इव च सर्वपुरुषेषु गम्यते न पुनः पुरुषव्यतिरिक्तो धर्मः कश्चिदित्युदाहरणान्तरमाह-तथाऽनुत्पत्तिधर्मेति । प्रमाणविपर्ययाभ्यामन्या न विकल्पवृत्तिरिति वादिनो बहवः प्रतिपेदिरे । तत्प्रतिबोधनायोदाहरणप्रपञ्च इति मन्तव्यम् ॥ ९॥ १ ख. छ. चिदेव । २ झ, 'देश्यपपदेशकयो । अभावप्रत्ययालम्बना वृत्तिर्निदा ॥ १० ॥ सा च संप्रबोधे:प्रत्यवमर्शात्मत्ययविशेषः । कथं, सुखमह- मस्वाप्सम् । प्रसन्नं मे मनः प्रज्ञा मे विशारदी करोति । दुःख- महमस्वाप्सं त्यानं मे मनो भ्रमत्यनवस्थितम् । गाढं मूढोऽह- मस्वाप्सम् । गुरूणि मे गात्राणि । क्लान्त:मे चित्तम् । अलसं मुषितमिव तिष्ठतीति । सखल्वयं प्रबुद्धस्य प्रत्येवमर्शो न स्याद- सति प्रत्ययानुभवे तदाश्रिताः स्मृतयश्च तद्विषया न स्युः। तस्मात्मत्ययविशेषो निद्रा । सा च समाधावितरप्रत्ययवन्निरो-

द्धन्यति ॥ १०॥
 अभावप्रत्ययालम्बना वृत्तिर्निद्रा । अधिकृतं हि वृत्तिपदमनुवादकम् । प्रमाण-

विपर्ययविकल्पस्मतीनां वृत्तित्वं प्रति परीक्षकाणामविप्रतिपत्तेः । अतस्तदनूद्यते विशे. पविधानाय । निद्रायास्तु वृत्तिवे परीक्षकाणामस्ति विप्रतिपत्तिरिति वृत्तित्वं विधेयम् । न च प्रकृतमनुवादकं विधानाय कल्पत इति पुनर्वृत्तिग्रहणम् । जायस्वप्नवृत्तीनाम- भावस्तस्य प्रत्ययः कारणं बुद्धिसत्त्वाच्छादकं तमस्तदेवाऽऽलम्बनं विषयो यस्याः सा तथोक्ता वृत्तिनिद्रा । बुद्धिसत्त्वे हि त्रिगुणे यदा सत्वरजसी अभिभूय समस्तकरणाव- रकमाविरस्ति तमस्तदा बुद्धेविषयाकारपरिणामाभावादुद्भुततमोमयी बुद्धिमवबुध्यमानः पुरुषः सुपुप्तोऽन्तःसंज्ञ इत्युच्यते । कस्मात्पुनर्निरुद्धकैवल्ययोरिव वृत्यभाव एव न निद्रेत्यस आह—सा च संप्रबोधे प्रत्यवमर्शात्सोपपत्तिकात्स्मरणात्प्रत्ययविशेषः । कथं, यदा हि सत्त्वसचिवं तम आविरस्ति तदेदृशः प्रत्यवमर्शः सुप्तोत्थितस्य भवति सुखमहमस्त्राप्त प्रसन्नं मे मनः प्रज्ञां मे विशारदी करोति स्वच्छी करोतीति । यदा तु रजःसचित्र तम आविरस्ति तदेदृशः प्रत्यवमर्श इत्याह -दुःखमहमस्वाप्सं स्त्यान. मकर्मण्यं मे मनः कस्माद्यतो भ्रमत्यनवस्थितम् । नितान्ताभिभूतरजःसत्त्वे तमःसमु. लासे स्वापे प्रबुद्रस्य प्रत्यवमर्शमाह-गाढं मूढोऽहमस्वाप्सं गुरूणि मे गात्राणि क्लान्त मे चित्तमलसं मुषितमिव तिष्ठतीति । साध्यव्यतिरेके हेतुव्यतिरेकमाह- न खल्वयामिति । प्रबुद्धस्य प्रबुद्वमात्रस्य । तदाश्रिताश्चेति बोधकाले, प्रययानुभवे वृत्त्यभावकारणानुभव इत्यर्थः । ननु प्रमाणादयो व्युत्थानचिताधिकरगा निरुध्यन्तां समाधिमतिपक्षत्वान्निद्रायास्त्रेकाग्रतितुल्यायाः कथं समाधिप्रतिपक्षतेत्या आह -सा च समाधाविति । एकाप्रतुल्पाऽपि समसत्वेन निद्रा सबी बनिर्बीजसमाधिप्रतिपक्षेति साऽपि निरोद्धव्येत्यर्थः ॥ १०॥

अनुभूतविषयासंप्रमोषः स्मृतिः ॥ ११ किं प्रत्ययस्य चित्तःस्मरति आहोस्विद्विषयस्येति । ग्राह्योप-
रक्तःप्रत्ययो ग्राह्यग्रहणोभयाकारनिर्भासस्तज्जातीयकं संस्कारमारभते । स संस्कारः स्वव्यञ्जकाञ्जनस्तदाकारामेव ग्राह्यग्रहणोभयात्मिका स्मृतिं जनयति ।
तत्र ग्रहणाकारपूर्वा बुद्धिः । ग्राह्याकारपूर्वा स्मृतिः । सा चं
द्वयी-भावितस्मर्तव्या चाभावितस्मर्तव्या च । स्वप्ने भावितस्य-

 

अनुभूतविषयासंप्रमोषः स्मतिः । प्रमाणादिभिरनुभूते विषये योऽसंप्रमोषोऽस्तेयं

सा स्मृतिः । संस्कारमात्रजस्य हि ज्ञानस्य संस्कारकारणानुभवावभासितो विषय आत्मीय- स्तदधिकविषयपरिग्रहस्तु संप्रमोषः स्तेयम् । कस्मत्सादृश्यात् । ' मुप स्तेये' [धा०पा०९) इत्यस्मात्प्रमोषपदव्युत्पत्तेः । एतदुक्तं भवति-सर्वे प्रमाणादयोऽनधिगतमर्थं सामान्यतः प्रका- रतो वाऽधिगमयन्ति । स्मृतिः पुनर्न पूर्वानुभवमर्यादामतिक्रामति । तद्विषया तद्न- विषया वा न तु तदधिकविषया । सोऽयं वृत्त्यन्तराद्विशेषः स्मृतेरिति । विमृशति-किं प्रत्ययस्येति ग्राह्यप्रवणत्वादनुभवस्य स्वानुभवाभावात्तज्जः संस्कारो ग्राह्यमेव स्मारयतीति प्रतिभाति । अनुभवमात्रजनितत्वाच्चानुभवमेवेति । विमश्योपपत्तित उभयस्मरणमवधारयति-ग्राह्यप्रवणतया ग्राह्योपरक्तः। परमार्थतस्तु ग्राह्यग्रहणे एवोभयं तयोरा- कारं स्वरूपं निर्भासयति प्रकाशयति : स्वव्यञ्जकं कारणमञ्जनमाकारो यस्य स तथोक्तः । स्वकारणाकार इत्यर्थः[११] । व्यञ्जकमुद्बोधकं तेनाञ्जनं फलाभिमुखीकरणं यस्येति वेत्यर्थः । ननु यदि कारणविचारेण बुद्धिस्मरणयोः स.रूप्यं कस्तर्हि भेद इत्यत आह-तत्र ग्रहणेति । ग्रहणमुपादानं, न च गृहीतस्योपात्तस्योपादानं [१२] संभवति । तदनेनानधिगतबोधनं बुद्धिरित्युक्तम् । ग्रहणाकारो ग्रहणरूपं पूर्वं प्रधानं यस्याः सा तथोक्ता । विकल्पितश्चायमभेदेऽपि गुणप्रधानभाव इति । ग्राह्याकारः पूर्वः प्रथमो यस्याः सा तथोक्ता । इदमेव च ग्राह्याकारस्य ग्राह्यस्य पूर्वत्वं यद्वृत्त्यन्तरविषयीकृतत्वमर्थस्य । तदनेन वृत्त्यन्तरविषयीकृतगोचरा स्मृतिरित्युक्तं भवति । सोऽयमसंप्रमोष इति । नन्वस्ति स्मृतेरपि संप्रमोषः । दर्शयति हि पित्रादेरतीतस्य देशकालान्तरानुभूतस्याननुभूतचरदेशकालान्तरसंबन्धः स्वप्न इत्यत आह-सा च द्वयीति । भावितः कल्पितः स्मर्तव्यो यया सा तथोक्ता । अभावितोs- १ ग. ध. इ. च. स्तथाजाती। २ ख. "स्तदनुभदाने।

तव्या । जाग्रत्समये त्वभावितस्मर्तव्येति । सर्वाः स्मृतयः प्रमा- णविषयंयविकल्पनिद्रास्मृतीनामनुभवात्प्रभवन्ति । सर्वार्थता वृत्तयः सुखदुःखमोहात्मिकाः । सुखदुःखमोहाथ क्लेशेषु व्या- ख्येयाः । सुखानुशयी रागः । दुःखानुशयी द्वेषः । मोहः पुन- रविधेति । एताः सर्वा वृत्तयो निरोद्धव्याः । आसां निरोधे संप्रज्ञातो वा समाधिर्भवत्यसंप्रज्ञातो वेति ॥११॥ अथाऽऽसा निरोधे क उपाय इति---

आयासवैराग्याश्यां तन्निरोधः ॥ १२ ॥

चित्तनदी नामोभयतोवाहिनी वहति कल्याणाय वहति पापाय च । या तु कैवल्यप्रारभारा विवेकविषयनिम्ना सा कल्याणवहा । संसारमारभाराऽविवेकविषयनिन्ना पापवहा । तत्र वैराग्येण विषयस्रोतः खिली क्रियते । विवेकदर्शना- भ्यासेन विवेकस्रोत उद्घाख्यत इत्युभयाधीनश्चित्तवृत्तिनि- रोधः ॥ १२ ॥

तत्र स्थिती यत्नोऽभ्यासः ॥ १३ ॥
                  चित्तस्यावृत्तिकस्य प्रशान्तवाहिता स्थितिः । तदर्थः प्रयत्नो

।'स्थूलाक्षरैः युक्तः भागः

कल्पितः पारमार्थिक इति यावत् । नेयं स्मृतिरपि तु विपर्ययस्तलक्षणोपपन्नधारस्मृत्या. भासतया तु स्मृतिरुक्ता । प्रमाणाभासमिव प्रमाणमिति भावः । कस्माःपुनरन्ते स्मृते. न्यास इत्यत आह-साः स्मृतय इति । अनुभव: प्राप्तिः । प्राप्ति पूर्वा वृत्तिः स्मृतिस्ततः स्मृतीनामुपजन इत्यर्थः । ननु ये पुरुष क्लिश्नन्तिं ते निरोद्धव्याः प्रेक्षावता । क्लेशाश्च तथा । न च वृत्तपः, तत्किमर्थमासां निरोध इत्यत आह-सश्चिता इति । सुगमम् ॥ ११ ॥ निरोधोपायं पृच्छति-अथेति । सूत्रेणेत्तरमाह-अभ्यासवैराग्याभ्यां तन्निरोधःअभ्यासवैराग्ययोनिरोध जनयितव्येऽत्रान्तरल्यापारभेदेन समुच्चयो न तु विकल्प इत्याह- चित्तनदीति । प्राग्भारः प्रबन्धः । निम्नता गम्भीरता, अगाधतेति यावत् ॥ १२ ॥ तत्राभ्यासस्य स्वरूपप्रयोजनाभ्यां लक्षणमाह-तत्र स्थितौ यत्नोऽभ्यासः । तद्वय चष्टे-चित्तस्यावृत्तिकस्य राजसतामसवृत्तिरहितस्य प्रशान्तबाहिता विमलता सास्विकवृत्तिवाहितैकाग्रता स्थितिः । तदर्थ इति । स्थिताविति निमित्तसप्तमी १. स. ३ सपश्चिता स्पृ। उद्धरणे दोषः : समाप्तिः </ref> <ref> शृङ्खला लुप्ता</ref> १८ वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि- [ १ समाधिपादे-- वीर्ययुत्साहः । तत्संपिपादयिषया तत्साधनानुष्ठानम- भ्यासः ॥१३॥ स तु दीर्घकालनैरन्तर्यसत्कारा- सेवितो दृढभूमिः ॥ १४ ॥ दीर्घकालासेवितो निरन्तरासेवितः सत्कारासेवितः । तपसा ब्रह्मचर्येण विद्यया श्रद्धया च. संपादितः सत्कारवान्दृढभूमि- र्भवति । व्युत्थानसंस्कारेण द्रागित्येवानभिभूतविषय इत्यर्थः ॥१४॥ दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम्॥१५॥ स्त्रियोऽन्नपानमैश्वर्यमिति दृष्टविषेये वितृष्णस्य स्वर्गवैदेशप्र- .. व्याख्याता । यथा “ चर्मणि द्वीपिनं हन्ति " इति । प्रयत्नमेव पर्यायाभ्यां विशदयति- वीर्यमुत्साह इति । तस्येन्छायोनितामाह- तत्संपिपादयिषया । तदिति स्थिति परामृशति । प्रयत्नस्य विषयमाह-तत्साधनेति । स्थितिसाधनान्यन्तरङ्गबहिरङ्गाणि यमनियमादीनि । साधनगोचरः कर्तृव्यापारो न फलगोचर इति ॥ १३ ॥ ननु व्युत्थानसंस्कारेणानादिना परिपन्थिना प्रतिबद्धोऽभ्यासः कथं स्थित्यै कापत इत्यत आह-स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः । सोऽयमभ्यासो विशेषणत्र्यसंपन्नः सन्दृढावस्थो न सहसा व्युत्थानसंस्कारैरभिभूतस्थितिरूपविषयो भवति । यदि पुनरेवंभूतमप्यभ्यासं कृत्वोपरभेत्ततः कालपरिवासेनाभिभूयेत । तस्मान्नोप- रन्तव्यमिति भावः ।। १४ ॥ वैराग्यमाह-दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् । चेत- नाचेतनेषु दृष्टविषयेषु वितृष्णतामाह-स्त्रिय इति । ऐश्वर्यमाधिपत्यम् । अमुश्रको वेदस्ततोऽधिगता आनुश्रविकाः स्वर्गादयः । तत्रापि वैतृष्ण्यमाह-स्वर्गेति । देह. रहिता विदेहाः करणेषु लीनास्तेषां भावो वैदेह्यम् । अन्ये तु प्रकृतिमेवाऽऽत्मान मभिमन्यमानाः प्रकृत्युपासकाः प्रकृतौ साधिकारायामेत्र लोनास्तेषां भावः प्रकृति- लयत्वं तत्प्राप्तिविषये, आनुश्रविकविषये वितष्णस्याऽऽनुश्रविकविषये वितृष्णो हि स्वर्गादिप्रासिविषये वितृष्ण इयुच्यते । ननु यदि वैतृष्ण्यमात्रं वैराग्यं हन्त विष. १ रू. च, योऽनं पा । ९ ग. य. ऊ. 'षयवि' । क. ख. विरकस्य । कृतिलयत्वमाप्तावानुश्रविकविषये वितृष्णस्य दिव्यादिन्यविषय-

       संप्रयोगेऽपि चित्तस्य विषयदोषदर्शिनः प्रसंख्यानबलादनाभोगा.
       त्मिका हेयोपादेयशून्या वशीकारसंज्ञा वैराग्यम् ॥ १५॥
               तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम् ॥ १६ ॥
        दृष्टानुश्रविकविषयदोषदर्शी विरक्तः   पुरुषदर्शनाभ्यासात्त-
        च्छुद्धिप्रविवेकाप्यायितबुद्धिर्गुणेभ्यो . व्यक्ताव्यक्तधर्मकेभ्यो

याप्राप्तावपि तदस्तीति वैराग्यं स्यादित्यत आह-दिव्यादिव्यति । न चैतृष्ण्यमात्रं वैराग्यमपि तु दिव्यादिव्यविषयसंप्रयोगेऽपि चित्तस्यानाभोगामिका । तामेव स्पष्ट- यति-हेयोपादेयशून्या.। आसङ्गद्वेषरहितोपेक्षाबुद्धिवंशीकारसंज्ञा । कुतः पुनरि- यमित्यत्राऽऽह-प्रसंख्यानबलादिति । तापत्रयपरीतता विषयाणां दोषस्तत्परिभा- वनया तत्साक्षात्कारः प्रसंख्यानं तद्बलादित्यर्थः । यतमानसंज्ञा, व्यतिरेकसंज्ञा, एक- न्द्रियसंज्ञा, वशीकारसंज्ञा चेति चतस्त्रः संज्ञा इत्यागमिनः । रागादयः खलु कषाया- श्चित्तवर्तिनस्तैरिन्द्रियाणि यथास्वं विषयेषु प्रवर्तन्ते, तन्मा प्रवर्तिपतेन्द्रियाणि तत्त- द्विषयेष्विति तत्परिपाचनायाऽऽरम्भः प्रयत्नः सा यतमानसंज्ञा । तदारम्भे सति केचि- स्कषायाः पका: पच्यन्ते पक्ष्यन्ते च केचित् । तत्र पक्ष्यमाणेभ्यः पकानां व्यतिरे. केणावधारणं व्यतिरेकसंज्ञा । इन्द्रियपवर्तनासमर्थतया पकानामौत्सुक्यमात्रेण मनसि व्यवस्थानमेकेन्द्रियसंज्ञा । औत्सुक्यमात्रस्यापि निवृत्तिरुपस्थितेष्वपि दिव्यादिव्यविषये.पेक्षाबुद्धिः संज्ञानयात्परा वशीकारसंज्ञा । एतयैव च पूर्वासा चरितार्थत्वान्न ताः पृथ- गुक्ता इति सर्वमवदातम् ॥ १५ ॥ ___ अपरं वैराग्यमुक्त्वा परमाह-तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम् । अपरवैरा- ग्यस्य परं पैराग्यं प्रति कारणत्वम् । तत्र च द्वारमादर्शयति-दृष्टानुश्रविकविषय- दोपदी विरक्त इति । अनेनापरं वैराग्यं दर्शितम् । पुरुषदर्शनाभ्यासादागमानु- मानाचार्योपदेशसमधिगतस्य पुरुषस्य दर्शनं तस्याभ्यासः पौनःपुन्येन निषेवणं तस्मात्तस्य दर्शनस्य शुद्धी रजस्तमःप रहाण्या सत्त्वैकतानता तया यो गुणपुरुषयोः प्रकर्षेण विवेकः पुरुषः शुद्धोऽनन्तस्तद्विपरीता गुणा इति, तेनाऽऽप्याथिता बुद्धि- यस्य योगिनः स तथोक्तः । तदनेन धर्ममेघाख्यः समाधिरुतः । स तथाभूतो योगी गुणेभ्यो व्यक्ताव्यक्तधर्मकेभ्यः सर्वथा विरक्तः सत्त्वपुरुषान्यताख्यातावपि गुणात्मि- कायां यावद्विरक्त इति । तत्तस्माद्वयं वैराग्यम् । पूर्व हि वैराग्यं सत्त्वसमुद्रेकविधूत-

तमसि रजःकणकलङ्कसंपृक्ते चित्तसत्वे । तच्च तौष्टिकानामपि समानम् । से हि

१ ख. त्य॑न्ते । २ क. 'तेषु च दि । - [ १ - विरक्त इति । तद्वयं वैराग्यम् । तत्र यदुत्तरं तन्ज्ञानप्रसादमात्रम् । यस्योदये सति योगी प्रत्युदितख्यातिरेवं मन्यते-प्राप्तं पापणीयं, क्षीणाः क्षेतव्याः क्लेशाः, छिन्नः श्लिष्टपर्वा भवसंक्रमः, यस्याविच्छेदाजनित्वा म्रियते मृत्वा च जायत इति । ज्ञानस्यैष परा काष्ठा वैराग्यम् । एतस्यैव हि नान्तरीय कैवल्यमिति ॥ १६॥ . ___ अथोपाययेन निरुद्धचित्तवृत्तः कथमुच्यते संप्रज्ञातः समा- पिरिति- वितर्कविचारानन्दास्मितारूपा- नुगमासंप्रज्ञानः ॥ १७ ॥ तेनैव प्रकृतिलया बभूवुः । यथोक्तम्---वैराग्यात्प्रकृतिलय इति । तत्र तयोई. योर्मध्ये यदुत्तरं तज्ज्ञानप्रसादमात्रम् । मात्रग्रहणेन निर्विषपतां सूचयति । तदेव हि तादृशं चित्तसत्वं रजोलेशमलेनाप्यवर मृष्टमस्याऽऽश्रयोऽत एव ज्ञानप्रसाद इत्युच्यते । चित्तसत्त्वं हि प्रसादस्वभावमपि रजस्तमःसंपर्कामलिन्तामनुभवति । वैराग्याभ्यास- विमलयारिधाराधौतसमस्तरजस्तमोमलं त्वतिप्रसन्नं ज्ञानप्रसादमात्रपारशेषं भवति । तस्य गुणानुपादेयत्वाय दर्शयति-यस्योदये सति योगी प्रत्युदितख्यातिः । ख्यातिविशेषे मति वर्तमानख्यातिमानित्यर्थः । प्रापणीयं फेवल्यं पाप्तम् । यथा वक्ष्यति-जीवन्नेव विद्वा मुत्तो भवति । संस्कारमात्रस्य छिन्नमूलस्य सिद्धत्वादिति भावः । कुतः प्राप्तं, यतः-क्षीणाः क्षेतव्याः क्लेशा अविद्यादयः सवासनाः । मन्वस्ति धर्माधर्मसमूहो भवस्य जन्ममरणप्रबन्धस्य संक्रमः प्राणिनाम् । तत्कुतः कैव. त्यमित्यत आह-छिन्न इति । श्लिष्टानि निःसंधीनि पर्वाणि यस्य स तथोक्तः । धर्मा. धर्मसमूहस्य समहिनः पर्वाणि तानि लिष्टानि । न हि जातु जन्तुर्मरणजन्मप्रबन्धेन त्यक्ष्यते। सोऽयं भवसंक्रमः क्लेशक्षये छिन्नः । यथा वक्ष्यति-"क्लेशमूलः कर्माशयः" [२।१२] "सति मुले तद्विषाकः" [२।१३] इति । ननु प्रसंख्यानपरिपाक धर्ममेषं च निरोधमन्तर किं तदस्ति यज्ज्ञानप्रसादमात्रमित्यत आह-ज्ञानस्यवति । धमेधभेद एव पर पैराग्यं नान्यत् । यथा वक्ष्यात- "प्रसंख्यानेऽप्यकुसीदस्य सर्वथा विवेकल्यातेधर्ममेघः समाधिः" [४।२९] [इति, "तदा सर्वावरणमलापेतस्य ज्ञानस्याऽऽनन्त्याज्जयमल्यम्" [४।३१] इति च । तस्मादेतस्य हि नान्तरीयकमविनाभावि कैवल्यमिति ॥ १६॥ उपायमभिधाय सप्रकारोपेयकथनाय पृच्छति--अथोपाययेनेति । वितर्कवि- चारानन्दास्मितारूपानुगमात्संप्रज्ञातः । संप्रज्ञातपूर्वकत्वादसंप्रज्ञातस्य प्रथमं संप्र. १ ग.घ, ४. च. 'ये प्र। छ. “ये यो । २ ख. ति ३ ग. छ. 'तान । ४ क म. 'तथी । वितर्कश्चित्तस्याऽऽलन्बने स्थूल आभोगः । सूक्ष्मो विचारः ।
आनन्दो ह्लादः । एकात्मिका संविदस्मिता । तत्र प्रथमश्चतुष्टया-
नुगतः समाधिः सवितर्कः। द्वितीयो वितर्कविकलः सविचारः।
तृतीयो विचारविकलः सानन्दः । चतुर्थस्तद्विकलोऽस्मितामात्र
इति । सर्व एते सालम्बनाः समाधयः ॥ १७ ॥
अथासंप्रज्ञातः समाधिः किमुपायः किंस्वभावो वेति--
विरामप्रत्ययान्यासपूर्वः संस्कारशेषोऽन्यः ॥ १८॥
सर्ववृत्तिप्रत्यस्तमये संस्कारशेषो निरोधश्चित्तस्य समाधिरसं-

प्रज्ञातः । तस्य परं वैराग्यमुपायः। सालम्बनो ह्यभ्यासस्तत्सा-

ज्ञातोपवर्णनम् । संप्रज्ञातसामान्यं वितर्कविचारानन्दास्मितानां रूपैः स्वरूपैरनुगमाप्रति. पत्तव्यम् । वितक विवृणाति--चित्तस्येति । स्वरूपसाक्षात्कारवती प्रज्ञाऽऽभोगः । स च स्थलविषयत्वास्थूलः । यथा हि प्राथमिको धानुष्कः स्थूलमेव लक्ष्यं विध्यत्यथ सूक्ष्म- मेवं प्राथमिको योगी स्थूलभेव पाञ्चभौतिकं चतुर्भुजादि ध्येयं साक्षात्करोत्यथ सूक्ष्ममिति । एवं चित्तस्याऽऽलम्बने सूक्ष्म आभोगः स्थलकारणभूतसूक्ष्मपञ्चतन्मात्रलिङ्गालिङ्गविषयो विचारः । तदेवं ग्राह्यविषयं दर्शयित्वा ग्रहणविषयं दर्शयति-आनन्द इति । इन्द्रिये स्थूल आलम्बने चित्तस्याऽऽभोगो ह्लाद आनन्दः । प्रकाशशीलतया खलु सत्त्वप्रधानाद. हंकार दिन्द्रियाण्युत्पन्नानि । सत्वं सुखमिति तान्यपि सुखानीति तस्मिन्नाभौगो ह्लाद इति । ग्रहीतविषयं संप्रज्ञातमाह--एकात्मिका संविदिति । अस्मिताप्रभवानीन्द्रियाणि । तेनैषामस्मिता सूक्ष्म रूपम् । सा चाऽऽमना ग्रहीत्रा सह बुद्धिरेकात्मिका संवित् । तस्यां च ग्रहीतुरन्त वाद्भवति ग्रहीतविषयः संप्रज्ञात इति । चतुर्णामपरमप्यवान्तरविशेषमाह- तत्र प्रथम इति । कार्य कारणानुप्रविष्टं न कारणं कार्येण तदयं स्थूल आभोगः स्थूलसू. मेन्द्रियास्मिताकारणचतुष्टयानुगतो भवति । उत्तरे तु विद्वधेककारणकास्त्रिद्वयेकरूपा भवन्ति । असंप्रजाताद्भिनत्ति--सर्व एत इति ॥ १७ ॥

क्रमप्राप्तमसंप्रज्ञातमवतारयितुं पृच्छति-अथेति । विरामप्रत्ययाभ्यासपूर्वः संस्का- रशेषोऽन्यः । पूर्वपदेनोपायकथनमुत्तराभ्यां च स्वरूपकथनम् । मध्यमं पदं विवृणोति- सर्ववृत्तीति । प्रथमं पदं ध्याचष्टे - तस्य परमिति । विरामो वृत्तीनामभावस्तस्य प्रत्ययः कारणं तस्याभ्यासस्तदनुष्ठानं पौनःपुन्यं तदेव पूर्व यस्य स तथोक्तः । अथापरं

वैराग्यं निरोधकारणं करमान्न भवतीत्यत आह-सालम्बनो हीति । कार्यसरूपं कारणं

१ ख. अ. विदिति त । २२ वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि-[ १ समाधिपादे- धनाय न कल्पत इति विरामप्रत्ययो निर्वस्तुक आलम्बनी क्रियते । स चार्थशून्यः । तदभ्यासपूर्वकं हि चित्तं निरालम्बन- मभावप्राप्तमिव भवतीत्येष निर्षीजः समाधिरसंप्रज्ञातः ॥ १८ ॥

  स खल्वयं द्विविधः-उपायप्रत्ययो भवप्रत्ययश्च । तत्रोपाय-

प्रत्ययो योगिनां भवति-

  भवप्रत्ययो विदेहप्रकृतिलयानाम् ॥ १९ ॥
    विदेहानां देवानां भवप्रत्ययः । ते हि स्वसंस्कारमात्रोपैयो-

गेन चित्तेन कैवल्यपदमिवानुभवन्तः स्वसंस्कारविपाकं तथा-

युज्यते न विरूपम् । विरूपं चापरं वैराग्यं सालम्बनं निरालम्बनसमाधिना कार्येण । तस्मान्निरालम्बनादेव ज्ञानप्रसादमात्रात्तस्योत्पत्तिर्युत्ता । धर्ममेघसमाधिरेव हि नितान्तवि- गलितरजस्तमोमलाद्वद्धिसत्त्वादुपजातस्तत्तद्विषयातिक्रमेण प्रवर्तमानोऽनन्तो विषयावद्यदर्शी समस्तविषयपरित्यागच्च स्वरूपप्रतिष्ठः सन्निरालम्बन: संस्कारमात्रशेषस्य निरालम्बनस्य समाधेः कारणमुपपद्यते सारूप्यादिति । आलम्बनीकरणमाश्रयणमभावप्राप्तभिव वृत्तिरूप. कार्याकरणानिर्विजो निरालम्बनः । अथवा बीजं क्लेशकर्माशयास्ते निष्क्रान्ता यस्मात्स तथा ॥१८॥

  निरोधसमाधेरवान्तरभेदं हानोपादानाङ्गमादर्शयति-- स खल्वयं निरोधसमाधिद्वि-

विधः--उपायप्रत्ययो भवप्रत्ययश्च । उपायो वक्ष्यमाणः श्रद्धादिः प्रत्ययः कारणं यस्य निरोधसमाधेः स तथोक्तः । भवन्ति जायन्तेऽस्यां जन्तब इति भवोऽविद्या, भूते- न्द्रियेषु वा विकारेषु प्रकृतिषु वाऽव्यक्तमहदहंकारपञ्चतन्मात्रेष्वनात्मस्वात्मख्यातिस्तौष्टि- कानां वैराग्यसंपन्नाना, स खल्वयं भवः प्रत्ययः कारणं यस्य निरोधसमाधेः स भवप्रत्ययः । तत्र तयोर्मध्य उपायप्रत्ययो योगिनां मोक्ष्यमाणानां भवति । विशेषविधानेन शेषस्य मुमु- क्षुसंबन्धं निषेधति । केषां तर्हि भवप्रत्यय इत्यत्र सूत्रेणोत्तरमाह--भवप्रत्ययो विदे- हप्रकृतिलयानाम् । विदेहाश्च प्रकृतिलयाश्च तेषामित्यर्थः । तद्वयाचष्टे---विदेहानां देवानां भवप्रत्ययः । भूतेन्द्रियाणामन्यतमदा(मा)त्मत्वेन प्रतिपन्नास्तदुपासनया तद्वासनावासितान्तःकरणाः पिण्डपातानन्तरमिन्द्रियेषु भूतेषु वा लीनाः संस्कारमात्रावशेषमनसः षट्कौशिकशरीररहिता विदेहाः । ते हि स्वसंस्कारमात्रोपयोगेन चित्तन कैवल्यपदमिवानुभवन्तः प्राप्नुवन्तो विदेहाः । अवृत्तिकत्वं च कैव-

१ ग. ५, इ. च, 'पू चि° । २ ख. छ. °के चि° । ३ ख, छ. पातेन ।

जातीयकमतिवाहयन्ति । तथा प्रकृतिलयाः साधिकारे चेतसि प्रकृतिलीने कैवल्यपदमिवानुभवन्ति, यावन्न पुनरावर्ततेऽधिका- रवशाच्चित्तमिति ॥ १९॥

श्रद्धावीर्यस्मृति समाधिप्रज्ञा-
पूर्वक इतरेषाम् ॥ २० ॥

उपायप्रत्ययो योगिनां भवति । श्रद्धा चेतसः संप्रसादः ।


स्येन सारूप्यं, साधिकारसंस्कारशेषता च वैरूप्यम् | संस्कारमात्रोपभोगेनति क्वचिरपाठः । तस्यार्थः --संस्कारमात्रमेवोपभोगो यस्य न तु चित्तवृत्तिरित्यर्थः । प्राप्तावधयः स्वसं- स्कारविपाकं तथाजातीयकमतिबाहयन्त्यतिक्रामन्ति पुनरपि संसारे विशन्ति । तथा च वायुप्रोक्तम्-

"दश मन्वन्तराणीह तिष्ठन्तीन्द्रियचिन्तकाः ।
भौतिकास्तु शतं पूर्णम्" इति ।

तथा प्रकृतिलयाश्वाच्यक्तमहदहंकारपञ्चतन्मात्रेष्वन्यतमदा(मा):मत्वेन प्रतिपन्नास्तदुपा- सनया तद्वासनावासितान्तःकरणाः पिण्डपातानन्तरमव्यक्तादीनामन्यतमस्मॅिली ( मे ली )- नाः साधिकारेऽचरितार्थे । एवं हि चरितार्थ चेतः स्याद्यदि विवेकख्यातिमपि जनयेद- जनितसत्त्वपुरुषान्यताख्यातेस्तु चेतसोऽचरितार्थस्यास्ति साधिकारतेति ।साधिकारे चेतसि प्रकृतिलीने कैवल्यपदमिवानुभवन्ति, यावन्न पुनरावर्ततेऽधिकारवशा- चित्तमिति । प्रकृतिसाम्यमुपगतमप्यवधि प्राप्य पुनरपि प्रादुर्भवति ततो विविच्यते । यथा वर्षातिपाते मृद्भावमुपगतो मण्डकदेहः पुनरम्भोदवारिधारावसेकान्मण्डूकदेहभावम- नुभवतीति । तथा च वायुप्रोक्तम् -

" सहस्रं वाभिमानिकाः ।
बौद्धा दश सहस्राणि तिष्ठन्ति विगतज्वराः ।।
पूर्ण शतसहस्रं तु तिष्ठन्यव्यक्तचिन्तकाः ।।
पुरुषं निर्गुणं प्राप्य कालसंख्या न विद्यते" इति ॥

तदस्य पुनर्भवप्राप्तिहेतुतया हेयत्वं सिद्धम् ॥ १९॥

योगिनां तु समाधेरुपयक्रममाह --श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् । नन्विन्द्रियादिचिन्तका अपि श्रद्धावन्त एवेत्यत आह-श्रद्धा चेतसः संमसादः । स चाऽऽगमानुमानाचार्योपदेशसमधिगततत्त्वविषयो भवति हे चेतसः संप्रसा-


१ क. ज. स. 'कृतौ ली। २४ वाचस्पतिकृतीकासंवलितव्यासभाष्यसमेतानि- १ समाधिपादे-

  सा हि जननीव कल्याणी योगिनं पाति । तस्य हि श्रदधानस्य
  विवेकार्थिनो वीर्यमुपजायते । समुपजातवीर्यस्य स्मृतिरुपतिष्ठते ।
  स्मत्युपस्थाने च चित्तमनाकुलं समाधीयते । समाहितचित्तस्य
  प्रज्ञाविवेक उपावर्तते । येन यथार्थं वस्तु जानाति । तदभ्यासात्तत्तद्विषयाच्च वैराग्यादसंप्रज्ञातः समाधिर्भवति ॥ २०॥
  ते खलु नव योगिनो मृदुमध्याधिमात्रोपाया भवन्ति ।
  तद्यथा-मृदूपायो मध्योपायोऽधिमात्रोपाय इति । तत्र मृदूपायस्त्रिविधः-मृदुसंवेगो मध्यसंवेगस्तीव्रसम्वेग इति । तथा
  मध्योपायस्तथाऽधिमात्रोपाय इति । तत्राधिमात्रोपायानां--
         तीव्रसंवेगानामासन्नः ॥ २१ ॥

   समाधिलाभः समाधिफलं च भवतीति ॥ २१ ॥

दोऽभिरुचिरतीच्छा श्रद्धा नेन्द्रियादिष्वात्माभिमानिनामभिरुचिरसंप्रसादो हि स व्यामोहमूलत्वादित्यर्थः । कुतोऽसावेव श्रद्धेत्यत आह---सा हि जननीव कल्याणी योगिनं पाति विमार्गपातजन्मनोऽनर्थात् । सोऽयमिच्छाविशेष इष्यमाणविषयं प्रयत्नं प्रसूत इत्याह -तस्य हि श्रद्दधानस्य । तस्य विवरणं--विवेकार्थिनो वीर्यमुपजायते । स्मृतिर्ध्यानमनाकुलमविक्षिप्तं, समाधीयते योगाङ्गसमाधियुक्तं भवति । यमनियमादिना- न्तरीयकसमाध्युपन्यासेन च यमनियमादयोऽपि सूचिताः । तदेवमखिलयोगाङ्गसंपन्नस्य संप्रज्ञातो जायत इत्याह----समाहितचित्तस्येति । प्रज्ञाया विवेकः प्रकर्ष उपजायते । संप्रज्ञातपूर्वमसंप्रज्ञातोत्पादमाह-तदभ्यासात्तत्रैव तत्तद्भूभिप्राप्तौ तत्तद्विषयाच्च वैराग्यादसंप्रज्ञातः समाधिर्भवति । स हि कैवल्यहेतुः सत्त्वपुरुषान्यताख्यातिपूर्वो हि निरोधश्चित्तमखिलकार्यकरणेन चरितार्थमधिकारादवसादयति ॥ २० ॥

  ननु श्रद्धादयश्चेद्योगोपायास्तर्हि सर्वेषामविशेषेण समाधितत्फले स्याताम् । दृश्यते

तु कस्यचिसिद्धिः कस्यचिदसिद्धिः कस्यचिच्चिरेण सिद्धिः कस्यचिच्चिरतरेण कस्यचित्क्षिप्रमित्यत आह---ते खलु नव योगिन इति । उपायाः श्रद्धादयो मृदुमध्याधिमात्राः प्राग्भवीयसंस्कारादृष्टयशाद्येषां ते तथोक्ताः । संवेगो वैराग्यं तस्यापि मृदुमध्यतीव्रता प्राग्भवीयवासनादृष्टवशादेवेति तेषु यादृशां क्षेपीयसी सिद्धिस्तान्दर्शयति सूत्रेण-तीव्रसंवेगानामासन्न इति सूत्रम् । शेषं भाष्यम् । समाधेः संप्रज्ञातस्य फलमसंप्रज्ञातस्तस्यापि कैवल्यम् ॥ २१ ॥ १ ग. घ. ड. 'यावद्वस्तु । २ ख ग. ग. ह. ५. 'तरि । ३ क. स्व. र. 'नो भवन्ति' । । सू, २२-२४] पातञ्जलयोगसूत्राणि । मृदुमध्याधिमात्रत्वात्ततोऽपि विशेषः ॥ २२ ॥ मृदुतीब्रो मध्यतीव्रोऽधिमानतीन इति । सतोऽपि विशेषः । तद्विशेषोदेपि मृदुतीत्रसंवेगस्याऽऽसन्नः, ततो मध्यतीसंवेग- स्याऽऽसन्नतरः, तस्मादधिमात्रतीव्र संवेगस्पाधिमात्रोपायस्याप्या- सन्नतमः समाधिलाभः समाधिफलं चेति ।। २२ ॥ किमेतस्मादेवाऽऽसन्नतैमः समाधिर्भवति । अथास्य लाभे भव. त्यन्योऽपि कश्चिदुपायो न वेति-- ईश्वरप्रणिधानाद्वा ॥ २३ ॥ प्रणिधानाद्भक्तिविशेषादावर्जित ईश्वरस्तमनुगृह्णात्यभिध्यान- मात्रेण । तदभिध्यानमात्रादपि योगिन आसन्नतेमः समाधि- लाभः समाधिफलं च भवतीति ॥ २३ ॥ अथ प्रधानपुरुषव्यतिरिक्तः कोऽयमीश्वरो नामेति --- क्लेशकर्मविपाकाशयैरपरामष्टः पुरुषविशेष इश्वरः ॥ २४ ॥ मृदुमध्याधिमात्रत्वाचतोऽपि विशेषः । निगदव्याख्यातेन भाष्येण व्याख्यात. मिति ॥ २२ ॥ __सूत्रान्तरं पातयितुं विमृशति-किमेतस्मादेवेति । न वाशब्दः संशयनिवर्तकः । ईश्वरप्रणिधानाद्वा । ध्याचष्टे---प्रणिधानाभक्तिविशेषान्मानसाद्वाचिकांत्कायिकाद्वाऽऽ. चर्जितोऽभिमुर्ख कृतस्तमनुगृह्णाति । अभिध्यानमनागतार्येच्छा-इदमस्याभिमतमस्त्विति । तन्मात्रेण न व्यापारान्तरेण । शेषं मुगमम् ।। २३ ॥ ननु चेतनाचेतनाभ्यामेव व्यूढं नान्येन विश्वम् । ईश्वरश्चेदचेतनस्तह्रि प्रधानं प्रधानविकारणामति प्रधानमध्यपातात्तथा च न तस्याऽऽवर्जनमचेतनवादथ चेतनस्त. थाऽपि चितिशक्तेरौदासीन्यादसंसारितया चास्मितादिविरहात्कुत आवर्जनम् । कुनश्चाभिः ध्यानमित्याशयवानाह-अथ प्रधानेति । अत्र सूत्रेणोत्तरमाह-क्लेशकर्मविपाका. शयैरपरामृष्टः पुरुषविशेष ईश्वरः । अविद्यादयः क्लेशाः क्लिश्नन्ति खल्ममी पुरुषं १ ग. प. 5. षान्मृदु । २ क स्व. च. छ. दप्यास भतरस्तीबाधिसिगस्याधिमात्रो. पायस्य सना। ३ क. ख च. "तरः स । ४ ख. म य. ६. च ध्यानाद। ५ क. स. प. . . तरः स । ६स. २६ वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि- [ १ समाधिपादे-

           अविद्यादयः क्लेशाः । कुशलाकुशलानि कर्माणि । तत्फलं
        विपाकः । तदनुगुणा वासना आशयाः। ते च मनसि वर्तमानाः
        पुरुषे व्यपदिश्यन्ते, स हि तत्फलस्य भोक्तेति । यथा जयः
        पराजयो वा योद्धृषु वर्तमानः स्वामिनि व्यपदिश्यते । यो ह्यनेन
        भोगेनापरामृष्टः स पुरुषविशेष ईश्वरः । 
           कैवल्यं प्राप्तास्तर्हि सन्ति च बहवः केवलिनः । ते हि त्रीणि
        बन्धनानि च्छित्त्वा कैवल्यं प्राप्ता ईश्वरस्य च तत्संबन्धो न भूतो
        न भावी । यथा मुक्तस्य पूर्वा बन्धकोटिः प्रज्ञायते नैवमीश्व.
        रस्य । यथा वा प्रकृतिलीनस्योत्तरा बन्धकोटिः संभाव्यते
        नैवमीश्वरस्य । स तु सदैव मुक्तः सदैवेश्वर इति ।

  सांसारिकं विविधदुःखप्रहारेणेति । कुशलाकुशलानीति धर्माधर्मास्तेषां च कर्नजत्वादुपचा-
 सत्कर्मत्वम् । विपाको जात्यायुर्मोगाः । विपाकानुगुणा वासनास्ताश्चित्तभूमावाशेरत
 इत्याशयाः । नहि करमजातिनिर्वर्तकं कर्म प्राग्भवीयकरभभोगभावितां भावनां न यावद-
 भिव्यनक्ति तावत्करभोचिताय भोगाय कल्पते । तस्माद्भवति करभजात्यनुभवजन्मा भावना
 करभविधाकानुगुणेति । नन्वमी क्लेशादयो बुद्विधर्मा न कथंचिदपि पुरु परामृशन्ति,
 तस्मात्पुरुषग्रहणादेव तदपरामर्शसिद्धे: कृतं क्लेशकर्मेत्यादिनेत्यत आह -ते च मनसि
 वर्तमानाः सांसारिके पुरुषे व्यपदिश्यन्ते । कस्मात् , स हि तत्फलस्य भोक्ता
 चेतयितेति । तस्मात्पुरुषत्वादीश्वरस्यापि तसंबन्धः प्राप्त इति तत्प्रतिपेव उपपद्यत इत्याह-
 यो ह्यनेन बुद्धिस्थेनापि पुरुषमात्रसाधारणेन भोगेनापरामृष्टः स पुरुषविशेष ईश्वरः।
 विशिष्यत इति विशेषः पुरुपान्तराद्वयवच्छिद्यते ।
     विशेषपदस्य व्याव| दर्शयिनुकामः परिचोदनापू| पारहरति-कैवल्यं प्राप्तास्तर्हीति ।
 प्रकृतिलयानां प्राकृतो बन्धः । वैकारिको बन्धो विदेहानाम् । दक्षिणीदिबन्धो
 दिव्यादिव्यंविषयभोगभाजाम् । तान्यमूनि त्रीणि बन्धनानि । प्रकृतिभावनासंस्कृतमनसो
 हि देहपातानन्तरमेव प्रकृतिलयतामापन्ना ईतीतरेषां पूर्वा बन्धकोटि: प्रज्ञायते, तेनोत्तर-
 कोटिविधानमात्रमिह तु पूर्वापरकोटिनिषेध इति । संक्षिप्य विशेषं दर्शयति-स तु सदैव
 मुक्तः सदैवेश्वर इति । ज्ञानक्रियाशक्तिसंपदैश्वर्यम् ।
                  १ ख. 'णाच' । २ ज. इति तेषां । सू० २४ ] पातञ्जलयोगसूत्राणि ।

योऽसौ प्रकृष्टसत्त्वोपादानादीश्वरस्य शाश्वतिक उत्कर्षः स किं सनिमित्त आहोस्विन्निनिमित्त इति । तस्य शास्त्रं निमित्तम् । शास्त्रं पुनः किंनिमित्तं, प्रकृष्टसत्त्वनिमित्तम् । अत्र पृच्छति-योऽसाविति । ज्ञानक्रिये हि न चिच्छक्तेरपरिणामिन्याः संभवत इति रजस्तमोरहितविशुद्धचित्तसत्त्वाश्रये वक्तव्ये । न चेश्वरस्य सदा मुक्तस्याविद्याप्रभवचित्तसत्त्वसमुत्कर्षेण सह स्वस्वाभिभावः संबन्धः संभवतीत्यत उक्तं--प्रकृष्ट- सत्त्वोपादानादिति । नेश्वरस्य पृथग्जनस्येवा विद्यानिबन्धनश्चित्तसत्त्वेन स्वस्वामिभावः । किं तु तापत्रयपरीतान्प्रेत्यभावमहार्णवाज्जन्तूनुद्वरिष्यामि ज्ञानधर्मोपदेशेन । न च ज्ञानक्रियासामर्थ्यातिशयसंपत्तिमन्तरेण तदुपदेशः । न चेयमपहतरजस्तमोमलविशुद्धसत्त्वोपादानं विनेत्यालोच्य सत्त्वप्रकर्षमुपादत्ते भगवानपरामृष्टोऽप्य- विद्यया । अविद्याभिमानी चाविद्यायास्तत्त्वमविद्वान्भवति न पुनरविद्यामविद्यात्वेन सेवमानः । न खलु शैलूषो रामत्वमारोप्य तास्ताश्चेष्टा दर्शयन्भ्रान्तो भवति । तदिदमाहार्यमस्य रूपं न तात्त्विकमिति । स्यादेतत् । उद्दिवीर्षया भगवता सत्त्वमुपादेयं तदुपादानेन च तदुद्दिधार्षा, अस्या अपि प्राकृतत्वात्तथा चान्योन्याश्रय इत्यत उक्तम्-शाश्वतिक इति । भवेदेतदेवं यदीदंप्रथमता सर्गस्य भवेदनादौ तु सर्गसंहारप्रबन्धे सर्गान्तरसमुत्पन्नसंजिहीर्षावधिसमये पूर्णे मया सत्वप्रकर्ष उपादेय इति प्रणिधानं कृत्वा भगवाञ्जगत्संजहार । तदा चेश्वरचित्तसत्त्वं प्रणिधानवासितं प्रधानसाम्यमुपगतमपि परिपूर्णे महाप्रलयावधौ प्रणिधानवासनावशात्तथैवेश्वरचित्तसत्वभावेन परिणमते । यथा चैत्रः श्वः प्रातरेवोत्थातव्यं मयेति प्रणिधाय सुप्तस्तदैवोत्तिष्ठति प्रणिधानसंस्कारात् । तस्मादनादित्वादीश्वरप्रणिधानसत्त्वोपादानयाः शाश्वतिकत्वेन नान्योन्याश्रयः । न चेश्वरस्य चित्तसत्त्वं महाप्रलयेऽपि न प्रकृतिसाम्यमुपैतीति वाच्यम् । यस्य हि न कदाचिदपि प्रधानसाम्यं न तत्प्राधानिकं नापि चितिशक्तिरज्ञत्वादित्यर्थान्तरमप्रामाणिकमापद्येत । तच्चायुक्तं, प्रकृतिपुरुषव्यतिरेकेणार्थान्तराभावात् । सोऽयमीदश ईश्वरस्य शाश्वतिक उत्कर्षः । स किं सनिमित्तः सप्रमाणक आहोस्विन्निर्निमित्तो निष्प्रमाणक इति । उत्तरं-तस्य शास्त्रं निमित्तम् । श्रुतिस्मृतीतिहासपुराणानि शास्त्रम् । चोदयति-शास्त्रं पुनः किंनिमित्तम् । प्रत्यक्षानुमानपूर्व हि शास्त्रम् । न चेश्वरस्य सत्वप्रकर्षे कस्यचित्प्रत्यक्षमनुमानं वाऽस्ति । न चेश्वरप्रत्यक्षप्रभवं शास्त्रमिति युक्तम् । कल्पयित्वाऽपि ह्ययं ब्रूयादात्मैश्वर्यप्रकाशनायेति भावः । परिहरति-प्रकृष्टसत्त्वनिमित्तम् । १ ख. झ. 'वश्चित्त । २ क. र्णवमग्राञ्जनानु ।

                                       एतयोः शास्त्रोत्कर्षयोरीश्वरसत्त्वे वर्तमानयोरनादिः संबन्धः।
                                         एतस्मादेतद्भवति सदैवेश्वरः सदैव मुक्त इति । तच्च तस्यैश्वर्य
                                            साम्यातिशयविनिर्मुक्तम् । न तावदेश्वर्यान्तरेण तदतिशय्यते ।
यदेवातिशयि स्यात्तदेव तत्स्यात् । तस्मावत्र काष्ठाप्राप्तिरैश्वर्यस्य
 

अयमभिसंधिः--मन्त्रायुर्वेदेषुतावदीश्वरप्रणीतेषु प्रवृत्तिसामदिर्थाव्यभिचारविनिश्च- यात्प्रामाण्यं सिद्धम् । न चौषधिभेदानां तत्संयोगविशेषाणां च मन्त्राणां च तत्तद्वर्णावापोद्धारेण सहस्रेणापि पुरुषायुषैलौकिकप्रमाणव्यवहारी शक्तः कर्तुम- न्वयव्यतिरेको । न चाऽऽगमादन्वयव्यतिरेको ताभ्यां चाऽऽामस्तत्संतानयोरनादि. स्वादिति प्रतिपादयितुं युक्तम् । महाप्रलये तसंतानयोविच्छेदात् । न च तद्भावे वःप्रमाणाभा । अभिन्न प्रधानविकारो जगदिति हि प्रतिपादयिष्यते। सदृशपरिणा- मस्यै च विसदृशपरिणामता दृष्टा । यथा क्षौरक्षरसादेधिगुडादिरूपम् । विसदृश- परिणामस्य सदृशपरिणामता च दृष्टा । सदिह प्रधानेनापि महदहंकारादिरूपवि. सदृशपरिणामेन सता भाव्यं कदाचित्सदृशपरिणामेनापि । सदृशपरिणामश्चास्य साम्या- वस्था । स च महाप्रलयः । तस्मान्मन्त्रायुर्वेदप्रणयनात्तावद्भगवतो विगलितरजस्त- मोमलावरणतया परितः प्रद्योतमानं बुद्धिसत्त्वमास्थयम् । तथा चाभ्युदय- निःश्रेयसोपदेशपरोऽपि वेदराशिरीश्वरप्रणीतस्तबुद्धिसत्त्वप्रकर्ष देव भवितुमर्हति । न च सत्त्वोत्कर्षे रजस्तमःप्रभवौ विभ्रमविप्रलम्भौ संभवतः । तत्सिद्धं प्रकृष्टस- वनिमित्तं शास्त्रमिति ।  स्थादेतत्। प्रकर्षकार्यतया प्रकर्ष बोधयच्छास्त्रं शेषवदनुमानं भवेन्न त्यागम इत्यत आह- एतयोरिति । न कार्यत्वेन बोधयत्यपि त्वनादिवाच्यवाचकभावसंबन्धेन बोधयतीत्यर्थः । ईश्वरस्य हि बुद्धिसत्वे प्रकर्षों वर्तते, शास्त्रमपि तद चकत्वेन तत्र वर्तत इति । उपसंहरति-- एतस्मादीश्वरबुद्धिसत्त्वप्रकर्षवाचकाच्छ,स्त्रादेतति ज्ञायते विषयेण विषयिणो लक्षणा त्सदैवेश्वरः सदैव मुक्त इति । तदेवं पुरुषान्तराद्वयवच्छिद्येश्वरान्तरादपि व्यवन्छिनत्ति-तच तस्येति। अतिशयविनिमुक्तिमाह-न तावदिति। कुतः-यदेवेति । कस्मात्सर्वातिशयविनि- मुक्तं तदैश्वर्यमित्यत आह-तस्माधोति । अतिशयनिष्ठामप्राप्तानामौपचारिकभैश्चर्यमित्यर्थः ।  १ ज.ते । विस । २ ख. झ. 'स्य वि । ३ ज. च स । ४ ज. रूपवि । ५ न. "म ६ झ. पूर्वस १ ७ ज. पि । विस १८ ज. "मस्थ या सा । ख. मस्तस्य मा।

          स ईश्वर इति । न च तत्समानमैश्वर्यमस्ति । कस्मात्, द्वयोस्तु-
ल्ययोरेकस्मिन्युगपत्कामितेऽर्थे नवमिदमस्तु पुराणमिदमस्त्वि-
त्येकस्य सिद्धावितरस्य प्राकाम्यविधातादूनत्वं प्रसक्तम् । द्वयोश्च
• तुल्ययोर्युगपत्कामितार्थप्राप्तिास्ति । अर्थस्य विरुद्धत्वात् ।
तस्माद्यस्य साम्यातिशयविनिर्मुक्तमैश्वर्यं स एवेश्वरः । स च
पुरुषविशेष इति ।। २४ ॥
किं च --

तत्र निरतिशयं सर्वज्ञबीजम् ॥ २५॥

यदिदमतीलानागतप्रत्युत्पन्नप्रत्येकसमुच्चयातीन्द्रियग्रहणमल्पं
बहिति सर्वज्ञवीजमेतद्विवर्धमानं यत्र निरतिशयं स सर्वज्ञः ।
अस्ति काष्ठाप्राप्तिः सर्वज्ञबीजस्य सातिशयत्वात्परिमाणवदिति ।

साम्यविनिर्मुक्तिमाह-न च तत्समानमिति । प्राकाम्यमविहतेच्छता तद्विघाताननत्वम-
ननत्वे वा द्वयोरपि प्राकाम्यविधातः कार्यानुत्पत्तरुत्पत्तौ वा विरुद्धधर्मसमालिङ्गितमेकदा
कार्यमुपलभ्येतेत्याशयवालाह-द्वयोश्चेति । अविरुद्धाभिप्रायत्वे वा प्रत्येकमीश्वरत्वे कृत-
मन्यैरेकेनैवेशनायाः कृतत्वात् । संभूयकारित्वे वा न कश्चिदीश्वरः परिषदन्नित्येशनायो-
गिनां च पर्यायायोगात्कल्पनागौरवप्रसङ्गाचेति द्रष्टव्यम् । तस्मात्सर्वमवदातम् ॥ २४ ॥

एवमस्य क्रियाज्ञानशक्तौ शास्त्रं प्रमाणमभिधाय ज्ञानशक्तावनुमानं प्रमाणयति-
किंच-तत्र निरतिशयं सर्वज्ञबीजम् । व्याचष्टे—यदिदमिति । बुद्धिसत्त्वावरकत-
मोपगमतारतम्येन यदिदमतीतानागतप्रत्युत्पन्नानां प्रत्येकं च समुच्चयेन च वर्तमानानामती-
न्द्रियाणां ग्रहणं, तस्य विशेषणमल्यं बहिति सर्वज्ञबीजं कारणम् । कश्चित्किंचिदेवाती-
तादि गहाति कश्चिद्वहु कश्चिद्बहुतरं कश्चिद्बहुतममिति ग्राह्यापेक्षया ग्रहणस्याल्पत्वं बहुत्वं
कृतम् । एतद्विवर्धमानं यत्र निष्क्रान्तमतिशयात्स सर्वज्ञ इति । तदनेन प्रमेयमात्रं कथि-
तम् । अत्र प्रमाणयति-अस्ति काष्ठामाप्तिः सर्वज्ञवीजस्येति । साध्यनिर्देशः ।
निरतिशयत्वं काष्ठा । यतः परमतिशयबत्ता नास्तीति । तेन नावधिमात्रेग सिद्धसाधनम् ।
सातिशयत्वादिति हेतुः । यद्यत्सातिशयं तत्तत्सर्व निरतिशयं, यथा कुबलामलकबिल्वेषु
सातिशयं महत्वमात्मनि निरतिशयमिति व्याप्तिं दर्शयति-परिमाणवत । न च गरिमा-
दिभिर्गुणैर्व्यभिचार इति सांप्रतम् । न स्वल्यवयवगरिमातिशयी गरिमाऽवयविनः किं

१ ख. ग. प. उ. 'श्वरः । न । २ च. °स्ति । इ । ३ ग, ति तत्सर्व । ३० वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानिं- [ १ समाधिपादे-

यत्र काष्ठाप्राप्तिानस्य स सर्वज्ञः । स च पुरुषविशेष इति ।

  सामान्यमात्रोपसंहारे च कृतोपक्षयमनुमानं न विशेषप्रति-
पत्तौ समर्थमिति । तस्य संज्ञादिविशेषप्रतिपत्तिरागमतः पर्य-
न्वेष्या । तस्याऽऽत्मानुग्रहाभावेऽपि भूतानुग्रहः प्रयोजनम् ।

त्वा परमाणुभ्य आऽत्यावर्यविभ्यो यावन्तः केचन तेषां प्रत्येकवर्तिनो गरिम्णः समाहृत्य गरिमा वर्धमानाभिमानः । ज्ञानं तु न प्रतिज्ञेयं समाप्यत इत्येकद्विबहुविषयतया युक्तं सातिशयमिति न व्यभिचारः । उपसंहरति---यत्र काष्ठेति ।

 ननु सन्ति बहवस्तीर्थकरा बंधार्हतकपिलर्षिप्रभृतयस्तत्कस्मात्त एव सर्वज्ञा न भवन्त्य-

स्मादनुमानादित्यत आह-सामान्येति । कुतस्तर्हि तद्विशेषप्रतिपत्तिरित्यत आह-तस्येति। बुद्धादिप्रणीत आगमाभासो न त्वागमः, सर्वप्रमाणबाधितक्षणिकनैरात्म्यादिमागोपदेशक- त्वेन विप्रलम्भकत्वादिति भावः । तेन श्रुतिस्मृतीतिहासपुराणलक्षणादागमत आगच्छन्ति बुद्धिमारोहन्ति अस्मादभ्युदयनिःश्रेयसोपाया इत्यागमः, तस्मात्संज्ञादिविशेषप्रतिपत्तिः । संज्ञाविशेषः शिवेश्वरादिः श्रुत्यादिषु प्रसिद्धः । आदिपदेन पडङ्गतादशाव्ययते संगृहीते। यथोक्तं वायुपुराणे-

      " सर्वज्ञता तृप्तिरनादिबोधः स्वतन्त्रता नित्यमलप्तशक्तिः ।
     अनन्तशक्तिश्च विभोविधिज्ञाः षडाडुरङ्गानि महेश्वरस्य " ॥ (वायुपु ०१२।३१)

तथा-"ज्ञानं वैराग्यमैश्वयं तपः सत्यं क्षमा धृतिः ।

       स्रष्टत्वमात्मसंबोधो ह्यधिष्टातत्वमेव च ॥ 
      अव्ययानि दशैतानि नित्यं तिष्ठन्ति शंकरे" (वायुपु० १०९.) इति ।
 
   स्यादेतत् , नित्यतृप्तस्य भगवतो वैराग्यातिशयसंपन्नस्य स्वार्थे तष्णासंभवात्कारुणि

कस्य च सुखैकतानजनसर्जनपरस्य दुःखबहुलजीवलोकजननानुपपत्तेरप्रयोजनस्य च प्रेक्षावतः प्रवृत्त्यनुपपत्तेः क्रियाशक्तिशालिनोऽपि न जगस्क्रियेत्यत आह-----तस्याSS- स्मानुग्रहाभावेऽपीति । भूतानां प्राणिनामनुग्रहः प्रयोजनं, शब्दाद्युपभोगविवेकख्याति- रूपकार्यकरणास्किल चरितार्थ चित्तं निवर्तते । ततः पुरुषः केवली भवति । अत- स्तत्प्रयोजनाय कारुणिको विवेकख्यात्युपायं कथयति । तेनाचरितार्थत्वाञ्चित्तस्य जन्तू- नीश्वरः पुण्यापुण्यसहायः सुखदुःखे भावयन्नपि नाकारुणिकः । विवेकख्यात्युपायकथ-

१ ख. ग. घ. ड. छ. रे । २ ज. यवेभ्यश्चौपाधिकेभ्यो । ३ ख. ज. झ. !ि ४ न. कारा । ५ न. बुद्धभत्र । ६ क. तश्चाऽऽग । ज्ञानधर्मोपदेशेन कल्पप्रलयमहाप्रलयेषु संसारिणः पुरुषानुद्ध- रिष्यामीति । तथा चोक्तम्-आदिविद्वान्निर्माणचित्तमधिष्ठाय कारुण्याद्भगवान्परमर्षिरासुरये जिज्ञासमानाय तन्त्रं प्रोवा- चेति ॥२५॥

स एषः- पूर्वेषामपि गुरुः कालेनानवच्छेदात् ॥ २६ ॥ पूर्वे हि गुरवः कालेनावच्छिद्यन्ते । यत्रावच्छेदार्थेन कालो नोपावर्तते स एष पूर्वेषामपि गुरुः । यथाऽस्य सर्गस्याऽऽदौ प्रकर्षगत्या सिद्धस्तथाऽतिक्रान्तसर्गादिष्वपि प्रत्येतव्यः ॥२६॥ नाय भूतानुग्रहं द्वारमाह---ज्ञानधर्मोपदेशेनेति । ज्ञानं च धर्मश्च ज्ञानधर्मों तयोरुपदेशेन ज्ञानधर्मसमुच्यालुब्धविवेकख्यातिपरिपाकात्कल्पप्रलये ब्रह्मणो दिनावसाने यत्र सत्यलोकवर्ज जगदस्तमेति । महाप्रलये ससत्यलोकस्य ब्रह्मणोऽपि निधने संसारिणः स्वकारणगामिनोऽतस्तदा मरणदुःखभाजः, कल्पेत्युपलक्षणमन्यदाऽपि स्वार्जितकर्मपाकवशेन जन्ममरणादिभाजः पुरुषानुद्धरिष्यामीति कैवल्यं प्राप्य पुरुषा उद्धृता भवन्तीत्यर्थः । एतच्च करुणाप्रयुक्तस्य ज्ञानधर्मोपदेशनं कापिलानामपि सिद्धिमित्याह- तथा चोक्तं पञ्चशिखाचार्येण-आदिविद्वान्कपिल इति । आदिविद्वानिति पञ्चशिखाचार्यवचनमादिमुक्तस्वसंतानादिगुरुविषयं न त्वनादिमुक्तपरमगुरुविषयम् । आदितुक्तेनु कदाचिन्मुक्तेषु विद्वत्सु कपिलोऽस्माकमादिविद्वान्मुक्तः स एव च गुरुरिति । कपिलस्यापि जायमानस्य महेश्वरानुग्रहादेव ज्ञानप्राप्तिः श्रूयत इति । कपिलो नाम विष्णोरवतारविशेषः प्रसिद्धः । स्वयंभूस्तु हिरण्यगर्भः । तस्यापि सांख्ययोगप्राप्तिः श्रूयत इति । स एवेश्वर आदिविद्वान्कपिलो विष्णु स्वयंभूरिति भावः । स्वायंभुवानां त्वीश्वर इति भावः ॥२५॥ संप्रति भगवतो ब्रह्मादिभ्यो विशेषमाह-स एष इति । पातनिका-स एष इति । सूत्रम्--पूर्वेषामपि गुरुः कालेनानवच्छेदात् । व्याचष्टे---पूर्व हीति । कालस्तु शतवर्षादिरवच्छेदार्थेनावच्छेदेन प्रयोजनेन नोपावर्तते न वर्तते । प्रकर्षस्य गतिः प्राप्तिः । प्रत्येतव्य आगमात् ॥ २६॥ १ म. प. ड. बच्छेद्य' । २ ख. ज. णः पु। ३ ख. ज, झ. भरि' । ४ क. विष्णुः स।५क.वादीनामस्त्वीश्च ।

                        तस्य वाचकः प्रणवः ॥ २७ ॥
            वाच्य ईश्वरः प्रणवस्य । किमस्य संकेतकृतं वाच्यवाचकत्व-
   मथ प्रदीपप्रकाशवदवस्थितमिति।

' स्थितोऽस्य वाच्यस्य वाचकेन सह संबन्धः । संकेतस्त्वी

          श्वरस्य स्थितमेवार्थमभिनयति । यथाऽवस्थितः पितापुत्रयोः
          संबन्धः संकेतेनावद्योत्यते, अयमस्य पिता, अयमस्य पुत्र
          इति । सर्गान्तरेष्वपि वाच्यवाचकशक्त्यपेक्षस्तथैव संकेतः
          क्रियते । संप्रतिपत्तिनित्यतया नित्यः शब्दार्थसंवन्ध इत्याग-
          मिनः प्रतिजानते ॥ २७ ॥

तदनेन प्रबन्धेन भगवानीश्वरो दर्शितः । संप्रति तत्प्रणिधानं दर्शयितुं तस्य वाचकमाह--तस्य वाचकः प्रणवः । व्याचष्टे-~-वाच्य इति । तत्र परेषां मतं विमर्श 'द्वारेणोपन्यस्यति-किमस्येति' । वाचकवं प्रतिपादकत्वमित्यर्थः । परे हि पश्यन्ति यदि स्वाभाविकः शब्दार्थयोः संबन्धः संकेतैनास्माच्छब्दादयमर्थः प्रत्येतव्य इत्येव. मात्मनाभिव्यज्येत ततो यत्र नास्ति स संबन्धस्तत्र संकेतशतेनापि न व्यज्येत । न हि प्रदीपव्यङ्गयो घटो यत्र नास्ति तत्र प्रदीपसहस्रेणापि शक्यो व्यक्तुम् । कृतसंकेतस्तु करभशब्दो वारणे वारणप्रतिपादको दृष्टः । ततः संकेतकृतभेव वाच- कत्वमिति । विमृश्याभिमतमवधारयति-स्थितोऽस्येति । अयमभिप्रायः-सर्व एष शब्दाः सर्वा. कारार्थाभिधानसमर्था इति । स्थित एवैषां सर्वाकारैरयैः स्वाभाविकः संवन्धः । ईश्वर. संकेतस्तु प्रकाशकश्च नियामकश्च । तस्येश्वरसंकेतासकेतकृतश्चास्य वाचकापभ्रंशविभागः । तदिदमाह-संकेतस्त्वीश्वरस्येति । निदर्शनमाह-यथेति । ननु शब्दस्य प्राधानि. कस्य महाप्रलयसमये प्रधानभावमुपगतस्य शक्तिरपि प्रलीना, ततो महदादिक्रमे गोत्पन्न- ': स्यावाचकस्यैव माहेश्वरेण संकेतेन न शक्या वाचकशक्तिरभिव्यञ्जयितुं विनष्टशक्ति वा- दित्यत आह-सर्गान्तरेष्वपीति । यद्यपि सह शक्त्या प्रधानसाम्यमुपगतः शब्दस्तथाऽपि पुनराविर्भवंस्तच्छक्तियुक्त एवाऽऽविर्भवति वर्षातिपातसमधिगतमद्भाव इबोद्भिज्जो मेघयि . सृष्टवारिधारीवसेकात् । तेन पूर्वसंबन्धसंकेतानुसारेण संकेतः क्रियते भगवतेति । तस्मासं- प्रतिपत्तेः सदृशव्यवहारपरम्पराया नियतया नियः शब्दार्थयोः संबन्धो न कुटस्थनित्य इत्यागमिकाः प्रतिजानते, न पुनरागमनिरपेक्षाः सर्गान्तरष्वपि तादृश एवं संकेत इति

प्रतिपत्तुशत इति भावः ॥ २७ ॥

१ ख. ज, झ, प्रसाराव" विज्ञातवाच्यवाचकत्वस्य योगिनः--- तज्जपस्तदर्थशावनम् ॥ २८ ॥ प्रणवस्य अपः प्रणवाभिधेयस्य चेश्वरस्य भावनम् । तदस्य योगिनः प्रणवं जपतः प्रणवार्थं च भावयतश्चित्तमेकाग्रं संपद्यते । तथा चोक्तम्- " स्वाध्यायाद्योगमासीत योगात्स्वाध्यायमामनेत् । स्वाध्याययोगसंपत्त्या परमात्मा प्रकाशते." इति ॥ २८ ॥ किं चास्य भवति--- ततः प्रत्यक्चेतनाधिगमोऽप्य. . न्तरायाभावश्च ॥ २९ ॥ ये तावदन्तराया व्याधिप्रभृतयस्ते तावदीश्वरमणिधानाश्न भवन्ति । स्वरूपदर्शनमप्यस्य भवति । यथैवेश्वरः पुरुषः शुद्धः प्रसन्नः केवलोऽनुपसर्गस्तथाऽयमपि बुद्धेः प्रतिसंवेदी यः पुरुषस्तमधिगच्छति ॥२९॥ वाचकमाख्याय प्रणिधानमाह-~-तज्जपस्तदर्थभावनम् । व्याचष्ठे---- प्रणवस्येति । भावनं पुनः पुनश्चित्ते निवेशनम् । ततः किं सिध्यतीत्यत आह -प्रणवमिति । एकस्मिन्भगवत्यारमति चित्तम् । अत्रैव वैयासिकी गाथामुदाहरति--तथा चेति । तत ईश्वरः समाधितस्फललाभेन तमनुगृह्णाति ॥ २८ ॥ किंचापरमस्मात् -ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च । प्रतीपं विपरीतमञ्चति विजानातीति प्रत्यक्स चासौ चेतनश्चेति प्रत्यक्चेतनोऽविद्यावान्पुरुषः । तदनेनेश्वराच्छाश्वतिकसत्वोत्कर्षसंपन्नाद्विद्यावतो निवर्तयति । प्रतीचश्चेतनस्याधिगमो ज्ञानं स्वरूपतोऽस्य भवस्यन्तराया वक्ष्यमाणास्तदभावश्च । अस्य विवरणं-ये तावदिति । स्वमात्मा तस्य रूपम् । रूपग्रहणेनाविद्यासमारोपितान्धर्मान्निषेधति । नन्वीश्वरप्रणिधानमीश्वरविषयं कथभित्र प्रत्यक्चेतनं साक्षात्करोत्यतिप्रसङ्गादित्यत आह- यथैवेश्वर इति । शुद्धः कूटस्थनित्यतयोदयव्ययरहितः प्रसन्नः क्लेशवर्जितः केवलो धर्माधर्मपितः । अत एवानुपसर्गः । उपसर्गा जात्यायुर्भॊगाः । सादृश्यस्य किंचिद्भेदाविष्ठानत्यादीश्वराद्भिनत्ति-बुद्धेः प्रतिसंवेदीति । तदनेन प्रत्यग्ग्रहणं व्याख्यातम् । अत्यन्तविधर्मिणोरन्यतरार्थानुचिन्तनं न तदितरस्य साक्षात्काराय कल्पते । ५ १ ग घ.. १ग. प. उ. °ष इत्येवम' । २ ख. ज. स. नश्वेतसि नि
अथ केऽन्तराया ये चित्तस्य विक्षेपाः। के पुनस्ते कियन्तो
वेति-

   व्याधिस्त्यानसंशयप्रमादालस्याविरतिधा-
न्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि
चित्तविक्षेपास्तेऽन्तरायाः ॥ ३०

नवान्तरायाश्चित्तस्य विक्षेपाः । सहैते चित्तवृत्तिभिर्भवन्ति ।
एतेपामभावे न भवन्ति पूर्वोक्ताश्चित्तवृत्तयः । व्याधिर्धातु-
रसकरणवैषम्यम् । स्त्यानमकर्मण्यता चित्तस्य । संशय उभय-
कोटिस्पृग्विज्ञानं स्यादिदमेवं नैवै स्यादिति । प्रमादः समाधि-
साधनानामभावनम् । आलस्य कायस्य चित्तस्य च गुरुत्वा-
दप्रवृत्तिः । अविरतिश्चित्तस्य विषयसंप्रयोगात्मा गधः ।
भ्रान्तिदर्शनं विपर्ययज्ञानम् । अलब्धभूमिकत्वं समाधि-
भमेरलाभः । अनवस्थितत्वं यल्लम्धायां भूमौ चित्तस्याष-
तिष्ठा । समाधिपतिलम्मे हि सति तदवस्थितं स्यादिति ।
एते चितविक्षेपा नव योगमला योगप्रतिपक्षा योगान्तराया 'इत्यभिधीयन्ते ॥ ३०॥
' सदृशार्थानुचिन्तनं तु सदृशान्तरसाक्षात्कारोपयोगितामनुभवति एकशास्त्राभ्यास इव
तत्सदृशार्थशास्त्रान्तरझानोपयोगिताम् । प्रत्यासत्तिस्तु स्वात्मनि साक्षात्कारहेतुर्न परात्म-
नीति सर्वमन्नदातम् ॥ २९ ॥
पृच्छति--अथ क इति । सामान्येनोत्तरम्-~~य इति । विशेषसंख्ये पृच्छति ---
क इति । उत्तरं व्याधीत्यादिमूत्रम् । अन्तराया नव । एताश्चित्तवृत्तयो योगान्तराया
योगविरोधिनश्चित्तस्य विक्षेपकाश्चित्तं खल्बमी व्याध्यादया योगाद्विक्षिप व्यपनयन्तीति
विक्षेपाः । योगप्रतिपक्षत्वे हेतुमाह-सहत इति । संशयभ्रान्तिदर्शने तावद्वत्ति-
तया वृत्तिनिरोधप्रतिपक्षौ । येऽपि न वृत्तयो व्याधिप्रभृतयस्तेऽपि वृत्तिसाहचर्यात्त
. प्रतिपक्षा इत्यर्थः । पदार्थान्याचष्टे -- व्याधिरिति । धातवो वातपित्तश्लेष्माणः

शरीरधारणात् । अशितपीताहारपरिणामविशेपो रसः । करणानीन्द्रियाणि तेषां वैषम्यं
न्यूनाधिकभाव इति । अकर्मण्यता कनिहता । संशय उभयकोटिस्पृग्विज्ञानम्
सत्यप्यतद्रूपप्रतिष्ठत्वेन संशयविपर्यासयोरभेदे, उभयकोटिस्पर्शास्पर्शरूपावान्तरविशेष.

१ ग. ग. ह. छ. 'क्षेपमाः । के। २ क. ग. घ. ड. यः । तत्र व्या । ३ ख. छ.
सू० ३१-३२]
३५
पातञ्जलयोगसूत्राणि ।

दुःखदौर्मनस्याङ्गभेजयत्वश्वास-
प्रश्वासा विक्षेपसहवः ॥३१॥

 दुःखमाध्यात्मिकमाधिभौतिकमाधिदैविकं च । येनाभि-
हताः प्राणिनस्तेदपघाताय प्रयतन्ते तद्दुःखम् । दौर्मनस्यमि-
च्छाविघासाचेतसः क्षोभः । यदङ्गान्येजयति कम्पयनि नद-
मेजयत्वम् । प्राणो यद्वाद्यं वायुमाचामति स श्वासः ।
यत्कौष्ठवं वायुं निःसारयति स प्रश्वासः। एत विक्षेपसह-
भवो विक्षिप्तचित्तस्यैते भवन्ति । समाहितचित्तस्यैते न
भवन्ति ॥ ३१॥

 अथैते विक्षेपाः समाधिप्रतिपक्षास्ताभ्यामेवाभ्यासवैरा-
ग्याभ्यां निरोद्धव्याः । तत्राभ्यासस्य विषयमुपसंहरन्निदमाइ-

  तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः ॥ ३२॥

विवक्षयाऽत्र भेदेनोपन्यासः । अभायनमकरणं तत्राप्रयत्न इति यावत् । कायस्य गुरुत्वं
कफादिना, चित्तस्य गुरुत्वं तमसा । गर्धस्तृष्णा । मधुमत्यादयः समाधिभूमयः । लब्ध-
भमेर्यदि तावतैव सुस्थितंमन्यस्य समाधिभ्रेषः स्यात्ततस्तस्या अपि भुमेरपायः स्यात् ।
यस्मात्समाधिप्रतिलम्भे तदवस्थितं स्यात्तस्मात्तत्र प्रयतितव्यमिति ॥ ३०॥

 न केवलं नवान्तराया दुःखादयोऽप्यस्य तत्सहभुवो भवन्तीत्याह-दुःखेत्यादि ।
प्रतिकूलवेदनीयं दुःखमाध्यात्मिकं शारीरं व्याधित्रशान्मानसं च कामादिवशात् । आधि-
भौतिकं व्याघ्रादिजनितम् । आधिदैविकं ग्रहपीडादिजनितम् । तच्चेदं दुःखं प्राणिमात्रस्य
प्रतिकूलवेदनीयतया हेयमित्याह-येनाभिहता इति । अनिच्छतः प्रामो यद्वाह्यं वायु-
माचामति पिबति प्रवेशयतीति यावत्स श्वासः समाध्यङ्गरेचकविरोधी । अनिच्छतोऽपि
प्राणो यत्कौष्टयं वायुं निश्वारयति निःसारयति स प्रश्वासः समाध्यङ्गपूस्कविरोधी ॥ ३१ ॥

 उक्तार्थोपसंहारसूत्रमवतारयति-अथैत इति । अथोक्तार्थानन्तरमुपसंहरन्निदं सूत्रमा-
हेति संबन्धः । निरोद्धव्यत्वे हेतुरुक्तः-समाधिप्रतिपक्षा इति । यद्यपीश्वरमणिधानादि-
त्यभ्यासमात्रमुक्तं तथाऽपि वैराग्यमिह तत्सहकारितया ग्राह्यमित्याह-ताभ्यामुक्तलक्षणा-
भ्यामेवाभ्यासवैराग्याभ्यां निरोद्धव्याः। तत्र तयोरभ्यासवैराग्ययोर्मध्येऽभ्यासस्थान-
न्तरोक्तस्येति । तत्मतिषेधार्थमित्यादि । एकं तत्त्वमीश्वरः प्रकृतत्वादिति । वैनाशिकानां

    १ ग. य. ह. च. 'स्तदुप'। ३६

वाचस्पतिकृतटीकासंबलितव्यासभाष्यसमेतानि-[१ समाधिपादे-

विक्षेपप्रतिषेधार्थमेकतत्त्वावलम्वनं चित्तमभ्यसेत् । यस्य तु
प्रत्यर्थनियतं प्रत्ययमात्रं क्षणिकं च चित्तं तस्य सर्वमेव चित्तमे-
काग्रं नास्त्येव विक्षिप्तम् । यदि पुनरिदं सर्वतः प्रत्याहृत्यैक-
स्मिन्नर्थे समाधीयते तदा भवत्येकानमित्यतो न प्रत्यर्थनियतम् ।

योऽपि सदृशप्रत्ययप्रवाहेन चित्तभेकाग्रं मन्यते तस्यैकाग्रता
यदि प्रवाहचित्तस्य धर्मस्तदैकं नास्ति प्रवाहचित्तं क्षणिकत्वात् ।
अथ प्रवाहांशस्यैव प्रत्ययस्य धर्मः, स सर्वः सदृशप्रत्ययवाही
वा विसदृशप्रत्ययप्रवाही वा प्रत्यर्थनियतत्वादेकान एवेति
विक्षिप्तचित्तानुपपत्तिः । तस्मादेकमनेकार्थमवस्थितं चित्तमिति |

तत्सर्वमेकाग्रमेव चित्तं नारित किंचिद्विक्षिप्तमिति तदुपदेशानां तदर्थानां च प्रवृत्तीनां वैयर्थ्यमित्याह-यस्य विति । यस्य मते प्रत्यर्थेऽर्यमाण एकस्मिन्ननेकस्मिन्या नियतं यावदावभासमुत्पन्नं तत्रैव समाप्तमनन्यगामि । अर्थान्तरं तावत्प्रथमं गृहीत्वाऽर्थान्तरमपि पश्चात्कस्मान्न गृह्णातीत्यत आह-क्षणिकं च क्षणस्याभेद्यावेन पूर्वपश्चाद्भावस्याप्यभाय इति भावः । अस्मन्मते त्वक्षणिकं चित्तं स्वविषय एकस्मिन्ननेकस्मिन्वाऽनवस्थितं प्रतिक्षणं तत्तद्विषयोपादानपरित्यागाभ्यां विषयानियतं विक्षिप्तमतो विक्षेपपरिणाममपनीय शक्यैका. प्रताऽऽधातुमिति तदुपदेशनवृत्त्योननिर्थकत्वमित्याह-यदि पुनरिदमिति । उपसंहरति- अतो नेति ।

चैनाशिकमुत्थापयति योऽपीति । मा भूदेकस्मिन्क्षणिक चित्त एकाग्रताधानप्रयत्नः। चित्तसंताने त्वनादावक्षणिके विक्षेपमपनीयैकाग्रताऽऽधास्यत इत्यर्थः । तदेतद्विकल्प्य दूषयति-तस्थेति । तस्य दर्शन एकाग्रता यदि प्रवाहचित्तस्य चित्तसंतानस्य वा धर्मः । तत्रैक क्रमवदुत्पादेषु प्रत्ययेष्वनुगतं नास्ति प्रवाहचित्तम् । कुतः, यद्यावदस्ति तस्य सर्वस्य क्षणिकत्वादक्षणिकस्य चासत्वाद्भवतां दर्शन इति भावः । द्वितीयं कल्पं गति- अथेति । सातस्य प्रवाहस्यांश: प्रत्ययः परमार्थसंस्तस्य प्रत्ययस्यैकामता प्रयत्नसाध्यो धर्मः । दूषयति-स सर्वः सांभूतप्रवाहापेक्षया सदृशमत्ययप्रवाही वा विसदृशप्रत्ययप्र- वाही वा । अतः परमार्थसत्तारूपेण प्रत्यर्थनियतत्वाद्यदर्थावभास उत्पनस्तत्र समाप्तत्वादे- काम एवेति विक्षिप्तचित्तानुपपत्तिः, यदपनयेनैकाग्रताऽऽधीयत इति । उपसंहरति- तस्मादिति । । ज. ऽयमान र' । २ ख. ज. झ. sऽनर्थक्यानि । ३ क. झ. वृत्तस्य ।

४ क. अ. वृत्त ।
स० ३२]
३७
पातञ्जलयोगसूत्राणि ।

 यदि च चित्तेनैकेनानन्विताः स्वभावभिन्नाः प्रत्यया जाये-

रनय कथमन्यप्रत्ययदृष्टस्यान्यः स्मर्ता भवेत् । अन्यप्रत्ययोपचि-

तस्य च कर्माशयस्यान्यः प्रत्यय उपभोक्ता भवेत् । कथंचित्स-

माधीयमानमप्येतद्गोमयपायसीयन्यायमाक्षिपति ।


 किं च स्वात्मानुभवापयश्चित्तस्यान्यत्वे प्राप्नोति । कथं,


 इतोऽपि चित्तभेकमनेकार्थमवस्थितं चेत्याह –यदि चेति । यथा हि मैत्रेणाधीतस्य
शास्त्रस्य न चैत्रः स्मरति । यथा वा मैत्रेणोपचितस्य पुण्यस्य पापस्य वा फर्माशयस्य
फलं तदसंबन्धी चैत्रो न भुङ्क्ते, ए। प्रत्ययान्तरदृष्टस्य प्रत्ययान्तरं न स्मरेत् । प्रत्ययान्तरो.
पचितस्य वा कर्माशयस्य फलं च न प्रत्ययान्तरमुपभुञ्जीतेत्यर्थः । ननु नातिप्रसज्येते
कार्यकारणभावे सतीति विशेषणाच्छाद्धवैश्वानरीयेष्टयादावकर्तमातपितपुत्रादिगामिफलदर्श-
नान्मधुररसभावितानां वाऽऽम्रबीजादीनां परम्परया फलमाधुर्यनियमादित्यत आह-समा-
धीयमानमप्येतदिति । अयमभिसंधिः-कः खल्वेकसंतानवर्तिनां प्रत्ययानां संताना.
न्तरवर्तिभ्यः प्रत्ययेभ्यो विशेषो येनैकसंतानवर्तिना प्रत्ययेनानुभूतस्योपचितस्य च कर्मा-
शयस्य तत्संतानवयैव प्रत्ययः स्मर्ता भोक्ता च स्यान्नान्यसंतानवर्ती । न हि संतानो
नाम कश्चिदस्ति वस्तुसन् । य एनं संतानं संतानान्तरवर्तिभ्यो भिन्द्यात् । न च काल्प.
निको भेदः क्रियायामपपद्यते । न खल कल्पिताग्निभावो माणवकः पचति । न च कार्य-
कारणभावसंबन्धोऽपि वास्तवः । सहभुवोः सव्येतरविषाणयोरिवाभावादसहभुवोरपि प्रत्यु-
त्पन्नाश्रयत्वायोगात् । नह्यतीतानागतौ व्यासज्ज्य प्रत्युत्पन्नं वर्तितुमर्हतः । तस्मात्संतानेन
वा कार्यकारणभावेन वा स्वाभाविकैनानुहिताः परमार्थसन्तः प्रत्ययाः परस्परासंस्पर्शि-
त्वेन स्वसंतानवर्तिभ्यः परसंतानवर्तिभ्यो वा प्रत्ययान्तरेभ्यो न भिद्यन्ते । सोऽयं गोमयं
च पायसं चाधिकृत्य प्रवृत्तो न्यायो गोमयं पायसं गव्यत्वादुभयसिद्धपायसवदिति । तमा-
क्षिपति न्यायाभासत्वेन ततोऽप्यधिकत्वादिति । न चात्र कृतनाशाकृताभ्यागमं चोद्यम् ।
यतश्चित्तभेव कर्मणां कर्तृ तदेव तज्जनिताभ्यां सुखदुःखाभ्यां युज्यते । सुखदुःखे च
चितिच्छायापन्नं चित्तं भुक्त इति पुरुषे भोगाभिमानश्चितिचित्तयोरभेदग्रहादिति । स्वात्ययं
प्रतीत्य समुत्पन्नानां स्वभाव एवैषां तादृशो यत्त एव स्मरन्ति फलं चोपभुञ्जते न स्वन्ये ।
न च स्वभावा नियोगपर्थनुयोगावहन्ति एवं भवत मैवं भूतेति वा कस्मान्नैवमिति चेति ।

यः पूर्वोक्ते न परितुष्यति तं प्रत्याह-किं च स्वात्मेति । उदयव्ययधर्माणा-

 १ ख. छ. "त् । समा"। २ क. "सज्येत का" । झ. सज्यते का । ३ ख. ज. स. "तानिन। ४ क "पहताः । ३८. वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि- [१ समाधिपादे-

                           यदहमद्राक्षं तत्स्पृशामि यच्चास्माक्षं  तत्पश्यामीत्यहमिति प्रत्ययः
                           सर्वस्य प्रत्ययस्य भेदे सति प्रत्ययिन्यभेदेनोपस्थितः । एकम-
                           त्ययविषयोऽयमभेदात्माऽहमिति प्रत्ययः कथमत्यन्तभिन्नेषु
                           चित्तेषु वर्तमानः सामान्यमकं प्रत्ययिनमाश्रयेत् । स्वानुभवग्रा-
                          ह्यश्वायमभेदात्माऽहमिति प्रत्ययः । न च प्रत्यक्षस्य माहात्म्य
                          प्रमाणान्तरेणाभिभूयते । प्रमाणान्तरं च प्रत्यक्षवलेनैव ब्यक-
                          हारं लभते । तस्मादेकमनेकार्थमवस्थितं च चित्तम् ॥ ३२॥
                             यस्य 'चित्तस्यावस्थितस्येदं शास्त्रेण परिकर्म निर्दिश्यते
                   तत्कथम्-
                                           भैत्रीकरुणामुदितोपेक्षाणां सुख-
                                           दुःखपुण्यापुण्यविषयाणा भाव-
                                           नातश्चित्तप्रसादनम् ॥ ३३॥
                     तत्र सर्वप्राणिषु सुखसंभोगापन्नेषु मैत्री भावयेत् । दुःखि-
                    तेषु करुणाम् । पुण्यात्मकेषु मुदिताम् । अपुण्यशीलेषूपेक्षाम् ।

मनुभवानामनुभवस्मृतीनां च नानात्वेऽपि तदाश्रयमभिन्नं चित्तमहमिति प्रत्ययः प्रतिसंद-

           धानः कथमत्यन्तभिन्नान्प्रत्ययानालम्बेत । ननु ग्रहणस्मरणरूपकारणभेदात्पारोक्ष्यापारो-
           क्ष्यरूपविरुद्धधर्मसंसर्गाद्वा न प्रत्यभिज्ञान नामकः प्रत्ययो यतः प्रत्ययिनश्चित्तस्यैकता
           स्यादित्यत आह--स्वानुभवेति । ननु कारणभेदविरुद्धधर्मसंसर्गावेवात्र बाधकावुक्तावि.
           त्यत आह--न च प्रत्यक्षस्यति । प्रत्यक्षानुसारत एव सामग्र्यभेदः पारोक्ष्यापारोश्यध-
           विरोधश्चोपपादितो न्यायकणिकायाम् । अक्षणिकस्य चार्थक्रिया न्यायकणिकाब्रह्मत-
           त्वसमीक्षाभ्यामुपपादितेति सर्वमयदःतम् ॥ ३२ ॥
               अपरिमितमनसोऽसूयादिमतः समाधितदुपायसंपत्त्यनुत्पादाच्चित्तप्रसादनौपायान.
               सुयादिविरोधिनः प्रतिपादयितुमुपक्रमते--यस्य चित्तस्यावस्थितस्येदमिति ।
               मैत्रीकरुणेत्यादिप्रसादनान्तम् । सुखितेषु मैत्री सौहार्द भावयत ईर्ष्याकालुष्यं
               निवर्तते चित्तस्य । दुःखितेषु च करुणामात्मनीव परस्मिन्दुःखप्रहाणेच्छां भावयतः
               परापकारचिकीर्षक लुष्यं चेतसो निवर्तते । पुण्यशीलेषु प्राणिषु मुदितां हर्ष भावय.
               तोऽसूयाकालुष्यं चेतसो निवर्तते । अपुण्यशीलेषु चौपेक्षा माध्यस्थ्यं भावयतोऽमर्ष-
                १ क. स्व. छ. क्याम्पह° । २ क. ख. च. "त्ययिवि । ३ क. ख. 'मानं सा । ४ ख.
                        यदिदं । प. ड. च. छ. १स्थे । ५ ख. छ. "ते । कथ। स०३४-३५]                              ३९

पातञ्जलयोगसूत्राणि । .

एवमस्य भावयतः शुक्लो धर्म उपजायते । ततश्च चित्तं प्रसी-
दति । प्रसन्नमेको स्थितिपदं लभते ॥ ३३ ॥
प्रच्छर्दनविधारणायां वा प्राणस्य ॥ ३४ ॥
___ कौष्ठथस्य वायो सिकापुटाभ्यां प्रयत्नविशेषाद्रुमनं मच्छ-
दैनं, विधारणं प्राणायामस्ताभ्यां वा मनसः स्थितिं संपाद-
येत् ॥ ३४ ॥
विषयवती वा प्रवृत्तिरुत्पन्ना
मनसः स्थितिनिबन्धनी ॥ ३५ ॥
नासिकाग्रे धारयतोऽस्य या दिव्यगन्धसंवित्सा गन्धप्र-
वृत्तिः । जिह्वाग्रे रससंवित् । तालनि रूपसंवित् । जिह्वामध्ये
स्पर्शसंवित् । जिह्वामूले शब्दसंविदित्येता वृत्तय उत्पन्नाश्चित्तं

कालुष्यं चेतसो निवर्तते । ततश्चास्य राजसत्तामसधर्मनिवृत्ती साविकः शुक्लो धर्म उपजायते । सत्वोत्कर्षसंपन्नः संभवति वृत्तिनिरोधपक्षे । तस्य प्रसादस्वाभाव्याच्चित्तं प्रसीदति । प्रसन्नं च वक्ष्यमाणेभ्य उपायेभ्य एकाग्रं स्थितिपदं लभते । असत्यां पुनमैं- त्र्यादिभावनायां न त उपायाः स्थित्यै कल्पन्त इति ॥ ३३ ॥ __ तानिदानी स्थिायुपायानाह-प्रच्छदनविधारणाभ्यां वा प्राणस्य । वाशब्दो वक्ष्यमाणोपायान्तरापेक्षो विकल्पार्थः, न मैत्र्यादिभावनापेक्षया तया सह समुच्चयात् । प्रच्छर्दनं विवृणोति--कौष्ठयस्येति । प्रयत्नविशेषाद्योगशास्त्रविहितायेन कौष्ठयो वायु. नासिकापुटाभ्यां शनै रेग्यते । विधारणं विवृणोति-विधारणं प्राणायामः । रोचितस्य प्राणस्य कौष्टवस्य वायोर्यदायामो बहिरेव स्थापनं न तु सहसा प्रवेशनम् । तदेताभ्यां प्रच्छर्दन विधारणाभ्यां वायोर्लघुकृतशरीरस्य मनः स्थितिपदं लभते । अत्र चोत्तरसूत्रगता. स्थितिनिबन्धनीतिपदातिस्थातग्रहणमाकृष्य संपादयेदित्यर्थप्राप्तेन संबन्धनीयम् ॥ ३४ ॥ स्थित्युपायान्तरमाह---विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिर्व- न्धनी । व्याचष्टे-नासिकाग्रे धारयत इति । धारणाध्यानसमाधीन्कुर्वतस्तज्ज- याद्या दिव्यगन्धसंवित्तत्साक्षात्कारः । एवमन्यास्वपि प्रवृत्तिषु . योग्यम् । एतचाऽऽग. मात्मत्येतव्यं नोपपत्तितः । स्यादेतत्किमेताग्भित्तिभिः कैवल्यं प्रत्यनुपयोगिनीभि- रित्यत आह-एता वृत्तयोऽल्पेनैव कालेनोत्पन्नाश्चित्तमीश्वरविषयायां वा विवेक-

१ घ. कामस्थि । २ ग. स्थिरप।३ क. ख. बनासी । ४ ग. घ. ड. घ. 'त्येताः प्रवृ । ५ क. °बन्धिनी । ६ क. गन्धिनी । स्थितौ निबध्नन्ति, संशयं विधमन्ति, समाधेप्रज्ञायां च द्वारी
भेवन्तीति । एतेन चन्द्रादित्यग्रहमणिप्रदीपरश्म्यादिषु प्रवृत्ति-
रुत्पन्ना विषयवत्येव वेदितव्या । यद्यपि हि तत्तच्छास्त्रानुमाना-
चार्योपदेशैरवगतमर्थतत्त्वं सद्भूतमेव भवति, एतेषां यथाभूतार्थ-
प्रतिपादनसामर्थ्यात् , तथाऽपि यावदेकदेशोऽपि कश्चिन्न स्वक-
रणसंवेद्यो भवति तावत्सर्वं परोक्षमिवापवगोदिषु सूक्ष्मेष्वर्थेषु
न दृढां बुद्धिमुत्पादयति । तस्माच्छास्त्रानुमानाचार्योपदेशो-
पोदलनार्थमेवावश्यं कश्चिदर्थविशेषः प्रत्यक्षीकर्तव्यः । तत्र तदु-
पदिष्टार्थेकदेशप्रत्यक्षत्वे सति सर्व सूक्ष्मविषयमपि आऽपवर्गा-
च्छ्रद्धीयते । एतदर्थमेवेदं चित्तपरिकर्म निर्दिश्यते । अनिय-
तासु वृत्तिषु तद्विषयायां वशीकारसंज्ञायामुपजातायां समर्थ
स्यात्तस्य तस्यार्थस्य प्रत्यक्षीकरणायेति । तथा च सति श्रद्धा-
वीर्यस्मृतिसमाधयोऽस्याप्रतिबन्धेन भविष्यन्तीति ॥ ३५ ||

विशोका वा ज्योतिष्मती ॥ ३६॥

प्रवृत्तिरुत्पन्ना मनसः स्थितिनिवन्धनीत्यनुवर्तते । हृदयपुण्डरीके
 

ख्यातिविषयायां वा सिथतौ निबध्नन्ति । नन्वन्यविषया वृत्तिः कथमन्यत्र स्थिति निब-
ध्नातीत्यत आह-संशयं विधमन्ति अपसारयन्ति अत एव समाधिप्रज्ञायामिति ।
वृत्त्यन्तराणामप्पागमसिद्धानां विषयवैत्त्वमतिदिशति-एतेनेति । नन्वागमादिभिरवगते-
ष्वर्थेषु कुतः संशय इत्यत आह-यद्यपि हीति । श्रद्धामूलो हि योग उपदिष्टायैंकदेश-
प्रत्यक्षीकरणे च श्रद्धातिशयो जायते। तन्मूलाच ध्यानादयोऽस्याप्रत्यूहं भवन्तीत्यर्थः।।३५॥
विशोका वा ज्योतिष्मती । विगतशोका दुःखरहिता ज्योतिष्मती ज्योतिरस्या
अस्तीति ज्योतिष्मती प्रकाशरूपा। हृदयपुण्डरीक इति । उदरोरसोर्मध्ये यापाम-
धोमुखं तिष्ठत्यष्टदलं रेचकप्राणायामेन तदूर्धमुखं कृत्वा तत्र चित्तं धारयेत् । तन्मध्ये
सूर्यमण्डलमकारो जागरितस्थानं तस्योपरि चन्द्रमण्डलमुकरः स्वप्नस्थानम् ।
तस्योपरि वह्निमण्डलं मकारः सुषुप्तिस्सनम् । तस्योपरि परत्योमात्मकं
ब्रह्मनादं तुरीयस्थानमर्धमात्रमुदाहरन्ति ब्रह्मवादिनः । तत्र कर्णिकायामूर्धमुखी

सूर्यादिमण्डलमध्यगा ब्रह्मनाडो । ततोऽप्यूचं प्रवृत्ता सुषुम्ना नाम नाडी ।

१ ख. छ. भवन्ति । २ ग. प. उ. च. छ. 4 सुस । ३ क. ख. छ. कन्धिनी । १ अ, वतीत्वम । धारयतो या बुद्धिसंवित , बुद्धिसत्त्वं हि भास्वरमाकाशकल्पं,
तत्र स्थितिवैशारद्यात्प्रवृत्तिः सूर्येन्दुग्रहमणिप्रभारूपाकारेण विक-
स्पते । तथाऽस्मित्तायां समापन्नं चित्त निस्तरङ्गमहोदधिकल्पं
शान्तमनन्तमस्मितामात्रं भवति । यत्रेदमुक्तम्-" तमणुमात्र-
मात्मानमनुविद्यास्मीत्येवं तावत्संप्रजानीले " इति । एषा द्वयी
विशोका विषयवती, अस्मितामात्रा च प्रवृत्तिज्योतिष्मतीत्यु-
च्यते । यया योगिनश्चित्तं स्थितिपदं लभत इति ॥ ३६॥

वीतरागविषयं वा चित्तम्॥ ३७ ॥

वीतरागचित्तालम्बनोपरक्तं वा योगिनश्चित्तं स्थितिपदं लभनं
इति ॥ ३७॥

स्वमनिदाज्ञानालम्बनं वा ॥ ३८ ॥

स्वमज्ञानालम्बनं वा निद्राज्ञानालम्बनं वा तदाकारं योगिन-
श्चित्तं स्थितिपदं लभत इति ॥ ३८ ॥


तया खलु बाह्यान्यपि सूर्यादीनि मण्डलानि प्रोतानि । सा हि चित्तस्थानम् । तस्यां धारयतो योगिनश्चित्तसंविदुःपजायते । उपपत्तिपूर्वक बुद्भिसंविद आकारमादर्शयति ---- बुद्धिसत्त्वं होति । आकाशकल्पमिति व्यापितामाह । सूर्यादीनां प्रभास्तासां रूपं तदाकारेण विकल्पते न नारूपा भवति । मनश्चात्र बुद्धिरभिमतं न तु महत्तत्त्वम् । तस्य च सुपुम्नास्थस्य वैफारिकाहंकारजन्मनः सत्त्वबहुलतया ज्योतीरूपता विवक्षिता । तत्तद्विषयगोचरतया च व्यापिवमपि सिद्धम् । अस्मिताकार्ये मनसि समापत्ति दर्शयि. वाऽस्मितासमापत्तेः स्वरूपमाह-तथेति । शान्तमपगतरजस्तमस्तरङ्गम् । अनन्तं व्यापि । अस्मितामात्रं न पुनर्नानाप्रभारूपम् । आगमान्तरेण स्वमतं समा करोति-यत्रेदमुक्तं पञ्चशिखेन समणु दुरधिगमवादात्मानमहंक रास्पदमनुविद्यानुचिन्त्यास्मीत्येवं तावत्संजा- नीत इति । स्यादेतत् । नानाप्रभारूपा भवतु ज्योतिष्मती कथमस्मितामात्ररूपा ज्योतिष्मतीसत आह-एपा द्वयीति । विवतरजस्तमोमल स्मितैव सत्त्वमयी ज्योतिरिति भावः । द्विविधाया अपि ज्योतिष्मत्याः फलमाह-ययेति ॥ ३६ ॥
वीतरागविषयं वा चित्तम् । वीतरागाः कृष्णद्वैपायनप्रभृतयस्तेषां चित्तं तदे- वाऽऽलम्बनं तेनोपरक्तमिति ॥ ३७॥
स्वमनिद्राज्ञानालम्बनं वा । यदा खल्वयं स्वप्ने विविक्तवनसंनिवेशवर्तिनीमुत्की


१ ख. छ त्यता । २ क. स. छ. प्रतिमा । ३. म. घ. ङ. च. ' म । ४ ख. च. छ. पायो।

|

यथाभिमतध्यानाद्वा ॥ ३९ ॥

यदेवाभिमतं तदेव ध्यायेत् । तत्र लन्धस्थितिकमन्यत्रापि

स्थितिपदं लभत इति ॥ ३९॥

परमाणुपरममहत्वान्तोऽ.

स्य वशीकारः ॥४०॥

सूक्ष्मे निविशमानस्य परमाण्वन्तं स्थितिपदं लभत इति ।

स्थूले निविशमानस्य परममहत्त्वान्तं स्थितिपदं चित्तस्य । एवं

तामभयीं कोटिमनधावतो योऽस्याप्रेतीघातः स परो वशी.

कारः । तदशीकारात्परिपूर्ण योगिनश्चित्तं न पुनरभ्यासकृतं

परिकर्मापेक्षत इति ॥४०॥

अथ लब्धस्थितिकस्य चेतसः किंस्वरूपा किंविषया वा

समापत्तिरिति, तदुच्यते-


मित्र चन्द्रमण्डलात्कोमलमृणालशकलानुकारिभिरङ्गप्रत्यङ्गै रुपपन्नामभिजातचन्द्रकान्तम.

णिमयीमतिसुरभिमालतीमल्लिकामालाहारिणी मनोहरां भगवतो महेश्वरस्य प्रतिमामाराधय-

न्नेव प्रबुद्धः प्रसन्नमनास्तदा तामेव स्वप्नज्ञानालम्बनीभूतामनुचिन्तयतस्तस्य तदेकाकारम.

नसस्तत्रैव चित्तं स्थितिपदं लभते । निद्रा चेह सात्तिकी ग्रहीतव्या । यस्याः प्रबुद्धस्य

सुखमहमस्वाप्समिति प्रत्यवमर्शो भवति । एक.नं हि तस्यां मनो भवति । तावन्मात्रेण

चोक्तम्-एतदेव ब्रह्मविदो ब्रह्मणो रूपमुदाहरन्ति सुप्तावस्थेति । ज्ञानं च ज्ञेयरहितं न

शक्यं गोचरयितुमिति ज्ञेयमपि गोचरी कियते ॥ ३८ ॥

यथाभिमतध्यानाद्वा । किं बहुना यदेवाभिमतं तत्तद्देवतारूपमिति ॥ ३९ ॥

कथं पुनः स्थितिसात्मीभावोऽवगन्तव्य इत्यत आह-परमाणुपरममहत्त्वान्तोऽस्य

वशीकारः। व्याचष्टे-सक्ष्म इति । उक्तमर्थ पिण्डीकृत्य वीकारपदार्थमाह-एवं

तामुभयीमिति । वशीफारस्यावान्तरफलमाह-तीकारादिति ॥ ४० ॥

तदेवं चिचस्थितेरुपाया दर्शिताः । लब्बास्थितिकस्य चित्तस्य वशीकारोऽपि

दर्शितः । संप्रति लब्धस्थितिकस्य चेतसः किंविषयः किरूपश्च संप्रज्ञातो भवतीति

पृच्छति-अथेति । अत्रोत्तरं सूत्रमवतारयति-तदुच्यत इति । सूत्रं पठति-


१ क. ख. परात्पर । २ ग. घ. रू. छ. प्रतिमा । ३ ख. म. रुरेताम' १४ ख. ज. प्रा. यस्यां। ५ क. ज. "न्ति स्वभाव । ६ ज. तिसा १७ क. पदं सात्मभा°1८ झ. दमात्मी।

क्षीणवृत्तेरभिजातस्येव मणेर्य-

हीतृग्रहणग्राह्येषु तत्स्थतदा-

नता समापत्तिः ॥४१॥

क्षीणवृत्तेरिति प्रत्यस्तमितप्रत्यस्येत्यर्थः । अभिजातस्येव

मणेरिति दृष्टान्तोपादानम् । यथा स्फटिक उपाश्रयभेदात्तत्त-

द्रूपोपरक्त उपाश्रयरूपाकारेण निर्भासते तथा ग्राह्यालम्बनो.

परक्तं चित्तं ग्राह्यसमापन्नं ग्राह्यस्वरूपाकारेण निर्भासते ।

भूतसूक्ष्मोपरक्तं भूतसूक्ष्मसमापन्नं भूतसूक्ष्मस्वरूपाभासं भवति ।

तथा स्थूलालम्बनोपरक्तं स्थूलरूपसमापन्नं स्थूलरूपाभास

भवति । तथा विश्वभेदोपरक्तं विश्वभेदसमापन विश्वरूपाभासं

भवति ।

तथा ग्रहणेष्वपीन्द्रियेष्वपि द्रष्टव्यम् । ग्रहणालम्बनोपरक्तं

ग्रहणसमापन्न ग्रहणस्वरूपाकारेण निर्भासते । तथा ग्रहीतपुरु-

पालम्बनोपरक्तं ग्रहीतृपुरुषसमापन्नं ग्रहीतृपुरुषस्वरूपाकारेण


क्षीणवृत्तेरित्यादि समापत्त्यन्तम् । तद्वयाचष्टे-क्षीणेति । अभ्यासथैराग्याभ्यां क्षीण-

राजसतामसप्रमाणादिवृत्तेश्चित्तस्य । तस्य व्याख्यानं-प्रत्यस्तमितप्रत्ययस्येति । तद-

नेन चित्तसत्तस्य स्वभावस्वच्छस्य रजस्तमोभ्यामनभिभव उक्तः। दृष्टान्तं स्पष्टयति-

यथोत । उपाश्रय उपाधिर्जपाकुसुमादिरूपरक्तस्तच्छायापन्नः । उपाश्रयस्य यदा-

त्मीयं रूपं लोहितनीलादि तदेवाऽऽकारस्तेन लक्षितो निर्भासते । दार्टान्तिके योज-

यति-तथा ग्राह्येति । ग्राह्यं च तदालम्बनं च तेनोपरक्तं तदनुविद्धं, तदनेन ग्रही-

तृग्रहणाभ्यां व्यवच्छिनात्त । आत्मीयमन्तःकरणरूपमपिधाय ग्राह्यसमापन्नं ग्राह्यता-

मिव प्राप्तमिति यावत् । अतो ग्राह्यस्वरूपाकारेण निभासते । ग्राह्योपरागमेव सूक्ष्मस्थूल-

ताभ्यां विभजते----भूतसूक्ष्मेति । विश्वभेदश्चेतनाचेतनस्वभावो गवादिर्घटादिश्च द्रष्टव्यः । तदनेन वितकेविचारानुगतौ समाधी दर्शितौ ।

___ तथा ग्रहणेष्वपीन्द्रियोविति । गृह्यन्त एभिरा इति ग्रहणानीन्द्रियाणि । एत-

देव स्पष्टयति-ग्रहणालम्बनेति । ग्रहणं चाऽऽलम्बनं च तदिति ग्रहणालम्बनं

तेनोपरक्तमनुविद्धमात्मीयमन्तःकरणरूपमपिधाय ग्रहणमिव बहिष्करणमिवाऽऽपन्न.

मिति । तदनेनाऽऽनन्दानुगतमुक्त्वाऽस्मितानुगतमाह---तथा ग्रहीतपुरुषेति । अस्मि-


१ क. ख. च. छ. 'ते। तथा भू । २ ख. च. छ. येषु द्र।

निर्भासते । तथा मुक्तपुरुषालम्बनोपरक्तं मुक्तपुरुषसमापन्नं
मुक्तपुरुषस्वरूषाकारेण निर्भासेत् इति । तदेवमभिजातम्-
णिकल्पस्य चेतसो ग्रहीतग्रहणग्राह्येषु पुरुषेन्द्रियभूतेषु या
तत्स्थतदजनता तेषु स्थितस्य तदाकारापत्तिः सा समापत्ति-
रित्युच्यते ॥४१॥

सत्र शब्दार्थज्ञानविकल्पैः संकीर्णा
सवितर्का समापत्तिः॥ ४२ ॥


तद्यथा गौरितिशब्दो गौरित्यर्थो गौरिति ज्ञानमित्य-
विभागेन विभक्तानामपि ग्रहणं दृष्टम् । विभज्यमानाश्चान्ये

तास्पदं हि ग्रहीता पुरुप इति भावः । पुरुपत्वाविशेषादनेनैव मुक्तोऽपि पुरुषः शुक-
प्रहलादादिः समाधिविषयतया संग्रहीतव्य इत्याह--तथा मुक्तेति । उपसंहरंस्तत्स्थतद.
ञ्जनतापदं व्याचष्टे--तदेवमिति । तेषु ग्रहीतग्रहणग्राह्येषु स्थितस्य धारितस्य ध्यानपरि-
पाकवशादपहतरजस्तमोमलस्य चित्तसत्त्वस्य या तत्स्थतदअनता तदाकारता सा समा-
पत्तिः संप्रज्ञातलक्षणो योग उच्यते । तत्र च ग्रहीतग्रहणग्राह्येष्विति सौत्रः पाठक्रमोऽ-
र्थक्रमविरोधान्नाऽऽदर्तव्यः । एवं भाष्येऽपि प्रथमं भतसूक्ष्मोपन्यासोऽप्यनादरणीय इति
सर्वं रमणीयम् ॥ ४१ ॥
सामान्यतः समापत्तिरुक्ता । सेयमवान्तरभेदाचतुविधा भवति । तद्यथा सवितर्का
निर्वितर्का सविचारा निर्विचारा चेति । तत्र सवितर्कायाः समापत्तेर्लक्षणमाह-तत्रे.
त्यादि । तामु समापत्तिषु मध्ये सवितर्का समापत्तिः प्रतिपत्तव्या । कीदृशी शब्द.
श्वार्थश्च ज्ञानं च तेषां विकल्पाः । वस्तुतो भिन्नानामपि शब्दादीनामितरेतरराध्यासा-
द्विकल्पोऽप्येकस्मिन्भेदमादर्शयति भिन्नेषु चाभेदम् । तेन शब्दार्थज्ञानविकल्पैः संकीर्णा
व्यामिश्रेयर्थः । तद्यथा गौरिति शब्द इति । गौरित्युपात्तपोरर्थज्ञानयोः शब्दाभेद-
विकल्पो दर्शितः । गौरित्यर्थ इति । गौरित्युमात्तयोः शब्दज्ञानयोरभेदविकल्पः ।
गौरिति ज्ञानमिति । गौरित्युपात्तयोः शब्दार्थयोर्ज्ञानाभेदविकल्पः । तदेवमविनिर्भा-
गेन(ण) विभक्तानामपि शब्दार्थज्ञानानां ग्रहणं लोके दृष्टं द्रष्टव्यम् । यद्यविभागेन
ग्रहणं कुतस्तहि विभाग इत्यत आह—विभज्यमानाश्चान्वयव्यतिरेकाभ्यां परी-

१ ग. य. . छ, 'सते । त° १२ क. 'कल्पो व' । ख, ज. कल्पानांव' । ३ झ. लो. कद् । ४ ज. के द" । ५ व. दृष्ट । सू० ४२] पातञ्जलयोगसूत्राणि । ४४


शब्दधर्मा अन्येऽर्थधर्मा अन्ये विज्ञानधर्मा इत्येतेषां विभक्तः

पन्थाः । तत्र समापन्नस्य योगिनो यो गवाद्यर्थः समाधिप्रज्ञायां

समारूढः स चेच्छब्दार्थज्ञानविकल्पानुविद्ध उपावर्तते सा

संकीर्णा समापत्तिः सवितर्केत्युच्यते ॥ ४२ ॥

यदा पुनः शब्दसंकेतस्मृतिपरिशुद्धौ श्रुतानुमानज्ञानविक-

ल्पशून्यायां समाधिप्रज्ञायां स्वरूपमात्रेणावस्थितोऽर्थस्तत्स्वरू-

पाकारमात्रतयैवावच्छिद्यते । सा च निर्वितर्का समापत्तिः ।

तत्परं प्रत्यक्षम् । तच्च श्रुतानुमानयोर्बीजम् । ततः श्रुतानुमाने

प्रभयतः । न च श्रुतानुमानज्ञानसहथूतं तदर्शनम् । तस्मादसं-

कीर्ण प्रमाणान्तरेण योगिनो निर्वितर्कसमाधिजं दर्शनमिति ।


क्षकैरन्ये शब्दधर्मा ध्वनिपरिणाममात्रस्य शब्दस्योदात्तादयो धर्मा अन्येऽर्थस्य

जडत्व-

मूर्तत्वादयः, अन्ये प्रकाशमूर्तिविरहादयो ज्ञानस्य धर्मा इति । तस्मादेतेषां विभक्तः

पन्थाः स्वरूपभेदोन्नयनमार्गः । तत्र विकल्पिते गवाद्यर्थे समापत्रस्येति । तदनेन

योगिनोऽपरं प्रत्यक्षमुक्तम् । शेषं सुगमम् ॥ ४२ ॥

सूत्रं योजयितुं प्रथमतस्तावन्निर्मितको व्याचष्टे-- यदा पुनरिति । परिशुद्धिर-

पनयः । शब्दसंकेतस्मरणपूर्वे खल्वागमानुमाने प्रवर्तेते । संकेतश्चायं गैरिति शब्दा-र्थज्ञानानामितरेतराध्यासात्मा । ततश्चाऽऽगमानुमानज्ञानविकल्पौ भवतः । तेन तत्पूर्वा

समाधिप्रज्ञा सवितर्का । यदा पुनरर्थमात्रप्रवणेन चेतसाऽर्थमात्राहतेन तदभ्यासान्ना-न्तरीयकतामुपगता संकेतस्मृतिस्त्यक्ता, तत्त्यागे च श्रुतानुमानज्ञानविकल्पो तन्मूलौ.

त्यक्तौ, तदा तच्छून्यायां समाधिप्रज्ञायां स्वरूपमात्रेणावस्थितोऽर्थस्तव्स्वरूपमात्रतयैव

न तु विकरिश्तेनाऽऽकारेण परिच्छिद्यते । सा निर्वितर्का समापत्तिरिति । तद्योगिनां

परं प्रत्यक्षमसदारोपगन्धस्याप्यभावात् । स्यादेतत्परेण प्रत्यक्षेणार्थतत्त्रंw गृहीत्वा

योगिन उपदिशन्त्युपयादयन्ति च । कथं चातद्विषयाभ्यामागमपरार्थानुमानाभ्यां

सोऽर्थ उपदिश्यत उपपाद्यते च । तस्मादागमानुमाने तद्विषये ते च विकलाविति

परमपि प्रत्यक्षं विकल्प एवेत्यत आह-तच्च श्रुतेति । यदि हि सवितर्कमिव श्रुता-

नुमानसहभूतं तदनुषक्तं स्याद्भवेत्संकीर्ण तयोस्तु बीजमेवैतत्ततो हि श्रुतानुमाने प्रभ-

वतः । न च यद्यस्य कारणं तत्तद्विषयं भवति । न हि धूमज्ञानं वह्निज्ञानकार•

णमिति वह्निविषयम् । तस्मादविकल्पेन प्रत्यक्षेण गृहीत्वा विकल्योपदिशन्ति

चोपपादयन्ति च । उपसंहरति--तस्मादिति । व्याख्येयं सूत्रw योजयति--


झ. विकले । २ ज. "तस्तां निर्वि । ३ ख. म. ज्ञाने वेि । ४ ज. व्याख्याय ।

THE KUPPUSWAMI SASTRI

RESEARCH INSTITUTE

MADRAS
४६.
[ १ समाधिपादे-
वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि -

निर्वितर्कायाः समापत्तरस्याः सूत्रेण लक्षणं द्योत्यते-

स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थ-
मात्रनिर्भासा निर्वितर्का ॥ ४३ ॥

 या शब्दसंकेतश्रुतानुमानज्ञानविकल्पस्मृतिपरिशुद्धौ ग्राह्य-
स्वरूपोपरक्तो प्रज्ञा स्वमिव प्रज्ञास्वरूपं ग्रहणात्मकं त्यक्त्वा
पदार्थमात्रस्वरूपा ग्राह्यस्वरूपापनेव भवति सौ तदा निर्वितर्का
समापत्तिः ।
 तथा च व्याख्यातम्-तस्या एकबुद्ध्युपक्रमो ह्यर्थात्माऽणु-
प्रचयविशेषात्मा गवादिघंटादिवो लोकः।

 स च संस्थानविशेषो भूतसूक्ष्माणां साधारणो धर्म आत्म-

निर्वितर्काया इति । स्मृतिपरिशुद्धावित्यादि सूत्रम् । शब्दसंकेतश्च श्रुतं चानु-
मानं च तेषां ज्ञानमेव विकल्पस्तस्मात्स्मृतिस्तस्याः परिशुद्धिरपगमस्तस्याम् । तत्र
संकेतस्मृतिपरिशुद्धिर्हेतुः । श्रुतौनुमानस्मृतिपारशुद्धिश्च हेतुमती । अनुमानशब्दश्च कर्म•
साधनोऽनुमेयवाचकः । स्वमिवेतीवकारो भिन्नक्रमस्त्यावेतिपदानन्तरं द्रष्टव्यः ।
 विषयविप्रतिपत्ति निराकरोति-तस्या एकेति । एकां बुद्धिमुपक्रमत आरभत
इत्येकबुद्ध्युपक्रमः । तदनेन परमाणवो नानाभुतानां म निर्वितर्कविषया इत्युक्तं भवति ।
योग्यत्वेऽपि तेषां परमसूक्ष्माणां नानाभूतानां महत्वैकार्थसमवेतैकत्वनिर्भासप्रत्ययविष
यत्वायोगात् । अस्तु तर्हि परमार्थसत्सु परमाणुषु सांवृतः प्रतिभासधर्मः स्थौल्यमित्यत
आह–अर्थात्मेति । नासति बाधके स्थूलमनुभवसिद्धं शक्यापहवमिति भावः । तत्र
ये पश्यन्ति द्वषणुकादिक्रमेण गोघटादय उपजायन्त इति तान्प्रत्याह–अणुप्रचयेति ।
अणूनां प्रचयः स्थूलरूपपरिणामः, स च विशिष्यतेऽन्यस्मात्परिणामान्तरात्स एवाऽऽत्मा
स्वरूपं यस्य स तथोक्तः । गवादिर्भोगायतनम् । घटादिविषयः । तच्चैतदुभयमपि लोक्यत
इति लोकः ।
 नन्वेष भूतसूक्ष्मेभ्यो भिन्नोऽभिन्नो वा स्याद्भिनश्चेत्कथं तदाश्रयः कथं तदा-
कारः । न हि घटः पटादन्यस्तदाकारस्तदाश्रयो वा । अभिन्नश्चेत्तद्वदेव सूक्ष्मोऽसाधा-
रणश्च स्यादत आह- चेति । अयमभिप्रायः--नैकान्ततः परमाणुभ्यो भिन्नो

घटादिरभिन्नो वा, भिन्नत्वे गवाश्ववद्धर्मभिभावानुपपत्तेः । अभिन्नत्वे धर्मिरूपवदेव

 १. ख. 'का स्व'। २ ग. घ. ड. 'शारू' । ३ ग. प. उ. 'सानि' । ४ क. झ. अत्र । ५क. ख. स. "तादिज्ञान" । ६. ज. सांवृचः । ७ क. °थं वै त । ज. °५ चैत ।

          भूतः फलेन व्यक्तेनानुमितः स्वव्यञ्जकाञ्जनः प्रार्दुर्भवति । धर्मा-
          न्तरस्य कपालादेरुदये च तिरो भवति । स एष धर्मोऽवयवी-
          त्युच्यते । योऽसावेकश्च महांश्चणीयांश्च स्पर्शवांश्च क्रियाधर्मक-
          श्चानित्यश्च तेनावयविना व्यवहाराः क्रियन्ते ।

यस्य पुनरवस्तुकः स प्रचयविशेषः


तदनुपपत्तेः । तस्मात्कथंचिद्भिन्नः कथंचिदभिन्नश्वाऽऽस्थेयस्तथा च सर्थमुपपद्यते । भूतसूक्ष्मा. णामितिषष्ठया् कथंचिद्भेदं सूचयति आत्मभूत इति चाभेदम् । फलेन व्यक्तेन तदनुभवल- क्षणेन तद्व्यवहारलक्षणेन च व्यक्तेन विप्रतिपन्नं प्रत्यनुमापितः। कारणाभेदे च कारणाका- रतोपपन्नेत्याह-स्वव्यञ्जकाञ्जन इति। स किं तदात्मभूतो धर्मो नित्यो नेत्याह--धर्मान्त- रस्य कपालादेरुदय इति । तस्यावयविनः परमाणुभ्यो व्यावृत्तं रूपमादर्शयति--स एष इति । परमाणुसाध्यायाः क्रियाया अन्या क्रिया मधूदकादिधारणलक्षणा तद्धर्मक इति । न केवलमनुभवादपि तु व्यवहारतोऽपि तन्निबन्धनत्वाल्लोकयात्राया इत्याह--- तेनेति ।

 स्यादेतदसति बाधकेऽनुभवोऽवयविनं व्यवस्थापयेत् । अस्ति च बाधकं यत्सत्तत्सर्वमन- वयवं यथा विज्ञानम् । सच्च गोघढःदीति स्वभावहेतुः । सत्त्वं हि विरुद्धधर्मसंसर्गरहितत्वेन व्याप्तं, तद्विरुद्धश्च विरुद्धधर्मसंसर्गः सावयव उपलभ्यमानो व्यापकविरुद्धौपलब्ध्या सत्त्वमपि निवर्तयति । अस्ति चावयविनि तद्देशत्वातद्देशत्वावृतत्वानावृतत्वरक्तत्वारक्तत्वचलवाचलत्व- लक्षणो विरुद्धधर्मसंसर्ग इत्यत आह—यस्य पुनरिति । अयमभिप्रायः-- अनुभवसिद्धं सत्त्वं हेतुः क्रियते यत्किल पांशुलपादुको हालिकोऽपि प्रतिपद्यते । अन्यद्वाऽनुभवसिद्धात् । तत्रान्यदसिद्धत्वादहेतुः । अनुभवसिद्धं तु धटादीनां सत्वमर्थक्रियाकारित्वरूपं न स्थूलाद. न्यत् । सोऽयं हेतुः स्थूलत्वमपाकुर्वन्निात्मानमेव व्याहन्ति । ननु न स्थूलत्वमेव सत्त्वमपि त्वसतो व्यावृत्तिः । अस्थौल्यव्यावृत्तिश्च स्थौल्यं, व्यावर्त्यभेदाच्च व्यावृत्तयो भिद्यन्ते । अतः स्थौल्याभावेऽपि न सत्वव्याहतिः । अन्यत्वात् । भवतु वा व्यावृत्तिभेदादवसायवि- षयभेदः । यत्पूर्वकास्त्ववसायास्तस्यानुभवस्याविकल्पस्य प्रमाणस्य को विषय इति निरू- पयतु भवानरूपपरमाणवो निरन्तरोत्पादा अगृहीतपरमसूक्ष्मतत्त्वा इति चेत्, हन्तैते गन्धरसस्पर्शपरमाणुभिरन्तरिता न निरन्तराः । तस्मादन्तरालग्रह एकघनवनप्रत्ययवत्पर- माप्वालम्बनः सन्नयं विकल्पो मिथ्येति तत्प्रभवविकल्या न पारम्पर्येणापि वस्तुप्रतिबद्धा इति कुतस्तदवसितस्य सत्त्वस्यानवयवत्वसाधकत्वम् । तस्मादविकल्पस्य प्रत्यक्षस्य प्रामा-


४८ वाचस्पतिकृतटीकासंबलितव्यासभाष्यसमेतानि- [१ समाधिपादे-

सूक्ष्मं च कारणमनुपलेभ्यमविकल्पस्य तस्यावयव्यभावादतद्रू- पप्रतिष्ठं मिथ्याज्ञानमिति प्रायेण सर्वमेव प्राप्तं मिथ्याज्ञानमिति ।

 तदा च सम्यग्ज्ञानमपि किं स्याद्विषयाभावात् । यधदुफ्ल-

भ्यते तत्तदवयवित्वेनोऽऽम्नातम् । तस्मादस्त्यवयत्री यो मह- त्वादिव्यवहारापन्नः समापत्तेर्निर्वितर्काया विषैयि भवति ॥४३॥

    एतयैव सविचारा निर्विचारा च
    सूक्ष्मविषया व्याख्याता ।। ४४ ॥

तत्र भूतसूक्ष्मकेष्वभिव्यक्तधर्मकेषु देशकालनिमित्तानुभवाव-

ग्पमिच्छता तदनुभूयमानस्थैल्यस्थैव सत्वमविकल्पाबसेयमकामेनाप्यभ्युपेयम् । तथा च तद्बाधमानं सत्त्रमात्मानमेत्रापज्ञाधेत । परमसूक्ष्भाः परमाणवो विजातीयपरमाण्वनन्तरिता अनुभवविषया इति च्याहतमङ्गीकरणम् । तदिदमुक्तं ---यस्य पुनरवस्तुकः स प्रचय- विशेषो निर्विकल्पविष्यः । सन्तु तर्हि सूक्ष्माः परमाणवो निर्विकल्पविपया इत्यत आह- सूक्ष्मं च कारणमनुपलभ्यमविकल्पस्येति । तस्यावयव्यभावाद्धेतोरतद्रूपप्रतिष्ठं मिथ्याज्ञानमिति लक्षणेन सबमेवं प्राप्तं मिथ्याज्ञानं यत्स्थौल्वालम्बनं यच्च तदधिष्टानस- त्रालम्बनमित्यर्थः । नन्वेतावताऽपि न ज्ञानमात्मने मिथ्या भवति तस्यावयवित्वेनाप्रका- शादित्यत आह-–प्रायेणेति ।

  ननु किमेतावताऽपीत्यत आह-तदा चेति । सत्यादिज्ञानं चेन्मिथ्प तदा सत्वदि-

हेतुकमनवयवित्वादिज्ञानमपि मिध्यव तस्यापि हि निर्विकल्पगोचरस्थूलमेवाबसेयतया विषयः, स च नास्तीति तात्पर्यार्थः । विषयाभाव एवं कुन इत्यत आह -- यद्यदिति । विरोधश्च परिणामवैचित्र्येण भेदाभेदेन चे.क्ते. पपत्त्यनुसारेणोर्द्वाव्य इति सर्वं रमणी- यम् ॥ ४३ ॥

  एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता । अभिव्यक्तो

घटादिर्धमो यस्ते तथोक्ताः । घटादिधर्मोपगृहीता इति यावत् । देश उपर्यवःपार्श्वदिः । कालो वर्तमानः । निमित्तं पार्थिवस्य परमाणोर्गन्धतन्मात्रप्रधानेभ्यः पञ्चतन्मात्रेम्न उत्पत्तिः । एवमाप्यस्य परमाणोर्गन्धतन्मात्रयर्जितेभ्यो रसतन्मात्रप्रधानेभ्यश्चतुर्व्यः । एवं तैजसस्य गन्धरसतन्मात्ररहितेभ्यो रूपतन्मात्रप्रधानन्यस्त्रिभ्यः । एवं यायवीयस्य गन्धादितन्मात्ररहितभ्यां स्पर्शप्रधानाभ्यो स्पर्शशब्दतन्मात्राभ्याम् । एवं नाभलस्य शब्द-

१ क. ख. घ. इ. च. छ. 'लभ्यं त° १ २ म. प. 1. च. नाऽऽप्रत' । ३ ग. य. ड, 'षयोभ। amavas-

                        च्छिन्नेषु या समापत्तिः सा सविचारेत्युच्यते । तत्राप्येकबुद्धि-
                             निग्राह्यमेवोदितधर्मविशिष्टं भूतसूक्ष्ममालम्बनीभूतं समाधिप्रज्ञा-
                           यामुपतिष्ठते। 
                   ___ या पुनः सन्था सर्वतः शान्तोदिताव्यपदेश्यधर्मानवच्छि-
                      मेषु सर्वधर्मानुपातिषु सर्वधर्मात्मकेषु समापत्तिः सा निर्विचा-
                         रेत्युच्यते । एवंस्त्ररूपं हि तद्भूतसूक्ष्ममेतेनैव स्वरूपेणाऽऽलम्ब.
                          मीभूतमेव:समाधिप्रझास्वरूपमुपरञ्जयति । 

- प्रज्ञा च स्वरूपशून्येवार्थमात्रा यदा भवति तदा निर्विचा-

                         रेत्युच्यते । तत्र महद्वस्तुविषया सवितको निर्वितर्का च,
                         सूक्ष्मवस्तुविषया सविचारा निर्विचारा च । एवमुभयोरेतयैव
निर्वितर्कया विकल्पहानियाख्यातेति ॥ ४४ ॥ 

णा मेतेषां देशकालनिमित्तानामनुभवः, तेनावच्छिन्नेषु नाननुभूतविशेषणा विशेष्ये बुद्धि रुपजायत इत्यर्थः । ननु सवितर्कया सह किं सारूप्यं सविचाराया इत्यत आह-तमा. पीति । पार्थिवो हि परमाणुः पञ्चतन्मात्रप्रचयात्मैकबुद्धिनिद्यः । एवमाप्यादयोऽपि चतु. स्त्रिद्वयेकतन्मात्रात्मान एकबुद्धिनिर्माह्या वेद्वयतव्याः। उदितो घर्तमानो धर्मस्तेन विशि- टम् । एतावता चात्रे संकेतस्मृत्यागमानुमानधिकल्पानुवेधः सूचितः । महि प्रत्यक्षेण स्थूले दृश्यमाने परमाणवः प्रकाशन्ते । अपि त्यागमानुमानाभ्याम् । तस्मादुपपन्नमस्याः संकीर्णत्वमिति ।  निर्विचारामाह-~या पुनरिति । सर्वथा सर्वेण नीलपीतादिना प्रकारेण । सर्वत इति साविभक्तिकस्तसिः । सर्वैर्देशकालनिमित्तानुभवरित्यर्थः । तदनेन स्वरूपेण फाला. नवच्छेदः परमाणूनामिति दर्शितम् । नापि तदारब्धधर्मद्वारणेत्याह- शान्ता अतीता उदिता वर्तमाना अव्यपदेशा भविष्यन्तो धर्मास्तैरनवच्छिन्नेषु । अनवच्छिन्ना धर्मः पर- माणषः किमसंबद्धा एव तैरिस्थत आह-सर्वधर्मानुपातिष्विति । कतभेन संबन्धेन धर्माननुपतन्ति परमाणव इत्यत आह-सर्वधर्मात्मकेषु । कथंचिद्भेदः कथंचिदभेदो धर्माणां परमाणुभ्य इत्यर्थः। कस्मात्पुनरियं समापत्तिरेतद्विषयेत्यत आह-एवंस्वरूपं हीति । वस्तुतत्वप्राहिणी नातस्ये प्रवर्तत इत्यर्थः ।  विषयमभिधायास्याः स्वरूपमाह-प्रज्ञा चेति । सकलव्य स्वरूपभेदोपयोगिविषय-

माह-तत्रेति । उपसंहरति-एवमिति । उभयोरात्मनश्च निर्विचारायाश्चेति ॥ १४ ॥ 

१ ग. प. उ. च. मात्र । २ स. आप

                  सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् ॥ ४५ ॥
               पार्थिवस्याणोर्गन्धतन्मात्रं सूक्ष्मों विषयः । [१३]आप्यस्य रस-
             तन्मात्रम् । तैजसस्य रूपतन्मात्रम् । वायवीयस्य स्पर्शतन्मात्रम् ।
             आकाशस्य शब्दतन्मात्रमिति । तेषामहंकारः । अस्यापि लिङ्ग-
             मात्रं सूक्ष्मो विषयः । लिङ्गमात्रस्याप्यलिङ्गं सूक्ष्मो विषयः । न
             चालिङ्गात्परं सूक्ष्मयस्ति । नन्वस्ति पुरुषः सूक्ष्म इति । सत्यम् ।
             यथा लिगाव्परमलिङ्गस्य सौक्ष्न्यं न चैवं पुरुषस्य । किंतु,
             लिङ्गस्यान्वयिकारणं पुरुषो न भवति, हेतुस्तु भवतीति ।
             अतः प्रधाने सौक्ष्म्यं निरतिशयं व्याख्यातम् ॥ ४५ ॥

                   ता एव सबीजः समाधिः ॥ ४६ ॥
                 
              ताश्चतस्रः समापत्तयो बहिर्वस्तुबीजा इति समाधिरपि
           सबीजः । तत्र स्थूलेऽर्थे सवितर्को निर्वितर्कः, सूक्ष्मेऽर्थे सवि-
           चारो निर्विचार [१४]इति चतुर्धोपसंख्यातः समाधिरिति ॥ ४६ ॥


 किं भूतसूक्ष्म एव ग्राह्यविषया समापत्तिः समाप्यते । न । किंतु--सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् । पार्थिवस्य परमाणोः संवन्धिनी या गन्धतन्मात्रता सा समा- पत्तेः सूक्ष्मो विषयः । एवमुत्तरत्रापि योज्यम् । लिङ्गमात्रं महत्तत्त्वं तद्धि लयं गच्छति प्रधान इति । अलिङ्गं प्रधानं तद्धि न व्कहिल्लयं गच्छतीत्यर्थः । अलिङ्गपर्यवसानत्व- माह--न चालिङ्गात्परमिति । चोदयति-ननु पुरुषोऽपि सूक्ष्मो नालिङ्गमेवेत्यर्थः । परिहरति-सत्यमिति । उपादानतया सौ‌‍‍‍‍क्ष्म्यमलिङ्ग एव नान्यत्रेत्यर्थः । तत्र पुरुषार्थ- निमित्तत्वान्महदहंकारादेः पुरुषोऽपि कारणमलिङ्गवदिति । कुत [१५]एवंलक्षणमलिङ्गस्यैव सौ‌‍‍‍‍क्ष्म्य- भित्याशयवान्पृच्छति--किं ‌त्विति । उत्तरमाह --लिङ्ग‌स्येति । सत्यं कारणं न तृपादानम् । यथा हि प्रधानं महदादिभाषेन परिणमते न तथा पुरुषस्तद्धेतुरपीत्यर्थः । उप- संहरति--अतः प्रधान एव सौक्ष्म्यं निरतिशयं व्याख्यातम् ॥ ४५ ॥

 चतसृणामपि समापत्तीनां ग्राह्यविषयाणां संप्रज्ञातत्यमाह--ता एव सबीजः समाधिः । एवकरो भिन्नक्रमः सबीज इत्यस्यानन्तरं द्रष्टव्यः । ततश्चतस्त्रः समां- पत्तयो ग्राह्यविषयाः सबीजतया नियम्पन्ते । सबीजता घनियता ग्रहीतृग्रहणगो- चरायामपि समापत्तौ विकल्याविकल्पभेदेनानिपिद्धा व्यवतिष्ठते । तेन ग्राह्ये चतस्रः


निर्विचारवैशारयेऽध्यात्मप्रसादः ॥ ४७॥

      अशुद्धयावरणमलापेतस्य प्रकाशात्मनो बुद्धिसत्त्वस्य रजस्त-
      मोभ्यामनभिभूतः स्वच्छ: स्थितिप्रवाहो वैशारद्यम् । यदा
      निर्विचारस्य समाधैर्वैशारद्यमिदं जायते तदा योगिनो भवत्य-
      ध्यात्मप्रसादो भूतार्थविषयः क्रमाननुरोधी स्फुर प्रज्ञालोकः ।
      तथा चोक्तम्---

       "प्रज्ञाप्रसादमारुह्य अशोच्यः शोचता जनान् ।।
       भूमिष्ठानिव शैलस्थः सर्वान्प्राज्ञोऽनुपश्यति"॥ ४७ ॥

ऋतंभरा तत्र प्रज्ञा ॥४८॥

तस्मिन्समाहितचित्तस्य या प्रज्ञा जायते तस्या ऋतंभरेति
संज्ञा भवति । अन्वर्था च सा, सत्यमेव बिभर्ति न च तत्र

विपर्यासज्ञानगन्धोऽप्यस्तीति । तथा चोक्तम्-~-

        " आगमेनानुमानेन ध्यानाभ्यासरसेन च ।
        त्रिधा प्रकल्पयन्प्रज्ञां लभते योगमुत्तमम् ” इति ।। ४८ ॥


समापत्तयो ग्रहीतग्रहणयोश्चतस्र इत्यष्टौ सिद्धा भवन्तीति । निगदन्याख्यात
भाष्यम् ॥ ४६॥

 चतसृष्वपि समापत्तिषु ग्राह्यविषयासु निर्विचारायाः शोभनत्वमाह-निर्विचारवै-
शारोऽध्यात्मप्रसादः। वैशारद्यपदार्थमाह-अशुद्धीति । रजस्तमसोरुपचयोऽशुद्धिः
सैवाऽऽवरणलक्षणो मलस्तस्मादपेतस्य प्रकाशात्मनः प्रकाशस्वभावस्य बुद्धिसत्त्वस्यात
एवानभिभूत इति । स्यादेतंदग्राह्यविषया चेत्समापत्तिः कथमात्मविषयः प्रसाद इत्यत
आह-भूतार्थविषय इति । नाऽऽमविषयः किंतु तदाधार इत्यर्थः । क्रमाननुरोधी
युगपदित्यर्थः । अत्रैव पारमर्षी गाथामुदाहरति-तथा चेति । ज्ञानालोकप्रकर्षेणाऽऽत्मानं
सर्वेषामुपार पश्यन्दुःखत्रयपरीताशोचतो जनाञ्जानाति ॥ ४७ ॥

 अत्रैव योगिजनप्रसिद्धान्वर्थसंज्ञाकथनेन योगिसंमतिमाह-ऋतंभरा नत्र प्रज्ञा ।
सुगम भाष्यम् । आगमेनेति वेदविहितं श्रवणमुक्तम् । अनुमानेनेति मननम् । ध्यानं
चिन्ता । तत्राभ्यासः पौनःपुन्येनानुष्ठानम् । तस्मिन्नस आदरः । तदनेन निदिध्यासन-
मुक्तम् ॥ ४८॥ ५२ . वायस्पतिकृतीकासंवलितव्यासभाष्यसमेतानि-[ १ समाधिपादे-

   सा पुन:-
                       श्रुतानुमानप्रज्ञाश्यामन्यरि-
                       पया विशेषार्थत्वात् ॥१९

                     श्रुतमागमविज्ञानं तत्सामान्यविषयम् । न ह्यागमेन शक्यो
              विशेषोऽभिधातु, कस्मात् , न हि विशेषेण कृतसंकेतः शब्द इति ।
              तथाऽनुमान सामान्यविषयमेव । यत्र माप्तिस्तत्र गतिर्यत्राप्राप्ति-
              स्तत्र न भवति गतिरित्युक्तम् । अनुमानेन च सामान्येनोपसं-
              हारः । तस्माच्छृतानुमानविषयो न विशेषः कश्चिदस्तीति ।
              न चास्य सूक्ष्मव्यवहितविप्रकृष्टस्य वस्तुनो लोकमत्यक्षेण


       स्यादेतत् । आगमानुमानगृहीतार्थविषया भावना प्रकर्षलब्धजन्मा. निर्विचाराऽऽगमा-
       नुमानविषयमेव गोचरयेत् । न खत्वन्यविषयानुभवजन्मा संस्कारः शतोऽन्यत्र ज्ञानं
       जनयितुमतिप्रसङ्गात् । तस्मान्निर्विचारा चेहतभराऽऽगमातुमानयोरपि तत्प्रसङ्ग इत्यत.
       आह -श्रुतानुमानेत्यादि । बुद्धिसत्त्वं हि प्रकाशस्त्रभावं सर्वार्थदर्शनसमर्थमपि,
       तमसाऽऽवृतं यत्रैव रजसोद्घाटयते तत्रैव गृह्णाति । यदा स्वभ्यासवैराग्याभ्यामपास्तरजस्त.
       मोमलमनवयवैशारदमुद्योतते तदाऽस्यातिपतितसमस्तमानभेयसीम्नः प्रकाशानन्ये सति मि.
       नाम यन्न गोचर इति भावः । ब्याचष्टे-श्रुतमागमाविज्ञानं तत्सामान्यविषयम् ।
       कस्मात् । न ह्यागमन शस्यो विशेषोऽभिधातुम् । कुतो यस्मादानन्याद्वयभिचाराच न
       विशेषेण कृतसंकेतः शब्दः । यस्मादस्य विशेषेण सह वाच्यवाचकसंबन्धः प्रेतीयेत 
       च वाक्यार्थोऽपाद्दशो विशेषः संभवति । अनुमानेऽपि लिङ्गलिङ्गिसंबन्धग्रहणाधीनजन्मनि
       गतिरेषेवैत्याह-तथाऽनुमानमिति । यत्र प्राप्तिरित्यत्र यत्रतत्रशब्दयो। स्थानपरिवर्तनेन
       व्याप्यन्यापकभावोऽवगमयितव्यः । अतोऽत्रानुमानेन सामान्येनोपसंहारः । उपसंहरति-
      तस्मादिति ।
       अस्तु तर्हि संबन्धग्रहानपेक्षं लोकप्रत्यक्षं न तस्सामाग्यविषयमित्यत आह-
       चास्येत्यादि । मा भूत्संबन्धनहाधीनं लोकप्रत्यक्षम् । इन्द्रियाधीनं तु भवत्येव । 
       चेन्द्रियाणामस्मिन्नस्ति योग्यतेत्यर्थः । ननु च यद्यागमानुमानप्रत्यक्षागौचरो विशेष.

      १ ख. स. पयभा' । २ क. 'हन वा । ३ क. मतीयते । ४ क. क्यार्थेऽपी ।

५ख.झापामा

     ग्रहणमस्ति । न चास्य विशेषस्याप्रमाणकस्याभावोऽस्तीति सपा-
धिप्रज्ञानिधि एव स विशेषो भवति भूतसूक्ष्मगतो वा पुरुष-
गतो वा । तस्माच्छ्तानुमानमज्ञाभ्यामन्यविषया सा प्रज्ञा विशे-
पार्थत्वादिति ॥४९॥
• समाधिप्रज्ञाप्रतिलम्भे योगिनः प्रज्ञाकृतः संस्कारो नबो
नवो जायते--
तज्जः संस्कारोऽन्यसंस्का-
रपतिबन्धी ॥ ५० ॥
समाधिप्रज्ञाप्रभवः संस्कारो व्युत्थानसंस्काराशयं बाधते ।
व्युत्थानसंस्काराभिभवात्तत्प्रभवाः प्रत्यया न भवन्ति । प्रत्ययः
निरोधे समाधिरुपतिष्ठते । ततः समाधिजा प्रज्ञा, ततः प्रज्ञा-
कृताः संस्कारा इति नवो नवः संस्काराशयो जायते । ततश्च

स्तर्हि नास्ति प्रमाणविरहादित्यत आह-न चेति । न हि प्रमाणं व्यापकं कारणं का प्रमेयस्य येन तन्निवृत्तौ निवर्तेत । नो खलु कलावतश्चन्द्रस्य परभागवतिहारणसद्भाव प्रति न संदिहते प्रामाणिका इत्यर्थः । इति तस्मात्समाधिप्रज्ञानिाद्य एवेति । अत्र च विवादाभ्यासिताः परमाणव आत्मानश्च प्रातिस्विकविशेषशालिनो द्रव्यावे सति. परस्परं व्यावर्तमानत्वाद्ये द्रव्यत्वे सति परस्परं व्यावर्तन्ते ते प्रातिस्विकविशेषशालिनी यथा खण्डमुण्डादय इत्यनुमानेनाऽऽगमेन च ऋतंभरप्रज्ञोपदेशपरेण यद्यपि विशेषो निरू- प्यते तदनिरूपणे संशयः स्यान्न्यायप्राप्तत्वात्तथाऽप्यदूरविप्रकर्षेण तत्सत्त्वं कथंचिद्गोचरयत: श्रुतानुमाने न तु साक्षाचार्थमिव समुच्चयादिपदानि लिङ्गसंख्यायोगितया । तस्मासिद्ध श्रुतानुमानप्रज्ञाभ्यामन्यविषयेति ॥ ४९ ॥

स्यादेतत् । भवतु परमार्थविषयः संप्रज्ञातो यथोक्कोपायाभ्यासादनादिना तु व्युत्था- नसंस्कारेण निरूढनिबिडतयाँ प्रतिबन्धनीया समाधिप्रज्ञा सा बात्यावर्तमध्यवर्तिप्रदीपपर. माणुरवेति शङ्कामपनेतुं सूत्रमवतारयति-समाधिप्रति । सूत्रं पठति--तज्ज: संस्कारोज्यसंस्कारप्रतिबन्धी । तदिति निर्विचारां समापत्तिं पराशति । अन्येति व्युत्थानमाह । भूतार्थपक्षपातो हि धियां स्वभावस्तावदेवेयमनवस्थिता धाम्यति

यावत्तत्त्रं प्रतिलभते । तत्प्रतिलम्भे तत्र स्थितपदा सती संस्कारर्बुद्धिः संस्कार

१ ग. "स्यामामाणिक । २ ख. 'याऽभिभवनीया सा । ३ ख. स्थिरप । ४ ज, 'झुर्बुिद्धि। ५४ - वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि - [ १ समाधिपादे-

 प्रज्ञा, ततश्च संस्कारा इति । कथमसौ संस्कारोतिशयश्चित्तं साधि-
                 कारं च करिष्यतीति । न ते प्रज्ञाकृताः संस्काराः क्लेशक्षयहेतु-
                स्वाच्चित्तमधिकारविशिष्टं कुर्वन्ति । चित्तं हि ते स्वकार्यादवसाद.-
                यन्ति । ख्यातिपर्यवसानं हि चित्तचेष्टितमिति ॥ ५० ॥
                     किं चास्य भवति-
                          तस्यापि निरोधे सर्वनिरोधा-
                          निर्मजः समाधिः ॥ ५१ ॥

                 ( इति श्रीपतलिविरचितयोगसूत्रेषुः प्रथमः समाधिपादः ॥ १ ॥)
        बुद्धिचक्रकणाऽऽवर्तमानाऽनादिमप्यतत्त्रसंस्कारबुद्धिक्रमं वाधत एवेति । तथा क
        बाह्या अव्याहु:-
                 " निरुपद्रवभूतार्थस्वभावस्य विपर्ययैः ।
                   ने बाधोऽनादिमत्वेऽपि बुद्धेस्तत्पक्षपाततः ” इति ॥
         स्यादेतत्समाधिप्रज्ञातोऽस्तु व्युत्थानजस्य संस्कारस्य निरोधः । समाधिजस्तु संस्कारा-
       तिशयः समाधिप्रज्ञाप्रसवहेतुरस्त्यविकल इति तदवस्थैव चित्तस्य साधिकारतेति चोदयति-
       कथमसाविति । परिहरति -न तइति । चित्तस्य हि कार्यद्वयं शब्दाद्युपभोंगो विवेक-
       ख्यातिश्चेति । तत्र क्लेशकर्माशयसहितं शब्दाद्युपभोगे वर्तते । प्रजाप्रभवसंस्कारोन्मूलितनि-
       खिलक्लेशकर्माशयस्य तु चेतसोऽसितप्रायाधिकारभावस्य विवेकख्यातिमात्रमवशिष्यते.
       कार्यम् । तस्मात्समाधिसंस्काराश्चित्तस्य न भोगाधिकारहेतवः प्रत्युत तत्परिपन्थिन इति ।
       स्वकार्याद्रोगलक्षणादवसादयन्ति असमर्थ कुन्तीत्यर्थः । कस्मात्स्यातिपर्यवसानं हि
       चित्तचेष्टितं, तावविभोगाय चित्तं चेष्टते न. यावद्विवेकख्यातिमनुभवति । संजातविवेक-
       ख्यातिनस्तु क्लेशनिवृत्तौ न. भोगाधिकार इत्यर्थः ॥ ५० ॥
            तदत्र भोगाधिकारप्रशान्तिः प्रयोजनं प्रज्ञासंस्काराणामित्युक्तम् । पृच्छति--
            किं चेति । किं चास्य भवति प्रज्ञासंस्कारवच्चित्तं प्रज्ञासंस्कार प्रवाहजनकतयां तथैव
            साधिकारमित्यधिकारापनुत्तयेऽन्यदपि किंचिदपेक्षणीयमस्तीत्यर्थः । सूत्रेणोत्तरमाह---
            तस्यापि निरोधे सर्वनिरोधाग्निजिः समाधिः । परेण वैरग्येण ' ज्ञान-
            प्रसादमात्रलक्षणेन संस्कारोपजननद्वारा तस्यापि प्रज्ञाकृतसंस्कारस्य निरोधे, न केवले
            प्रज्ञाया इत्यपिशब्दार्थः । सर्वस्योत्पद्यमानस्य संस्कारप्रज्ञाप्रवाहस्य निरोधात्कारणा-
        १ क. ख. राश° । २ क. ज. झ. रच° । ३ ज. 'मेण व° । ४. क. नो ।.५.क.
दिसत्वे । ६ क. झ. °सवे है।

     
       सू० ५१] पातञ्जलयोगसूत्राणि । ५५
                  
                स न केवलं समाधिप्रज्ञाविरोधी प्रज्ञाकृतानामपि संस्काराणां
                    प्रतिवन्धी भवति । कस्मात्, निरोधजः संस्कारः
                          समाधिनान्संस्कारान्वायत इति ।
                
               निरोधस्थितिकालक्रमानुभवेन निरोधचित्तकृतसंस्कारा।
                  व्युत्थाननिरोधसमाधिप्रभवैः सह कैवल्यभागीयः
                 संस्कारैश्वित्वं स्वस्या प्रकृताववस्थितायां पविलीयते ।
             लस्मात्ते संस्काराश्चित्तस्याधिकारविरोधिनो न स्थितिहेतवो भवन्तीति।

 भावेन कार्यानुत्पादासोऽयं निर्बीजः समाधिर्भवति । व्याचष्टे---स निर्वाजः समाधिः

समाधिप्रज्ञाविरोधिनः परस्माद्वैराग्यादुपजायमानः स्वकारणद्वारेण न केवले समाधि. प्रज्ञाविरोधी प्रज्ञाकृतानामप्यसौ संस्कारणां परिपन्थी भवति । ननु वैराग्यजं विज्ञानं सद्विज्ञान प्रज्ञामात्रं बाधतां संस्कारं त्वविज्ञानरूपं कथं बाधते । दृष्टा हि जाग्रतोऽपि स्वप्नदृष्टार्थस्मृतिरित्याशयवान्पृच्छति-कस्मादिति । उत्तरं-निरोधज इति । निरुध्यतेऽनेन प्रक्षेति निरोधः परं वैराग्यम् । ततो जातो निरोधजः संस्कारः । संस्कारादेव दीर्घकालनैरन्तर्यसत्कारासेवितपरवैराग्यजन्मनः प्रज्ञःसंस्कारबाधो न तु विज्ञानादित्यर्थः ।

  स्यादेतत् । निरोधजसंस्कारसद्भावे किं प्रमाणं स हि प्रत्यक्षेण बाऽनुभूयेत

स्मृत्या का कार्येणानुमीयेत । न च सर्ववृत्तिनिरोधे प्रत्यक्षमस्ति योगिनः । नापि स्मृतिः । तस्य वृचिमात्र निरोधतया स्मृतिजनकत्वासंभवादित्यत आह-निरोधेति । निरोधे स्थितिश्चित्तस्य निरुद्धावस्थेत्यर्थः । तस्याः कालक्रमो मुहूर्धियामयामाहोरादिस्तदनुभवेन । एतदुक्तं भवति---वैराग्याभ्यासप्रकर्षानुरोधी निरोधप्रकर्षो मुहूतर्धियामादिच्यापितयाऽनुभूयते योगिना । न च वैराग्यक्षणाः क्रमनियततया परस्परमसंभवन्तस्तत्तत्कालव्यापितया सातिशयं निरोधं कर्तुमीशत इति तत्तद्वैराग्यक्षणाचय. जन्यः स्थायी संस्कारपचय एषितव्य इति भावः । ननूच्छिद्यन्तां प्रज्ञासंस्काराः । निरोघसंस्कारास्तु कुतः समुच्छिद्यन्ते । अनुच्छेदे वा साधिकारस्वमेवेसत आह-व्युत्थानति । व्युत्थानं च तस्य निरोधसमाधिश्व संप्रज्ञातस्तत्प्रभवाः संस्काराः कैवल्यभागीया निरोधजाः संस्कारा इत्यर्थः । व्युत्थानप्रज्ञासंस्काराश्चित्ते प्रलीना इति भवति चित्तं ज्युस्थानप्रज्ञासंस्कारवत् ।

निरोधसंस्क रस्तु प्रत्युदित एवाऽऽस्ते चित्ते । निरोधसंस्कारे सत्यपि

चित्तमनधिकारवत् । पुरुषार्थजनकं चित्तं हि साधिकारं शब्दाद्युपभोगविवेकख्याती च तथा पुरुषार्थः । संस्कारशेपतायां तु न बुद्धेः प्रतिसंवेदी पुरुष इति नासौ पुरुषार्थः ।

      १ ख. ज. ननासे । २ ख. ज. भा । सं। ३ झ पुरुषार्थों ।        

  यस्मादवसित्ताधिकारं सह कैवल्यभागीयैः संस्कारैचित्तं निव-
   देने, तस्मिनिवृत्ते पुरुषः स्वरूपमात्रप्रतिष्ठोऽतः शुद्धः केवलो
    मुक्त इत्युच्यत्र इति ।। ५१ ॥
    
        इति श्रीपातञ्जले सांख्यप्रवचने योगशास्त्रे श्रीमद्भयासभाष्ये
                प्रथमः समाधिपादः ॥१॥


विदेहप्रकृक्लियानां न निरोधभागितया साधिकारं चित्तम् । अपि तु क्लेशवासिततयेत्या- शयवानाह--यस्मादिति । शेषं सुगमम् ॥ ५१ ॥

योगस्योद्देशनिर्देशौ तदर्थ वृत्तिलक्षणम् ।
योगोपायाः प्रभेदाश्च पादेऽस्मिन्नुपवर्णिताः ॥ १ ॥

इति श्रीवाचस्पतिमिश्रविरचितायां पातञ्जलयोगसूत्रभाष्यव्याख्यां

   प्रथमः समाधिपादः ॥ १॥

वाचस्पतिकृतटीकासंवलितव्यासभाष्य समेशानि-
              पातञ्जलयोगसूत्राणि।
           ( तत्र द्वितीयः साधनपादः।)
   उद्दिष्टः समाहितचित्तस्य योगः । कथं व्युत्थितचित्तोऽपि
 योगयुक्तः स्यादित्येनदारभ्यते--
         तपःस्वाध्यायेश्वरप्रणिधा-
         नानि कियायोगः ॥ ॥
  नातपस्विनो योगः सिध्यति । अनादिकर्मलेशवासनाचित्रा
 मत्युपस्थित विषयजाला चाशुद्धिनान्तरेण तपः संभेदमापद्यत
 इति तपस उपादानस् । तञ्च चित्तप्रसादनमवाधमानमनेनाss-
 सेव्यमिति मन्यते ।
   ननु प्रथमपादेनैव सोपायः सायान्तरप्रभेदः सफलो योग                                उक्तस्तल्किमपरमवशिष्यते      
   यदर्थ द्वितीयः पादः पारभ्येतत्यत आह--उद्दिष्ट इति ।                    अभ्यासवेर,ग्ये हि योगो-
   पायौ प्रथम पाद उक्तौ । न च तौ व्युस्थितचित्तस्य द्रागिरयेव   संभवत इति द्वितीयपादो-
   पदेश्यानुपायानपेक्षते सत्त्वशुद्धयर्थम् । ततो हि विशुद्धसत्त्वः कृतरक्षासंविधानोऽभ्यासकै.
   राग्ये प्रत्यहं भावयति । समाहितत्वमविक्षिप्तस्त्रम् । कथं व्युत्थानचित्तोऽप्युपदेक्ष्यमाणैरु.
  पायर्युक्तः सन्योगी स्यादिस्यर्थः । तत्र वक्ष्यमाणेषु नियमेष्याकृष्य प्राथमिकं प्रत्युपयुक्ततर-
   तया प्रथमतः क्रियायोगमुपदिशति सूत्रकार:--तपस्वाध्यायेत्यादि । क्रियैव योगः
    क्रियायोगो योगसाधनत्वात् । अत एव विष्णुपुराणे खाण्डिक्यकेशिध्वजसंवादे----
  योगयुक्प्रथमं योगी युञ्जमानोऽभिधीयते " [वि०पु०६।७।३३]

इन्युपक्रम्य तपःस्वाध्यायादयो दर्शिताः । व्यतिरेकमुखेन(ण) तपस उपायत्वमाह----

 नातपस्विन इति । तपसोऽवान्तरन्यापारमुपायतोपयोगिनं दर्शयति--अनादीति ।
 अनादिभ्यां कर्मक्लेशवासनाभ्या चित्राऽत एवं प्रत्युपस्थितमुपनतं विषयजालं यस्यां सा
 तथोक्ता । अशुद्धी रजस्तमःसमुद्रेको नान्तरेण तपः संभेदमापद्यते । सान्द्रस्य निता.
 न्तविरलता संभेदः । ननूपादीयमानमपि तपो धातुवैषम्यहेतुतया योगप्रतिपक्ष इति कथ
 तदुपाय इत्यत आह--सच्चेति । तात्रम्मात्रमेव तपश्चरणीयं न यावता धातुवैषम्यमा-

पद्यत इत्यर्थः ।

      १ क योमं पति पतिपक्षापति क°। 

स्वाध्यायः प्रणवादिपवित्राणां जपो मोक्षशास्त्राध्ययनं वा ।
ईश्वरप्रणिधानं सर्वक्रियाणां परमगुरावर्पणं तत्फलसंन्यासो वा ॥१॥
स हि क्रियायोगः-

समाधिभावनार्थः क्लेश-
तनूकरणार्थश्च ॥ २॥


स ह्यासेव्यमानः समाधि भावयति क्लेशांश्च प्रतनू करोति ।
प्रतनूकृतान्क्लेशान्प्रसंख्यानाग्निना दग्धबीजकल्पानप्रसवधर्मिण:
करिष्यतीति । तेषां तनूकरणात्पुनः क्लेशैरपरामृष्टा सत्त्वपुरुषा-
न्यतामात्रख्यातिः सूक्ष्मा प्रज्ञा समाप्ताधिकारा प्रतिप्रसवाय

कल्पिष्यत इति ॥२॥

 प्रणवादयः पुरुषसूक्तरुद्रमण्डलब्राह्मणादयो वैदिकाः, पौराणिकाश्च ब्रह्मपारायणा-
'दयः । परमगुरुर्भगवानीश्वरस्तस्मिन् ।
 यत्रेदमुक्तम्--" कामतोऽकामतो वाऽपि यत्करोमि शुभाशुभम् ।
   तत्सर्वं त्वयि संन्यस्तं त्वत्प्रयुक्तः करोम्यहम् " इति ।
   तत्फलसंन्यासो वा फलानभिसंधानेन कार्यकरणम् ।
 यत्रेदमुक्तम् --" कर्मण्यवाधिकारस्ते मा फलेषु कदाचन ।
   मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि" ||१॥ [भ०गी ०२४४७]

 तस्य प्रयोजनाभिधानाय सूत्रमवतारयति--स हीति । सुत्रं समाधिभावनार्थः
क्लेशतनूकरणार्थश्च । ननु क्रियायोग एव चेक्लेशान्प्रतनू करोति कृतं तर्हि प्रसंख्याने-
नेत्यत आह---प्रतनूकृतानिति । क्रियायोगस्य प्रतनूकरणमात्रे व्यापारो न तु वन्ध्यत्वे
क्लेशानां प्रसंख्यानस्य तु तद्वन्ध्यवे। दग्धबीजकल्पानिति वन्ध्यत्वेन दग्धकलमबीजसारूप्यमु .
क्तम् । स्यादेतत् । प्रसंख्यानमेव चेत्क्लेशानप्रसवधर्मिणः करिष्यति, कृतमेषां प्रतनूकर-
णेनेत्यत आह-तेषामिति । क्लेशानामतानवे हि बलवद्विरोधिग्रस्ता सत्त्वपुरुषान्यता-
ख्यातिरुदेतुमेव नोत्सहते । प्रागेव तद्वन्ध्यभावं कर्तुं प्रविरलीकृतेषु तु क्लेशेषु दुर्बलेषु
तद्विरोधिन्यपि वैराग्याभ्यासाभ्यामुपजायते । उपजाता च तैरपरामृष्टाऽनभिभूता नैव याव.
त्परामश्यत इति । सत्त्वपुरुषान्यतामात्रख्याति: सूक्ष्मा प्रज्ञाऽतीन्द्रियतया सूक्ष्मोऽस्या विषय
इति सूक्ष्मा प्रज्ञा प्रतिप्रसवाय प्रविलयाय कल्पिष्यते । कुतः, समाप्ताधिकारा यतः समा-

तोऽधिकारः कार्यारम्भणं गुणानां यया हेतुभूतया सा तथोक्तेति ॥ २ ॥
५९

सू० ३-४ पातञ्जलयोगसूत्राणि। अथ के क्लेशाः कियन्तो वेति-

अविद्यास्मितारागद्वेषाभि-
निवेशाः क्लेशा ॥ ३॥

क्लेशा इति पञ्च विपर्यया इत्यर्थः । ते स्पन्दमाना गुणाधि-
कारं द्रढयन्ति, परिणाममवस्थापयन्ति, कार्यकारणस्रोत उन्नम-
यन्ति, परस्परानुग्रहतन्त्री भूत्वा कर्मविपाकं चाभिनिई-
रन्तीति ॥३॥

अविद्या क्षेत्रमुत्तरेषां प्रसुप्तत-
नुविच्छिन्नोदाराणाम् ॥४।

अत्राविद्या क्षेत्रं प्रसवभूमिरुत्तरेषामस्मितादीनां चतुर्विधेवि-
कल्पानां प्रसुप्ततनुविच्छिन्नोदाराणाम् । तत्र का प्रसुप्तिः । चेतसि
शक्तिमात्रप्रतिष्ठानां बीजभावोपगमः । तस्य प्रबोध आलम्बने



__ पृच्छति- अथेति । अविद्येति सूत्रेण परिहारः । अविद्यास्मितारागद्वेषाभिनि- बैशाः क्लेशाः । व्याचष्टे--पञ्च विपर्यया इति । अविद्या तावद्विपर्यय एव । अस्मि.. तादयोऽप्यविद्योपादानास्तदविनिर्भागवर्तिन इति विपर्ययाः । ततश्चाविद्यासमुच्छेदे तेषा- मपि समुच्छेदो युक्त इति भावः । तेषामुच्छेत्तव्यताहेतुं संसारकारणत्वमाह-ते स्पन्दमानाः समुदाचरन्तो गुणानामधिकारं द्रढयन्ति बलवन्तं कुर्वन्त्यत एव परिणाममवस्थापयन्ति अव्यक्तमहदहंकारपरम्परया हि कार्यकारणस्रोत उन्नमयन्त्यु. द्भावयन्ति । यदर्थं सर्वमेतत्कुर्वन्ति तदर्शयति-परस्परेति । कर्मणां विपाको जात्या- युर्भोगलक्षणः पुरुषार्थस्तममी क्लेशा अभिनिहरन्ति निष्पादयन्ति । किं. प्रत्येकं. नेत्याह- परस्परानुग्रहेति । कर्मभिः क्लेशाः क्लेशैश्च कर्माणीति ॥ ३ ॥ हेयानां क्लेशानामविद्यामूलत्वं दर्शयति----अविद्या क्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नो. दाराणाम् । तत्र का प्रसुप्तिरितिस्वोचितामर्थक्रियामकुर्वतां क्लेशानां सद्भावे न प्रमाणमस्तीत्यभिप्रायः पृच्छतः । उत्तरं-चेतसीति । मा नामाक्रियां कर्पः क्लेशा विदेहप्रकृतिलयानां बीजभावं प्राप्तास्तु ते शक्तिमात्रेण सन्ति क्षीर इव दधि । न हि विवेकख्यातेरन्यदस्ति कारणं तद्वन्ध्यतायाम् । अतो विदेहप्रकृतिलया विवेकख्यातिविर-

१ म. के ते क्ले' । २ ग घ. शाः पञ्च क्के । ३ ग. घ. इ. ते स्यन्द । ४ ख. च. कि । ५ ग. घ. अ. धकल्पितानां । संमुखीभावः । प्रसंख्यानवतो दग्धक्लेशबीजस्य संमुखीभू- तेऽप्यालम्बने नासौ पुनरस्ति, दग्धबीजस्य कुतः प्ररोह इति । अतः क्षीणक्लेशः कुशलश्वरमदेह इत्युच्यते । तत्रैव सा दग्धबीजभाषा पञ्चमी क्लेशावस्था नान्यत्रेति । सतां क्लेशानां सदा बीजसामर्थ्यं दग्धमिति विषयस्य संमुखीभावेऽपि सति न भवत्येषां प्रबोध इत्युक्ता प्रसुप्तिर्दग्धबीजानाममरोहश्च । तनुत्वमुच्यते-प्रतिपक्षभावनोपहताः क्लेशास्तनवो भवन्ति । तथा विच्छिद्य विच्छिद्य तेन तेनाऽऽत्मना पुनः पुनः समुदाचरन्तीति विच्छिन्नाः । कथं, रागकाले क्रोधस्यादर्शनात् । न हि राग- काले क्रोधः समुदाचरति । रागश्च क्वचिदृश्यमानो न विषयान्तरे नास्ति । नैकस्यां स्त्रियां चैत्रो रक्त इत्यन्यासु स्त्रीषु विरक्तः हिणः प्रसुप्तक्लेशा न यात्तदवधिकालं प्राप्नुवन्ति । तत्प्राप्तौ तु पुनरावृत्ताः सन्तः क्लेशा- स्तेषु तेषु विषयेषु संमुखी भवन्ति । शक्तिमात्रेण प्रतिष्ठा येषां ते तथोक्ताः । तदनेनोत्पत्तिशक्तिरुक्ता । बीजभावोपगम इति च कार्यशक्तिरिति । ननु विवेकख्यातिमतोऽपि क्लेशाः कस्मान्न प्रसुप्ता इत्यत आह-प्रसंख्यानवत इति । चरमदेहो न तस्य देहान्तरमुत्पस्यते यदपेक्षयाऽस्य देहः पूर्व इत्यर्थः । नान्यत्र विदेहादिष्वित्यर्थः । ननु सतो नात्यन्तविनाश इति किमिति तदीययोगर्द्धिबलेन विषयसंमुखीभावे न क्लेशाः प्रबुध्यन्त इत्यत आह-सतामिति । सन्तु क्लेशा दग्धस्वेषां प्रसंख्यानाग्निना बीजभाव इत्यर्थः । क्लेशप्रतिपक्षः क्रियायोगस्तस्य भावनमनुष्ठानं तेनोपहतास्तनवः । अथवा सम्यग्ज्ञानमविद्यायाः प्रतिपक्षो भेददर्शनमस्मिताया माध्यरथ्यं रागद्वेषयोरनुबन्धबुद्धिनिवृत्तिरभिनिवेशस्येति । विच्छित्तिमाह-तथेति । क्लेशानामन्यतमेन समुदाचरताऽभिभवा- द्वाऽत्यन्तविषयसेवया वा विच्छिद्य विच्छिद्य तेन तेनाऽऽत्मना समुदाचरन्त्याविर्भवन्ति वाजीकरणाधुपयोगेन बाऽभिभावकदौर्बल्येन वेति । वीप्सया विच्छेदसमुदाचारयोः पौनःपुन्यं दर्शयता यथोक्तात्प्रसुप्ताद्भेद उक्तः । रागेण वा समुदाचरता विजातीयः क्रोधोऽभिभूयते सजातीयेन वा विषयान्तरवर्तिना रागेणैव विषयान्तरवर्ती रागोऽभिभूयत इत्याह-रामेति । भविष्यवृत्तेस्त्रयी गतिर्यथायोगं वेदितव्येत्याह- १ ख, ग, घ र. च. छ. °नः स ११ ख. पद। किं तु तत्र रागो लब्धवृत्तिरन्यत्र तु भविष्यद्वृत्तिरिति । स हि तदा प्रसुप्ततनुविच्छिन्नो भवति । विषये यो लब्धवृत्तिः स उदारः। सर्व एवैते क्लेशवि- षयत्वं नातिक्रामन्ति । कस्तर्हि विच्छिन्नः प्रसुप्तस्तनुरुदारो वा क्लेश इति, उच्यते--सत्यमेवैतत् , किंतु विशिष्टानामेवैतेषां विच्छिन्नादित्वम् । यथैव प्रतिपक्षभावनातो निवृत्तस्तथैव स्वव्यञ्जकाञ्जनेनाभिव्यक्त इति । सर्व एवामी क्लेशा अविद्याभेदाः । कस्मात् , सर्वेष्वविद्यैवाभिप्लवते । यदविद्यया वस्त्वाकार्यते तदेवानुशेरते क्लेशा विपर्यासप्रत्ययकाल उपलभ्यन्ते क्षीयमाणां चाविद्यामनु क्षीयन्त इति ॥ ४ ॥ तत्राविद्यास्वरूपमुच्यते--

अनित्याशुचिदुःखानात्मसु नित्य-

शुचिसुखात्मख्यातिरविद्या ॥ ५ ॥ अनित्ये कार्ये नित्यख्यातिः । तद्यथा--ध्रुवा पृथिवी,


स हीति । भविष्यवृत्तिक्लेशमात्रपरामर्शि सर्वनाम न चैत्ररागपरामर्शि तस्य विच्छिन्नत्वादेवेति ।  उदारमाह-विषय इति । ननूदार एव पुरुषान्क्लिश्नातीति भवतु क्लेशोऽन्ये त्वङ्गिश्रन्तः कथं क्लेशा इत्यत आह -सर्व एवैत इति । क्लेशविषयत्वं क्लेशपदवाच्यत्वं नातिक्रामन्न्युदारतामापद्यमानाः । अत एव तेऽपि हेया इति भावः । क्लेशत्वेनेकतां मन्यमानश्वोदयति-कस्तर्हीति । क्लेशत्वेन समानत्वेऽपि यथोक्तावस्थाभेदाद्विशेष इति परिहरति- उच्यते सत्यमिति । स्यादेतत् । अविद्यातो भवन्तु क्लेशाः, तथाऽप्यविद्यानिवृत्ती कस्मान्निवर्तन्ते । न खलु पटः कुविन्दनिवृत्तौ निवर्तत इत्यत आह-सर्व एवेति । भेदा इव भेदास्तदविनिर्भागवर्तिन इति यावत् । पृच्छति-कस्मात् । उत्तरं-सर्वेष्विति । तदेव स्फुटयति-यदिति । आकार्यते समारोप्यते । शेषं सुगमम् ।

"प्रसुप्तास्तत्त्वलीनानां तन्ववस्थाश्च योगिनाम् ।
विच्छिन्नोदाररूपाश्च क्लेशा विषयसङ्गिनाम्" इति संग्रहः

॥ ४ ॥

अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या । अनित्यत्वोपयोगिविशेषणं-कार्य इति । केचित्किल भूतानि नित्यत्वेनाभिमन्यमानास्तद्रूपमभी- ६२ . वाचस्पतिकृतटीकासंघलितव्यासभाष्यसमेतानि- २ साधनषादे- ध्रुवा सचंन्द्रतारका द्यौः, अमृता दिवौकस इति । तथाऽशुचौ परमबीभत्से काये,- .. " स्थानाद्वीज़ादुपष्टम्भानिःस्यन्दानिधनादपि । कायमाधेयशौचत्वात्पण्डिता ह्यशुचिं विदुः" । इति अशुचौ शुचिख्यातिदृश्यते । नवेव शशाङ्कलेखा कमनी- येयं कन्या मध्वमृतावयवनिर्मितेव चन्द्रं भित्त्वा निःसृतेव ज्ञायते, नीलोत्पलपत्रायताक्षी हावगर्भाभ्यां लोचनाभ्यां जीवलोकमा. श्वासयन्तीति कस्य केनाभिसंबन्धः । भवति चैवमशुचौ शुचि- विपर्यासमत्यय इति । एतेनापुण्ये पुण्यप्रत्ययस्तथैवानर्थे चार्थ- प्रत्ययो व्याख्यातः। ___ तथा दुःखे सुखख्यातिं वक्ष्यति-"परिणामतापसंस्कारदः- खैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः" इति । तत्र सुख- ख्यातिरविद्या । तथाऽनात्मन्यात्मख्याति ह्योपकरणेषु चेतनाचे- तनेषु भोगाधिष्ठाने वा शरीरे पुरुषोपकरणे वा मनस्यनात्मन्या- मख्यातिरिति । तथैतदत्रोक्तम्-"व्यक्तमव्यक्तं वा सत्त्वमा- प्सवस्तान्येवोपासते । एवं धूमादिमार्गानुपासते चन्द्रसूर्यतारकाद्यलोकानिल्यानभिमन्य- मानास्त प्राप्तय। एवं दिवौकसो देवानमृतानभिमन्यमानास्तद्भावाय सोमं पिबन्ति । आम्नायते हि-"अपाम सोमममृता अभम" [ते०सं०३।२।५।४] इति । सेयमनित्येपु नित्यख्यातिर- विद्या । तथाऽशुचौ परमबीभत्से काये । अर्थोक्त एव कायबीभत्सतायां वैयासिकी गाथां पठति-स्थानादिति । मातुरुदरं मूत्राद्युपहतं स्थानं, पित्रोलोहितरेतसी बीजम् । अशितपीताहाररसादिभाव उपष्टम्भस्तेन शरीरं धार्यते । निःस्यन्दः प्रस्वेदः । निधनं च. श्रोत्रियशरीरमप्यपवित्रयति तत्स्पर्शे स्नानविधानात् । ननु यदि शरीरमशुचि कृतं तर्हि. मृजलादिक्षालनेनेत्यत आह-आधेयशौचत्वादिति । स्वभावेनाशुचेरपि शरीरस्य. शौचमाधेयं सुगन्धितेव कामिनीनामङ्गरागादिभिः । अोक्तं पूरयति–इत्युक्तेभ्यो हेतुभ्योऽ. शुचौ शरीर इति । शुचिख्यातिमाह--नवति । हावः शङ्गारजा लीला । कस्य स्त्री- कायस्य परमबीभ सस्य केन मन्दतमसादृश्येन शशाङ्कलेखादिना संबन्धः । एतेनाशुचौ स्त्रीकाये शुचिख्यातिप्रदर्शनेन । अपुण्ये हिंसादौ संसारमोचकादीनां पुण्यप्रत्ययः । एव. मर्जनरक्षणादिदुःखबहुलतयाऽनर्थे धनादावर्थपत्यया व्याख्याताः सर्वेषां जुगुप्सितत्वेनाशु. चित्वात् । __ तथा दुःख इति । सुगमम् । तथाऽनात्मीति । सुममम् । तथैतदत्रोक्तं पञ्च- १ क. ख. प. उ. 'ये शुचिख्यातिः । उकं २-स्था । ग. 'ये, उकं च-स्था , २ . "त्ययो व्या । ३ झ. ख्यातः । सू० ५.] पातञ्जलयोगसूत्राणि ।

                    त्मत्वेनाभिप्रतीत्य तस्य संपदमनु नन्दत्यात्मसंपदं मन्वानस्तस्य
                    च्यापदमनु शोचत्यात्मव्यापदं मन्वानः स सर्वोऽप्रतिबद्धः"
                    इति । एषा चतुष्पदा भवत्यविद्या मूलमस्य क्लेशसंतानस्य कर्मा-
                    शयस्य च सविपाकस्येति ।
                      तस्याश्वामित्रागोष्पदवद्वस्तुसतत्त्वं विज्ञेयम् । यथा नामित्रो
                    मित्राभाषो न मित्रमानं किं तु तद्विरुद्धः सपत्नः । यथा
                    चाऽगोष्पदं न गोष्पदाभावो न गोष्पदमात्रं किंतु देश एव
                    ताभ्यामन्यद्वस्त्वन्तरम्, एवमविद्या ने प्रमाणं न प्रमाणाभावः
                    किंतु विद्याविपरीतं ज्ञानान्तरमविद्येति ॥५॥

शिखेन । व्यक्तं चेतनं पुत्रदारपश्वादि । अव्यक्तमचेतनं शय्यासनाशनादि । स सर्वोs- प्रतिबुद्धो मूढः । चत्वारि पदानि स्थानान्यस्या इनि चतुष्पदा । नन्वन्याऽपि दिङ्मोहा. लातचक्रादिविषयाऽनन्तपदाऽविद्या तस्किमुच्यते चतुष्पदेत्यत आह-~-मूलमस्येति । सन्तु नामान्या अप्यविद्याः संसारबीजं तु चतुष्पदैवेति ।

  नन्वविद्यति नन्समासः पूर्वपदार्थप्रधानो वा स्याद्यथाऽमक्षिकमिति । उत्तरपदार्थप्र.

धानो वा यथाऽराजपुरुष इति । अन्यपदार्थप्रधानो वा यथाऽमक्षिको देश इति । तत्र पूर्वपदार्थप्रधानत्वे विद्यायाः प्रसज्यप्रतिषेधो गम्येत । न चास्याः क्लेशादिकारणत्वम् । उत्तरपदार्थप्रधानत्वे वा विद्यैव कस्यचिदभावेन विशिष्टा गम्पेत । सा च क्लेशादिपरि- पन्थिनी न तु तद्बीजम् । न हि प्रधानोरघाती प्रधानगुणो युक्तः । तदनुपघाताय गुगे खन्याम्पकल्पना । तस्माद्विद्यास्वरूपानुपघाताय नमोऽन्यथाकरणमध्याहारो वा निषेध्य- स्येति । अन्यपदार्थप्रधानत्वे त्वविद्यमानविद्या बुद्धिर्वक्तव्या । न च सौ विद्याया अभाव. मात्रेण क्लेशादित्रीजम् । विवेकख्यातिपूर्वकनिरोधसंपन्नाया अपि तथात्वप्रसङ्गात् । तस्मा- सर्वथैवाविद्याया न क्लेशादिमूलतेत्यत आह-तस्याश्चेति । वस्तुनो भावो वस्तुंसतत्वं वस्तुत्वमिति यावत् । तदनेन न प्रमज्यप्रतिषेधः । नापि विद्यैवाविद्या, न तदभाववि. शिष्टा बुद्धिरपि तु विद्याविरुद्धं विपर्ययज्ञानमविद्येत्युक्तम् । लोकाधीनावधारणो हि शब्दा. र्थयोः संबन्धः । लोके चोत्तरपदार्थप्रधानस्यापि नत्र उत्तरपदाभिधेयोपमर्दकस्य तलक्षित. तद्विरुद्धपरतया तत्र तत्रोपलब्धरिहापि तद्विरुद्धे वृत्तिरिति भावः । दृष्टान्तं विभजते-- यथा नामित्र इति । न मित्राभावो नापि मित्रमात्रमित्यस्यानन्तरं वस्वन्तरं किंतु तद्धि- रुद्धः सपत्न इति वक्तव्यम् । तथाऽगोष्पदमिति न गोष्पदाभावो न गोष्पदमात्रं किंतु देश एव विपुलो गोष्पदविरुद्धस्ताभ्यामभावगोष्पदाभ्यामन्यद्वस्त्वन्तरम् । दान्तिके योज- यति एवमिति ॥ ५॥ १क. ख. च. छ. 'था चामो । २ ज. स. नापि । ३ ज. हो. न्य इत्यर्थाद।

     दृग्दर्शनशक्त्योरेकात्मतेवास्मिता ॥ ६॥
  पुरुषो दृक्शक्तिबुद्धिर्दर्शनशक्तिरित्येतयोरेकस्वरूपापत्तिरि-

वास्मिता क्लेश उच्यते । भोक्तृभोग्यशक्त्योरत्यन्तविभक्तयोर- त्यन्तासंकीर्णयोरविभागप्राप्ताविव सत्यां भोगः कल्पते । स्वरूपप्रतिलम्भे तु तयोः कैवल्यमेव भवति कुतो भोग इति । तथा चोक्तम्- 'बुद्धितः परं पुरुषमाकारशीलविद्यादिभिर्विभक्तम- पश्यन्कुर्यात्तत्राऽऽत्मबुद्धिं मोहेन । इति ॥ ६॥

             सुखानुशयी रागः ॥ ७॥
 अविद्यामुक्वा तस्याः कार्यमस्मितां रागादिवर्षिष्ठामाह-दृग्दर्शनशक्त्योरेकात्मतेवास्मिता । दृक्च दर्शनं च ते एव शक्तो तयोरात्मानात्मनोरनात्मन्यात्मज्ञानलक्षणाऽविद्यापादिता यैकात्मतेव न तु परमार्थत एकात्मता साऽस्मिता । दृग्दर्शनयोरिति वक्तव्ये

तयोर्भोक्तभोग्ययोर्योग्यतालक्षणं संबन्धं दर्शयितुं शक्तिग्रहणम् । सूत्रं विवृणोति---पुरुष इति । नन्वनयोरभेदप्रतीतेरभेद एव कस्मान्न भवति कुतश्चैकत्वं क्लिश्नाति पुरुषमित्यत आह-भोक्तभोग्येति । भाग्यशक्तिर्बुद्धिर्भोक्तृशक्तिः पुरुषस्तयोरत्यन्तविभक्तयोः कुतोऽ. त्यन्तविभक्तवमित्यत आह-अत्यन्तासंकीर्णयोः । अपरिणामित्वादिधर्मकः पुरुषः परिणामित्वादिधर्मिका बुद्धिरित्यसंकीर्णता । तदनेन प्रतीयमानोऽप्यभेदो न पारमार्थिक इत्युक्तम् । अविभागेति क्लेशत्वमुक्तम् । अन्वयं दर्शयित्वा व्यतिरेकमाह--स्वरूपेति । प्रतिलम्भो विवेकख्यातिः । परस्याप्येतत्संमतमित्याह--तदु (थाचो) क्तं पञ्चशिखेन बुद्धित इति । आकारः स्वरूपं सदा विशुद्धिः, शीलमौदासीन्यं, विद्या चैतन्यं, बुद्धिरविशुद्धाऽनुदासीना जडा चेति तत्राऽऽत्मबुद्धिरविद्या । मोहः पूर्वाविद्या जनितः संस्कारस्तमो वाऽविद्यायास्तामसत्वादिति ॥ ६॥

   विवेकदर्शने रागादीनां विनिवृत्तेरविद्यापादिताऽस्मिता रागादीनां निदानमित्यस्मितानन्तरं रागादील्लंक्षयति-सुखानुशयी रागः । अनभिज्ञस्य स्मृतेरभायात्सुखाभिज्ञस्येत्युक्तम् । स्मर्यमाणे सुखे रागः सुखानुस्मृतिपूर्वकः । अनुभूयमाने तु सुखे

नानुस्मृतिमपेक्षते । तत्साधने तु स्मर्यमाणे दृश्यमाने वा सुख नुस्मृतिपूर्व एव रागः । दृश्यमानमपि हि सुखसाधनं तज्जातीयस्य सुखहेतुतां स्मृत्वा तज्जातीयतया वाऽस्य

             १ क, वदिष्टामा। २ न. र्षिणीमा । सू० ८-९]    पातञ्जलयोगसूत्राणि । . . ६५
    सुखाभिज्ञस्य सुखानुस्मृतिपूर्व: सुखे तत्साधने या यो गर्ध-
  स्तृष्णा लोभः स राग इति ॥ ७ ॥
  
         दुःखानुशयी द्वेषः ॥ ८ ॥
         
    दुःखाभिज्ञस्य दुःखानुस्मृतिपूर्वो दुःखे तत्साधने वा यः प्रतिधोमन्युर्जिघांसा क्रोधः स द्वेषः ॥ ८॥
  
    स्वरसवाही विदुषोऽपि तथा रूढोऽभिनिवेशः ॥९॥
    
     सर्वस्य प्राणिन इयमात्माशीर्नित्या भवति मा न भूवं भूयासमिति । न चाननुभूतमरणधर्मकस्यैषा भवत्यात्माशीः । एतया
   च पूर्वजन्मानुभवः प्रतीयते । स चायमभिनिवेशः क्लेशः स्वरसवाही कृमेरापि जातमात्रस्य प्रत्यक्षानुमानागमैरसंभावितो मरण-
   त्रास उच्छेददृष्टयात्मकः पूर्वजन्मानुभूतं मरणदुःखमनुमापयति ।
   
  सुखहेतुत्वमनुमायेच्छति । अनुशयिपदार्थमाह-य इति ॥ ७ ॥
  
    दुःखानुशयी द्वेषः । दुःखाभिज्ञस्येति पूर्ववद्वयाख्येयम् । अनुशयिपदार्थमाह-य:
   प्रतिघ इति । प्रतिहन्तीति प्रतिधः । एतदेव पर्यायेर्विवृणोति-मन्युरिति ॥ ८ ॥
   
  स्वरसवाही विदुषोऽपि तथा रूढोऽभिनिवेशः । अभिनिवेशपदार्थ व्याचष्टे--
 सर्वस्य प्राणिन इति । इयमात्माशीरात्मनि प्रार्थना मा न भूवं माऽभावी भूयं भयास
 जीव्यासमिति । न चाननुभूतमरणधर्मकस्य, अमनुभूता मरणधर्मों येन जन्तुना न
 तस्यैषा भवत्यात्माशीरभिनिवेशो मरणभयम् । प्रसङ्गतो जन्मान्तरं प्रत्याचक्षाणं नास्तिकं
 निराकरोति-एतया चेति । प्रत्युदितस्य शरीरस्य ध्रियमाणत्वात्पूर्वजन्मानुभवः प्रतीयते ।
 निकायविशिष्टाभिरपूर्वाभिर्देहेन्द्रियबुद्धिवेदनाभिरभिसंबन्धो जन्म तस्यानुभवः प्राप्तिः सा
 प्रतीयते कथमित्यत आह-स चायमभिनिवेशः । अर्थोक्तावेवास्य क्लेशत्वमाह-क्लेश
 इति । अयमहितकर्मादिना जन्तूक्लिश्नति दुःखा करोतीति क्लेशः । वक्तुमुपक्रान्तं परि-
 समापयति-स्वरसवाहीति । स्वभावेन वासनारूपेण वहनशीलो ' न पुनरागन्तुकः ।
 कृमेरपि जातमात्रस्य दुःखबहुलस्य निकृष्टतम चैतन्यस्यानागन्तुक्त्वे हेतुमाह- प्रत्यक्षानुमा-
 नागमैः प्रत्युदिते जन्मन्यसंभावितोऽसंपादितो मरणत्रास उच्छेददृष्टयात्मक:
 पूर्वजन्मानुभूतं मरणदुःखमनुमापयति । अयमभिसंधिः-जातमात्र एव हि बालको
 ___________________________________________________________________
   १ क. ना नित्या भवति ! मा। २ . अ. कस्पान । ३ क. ज ना त । ६६ . वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि- [२ साधनपादे-

यथा चायमत्यन्तमूढेषु दृश्यते क्लेशस्तथा विदुषोऽपि विज्ञातपूर्वापरान्तस्य रूढः । कस्मात् । समाना हि तयोः कुशलाकुशलयोर्मरणदुःखानुभवादियं वासनेति ॥ ९॥ तं प्रतिप्रसवहेयाः सूक्ष्माः ॥ १० ॥ ते पञ्च क्लेशा दग्धबीजकल्पा योगिनश्चरिताधिकारे चेतसि प्रलीने सह तेनैवास्तं गच्छन्ति ॥ १० ॥ स्थितानां तु बीजभावोपगतानाम्-- . मारकबस्तुदर्शनाद्वेपमानः कम्पविशेषादनुमितमरणप्रत्यासत्तिस्ततो बिभ्यदुपलभ्यते । दु.खादुःखहेतोश्च भयं दृष्टम् । न चास्मिञ्जन्मन्यनेन मरणमनुभूतमनुमितं श्रुतं वा, प्रागेवास्य दुःखच तद्हेतुत्वं वाऽवगम्येत, तस्मात्तस्य तथाभूतस्य स्मृतिः परिशिष्यते । न चेयं संस्कारादृते । न चायं संस्कारोऽनुभवं विना । न चास्मिञ्जन्मन्यनुभव इति प्राग्भवीयः परिशिष्यत इत्यासीत्पूर्वजन्मसंबन्ध इति । तथापदं यथापदमाकाक्षतीत्यर्थप्राप्ते यथापदे सति यादृशो वाक्यार्थो भवति तादृशं दर्शयति-यथा चायमिति । अत्यन्तमूढेषु मन्दतमचैतन्येषु । विद्वत्तां दर्शयति- विज्ञातपूर्वापरान्तस्य । अन्तः कोटिः । पुरुषस्य हि पूर्वा कोटिः संसार उत्तरा च कैवल्यं सैव विज्ञाता श्रुतानुमानाभ्यां येन स तथोक्तः । सोऽयं मरणत्रास आ कृमेरा च विदुषो रूढः प्रसिद्ध इति । नन्वविदुषो भवतु मरणत्रासो विदुषस्तु न संभवति विद्ययोन्मूलितत्वात् । अनुन्मूलने वा स्यादरयन्तसत्त्वमित्याशयवान्पृच्छति-कस्मादिति । उत्तरमाह- समाना हीति । न संप्रज्ञातवान्विद्वानपि तु श्रुतानुमितविवेक इति भावः ॥ ९ ॥ तदेवं क्लेशा लक्षितास्तेषां च हेयानां प्रसुप्ततनुविच्छिन्नोदाररूपतया चतस्रोऽवस्था दर्शिताः । कस्मात्पुनः पञ्चमी क्लेशावस्था दग्धबीजभावतया सूक्ष्मा न सूत्रकारेण कथितेत्यत आह-ते प्रतिप्रसवहेयाः सूक्ष्माः । यत्किल पुरुषप्रयत्नगोचरस्तदुपदिश्यते । न च सूक्ष्मावस्थाहानं प्रयत्नगोचरः किंतु प्रतिप्रसवेन कार्यस्य चित्तस्यास्मितालक्षणकारणभावापत्त्या हातव्येति । व्याचष्टे-त इति । सुगमम् ॥ १० ॥ अथ क्रियायोगतनूकृतानां क्लेशानां किंविषयात्पुरुषप्रयत्नाद्धानमित्यत आह- स्थितानां तु बीजभावोपगतानामिति वन्ध्येभ्यो व्यवच्छिनत्ति । सूत्रं पठति- १ स. वा मरणासस्य स्या' । २ स. प्रसवविरुद्धः प्रतिप्रसवः पलय इत्यर्थः । प्रति' । सू० ११-१२ ] पातञ्जलयोगसूत्राणि । ध्यानहेयास्तद्वृत्तयः ॥ ११ ॥ क्लेशानां या वृत्तयः स्थूलास्ताः क्रियायोगेन(ण) तनुकृताः सत्यः प्रसंख्यानेन ध्यानेन हातव्या यावत्सूक्ष्मीकृता यावद्द- ग्धबीजकल्पा इति । यथा वस्त्राणां स्थूलो मलः पूर्वं निर्धूयते. पश्चात्सूक्ष्मो यत्नेनोपायेन चापनीयते तथा स्वल्पप्रतिपक्षाः स्थूला वृत्तयः क्लेशानां, सूक्ष्मास्तु महाप्रतिपक्षा इति ॥ ११ ॥ क्लेशमूलः कर्माशयो दृष्टादृष्ट- जन्मवेदनीयः ॥ १२ ॥ तत्र पुण्यापुण्यकर्माशयः कामलोभमोहक्रोधभवः । ध्यानहेयास्तवृत्तयः । व्याचष्टे-क्लेशानामिति । क्रियायोगतनुकृता अपि हि अतिप्रसवहेतुभावन कार्यतः स्वरूपतश्च शक्या उच्छेत्तुमिति स्थूला उक्ताः । पुरुषप्रयत्नस्य प्रसंख्यानगोचरस्यावधिमाह-यावदिति । सूक्ष्मीकृता इति विवृणोति-दग्धेति । अत्रैव दृष्टान्तमाह-यथा वस्त्राणामिति । यत्नेन क्षालनादिनोपायेन क्षारसंयोगादिना । स्थूलसूक्ष्ममात्रतया दृष्टान्तदार्ष्टान्तिकयोः साम्यं न पुनः प्रयत्नापनेयतया प्रतिप्रसवहेयेषु तदसंभवात् । स्वल्पः प्रतिपक्ष उच्छेदहेतुर्यासां. तास्तथोक्ताः । महान्प्रतिषक्ष उच्छेदहेतुर्यासां तास्तथोक्ताः । प्रतिप्रसवस्य चाधस्तात्प्रसंख्यानमित्यवरतया स्वल्पत्वमुक्तम् ॥ ११॥ स्यादेतज्जात्यायुर्भोगहेतवः पुरुषं क्लिश्चन्तः क्लेशाः कर्माशयश्च तथा, न त्वविद्यादयस्तत्कथमविद्यादयः क्लेशा इत्यत आह-क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः । क्लेशा मूलं यस्योत्पादे च कार्यकरणे च स तथोक्तः । एतदुक्तं भवति- अविद्यादिमूलो हि कर्माशयो जात्यायुगहेतुरित्यविद्यादयोऽपि तद्धेतवोऽतः क्लेशा इति । व्याचष्टे-तत्रेति । आशेरते सांसारिकाः पुरुषा अस्मिन्नित्याशयः कर्मणामाशयो धर्माधर्मों। कामात्काम्यकर्मप्रवृत्तौ स्वर्गादिहेतुर्धर्मो भवति । एवं लोभात्परद्रव्यापहारादावधर्मः । मोहा- दधर्मे हिंसादौ धर्मबुद्धेः प्रवर्तमानस्याधर्म एव । न त्वस्ति मोहजो धर्मः । अस्ति क्रोधजो धर्मः । तद्यथा ध्रुवस्य जनकापमानजन्मनः क्रोधात्तजिगीषया चितेन कर्माशयेन पुण्येनान्तरिक्षलोकवासिनामुपरिस्थानम् । अधर्मस्तु क्रोधजो ब्रह्मवधादिजन्मा प्रसिद्ध १ ख. ग. छ. 'न हा । २ क. ख.. छ. न वाऽ । ३ ख. ज. पस। ४ ज. ज. रत इत्या १५ ख. स. शयौ ध। स दृष्टजन्मवेदनीयश्चादृष्टजन्मवेदनीयश्च । तत्र तीसंवेगेन मन्त्रत-
पःसमाधिभिनिवर्तित ईश्वरदेवतामहर्षिमहानुभावानामाराधनाद्वा
यः परिनिष्पन्नः स सद्यः परिपच्यते पुण्यकर्माशय इति । तथा
तीव्रक्लेशेन भीतव्याधितकृपणेषु विश्वासोपगतेषु वा महानुभा-
वेपु वा तपस्विषु कृतः पुनः पुनरपकारः स चापि पापकर्मा-
शया सद्य एवं परिपच्यते । यथा नन्दीश्वरः कुमारो मनप्यप-
रिणामंहित्वा देवत्वन परिणतः। तथा नहुषोऽपि देवानामिन्द्रः
स्वकं परिणाम हित्वा तिर्यक्त्वेन परिणत इति । तत्र नारकाणां
नास्ति दृष्टजन्मवेदनीयः कर्माशयः । क्षीणलेशानामपि नास्त्य-
दृष्टजन्मवेदनीयः कर्माशय इति ॥ १२ ॥

   सति मूले तद्विपाको
   जात्यायु गाः ॥ १३ ॥

 सत्सु क्लेशेषु काशयो विपाकारम्भी भवति नोच्छिन्नकेश-


एव भूतानाम् । तस्य द्वैविध्यमाह-स दृष्टजन्मति। दृष्टजन्मवेदनीयमाह-तीसंवेगेनेति।
यथासंख्यं दृष्टान्तावाह-यथा नन्दीश्वर इति । तत्र नारकाणामिति । येन कर्माशयेन
कुम्भीपाकादयो नरकभेदाः प्राप्यन्ते तत्का.रणोर नाकास्तेषां नास्ति दृष्टजन्मवेदनीयः
कर्माशयः । न हि मनुष्यशरीरेण तत्परिणामभेदेन वो सा तादृशी वत्सरसहस्त्रादिनिस्त-
रोपभोग्या वेदना संभवतीति । शेपं सुगमम् ॥ १२ ॥

 स्थादेतदविद्यामलत्वे कर्माशयस्य विद्योत्पादे सत्यविद्याविनाशामा नाम कर्मावण्यान्तरं
चैषीत् । प्राचां तु कर्माशयानामनादिभवपरम्परासंचितानामसंख्यातानामनियतविपाकका-
लानां भोगेन क्षपयितुमशक्यत्वादशक्योच्छेदः संसारः स्पादित्यत आह-सति मूले
तद्विपाको जात्यायुर्भोगाः । एतदुक्तं भवति-सुखदुःखफलो हि कर्माशयस्तादयन
तन्नान्तरीयकतया जन्मायुषी अपि प्रसते । सुखदुःखे च रागद्वेषानुपक्के तदविनिर्भागव
तिनी तदभावे न भवतः । नचास्ति संभवो न च तत्र यस्तुष्यति बोद्विजते वा तेच तस्य
सुखं वा दःखं वेति । तदियमात्मभूमिः केशसलिलावसिक्ता कर्मफलप्रसवक्षेत्रमित्यस्ति क्लेशानां
फलोपजननेऽपि कर्माशयसहकारितति केशर्समुच्छेदे सहकारिकल्यात्सन्नप्यनन्तोऽप्यनियत- विपाककालोऽपि प्रसंख्यानदग्धबीजभायो न फलाय कल्पत इति । उक्तमर्थ भाष्यमेव दोत ''''

मूलः । यथा तुषाबनद्धाः शालितण्हुला अदग्धवीजभावाः
प्ररोहसमर्था भवन्ति नापनीततुषा दग्धबीजभाषा वा, तथा
क्लेशावनद्धः कर्माशयो विपाकमरोही भवति नापनीतक्लेशो न
मसंख्यानदग्धक्लेशवीजभावो वेति । स च विपाकस्त्रिविधो जाति
• रायुर्भोग इति ।
   तत्रेदं विचार्यते---किमेकं कर्मकस्य जन्मनः कारणमर्थक
कर्मानेक जन्माऽऽक्षिपतीति । द्वितीया विचारणा-किमने
कर्मानेके जन्म निवर्तयति अथानेकं कर्फेके जन्म निर्धर्तयतीति ।
न तावदेकं कर्मैकस्य जन्मनः कारणम् । कस्मात्, अनादिकाल.
प्रचितस्यासंख्येयस्यावशिष्टस्य कर्मणः सांप्रतिकस्य च फलक-
मानियमादनाश्वासो लोकस्य प्रसक्तः, स चानिष्ट इति । न
चैक कर्मानेकस्य जन्मनः कारणम् । कस्मात् , अनेकेषु
कर्मसु एकैकमेव कर्मानेकस्य जन्मनः कारणमित्यवशिष्टस्य
विपाककालाभावः प्रसक्तः, स चाप्यनिष्ट इति ।'

यति-सत्स्विति । अत्रैव दृष्टान्तमाह-यथा तुपेति । सतुषा अपि दग्धबीजभावाः स्वेदादिभिः । दार्ष्टान्तिके योजयति-तथेति । ननु न क्लेशाः शक्या अपनेतुं नहि सतामपनय इत्यत आह-न प्रसंख्यानदग्धक्लेशबीजभाव इति । विपाकस्य विध्यमाह- स चेति । विषच्यते साध्यते कर्मभिरिति विपाकः । कमैकल्यं ध्रुत्रं कृत्वा जन्मकत्वानेकत्वगोचरा प्रथमा विचारणा । द्वितीया तु कर्माने. कत्वं ध्रवं कृत्वा जन्मैकत्वानेकत्वगोचरा । तदेवं चत्वारो विकल्याः । तत्र प्रथमं विक- ल्पमपाकरोति-न तावदेकं कर्मकस्य जन्मनः कारणम् । पृच्छति---कस्मादिति । उत्तरम्-अनादिकालैकैकजन्मप्रचितस्यात एवासंख्येयस्यैकैकजन्मक्षपितादेकैकस्मा- कर्मणोऽवशिष्टस्य कर्मणः सांप्रतिकस्य च फलक्रमानिगमादनाश्वासो लोकस्य प्रसक्तः स चानिष्ट इति । एतदुक्तं भवति-कर्मक्षयस्य विरलत्वात्तदुत्पत्तिबहुल्या- चान्योन्यसंपीडिताः कर्माशया निरन्तरोत्पत्तयो निरुच्छासाः स्वविपाकं प्रतीति न फलक्रमः शक्योऽवधारयितुं प्रेक्षावतेत्यनाश्वासः पुण्यानुष्ठानं प्रति प्रसक्त इति । द्वितीयं विकल् निराकरोति--न चैकं कर्मानेकस्य जन्मनः कारणम् । पृच्छति----कस्मादिति । उत्तरम्-अनेकस्मिञ्जन्मन्याहितमेकैकमेव कर्मानेकस्य जन्मलक्षणस्य विपाकस्य निमि- तमित्यवशिष्टस्य विपाककालाभावः प्रसक्तः स चाप्यनिष्टः कमवैफल्येन तदननु- नप्रसङ्गात् । यदैकजन्मसमुच्छेद्ये कर्मण्येकस्मिन्कलक्रमानियमादनाश्वासस्तदा क्षेत्र कथा बहुजन्मसमुच्छेचे कर्मण्येकस्मिंस्तत्र ह्यवसराभाषाद्विपाककालाभाव एवं सांप्रतिकस्थति न चानेकं कर्मानेकस्य जन्मनः कारणम् । कस्मात्, तदनेकं जन्म युगपन्न संभवतीति क्रमेणैव वाच्यम् । तथा च पूर्वदोषानुषङ्गः ।' तस्माजन्मप्रायणान्तरे कृतः पुण्यापुण्यकर्माशयप्रचयो विचित्रः प्रधानोपसर्जनभावेनावस्थितः प्रायणाभिव्यक्त एकप्रघट्टकेन मरणं प्रसाध्य संमूर्छित एकमेव जन्म करोति । तच्च जन्म, तेनैव कर्मणा लब्धायुष्क भवति । तस्मिन्नायुषि तेनैव कर्मणा भोगः संपद्यत इति । असौ कर्माशयों जन्मायुर्भोगहेतुत्वात्रिविपाकोऽभिधीयत इति । अत एकभविकः कर्माशय उक्त इति । दृष्टजन्मवेदनीयस्त्वेकविपाकारम्भी भोगहेतुत्वाद्विविपाका- भावः । तृतीयं विकल्पं निराकरोति-न चानेकं कर्मानेकस्य जन्मनः कारणम् । तत्र हेतुमाह--तदनेकं जन्म युगपन्न संभवत्ययोगिन इति क्रमेण वाच्यम् । यदि हि कर्मसहस्रं युगपज्जन्मसहस्रं प्रसुवीत तत्र एवं कर्मसहस्रप्रक्षयादवशिष्टस्य. विपाककालः फलकमनियमश्च स्याताम् । न ह्यस्ति जन्मनां योगपद्यम् । एवमेव प्रथमपक्षोक्तं दूषणमित्यर्थः । तदेवं पक्षत्रये निराकृते पारिशेष्यादनेक. कर्मकस्य जन्मन: कारणमिति पक्षो व्यवतिष्ठत इत्याह-तस्माज्जन्मेति । जन्म च प्रायणं च जन्मप्रायणे तमोरन्तरं मध्यं तस्मि.. विचित्रसुखदुःख.फलोपहारेण विचित्रः, यदत्यन्तमुद्भतमनन्तरमेव फलं दास्यति तत्प्रधानं. यत्तु किंचिद्विलम्बन तदुपसर्जनं, प्रायणं. मरणं. तेनाभिव्यक्तः स्वकार्यारम्भणाभिमुखमुपनीत एकप्रघट्टकेन युगपत्समूर्छितो जन्मादिलक्षणे. कार्ये कर्तव्य एकलोलीभावमापन्न एकमेक जन्म करोति नानेकम् । तच्च जन्म मनुष्यादिभावस्तेनैव कर्मणा लब्धायुष्कं कालभेदान्नियतजीवितं भवति । तस्मिन्नायुषि तेनैव कर्मया भोगः सुखदुःखसाक्षात्कारः स्वसंबन्धितया संपद्यत इति । तस्मादसौ कर्माशयो जात्यायुर्भोगहेतुत्वात्रिविपाकोऽभिधीयते । औत्सर्गिकमुपसंहरति---अत एकभविकः कर्माशय उक्त इति । एको भव एकभवः । "पूर्वकाल" [पा० स० २। १ । ४९ } इत्यादिना समासः । एकभवोऽस्यास्तीति मन्वर्थीयष्ठन् । कचित्प.ठ ऐकभविक इति । तत्रैकभवशब्दाद्भवार्थे, ठकपत्ययः । एकजन्मावच्छिन्नमस्य भवनमित्यर्थः । तदेवमात्मनिकस्यैकमविकस्य त्रिविपाकत्वमुक्त्वा दृष्टजन्मवेदनीयस्यैहिकस्य कर्मणत्रिविपाकत्वं । व्यवच्छिनत्ति-दृष्टेति । नन्दीश्वरस्य खल्वष्टवर्षावच्छिन्नायुषो १ग. घ. कोण । २ गा. घ. ड.न.मिटित्वाम।

रम्भी वाऽऽयु गहेतुत्वानन्दीश्वरवन्नहुषवद्वेति । क्लेशकर्मविपाकानुभवनिर्वतिताभिस्तु वासनाभिरनादिकालसंमूर्छितमिदं चित्तं
विचित्रीकृतमिव सर्वतो मत्स्यजालं ग्रन्थिभिरिवाऽऽततमित्येता'
अनेकभवपूर्विका वासनाः । यस्त्वयं कर्माशय एष एवैकभविक'
उक्त इति । ये संस्काराः स्मृतिहेतवस्ता वासनास्ताश्चानादि-
कालीना इति ।'

यस्त्वसावेकमविकः कर्माशयः स नियतविपाकश्चानियतवि- पाकश्च । तत्र दृष्टजन्मवेदनीयस्य नियतविपाकस्यैवायं नियमो न त्वदृष्टजन्मवेदनीयस्यानियतविपाकस्य । कस्मात् । यो ह्यदृष्टजन्मवेदनीयोऽनियतविपाकस्तस्य त्रयी गतिः---कृतस्याविषकस्य नाशः, प्रधानकर्मण्यावापगमनं वा, नियतविपाकप्रधानकर्मणाडभिभूतस्य वा चिरमवस्थानमिति । तत्र कृतस्याविषकस्य नाशो यथा शुक्लकर्मोदयादिहैव मनुष्यजन्मनस्तीव्रसंवेगाधिमात्रोपायजन्मा पुण्यभेद आयुर्भोगहेतुत्वाति [वि ] पाकः नहुषस्य तु पाणिप्रहारविरोधिनाऽगस्त्यस्येन्द्रपदप्राप्तिहेतुनैव कर्मणाऽऽयुषो विहितत्वादपुण्यभेदो भोगमात्रहेतुः । ननु यथैकभविकः कर्माशयस्तथा किं क्लेशवासना भोगानुकुलाश्च कर्मविपाकानुभववासनास्तथा च मनुष्यस्तिर्यग्योनिमापन्नो न तज्जातीयोचितं भुञ्जीतेत्यत आह-क्लेशेति । संमूर्छितमेकलोलीभाषमापन्नम् । धर्माधर्माभ्यां व्यवच्छेत्तु वासनायाः स्वरूपमाह-ये संस्कारा इति । औसर्गिकमेकभविकत्वं क्वचिदपवदितुं भूमिकामारचयति - यस्त्वप्ताविति । तुशब्देन वासनातो व्यवच्छिनति । दृष्टजन्मवेदनीयस्य नियतविपाकस्यैवायमेकभविकत्वनियमो न त्वदृष्टजन्मवेदनीयस्य । किंभूतस्यानियतविपाकस्येति । हेतुं पृच्छति- कस्मादिति । हेतुमाह-यो हीति । एकां तावद्गतिमाह-कृतस्येति । द्वितीयामाह- प्रधानेति । तृतीयामाह-नियतेति । ___ तत्र प्रथमां विभजते-तत्र कृतस्येति । संन्यासिकर्मभ्योऽशुक्लाकृष्णेभ्योऽन्यानि त्रीण्येव कर्माणि कृष्णकृष्णशुक्लशुक्लानि । तदिह तपःस्वाध्यायादिसाध्यः शुक्लः कर्माशय उदित एसादत्तफलस्य कृष्णस्य नाशकोऽविशेषाच्च शबलस्यापि कृष्णभागयो- + क. ख. छ. पुस्तकेषु त्वात्रिविषाकारम्भी वा जन्मभोगायुहे नुन्धानहुषेति प्रामादिकः पाठः। १ ग. घ. ड. वि । २ क. व. घ. इ. 'विपाकस्य । ३ क. ख. प. विनाशः । नाशः कृष्णस्य । यत्रेदमुक्तम्---" द्वे द्वे ह वै कर्मणी वेदितव्ये पापकस्यैको राशिः पुण्यकृतोऽपहन्ति तदिच्छस्व कर्माणि सुकृतानि कर्तुमिहैव ते कर्म कवयो वेदयन्ते " प्रधानकर्मण्यावापगमनम् । यत्रेदमुक्तं --." स्यात्स्वल्पः संकर सपरिहारः सप्रत्यवमर्षः कुशलस्य नापकर्षायालन् ।

मादिति मन्तव्यम् । अत्रैव भगवानाम्नायमुदाहरति--यत्रेदमिति । द्वे द्वे ह वै कर्मणी कृष्णकृष्णशुक्ले अपहन्तीति संबन्धः । वीप्सया भूयिष्ठता सूचिता । कस्येत्यत आह-- पापकस्य पुंसः । कोऽसावपहन्तीत्यत आह--एको राशिः पुण्यकृतः । समूहस्य समूहिस्सध्यत्वात् । तदनेन शुक्लः कर्माशयस्तृतीय उक्तः । एतदुक्तं भवति-ईदृशो नामाय परपीडादिरहितसाधनसाध्यः शुक्लः कर्माशयो यदेकोऽपि सम्कृष्णान्कृष्णशुक्लांश्चा- स्यन्तविरोधिनः कर्माशयाम्भूयतोऽध्यपहन्ति । तत्तस्मादिश्छस्वेति च्छान्दसत्वादात्मनेपदम् । शोषं सुगमम् । अत्र च शुक्ल कर्मोदयस्यैव स कोऽपि महिमा यत इतरेषामभावो न तु स्वाध्यायादिजन्मनो दुःखात् । नहि दुःखमात्रविरोध्यधर्मोऽपि तु स्वकार्यदुःखविरोधी । नच स्वाध्यायादिजन्यं दुःखं तस्य कार्य तत्कार्यत्वे स्वाध्यायादिविधानानर्थक्यात्तद्वलादेव तदुत्पत्तेः । अनुत्पत्तौ वा कुम्भीपाकादपि विधीयेत । अविधाने तु तदनुत्पत्तेरिति सर्व चतुरस्त्रम् । द्वितीयां गतिं विभजते--प्रधाने फर्मणि ज्योतिष्टोमादिके तदङ्गस्य पशुहिंसादेरावापगमनम् । द्वे खलु हिंसादेः कार्य-प्रधानाङ्ग वेन विधानात्तदुपकारः, “न हिंस्यात्सर्वा भूतानि" [भार शा०२७८।५] इति हिंसायाः प्रतिपिद्धत्वादनर्थश्च । तत्र प्रधानाङ्गत्वे. मानुष्टानादप्रधानतैवेत्यतो न द्रागित्येव प्रधाननिरपेक्षा सती स्वफलमनर्थंप्रक्षोतुमर्हति, किं स्वारब्धविपाके प्रधाने साहायकमाचरन्ती व्यवतिष्ठते । प्रधानसाहायकमा चरन्त्याश्च स्वकार्ये बीजमात्रतयाऽवस्थानं प्रधाने कर्मण्यावापगमनम् । यत्रेदमुक्त पञ्चशिखेन स्वल्पः संकरो ज्योतिष्टोमादिजन्मनः प्रधानापूर्वस्य पशुहिंसादिजन्मनाऽनर्थहेतुनाऽपूर्वेण सपरिहारः शक्यो हि कियता प्रायश्चित्तेन परिहर्तुम् । अथ प्रमादतः प्रायश्चित्तमपि नाऽऽचरितं प्रधानकर्मविपाकसमये च विपच्येत तथाऽपि यावन्तमसावनर्थं प्रसृते तावान्सप्रत्यवमर्षो मृष्यन्ते हि पुण्यसंभारोपनीतसुखसुधामहाहृदावगाहिनः कुशलाः पापमात्रोपपादितां दुःखवाहिकणिकाम् । अतः कुशलस्य सुमहतः पुण्यस्य नापकर्षाय सू० १४] पातञ्जलयोगसूत्राणि । ७३

                      कस्मान् , कुशलं हि मे बलन्यदस्ति यत्रायमानापं गतः स्वर्गेऽप्य-
                      पकर्षमल्पं करिष्यति" इति।।
                           नियतविपाकप्रधानकर्मणाऽभिभूतस्य वा चिरमवस्थानम् ।
                       कथमिति, अदृष्टजन्मवेदनीयस्यैव नियतविपाकस्य कर्मणः समानं
                       मरणमभिव्यक्तिकारणमुक्तम्, न त्वदृष्टज मवेदनीयस्यानियत-
                       विपाकस्य । यत्त्वदृष्टजन्मत्रेदनीयं कर्मानियतविपाकं  तन्नश्येदां .
                        वापं वा गच्छेदभिभूतं वा चिरमप्युपासीत, यावत्सम्मनं कमोभि-
                        व्यञ्जकं निमित्तमस्य न विपाकाभिमुखं करोतीति । तद्विपाक-
                        स्यैव देशकालनिमित्तानवधारणादियं कर्मगतिश्चित्रा दुर्विज्ञाना
                        चेति । न चोत्सर्गस्यापवादान्निवृत्तिरित्येकभविकः कर्माशयोऽ.
                        नुज्ञायत इति ॥ १३ ॥
                                              ते ह्लादपरितापफलाः पुण्या-
                                              पुण्यहेतुत्वात् ॥ १४ ॥
                             ते जन्मायुर्भोगाः पुण्यहेतुकाः सुखफला अपुण्यहेतुका दुःख-
                 प्रक्षयाय पर्याप्तः । पृच्छति-कस्मात् । पुग्यवत उत्तरं --कुशलं हि मे बह्वन्यदस्ति
                 प्रधानकर्म परिकरतया व्यवस्थितं दीक्षणीयादिदक्षिणान्तम् । यत्रायं संकरः स्वल्पः
                 स्वर्गेऽप्यस्य फले संकीर्णपुण्यलब्धजन्मनः स्वर्गात्सर्वथा दुःखेनापरामुष्टादपकर्षमल्पमल्पदुः-
                 खसंभेदं करिष्यतीति ।

__ तृतीयां गति विभजते---नियतेति । बलीयस्त्वेनेह प्राधाममभिमतं न स्वङ्गीतया ।

                  बलीयस्त्वं च नियतविपाकल्वेनान्यदाऽनवकाशत्वात् । अनियतविपाकस्य तु दुर्बलत्वम-
                  न्यदा सावकाशत्वात् । चिरमवस्थानं बीजभावमात्रेण न पुनः प्रधानोपकारितया सस्य
                  स्वतन्त्रत्वात् । ननु पायणेनैकदव कर्माशयोऽभिव्यज्यत इयुक्तमिदानी च चिरावस्थान.
                  मुच्यते तत्कथं परं पूत्रण न विरुष्यत इत्याशयवान्पृच्छति-कथमिति । उत्तरम् --
                  अअद्यप्टेति । जात्यभिप्रायमेकवचनम् । तदितरस्य गतिमुक्तामवधारयति-यत्त्वदृष्टेति ।
                  शेषं सुगमम् ॥ १३ ॥
                       - उक्तं क्लेशमूलत्वं कर्मणाम् । कर्ममलत्वं च विपाकानामथ विपाकाः कस्य मूलं येनामी
                  त्यक्तव्या  इत्यत आह-ते ह्लादपरितापफला: पुण्यापुण्यहेतुत्वात् । व्याचष्टे-ते जन्मा-
                  युर्भोगा इति । यद्यपि जन्मायुषोरेव ह्रादपरितापपूर्वभाषितया तत्फल वं  न तु भोगस्य
                                       १ क, ख. ५ वा य'। २ क. ज. स. मैं विकत ।
                                   १० ७४ - वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि- [ २ साधनपादे

फला इति । यथा चेदं दुःखं प्रतिकूलात्मकमेवं विषयसुखका- लेऽपि दुःखमस्त्येव प्रतिकूलात्मकं योगिनः ॥ १४ ॥ कथं, तदुपंपाद्यते- परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरो- . धाच्च दुःखमेव सर्व विवेकिनः ॥ १५ ॥ सर्वस्यायं रागानुविद्धश्चेतनाचेतनसाधनाधीनः सुखानुभव इति तत्रास्ति रागजः कर्माशयः । तथा च द्वेष्टि दुःखसाधनानि मुह्यवि चेति द्वेषमोहकृतोऽप्यस्ति कर्माशयः । तथा चोक्तम्- हलादपरितापोदयानन्तरभाविनस्तदनुभवात्मनस्तथाऽप्यनुभाव्यतया भोग्यतया भोगकर्मत मा. त्रेण भोगफलत्वमिति मन्तव्यम् । नन्वपुण्यहेतुका जात्यायुर्भोगाः परितापफला भवन्तु हेयाः प्रतिकूलवेदनीयत्वात् । कस्मात्पुनः पुण्यहेतवस्यज्यन्ते मुखफला अनुकूलवेदनीयवात् । न चैषां प्रत्यात्मवेदनीयानुकूलता शक्या सहस्रेणाप्यनुमानागभैरपाकर्तुम् । नच ह्लादपरितापौ परस्पराविनाभूतौ यतो ह्लाद उपादीयमाने परितापेऽप्यवर्जनीयतयाऽऽपतेत् । तयोभिन्न- हेनुकत्वाद्भिन्नरूपत्वाच्चेत्यत आह -यथा चेदमिति ॥ १४ ॥ यद्यपि न पृथग्जनैः प्रतिकूलात्मतया विषयसुखकाले संवेद्यते दुःखं तथाऽपि संवे- द्यते योगिभिरिति प्रश्नपूर्वकं तदुपपादनाय सूत्रमवतारयति-कथं, तदुपप(पा)द्यत इति । परिणामेत्यादिसूत्रम् । परिणामश्च तापश्च संस्कारश्चैतान्येव दुःखानि तैरिति । परिणामदुःखता विषयसुखस्य दुःख तामाह---सर्वस्यायमिति । न खलु सुखं रागा. नुवेधमन्तरेण संभवति । न ह्यस्ति संभवो न तत्र तुष्यति तच्च तस्य सुखमिति । रागस्य च प्रवृत्तिहेतुत्वात्प्रवृत्तेश्च पुण्यापुण्योपचहेतुत्वात्तत्रास्ति रागजः कर्माशयोऽ. सतोऽनुपजननात् । तदा (था) च मुखं भुञ्जानस्तत्र सक्तोऽपि विच्छिन्नावस्थेन द्वेषेण द्वेष्टि दुःखसाधनानि, तानि परिहर्तुमशक्तो मुह्यति चेति द्वेषमोहकृतोऽप्यस्ति कर्माशयः । द्वेषवन्मोहस्यापि विपर्ययापरनाम्नः कर्माशयहेतुत्वमविरुद्वम् । ननु कथं रक्तो द्वेष्टि मुह्यति वा रागसमये द्वेषमोहयोरदर्शनादियत आह--तथा चोक्तं विच्छिन्नावस्था- न्क्केशानुपपादयद्भिरस्माभिः । तदनेन वाङ्मनसप्रवृत्तिजन्मनि पुण्यापुण्ये दर्शिते । रागा- दिजन्मनः कर्तव्यमिदमिति मानसस्य संकल्पस्य साभिलाषत्वेन वाचनिकत्वस्याप्यविशेषात् । १ क ख. च. उ. पप 1२ क. समि । ३ क. दयन्सूत्र । ४ न. म. यकारिता RECEARCH INSTITUTE, 84. R.A ROAD. MADRAS - A. मू. १५] पातञ्जलयोगसूत्राणि। - ७५

" नानुपहत्य भूतान्युपभोगः संभवतीति हिंसाकृतोऽप्यस्ति
शारीरः क्रमशयः" इति । विषयसुखं चाविद्येत्युक्तम्
___ या भोगेष्विन्द्रियाणां तृप्तरुपमान्तिस्तत्सुखम् । या लोल्या-
दनुपशान्तिस्तदुःखम् । न चेन्द्रियाणां भोगाभ्यासेन वैतृष्ण्यं
'कर्तुं शक्यम् । कस्मात , यतो भोगाभ्यासमनु विवर्धन्ते रागाः
कौशलानि चेन्द्रियाणामिति । तस्मादनुपायः सुखस्य भोगाभ्यास
इति । स खल्वयं वृश्चिकविषभीत इवाऽऽशीविषेण दष्टो यः
सुखार्थी विषयानुवासितो महति दुःखपङ्के निमग्न इति । एषा
परिणामदुःखता नाम प्रतिकूला सुखावस्थायामपि योगिनमेव
क्लिभाति ।


यथाऽऽहुः- साभिलाषश्च संकल्पो वाच्यार्थान्नातिरिच्यते ' इति । शारीरमपि कर्म शयं दर्शयति-नानुपहत्येति । अत एव धर्मशास्त्रकाराः “पञ्च सूना गृहस्थस्य" । मनुस्मृ०३।६८] इत्याहुः । स्यादेतन्न प्रत्यात्मवेदनीयस्य विषयसुखस्य प्रत्या- स्यानमुचितं योगिनामनुभवविरोधादित्यत आह-विषयसुखं चाविद्ध्येत्यक्तं चतुर्विध- विपर्यासलक्षणामविद्या दर्शयद्भिरिति । नाऽऽपातमात्रमाद्रियन्ते वृद्धाः । अस्ति खल्वापाततो मधुविषसंपृक्तानोभीगेऽपि सुखानुभवः प्रत्यात्मवेदनीयः किं त्वायत्यामसुखम् । इयं च दर्शिता भगवतैवै-

" विषयेन्द्रियसंयोगाद्यत्तद्ग्रेऽमृतोपमम् ।
परिणामे विषमिव तत्सुखं राजसं स्मृतम् " [भ० गी० १८।३८] इति ॥

चोदयति-या भोगेष्विति । न वयं विघयह्लादं सुखमातिष्ठामहे किं तु तृप्य(प्त)- तां पुंसाम् । तत्तद्विषयमार्थनापरिक्लिष्टचेतसा तृष्णैव महदुःखम् । न चेयमुपभोगमन्तरेण शाम्यति । न चास्याः प्रशमो रागाद्यनुविद्ध इति नास्य परिणामदुःखतेति भावः । तृप्तेस्तृष्णाक्षयादेतोरिन्द्रियाणामुपशान्तिरप्रवर्तनं विषयेष्वित्यर्थः । एतदेव व्यतिरेकमुखेन (ण) स्पष्टयति----या लोल्यादिति । परिहरति--न चेन्द्रियाणामिति । हेतावनोः प्रयोगः । सत्यं तृष्णाक्षयः सुखमनवद्यं तस्य तु न भोगाभ्यासो हेतुरपि तु तष्माया एव तद्विरोधिन्याः।

यथाऽऽहु:-" न जातु कामः कामानामुपभोगेन शाम्यति ।
- हविषा कृष्णवर्भव भूय एवाभिवर्धते" [भारत आदि० ८५११२] इति

शेषमतिराहितम् । १.ह.च. मग्न । ख. ज. पयोग । ३.व. ज.तवति । ४ज.सखं नाऽऽति । ७६ . वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि- [ २ साधनपादे- अथ का तापदुःखता, सर्वस्य द्वेषानुविद्धश्चेतनाचेतनसा- धनाधीनस्तापानुभव इति तत्रास्ति द्वेषजः कमाशयः । सुखसा- धनानि च प्राथेयमानः कायेन वाचा पनसा च परिस्पन्दते तनः परमनुगृह्णात्यपहन्ति चेति परानुग्रहपीडाभ्यां धमाधमोवुप- चिनोति । स कर्माशयो लोभान्मोहाच भवतीत्येषा तापदुःखतो- च्यते । का पुनः संस्कारदुःखता, सुखानुभवात्सुखसंस्कारी. शयो दुःखानुभवादपि दुःखसंस्कारांशय इति । एवं कर्मभ्यो विपाकेऽनुभूयमाने सुख दुःखे वा पुनः कर्माशयमचय इति । एवमिदमनांदि दुःखस्रोतो विप्रसृतं योगिनमेव प्रतिकूला- स्मकत्वादुद्वेजयति । कस्मात् , अक्षिपात्रकल्पो हि विद्वानिति । यथोर्णातन्तुरक्षिपात्रे न्यस्तः स्पर्सेन दुःस्वयति न चान्येषु गात्रावयवेषु, एवमेतानि दुःखान्यक्षिपात्रकल्पं योगिनमेव क्लिनन्ति नेतरं प्रतिपत्तारम् । इतरं तु स्वकर्मोपहृतं दुःखमुपा- तमुपात्तं त्यजन्तं त्यक्तं त्यक्तमुपाददानमनादिवासनाविचि- त्रया चित्तवृत्त्या समन्ततोऽनुविद्धमिवाविद्यया हातव्य एवा- हकारमयकारानुपातिनं जातं जातं बाह्याध्यात्मिकोभयनिमित्ता- विपर्वाणस्तापा अनुप्लवन्ते । तदेवमनादिना दुःखस्रोतसा व्युद्ध- मानमात्मानं भूतग्रामं च दृष्ट्वा योगी सर्वदुःखक्षयकारणं सम्य- ग्दर्शनं शरणं प्रपद्यत इति । तापदुःखतां पृच्छति--अथ केति । उत्तरं-सर्वस्येति । सर्वजनप्रसिद्धत्वेन तत्स्वरू- पप्रपञ्चमकृत्वा तापदुःखताऽपि परिणामदुःखतासमतया प्रपञ्चतेति । संस्कारदुःखतां पृच्छति--केति । उत्तरं-सुखेति । सुखानुभवो हि संस्कारमाधत्ते । स च सुखस्मरणं तच रागं स च मनःकायवचनचेष्टां सा च पुण्यापुण्ये ततो विपाकानुभवस्तहो वासनेत्ये- वमनादितेति । अत्र च सुखदुःखसंस्कारातिशयात्तत्स्मरणं तस्माच्च रागद्वेषौ ताभ्यां कर्माणि कर्मभ्यो विपाक इति योजना। __ तदेवं दुःखस्रोतः प्रसृतं योगिनमेव क्लिश्नाति नेतरं पृथग्जनमित्याह-एवमिदम- नादीति । इतरं तु त्रिपर्वाणस्तापा अनुप्लवन्त इति संबन्धः । आधिभौतिकाधिदैविकयो. स्तापयोबह्यत्वेनैकत्वं विवक्षितम् । चित्ते वृत्तिरस्या इत्यविद्या. चित्तवत्तिस्तया हातव्य एवं बुद्धीन्द्रियशरीरादौ दारापत्यादौ चाहंकारममकारानुपातिनमिति । तदत्र न सम्यग्दर्शनाद- न्यत्परित्राणमस्तीत्याह-तदेवमिति । १५. रु. रातिश" । २ घ... च. "पतिश। ३ म., . घ. ति नान्ये ।

म. घ.. 'दिदुः ।
सू० १५]
७७
पातञ्जलयोगसूत्राणि ।

गुणवृत्तिविरोधाच्च दुःखमेव सर्व विवेकिनः। प्रख्याप्रवृत्तिस्थि-'
तिरूपा बुद्धिगुणाः परस्परानुग्रहतन्त्री भूत्वा शान्तं घोरं मूढं वा
प्रत्ययं त्रिगुणमेवाऽऽरभन्ते । चलं च गुणवृत्तमिति क्षिप्रपरि-
णामि चित्तमुक्तम् । रूपातिशया वृत्त्यतिशयाश्च परस्परेण विरु-
ध्यन्ते, सामान्यानि त्वतिशयः सह प्रवर्तन्ते । एवमेते गुणा
इतरेतराश्रयेणोपार्जितसुखदुःखमोहप्रत्ययाः सर्वे सर्वरूपा • भवं.
न्सति, गुणप्रधानभावकृतस्त्वेषां विशेष इति । तस्माद्दुःखमेव
सर्व विवेकिन इति ।
तदस्य महतो दुःखसमुदायस्य प्रभवीजमविद्या । तस्याश्च

तदेवोपाधिकं विषय खस्य परिणामतः संस्कारतस्तापस्योगाच्च दुःखत्वमभिधाय स्वाभाविकमादर्शयति--गुणवृत्तिविरोधाचेति । व्याचष्टे----प्रख्यापत्तिस्थितिरूपा बुद्धिरूपेण परिणता गुणाः सत्त्वरजस्तमांसि परस्परानुग्रहतन्त्राः शान्तं सुखात्मकं घोरं दुःखात्मकं मूढं विषादात्मकमेव प्रत्ययं मुखोपभोगरूपमपि त्रिगुणमारभन्ते । न च सोऽपि तादृशप्रत्ययरूपोऽस्य परिणामः स्थिर इत्याह----चलं च गुणवृत्तमिति क्षिप्र. परिणामि चित्तमुक्तम् । नन्येकः प्रत्ययः कथं परस्परविरुद्धशान्तघोरमूढवान्येकदा प्रतिपद्यत इत्यत आह- रूपातिशया वृत्त्यतिशयाश्च परस्परेण विरुध्यन्ते । रूपाणि अष्टौ माया धर्मादयो वृत्तयः मुख द्यास्तदिह धर्मेण विपच्यमानेनाधर्मस्तादृशो विरुध्यते । एवं ज्ञानवैराग्येश्वर्यैः सुखादिभिश्च तादृशान्येव तद्विपरीतानि विरुध्यन्ते । सामान्यानि त्वसमुदाचरद्रपाण्यतिशयः समुदाचरद्भिः सहाविरोधात्प्रवर्तन्त इति । मनु गृहीम एतत्तथाऽपि विषयसुखस्य कुतः स्वाभाविकी दुःखतेत्यत आह-एवमेत इति । उपादानाभेदादुपादानात्मकत्वाचौपादेयस्याप्यभेद इत्यर्थः । तकिमिदानीमायन्ति- कमेव तादात्म्यं तथा च बुद्धिव्यपदेशभेदी न कल्पेते इत्यत आह---गुणप्रधानेति । सामान्याममा गुणभावोऽतिशयात्मना च प्राधान्यम् । तस्माद्रुपाधितः स्वभावतश्च दःखमेव सर्व विवेकिन इति ।

दुःखं च हेयं प्रेक्षात्रता । न च तन्निदानहानमन्तरेण तद्धेयं भवितुमर्हति । न चापरिज्ञातं निदानं शक्यं हातुमिति मूलनिदानमस्य दर्शयति--तदस्येति । दुःखसमु. दायस्य प्रभव उत्पत्तिर्यतस्तद्वीजमित्यर्थः । तदुच्छेदहेतुं दर्शयति-तस्याश्चेति । इदानीमस्य शास्त्रस्य सोनुग्रहार्थं प्रवृत्तस्य तद्विधेनैव शास्त्रेण सादृश्यं दर्शयति-


१ग. घ. ङ च छ 'त्यया इति सः । २ ग. ध. इ. च. भवन्ति । ३ क, प्रेक्षाक ताम् ।म.मजावताम् ।' ७८ . वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि- [ २ साधनपादे-

            सम्यग्दर्शनमभावहेतुः । यथा चिकित्साशास्त्रं चतुर्म्यहम्-रोगो
            रोगहेतुरारोग्यं भैषज्यमिति, एवभिदमपि. शास्त्रं चतुव्यूहमेव ।
            तद्यथा-संसारः संसारहेतुर्मोक्षो मोक्षोपाय इति । तत्र दुःखब-
            हुल: संसारो हेयः । प्रधानपुरुषयोः संयोगो हेयहेतुः । संयो-
            गस्याऽऽत्यन्तिकी निवृत्तिहानम् । हानोपायः सम्यग्दर्शनम् ।
            तत्र हातुः स्वरूपमुपादेयं वा हेयं वा न भवितुमर्हतीति हाने
            तस्योच्छेदवादप्रसङ्ग उपादाने च हेतुवादः । उभयप्रत्याख्याने
            शाश्वतवाद इत्येतत्सम्यग्दर्शनम् ।। १५॥
              तदेतच्छास्त्रं चतुर्वृहमित्यभिधीयते-
                 हेयं दुःखमनागतम् ॥१६॥
         यथति । चत्वारो व्यूहाः संक्षिप्तावयवरचना यस्य तत्तथोक्तम् । ननु दुःखं हेयमुक्त्वा
         संसारं हेयमभिदधतः कुतो न विरोध इत्यत आह --तत्र दुःखबहुल इति ।
         यत्कृत्वाऽविद्या संसारं करोति तदस्या अवान्तरव्यापार संसारहेतुमाह-प्रधानपुरुष-
         योरिति । मोक्षस्वरूपमाह-संयोगस्येति । मोक्षोपायमाह-हानोपाय इति । केचि-
         पश्यन्ति, हातुः स्वरूपोच्छेद एव मोक्षः ।
              यथाऽऽहुः--"प्रदीपस्येव निर्वाणं विमोक्षस्तस्य चेतसः" इति ।
          अन्ये तु सवासनक्लेशसमुच्छेदाद्विशुद्धविज्ञानात्पाद एवं मोक्ष इत्याचक्षते तान्प्र.
          स्याह--तत्रेति । तत्र हानं तावद्दषयति-हाने तस्येति । न हि प्रेक्षावान्कश्चिदा-
          मोच्छेदाय यतते । ननु दृश्यन्ते तीव्रगदोन्मूलितसकलसुखां दुःखमयीमिव मूर्तिमुद्रुहन्तः
          स्वाच्छेदाय यतमानाः । सत्यम् । केचिदेव ते, न त्वेवं संसारिणो विविधविचित्रदेवाद्या,
          नन्दभोगभागिनस्तेऽपि च मोक्षमाणा दृश्यन्ते तस्मादपुरुषार्थत्वप्रसक्तेर्न हातुः स्वरूपो.
          च्छेदो मोक्षोऽम्युपेयः । अस्तु तर्हि हातुः स्वरूपमुपादेयमित्यत आह–उपादाने च
          हेतुवादः । उपादाने हि कार्यत्वेनानित्यत्वे सति मोक्षत्वादेव च्यवेत । अमृतत्वं हि
          मोक्षः । नापि विशुद्धो विज्ञानसंतानो भवत्यमतः । संतानिभ्यो व्यतिरिक्तस्य संतानस्य
          वस्तुसतोऽभावात् । संतानिनां चानित्यत्वात् । तस्मात्तथा यतितव्यं यथा शाश्वतवादो
          भवति । तथाच पुरुषार्थताऽपवर्गस्येत्याह-उभयपत्याख्यान इति । तस्मात्स्वरूपा-
          वस्थानमेवाऽऽमनो मोक्ष इति । एतदेव सम्यग्दर्शनम् ॥ १५ ॥
             तदेतच्छास्त्रं चतुर्ग्रहमित्यभिधीयते-हेयं दुःखमनागतम् । अनागतमित्यती-
       १. ख. च. छ एवेति । २ च. उ. हेतुः । ३ ग. य. छ. 'यं हे । ४ ख. भवितव्यं । : 
-

दुःखमतीतमुपभोगेनातिवाहितं न हेयपक्षे वर्तते । वर्तमान च स्वक्षणे भोगारूढमिति न तत्क्षणान्तरे हेयतामापद्यते । तस्मा- द्यदेवानागतं दुःखं तदेवाक्षिपात्रकल्पं योगिनं क्लिश्नाति नेतरं मतिपत्तारम् । तदेव हेयतामापयते ॥ १६॥ तस्माद्यदेव हेयमित्युच्यते तस्यैव कारणं प्रतिनिर्दिश्यते-- 

             इष्टदृश्ययोः संयोगो हैयहेतुः ॥ १७ ॥ 

द्रष्टा बुद्धेः प्रतिसंवेदी पुरुषः । दृश्या बुद्धिसत्योपारूढाः सवें धर्माः । तदेतदृश्यमयस्कान्तमणिकल्पं संनिधिमात्रोपका- रिदृश्यत्वेने स्वं भवति पुरुषस्य दृशिरूपस्य स्वामिनः, अनुभ-

वकर्मविषयतामापनं यतः । अन्यस्वरूपेण तिलब्धात्मकं 

तवर्तमाने व्यवच्छिन्ने । तत्रोपपत्तिमाह-दुःखमनीतमिति । ननु वर्तमानमुपभुज्यमानं न भोगेनातिवाहितमिति कस्मान्न हेयमित्यत आह---वर्तमानं चेति । सुगमम् ॥ १६ ॥  हेयमुक्तं तस्य निदानमुच्यते-द्रष्ट्रदृश्ययोः संयोगो हेयहेतुः । द्रष्टुः स्वरूपमाह- द्रष्टेति । चितिच्छायापत्तिरेव बुद्धेर्बुद्धिप्रतिसंवेदित्वसुदासीनस्यापि पुंसः । नन्वेतावताऽपि बुद्धिरेवानेन दृश्येत, न दृश्येरञ्शब्दादयोऽत्यन्तव्यवहिता इत्यत आह-दृश्या बुद्धिस- त्त्वेति । इन्द्रियप्रणालिकया बुद्धौ शब्दाद्याकारेण परिणतायां दृश्यायां भवन्ति शब्दाद- योऽपि धर्मा दृश्या इत्यर्थः । ननु तदाकारापत्त्या बुद्धिः शब्दाद्याकारा भवतु पुंसस्तु बुद्धि. संबन्धेऽभ्युपगम्यमाने परिणामित्वमसंबन्धे वा कथं तेषां बुद्धिसत्त्वोपारूढानामपि शब्दा- दीनां दृश्यत्वम् । नहि दृशिनाऽसंस्पृष्टं दृश्यं दृष्टमित्यत आह-तदेतद्दश्यमिति । प्रपञ्चि. तमिदमस्माभिः प्रथमपाद एव यथा चित्याऽसंपृक्तमपि बुद्धिसत्त्वमत्यन्तस्वच्छतया चिति- बिम्बोग्राहितया समापनचैतन्यमिव शब्दाद्यनुभवतीति । अत एव च शब्दाद्याकारपरिण- तबुद्धिसत्वोपनाताशब्दादीन्भुञ्जानः स्वामी भवति द्रष्टा तादृशं चास्य बुद्धिसत्त्रं स्त्र भवति । तदेतद्बुद्धिसत्वं शब्दाद्याकारवदृश्यमयस्कान्तमणिकल्यं पुरुषस्य स्वं भवति दशि- रूपस्य स्वामिनः । कस्मात्, अनुभवकर्मविषयतामापन्नं यतः । अनुभवो भोगः पुरु- षस्य कर्म क्रिया तद्विषयतां भुज्यमानताम,पन्नं यस्मादतः स्वं भवति । ननु स्वयंप्रकाशं बुद्धिसत्वं कथमनुभवविषय इत्यत आह-अन्यस्वरूपेणेति । यदि हि चैतन्यरूपं वस्तुतो 

१ग. प. अ. न भ । २ म. प. उ. च. स्य स्वं दृ' । ३ ग. घ. ह. पन्नमन्य। ५ च. 'न्यरू° । ५ क. °ण पतिपनमन्मस्वरूपम । ख. च. छ. ण पतिपत्रमन्यससपेण प ६ ख. संसृष्टं स्वतन्त्रमपि परार्थत्वात्परतन्त्रम् । तयोदृग्दर्शनशक्त्योरनादिरर्थकृतः संयोगो हेयहेतुर्दुःखस्य कारणमित्यर्थः । तथा चोक्तम्---तत्संयोगहेतुविवर्जनात्स्या. दयमात्यन्तिको दुःखप्रतीकारः । कस्मात , दुःखहेतोः परिहार्यस्य प्रतीकारदर्शनात् । तद्यथा--पादतलस्य भेद्यता, कण्टकस्य भेत्तृत्वं, परिहारः कण्टकस्य पा(प)दाऽनधिष्ठानं पादत्राणव्यवहितेन वाऽधिष्ठानम्, एतञ्त्रयं यो वेद लोके स तत्र प्रतीकारमारंभमाणो भेदजं दुःखं नाऽऽप्नोति । कस्मात् , त्रित्वो- बुद्धिसत्त्वं स्याद्भवेत्स्वयंप्रकाशं किंतु स्वं चैतन्यादन्यजडरूपं तेन प्रतिलब्धात्मकं तस्मात्तदनुभवविषयः । ननु यस्य हि यत्र किंचिदायतते तत्तदधीनम् । न च बुद्धिसत्त्वस्य पुरुषमुदासीनं प्रति किंचिदोयितत इति कथं तत्तन्त्रम् । तथाच न तस्य कर्मेत्यत आह- स्वतन्त्रमपि परार्थत्वात्पुरुषार्थत्वात्परतन्त्रं पुरुषतन्त्रम् । __ नन्वयं दृग्दर्शनशक्त्योः संबन्धः स्वाभाविको वा स्यान्नैमित्तिको वा । स्वाभाविकत्वे संबन्धिनोर्नित्यवादशक्योच्छेदः संबन्धस्तथा च संसारनित्यत्वम् । नैमित्तिकत्वे तु क्लेशकर्मतद्वासनानामन्तःकरणवृत्तितया सत्यन्तःकरणे भावादन्तःकरणस्य च तन्निमित्तत्वे परस्पराश्रयप्रसङ्गादनादित्वस्य च सर्गीृादावसंभवादनुत्पाद एव संसारस्य स्यात् । यथोक्तम् - " पुमानकर्ता येषां तु तेषामपि गुणैः क्रिया । कथमादौ भवेत्तत्र कर्म तावन्न विद्यते ।। मिथ्याज्ञानं न तत्रास्ति रागद्वेषादयोऽपि वा। मनोवृत्तिर्हि सर्वेषां न चात्पन्नं मनस्तदा" इति शङ्कामपनयति--तयोदृग्दर्शनशक्त्योरनादिरर्थकृतः संयोगो हेयहेतुः । सत्यम् । न स्वाभाविकः संबन्धो नैमित्तिकस्तु । न चैवमादिमाननादिनिमित्तप्रभवतया तस्याप्यनादित्वात् । क्लेशकर्मतद्वासनासंतानश्चायमनादिः प्रतिसर्गावस्थायां च सहान्तःकरणेन प्रधानसाम्यमुपगतोऽपि सर्गादौ पुनस्तादृगेव प्रादुर्भवति वर्षापाय इवोद्विज्जभेदो मृद्भावमुपगतोऽपि पुनर्वर्षासु पूर्वरूप इत्यसकृदावेदितम् । प्राग्भावितया संयोगस्याविद्या कारणं स्थितिहेतुतया पुरुषार्थः कारणं तद्वशेन तस्य स्थितेस्तदिदमुक्तमर्थकृत इति । तथाचोक्तं पञ्चशिखेन तत्संयोगो बुद्धिसंयोगः स एव हेतुर्दुः- खस्य, तस्य विवर्जनात्स्यादयमात्यन्तिको दुःखप्रतीकारः । अर्थात्तदपरिवर्जने दुःखमित्युक्तं भवति । तत्रैवात्यन्तप्रसिद्धं निदर्शनमाह—तद्यथेति । पादत्राणमुपानत् । १ ज. स्य' त्तर्हि भ्यतु स्वयं । २ ज. तु थे' ! ३ क. दापत' । ४ क. दापत' । ५व.प्रभवति।

"

पलब्धिसामर्थ्यादिति । अत्रापि तापकस्य रजसः सत्त्यमेव तप्यम् । कस्मात् , तपिक्रियायाः कर्मस्थत्वात् , सत्त्वे कर्मणि तपि. क्रिया नापरिणामिनि निष्क्रिय क्षेत्रज्ञे, दर्शितविषयत्वात् । सत्त्वे तु तप्यमाने तदाकारानुरोधी पुरुषोऽप्यनुतप्यत इति ॥ १७ ।।

  दृश्यस्वरूपमुच्यते- 
        प्रकाशक्रियास्थितिशीलं भूनन्द्रि-
        यात्मकं भोगापवर्गाथं दृश्यम् ॥ १८॥
    प्रकाशशीलं सत्त्वम् । क्रियाशील रजः। स्थितिशीलं तम
   इति । एते गुणाः परस्परोपरक्तप्रविभागाः परिणामिनः संयोग-

स्यादेतत् । गुणसंयोगस्तापहेतुारेत्युच्यमाने गुणानां तापकत्वमभ्युपेतम् | न च तपि- क्रियाया अस्त्यादेवि कर्तृस्थो भावो येन तप्यमन्यन्नापेक्षेत । न चास्यास्तप्यतया पुरुषः कर्म तस्यापरिणामितया क्रियाजनितफलशालित्यायोगात् । तस्मात्तपेस्तप्यव्याप्तस्य तन्नि- वृत्तौ निवृत्तिमवगच्छामो ज्वलनविरहेणेव धूमाभावमित्यत आह -अत्रापि तापकस्येति। गुणानामेव तप्यतापकभावस्तत्र मृदुत्वात्पादतलवत्सत्वं तप्यं रजस्तु तीव्रतया तापकम् । पृच्छति-कस्मात्सत्त्वमेव तप्यं नतु पुरुषः । उत्तरम् --तपिक्रियाया इति । तरिक मिदानी पुरुषो न तप्यते । तथा चाचेतनस्यास्तु सत्त्वस्य तापः किं नश्छिन्नमित्यत आह- दर्शितविषयत्वात्सत्त्वे तु तप्यमाने तदाकारानुरोधी पुरुषोऽप्यनुतप्यत इति । दर्शितविषयत्वमनुतापहेतुस्तच्च प्राग्व्याख्यातम् ॥ १७ ॥

      प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मक भोगापवर्मार्थ दृश्यम् । व्याचष्टे-~-~-

प्रकाशेति । सत्त्वस्य हि भागः प्रकाशस्तामसेन भागेन दैन्येन वा राजसेन वा दुःखेना. नुरज्यते । एवं राजसादिष्वपि द्रष्टव्यम् । तदिदमुक्तम् --~-परस्परोपरक्तपविभागा इति । पुरुषेण सह संयोगवियोगधर्माणः । यथाऽऽन्नायते--

         " अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमानां सरूपाः ।
            अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः "
                                     [ ते० आ० ६ । १० ] इति ॥
     इतरेतरोपाश्रयेणोपार्जिता मूर्तिः पृथिव्यादिरूपा यैस्ते तथोक्ताः । स्यादे.

तत्सत्त्वेन शान्तप्रत्यये जनयितव्ये रजस्तमसोरपि सरत्राङ्गत्वेन तत्र हेतुभावा. दस्ति सामर्थ्यमिति यदाऽपि च रजस्तमसोरङ्गित्वं तदाऽपि शान्त एव प्रत्यय वियोगधर्माणइतरेतरोपाश्रयेणोपार्जितमूर्तयःपरस्पराङ्गाङ्गित्वेऽ. प्यसंभिन्नशक्तिपविभागास्तुल्यजातीयातुल्यजातीयशक्तिभेदा- नुपातिनःप्रधानवेलायामुपदर्शितसंनिधानागुणत्वेऽ च व्यापारमात्रेणप्रधानान्तर्णीतानुमितास्तिताःपुरुषार्थकर्तव्यतया प्रयुक्तसामर्थ्याःसंनिधिमात्रोपकारिणोऽयस्कान्तमणिकल्पाः'

उदीयेत न घोरो मृढो बा सत्त्वप्राधान्य इअत्यत आहपरस्पराङ्गाङ्गिन्त्वेऽ-

प्यसंभिन्नशक्तिप्रविभागाः । भवतु शान्ते प्रत्यये जनयितव्ये रजस्तमसोरङ्गभा.
वस्तथाऽपि नैपां शक्तयः संकीर्यन्ते कार्यासंकरोन्नेयो हि शक्तीनामसंकरः । असं-
कीर्णेन च समुदाचरता रूपेण शान्तघोरमूढरूपाणि कार्याणि दृश्यन्त इति सिद्ध
शक्तीनामसभेद इति । स्यादेतत् । असंभेदश्चेच्छक्तीनां न संभयकारित्वं गुणानाम् ।
न जातु भिन्नशक्तीनां संभूयकारिवं दृष्टम् । न हि तन्तुमृत्पिण्डवीरणादीनि घटादी-
संभूय कुर्वत इत्यत आह - तुल्यजातीयातुल्यजातीयशक्तिभेदानुपातिनः ।
यद्यपि तुल्यजातीय उपादानशक्तिर्नान्यत्र सहकारिशक्तिस्त्वतुल्य जातीये । पटे तु जन-
यितव्ये न चीरणानामस्ति सहकारिशक्तिरपीति न तैस्तन्तूनां संभृयका-
रितेति भावः । तुल्यजातीयातुल्य जातीयेषु शक्येषु ये सक्तिभेदास्ताननु पतितुं शीलं
येषां ते तथोक्ताः । प्रधानवेलायामिति । दिव्यशरीरे जनयितव्ये सत्त्वगुणः प्रधा-
नम् । अङ्गे रजस्तमसी । एवं मनुष्यशरीरे जनयितव्ये रजः प्रधानमङ्गे सत्त्वतमसी ।
एवं तिर्यक्शरीरे जनयितव्ये तमः प्रधानमङ्गे सत्वरजसी । तेनेते गुणाः प्रधानत्व.
वेलायामुपदर्शितसंनिधानाः कार्योपजननं प्रत्युद्धृतवृत्तय इत्यर्थः । प्रधानशब्दश्व
भावप्रधानः । यथा “दूधेकयोद्विवचनैकवचने" [पा० सू० ११४.२२] इत्यत्र द्वित्वैकाययो-
रिति । अन्यथा द्वयेकेष्धिति स्यात्। ननु तदा प्रधानमुद्धततया शक्यमस्तीति वक्तुमनुद्भूतानां
तु तदङ्गानां सद्भावे किं प्रमाणमित्यत आह--गुणत्वेऽपि चेति । यद्यपि नोद्धता-
स्तथाऽपि गुणानामवित्रकित्वात्संभयकारित्वाच्च व्यापारमात्रेण सहकारितया प्रधानेऽन्ततिं
सदनुमितमस्तित्वं येषां ते तथोक्ताः । ननु सन्तु गुणाः संभूयकारिणः समर्थाः कस्मा.
त्पुनः कुर्वन्ति नहि समर्थमित्येव कार्य जनयति । मा भृदस्य कार्योपजननं प्रति
विराम इत्यत आह- पुरुषार्थकर्तव्यतयेति । ततो निवर्तितनिखिलपुरुषार्थानां
गुगानामुपरमः कार्यानारम्भणमित्युक्तं भवति । ननु पुरुषस्यानुपकुर्वतः कथं पुरुषार्थन
प्रयुज्यत इत्यत आह–संनिधिमात्रेति । ननु धर्माधर्मलक्षणमेव निमित्तं प्रयोजक
१ ग. प. उ. विभाग । २ ज. सिद्धः। ३ क. ख. 'त् । तदसं' ४ झ. स्माता।
५ख. परि । ज. प्रत्यवि ।

प्रत्ययमन्तरेणैकतमस्य वृत्तिमनु वर्तमानाः प्रधानशब्दवाच्या भवन्ति । एतदृश्यमित्युच्यते ।

' तदेतद्भूतेन्द्रियात्मकं भूतभावेन पृथिव्यादिना सूक्ष्मस्थूलेन परिणमते । तथेन्द्रियभावेन श्रोत्रादिना सूक्ष्मस्थूलेन परिणमत इति । तत्तु नाप्रयोजनमपि तु प्रयोजनमुररीकृत्य प्रवर्तत इति भोगापवर्गार्थं हि तदृश्यं पुरुषयेति । तत्रेष्टानिष्टगुणस्वरूंपावधारणमविभागापन्नं भोगो भोक्तुः स्वरूपावधारणमपवर्ग इति । द्वयोरतिरिक्तमन्यदर्शनं नास्ति । तथा चोक्तम्-अयं तु खलु त्रिषु गुणेषु कर्तृष्वकर्तरि च पुरुषे तुल्यातुल्यजातीये चतुर्थे तक्रियासाक्षिण्युपनीयमानान्सर्वभावानुपपन्नाननुपश्यन्नदर्शनम- न्यच्छङ्कन्त इति ।

      तावेतौ भोगापवर्गों बुद्धिकृतौ बुद्धावेव वर्तमानौ कथं पुरुषे

व्यपदिश्यते इति । यथा विजयः पराजयो वा योद्धृषु वर्तमानः स्वामिनि व्यपदिश्यते, स हि तत्फलस्य भोक्तेति, एवं बन्ध- मोक्षौ वृृुद्धावेव वर्तमानौ पुरुषे व्यपदिश्येते, स हि तत्फ-

गुणानां तत्किमुच्यते पुरुषार्थप्रयुक्ता इत्यत आह-प्रत्ययमन्तरेणेति । एकतमस्य सत्त्वस्य रजसस्तमसो वा प्रधानस्य स्वकार्ये प्रवृत्तस्य वृत्तिमितरे प्रत्ययं निमित्तं धर्मादिकं विनैवानुवर्तमानाः । यथा च वक्ष्यति-" निमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवत् " [यो०सू० ४।३] इति । एते गुणाः प्रधानशब्दवाच्या भवन्तीति संबन्धः । प्रधीयत आधीयते विश्वं कार्यभेभिरिति व्युत्पत्त्यैतदृश्यमुच्यते ।

तदेवं गुणानां शीलमभिधाय तस्य कार्यमाह-तदेतदिति । सत्कार्यवादसिद्धौ यद्य- दात्मकं तत्तेन रूपेण परिणमत इति भूतेन्द्रियात्मकत्वं दीपयति-भूतभावेनेत्यादिना । भोगापवर्गार्थमितिसूत्रावयवमवतारयति-तत्तु नाप्रयोजनमपि तु प्रयोजनमुररीकृत्य प्रवर्तते । भोग विवृणोति-तत्रेति । सुखदुःखे हि त्रिगुणाया बुद्धेः स्वरूपे तस्यास्तथा- त्वेन परिणामात्तथाऽपि गुणगततयाऽवधारणे न भोग इत्यत आह–अविभागापन्नमिति । एतच्चासकृद्विवेचितम् । अपवर्ग विवृणोति-भोक्तुरिति । अपवृज्यतेऽनेनेत्यपवर्गः । प्रयोजनान्तरस्याभावमाह-द्वयोरिति । तथा चोक्तं पञ्चशिखेन,-अयं तु खल्विति ।

      ननु वस्तुतो भोगापवर्गों बुद्धिकृतौ बुद्धिवर्तिनी च कथं तदकारणे तदनधिकरणे

च पुरुषे व्यपदिश्येते इत्यत आह-तावेताविति । भोक्तृत्वं च पुरुषस्योपपादितमग्रे, लस्य भोक्तेति । बुद्धेरेव पुरुषार्थापरिसमाप्तिर्बन्धस्तदर्थाव- सायो मोक्ष इति । एतेन ग्रहणधारणोहापोहतत्त्वज्ञानाभिनिवेशा बुद्धौ वर्तमानाः पुरुषेऽध्यारोपितसद्भावाः । स हि तत्फलस्य भोक्तेति ॥ १८ ॥ दृश्यानां गुणानां स्वरूपभेदावधारणार्थमिदमारभ्यते- विशेषाविशेषलिङ्गमात्रालि- ङ्गानि गुणपर्वाणि ॥ १९॥ तत्राऽऽकाशवाय्वग्न्युदकभूमयो भूतानि शब्दस्पर्शरूपरसग- न्धतन्मात्राणामविशेषाणां विशेषाः । तथा श्रोत्रत्वक्चक्षुर्जि- ह्वाघ्राणानि बुद्धीन्द्रियाणि, वाक्पाणिपादपायूपस्थाः कर्मेन्द्रि- याणि, एकादशं मनः सर्वार्थम् , इत्येतान्यस्मितालक्षणस्यावि- शेषस्य विशेषाः । गुणानामेष षोडशको विशेषपरिणामः । षडविशेषाः । तद्यथा-शब्दतन्मात्रं स्पर्शतन्मात्रं रूपतन्मात्रं च वक्ष्यते । परमार्थतस्तु-बुद्धेरेव परुषार्थापरिसमाप्तिरिति । एतेन भोगापवर्गयोः पुरुषसंबन्धित्वकथनमार्गेण ग्रहणादयोऽपि पुरुषसंबन्धिनो वेदितव्याः । तत्र स्वरूपमात्रेणार्थज्ञानं ग्रहणं, तत्र स्मृतिर्धारणं, तद्वतानां विशेषाणामूहनमूहः, समारोपितानां च युक्त्याs- पनयोऽपोहः । ताभ्यामेवोहापोहाभ्यां तदवधारणं तत्वज्ञानम् । तत्त्वावधारणपूर्व हानोपादानज्ञानमभिनिवेशः ॥ १८॥ दृश्यानां गुणानां स्वरूपभेदावधारणार्थमिदमारभ्यते-विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि । येषामविशेषाणां शान्तघोरमूढलक्षणविशेषरहितानां ये विशेषा विकारा एव न तु तत्वान्तरप्रकृतयस्तेषां तानाह-तत्राऽऽकाशेति । उत्पादक्रमानुरूप एवोपन्यासक्रमः । अस्मितालक्षणस्याविशेषस्य सत्त्वप्रधानस्य बुद्धीन्द्रियाणि विशेषाः । राजसस्य कर्मेन्द्रियाणि । मनस्तुभयात्मकमुभयप्रधानस्येति मन्तव्यम् । अत्र च पञ्च तन्मात्राणि बुद्धिकारणकान्यविशेषत्वादस्मितावदिति । विकारहेतुत्वं चाविशेषत्वं तन्मात्रेषु चास्मितायां चाविशिष्टम् । संकलय्य विशेषान्परिगणयति-गुणानामेष इति। , अविशेषानपि गणयति-षडिति । संकलय्योदाहरति-तद्यथेति । विशिष्टं द्वापरं परेणेति गन्ध आत्मना पञ्चलक्षणो रस आत्मना चतुर्लक्षणो रूपमात्मना त्रिल- १ क. ग. प. उ. च. °नां तु गु । २ क. ख. ग. प. अ. उ. पस्थानि झ. 'नम४ज: विष्टधं। । ३ ज, ८५ सू० १९] पातञ्जलयोगसूत्राणि।

      गन्धतन्मात्रं चेति एकद्वित्रिचतुःपञ्चलक्षणाः शब्'दा-
      दयः पश्चाविशेषाः, षष्ठश्चाविशेषोऽस्मितामात्र इति' । एते
      सत्तामात्रस्याऽऽत्मनो महतः षडविशेषपरिणामाः । यत्तत्परम-
      विशेपेभ्यो लिङ्गमात्रं महत्तत्त्वं तस्मिन्नेते सत्तामात्रे महत्यात्म-
      न्रसतन्रंयवस्थाय विवृद्धिकाष्ठामनुभवन्ति ।
      
      प्रतिसं सृज्यमानाश्च तस्मिन्नेव सत्तामात्रे महत्यात्मन्यवस्थाय  
      यत्तनिःसत्तास तं निःसदसन्निरसदव्यक्तमलिङ्ग प्रधानं तत्प्र- 
      
      

क्षणं स्पर्श आत्मना द्विलक्षणः शब्दः शब्दलक्षण एवेति । कस्य पुनरमी षडविशेषाः कार्यमित्यत आह - एते सत्तामात्रस्याऽऽत्मन इति । पुरुषार्थक्रियाक्षमं सत्तस्य भावः सत्ता तन्मात्रं तन्महत्तत्त्वम् । यावती काचित्पुरुषार्थक्रिया शब्दादिभोगलक्षणा सत्त्वपुरुषान्यताख्यातिलक्षणा वाऽस्ति सा सर्वा महति बुद्धौ समाप्यत इत्यर्थः । आत्मन इति स्वरूपोपदर्शनेन तुच्छत्वं निषेधति । प्रकृतेरयमाद्यः परिणामो वास्तवो न तु तद्वि- वर्त इति यावत् । यत्तत्परं विप्रकृष्टकालमविशेषेभ्यस्तदपेक्षया संनिकृष्टकालेभ्यो लिङ्गमानं महत्तत्त्वं तस्मिन्नेते षडविशेषाः सत्तामात्रे महत्यात्मन्यवस्थाय सत्कार्थवादसिद्धेर्विवृद्धिकाष्टा- मनुभवन्ति प्रामुवन्ति । ये पुनरविशेषाणां विशेषपरिणामास्तेषां च धर्मलक्षणावस्थाः परि- णामा इति । सेयमेषां विवृद्धिकाष्ठा परिणामकाष्टेति ।

तदेवमुत्पत्तिक्रममभिधाय प्रलयक्रममाह-प्रतिसंसृज्यमानाः प्रलंयमानाः स्वा. त्मनि लीनविशेषा अविशेषास्तस्मिन्नेव सत्तामात्रे महत्यात्मन्यवस्थाय विलीय सहैव महता तेऽविशेषा अव्यक्तमन्यत्र लयं न गच्छतीत्यलिङ्गं प्रतियन्ति । तस्यैव विशेषणं निःसत्तासत्तं सत्ता पुरुषार्थक्रियाक्षमावम् , असत्ता तुच्छता निष्क्रान्तं सत्ताया असत्तायाश्च यत्तत्तथोक्तम् । एतदुक्तं भवति-सत्त्वरजस्तमसां साम्यावस्था न कचित्पुरुषार्थ उपयुज्यत इति न सती नापि गगनकमलिनीव तुच्छस्वभावा तेन नासत्यपीति । स्यादेतत् । अव्यक्तावस्थायामप्यस्ति महदादि तदात्मना, न हि सतो विनाशो विनाशे वा न पुनरुत्पादो न ह्यसत उत्पाद इति महदादिसद्भावात्पुरुषार्थ- क्रिया प्रवर्तेत तत्कथं निःसत्त्वमव्यक्तमित्यत आह-निःसदसदिति । निष्क्रान्तं कारणं सतः कार्यात् । यद्यपि कारणावस्थायां सदेव शक्त्यात्मना कार्य तथाऽपि स्वोचितामर्थक्रियामकुर्वदसदित्युक्तम् । न चैतत्कारणं शशविषाणायमानकार्यमित्याह- निरसदिति । निष्क्रान्तमसतस्तुच्छरूपात्कार्यात्तथा सति हि व्योमारविन्दमिवास्मान ८६ . वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि- [२ साधनपादे-- तियन्ति । एष तेषां लिङ्गमावः परिणामो निःसत्तासत्तं चालिङ्गपरिणाम इति । . अलिङ्गावस्थायां न पुरुषार्थो हेतुर्नालिङ्गावस्थायामादौ पुरुषार्थता कारणं भवतीति । न तस्याः पुरुषार्थता कारणं भवतीति । नासौ पुरुषार्थकृतेति नित्याऽऽख्यायते । त्रयाणां त्ववस्थाविशेषाणामादौ पुरुषार्थता कारणं भवति । स चार्थो हेतुर्निमित्तं कारणं भवतीत्यनित्याऽऽख्यायते । गुणास्तु सर्वधर्मानुपातिनो न प्रत्यस्तमयन्ते नोपजायन्ते । व्यक्तिभिरेवा- तीतानागतव्ययागमवतीभिर्गुणानवयिनीभिरुपजननापायधर्मका इव प्रत्यवभासन्ते । यथा देवदत्तो दरिद्राति । कस्मात् । यतोऽस्य म्रियन्ते गाव इति, गवामेव मरणात्तस्य दरिद्राणं न स्वरू- पहानादिति समः समाधिः। लिङ्गमात्रमलिङ्गस्य प्रत्यासन्नं, तत्र तत्संसृष्टं विविच्यते क्रमानतिवृत्तेः । तथा षडविशेषा लिङ्गमात्रे संसृष्टा विविच्यन्ते कार्यमुत्पद्यतेति भावः । प्रतिसर्गमुक्तमुपसंहरति-एप तेषामिति । एप इत्यनन्तरो- तात्पूर्वस्य परामर्शः । लिङ्गमात्राद्यवस्थाः पुरुषार्थकृतत्वादनित्या अलिङ्गावस्था तु पुरुषार्थेनाकृतत्वानित्येत्यत्र हेतुमाह----अलिङ्गावस्थायामिति । कस्मात्पुनर्न पुरुषार्थो हेतुरित्यत आह–नालिङ्गावस्थायामिति । भवतिना विषयेण विषयिज्ञानमुपलक्षयति । एतदुक्तं भवति-एवं हि पुरुषार्थता कारणमलिङ्गावस्थायां ज्ञायेत । यद्यलिङ्गावस्था शब्दाद्युपभोगं वा सत्त्वपुरुषान्यताख्यातिं वा पुरुषार्थं निवर्तयेत्तन्निवर्तने हि न साम्यावस्था स्यात् । तस्मात्पुरुषार्थकारणत्वमस्यां न ज्ञायत इति नास्याः पुरुषार्थता हेतुः । उपसंहरति-नासाविति । इतिस्तस्मादर्थे । अनित्यामवस्थामाह--त्रयाणां लिङ्ग- मात्राविशेषविशेषाणामिति । पर्वस्वरूपं दर्शयित्वा गुणस्वरूपमाह-गुणास्त्विति । निदर्शनमाह-यथा देवदत्त इति । यत्रात्यन्तभिन्नानां गवामुपचयापचयौ देवदत्तो. पचयापचयहेतू तत्र कैव कथा गुणेभ्यो भिन्नाभिन्नानां व्यक्तीनामुपजनापाययोरित्यर्थः । ननु सर्गक्रमः किमनियतो नेत्याह-लिङ्गमात्रमिति । न खलु न्यग्रोधधाना अह्नायैव न्यग्रोधशाखिनं सान्द्रशाद्वलदलजटिलशाखाकाण्डनिपीतमार्तण्डचण्डातपमण्डल.

      परिणामक्रमनियमात् । तथा तेष्वविशेषेषु भूतेन्द्रियाणि संमृ.
ष्टानि विविच्यन्ते । तथा चोक्तं पुरस्तात् । न विशेषेभ्यः परं
तत्त्वान्तरमस्तीति विशेषाणां नास्ति तत्त्वान्तरपरिणामः । तेषां
तु धर्मलक्षणावस्थापरिणामा व्याख्यायिष्यन्ते ॥ ११॥
व्याख्यातं दृश्यमथ द्रष्टुः स्वरूपावधारणार्थमिदमारभ्यते-

दष्टा दृशिमात्रः शुद्धोऽपि
प्रत्ययानुपश्यः ॥ २० ॥

दृशिमात्र इति दृक्शक्तिरेव विशेषणापरामृष्टेत्यर्थः । स पुरुषो
बुद्धेः प्रतिसंवेदी । स बुद्धेने सरूपो नात्यन्तं विरूप इति । न
तावत्सरूपः । कस्मात् । ज्ञाताज्ञातविषयत्वात्परिणामिनी हि

मारमन्ते किंतु क्षितिसलिलतेजःसंपत्पिरम्परयोपजायमानाङ्कुरपत्रकाण्डनालादिक्रमेण ।
एवमिहापि युक्त्यायमसिद्धः क्रम आस्थेय इति । कथं भूतेन्द्रियाण्यविशेषसंसृष्टानीत्यत
आह-तथा चोक्तं पुरस्तादिदमेव सूत्रं प्रथमं व्याचक्षाणैः । अथ विशेषाणां कस्मान्न
तत्त्वान्तरपरिणाम उक्त इत्यत आह-न विशेषेभ्य इति । तत्किमिदानीमपरिणामिन
एव विशेषास्तथा च नित्याः प्रसज्येरन्नित्यत आह -तेषां त्विति ॥ १९ ॥

व्याख्यातं दृश्यं द्रष्टुः स्वरूपावधारणार्थमिदमारभ्यते--द्रष्टा दृशिमात्रः शुद्धोऽपि
प्रत्ययानुपश्यः । व्याचष्टे---- दृशिमात्र इति । विशेषणानि धर्मास्तरपरामृष्टा । तदनेन
मात्रग्रहणस्य तात्पर्य दर्शितम् । स्यादेतत् । यदि सर्वविशेषणरहिता दृक्शक्तिर्न तर्हि
शब्दादयो दृश्येरन् । नहि दृशिनाऽसंस्पृष्टं दृश्यं भवतीत्यत आह–स पुरुष इति ।
बुद्धिदर्पणे पुरुषप्रतिबिम्बसंक्रान्तिरेव बुद्धिप्रतिसंवेदित्वं पुंसः । तथा दृशिच्छाया-
पन्नया बुद्धया संसष्टाः शब्दादयो भवन्ति दृश्या इत्यर्थः । स्यादेतत् । पारमार्थिकमेव
बुद्धिचैतन्ययोः कस्मादेवयं नोपेयते किमनया तच्छायापत्ये यत आह-स बद्धन सरूप
इति । तथाऽसरूपस्य तच्छायापत्तिरपि दुर्घटेयत आह---नात्यन्तं विरूप इति ।
तत्र सारूप्यं निषेधति-न तावदिति । हेतुं पृच्छति - कस्मात् । सहेतुकं वैरूप्ये हेतु-
माह--झातेति । परिणामिनी बुद्धिर्यस्मात्तस्माद्विरूपा । यदा खल्वियं शब्दाद्याकारा
भवति. तदा ज्ञातोऽस्याः शब्दादिलक्षणो भवति विषयस्तदनाकारत्वे त्वज्ञातस्तथा
१ ज, तत्कथन।

बुद्धिः । तस्याश्च विषयो गवादिर्घटादिर्वा ज्ञातश्चाज्ञातश्चेति परि- णामित्वं दर्शयति । - सदाज्ञातविषयत्वं तु पुरुषस्यापरिणामित्वं परिदीपयति । कस्मात् । नहि बुद्धिश्च नाम पुरुषविषयश्च स्योदगृहीतौ गृहीता चेति सिद्धं पुरुषस्य सदाज्ञातविषयत्वं ततश्चापरिणामित्वमिति । किं च परार्था बुद्धिः संहत्यकारित्वात्, स्वार्थः पुरुष इति । तथा सर्वार्थाध्यवसायकत्वात्रिगुणा बुद्धिस्त्रिगुणत्वादचेतनेति । गुणानां तूपद्रष्टा पुरुष इत्यतो न सरूपः । अस्तु तर्हि विरूप इति । नात्यन्तं विरूपः । कस्मात्, शुद्धोऽप्यसौ कदाचिदेव तदाकारतां दधती परिणामिनीति । प्रयोगश्च भवति-बुद्धिः परिणामिनी ज्ञाताज्ञातविषयत्वाच्छ्रोत्रादिवदिति । तद्वैधम्यं पुरुषस्य तद्विपरीतादेतोः सिध्यतीत्याह-सदेति । स्थादेतत् । सदाज्ञात- विषयश्चेत्पुरुषो न तर्हि केवली स्यादित्याशयवान्पृच्छति--कस्मादिति । उत्तरम्-न हि बुद्धिश्च नामेति । बुधग्रहणयोरस्ति सहसंभवो निरोधावस्थायामत उक्त विरोध. सूचनाय पुरुषविषयश्चेति । तेनाऽऽद्यश्वकारो बुद्धिं विषयत्वेन समुच्चिनोति । पारशिष्टौ तु विरोधद्योतको चकाराविति । प्रयोगस्तु पुरुषोऽपरिणामी सदासंप्रज्ञातव्युत्थानावस्थयो- तिविषयत्वात् । यस्तु परिणामी नासौ सदाशातविषयो यथा श्रोत्रादिरिति व्यतिरेको हेतुः । अपरमपि वैधय॑माह-किं च परार्थेति । बुद्धिः खलु क्लेशकर्मवासोंदिभिर्वि- पयेन्द्रियादिभिश्च संहत्य पुरुषार्थमभिनिवर्तयन्ती परार्था । प्रयोगश्च परार्था बुद्धिः संह- त्यकारित्वाच्छयनासनोभ्यङ्गवदिति । पुरुषस्तु न तथे याह--स्वार्थः पुरुष इति । सो पुरुषाय कल्पते । पुरुषस्तु न कस्मैचिदित्यर्थः । वैवान्तरमाह -सर्वेति । सर्वाना. शान्तघोरमूढांस्तदाकारपरिणता बुद्धिरध्यवस्यति सत्वरजस्तमसां चैते परिणामा इति सिद्धा त्रिगुणा बुद्धिरिति । न चैवं पुरुष इत्याह-गुणानामिति । तत्प्रतिविम्बितः पश्यति न तु तदाकारपरिणत इत्यर्थः । उपसंहरति-अत इति । अस्तु तर्हि विरूप इति । नात्यन्तं विरूपः कस्माद्यतः शुद्धोऽपि १ क. ख. विश्व शाताज्ञात । व. ह. च. छ. 'दिति । २ ग. स्याग्रहीताऽग्रहीता 1३ प. ड. °ता । ४ क, नाभि । ५ ख. च. नाद्यः । सू० २१] पातञ्जलयोगसूत्राणि । ८९

प्रत्यपानुपश्यो यतः । प्रत्ययं बौद्धमनुपश्यति, तमनुपश्यमतदा-

रमाऽपि तदात्मक इव प्रत्यवभासते । तथा चोक्तम्-अपरिणा-

मिनी हि भोक्तृशक्तिरप्रतिसंक्रमा च परिणामिन्यः प्रतिसंक्रा-

न्तेव तदृwचिमनु पतति, तस्याश्च प्राप्तचैतन्योपग्रहरूपाया बुद्धिवृ.

'तेwरनुकारमात्रतया बुद्धिवृwत्त्यविशिष्टा हि ज्ञानवृत्तिरित्याख्या-

यते ॥२०॥

तदर्थ एव दृश्यस्याऽऽत्मा ॥ २१ ॥

दृशिरूपस्य पुरुषस्य कर्मरूपतामापन्नं दृश्यमिति तदर्थ एवं

दृश्यस्याऽऽत्माँ भवति । स्वरूपं भवतीत्यर्थः । स्वरूपं तु पररू-


प्रत्ययानुपश्यः। यथा चैतत्तथोक्तं "वृत्तिसारूग्यमितरत्र" [यो०सू०११४] इत्यत्र । तथा

चोक्तं पञ्चशिखेनापरिणामिनी हि भोक्तृशक्तिरात्मा । अत एव बुद्धावपतिसंक्रमा च

परिणामिनि बुद्धिरूपेऽर्थे संक्रान्तेव तदवृत्तिं बुद्धिवृत्तिमनु पतति । नवसंक्रान्ता कथं

संक्रान्तेव कथं चा वृत्ति विनाऽनुपततीत्यत आह---तस्याश्चेति । प्राप्तश्चैतन्योपग्रह

उपरागो येन रूपेण तत्तथा प्राप्तचैतन्योपग्रहं रूपं यस्याः सा तथोक्ता।एतदुक्तं भवति-

यथा निर्मले जलेऽसंक्रान्तोऽपि चन्द्रमाः संक्रान्तप्रतिबिम्बतया संक्रान्त इव, एवमत्राप्य-

संक्रान्ताऽपि संक्रान्तप्रतिबिम्बा चितिशक्तिः संक्रान्तेव । तेन बुद्ध्यात्मत्वमापना बुद्धिव-

त्तिमनु पततीति । तदनेनानुपश्य इति व्याख्यातं तामनुकारेण पश्यतीत्यनुपश्य इति॥२०॥

द्रष्टुदृश्ययोः स्वरूपमुक्त्वा स्वस्वामिलक्षणसंबन्धाङ्गं दृश्यस्य द्रष्र्त्वर्थमाह-तदर्थ एव

दृश्यस्याऽऽत्मा । व्याचष्टे-दृशिरूपस्य पुरुषस्य भोक्तः कर्मरूपतां भोग्यतामापत्रं

दृश्यमिति तस्मात्तदर्थ एव द्रष्ट्रर्थ एव दृश्यस्याऽऽत्मा भवति न तु दृश्यार्थः । ननु

नाऽऽमाऽऽत्मार्थ इत्यत आह-स्वरूपं भवतीति । एतदुक्तं भवति- सुखदुःखात्मक दृश्यं

भोग्यम् । सुखदुःखे चानुकूलयितृप्रतिकूलयितृणी तत्वेन तदर्थे एव व्यवwतिष्ठते । विषया

अपि हि शब्दादयस्तादाम्यादेव चानुकूलयितारः प्रतिकूलयितारश्च । न चाऽऽत्मैवैषामनु.

कूलनीयः प्रतिकूलनीयश्च स्वात्मनि वृत्तिविरोधादतः पारिशेष्याञ्चितिशक्तिरेवानुकूलनीया

प्रतिकूलनीया च । तस्मात्तदर्थमेव दृश्यं न तु दृश्यार्थम् । अतश्च तदर्थ एव दृश्यस्याऽऽत्मा

न दृश्यार्थो यत्स्वरूपमस्य यावत्पुरुषार्थमनुवर्तते । निर्वतिते च पुरुषार्थे निवर्तत इत्याह-स्वरूपमिति । स्वरूपं तु दृश्यस्य जडं पररूपेणाऽऽश्मरूपेण चैतन्येन प्रतिलब्धात्मक-


१ क . ख . ' वृत्याऽवि ' | २ ख . घ . ङ . छ, 'मविषयता'। ३ ग..'त्मा स्व'।

४ क. स. ग. प. इ. छ, 'र्थः । तत्स्वरू। ९० . वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि- [२ साधनपादे पेण प्रतिलब्धात्मकं भोगापवर्गार्थतायां कृतायां पुरुषेण न दृश्यत इति । स्वरूपहानोदस्य नाशः प्राप्तो न तु विन- श्यति ॥ २१॥ कस्मात्- कृतार्थ प्रति नष्टमप्यनष्टं तद- न्यसाधारणत्वात् ॥ २२ ॥ · कृतार्थमेकं पुरुषं प्रति दृश्यं नष्टमपि नाशं प्राप्तमप्यनष्टं तदन्यपुरुषसाधारणत्वात् । कुशलं पुरुषं प्रति नाशं प्राप्तमप्यकुश- लान्पुरुषान्मेति न कृतार्थमिति तेषां दृशेः कर्मविषयतामापन्नं लभतं एवं पररूपेणाऽऽत्मरूपमिति । अतश्च दृग्दर्शनशक्त्यो- मनुभतस्वरूां भोगापवर्गार्थतायां कृतायां पुरुषेण न दृश्यते । भोगः सुखाद्याकारः शब्दाद्यनुभवोऽपवर्गः सत्त्वपुरुषान्यतानुभवस्तचैतदुभयमप्याजानतो जडाया बुद्रेः पुरुषच्छा- यापत्त्येति पुरुषस्थैव । तथा च पुरुषभोगापवर्मयोः कृतयोदश्यस्य भोगापवर्गार्थता समाप्पत इति भोगापवर्गार्थतायां कृतायामित्युक्तम् । अत्रान्तरे चोदयति-स्वरूपहानादिति । परिहरति-न तु विनश्यतीति ॥ २१ ॥ __नन्वत्यन्तानुपलभ्यं कथं न विनश्यतीत्याशयवान्मृच्छति-कस्मादिति । सूत्रेणोत्तर. माह-कृतार्थ प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात् । कृतोऽर्थो यस्य पुरुषस्य स तथा । तं प्रति नष्टमप्यनष्टं तदृश्यं कुतः सर्वान्पुरुषान्कुशलानकुशलान्प्रति साधारणत्वात् । ध्याचष्टे-कृतार्थमेकमिति । नाशोऽदर्शनम् । अनष्टं तु दृश्यमन्यपुरुषसाधारणत्वात् । तस्मादृश्यात्परस्याऽऽत्मनश्चैतन्यं रूपंतेन तदिह श्रुतिस्मृतीतिहासपुराणप्रसिद्धमव्यक्तमनव- यवमेकमनाश्रयं व्यापि नित्यं विश्वकार्यशक्तिमत् । यद्यपि कुशन तं प्रति कृतकार्य न दृश्यते तथाऽप्यकुशलेन दृश्यमानं न नास्ति । न हि रूपमन्धेन न दृश्यत इति चक्षुष्म' साऽपि दृश्यमाननभावप्राप्तं भवति । न च प्रधानवदेक एव पुरुषस्तन्नानात्वस्य जन्ममरण- सुखदुःखे पभोगमुक्तिसंसारव्यवस्थया सिद्धेः । एकत्रश्रुतीनां च प्रमाणान्तरविरोधात्कथं- चिदेश कालविभागाभावेन भक्त्याऽप्युपपत्तेः । प्रकृयेकवपुरुपनानात्वयोश्च श्रुयैव साक्षात्प्रतिपादनात् । १५. छ. ना पा । र ग. प. . यत्पा' । ३ क. ख. णा नाम । सू० २३ ] पातञ्जलयोगसूत्राणि । नित्यत्वादनादिः संयोगो व्याख्यात इति । तथा चोक्तम्-धर्मि- णामनादिसंयोगाद्धर्ममात्राणामप्यनादिः संयोग इति ॥ २२ ॥ संयोगस्वरूपाभिधित्सयेदं सूत्रं प्रववृते- स्वस्वामिशक्त्याः स्वरूपोपल- ब्धिहेतुः संयोगः ॥ २३ ॥ पुरुषः स्वामी दृश्येन स्वेन दर्शनार्थं संयुक्तः । तस्मात्संयोगा - दृश्यस्योपलब्धिर्या स भोगः । या तु द्रष्टुः स्वरूपोपलब्धिः सोऽपवर्गः । दर्शनकार्यावसानः संयोग इति दर्शनं वियो- " अजामेकां लोहितशुक्लकृष्णां बहीः प्रजाः सृजमानां सरूपाः । अजो होको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः " [तै० आ० ६ | १० ] इति श्रुतिः । अस्या एव श्रुतेश्चानेन सूत्रेणार्थोऽनूदित इति । यतो दृश्यं नष्टमप्यनष्टं पुरु- षन्तरं प्रत्यस्ति अतो दृग्दर्शनशक्त्योर्नित्यत्वादनादिः संयोगो व्याख्यातः । अत्रैवाऽऽग- मिनामनुमतिमाह-तथा चोक्तमिति । धर्मिणां गुणानामात्मभिरनादिसंयोगाद्धर्ममा- त्राणां महदादीनामप्यनादिः संयोग इति । एकैकस्य महदादेः संयोगोऽनादिरप्यनित्य एव यद्यपि तथाऽपि सर्वेषां महदादीनां नित्यः पुरुषान्तराणां साधारणत्वादत उक्तं धर्ममा- त्रांणामिति । मात्रग्रहणेन व्याप्तिं गमयति । अत एतद्भवति- यद्यप्येकस्य महतः संयोगोऽतीततामापन्नस्तथाऽपि महदन्तरस्य पुरुषान्तरेण संयोगो नातीत इति नित्य उक्तः ॥ २२॥ __ तदेवं तोदर्थ्ये संयोगकारण उक्ते प्रासङ्गिके प्रधाननित्यत्वे संयोगसामान्यनित्यत्वे हेतौ चोक्ते संयोगस्य यत्स्वरूपमसाधारणो विशेष इति” यावत्तदभिधित्सयेदं सूत्रं प्रववृते-स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतु: संयोगः । यतो दृश्यं तद्- र्थमतस्तज्जनितमुपकारं भजमानः पुरुपस्तस्य स्वामी भवति । भवति च तद्दृश्यमस्य स्वं स चानयोः संयोगः शक्तिमात्रेण व्यवस्थितस्तत्स्वरूपोपलब्धिहेतुस्तदेतद्भाष्यमव - द्योतयति-पुरुषः स्वामी योग्यतामात्रेण दृश्येन स्वेन योग्यतयैव दर्शनार्थं संयुक्तः । शेषं सुगमम् । स्यादंतत् । द्रष्टुः स्वरूपोपलब्धिरपवृज्यतेऽनेनेत्यपवर्ग उक्तो न च मोक्षः साधनवांस्तथा सत्ययं मोक्षवादेव च्यवेतेत्यत आह-दर्शन- कार्यावसानो बुद्धिविशेषेण सह पुरुपविशेषस्य संयोग इति दर्शनं वियोगकारण- १७. तादात्म्यसंयोगे का" । २ ख. "त्यत्वहे । ३ ज. वे च हेतावुके । गस्य कारणमुक्तम् । दर्शनमदर्शनस्य प्रतिद्वंद्वीत्यदर्शनं संयोग- निमित्तमुक्तम् । नात्र दर्शनं मोक्षकारणमदर्शनाभावादेव बन्धा- भावः स मोक्ष इति । दर्शनस्य भावे बन्धकारणस्यादर्शनस्य नाश इत्यतो दर्शनं ज्ञानं कैवल्यकारणमुक्तम् ।

  किंवेदमदर्शनं नाम, कि गुणानामधिकार आहोस्विदृशिरू-

पस्य स्वामिनो दर्शितविषयस्य प्रधानचित्तस्यानुत्पादः । स्वस्मि- दृश्ये विद्यमाने यो दर्शनाभावः।

  किमर्थवत्ता गुणानाम् । अथाविद्या स्वचित्तेन सह निरुद्धा

स्वचित्तस्योत्पत्तिबीजम् । किं स्थितिसंस्कारक्षये गतिसंस्का-

मुक्तम् । कथं पुनर्दर्शनकार्यावसान संयोगस्येत्यत आह-दर्शनमिति । ततः किमि- त्यत आह---अदर्शनमविद्या संयोगनिमित्तमित्युक्तम् । उक्तमर्थ स्पष्टपति-नात्रेति । ननु दर्शनमदर्शनं विरोधि निवर्तयतु बन्धस्य कुतो निवृत्तिरित्यत आह-दर्शनस्येति । बुद्ध्यो दिविविक्तस्याऽऽत्मनः स्वरूपावस्थानं मोक्ष उक्तो न तस्य साधनं दर्शनमपि त्वदर्श. ननिवृत्तेरित्यर्थः । __ असाधारणं संयोगहेतुमदर्शनविशेषं ग्रहीतुमदर्शनमात्र विकल्पयति-किं चेदमिति । पर्युदासं गृहीत्वाऽऽह-किं गुणानामधिकारः कार्यारम्भणसामध्यं ततो हि संयोगः संसारहेतुरुपजायते । प्रसज्यप्रतिषेधं गृहीत्वा द्वितीयं विकल्पमाह --- आहोस्विदिति । दर्शितो विषयः शब्दादिः सत्त्वपुरुषान्यतो चै येन चित्तेन तस्य तद्विषयस्यानुत्पादः । एतदेव स्फोरयाते-स्वस्मिन्दृश्ये शब्दादी सत्त्वपुरुपान्यतायां चेति । तावदेव प्रधान विचेष्टते न यावद्विविधं दर्शनमभिनिवर्तयति । निष्पादितोभयदर्शनं तु निवर्तत इति ।

 पर्युदास एव तृतीयं विकल्पमाह-किमर्थवत्ता गुणानाम् । सत्कार्यवादसिद्ध

हि भाविनावपि भोगापवर्गावव्यपदेश्यतया स्त इत्यर्थः । पर्युदास एवं चतुर्थ विक. ल्पमाह-अथाविद्या प्रतिसर्गकाले स्वचित्तेन सह निरुद्धा प्रधानसाम्यमागता वास- नारूपेण स्वचित्तोपत्तिबीजम् । तेन दर्शनादन्याऽविद्यावासनैवादर्शनमुक्ता । पर्युदास एवं पञ्चमं विकल्पमाह- स्थितिसंस्कारस्य प्रधानयर्तिनः स.म्यपरिणामपरम्परावा. हिनः क्षये गतिमहदादिविकारारम्भस्तद्धेतुः संस्कारः प्रधानस्य गलिसंस्क रस्त.

   १ ख. ज. 'झ्या हि वि° । २ क. 'ताख्यातिश्च ये° । ३ ख. वा। 

राभिव्यक्तिः । यत्रेदमुक्तं प्रधानं स्थित्यैव वर्तमानं विकारा- करणादप्रधानं स्यात् । {{center=तथा गत्यैव वर्तमानं विकारनित्यत्वादप्रधानं स्यात् । उभ- यथा चास्य वृत्तिः प्रधानव्यवहारं लभते नान्यथा । कारणान्त- 'रेष्वपि कल्पितेष्वेव समानश्चर्चः । दर्शनशक्तिरेवादर्शनमित्येके, "प्रधानस्याऽऽत्मख्यापनार्था प्रवृत्तिः" इतिश्रुतेः।

सर्वबोध्यबोधसमर्थः प्राक्मवृत्तेः पुरुषो न पश्यति सर्वकार्य- करणसमर्थं दृश्यं तदा न दृश्यत इति । उभयस्याप्यदर्शनं धर्म इत्येके। |}}  

स्याभिव्यक्तिः कार्योन्मुखत्वम् । तदुभयसंस्कारसद्भावे मतान्तरानुमतिमाह-यत्रेदमुक्त- भैकान्तिकत्वं व्यासेधद्भिः, प्रधीयते जन्यते विकारजातमनेनेति प्रधानं तच्चेस्थित्यैव वर्तेत न कदाचिद्गत्या ततो विकाराकरणान्न प्रधीयते तेन किंचिदित्यप्रधानं स्यात् । अथ गत्यैव वःत न कदाचिदपि स्थित्या तत्राऽऽह-तथा गत्यैवेति । कचि. पाठः " स्थित्यै गत्यै " इति । तादर्थ्य चतुर्थी, एवकारश्च द्रष्टव्यः । स्थित्यै चेन वर्तेत न कचिद्विकारो विनश्येत् । तथा च भावस्य सतोऽविनाशिनो नोत्पत्तिरपीति विका- रत्वादेव च्यवेत । एवं च न प्रधीयतेऽत्र किंचिदित्यप्रधानं स्यात्तदभयथा स्थित्या गत्या चास्य वृत्तिः प्रधानव्यवहारं लभते नान्यथैकान्ताभ्युपगमे । न केवलं प्रधाने कारणान्तरेष्वपि परब्रह्मतन्मायापरमाण्वादिषु कल्पितेषु समानश्च! विचारः । तान्यपि हि स्थित्यव वर्तमानानि विकाराकरणादकारणानि स्युः, गत्यैव वर्तमानानि विकारनित्य- वादकारणानि स्युरिति च । पर्युदास एव षष्ठं विकल्पमाह -दर्शनशक्तिरेवेति । यथा प्रजापतिते नेक्षेतोद्यन्तमादित्यमित्यनीक्षणप्रत्यासन्नः संकल्पो गृह्यत एवमिहापि दर्शन- निषेधे तत्प्रत्यासन्ना तन्मूला शक्तिरुच्यते । सा च दर्शनं भोगादिलक्षणं प्रसोतुं द्रष्टार दृश्येन योजयतीति । अत्रैव श्रुतिमाह-प्रधानस्येति ।


स्यादेतत् । आत्मख्यापनार्थ प्रधानं प्रवर्तत इति श्रुतिर।ह न त्वात्मदर्शनशक्तेः प्रव- तत इत्यत आह-सर्वबौथ्यबोधसमर्थ इति । प्राक्प्रवृत्तेः प्रधानस्य नाऽऽमख्यापन- मात्र प्रवृत्तौ प्रयोजकमसामये तदयोगात्तस्मात्सामय प्रवृत्तेः प्रयोजकमिति श्रुत्याऽर्था. दुक्तमित्यर्थः । दर्शनशक्तिः प्रधानाश्रयेत्यङ्गीकृत्य षष्ठः कल्पः । इमामेवोभयाश्रयामास्थाय सप्तमं विकल्पमाह ---उभयस्य पुरुषस्य च दृश्यस्य चादर्शनं दर्शनशक्तिधर्म इत्येके। ९४ · वाचस्पतिकृतटीकासंबलितव्यासभाष्यसमेतानि-- क्क् ·

तत्रेदं दृश्यस्य स्वात्मभूतमपि पुरुषप्रत्ययापेक्षं दर्शनं दृश्यधर्मत्वेन भवति । तथा पुरुषस्यानात्मभूतमपि दृश्यप्रत्ययापेक्षं
पुरुषधर्मत्वेनेवादर्शनमवभासते । दर्शनं ज्ञानमेवादर्शनमिति केचिदभिदधति । इत्येते शास्त्रगता विकल्पाः। तत्र विकल्पबहुत्वमेतत्सर्वपुरुषाणां गुंणानां संयोगे साधारणविषयम् ॥ २३ ॥
यस्तु प्रत्यक्चेतनस्य स्वबुद्धिसंयोगः- .

तस्य हेतुरविद्या ॥ २४ ॥ स्यादेतन्मृष्यामहे दृश्यस्येति, तस्य सर्वशक्त्याश्रयत्वान्न द्रष्टुरति पुनर्मृष्यामः । न हि तदाधारा ज्ञानशक्तिस्तत्र ज्ञानस्यासमवायादन्यथा परिणामापत्तिरित्यत आह--तत्रेदमिति । भवतु दृश्यात्मकं तथाऽपि तस्य जडत्वेन तद्गतशक्तिकार्यं दर्शनमपि जडमिति न शक्यं तद्धर्मत्वेन विज्ञातुं जडस्य स्वयमप्रकाशत्वादतो दृशेरात्मनः प्रत्ययं चैतन्यच्छायापत्तिमपेक्ष्य दर्शनं तद्धर्मत्वेन भवति ज्ञायते विषयेण विषयिणो लक्षणात् । नन्वेतावताऽपि दृश्यधर्मत्वमस्य ज्ञानस्य भवति न तु पुरुषधर्मत्वमपीत्यत आह-तथा पुरुषस्येति । सत्यं पुरुषस्यानात्मभूतमेव तथाऽपि दृश्यबुद्धिसत्त्वस्य यः प्रत्ययश्चैतन्यच्छायापत्तिस्तमपेक्ष्य पुरुषधर्मत्वेनेव न तु पुरुषधर्मत्वेन । एतदुक्तं भवति–चैतन्यबिम्बोग्राहितया बुद्धिचैत- न्ययोरभेदाइद्रिधर्माश्चैतन्यधर्मा इव चकासतीति । अष्टमं विकल्पमाह-दर्शनं ज्ञानमेव शब्दादीनामदर्शनं न तु सत्वपुरुषान्यताया इति केचित् । यथा चक्षू रूपे प्रमाणमपि रसादावप्रमाणमुच्यते । एतदुक्तं भवति-सुखद्याकारशब्दादिज्ञानानि स्वसिद्धयनुगुणतया द्रष्टृदृश्यसंयोगमाक्षिपन्तीति । तदेवं विकल्प्य चतुर्थं विकल्पं स्वीकर्तुमितरेषां विकल्पानां सांख्यशास्त्रगतानां सर्वपुरुषसाधारण्येन भोगवैचित्र्याभावप्रसङ्गेन दूषयति--इत्येते शास्त्र. गता इति ॥ २३॥ ___ चतुर्थ विकल्प निर्धारयितुं सूत्रमवतारयति--यस्तु प्रत्यक्चेतनस्य स्वबुद्धिसंयोग इति । प्रतीपमञ्चति प्राप्नोतीति प्रत्यगसाधारणस्तु संयोग एकैकस्य पुरुषस्यकैकया बुद्धया वैचित्र्यहेतुः । सूत्रं पठति--तस्येति । नन्वविद्या विपर्ययज्ञानं तस्य भोगापवर्गयोरिव स्वबुद्धिसंयोगो हेतुः । असंयुक्तायां बुद्धौ तदनुत्पत्तेस्तत्कथमविद्या । १३. ह. त्यापेक्ष्य द" । च. 'त्ययमपेक्ष्याद । २ छ. पेक्षम । ३ घ च. 'त्ययमपेक्ष्य पु। ४ ख. त्यया । ५ ग. ग. ह. छ. गुगसं° । ६ ख. 'वीति शा। ७. ति विज्ञान ८ ख. ज. तदतो भ' । ९ ज. प्रत्यश्च । म. प्रति प्रत्यश्च । * विपर्ययज्ञानवासनेत्यर्थः । विपर्ययज्ञानवासनावासिता च
न कार्यनिष्ठां पुरुषख्यातिं बुद्धिः प्राप्नोति साधिकारा पुनराव-
तते । सा तु पुरुषख्यातिपर्यवसांनां कार्यनिष्ठां पामोति, चरि-
ताधिकारा निवृत्तादर्शना बन्धकारणाभावान्न पुनरावर्तते । .
__ अब कश्चित्पण्डकोपाख्यानेनोद्घाटयति-मुग्धया भार्ययाऽ-
भिधीयते--पण्डकाऽऽर्यपुत्र, अपत्यवती मे भगिनी किमर्थ
नाम नाहमिति, स तामाह-मृतस्तेऽहमपत्यमुत्पादयिष्यामीति ।
तथेदं विद्यमानं ज्ञानं चित्तनिवृत्ति न करोति, विनष्टं करि-
प्यतीति का प्रत्याशा । तत्राऽऽचार्यदेशीयो वक्ति-ननु बुद्धि-
निवृत्तिरेव मोक्षोऽदर्शनकारणाभावाबुद्धिनिवृत्तिः । तच्चादर्शनं

संयोगभेदस्य हेतुरित्यत आह–विपर्ययज्ञानवासनेति । सर्गान्तरीयाया अविद्यायाः
स्वचित्तेन सह निरुद्धाया अपि प्रधानेऽस्ति वासना तद्वासनाबासितं च प्रधान तत्त,
रपुरुषसंयोगिनी तादृशीमेव बुद्धिं सजति । एवं पूर्वपूर्वसर्गचित्यनादित्वाददोषः । अत एव
प्रतिसर्गावस्थायां न पुरुषो मुच्यत इत्याह-विपर्ययज्ञानेति । यदा पुरुषख्याति कार्यनिष्ठां
प्राप्ता तदा विपर्ययज्ञानवासनाया बन्धकारणस्याभावान्न पुनरावर्तत इत्याह-सा विति ।
अत्र कश्चिन्न स्तिकः कैवल्यं पण्डकोपाख्यानेनोपहसति । पण्डकोपाख्यानमाह-
मुग्धयेति । किमर्थमित्यर्थशब्दो निमित्तमुपलक्षयति प्रयोजनस्यापि निमित्तत्वात् । पण्ड-
कोपाख्यानेन साम्यमापादयति---तथेदं विद्यमानं गुणपुरुषान्यताज्ञानं चित्तनिवृत्ति
करोति, परवैराग्येण ज्ञानप्रसादमात्रेण ससंस्कारं निरुद्धं विनष्टं करिष्यतीति का
प्रत्याशा । यस्मिन्सत्येव यद्भवति तत्तस्य कार्यम् । न तु यस्मिन्नसतीति भावः । अत्रै
कदेशिमतेन परिहारमाह - तत्रेति । ईपदपरिसमाप्त आचार्य आचार्यदेशीयः । आचा-
यस्तु वायुप्रोक्ते कृतलक्षणः-

" आचिनोति च शास्त्रार्थमाचारे स्थापयत्यपि ।
स्वयमाचरते यस्मादाचार्यस्तेन चोच्यते " [वा० पु०५९।३ ] इति ।

भोगविवेकख्यातिरूपपरिणतबुद्धिनिवृत्तिरेव मोक्षः । न च बुद्धिस्वरूपनिवृत्तिः ।
सा च धर्ममेघान्तविवेकख्यातिप्रतिष्ठाया अनन्तरमेव भवति सत्यपि वुद्धिस्वरूपमात्रा.

वस्थान इत्यर्थः । एतदेव स्फोरयति-अदर्शनस्य बन्धकारणस्याभावाबुद्धिनिवृत्तिः ।
  • एतस्मात्याक्, ङ. पुस्तके 'बुद्धिसंयोगस्य हेतुः । इति पाठो विद्यते स प्रामादिकः। .

१ ग. घ. ड. च.°ता न । २ ड. "रुषान्यताख्या । ३ ग. घ. ड. नाना का। ४ ख.
न. तत्पु । ५ क. पोक्तलक्ष । बन्धकारणं दर्शनानिवर्तते । तत्र चित्तनिवृत्तिरेव मोक्षः, किम- र्थमस्थान एवास्य मतिविभ्रमः ॥ २४ ॥

 हेयं दुःखं हेयकारणं च संयोगाख्यं सनिमित्तमुक्तमतः परं

हानं वक्तव्यम्--

         तदभावात्संयोगाभावो हानं
         तशेः कैवल्यम् ॥ २५ ॥
तस्यादर्शनस्याभावामुद्धिपुरुपसंयोगाभाव आत्यन्तिको व-

धनोपरम इत्यर्थः। एतद्धानम् । तदृशेः कैवल्यं पुरुषस्यामिश्री- भावः पुनरसंयोगो गुणैरित्यर्थः । दुःखकारणनिवृत्तौ दुःखोप रमो हानं, तदा स्वरूपप्रतिष्ठः पुरुष इत्युक्तम् ॥ २५॥

अथ हानस्य कः प्राप्त्युपाय इति-
  विवेकख्यातिरविप्लवा हानोपायः ॥ २६ ॥

तशादर्शनं बन्धकारणं दर्शनानिवर्तते । दर्शननिवृत्तिस्तु परवैराग्यसाध्या । सत्यपि बुद्धिस्वरूपावस्थाने मोक्ष इति भावः । एकदेशिमतमुपन्यस्य स्वमतमाह-तत्र चित्त. निवृत्तिरेव मोक्षः । ननुक्तं दर्शने निवृत्तेऽचिराच्चित्तस्वरूपनिवृत्तिर्भवतीति कथं दर्श. नकार्येत्यत आह--किमर्थमस्थाने मतिविभ्रम इति । अयमभिसंधिः-यदि दर्शनस्य साक्षाञ्चित्तनिवृत्तौ कारणभावमङ्गीकुर्वीमहि तत एवमुपालभ्येमहि । किं तु विवेकदर्शनं प्रकर्षकाष्टां प्राप्तं निरोधसमाधिभावनाप्रकर्षक्रमेण चित्तनिवृत्तिमत्पुरुषस्वरूपावस्थानोपयो. गीत्यातिष्ठामहे तत्कथमुपालभ्येमहीति ॥ २४ ॥

  तदेवं व्यूहद्वयमुक्त्वा तृतीयव्यूहाभिधानाय सूत्रमवतारयति-हेयं दुःखमिति । तद-

भावात्संयोगाभावो हानं तदृशेः कैवल्यम् । व्याचष्टे--तस्येति । अस्ति हि महा- प्रलयेऽपि संयोगाभावोऽत उक्तमात्यन्तिक इति । दुःखोपरमो हानमिति पुरुषार्थता दर्शिता । शेषमतिरोहितम् ॥ २५ ॥ __ हानोपायलक्षणं चतुर्थ व्यूहमाख्यातुं सूत्रमवतारयति-अथेति । विवेकख्याति- रविप्लवा हानोपायः । आगमानुमानाभ्यामपि विवेकल्यातिरस्ति । न चासो व्युत्थानं तत्संस्कारं वा निवर्तयति तद्वतोऽपि तदनुवृत्तरिति तन्निवृत्त्यर्थमविप्लवेति । विप्लवो मिथ्याज्ञानं तदहिता । एतदुक्तं भवति--श्रुतमयेन ज्ञानेन विवेकं गृहीत्वा युक्ति- मयेन च व्यवस्थाप्य दीर्घकालनैरन्तर्यसत्कारासेविताया भावनायाः प्रकर्षपर्यन्तं

१ ख. स. हितार्थम् ।

सत्त्वपुरुषान्यताप्रत्ययो विवेकख्यातिः । सा त्वनिवृत्तमि-
थ्याज्ञाना पवते । यदा मिथ्याज्ञानं दग्धवीजभावं वन्थ्यप्रसवं
संपद्यते सदा विधूतक्लेशरजसः सत्त्वस्प परे वैशारये परस्या
चशीकारसंज्ञायां वर्तमानस्य विवेफप्रत्ययप्रवाहो निर्मलो भवति ।
“सा विवेकख्यातिरविप्लवा होनोपायः । सतो मिथ्याज्ञानस्य
दग्धबीजभावीपममः पुनश्चाप्रसव इत्येष मोक्षस्य मार्गो सनस्यो-
पाय इति ॥ २६ ॥
तस्य समधा प्रान्तभूमिः प्रज्ञा ॥ २७ ॥
तस्येति प्रत्युदितख्यातेः अत्याम्नायः । सप्तधेति अशुद्धयावर-
णमलापगमाञ्चित्तस्य प्रत्ययान्तरानुरुपादे सति ससमकारैव प्रज्ञा
विवेकिनो भवति ।
___ तद्यथा--परिज्ञातं हेयं नास्य पुनः परिक्षेवमस्ति । क्षीणा
हेयहेतवो न पुनरेतेषां क्षेतव्यमस्ति । साक्षात्कृतं निरोधसमा.

समधिगता साक्षात्कारवती विवेकख्यातिनिवर्तितसवासनमिथ्याज्ञाना निर्विश्वा हानोपाय इति । शेषं सुगमं भाष्यम् ।। २६ ॥ विषेकख्यातिनिधायाः स्वरूपमाह सूत्रेण--तस्य सप्तथा प्रान्तभूमिः प्रज्ञा । व्याचष्टे-तस्यति मत्युदितख्यातेर्वर्तमानख्यातेर्योगिनः प्रत्याम्नायः परामर्शः । अशुद्धिरेवाऽऽधरणं चित्तमस्त्रस्य तदेव मलं तस्यापगमाञ्चित्तप्त्य - प्रत्ययान्तरानुत्पादे तामसराजसव्युत्थानप्रत्ययानुत्पादे निर्विप्लवविवेकख्यातिनिष्ठामापनस्य सप्तप्रकरैत्र प्रज्ञा विवेफिनो भवति । विषयभेदात्प्रज्ञाभेदः । प्रकृष्ट,ऽन्तो यासा भूमीनामषस्थानां तास्त. थोक्ताः । यतः परं नास्ति स प्रकर्षः । प्रान्ता भूमयो यस्याः प्रज्ञाया विवेकख्यातेः सा तथोक्ता। ता एवं सप्तप्रकाराः प्रान्तभूमीरुदाहरति-तद्यथेति । तत्र पुरुषप्रयाननिष्पाद्यासु चतसृषु भूमिषु प्रथमामुदाहरति-परिज्ञातं हेयम् । याबस्किल प्राधानिकं सत्सर्व परिणामतापसंस्करैर्गुणवृत्तिविरोवादुःखमेवेति हेयं तस्परिज्ञातम् । मान्ततां दर्शयति-- नास्य पुनः किंचिदपरिज्ञातं परिज्ञेयमस्ति । द्वितीयामाह-क्षीणा इति । पाम्ततामाह-- न पुनरिति । तृतीयामाह..-साक्षात्कृतं प्रयक्षेण निश्चितं मया संप्रज्ञातावस्थायामेव

१ ग. व. ङ. प. हानस्योरा । २ क, ख. छ. ति सप्तधैव ।

९८ - वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि- [ २ साधनपादे-
         धिना हानम् । भावितो विवेकख्यातिरूपो हानोपाय इति ।
         एषा चतुष्टयी कोर्या विमुक्तिः प्रज्ञायाः । चित्तविमुक्तिस्तु त्रयी
         चरिताधिकारा बुद्धिः । गुणा गिरिशिखरतटच्युता इव ग्रावाणो   
         निरवस्थानाः स्वकारणे प्रलयाभिमुखाः सह तेनास्तं गच्छन्ति ।
         न चैषां पविलीनानां पुनरस्त्युत्पादः प्रयोजनाभावादिति ।      
         एतस्यामवस्थायां गुणसंबन्धातीतः स्वरूपमात्रज्योतिरमल:
         केवली पुरुष इति । एतां सप्तविधाम् प्रान्तभूमिप्रज्ञामनुपश्यन्पु-
         रुषः कुशलं इत्याख्यायते । प्रतिप्रसवेऽपि चित्तस्य मुक्तः
         कुशल इत्येव भवति गुणातीतत्वादिति ॥ २७ ॥
            सिद्धा भवति विवेकख्यातिनोपाय इति, न च सिद्धि-
         रन्तरेण साधनमित्येतदारभ्यते----     
                 योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञान-
                 दीप्तिरा विवेकख्यातेः ॥ २८॥
     निरोधसमाधिसाध्य हानं, न पुनरस्याः परं निश्चेतव्यमस्तीति शेषः । चतुर्थीमाह--
     भावितो निष्पादितो विवेकख्यातिरूपो हानोपायो नास्याः परं भावनीयमस्तीति
     शेषः । एषा चतुष्टयी कार्या विमुक्तिः समाप्तिः, कार्यतया प्रयत्नव्याप्यता दर्शिता । कचि-
     पाठः कार्यविमुक्तिरिति । कार्यन्तरेण विमुक्तिः प्रज्ञाया इत्यर्थः । प्रयत्ननिष्पाद्यानुनि-
     प्पादनीयामप्रयानसाध्यां चित्तविमुक्तिमाह-चित्तविमुक्तिस्तु त्रयी । प्रथमामाह-चरि-
     ताधिकारा बुद्धिः । कृतभोगापवर्गकार्येत्यर्थः । द्वितीयामाह-गुणा इति । प्रान्तता-
     माह-न चैषामिति । तृतीयामाह-एतस्यामवस्थायामिति । एतस्यामवस्थायां जीवन्नेय
     पुरुषः कुशलो मुक्त इत्युच्यते चरमदेहत्वादित्याह-एतामिति । अनौपचारिक मुक्तमाह-
     प्रतिप्रसवे प्रधानलयेऽपि चित्तस्य मुक्तः कुशल इत्येव भवति गुणातीतत्वा-
     दिति ॥ २७ ॥
       तदेवं चतुरो ब्यूहानुकवा तन्मध्यपतितस्य हानोपायस्य विवेकख्यातेर्गोदोहना-   
     दिवत्प्रागसिद्धरसिद्धस्य चोपायवाभावासिद्ध्युपायान्वक्तुमारभत इत्याह-सिद्धेति ।
     तत्राभिधास्यमानानां साधनानां येन प्रकारेग विवेकख्यात्युपायत्वं तदर्शयति सूत्रेण ---
     योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिरा विवेकख्यातेः । योगाङ्गानि हि यथा-
         ११. छ. कार्यवि । २ ग. च. रकूट । ३ म. पापः, न । ४ च. 'मित्यतादा। सू० २८ ]             पातञ्जलयोगसूत्राणि ।

योगाङ्गान्यष्टावभिधायिष्यमाणानि । तेषामनुष्ठानात्पश्चप- र्वणो विपर्ययस्याशुद्धिरूपस्य क्षयो नाशः । तत्क्षये सम्यग्ज्ञा- नस्याभिव्यक्तिः । यथा यथा च साधनान्यनुष्ठीयन्ते तथा तथा तनुत्वमशुद्धिगपद्यते । यथा यथा च क्षीयते तथा तथा क्षयक्रमानुरोधिनी ज्ञानस्यापि दीप्तिर्विवर्धते । सा खल्वेषा विवृद्धिः प्रकर्षमनुभवत्या विवेकख्यातेः, आ गुण- पुरुषस्वरूपविज्ञानादित्यर्थः । योगाङ्गानुष्ठानमशुद्धेवियोगका- रणम् । यथा परशुश्छेद्यस्य । विवेकख्यातेस्तु प्राप्तिकारणं यथा धर्मः सुखस्य नान्यथा कारणम् । कति चैतानि कारणानि शास्त्रे भवन्ति । नवैवेत्याह । तद्यथा- .

    “ उत्पत्तिस्थित्यभिव्यक्तिविकारप्रत्ययाप्तयः ।
     वियोगान्यत्वधृतयः कारणं नवधा स्मृतम्" इति ॥
 तत्रोत्पत्तिकारणं मनो भवति विज्ञानस्य, स्थितिकारणं

मनसः पुरुषार्थता, शरीरस्येवाऽऽहार इति । अभिव्यक्तिकारणं

योगं दृष्टादृष्टद्वारेणाशुद्धिं क्षिण्वन्ति । पञ्चपर्वणो विपर्ययस्येत्युपलक्षणं. पुण्यापुण्ययोरपि जात्यायुर्भोगहेतुत्वेनाशुद्धिरूपत्वादिति । शेषं सुगमम् । नानाविधस्य कारणभावस्य दर्श. नाद्योगाङ्गानुष्ठानस्य कीदृशं कारणत्वमित्यत आह---योगाङ्गानुष्ठानमिति । अशुद्धया वियोजयति बुद्धिसत्त्वमित्यशुद्धेवियोगकारणम् । दृष्टान्तमाह---यथा परशुरिति । पर- शुश्छेचं वक्षं मूलेन वियोजयत।। अशुद्धया वियोजयद्बद्धिसत्वं विवेकख्याति प्रापयति यथा धर्मः सुखम् । तथा यामाङ्गानुष्ठानं विवेकख्याते: प्राप्तिकारणं नान्येन प्रकारेणे- त्याह--विवेकख्यातेस्त्विति । नान्यथेति प्रतिषेधश्रवणात्पृच्छति–कति चैता- मीति । उत्तरम्--नवैवेति । तानि दर्शयति कारिकया--तद्यथा--उत्पत्तीति ।

  अत्रोदाहरणान्याह--तत्रोत्पत्तिकारणमिति । मनो हि विज्ञानमव्यपदेश्यावस्था-

तोऽपनीय वर्तमानावस्थामापादयदुत्पत्तिकारणं विज्ञानस्य । स्थितिकारणं मनस: पुरुषार्थता । अस्मिताया उत्पन्नं मनस्तावदवतिष्ठते न यावद्विविधं पुरुषार्थमभिनि- वर्तयति । अथ निर्वतितपुरुषार्थद्वयं स्थितेरपैति । तस्मात्स्वकारणादुत्पन्नस्य मनसोऽ- नागतपुरुषार्थता स्थितिकारणम् । दृष्टान्तमाह---शरीरस्येवेति । प्रत्यक्षज्ञाननिमित्त-

१ क. ख. प. ड. च. छ. 'तिज्ञा । २ ज. तस्माद्योगा।

यथा रूपस्याऽऽलोकस्तथा रूपज्ञानं, विकारकारणं मनसो विषयान्तरम् । यथाऽग्निः पाक्यस्य । प्रत्ययकारणं धूमज्ञान- मग्निज्ञानस्य । प्राप्तिकारणं योगाङ्गानुष्ठानं विवेकख्यातेः । वियोगकारणं तदेवाशुद्धॆः । अन्यत्वकारणं यथा सुवर्णस्य सुवर्णकारः । एवमेकस्य स्त्रीप्रत्ययस्याविद्या मूढत्वे द्वेषो दुःखत्के

मिन्द्रियद्वारा वा स्वतो या विषयस्य संस्क्रियाऽभिव्यक्तिस्तस्याः कारणं यथा रूप- स्याऽऽलोकः । विकारकारणं मनसो विषयान्तरम् । यथा हि कण्डोः समाहितम नसो वल्लकांविपञ्चयमानपञ्चमस्वरश्रवणसमनन्तरमुन्मीलिताक्षस्य स्वरूपलावण्ययौवनसंप- न्नामप्सरसं प्रम्लोचामीक्षमाणस्य समाधिमपहाय तस्यां सक्तं मनो बभूवेति । अत्रैव निदर्शनमाह-यथाऽग्निः पाक्यस्य तण्डुलादेः कठिनावयवसनिवेशस्य प्रशिथिलाव- यवसंयोगलक्षणस्य विकारस्य क रणम् । सत एव विषयस्य प्रत्ययकारणं धूमज्ञानम- ग्निज्ञानस्येति । ज्ञायत इति ज्ञानमग्निश्वासौ ज्ञानं चेत्यग्निज्ञानं तस्य । एतदुक्तं भवति- वर्तमानस्यैवाग्नज्ञे॔यस्य प्रत्ययकारणतया कारणमिति । औत्सर्गिकी निरपेक्षाणां कारणानां कार्यक्रिया प्राप्तिस्तस्याः कुतश्चिदपवादोऽप्राप्तिः । यथा निम्नोपसर्पणस्वभावानामापां प्रति- बन्धः सेतुना तथेहापि बुद्धिसत्त्वस्य सुखप्रकाशशीलस्य स्वाभाविकी सुखविवेकख्याति. जनकता प्राप्तिः । सा कुतश्चिदधर्मात्तमसो वा प्रतिबन्धान्न भवति । धर्माद्योगाङ्गानुष्ठा. नाद्वा तदपनये तद्प्रतिबद्धवृत्तिस्वभावत एव तज्जनकतया तदाप्नोति । यथा वक्ष्यति- “निमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवत् ” [यो० सू० ४।३] इति । तदेवं विवेकख्यातिलक्षणकार्यापेक्षया प्राप्तिकारणमुक्तम् । अवान्तरकार्यापेक्षया तु तदेव वियोगकारणमित्याह-वियोगकारणमिति । माह'त्वकारणमाह----अन्यत्व- कारणं यथा सुवर्णकारः सुवर्णस्य, कटककुण्डलकेयूरादिभ्यो भिन्नाभिन्नस्य भेदविव- क्षया कटकादिभिन्नस्याभेदविवक्षया कटकाद्यभिन्नस्य सुवर्णस्य कुण्डलादन्यत्वम् । तथा च कटककारी सुवर्णकारः कुण्डलादभिन्नात्मुवर्णादन्यत्कुर्वन्नन्यत्वकारणम् । अग्निरपि पाक्य. स्यान्यत्वकारणं यद्यपि तथाऽपि धर्मिणो धर्मयोः पुलाकत्वतण्डुलत्वयोर्मेदाक्विक्षया धर्भयोरुपजनापायेऽपि धर्म्यनुवर्तत इति न तस्यान्यत्वं शक्यं वक्तुमिति विकारमात्रका- रणत्वमुक्त मिति न संकरः । न च संस्थानभेदो धर्मिणोऽन्यत्वकारणमिति व्याख्येयम् । सुवर्णकार इत्यस्यासंगतेः । बाह्यमन्यत्वकारणमुपन्यस्याऽऽध्यात्मिकमुदाहरति-एवभे- कस्येति । अविद्या कमनीयेयं कन्यकेत्यादिज्ञानम् । तन्मोहयोगात्स एवं स्त्रीप्रत्ययो

[१६]
सू० २९]
१०१
पातञ्जलयोगसूत्राणि

  रागः सुखत्वे तत्त्वज्ञानं माध्यस्थ्येधृतिकारणं शरीरमिन्द्रि- याणाम्तानि च तस्यमहाभूतानि शरीराणां, तानि च परस्परं सर्वेषां तैर्यग्यौनमानुषदैवतानि च परस्परार्थत्वादित्येवं नव कारणानि तानि च यथासंभवं पदार्थान्तरेष्वपि योज्यानियोगाङ्गानुष्ठानं तु द्विधैव कारणत्वं लभत इति २८

 तत्र योगाङ्गान्यवधार्यन्ते-

यमनियमासनप्राणायामप्रत्याहारधार
णाध्यानसमाधयोऽष्टावङ्गानि २९

मूढो विषण्णो भवति चैत्रस्य मैत्रस्य पुण्यवतो बत कलत्ररत्नमेतन्न तु मम भाग्यहीनस्येति । एवं सपत्नीजनस्य तस्यां द्वेषः स्त्रीप्रत्ययस्य दुःखन्वे । एवं मैत्रस्य तस्या भर्तू रागस्त- स्यैव स्त्रीप्रत्ययस्व सुखत्वे । तत्त्वज्ञानं त्वड्यांसमेदोस्थिमज्जासमूहः स्वीकायः स्थानबीजा- दिभिरशुचिरिति विवेकिनां माध्यस्थ्ये वैराग्ये कारणमिति । धृतिकारणं शरीरमिन्द्रियाणां विधारकमिन्द्रियाणि च शरीरस्य सामा[१७]न्या[१८] करणवृ[१९]त्तिर्हि प्राणाद्या वायवः पञ्च तदभावे शरीरपातात् । एवं मांसादिका[२०]याङ्गानामपि परस्परविधार्यविधारकत्वम् । एवं महाभूतानि पृथिव्यादीनि मनुष्यवरुणसूर्यगन्धवहशशिलोकनिवासिनां शरीराणां, तानि च परस्परं, पृथिव्यां हि गन्धरसरूपस्पर्शशब्दगुणायां पञ्च महाभूतानि परस्परं विधार्यविधारकभावेना. वस्थितान्यप्सु चत्वारि तेजसि त्रीणि द्वे च मातरिश्वनीति । तैर्यग्यौनमानुषदैवतादीनि च विधार्यविधारकभावेनावस्थितानि । नन्वाधाराधेयभावरहितानां कुतस्तत्त्वमित्यत आह- परस्परार्थत्वादिति । मनुष्यशरीरं हि पशुपक्षिमृगसरीसृपस्थावरशरीरोपयोगेन ध्रियते । एवं व्याघ्रादिशरीरमपि मनुष्यपशुमृगादिशरीरोपयोगेन । एवं पशुमृगादिशरीरमपि स्थाव- राघुपयोगेन । एवं दैवशरीरमपि मनुष्योप[२१]हृतच्छागमृगकपिञ्जलमांसाज्यपुरोडाशसा ना . खाप्रस्तरादिभिरिज्यमानं तदुपयोगेन । एवं देवताऽपि वरदानवृष्टयादिभिर्मनुष्यादीनि पार- यतीत्यस्ति परस्परार्थत्वमित्यर्थः । शेषं सुगमम् ॥ २८ ॥

संप्रति न्यूनाधिकसंख्याव्यवच्छेदार्थं योगाङ्गान्यवधारयति-तत्र योगाङ्गान्यव- धार्यन्त इति यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टाव- १०२ . वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि- [ २ साधनपादे-

                           यथाक्रममेषामनुष्ठानं स्वरूपं च वक्ष्यामः ॥ २९॥
                           तत्र-
                                अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः ॥ ३० ॥
 तत्राहिंसा सर्वथा सर्वदा सर्वभूतानामनभिद्रोहः । उत्तरे च

यमनियमास्तन्मूलास्तत्सिद्धिपरतयैव तत्प्रतिपादनाय प्रतिपाद्यन्ते । तदवदातरूपकरणायैवोपादीयन्ते । तथा चोक्त-स खल्वयं ब्राह्मणो यथा यथा व्रतानि बहूनि समादित्सते तथा तथा प्रमादकृतेभ्यो हिंसानिदानेभ्यो निवर्तमानस्तामेवावदातरूपामहिंसां करोति।

 सत्यं यथार्थे वाड़मनसे । यथा दृष्टं यथाऽनुमितं तथा वाङ्मनश्चेति । परत्र स्वबोधसंक्रान्तये वागुक्ता, सा यदि न वञ्चिता
                 ङ्गानि।अभ्यासवैराग्यश्रद्धावीर्यादयोऽपि यथायोगमतेष्वेव स्वरूपतो नान्तरीयकतया
                 चान्तर्भावयितव्याः ॥ २९॥

_ यमनियमाद्यङ्गान्युद्दिश्य यमनिर्देशकं सूत्रमवतारयति---तत्रेति । अहिंसासत्यास्ते-

                यब्रह्मचर्योपरिग्रहा यमाः । योगाङ्गमहिंसामाह-सर्वथेति । ईदृशीमहिसां स्तौति-
                उत्तरे चेति । तन्मूला इत्यहिंसामपरिपाल्य कृता अप्यकृतकल्पा निष्फलत्वादित्यर्थः ।
                तत्सिद्धिपरतयैवानुष्ठानम् । अहिंसा चेन्मूलमुत्तरेषां कथं तेऽहिंसासिद्धिपरा इत्यत आह.-
                तत्प्रतिपादनाथेति । सिद्धिर्ज्ञानं नोत्पत्तिरित्यर्थः । स्यादेतत् । अहिंसाज्ञानार्था यद्युत्तरे
                कृतं तैरन्यत एव तदवगमादित्यत आह-तदवदातेति । यद्युत्तरे नानुष्ठीयेरन्नहिंसा
                मलिना स्यादसत्यादिभिरित्यर्थः । अत्रैवाऽऽगमिकानां संमतिमाह-तथा चेति । सुुगमम् ।
                     सत्यलक्षणमाह-यथार्थे वाङ्मनसे इति । यथाशब्दं साकाङ्क्षं पूरयति-
                यथा दृष्टमिति । प्रतिसंबन्धिनं तथाशब्दं प्रतिक्षिपति–तथा वाङ्मनश्च विवक्षायां
                कर्तव्यायामिति । अन्यथा तु न सत्यमेतत्सोपपत्तिकमाह-परत्र पुरुषे स्वबोधसं.
                क्रान्तये स्वबोधसदृशबोधजननाय वागुक्तोच्चारिता, अतः सा यदि न वञ्चिता
                वञ्चिका  यथा द्रोणाचार्येण स्वतनयाश्वत्थाममरणमायुष्मन्सत्यधनाश्वत्थामा हत
                इति पृष्टस्य युधिष्ठिरस्य प्रतिवचनं हस्तिनमभिसंधाय सत्यं हतोऽश्वत्थामेति,
                   १ ग. °मः । अ । २ ग. प. उ. 'तया त° । ३ ज. निदर्शकं । ४ ज. पक्षि । 

भ्रान्ता वा प्रतिपत्तिवन्ध्या वा भवेदिति । एषा सर्वभूतोपका- रार्थ प्रवृत्ता न भूतोपघाताय । यदि चैवमप्यभिधीयमाना भूतोपघातपरैव स्यान सत्यं भवेत्पापमेव भवेत्तेन पुण्याभासेन पुण्यप्रतिरूपकेण कष्टं तमः माप्नुयात् । तस्मात्परीक्ष्य सर्वभूत- हितं सत्यं ब्रूयात् ।

 स्तेयमशास्त्रपूर्वक द्रव्याणां परतः स्वीकरणं, तत्प्रतिषेधः पुनरस्पृहारूपमस्तेयमिति । ब्रह्मचर्य गुप्तेन्द्रियस्योपस्थस्य संयमः । विषयाणामर्जनरक्षणक्षयसङ्गहिंसादोषदर्शनादस्वीकरणमपरिग्रह इत्येते यमाः ॥ ३० ॥ [२२]


तदिदमुक्तस्योत्तरं न युधिष्ठिरस्य स्वबोध संक्रामयति । स्वबोधो ह्यस्य हस्तिहनन विषय इन्द्रियजन्मा, न चासौ संक्रान्तः किं त्वन्य एव तस्य तनयवधबोधो जात इति । भ्रान्ता वा भ्रान्तिजा बा, भ्रान्तिश्च विवक्षासमये वा लेयार्थावधारणसमये वा। प्रति. पत्त्या वन्ध्या प्रतिपत्तिवन्ध्या यथाऽर्थान्यति म्छेच्छभाषा प्रतिपत्तिवन्ध्या, निष्प्रयोजना का स्यादिति यथाऽनपेक्षिताभिधाना बाक्तन हि परत्र स्वबोधस्य संक्रान्तिरप्पसंक्रान्तिरेव निष्प्रयोजनत्वादिति । एवंलक्षणमपि सत्यं परापकारफलं सत्याभासं न तु सत्यमित्याह- एषेति । तद्यथा सत्यतपसस्तस्करैः सार्थयमनं पृष्टस्य सार्थगमनाभिधानमिति । अभिधी- यमानोच्चार्यमाणा । शेषं सुगमम् ।

  अभावस्य भावाधीननिरूपणतया स्तेयलक्षणमाह -स्तेयमशास्त्रपूर्वकमिति । विशे. षेण सामान्य लक्ष्यत इत्यर्थः । मानसव्यापारपूर्वकत्वाद्वाचनिककायिकव्यापारयोः प्राधान्या. न्मनोव्यापार उक्तोऽस्पृहारूपमिति । ब्रह्मचर्यस्वरूपमाह ---गुप्लेति । संयतोपस्थोऽपि हि स्त्रीवेक्षणतदालाषकन्दीयतनतदङ्गस्पर्शनसक्तो न ब्रह्मचर्यवानिति तन्निरासायोक्तं गुप्तेन्द्रियस्येति । इन्द्रियान्तराण्यपि तत्र लोलुपानि रक्षणीयानीति । अपरिग्रहस्वरूपमाह- विषयाणामिति । तत्र सनदोष उक्तो भोगाभ्यासमनु विवर्धन्ते रागाः कौशलानि चेन्द्रियाणामिति, हिंसालक्षणश्च दोषो नानुपहत्य भूतान्युपभोगः संभवतीति । अशास्त्रीया- णामयत्नोपनतानामपि विषयाणां निन्दितप्रतिग्रहादिरूपार्जनदोषदर्शनाच्छास्त्रीयाणामप्यु- पार्जितानां च रक्षणादिदोषदर्शनादस्वीकरणमपरिग्रहः ॥ ३०॥


ते तु-

 

जातिदेशकालसमयानपच्छिन्नाः
सार्वभौमा महाव्रतम् ॥ ३१ ॥

तत्राहिंसा जात्यवच्छिमा मत्स्यैवधकस्य मत्स्येष्वेव नान्यत्र हिंसा । सैव देशावच्छिन्ना न तीर्थे हनिष्यामीति । सैव कालाव- च्छिन्ना न चतुर्दश्यां न पुण्येऽहनि हनिष्यामीति । सैव त्रिभि- रुपरतस्य समयावच्छिन्ना देवब्राह्मणार्थे नान्यथा हनिष्यामीति । यथा च क्षत्रियाणां युद्ध एव हिंसा मान्यत्रेति । एभिर्जाति देशकालसमयैरनवच्छिन्ना अहिंसादयः सर्वथैव परिपालनीयाः । मर्वभूमिषु सर्वविषयेषु सर्वथैवाविदितव्यभिचाराः सार्वभौमा महाव्रतमित्युच्यन्ते ॥ ३१॥

शौचसंतोषतपःस्वाध्यायेश्वर-
प्रणिधानानि नियमाः ॥३२॥

तत्र शौचं मृज्जलादिजनितं मेध्याभ्यवहरणादि च वाह्यम् । आभ्यन्तरं चित्तमलानामाक्षालनम् । संतोषः संनिहितसाधनाद- धिकस्यानुपादित्सा । तपो द्वंद्वसहनम् । द्वंद्वैाश्च जिघत्सापिपासे।

  सामान्यत उक्ता याद्वशाः पुनर्योगिनामुपादेयास्तादृशम्यक्तुं सूत्रमवतारयति-ते त्विति । जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम् । सर्वासु जात्यादिलक्षणासु भूमिषु विदिताः सार्वभौमाः । अहिंसादय इत्यन्यत्राप्यवछेद ऊहनीयः । सुगमं भाष्यम् ॥३१॥

  शौचादिनियमानाचष्टे –शौचसंतोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः। व्याचष्ठे-शौचमिति । आदिशब्देन गोमयादयो गृह्यन्ते । गोमूत्रयावकादि मेध्यं तस्याभ्यवहरणादि । आदिशब्दादग्रासपरिमाणसंख्यानियमादयो ग्राह्याः । मेध्याभ्यय- हरणादिजनितमिति वक्तव्ये मेध्याभ्यवहरणादि चेयुक्तं कार्ये कारणोपचारात् । चित्तमला मदमानासूयादयस्तदपनयो मनःशौचम् । प्राणत्राणमात्रहेतोरभ्य- धिकस्यानुपादित्सा संतोपः प्रागेव स्वीकरणपरित्यागादिति शेषैः । [२३] शीतोष्णे स्थानासने काष्ठमौनाकारमौने च । व्रतानि चैषां यथायोगं कृच्छ्चान्द्रायणसांतपनादीनि । स्वाध्यायो मोक्षशास्त्राणामध्ययनं प्रणव जपो वा । ईश्वरप्रणिधानं तस्मिन्परमगुरौ सर्वकर्मार्पणम् ।

शय्यासनस्थोऽथ पथि व्रजन्वा
स्वस्थः परिक्षीणवितर्कजालः।
संसारबीजक्षयमीक्षमाणः
स्यान्नित्ययुक्तोऽमृतभोगभागी॥
यत्रेदमुक्तं ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्चेति ॥ ३२ ॥


एतेषां यमनियमानाम्- वितर्कबाधने प्रतिपक्षभावनम् ॥ ३३ ॥ यदाऽस्य ब्राह्मणस्य हिंसादयो वितर्का जायेरन्हनिष्याम्य- हमपकारिणमन्तमपि वक्ष्यामि द्रव्यमप्यस्य स्वी करिष्यामि दारेषु चास्य व्यवायी भविष्यामि परिग्रहेषु चास्य स्वामी भविष्यामीति । एवमुन्मार्गप्रवणवितर्कज्वरेणातिदीप्तेन बाध्यमानस्तत्प्रतिपक्षान्भावयेत् । घोरेषु संसाराङ्गारेषु पच्यमानेन मया शरणमुंपागतः सर्वभूताभयप्रदानेन योगधर्मः । स खल्वहं त्यक्त्वा वितर्कान्पुनस्तानाददानस्तुल्यः श्ववृत्तेनेति भावयेत् । काष्ठमौनमिङ्गितेनापि स्वाभिः पाप्रकाशनम् । अवचनमात्रमाकारमौनम् । परिक्षीणवितर्कजाल इति वितर्को 'माणः संशयविपर्ययौ वेति । एतावता शुद्धोऽभिसंधिरुक्तः । एते च यमनियमा विराण उक्ताः- " ब्रह्मचर्यमहिसां च सत्यास्तेयापरिग्रहान् । सेवेत योगी निष्कामो योग्यता स्वमनो नयन् ।। स्वाध्यायशौचसंतोषतपांसि नियतात्मवान् । "कुर्वीत ब्रह्मणि तथा परस्मिन्प्रवणं मनः ॥ एते यमाः सनियमाः पञ्च पञ्च प्रकीर्तिताः । विशिष्टफलदाः काम्या निष्कामाना(गा) विमुुक्तिदाः " [वि० पु० ६ । ७ | ३६-३८ ] इति ॥ ३२ ॥ श्रेयासि बहुविनानि ' इत्येषामपवादसंभवे तत्प्रतीकारोपदेशपरं सूत्रमवतारयति- एतेषां यम नियमानामिति । सूत्र-वितर्कबाधने प्रतिपक्षभावनम् । वितर्काणां १ चैव । २ . ग. घ. ङ. छ. 'त्यमुक्तो । ३ क. य. 'मुपग । ४ घ. के. गताः स प. अ. धर्माः। स । ६ ज. “म् । भा। यथा वा वान्तावलेही तथा त्यक्तस्य पुनराददान इति । एव- मादि सूत्रान्तरेष्यपि योज्यम् ॥ ३३ ॥

 वितर्का हिंसादयः कृतकारितानुमो-
दिता लोअक्रोधमोहपूर्वका मृदुम-
ध्याधिमात्रा दुःखाज्ञानानन्तफला
इति प्रतिपक्षमावनम् ॥ ३४ ॥

[२४]

  तत्र हिंसा तावत्-कृता कारिताऽनुमोदितेति त्रिधा । एकैका पनस्त्रिधा लोभेन मांसचार्थेन क्रोधेनापकृतमनेनेति मोहन धर्मो मे भविष्यतीति । लोभक्रोधमोहाः पुनत्रिविधा मदुमध्या. धिमात्रा इति । एवं सप्तविंशतिर्भदा भवन्ति हिंसायाः। मृदु- मध्याधिमात्राः पुननिधा--मदुमदुमेध्यमदुस्तीवमृदुरिति । तथा मृदुमध्यो मध्यमध्यस्तीवमध्य इति । तथा मृदुतीब्रो मध्यती. घोऽधिमात्रतीव्र इति । एवमेकाशीतिभेदा हिंसा भवति । सा पुनर्नियमविकल्पसमुच्चयभेदादसंख्येया, प्राणभृद्भेदस्यापरिसं- ख्येयत्वादिति । एवमनृतादिष्वपि योज्यम् ।।

  ते खल्वमी वितर्का दुःखाज्ञानानन्तफला इति प्रतिपक्षमाव- नम् । दुःखमज्ञानं चानन्तं फलं येषामिति प्रतिपक्षमावनम् । तथा च हिंसकस्तावत्प्रथम वध्यस्य वीयमाक्षियति । ततश्च शस्त्रा- दिनिपातेन दुःखयति । ततो जीवितादपि मा 'यति । ततो वीक्षिपादस्य चेतनाचेतनमुपकरणं क्षीणवीर्य भका । दुःखो.

भाष्ये नास्ति तिरोहितमित्र किंचन ॥ ३३ ॥ [२५]

  तत्र वितर्काणां स्वरूपप्रकारकारणवर्मफलभेदान्प्रतिपक्षभावना विषयान्प्रतिपक्षमा. वनास्वरूपानिधित्सया सूत्रेणाऽऽह-वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका मृदुमध्याधिमात्रा दुःखाज्ञानानन्तफला इति प्रतिपक्ष- भावनम् । व्याचष्टे--तत्र हिंसेति ।

  प्राणभद्रेदस्यापरिसंख्येयत्वान्नियमविकल्पसमुच्चयाः संभविनो हिंसादपु.५ । ता- धर्मतस्तमःसमुद्रेके सति चतुर्विधविपर्ययलक्षणस्याज्ञानस्याप्युदय इत्यज्ञानपीठचमप्येते. षामिति । दुःखाज्ञानानन्तफलस्वमेव हि प्रतिपक्षभावनं तद्वशादेभ्यो नि वत्तेरिति । तदेव प्रतिपक्षभावनं स्कोरयति-वध्यस्य पश्चादेर्वीय प्रयत्नं कायव्यापा त्पादान्नरकतिर्यक्प्रेतादिषु दुःखमनुभवति, जीवितव्यपरोपणात्प्रतिक्षणं च जीवितात्यये वर्तमानो मरणमिच्छन्नपि दुःखविपाकस्य नियतविपाकवेदनीयत्वात्कथंचिदेवोच्छ्रसिति । यदि च कथंचित्पुण्यावापगता हिंसा भवेत्तत्र सुखप्राप्तौ भवेदल्पायुरिति । 'एवमनृतादिष्वपि योज्यं यथासंभवम् । एवं वितर्काणां चामुमवानुगतं विषाकमनिष्टं भावयन्न वितर्केषु मनः प्रणिदधीत।॥३४॥ प्रतिपक्षभावनाद्धेतोर्हेया वितर्का यदाऽस्य स्युरप्रसवधर्माण- स्तदा तत्कृतमैश्वर्यं योगिनः सिद्धिसूचकं भवति । तद्यथा-

अहिंसाप्रतिष्ठायां तसं-

निधौ वैरत्यागः ॥ ३५॥ सर्वप्राणिनां भवति ॥ ३५ ॥ सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् ॥ ३६ ॥ धार्मिको भूया इति भवति धार्मिकः , स्वर्ग प्राप्नुहोति स्वर्गं प्राप्नोति । अमोघाऽस्य वाग्भवति ॥ ३६॥ रहेतुं प्रथममाक्षिपति यूपनियोजनेन । तेन हि यशोरप्रागल्भ्यं भवति । शेषमतिस्फुटम् ॥ ३४ ॥ उक्ता यमनियमास्तदपवादकानां च वितर्काणां प्रतिपक्षभावनातो हानिरुक्ता, संप्रत्पप्रत्यूहं यमनियमाभ्यासात्तत्सिद्धिपरिज्ञानसूचकानि चिह्नान्युपन्यस्यति यत्परिज्ञानाद्योगी तत्र तत्र कृतकृत्यः कर्तव्येषु प्रवर्तत इत्याह (ति)-यदेति ( प्रतिपक्षेति) । अहिंसाप्रतिष्ठायां तत्संनिधौ वैरत्यागः । शाश्वतिकविरोधा अप्यश्वमहिषमूपकमार्जाराहिनकुलादयोऽपि भगवतः प्रतिष्टिताहिंसस्य संनिधानात्तचित्तानुकारिणो वैरं परित्यजन्तीति ॥३५॥ सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् । क्रियासाध्यौ धर्माधर्मौ क्रिया तत्फलं च स्वर्गनरकादि ते एवाऽऽश्रयतीत्याश्रयस्तस्य भावस्तत्त्वं तदस्य भगवतो वाचो भवतीति । क्रियाश्रयत्वमाह~- धार्मिक इति । फलाश्रयत्वमाह---स्वर्गमिति । अमोघाऽप्रति- हता ॥ ३६॥ १ ख. ग. इ. च. छ. 'तवे! २ क. ल. च. छ. नातो !  

अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् ॥ ३७ ॥
सर्वदिक्स्थान्यस्योपतिष्ठन्ते रत्नानि ॥ ३७॥
 
ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः ॥ ३८ ॥
यस्य लाभादप्रतिघान्गुणानुत्कर्षयति । सिद्धश्च विनेयेषु'
ज्ञानमाधातुं समर्थो भवति ॥ ३८॥
 
अपरिग्रहस्थैर्थे जन्मकथंतासंबोधः ॥ ३९ ॥
 
 अस्य भवति । कोहमासं कथमहमासं किंस्विदिदं[२६] कथं
स्विदिदं के वा भविष्यामः कथं वा भविष्याम इत्येवमस्य पूर्वा-
म्तपरान्तमध्येष्वात्मभावजिज्ञासा[२७] स्वरूपेणोपावर्तते । एता
यमस्थैर्ये सिद्धयः ॥ ३९ ॥

  अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् । सुबोधम् ॥ ३७॥   ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः वीर्य सामर्थ्य यस्य लाभादप्रतिघानप्रतिघातान्गु- णानणिमादीनुत्कर्षयत्युपचिनोति[२८] । सिद्धश्व [२९] तारा ( तर्का ) दिभिरष्टाभिः सिद्धिभिरूहाद्य- परनामभिरुपेतो विनेयेषु शिष्येषु ज्ञानं योगतदङ्गविषयमाधातुं[३०] समर्थो भवतीति ॥ ३८ ॥   अपरिग्रहस्थैर्ये जन्मकथंतासंबोधः। निकायविशिष्टैर्देहेन्द्रियादिभिरभिसंम्बन्धो जन्म तस्य कथंता किंप्रकारता तस्याः संवोधः साक्षात्कारः सप्रकारातीन्द्रियशान्तो- दिताव्यपदेश्यजन्मपरिज्ञानमिति यावत् । अतीतं जिज्ञासते कोऽहमासमिति । तस्यैव प्रकारभेदमुत्पादे स्थितौ च जिज्ञासते--कथमहमासमिति । वर्तमानस्य जन्मनः स्वरूपं जिज्ञासते---किंस्विदिति । शरीरं भौतिकं किं भूतानां समूहमात्रमाहोस्वित्ते. भ्योऽन्यदिति । अत्रापि कथंस्विदित्यनुपञ्जनीयम् । क्वचित्तु पठ्यत एव । अनागतं जिज्ञासते--के वा भविष्याम इति। अत्रापि कथंस्विदित्यनुषङ्गः । एवमस्येति । पूर्वान्तोऽतीतः कालः[३१] परान्तो भविष्यन्मध्यो वर्तमानस्तेष्वात्मनो भावः शरीरादिसंब- ग्धस्तस्मिञ्जिज्ञासा ततश्च ज्ञानं, यो हि यदिच्छति स तत्करोतीति न्यायात् ॥ ३९ ॥

   सू० ४०-४२]        पातञ्जलयोगसूत्राणि ।
         नियमेषु वक्ष्यामः-‌---
         शौचात्स्वाङ्गजुगुप्सा परैरसंसर्गः ॥ ४० ॥
        स्वाङ्गे जुगुप्सायां शौचमारभमाणः कायावद्यदर्शी कायान-
      भिष्वङ्गी यतिर्भवति । किं च परैरसंसर्गः कायस्वभावावलोकी
       स्वमपि कायं जिहासुर्मुज्जलादिभिराक्षालय:" कायशुद्धिमप-
       श्यन्कथं परकायैरत्यन्तमेवाप्रयतैः संसृज्येत ॥ ४० ॥
          किं च--
              सत्त्वशुद्धिसौमनस्यैकाव्येन्द्रियजया-
              त्मदर्शनयोग्यत्वानि च ॥ ४० ॥
           भवन्तीति वाक्यशेषः । शुचेः सत्त्वशुद्धिस्ततः सौमनस्य
        तत ऐकाम्यं तत इन्द्रियजयस्ततश्चाऽऽत्मदर्शनयोग्यत्वं बुद्धिस.
        त्त्वस्य भवतीत्येतच्छौचस्थैर्यादधिगम्यत इति ॥ ४१ ॥
      
            संतोषादनुत्तमः सुखलामः ॥ ४२ ॥
          तथा चोक्तम्---
           " यच्च कामसुखं लोके यञ्च दिव्यं महत्सुखम् ।
            तृष्णाक्षयसुखस्यैते नार्हतः षोडशी कलाम् ॥ इति ॥४२॥

    शौचात्स्वाङ्गजुगुप्सा परैरसंसर्गः । अनेन बाह्यशौचसिद्धिसूचकं कथितम् ।।४०॥
    आन्तरशौचसिद्रिसूचकमाह---किंचेति  ।  सत्त्वशुद्धिसौमनस्यैकाग्येन्द्रियज-
  यात्मदर्शनयोग्यत्वानि च । चित्तमलानामाक्षालने चित्तसत्त्वममलं प्रादुर्भवति वैम.
  ल्यात्सौमनस्यं स्वच्छता स्वच्छं तदेकानं ततो मनस्तन्त्राणामिन्द्रियाणां तज्जयाज्जयस्तत
  आत्मदर्शनयोग्यत्वं बुद्धिसत्त्वस्य भवतीति ।। ४१ ॥
     संतोषादनुत्तमः सुखलाभः । न विद्यतेऽस्मादुत्तम इत्यनुत्तमः । यथा चोक्तं
   ययातिना पूरौ यौवनमर्पयता-----
           " या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यताम् ।
          ता तृष्णां संत्यजन्प्राज्ञः सुखेनैवाभिपूर्यते" [भार ०आ०८५।१४] इति ॥
     तदेतदर्शयति - यच्च कामसुखं लोक इत्यादिना ॥ ४२ ॥
     १ क. ख. ज. शौचं सि । २ क. ख. ज. "शौचं सि । ३ ज. पूरवे ।  

कायेन्द्रियसिद्धिरशुद्धि-
क्षयात्तपसः ॥ ४३ ॥
निर्वर्त्यमानमेव तपो हिनस्त्यशुद्धयावरणमलं तदावरणम-
लापगमात्कायसिद्रिाणिमाद्या । तथेन्द्रियसिद्धिदूराच्छ्वर्णदर्श-[३२]नायेति ॥ ४३

स्वाध्यायादिष्टदेवतासंप्रयोगः ॥ ४४ ॥
देवा ऋषयः सिद्धाश्च स्वाध्यायशीलस्य दर्शनं गच्छन्ति,
कार्ये चास्य वर्तन्त इति ॥ ४४ ॥

समाधिसिद्धिरीश्वरप्रणिधानात् ॥ ४५ ॥

ईश्वरार्पितसर्वभावस्य समाधिसिद्धिर्यया सर्वमीप्सितमवि-
तथं जानाति देशान्तरे देहान्तरे कालान्तरे च । ततोऽस्य प्रज्ञा
यथाभूतं प्रजानातीति ॥ ४५ ॥

उक्ताः सह सिद्धिभिर्ययनियमाः । आसनादीनि वक्ष्यामः ।
      तत्र

स्थिरसुखमासनम् ॥४६॥


तपःसिद्धिसूचकमाह-कायेन्द्रियसिद्धिरशुद्धिक्षयात्तपसः । अशुद्धिलक्षणमा-
वरणं तामसमधर्मादि । अणिमाद्या महिमा लघिमा प्राप्तिश्च । सुगमम् ॥ ४३ ।।

स्वाध्यायसिद्भिसूचकमाह-स्वाध्यायादिष्टदेवतासंप्रयोगः । सुगमम् ।। ४४ ॥

समाधिसिद्धिरीश्वरप्रणिधानात । न च वाच्यमीश्वरप्रणिधानादेव चेत्संप्रज्ञा-
तस्य समाधेरङ्गिनः सिद्धिः कृतं सप्तभिग्डैरिति । ईश्वरप्रणिधानसिद्धौ दृष्टादृष्टावान्त-
रव्यापारेण तेषामुपयोगात् । संप्रज्ञातसिद्धौ च संयोगपृथक्वेन दध्न इव क्रत्वर्थता पुरु-
पार्थता च । न चैत्रमनन्तरङ्गता धारणाध्यानसमाधीनां संग्रज्ञातसिद्धौ । संप्रज्ञातसमान-
गोचरतयाऽङ्गान्तरेभ्योऽतद्गोचरेभ्योऽस्यान्तरङ्गत्वप्रतीतेः । ईश्वरप्रणिधानमपि हीश्वरगोचरं न
संप्रज्ञेयगोचरमिति बहिरङ्गमिति सर्वमवदातम्। प्रजानातीति प्रज्ञापदव्युत्पत्तिर्दर्शिता ॥४५॥

उत्तरसूत्रमवतारयति--उक्ताः सह सिद्धिभिर्यमनियमाः । आसनादीनि
वक्ष्यामः । तत्र-स्थिरसुखमासनम् । स्थिरं निश्चलं यत्सुखं सुखावहं तदासनमिति

 

तद्यथा पद्मासनं भद्रासनं स्वस्तिकं दण्डासनं सोपाश्रयं पर्यङ्कं
क्रौञ्चनिषदनं हस्तिनिषदनमुष्ट्रनिषदनं समसंस्थानं स्थिरसुखं
यथासुखं चेत्येवमादीनि ॥ ४६॥
प्रयत्नशैथिल्यानन्तसमापत्तिायाम् ॥ ४७ ॥
भवतीति वाक्यशेषः। प्रयत्नोपरमात्सिध्यत्यासनं येन नाङ्ग-
मेजयो भवति । अनन्ते वा समापमन्नं चित्तमासनं निवर्तय-
तीति ॥४७॥
ततो द्वंद्वानभिघातः ॥४८॥'
___ शीतोष्णादिभिर्द्वेद्वैरासनजयान्नाभिभूयते ॥ ४८ ॥

सूत्रार्थः । आस्येत् आस्ते वाऽनेनेत्यासनम् । तस्य प्रभेदानाह -तद्यथेति । पद्मासनं प्रसिद्धम् । स्थितस्यैकतरः पादो भून्यस्त एकतरश्चाऽऽकुश्चितजानोरुपरि न्यस्त इत्येतद्वी- रासनम् । पादतले वृषणसमीपे संपुटीकृत्य तस्योपरि पाणिकच्छपिकां कुर्यात्तद्भद्रासनम् । सव्यमाकुश्चितं चरणं दक्षिणजधोर्वन्तरे दक्षिणं चाऽऽकुञ्चितं वामज्ङघोर्वन्तरे निक्षि- पेदेतत्स्वस्तिकम् । उपविश्य लिष्टाङ्गुलिको श्लिष्टगुल्फोक्रौञ्चनिषदनादीनि क्रौञ्चादीनां निषण्णानां संस्थानदर्शनात्प्रत्येतव्यानि । पाष्णर्यग्रपादाभ्यां [३३]द्वयोराकुञ्चितयोरन्योन्यसंपीडनं समसंस्थानं, येन संस्थानेनावस्थितस्य स्वयं [३४]सुखं[३५] च सिध्यति तदासनं स्थिरसुखम् । तदेतद्भगवतः [३६]सूत्रकारस्य संमतं, तस्य विवरणं यथा- सुखं चेति ।। ४६ ॥ ___ आसनस्वरूपमुक्त्वा तत्साधनमाह-प्रयत्नशैथिल्यानन्तसमापत्तिभ्याम् । सांसि- द्धिको हि प्रयत्नः शरीरधारको न योगाङ्गस्योपदेष्टव्यासनस्य कारणं तस्य तःकारणत्व उपदेशवैयर्ध्यात्स्वरसत एव तसिद्धेः ।तस्मादुपदेष्टव्यस्याऽऽसनस्यायमसाधको विरोधी च स्वाभाविकः प्रयत्नस्तस्य च यादृच्छिकासनहेतुतयाऽऽसननियमोपहन्तत्वात् । तस्मादुप- दिष्टनियमासनमभ्यस्यता स्वाभाविकप्रयत्नशैथिल्याय[३७] प्रयत्न आस्थेयो नान्यथोपदिष्टमासनं सिध्यतीति स्वाभाविकप्रयत्नशैथिल्यमासनसिद्धिहेतुः । अनन्ते वा नागनायके स्थिरतरफ- णासहस्रविधृतविश्वंभरामण्डले समापन्नं चित्तमासनं निर्वर्तयतीति ॥ ४७ ॥ ___ आसनविजयसूचकमाह-ततो इंदानभिघातः । निगदव्याख्यातं भाष्यम् । आस- नमप्युक्तं विष्णुपुराणे-

तस्मिन्सति श्वासप्रश्वासयोर्गति-
विच्छेदः प्राणायामः ॥ ४९ ॥

सत्यासनजये बाह्यस्य वायोराचमनं श्वासः, कौष्ठयस्य वायोर्निःसारणं प्रश्वासः, तयोर्गतिविच्छेद उभयाभावः प्राणा- यामः ॥ ४९॥

स तु--

बाह्याभ्यन्तरस्तम्भवृत्तिर्देशकालसं-
ख्याभिः परिदृष्टो दीर्घसूक्ष्मः ॥५०॥

यत्र प्रश्वासपूर्वको गत्यभावः स बाह्यः । यत्र श्वासपूर्वको गत्यभावः स आभ्यन्तरः। तृतीयः स्तम्भवृत्तियेत्रोभयाभावः सकृत्पयत्नाद्भवति । यथा तप्ते न्यस्तमुपले जलं सर्वतः संकोचमापद्यते तथा द्वयोर्युगपंगत्यभाव इति । त्रयोऽप्येते देशेन परि-


 " एवं भद्रासनादीनां समास्थाय गुणैर्युतम् ” इति [ वि०पु० ६।७।३९] ॥ ४८ ॥ आसनानन्तरं तत्पूर्वकतां प्राणायामस्य दर्शयंस्तल्लक्षणमाह--तस्मिन्सति श्वास प्रश्वासयोर्गतिविच्छेदः प्राणायामः । रेचकपूरककुम्भकेष्वस्ति श्वासप्रश्वासयोर्गति- विच्छेद इति प्राणायामसामान्यलक्षणमेतदिति । तथाहि---यत्र बाह्यो वायुराचम्यान्तर्धार्यते पूरके तत्रास्ति श्वासप्रश्वासयोर्गतिविच्छेदः । यत्रापि कौष्ठयो वायुर्विरेच्य बहिर्धार्यते रेचके तत्रास्ति श्वासप्रश्वासयोगतिविच्छेदः । एवं कुम्भकेऽपीति । तदेतद्भाष्येणोच्यते-- सत्यासनेति ॥ १९॥ प्राणायामविशेषत्रयलक्षणपरं सूत्रमवतारयति-स त्विति । बाह्याभ्यन्तरस्तम्भवृत्तिर्देशकालसंख्याभिः परिदृष्टो दीर्घसूक्ष्मः । वृत्तिशब्दः प्रत्येकं संबध्यते । रेचकमाह-~-यत्र प्रश्वासेति । पूरकमाह-यत्र श्वासेति । कुम्भकमाह---तृतीय इति । तदेव स्फुटयति---यत्रोभयोः श्वासप्रश्वासयोः सकृदेव विधारकात्प्रयत्नादभावो भवति न पुनः पूर्ववदापूरणप्रयत्नौघविधारकप्रयत्नो नापि रेचकप्रयत्नौघवि- धारकार्यत्नोऽपेक्ष्यते । किंतु यथा तप्त उपले निहितं जलं परिशुध्यत्सर्वतः संकोचमापद्यत एवमयमपि मारुतो वहनशीलो बलवद्विधारकप्रयत्ननिरुद्भक्रियः शरीर

एव सूक्ष्मीभूतोऽवतिष्ठते नतु पूरयति येन पूरकः । न तु रेचयति येन रेचक इति ।

[३८]

दृष्टा इयानस्य विषयो देश इति । कालेन परिदृष्टाः क्षणानामियत्तावधारणेनावच्छिन्ना इत्यर्थः । संख्याभिः परिदृष्टा एतावद्भिः श्वासप्रश्वासैः प्रथम उद्घातस्तद्वन्निगृहीतस्यैतावद्भि-

र्द्वितीय उद्घात एवं तृतीयः । एवं मृदुरेवं मध्य एवं तीव्र इति

संख्यापरिदृष्टः । स खल्वयमेवमभ्यस्तो दीर्घसूक्ष्मः ॥ ५०.॥

बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः ॥ ५१॥

देशकालसंख्याभिर्बाह्यविषयपरिदृष्ट आक्षिप्तः । तथाऽऽभ्य-

न्तरविषयपरिदृष्ट आक्षिप्तः । उभयथा दीर्घसूक्ष्मः । तत्पूर्वको

भूमिजयात्क्रमेणोभयोर्गत्यभावश्चतुर्थः प्राणायामः । तृतीयस्तु


इयानस्य देशो विषयः प्रादेशवितस्तिहस्तादिपरिमितो निवातप्रदेश ईषीकातूलादिक्रिया-

नुमितो बाह्य एवमान्तरोऽप्यापादतलमामस्तकं पिपीलिकास्पर्शसदृशेनानुमितः स्पर्शेन ।

निमेषक्रियावच्छिन्नस्य कालस्य चतुर्थो भागः क्षणस्तेषामियत्तावधारणेनावच्छिन्नः । स्वजा-

नुमण्डलं पाणिना त्रिः परामृश्य च्छोटिकावच्छिन्नः कालो मात्रा ताभिः षट्त्रिंशता

मात्राभिः परिमितः प्रथम उद्घातो मृदुः । स एव द्विगुणीकृतो द्वितीयो मध्यमः । स एव

त्रिगुणीकृतस्तृतीयस्तीव्रः । तमिमं संख्यापरिदृष्टं प्राणायाममाह --संख्याभिरिति

स्वस्थस्य हि पुंसः श्वासप्रश्वासक्रियावच्छिन्नेन कालेन यथोक्तम्छोटिकाकालः समानः ।

प्रथमोद्धातकर्मतां नीत उद्धातो विजितो वशीकृतो निगृहीतः । क्षणानामियत्ता कालो

विवक्षितः । श्वासप्रश्वासेयत्ता संख्येति कथंचिद्भेदः । स खल्वयं प्रत्यहमभ्यस्तो दिवस-

पक्षमासादिक्रमेण देशकालपचयव्यापितया दीर्घः । परमनैपु ण्यसमधिगमनीयतया च सूक्ष्मो

न तु मन्दतया ॥ ५० ॥

एवं त्रयो विशेषाः लक्षिताः । चतुर्थ लक्षयति बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः

व्याचष्टे -देशकालसंख्याभिरिति । आक्षिप्तोऽभ्यासरशीकृताद्रूपादवरोपितः सोऽपि

दीर्घसूक्ष्म एव तत्पूर्वको बाह्याभ्यन्तरविषयप्राणायामो देशकालसंख्यादर्शनपूर्वकः । न

चासौ चतुर्थस्तृतीय इव सकृत्प्रयत्नादाय जायते किं त्वन्यस्यमानस्तां तानवस्थामापन्नस्तत्तदवस्थाविज पानुक्रमेण भवतीत्याह- भूमि जयादिति । ननूभयोर्गत्यभावः सम्भ-

वृत्तावप्यस्तीति कोऽस्मादस्य विशेष इत्यत आह-तृतीय इति । अनालोचनपूर्वः सकृ. [३९] "विषयानालोचितो गत्यभावः सकृदारब्ध एव देशकालसं- ख्याभिः परिदृष्टो दीर्घसूक्ष्मः| चतुर्थस्तु श्वासप्रश्वासयोर्विष- यावधारणात्क्रमेण भूमिजयादुभयाक्षेपपूर्वको गत्यभावश्चतुर्थः प्राणायाम इत्ययं विशेष इति ॥ ५१॥|}}

ततः क्षीयते प्रकाशावरणम् ॥ ५२ ॥|}}
प्राणायामानभ्यस्यतोऽस्य योगिनः क्षीयते विवेकज्ञाना-

वरणीयं कर्म । यत्तदाचक्षते--महामोहमयेनेन्द्रजालेन प्रकाश- शीलं सत्त्वमावृत्य तदेवाकार्ये नियुङ्वत इति । तदस्य प्रकाशावरणं कर्म संसारनिबन्धनं प्राणायामाभ्यासाद्दुर्बलं भवति प्रतिक्षणं च क्षीयते । तथाचोक्तम्---"तपो न परं प्राणायामात्ततो विशुद्धिर्मलानां दीप्तिश्च ज्ञानस्य" इति ॥ ५२ ॥}} प्रयत्ननिर्वर्तितस्तृतीयः । चतुर्थस्त्वालोचनपूर्वो बहुप्रयत्ननिर्वर्तनीय इति विशेषः । तयोः पूरकरेचकयोर्विषयोऽनालोचितोऽयं तु देशकालसंख्याभिरालोचित इत्यर्थः ।। ५१ ॥}} प्राणायामस्यावान्तर प्रयोजनमाह--ततः क्षीयते प्रकाशावरणम् । आव्रीयतेऽनेन बुद्धिसत्त्वप्रकाश इत्यावरणं क्लेशः पाप्मा च । व्याचष्टे--प्राणायामानिति । ज्ञायतेऽनेनेति ज्ञानं बुद्धिसत्त्वप्रकाशो विवेकस्य ज्ञान विवेकज्ञानम् । विवेकज्ञानमावृणोतीति विवेकज्ञानावरणीयम् । भव्यगेयप्रवचनीयादीनां (पा०स०३।४।६८) कतरि निपातनस्य प्रदर्शनार्थत्वात्कोपनीयरञ्जनीयवदत्रापि कर्तरि कृत्यप्रत्ययः । कर्मशब्देन तज्जन्यमपुण्यं तत्कारणं क्लेशं [ च ' लक्षयति । अत्रैवाऽऽगमिनामनुमतिमाह-यत्तदाचक्षत इति । महामोहो रागः, तदविनिर्भागवर्तिन्यविद्याऽपि तद्ग्रहणेन गृह्यते । अकार्यमधर्मः । ननु प्राणायाम एव चेत्पाप्मानं क्षिणोति कृतं तर्हि तपसेत्यत आह-दुर्बलं भवतीति । न तु सर्वथा क्षीयतेऽतस्तत्प्रक्षयाय तपोऽपेक्ष्यत इति । अत्राप्यागमिनामनुमतिमाह-तथा चोक्तमिति| मनुरप्याह- प्राणायामैर्दहेद्दोषान्” ( मनुस्मृ० ६।७२ ) इति । प्राणायामस्य योगाङ्गता विष्णुपुराणोक्ता-}} सू० ५३-५४ ] पातञ्जलयोगसूत्राणि । . . कि च-- धारणासु च योग्यता मनप्तः ॥ ५३ ॥ प्राणायामाभ्यासादेव । “ प्रच्छर्दनविधारणाभ्यां वा प्राण- म्य" इति वचनात् ॥ ५३॥ अथ कः प्रत्याहारः-- स्वविषयासंप्रयोगे चित्त[४०]स्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः ॥ ५४ ॥ स्वविषयसंप्रयोगाभावे चित्तस्वरूपानुकार इवेति, चित्तनि- रोधे चित्तवनिरुद्धानीन्द्रियाणि नेतरेन्द्रियजयवदुपायान्तरमपे- क्षन्ते । यथा मधुकररा[४१]जं मक्षिका उत्पतन्तमनूत्पतन्ति निविश- "प्राणाख्यमनिलं वश्यमभ्यासाकुरुते तु यः । प्राणायामः स विज्ञेयः सबीजोऽबीज एव च ।। परस्परेणाभिभवं प्राणापानौ यदाऽनिलौ । कुरुतस्तद्विधानेन तृतीयं संयमात्तयोः " (वि०पु० ६७/४०४१ ) इति ॥ ५२ ॥ किं च धारणासु च योग्यता मनसः । प्राणायामो हि मनः स्थिरीकुर्व- न्धारणासु योग्यं करोति ॥ ५३ ॥ ___तदेवं यमादिभिः संस्कृतः संयमाय प्रत्याहारमारभते । तर, लक्षणसूत्रमवतारयितुं पृच्छति-अथेति । स्वविषयासंप्रयोगे चि[४२]त्तस्वरूपानुकार इन्द्रियाणां प्रत्या- हारः । चित्तमपि मोहनीयरञ्जनीयकोगायः शब्दादिभिर्विषयैर्न संप्रयुज्यते तदसंप्रयोगा- च्चक्षुरादीन्यपि न संप्रयुज्यन्त इति सोऽयमिन्द्रियाणां चित्तस्वरूपानुकारः । यत्पुनस्तत्वं चित्तमभिनिविशते न त[४३]दिन्द्रियाणि बाये[४४]विषया[४५]णीत्यननुकारोऽपि । अत उक्तमनुकार इवेति । स्वविषयासंप्रयोगस्य साधारणस्य धर्मस्य चित्तानुकारनिमित्तत्वं सप्तम्या दर्श- यति-स्वेति । अनुकारं विवृणोति-चित्तनिरोध इति । द्वयोनिरो[४६]धहेतुश्च प्रयत्नस्तुल्य इति सादृश्यम् । अत्रैव दृष्टान्तमाह-यथा मधुकरराजमिति । दान्तिके १ के. ग. घ. ङ. च. छ. 'त्तस्य स्व । २ क. गजानं म । ३ क. 'तस्य स्व । ४ क. झ. तन्द्रियाणां बा'। ख. तत्रेन्द्रियाणामनुकारो विषयाणाम् । अ। ५क, 'यवि. षयवि । ६ क. "याणामन । झ. 'याण मनु । ७ क. रोये निरधिहेती च प । ज.

  • रोधानिरोध° १८ क, राजानमि ।

११६ वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि- [ २ साधनपादे--

मानमनु निविशन्ते तथेन्द्रियाणि चित्तनिरोधे निरुद्धानीत्येष
प्रत्याहारः ॥ ५४॥
ततः परमा वश्यतेन्द्रियाणाम् ॥ ५५ ॥}}

( इति श्रीपतञ्जलिविरचितयोगसूत्रेषु दितीयः साधनपादः ॥ २॥)

शब्दादिष्वव्यसनमिन्द्रियजय इति केचित् । सक्तिर्व्यसनं व्यस्यत्येनं श्रेयस इति । अविरुद्धा प्रतिपत्तिर्न्याय्या । शब्दादिसंप्रयोगः स्वेच्छयेत्यन्ये । रागद्वेषाभावे सुखदुःखशून्यं शब्दादि- ज्ञानमिन्द्रियजय इति केचित् । चित्तैकाग्र्यादप्रतिपत्तिरेवेति जैगीषव्यः । ततश्च परमा त्वियं वश्यता यच्चित्तनिरोधे निरु-


योजयति--तथेति । अत्रापि विष्णुपुराणवाक्यम्----

"शब्दादिष्वनुपक्तानि निगृह्याक्षाणि योगवित् ।}}
कुर्याच्चिातानुकारीणि प्रत्याहारपरायणः " ॥ (वि० पु० ६७४३)

तस्य प्रयोजनं तत्रैव दर्शितम्---

"वश्यता परमा तेन जायते निश्चलात्मनाम् ।
इन्द्रियाणामवश्यस्तैर्न योगी योगसाधक:"

(वि. पु० ६१७४४ ) इति ॥ ५४ ॥

अस्यानुवादक सत्रम्-ततः परमा वश्यतेन्द्रियाणाम् । ननु सन्ति किमन्या अपरमा इन्द्रियाणां वश्यता या अपेक्ष्य परमेयमुच्यते, अद्धा ता दर्शयति-~-शब्दादिष्विति। एतदेव विवणोति सक्ती रोगो. व्यसनम् । कया व्युपत्त्या, व्यस्यति क्षिपति निरस्यस्थेनं श्रेयस इति । तदभावोऽव्यसनं वश्यता । अपरामपि वश्यतामाह- अविरुद्धा श्रुत्याद्यविरुद्धशब्दादिसेवनं तद्विरुद्धेष्वप्रवृत्तिः, सैव न्याय्या न्यायादनपेता यतः । अपरामपि वश्यतामाह-~~-शब्दादिसंप्रयोग इति । शब्दादिष्विन्द्रियाणा संप्रयोगः स्वेच्छया भोग्येषु खल्वयं स्वतन्त्रो न भोग्यतन्त्र इत्यर्थः । अपरामपि वश्यतामाह----रागद्वेषाभावे सुखदुःखशून्यं माध्यस्थ्येन शब्दादिज्ञानमित्येके । सूत्रकाराभिमतां वश्यतां परमर्षिसंमतामाह-चित्तस्यैकाश्यात्सहेन्द्रियैरप्रवृत्तिरेव शब्दादिष्विति जैगीषव्यः । अस्याः परमतामाह-परमा त्विति । तुशब्दो वश्य- तान्तरेभ्यो विशिनष्टि । वश्यतान्तराणि हि विषयाशीविषसंप्रयोगशालितया क्लेशविषसंपर्कशङ्का नापक्रामन्ति । न हि विषविद्यावित्प्रकृष्टोऽपि वशीकृतभुजंगमो भुजंगमभङ्के निधाय स्वपिति विश्रब्धः । इयं तु वश्यता विदूरीकृतनिखिलविषयस्यतिषङ्गा

सू० ५५ पातञ्जलयोगसूत्राणि। ११७

               द्धानीन्द्रियाणि नेतरेन्द्रियजयक्त्मयत्नकृतमुपायान्तरमपेक्षन्ते
               योगिन इति ॥ ५५ ॥
                 इति श्रीपातञ्जले सांख्यप्रवचने योगशास्त्रे श्रीमव्यास-
                        भाष्ये द्वितीयः साधनपादः ॥२॥
         -----------------------------------------------------------
          निराशङ्कतया परमेत्युच्यते । नेतरेन्द्रियजयवदिति । यथा यतम्पनसंज्ञायामेके-
          न्द्रियजयेऽपीन्द्रियान्तरजयाय प्रयत्नान्तरमपेक्षन्ते नचैवं चित्तनिरोधे बाह्येन्द्रियनिरोधाय
          प्रयत्नान्तरापेक्षेत्यर्थः ।। ५५ ।।
                        क्रियायोगं जगौ क्लेशान्विपाकान्कर्मणाभिह् ।
                        तदुःखत्वं तथा व्यूहान्पादे योगस्य पञ्चकम् ॥ इति ॥ १ ॥
                   इति श्रीवाचस्पतिमिश्रविरचितायां पातञ्जलयोगसूत्रभाष्यव्याख्यायां
                                 द्वितीयः साधनपादः ॥ २ ॥
                                     ---------







          ------------------------------------------------------------                
                                    १ ख. ज. नैवं ।                                                                                          वाचस्पतिकृटिकासंवलितव्यासभाष्यसमेतानि
                                                                                                     पातञ्जलयोगसूत्राणि ।
                                                                                                             --------
                                                                                                   (तत्र तृतीयो विभूतिपादः ।)
                                                                              उक्तानि पञ्च बहिरङ्गानि(णि) साधनानि । धारणा वक्तव्या- .
                                                                                                 देशबन्धश्चित्तस्य धारणा ॥ १ ॥
                                                                              नाभिचक्रे हृदयपुण्डरीके मूर्ध्नि ज्योतिपि नासिकाग्रे जिह्वाग्र
                                                                              इत्येवमादिषु देशेषु बाह्ये वा विषये चित्तस्य वृत्तिमात्रेण बन्ध
                                                                              इति धारणा ॥१॥
                                                                 --------------------------------------------------------------------------------
                                                                         प्रथमद्वितीयशदाम्यां समाधिस्तत्साधनं चोक्तम् । तृतीयपादे तत्प्रवृत्त्यनुगणाः
                                                                    श्रद्धोत्पादहेतवो विभूतयो वक्तव्याः । ताश्च संयमसाध्याः । संयमश्च धारणाध्यान-
                                                                    समाधिसमुदाय इति विभूतिसाधनतया पश्चभ्यश्च योगाङ्गेभ्यो बहिरङ्गेभ्योऽस्याङ्गत्र-
                                                                    यस्यान्तरङ्गतया विशेषज्ञापनार्थमत्र त्रयस्योपन्यासः । तत्रापि च धारणाध्यानसमाधीनां
                                                                    कार्यकारणभावेन नियतपौर्वापर्यत्वात्तदनुरोधेनोपन्यासे क्रम इति प्रथमं धारणा लक्षणी.
                                                                    येत्याह ---उक्तानीति । देशबन्धश्चित्तस्य धारणा । आध्यात्मिकदेशमाह-नाभि-
                                                                    चक्र इति । आदिशब्देन ताल्वादयो ग्राह्याः । बन्धः संबन्धः । बाह्यदेशमाह-बाह्य
                                                                    इति । बाह्ये च न स्वरूपेण चित्तस्य संबन्धः संभवतीत्युक्तं वृत्तिमात्रेण ज्ञानमात्रणेति।
                                                                    अत्रापि पुराणम्---" प्राणायामेन पवनं प्रत्याहारेण चेन्द्रियम् ।
                                                                                       वशीकृत्य ततः कुर्याञ्चित्तस्थानं शुभाश्रये " ॥ [वि०पु०६७/४५],
                                                                          शुभाश्रया बाह्या हिरण्यगर्भवासवप्रजापतिप्रभृतयः ।
                                                                    इदं च तत्रोक्तम्---" मूर्त भगवतो रूपं सर्वोपाश्रयनिःस्पृहम् ।
                                                                                             एषा वै धारणा शेया यश्चित्तं तत्र धार्यते ।।
                                                                                             तच्च मूर्त हरे रूपं यद्विचिन्त्यं नराधिप ।
                                                                                             तच्छ्यतामनाधारा धारणा नोपपद्यते ।।
                                                                                             प्रसन्नवदनं चारुपद्मपत्रनिभेक्षणम् ।
                                                                                             सुकपोलं सुविस्तीर्णललाटफलकोज्ज्वलम् ।।
                                                                                             समकर्णान्तविन्यस्तचारुकुण्डलभूषणम् ।
                                                                                             कम्बुग्रीवं सुविस्तीर्णश्रीवत्साङ्कितवक्षसम् ॥
                                                                                             वलीविभङ्गिना मग्ननाभिना चोदरेण च ।
                                                                                             प्रलम्बाष्टभुजं विष्णुमथ याऽपि चतुर्भुजम् ॥             
         सू. २-३]       पातञ्जलयोगसूत्राणि ।
   
                   तत्र प्रत्ययैकतानता ध्यानम् ॥ २ ॥
               तस्मिन्देशे ध्येयालम्बनस्य प्रत्ययस्यैकतानता सहशः प्रवाहः      
              प्रत्ययान्तरेणापरामृष्टो ध्यानम् ॥ २॥
                           तदेवार्थमात्रनिर्भासं स्वरू-
                           पशून्यमिव समाधिः ॥३॥
              ध्यानमेव ध्येयाकारनिर्भासं प्रत्ययात्मकेन स्वरूपेण शून्य-
           मिव यदा भवति ध्येयस्वभावावेशात्तदा समाधिरित्युच्यते ।। ३ ॥
                   समस्थितोरुजड्घं च स्वस्तिकाङ्घ्रि॓वराम्बुजम् ।
                   चिन्तयेद्ब्रह्मभूतं तं पीतनिर्मलवाससम् ॥
                   किरीटचारुकेयूरकटकादिविभूषितम् ।
                   शार्ङ्गचक्रगदाखड्गशस्ङ क्षवलयान्वितम्॥                   
                   चिन्तयेत्तन्मयो योगी समाधायाऽऽत्ममानसम् ।
                   तावद्याबहृढीभूता तत्रैव नृप धारणा ॥
                   एतदातिष्ठतोऽन्यद्वा स्वेच्छया कर्म कुर्वतः ।
     नापयाति यदा चित्तं सिद्धां मन्येत तां तदा ” [वि०पु०६।७।७७-८५] इति ॥ १॥
      धारणासाध्यं ध्यानं लक्षयति--तत्र प्रत्ययैकतानता ध्यानम् । एकतानतै.
     काग्रता । सुगभं भाष्यम् । अत्रापि पुराणम्___                               
                     " तद्रूपप्रत्ययैकाग्र्यसंततिश्चान्यनि स्पृहा ।
        तद्भधानं प्रथमैरङ्गैः षड्भिर्निष्पाघते नृप " [वि०पु०६।७।८९] इति ॥ २ ॥
      भ्यानसाध्यं समाधि लक्षयति-तदेवार्थमात्रनिर्भासं स्वरूपशुन्यमिव समाधिः ।
     व्याचष्टे-ध्यानमेवेति । ध्येयाकारनिर्भासमिति । ध्येयाकारस्यैव निर्भासो न
     ध्यानाकारस्येति । अत एवाऽऽह-शून्यमिति । ननु शून्यं चेत्कथं ध्येयं प्रकाशेतेत्यत
      आह-इवेति । अत्रैव हेतुमाह-ध्येयस्वभावावेशादिति ।
       अत्रापि पुराणम्-" तस्यैव कल्पनाहीनं स्त्ररूपग्रहणं हि यत् ।
          मनसा ध्याननिष्पाद्यं समाधिः सोऽभिधीयते " [वि०पु०६।७।९० ] इति ॥
        ध्येयाद्दयानस्य भेदः कल्पना तद्धीनमित्यर्थः । अष्टाङ्गयोगमुक्त्वा खाण्डिक्याय
      कैशिध्वज उपसंजहार---

१ ख. च. ते ॥ ३ ॥ तत्रय । २ क. ज, झ. निकरा । ३ ख. ज. झ. याञ्चितम् ।

  त्रयमेकत्र संयमः ॥४॥
तदेतद्धारणाध्यानसमाधित्रयमेकत्र संयमः । एकविषयाणि
त्रीणि साधनानि संयम इत्युच्यते । तदस्य त्रयस्य तान्त्रिकी
परिभाषा संयम इति ॥ ४॥
तज्जयात्मज्ञालोकः ॥५॥
तस्य संयमस्य जयात्समाधिप्रज्ञाया भवत्यालोको यथा
यथा संयमः स्थिरपदो भवति तथा तथा समाधिप्रज्ञा विशारदी
भवति ॥ ५॥
तस्य भूमिषु विनियोगः ॥ ६ ॥
तस्य संयमस्य जितभूमेर्याऽनन्तरा भूमिस्तत्र विनियोगः ।

 " क्षेत्रज्ञः करणी ज्ञानं करणं तदचेतनम् ।

निष्पाद्य मुक्तिकार्य वै कृतकृत्यं निवर्तते " [वि०पु०६।७।९२] इति ॥ ३ ॥

 धारणाध्यानसमाधिरित्येतत्रयस्य तत्र तत्र नियुज्यमानस्य प्रातिस्त्रिकसंज्ञोच्चारणे गौरवं स्यादिति लाववाथ परिभाषासूत्रम+वतारयति-त्रयमेकत्र संयमः। व्याचष्टे-एकविष-याणीति ( तदेतदिति)। वाचकल्वशङ्कामपनयति-तदस्येति। तन्यते व्युत्पाद्यते योगो येन शास्त्रेण तत्तन्त्रं तद्भवा तान्त्रिकी ।संयमप्रदेशाः " परिणामत्रयसंयमात् " [ यो० सू०३।१६ ] इत्येवमादयः ॥ ४ ||

 संयमविजयस्याभ्याससाधनस्य फलमाह-तज्जयात्प्रज्ञालोकः। प्रत्ययान्तरानभिभू- तस्य निर्मलप्रवाहेऽवस्थानमालोकः प्रज्ञायाः। सुगमं भाष्यम् ॥ ५॥
 क पुनर्विनियुक्तस्य संयमस्य फलमेतदित्यत आह-तस्य भूमिषु विनियोगः । भूमि विशेषयति भाष्यकार:-तस्येति। जिताया भूमेर्याऽनन्तरा भूमिरवस्थाऽजिता तत्र विनि- योगः । स्थूलविषये सवितर्के समाधौ वशीकृते संयमेन संयमस्याविजिते निर्वितर्के विनि-योगः । तस्मिन्नपि वशीकृते सविचारे विनियोगः । एवं निर्विचारे विनियोग इत्यर्थः । अत एव स्थूलविषयसमापत्तिसिद्धौ सयां पुराणे तत्तदायुधभूगापनयेन सूक्ष्म-विषयः समाधिरवतारित:-

" ततः शड्ख्गदाचक्रशाड्गार्र्दिरहितम् बुवः|
चिन्तयेद्भगवद्रूपं प्रशान्तं साक्षसूत्रकम् ||

+ अवतारयतीन्यधिक प्रतिभाति ।

{{{1}}}

न जिताधरभूमिरनन्तरभूमिं विलय प्रान्तभूमिषु संयम लभते । तदभावाच कुतस्तस्य प्रज्ञालोकः । ईश्वरप्रसादाजितोत्तरभूमि- कस्य च नाधरभूमिषु परचिरज्ञानादिषु संयमो युक्तः । कस्मात् , तदर्थस्यान्यत एवावगतत्वात् । भूमेरस्या इयमनन्तरा भूमिरित्यत्र योग एवोपाध्यायः । कथम् । एवं युक्तम्-

" योगेन योगो शालव्यो योगो गोगात्मवर्तते ।
योऽप्रमत्तस्तु रोगेन स योगे रमते चिरम्" इति ॥६॥

[४७]

त्रयमन्तरङ्गं पूर्वयः ॥ ७ ॥

तदेतद्धारणाध्यानसमाधित्रयमन्तरङ्ग संमज्ञातस्य समाधेः
पूर्वेभ्यो यमादिभ्यः पश्चभ्यः साधनेभ्य इति ॥ ७ ॥


यदा च धारणा तस्मिन्नवस्थानवती ततः ।
किरीटकेयूरमुखैर्भुषण रहितं स्मरेत् ॥
तदैकावयवं देवं सोऽहं चेति पुनर्बुधः ।
कुर्यात्ततो ह्यहमिति प्रणिधानपरो भवेत् ” [वि०पु० ६।७.८६-८८] इति ॥

 कस्मात्पुनरधरी भूमि विजित्योत्तरां विजयते विपर्ययः कस्मान्न भवतीत्यत आहे--- न ह्यजिताधरभूमिरिति । न हि शिलाहदाद्गङ्गां प्रति प्रस्थितोऽप्राप्य भेक्वनं गङ्गा प्राप्नोति । ईश्वरप्रसादाजितोत्तरभूमिकस्य चेति कस्मात्तदर्थस्योत्तरभूमिविजयस्य प्रत्यासन्नस्यान्यत एवेश्वरप्रणिधानादेवावगतत्वात् । निष्पादितकिये कर्मध्यविशेषाधायिनः साधनस्य साधनन्यायातिपातादिति । स्यादेतदागमतः सामान्यतोऽयगतानामन्यवान्तरभू- मिभेदानां कुतः पौर्यापर्यावगतिरित्यत आह-~~भूमेरस्या इति । जितः पूर्वो योग उत्तरस्य योगस्य ज्ञानप्रवृत्त्यधिगमहेतुः । अवस्थैवावस्थावानिसभिप्रेत्यैतद्रष्टव्यम् ॥ ६ ॥
 कस्मात्पुनर्योगाङ्गत्वाविशेषेऽपि संयमस्य तत्र तत्र विनियोगो नेतरेषां पञ्चानामित्यत आह-नयमन्तरङ्ग पूर्वेभ्यः । तदिदं साधनत्रयं साध्यसमानविषयत्वेनान्तरङ्ग न त्वेवं यमादयस्तस्माते बहिरङ्गा इत्यर्थः ॥ ७ ॥


१. ख. मणिधानाजि ।२. ख. च, न्यथैवा । ३. उ. एषमुक्त।

तदपि बहिरङ्ग निर्वाजस्य ॥ ८ ॥
तदप्यन्तरङ्ग साधनत्रयं निर्बीजस्य योगस्य बहिरङ्गं भवति ।
कस्मात् , तदभावे भावादिति ।। ८॥
अथ निरोधचित्तक्षणेषु चलं गुणवृत्तमिति कीदृशस्तदा चित्त
परिणाम:--
.व्युत्थाननिरोधसंस्कारयोरभिन्न-
वप्रादुर्भावी निरोधक्षणचित्ता-
न्वयो निरोधपरिणामः ॥ ९ ॥

[४८]


साधनत्रयस्य संप्रज्ञात एवान्तरङ्गत्वं न त्वसंप्रज्ञाते तस्य निर्वाजतया तैः सह समा- नविषयत्वाभावात्तेषु चिरनिरुद्धेषु संप्रज्ञातपरमकाष्टापरनामज्ञानप्रसादरूपपरवैराग्यानन्तर. मुत्पादाचेत्याह- तदिति । तदपि बहिरङ्ग निर्वीजस्य । समानविषयत्वमन्तरङ्ग- स्वप्रयोजकमिह न तु तदनन्तरभावस्तस्य बहिरङ्गेश्वरप्रणिधानवर्तितया सव्यभिचारत्वादिति स्थिते सव्यभिचारमप्यन्तरङ्गलक्षणं तदनन्तरभावित्वमस्य नास्ति । तस्मादूरापेताऽन्तरङ्गता संयमस्यासंप्रज्ञात इति दर्शयितुं तदभावे भावादित्युक्तम् ॥ ८ ॥ ___ परिणामत्रयसंयमादित्यत्रोपयोक्ष्यमाणपरिणामत्रयं प्रतिपिपादयिषुर्निजिप्रसङ्गेन पृच्छति- अथेति । व्युत्थानसंप्रज्ञातयोश्चित्तस्य स्फुटतरपरिणामभेदाचयानुभवान्न प्रश्नावतारो निरोधे तु नानुभूयते परिणामः । न चाननुभूयमानो नास्ति, चित्तस्य त्रिगुणतया चलत्वेन गुणानां क्षणमप्यपरिणामस्यासंभवादित्यर्थः । प्रश्नोत्तरं सत्रम् -व्युत्थाननिरोधसंस्कार- योरभिभवप्रादुर्भावौ निरोधक्षणचित्तान्वयो निरोधपरिणामः । असंप्रज्ञातं समाधिमपेक्ष संत्रज्ञातो व्युत्थानम् । निरुध्यतेऽने ति निरोधो ज्ञानमसादः परं वैराग्यं तयोर्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ । तत्र व्युत्थानसंस्कारस्याभिभवो निरोध. संस्कारस्याऽऽविर्भावश्चित्तस्य धर्मिणो निरोक्क्षणय निर धावसरस्य द्वयोरवस्थयोरन्धयः । नहि चित्तं धर्मि संप्रज्ञातावस्थायामसंप्रज्ञातावस्थायां च संस्काराभिभवप्रादुर्भावयोः स्वरूपेण भिद्यत इति । ननु यथोत्तरे क्लेशा अविद्यामूला अविद्यानिवृत्तौ निवर्तन्त इति न तु तन्निवृत्तौ पृथक्प्रयत्नान्तरमास्थीयत एवं व्युत्थानप्रत्ययमूलाः संस्कारा व्युत्थान प्रत्ययनिवृत्तावेष ४ तदितीत्यधिकम् ।

व्युत्थानसंस्काराश्चित्तधर्मा न ते प्रत्ययात्मका इति प्रत्य-
यनिरोधे न निरुद्धा निरोधसंस्कारा अपि चित्तधर्मास्तयो-
रभिभवप्रादुर्भावी व्युत्थानसंस्कारा हीयन्ते. निरोधसंस्कारा
आधीयन्ते । निरोधक्षणं चित्तमन्वेति तदेकस्य चित्तस्य प्रति-
क्षणमिदं संस्कारान्यथात्वं निरोधपरिणामः । तदा संस्कारशेष
चित्तमिति निरोधसमाधौ व्याख्यातम् ॥ ९॥
तस्य प्रशान्तवाहिता संस्कारात् ॥१०॥
निरोधसंस्काराभ्यासपाटवापेक्षा प्रशान्तवाहिता चित्तस्य
भवति । तत्संस्कारमान्ये व्युत्थानधर्मिणा संस्कारेण निरोधधै-
मसंस्कारोऽभिभूयत इति ॥ १०॥
सर्वार्थतैकाग्रतयोः क्षयोदयौ चि-
तस्य समाधिपरिणामः ॥ ११॥
सर्वार्थता चित्तधर्मः । एकाग्रताऽपि चित्तधर्मः । सर्वार्थ-
तायाः क्षयस्तिरोभाव इत्यर्थः । एकाग्रताया उदय आविर्भाव

[४९]


निवर्तन्त इति तन्निवृत्तौ न निरोधसंस्कारोऽपेक्षितव्य इत्यत आह-व्युत्थानसंस्कारा इति । न कारणमात्रनिवृत्तिः कार्यनिवृत्तिहेतुर्मा भुत्कुविन्दनिवृत्तावपि पटस्य निवृत्तिरपि तु यत्कारणात्मकं यत्कार्य तत्कारणनिवृत्तौ तत्कार्यनिवृत्तिः । उत्तरे च क्लेशा अविद्यात्मान इत्युक्तमतस्तनिवृत्तौ तेषां निवृत्तिरुपपन्ना । न त्वेवं प्रत्ययात्मानः संस्काराश्चिरनिरुद्वे प्रत्यये संप्रति स्मरणदर्शनात् । तस्मात्प्रत्ययनिवृत्तावपि तन्निवृत्तौ निरोधसंस्कारप्रचय एवोपासनीय इत्यर्थः । सुगममन्यत् ॥ ९ ॥ सर्वथा व्युत्थानसंस्काराभिभवे तु बलवता निरोधसंस्कारेण चित्तस्य कीदृशः पार. णाम इत्यत आह-तस्य प्रशान्तवाहिता संस्कारात् । व्युत्थानसंस्कारमलरहितनिरो. धसंस्कारपरम्परामात्रवाहिता प्रशान्तवाहिता । कस्मात्पुनः संस्कारपाटवमपेक्षते न तु संस्कारमात्रमित्यत आह-तत्संस्कारमान्य इति । तदिति निरोधं परामृशति । ये तु नाभिभूयत इति पठन्ति ते तदा व्युत्थानं परामशन्ति ॥ १० ॥ संप्रज्ञातसमाधिपरिणामावस्थां चित्तस्य दर्शयति---सर्वार्थतकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः । विक्षिप्तता सर्वार्थता । सन्न विनश्यतति क्षयस्तिरोभावो

नासदुत्पद्यत इति उदय आविर्भावः । स्वात्मभूतयोः सर्वार्थतैकाग्रतयोर्धर्मयोर्यावपायो

इत्यर्थः । तयोधर्मित्वेनानुगतं चित्तं, तदिदं[५०] स्वात्मभूतयोधर्मयोरनुगतं समाधीयते स चित्तस्य समाधिपरि- णामः ॥ ११ ॥

ततः पुनः शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः ॥ १२ ॥

समाहितचित्तस्य पूर्वप्रत्ययः शान्त उत्तरस्तत्सदृश उदितः, समाधिचित्तमुभयोरनुगतं पुनस्तथैवाऽऽसमाधिभ्रेषादिति । स खल्वयं धर्मिणश्चित्तस्यैकाग्रतापरिणामः ॥ १२ ॥

एतेन तेन्द्रियेषु धर्मलक्षणावस्था.

परिणामा व्याख्याताः ॥ १३ ॥

एतेन पूर्वोक्तेन वित्तपरिणामेन धर्मलक्षणावस्थारूपेण भूतेन्द्रियेषु धर्मपरिणामो लक्षणपरिणामोऽवस्थापरिणामश्चोक्तो वेदितव्यः । तत्र व्युत्थामनिरोधयोरभिभवप्रादुर्भावौ धर्मिणि धर्मपरि-

पजनौ सर्वार्थताया अपाय एकाग्रताया उपजनस्तयोरनुगते चित्तं समाधीयते पूर्वापरीभूतमाध्यमानसमाधिविशेषणं भवतीति ॥ ११॥

 ततः पुनः शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः ।

पुनः समाधेः [५१] अवस्थायाः समाधिनिष्पत्तौ सत्यां शान्तोदितावतीतवर्तमानौ, तुल्यौ च तौ प्रत्ययौ चेति तुल्यात्ययौ । एकाग्रतायां तु द्वयोः सादृश्यम् । समाहितचित्तस्येति. समाधिनिष्पत्तिदर्शिता । तथैवैकाग्रमेव । अवधिमाह-आसमाधिभ्रेषाद्भंशादिति॥१२॥

 प्रासङ्गिकं च वक्ष्यमाणौपयिकं च भूतेन्द्रियपरिणाम विभजते-एतेन भूतेन्द्रि- येषु धर्मलक्षणावस्थापरिणामा व्याख्याताः । ब्याचष्टे-एतेनेति । ननु चित्तपरिणतिमानमुक्तं न तु तत्प्रकारा धर्मलक्षपावस्थापरिणामास्तत्कथं तेषामतिदेश इत्यत आह-तत्र व्युत्थाननिरोधयोरिति । धर्मलक्षणावस्थाशब्दाः परं नोच्चारिता नतु धर्मरक्षणावस्थापरिणामा नोक्ता इति संक्षेपार्थः । तथाहि न्युत्थाननिरोधसंस्कारयो- रित्यत्रैव सूत्रे धर्मपरिणाम उक्तः । इमं च धर्मपरिणाम दर्शयता सेनैव धर्माधिक णामः । लक्षणपरिणामश्च । निरोधस्त्रिलक्षणत्रिभिरध्वभिर्युक्तः । स खल्वनागतलक्षणमध्वानं.प्रथमं हित्वा धर्मत्वमनतिक्रान्तो वर्तमानलक्षणं प्रतिपन्नः। यत्रास्य स्वरूपेणाभिव्यक्तिः। एषोऽस्य द्वितीयोऽध्वा । न चातीवानागताभ्यां लक्षणाभ्यां 'वियुक्तः। तथा व्युत्थानं विलक्षणं निभिरध्वभिर्युक्तं वर्तमानलक्षणं हित्वा धर्मत्वानतिक्रान्तमतीतलक्षणं प्रतिपन्नम् । एषोऽस्य तृतीयोऽध्वा । न चानागलवर्तमानान्यां लक्षणाभ्यां वियुक्तम् । एवं पुनर्व्युत्थानापसंपच्यमानएनागतलक्षणं हित्वा धर्मत्वमनतिक्रान्तं वर्तमानलक्षणं प्रतिपन्नम् । यत्रास्य स्वरूपाभिव्यक्तौ सत्यां व्यापारः । एषोऽस्य द्वितीयोऽध्वा । न चातीतानागताभ्यां लक्षणाभ्यां वियुक्तमिति । एवं पुनर्निरोध एवं पुनर्व्युत्थान- मिति । रणो लक्षणपरिणामोऽपि सूचित एवेत्याह-लक्षणपरिणाम इति । लक्ष्यतेऽनेनेति लक्षणं कालभेदः । तेन हि लक्षितं वस्तु वस्त्वन्तरेभ्यः कालान्तरयुक्तेभ्यो व्यवच्छिद्यत इति । निरोधस्त्रिलक्षणः । अस्यैव व्याख्यानं निभिरध्वभिर्युक्तः । अध्वशब्दः कालवचनः । स खल्वनागतलक्षणमध्वानं प्रथसं हित्वा, तस्किमध्ववद्धर्मामष्यतिपतति नेत्याह--धर्मत्वमनतिक्रान्तो वर्तमानलक्षणं प्रतिपन्नः । य एव निरोधोऽनागत आसीत्स एव संप्रति वर्तमानो नतु निरोधोऽनिरोध इत्यर्थः । वर्तमानास्वरूपव्याख्यानम्-यत्रास्य स्वरूपेण स्वोचितार्थलियाकारिणौ रूपेणाभिव्यक्तिः समुदाचारः । एषोऽस्य प्रथममनायतमध्वानमपेक्ष्य द्वितीयोऽध्या । स्यादेतदनागतमध्वानं हित्वा चेद्वर्तमानतामापन्नस्तां च हित्वाऽतीततामापत्स्यते हन्त भोरध्वनामुत्पादविनाशौ स्याताम् । न चेष्येते, न ह्यसत उत्पादो नापि सतो विनाश इत्यत आह-न चातीसानागताभ्यां सामान्यात्मनाऽवस्थिताभ्यां वियुक्त इति ।। __ अनागतस्य निरोधत्व वर्तमानतालक्षणं दर्शयित्वा वर्तमानव्युत्थानस्यातीततां ततीय- मध्वानमाह-~-तथा व्युत्थानमिति । तत्किं निरोध एवानागतो न व्युत्थानं नेत्याह--- एवं पुनर्युत्थानमिति । व्युत्थान जात्यपेक्षया पुनर्भावो न व्यक्त्यपेक्षया । न ह्यतीतं पुनर्भवतीति । स्वरूपाभिव्यक्तिरर्थक्रियाक्षमस्याऽऽविर्भावः । स चैवंलक्षणपरिणाम उक्तस्तज्जातीयेषु पौन:पुन्येन वर्तत इत्यत आह-एवं पुनरिति । १ ग. घ. छ. च. मान ल° । २ ख. ग. प. उ. च. मानं ल' । ३ म. घ. ह. च. मान ल । ४ व. तारूप । ५ क. ख, झ. °णा स्वरू । ६ क. ख. न. चेष्यते ।

 

तथाऽवस्थापरिणामः[५२] । तत्र निरोधक्षणेषु निरोधसंस्कारा
बलवन्तो भवन्ति दुबैला व्युत्थानसंस्कारा इति । एष धर्मा-
णामवस्थापरिणामः । तत्र धर्मिणो धर्मः परिणामो धर्माणां
व्यध्वनां लक्षणैः परिणामो लक्षणानाम यवस्थाभिः परिणाम
इति । एवं धर्मलक्षणावस्थापरिणामैः शून्यं न क्षणमपि गुण-
वृत्तमवतिष्ठते । चलं च गुणवृत्तम् । गुणस्वाभाव्यं तु प्रवृत्तिका-
रणमुक्तं गुणानामिति । एतेन भूतेन्द्रियेषु धर्मधर्मिभेदात्रिविधः
परिणामो वेदितव्यः।

 परमार्थतस्त्वेक एव परिणामः । धर्मिस्वरूपमात्रो हि धर्यो ।

 धर्मपरिणामसूचितमेवावस्थापरिणाममाह-तथेति । धर्माणां वर्तमानावनां बल-- वत्त्वाबलवत्त्वे अवस्था तस्याः प्रतिक्षणं तारतम्यं परिणामः । उपसंहरति-एष इति । परिणामभेदानां संवन्धिभेदानिर्धारयति-तत्रानुभवानुसाराद्धर्मिण इति । तस्किमेत्र परिणामो गुणानां कादाचित्को नेत्याह-एवमिति । कस्मात्पुनरयं परिणामः सदातन इत्यत आह-चलं चेति । चो हेत्यर्थः । वृत्तं प्रचारः । एतदेव कुत इत्यत आह- गुणस्वाभाव्यमिति । उक्तमत्रैव पुरस्तात् । सोऽयं त्रिविधोऽपि चित्तपरिणामो भूते- न्द्रियेषु सूत्रकारेण निर्दिष्ट इत्याह – एतेनेति । एष धर्म[५३]परिणामभेदो धर्मधर्मिणोर्मेंदमा- लक्ष्य । तत्र भूतानां पृथिव्यादीनां धर्मिणां गवादिर्घटादिर्वा धर्मपरिणामः । धर्माणां चातीतानागतवर्तमानरूपता लक्षणपरिणामः । वर्तमा[५४]नलक्षणापन्नस्य गवादेर्वाल्पकौमार- यौवनवार्धक्यमवस्थापरिणामः । घटादीनामपि नवपुरातनताऽवस्थापरिणामः । एवमिन्द्रि- याणामपि धर्मिणां तत्तन्नीलाद्यालोचनं धर्मपरिणामो धर्मस्य वर्तम,ता[५५]दिलक्षणपरिणामो वर्तमान[५६]लक्षणस्य रत्नाद्यालोचनस्य स्फुटत्वास्फुटत्वादिरवस्थापरिणामः । सोऽयमेवंविधो भूतेन्द्रियपरिणामो धर्मिणो धर्मलक्षणावस्थानां भेदमाश्रित्य वेदितव्यः।

 अभेदमाश्रित्याऽऽह-परमार्थतस्त्विति । तुशब्दो भेदपक्षाद्विशिनष्टि । पारमा- र्थिकत्वमस्य ज्ञाप्यते न त्वन्यस्य परिणाम[५७]त्वं निषिध्यते । कस्मात्-~-धर्मिस्वरूप- मात्रो होति । ननु यदि धर्मिविक्रियैव धर्मः कथमसंकरप्रत्ययो लोके परिणामेष्वि. धर्मिविक्रियैवैषा धर्मद्वारा प्रपञ्च्यत इति । तत्र धर्मस्य धर्मिणि वर्तमानस्यैवाध्वस्वतीतानागतवर्तमानेषु भावान्यथात्वं भवति न तु द्रव्यान्यथात्वम् । यथा सुवर्णभाजनस्य भित्त्वाऽन्यथाक्रिय- माणस्य भावान्यथात्वं भवति न सुवर्णान्यथात्वमिति ।

अपर आह-धर्मानभ्यधिको धर्मी पूर्वतत्त्वानतिक्रमात् ।

पूर्वापरावस्थाभेदमनुपतितः कौटस्थ्येनैव परिवर्तेत यद्यन्वयी स्यादिति ।

अयमदोषः । कस्मात् । एकान्ततानभ्युपगमात् । तदेतत्रै-


त्यत आह-धर्मद्वारेति । धर्मशब्देन धर्मलक्षणावस्थाः परिगृह्यन्ते । तद्द्वारेण धर्मिण एवं विक्रियेत्येका चासंकीर्णा चै । तद्द्वाराणामभेदेऽपि * धर्मिणः परस्परसंकरात् । + ननु धर्माणामभिन्नत्वे x धर्मिणोऽध्वनां च भेदे धर्मिणोऽनन्यत्वेन धर्मेणापीह धर्मिव- द्भवितव्यमित्यत आह-तत्र धर्मस्येति । भावः संस्थानभेदः । सुवर्णादेर्यथा भाज- नस्य रुचकस्वस्तिकव्यपदेशभेदो भवति तन्मात्रमन्यथा भवति न तु द्रव्यं सुवर्णमसुवर्ण- तामुपैति अत्यन्तभेदाभावादिति ।
 जवक्ष्यमाणाभिसंधिरेकान्तवादिनं बौद्धमुत्थापयति-अपर आहेति । धर्मा एव हि रुचकादयस्तयोत्पन्नाः परमार्थसन्तो न पुनः सुवर्ण नाम किंचिदेकानेकेष्वनुगतं द्रव्यमिति । यदि पुनर्निवर्तमानेष्वपि धर्मेषु द्रव्यमनुगतं भवेत्ततो न चितिशक्तिवत्परिणमेतापि तु कौट. स्थ्येनैव परिवर्तत । परिणामात्मकं रूपं परिहाय रूपान्तरेण कौटस्थ्येन परिवर्तनं परिवृत्तिः । यथा चितिशक्तिरन्यथान्यथाभावं भजमानेष्वपि गुणेषु स्वरूपादप्रच्युता कूटस्थनित्यैवं सुवर्णाद्यपि स्यान्न चेष्यते । तस्मान्न द्रव्यमतिरिक्तं धर्मेभ्य इति ।
 परिहरति-अयमदोष इति । कस्मात् । एकान्ततानभ्युपगमात् । यदि चिति- शक्तेवि द्रव्यस्यैकान्तिकी चित्यतामभ्युपगच्छेम तत एवमुपालभ्येमहि । नत्वैकान्तिकी नित्यतामातिष्ठामहे किंतु तदेतत्रैलोक्यं नतु द्रव्यमानं व्यक्तरर्थक्रियाकारिणो रूपादपैति ।
 * क. पुस्तके धमिणामिति वर्तते तत्प्रामादिकम् । धर्मिण इति पञ्चम्यन्तं पूर्वान्वाये । + क. झ. पुस्तकयोः । ननु धर्मिणां धर्माणाम् । इति वियो तत्र धामणामित्यधिकमेव । ४ इई पञ्चम्यन्तं पूर्यान्वयीति पूर्ववोध्यम् । ७ क. ज. झ, पुस्तकेषु वक्ष्यमाणोऽभिसंधिरिति पाठो वर्तते स मामादिकः।


१ ग. घ. छ. च. नद्र' । २ ग, घ. ङ. च. कान्तान । ३ ख. ज. च । द्वारा। ४ ज.दोषःक। ५ ख. ज. झ. कान्तान । १२८ वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि- [३ विभूतिपादे- लोक्यं व्यक्तेरपैति नित्यत्वप्रतिषेधात् । अपेतमप्यस्ति विनाशप्रतिषेधात् । संसर्गाचास्य सौक्ष्म्यं, सौक्ष्म्याञ्चानुपलब्धिरिति । लक्षणपरिणामो धर्मोऽध्वसु वर्तमानोऽतीतोऽतीतलक्षणयु- क्तोऽनागतवमानाभ्यां लक्षणाभ्यामवियुक्तः । तथाऽनागतोऽ. नागतलक्षणयुक्तो वर्तमानातीताभ्यां लक्षणाभ्यामवियुक्तः । तथा वर्तमानो वर्तमानलक्षणयुक्तोऽतीतानागताभ्यां लक्षणाभ्यामवियुक्त इति । यथा पुरुष एकस्यां स्त्रियां रक्तो न शेषासु विरक्तो भवतीति । __ अत्र लक्षणपरिणामे सर्वस्य सर्वलक्षणयोगादध्वसंकरः कस्मान्नित्यत्वप्रतिरोधात्प्रमाणेन । यदि हि घटो व्यक्ते र्नीपेयात्कपालशर्कराचूर्णादिष्ववस्थास्वपि व्यक्तो घट इति पूर्ववदुपलब्ध्यर्थक्रिये कुर्यात्तस्मादनित्यं त्रैलोक्यम् । अस्तु तर्ह्यनित्यमेवोपलब्ध्यर्थक्रियारहितत्वेन गगनारविन्दवदतितुच्छत्वादित्यत आह-अपेतमप्यस्ति, नात्यन्ततुच्छता येनैकान्ततोऽनित्यं स्यादित्यर्थः । कस्माद्विनाशप्रतिषेधात्प्रमाणेन । तथाहि यत्तुच्छं न तत्कदाचिदप्युपलब्ध्यर्थक्रिये करोति । यथा गगनारविन्दम् । करोति चैतत्रैलोक्यं कदाचिदुपलक्ष्यर्थक्रिये इति । तथोत्पत्तिमद्द्रव्यत्वधर्मलक्षणावस्थायो- गित्वादयोऽप्यत्यन्ततुच्छगगननलिननरविषाणादिव्यावृत्ताः सत्त्वहेतव उदाहार्याः । तथाच धर्मी नात्यन्तं नित्यो येन चितिशक्तिवत्कटस्थनियः स्यास्किंतु कथंचिन्नित्यः । तथाच परिणामीति सिद्धम् । एतेन मृत्पिण्डाद्यवस्थासु कार्याणां घटादीनामनागतानां सत्त्वं वेदितव्यम् । स्यादेतत् । अपेतमपि चेदस्ति कस्मात्पूर्ववन्नोपलभ्यत इत्यत आह- संसर्गात्स्वकारणलयात्सौक्ष्म्यं दर्शनानर्हत्वं ततश्चानुपलब्धिरिति । तदेवं धर्मपरिणामं समर्थ्य लक्षणपरिणाममपि लक्षणानां परस्परानुगमनेन समर्थयते- लक्षणपरिणाम इति । एकैकं लक्षणं लक्षणान्तराभ्यां समनुगतमित्यर्थः । नन्वेकलक्षणयोगे लक्षणान्तरे नानुभूयेते तत्कथं तद्योग इत्यत आह-यथा पुरुष इति । नह्यनुभवाभावः प्रमाणसिद्धमपलपति, तदुत्पाद एव तत्र तत्सद्भावे प्रमाणमसत उत्पादासंभवान्नरविषाणवदिति । परोक्तं दोषमुत्थापयति-अत्र लक्षणपरिणाम इति । यदा धर्मो वर्तमानस्तदैव यद्यतीतोऽनागतश्च तदा त्रयोऽप्यध्वानः संकीर्येरन्ननुक्रमेण चाध्वनां भावेऽस. १ख. ज. सदेत।   दुत्पादप्रसङ्ग इति भावः । परिहरति-तस्य परिहार इति । वर्तमानतैव हि धर्मा- णामनुभवसिद्धा ततः प्राक्पश्चात्कालसंबन्धमवगमयति । न खल्वसदुत्पद्यते न च सद्वि- नश्यति । सदिदमाह-एवं हि न चित्तमिति । क्रोधोत्तरकालं हि चित्तं रागधर्मकम- नुभूयते । यदा च रागः क्रोधसमयेऽनागतत्वेन नाऽऽसीत्कथमसावु-पद्येतानुःपन्नश्च कथ- मनुभूयेतेति ।

 भवत्वेवं तथाऽपि कुतोऽध्वनामसंकर इति पृच्छते-किचेति । किं कारणमसं- करे । चः पुनरर्थे । उत्तरमाह-त्रयाणां लक्षणानां युगपन्नास्ति संभवः । कस्मिन्नेकस्यां चित्तवृत्तौ । क्रमेण तु लक्षगानामेकतमस्य खव्यञ्जकाञ्जनस्य भावो भवेत्संभवेलक्ष्याधीननिरूपणतया लक्षणानां लल्याकारेण तद्वत्ता । अत्रैव पञ्च. शिखाचार्यसंमतिमाह--उक्तं चेति । एतच्च प्रागेव व्याख्यातम् । उपसंहरति-- तस्मादिति । आविर्भावतिरोभावरूपविरुद्वधर्मसंसर्गादसंकरोऽधनामिति । दृष्टान्तमाह- यथा रागस्येति । पूर्व क्रोधस्य रागसंबन्धावगमो दर्शित इति । इदानीं तु विषयान्त. रवर्तिनो रागस्य विषयान्तरवर्तिना रागान्तरेग संबन्वावगम इति । दाटन्तिकमाह-- तथा लक्षणस्येतीति

 ननु सत्यप्यनेकान्ताभ्युपगमेऽभेदोऽस्तति धर्मलक्षणावस्थान्यत्वे तदभिन्नस्य धर्मि-


  न धर्मी ज्यध्वा धर्मास्तु ज्य्ध्वानस्ते लक्षिता अलक्षिता[५८]स्तत्र

लक्षितास्तां तामवस्थां प्राप्नुवन्तोऽन्यत्वेन प्रतिनिर्दिश्यन्तेऽव.

स्थान्तरतो न द्रव्यान्तरतः । यथैका रेखा शतस्थाने शतं दश-

स्थाने दे[५९] क्शैका चैकस्थाने । यथा चैकत्वेऽपि स्त्री माता चोच्यते

दुहिता च स्वसा चेति|


 अवस्थापरिणामे कौटस्थ्यप्रसङ्गदोपः कैश्विदुक्तः । कथम् ।

अध्वनो व्यापारेण व्यवहितत्वात् । यदा धर्मः स्वव्यापारं न

करोति तदाऽनागतो यदा करोति तदा वर्तमानो यदा कृत्वा

निवृत्तस्तदाऽतीत इत्येवं धर्मधर्मिणोर्लक्षणानामवस्थानां च

कौटस्थ्यं प्राप्नोतीति परैर्दोष उच्यते ।


णोऽप्यन्यत्वप्रसङ्गः । स एष च नेष्यते तदनुगमानुभवविरोधादित्यत आह-न धर्मी ज्यध्वा यतस्तदभिन्ना धर्मास्यध्धानः । धर्माणामध्वत्रययोगमेव स्फोरयति-ते लक्षिता अभिव्यक्ता वर्तमाना इति यावत् । अलक्षिता अनभिव्यक्ता अनागता अतीता इ(श्वे)ति यावत् । तत्र लक्षितास्तां तामवस्थाम् बलवत्वदुर्बलत्वादिकां प्राप्नुवन्तोऽन्यत्वेन प्रतिनिर्दिश्यन्तेऽवस्थान्तरतो न द्रव्यान्तरतः । अवस्थाशब्देन धर्मलक्षणावस्था उच्यन्ते । एतदुक्तं भवति---अनुभव एव हि धर्मिणो धर्मादीनां भेदाभेदौ व्यवस्थापयति । नह्येकान्तिकेऽभेदे धर्मादीनां धर्मिणो धर्मिरूपवद्धर्मादित्वम् । नाप्यैकान्तिके भेदे गवाश्रव- वद्धर्मादित्वम् । स चानुभवोऽनैकान्तिकत्वमवस्थापयन्नपि धर्मादिषूजनापायधर्मकेष्वपि धर्मिणमेकमनुगमयन्धर्माश्व परस्परतो व्यावर्तयन्प्रत्यात्ममनुभूयत इति तदनुसारिणो वयं न तमतिवर्त्य स्वेच्छया धर्मानुभवान्व्यवस्थापयितुमीमह इति । अत्रैव लौकिकं दृष्टान्तमाह- यथैका रेखेति । यथा तदेव रेखास्वरूपं तत्तत्स्थानापेक्षया शतादित्वेन व्यपदिश्यत एवं तदेव धर्मरूपं तत्तद्धर्मलक्षणावस्थाभेदेनान्यत्वेन प्रतिनिर्दिश्यत इत्यर्थः । दान्तिकार्थ दृष्टान्तान्तरमाह-यथा चैकत्वेऽपीति

 अत्रान्तरे परोक्तम् दोषमुत्थापयति-अवस्थेति । अवस्थापरिणामे धर्मलक्षणाव. स्थापरिणामे कौटस्थ्यदोषप्रसङ्ग उक्तो धर्मिधर्मलक्षणावस्थानाम् । पृच्छति-कथ- मिति । उत्तरम्-अध्वनो व्यापारणेति । द्धनः किल योऽन,गतोऽध्या तस्य व्यापारः क्षीरस्य वर्तमानत्वं तेन व्यवहितत्वाद्धेतोः । यदा धर्मो दधिलक्षणः स्वव्या-

पारं दाधिकाद्यारम्भं क्षीरे सन्नपि न करोति तदाऽनागतः । यदा कति तदा वर्त

सू० १३]
१३१
पातञ्जलयोगसूत्राणि ।

    नासौ दोषः । कस्मात् । गुणिनित्यत्वेऽपि गुणानां विमर्दवैचित्र्यात् । यथा संस्थानमादिमद्धर्ममात्रं शब्दादीनां गुणानां
विनाश्यविनाशिनामेवं लिङ्गमादिमद्धर्ममात्रं सत्त्वादीनां गुणानां
विनाश्यविनाशिनां तस्मिन्विकारसंज्ञेति ।

     तत्रेदमुदाहरणं मृद्धर्मी पिण्डाकाराद्धर्माद्धर्मान्तरमुपसंपद्यमानो धर्मतः परिणमते घटाकार इति । घटाकारोऽनागतं लक्षणं
हित्वा वर्तमानलक्षणं प्रतिपद्यत इति लक्षणतः परिणमते ।
घटो नवपुराणतां प्रतिक्षणमनुभवन्नवस्थापरिणामं प्रतिपद्यत
इति । धर्मिणोऽपि धर्मान्तरमवस्था धर्मस्यापि लक्षणान्तरमय-


मानः । यदा कृत्वा निवृत्तः सन्नेव स्वव्यापारादाधिकाद्यारम्भात्तदाऽतीत इति । एवं त्रैकाल्येऽपि सत्त्वाद्धर्मधर्मिणोर्लक्षणानामवस्थानां च कौटस्थ्यं प्राप्नोति । सर्वदा सत्ता हि नित्यत्वं, चतुर्णामपि च सर्वदा सत्वेऽसत्त्वे वा नोत्पादः, तावन्मात्रं च लक्षणं कूटस्थनित्यतायाः । नहि चितिशक्तेरपि कूटस्थ[६०]नित्यायाः कश्चिदन्यो विशेष इति भावः ।  पारहरति-नासौ दोषः, कस्माद्गुणिनित्यत्वेपि गुणानां विमर्दोऽन्योन्याभिभाव्याभिभावकत्वं तस्य वैचित्र्यात् । एतदुक्तं भवति- यद्यपि सर्वदा सत्त्वं चतुर्णामपि गुणिगुणानां तथाऽपि गुणविमर्दवैचित्र्येण तदात्मभूततद्विकाराविर्भावतिरोभावभेदेन परिणामशालितया न कौटस्थ्यम् । चितिशक्तेस्तु न स्वात्मभूतविकाराविर्भावतिरोभाव इति कौटस्थ्यम् ।
 यथाऽऽहु:--"नित्यं तमाहुर्विद्वांसो यत्स्वभावो न नश्यति" इति । विमर्दवैचित्र्यमेव विकारवैचित्र्ये हेतुं प्रकृतौ विकृतौ च दर्शयति-यथा संस्थानं पृथिव्यादिपरिणामलक्षणमादिमद्धर्ममात्रं विनाशि तिरोभावि शब्दादीनां शब्दस्पर्शरूपरसगन्धतन्मात्राणां स्कार्यमपेक्ष्याविनाशिनामतिरोभाविनाम् । प्रकृतौ दर्शयति- एवं लिङ्गमिति । तस्मिन्विकारसंज्ञा न त्वेवं विकारवती चितिशक्तिरिति भावः । तदेवं परीक्षकसिद्धां विकृतिं प्रकृतिं चोदाहृत्य विकृतावेव लोकसिद्धायां गुणविमर्दवैचित्र्यं धर्मलक्षणावस्थापरिणामवैचित्र्यहेतुमुदाहरति--तत्रेदमुदाहरणमिति । न चायं नियमो लक्षणानामेवावस्थापरिणाम इति । सर्वेषामेव धर्मलक्षणावस्थाभेदानामवस्थाशब्द- वाच्यत्वादेक एवावस्थापरिणामः सर्वसाधारण इत्याह--धर्मिणोऽपीति । व्यापकं, परि-


 न धर्मी त्र्यध्या धर्मास्तु त्र्यध्यानस्ते लक्षिता अलक्षितास्तत्र लक्षितास्तां तामवस्थां प्राप्नुवन्तोऽन्यत्वेन प्रतिनिर्दिश्यन्तेऽवस्थान्तरतो न द्रव्यान्तरतः । यथैका [६१]रेखा शतस्थाने शतं दश- स्थाने देशैका चैकस्थाने । यथा चैकत्वेऽपि स्त्री माता चोच्यते दुहिता च स्वसा चेति । उद्धरणे दोषः : <ref> दोषपूर्णा शृङ्खला; रिक्ताधाराः अपि सनामकः भवेयुः ।  अवस्थापरिणामे कौटस्<ref><=/ref>थ्यप्रसङ्गदोषः कैश्चिदुक्तः । कथम् । अध्वनो व्यापारण व्यवहितत्वात् । यदा धर्मः स्वव्यापारं न करोति तदाऽनागतो यदा करोति तदा वर्तमानो यदा कृत्वा निवत्तस्तदाऽतीत इत्येवं धर्मधर्मिणोर्लक्षणानामवस्थानां च कौटस्थ्यं प्राप्नोतीति परैर्दोष उच्यते ।। णोऽप्यन्यत्वप्रसङ्गः । स एष च नेष्यते तदनुगमानुभवविरोधादित्यत आह-न धर्मी त्र्यध्वा यतस्तदभिन्ना धर्मात्र्यधानः । धर्माणामध्वत्रययोगमेय स्फोरयति-ते लक्षिता अभिव्यक्ता वर्तमाना इति यावत् । अलक्षिता अनभिव्यक्ता अनागता अतीता इ(श्च)ति यावत् । तत्र लक्षितास्तां तामवस्थां बलवत्त्वदुर्बलत्वादिकां प्राप्नुवन्तोऽन्यत्वेन प्रतिनिर्दिश्यन्तेऽवस्थान्तरतो न द्रव्यान्तरतः । अवस्थाशब्देन धर्मलक्षणावस्था उच्यन्ते । एतदुक्तं भवति-अनुभव एव हि धर्मिणो धर्मादीनां भेदाभेदी व्यवस्थापयति । नह्यैकान्तिकेऽभेदे धर्मादीनां धर्मिणो धर्मिरूपबद्धर्मादित्वम् । नाप्यैकान्तिके भेदे गवाश्ववद्धर्मादित्वम् । स चानुभवोऽनैकान्तिकत्वमवस्थापयन्नपि धर्मादिषूपजनापायधर्मकेष्वपि धर्मिणमेकमनुगमयन्धर्माश्च परस्परतो व्यावर्तयन्प्रत्यात्ममनुभूयत इति तदनुसारिणो वयं न तमतिवर्त्य स्वेच्छया धर्मानुभवान्व्यवस्थापयितुमीश्मह इति । अत्रैव लौकिक दृष्टान्तमाह- यथैका रेखेति । यथा तदेव रेखास्वरूपं तत्तत्स्थानापेक्षया शतादित्वेन व्यपदिश्यत एवं तदेव धर्मिरूपं तत्तद्धर्मलक्षणावस्थाभेदेनान्यत्वेन प्रतिनिर्दिश्यत इत्यर्थः । दार्ष्टान्तिकार्थं दृष्टान्तान्तरमाह-यथा चैकत्वेऽपीति । ___ अत्रान्तरे परोक्त दोषमुत्थापयति---अवस्थेति । अवस्थापरिणामे धर्मलक्षणावस्थापरिणामे कौटस्यदोषप्रसङ्ग उक्तौ धर्मिधर्मलक्षणावस्थानाम् । पृच्छति-कथस्मिति । उत्तरम्-अध्वनो व्यापारेणेति । दध्नः किल योऽनागतोऽध्वा तस्य व्यापारः क्षीरस्य वर्तमानत्वं तेन व्यवहितत्वाद्धेतोः । यदा धर्मों दधिलक्षणः स्वव्यापारं दाधिकाद्यारम्भं क्षीरे सन्नपि न करोति तदाऽनागतः । यदा करोति तदा वर्त-

१ग. इ. च. ताश्च तां ता।२ म. दशैक।

नासौ दोषः । कस्मात् । गुणिनित्यत्वेऽपि गुणानां विमर्द-
वैचित्र्यात् । यथा संस्थानमादिमद्धर्ममात्रं शब्दादीनां गुणाना
विनाश्यविनाशिनामेवं लिङ्गमादिमद्धर्ममात्रं सत्त्वादीनां गुणानां
विनाश्यविनाशिनां तस्मिन्विकारसंज्ञेति ।
' तत्रेदमुदाहरणं मृद्धर्मी पिण्डाकाराद्धर्माद्धर्मान्तरमुपसंपद्य-
मानो धर्मतः परिणमते घटाकार इति । घटाकारोऽनागतं लक्षणं
हित्वा वर्तमानलक्षणं प्रतिपद्यत इति लक्षणतः परिणमते ।
घटो नवपुराणतयं प्रतिक्षणमनुभवन्नवस्थापरिणामं प्रतिपद्यत
इति । धर्मिणोऽपि धर्मान्तरमवस्था धर्मस्यापि लक्षणान्तरमय-

मानः । यदा कृत्वा निवृत्तः सन्नेव स्वव्यापाराद्दाधिकाद्यारम्भात्तदाऽतीत इति । एवं त्रैकाल्येऽपि सत्त्वाद्धर्मधर्मिणोलक्षणानामवस्थानां च कौटस्थ्यं प्राप्नोति । सर्वदा सत्ता हि नित्यत्वं, चतुणामपि च सर्वदा सत्वेऽसत्ये वा नोत्पादः, तावन्मात्रं च लक्षणं कूटस्थ. नित्यतायाः । नहि चितिशक्तेरपि कूटस्थनित्यायाः कश्चिदन्यो विशेष इति भावः ।

पारिहरति–नासौ दोषः,कस्माद्गुणिनित्यत्वेऽपि गुणानां विमर्दोऽन्योन्याभि- भाव्याभिभावकत्वं तस्य वैचित्र्यात् । एतदुक्तं भवति– यद्यपि सर्वदा सत्त्वं चतुर्णामपि[६२] गुणिगुणानां तथाऽपि गुणविमर्दवैचित्र्येण तदात्मभूततद्विकाराविर्भावतिरोभावभेदेन परि- णामशालितया न कौटस्थ्यम् । चितिशक्तेस्तु न स्वात्मभूतविकाराविर्भावतिरोभाव इति कौटस्थ्यम् ।

यथाऽऽहु:--"नित्यं तमाहुर्विद्वांसो यत्स्वभावो न नश्यति" इति ।

विमर्दवैचित्र्यमेव विकारवैचित्र्ये हेतुं प्रकृतौ विकृतौ च दर्शयति—यथा संस्थान पृथिव्यादिपरिणामलक्षणमादिमद्धर्ममात्रं विनाशि तिरोभावि शब्दादीनां शब्दस्पर्श रूपरसगन्धतन्मात्राणां स्वकार्यमपेक्ष्याविनाशिनामतिरोभाविनाम् । प्रकृती दर्शयति- एवं लिङ्गमिति । तस्मिन्विकारसंज्ञा न त्वेवं विकारवती चितिशक्तिरिति भावः |

तदेवं परीक्षकसिद्धां विकृति प्रकृति चोदाहृत्य विकृतावेव लोकसिद्धायां गुणविमर्दवै. चिन्यं धर्मलक्षणावस्थापरिणामवैचित्र्यहेतुमदाहरति--तत्रेदमुदाहरणमिति । न चायं नियमो लक्षणानामेवावस्थापरिणाम इति । सर्वेषामेव. धर्मलक्षणावस्थाभेदानामवस्थाशब्द-

वाच्यत्वादेक एवावस्थापरिणामः सर्वसाधारण इसाह--धर्मिणोऽपीति । व्यापकं परि-


१ ग. प. अ. च. नां वि° ५२ ख. नित्यतायां क । ४ ख. गुण । १३२ . वाचस्पतिकृतटीकासंचलितव्यासभाष्यसमेतानि- [ ३ विभूतिपादे- स्थेत्येक एव द्रव्यपरिणामो भेदेनोपदर्शित इति । एवं पदार्थान्तरेष्वपि योज्यमिति । त एते धर्मलक्षणावस्थापरिणामा धर्मिस्वरूपमनतिक्रान्ता इत्येक एव परिणामः सर्वानमून्विशेषानभिप्लवते । अथ कोऽयं परिणामः। अवस्थितस्य द्रव्यस्य पूर्वधर्मनिवृत्तौ धर्मान्तरोत्पतिः परिणाम इति ॥ १३ ॥ तत्र- शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी ॥ १४ ॥ योग्यतावच्छिन्ना धर्मिणः शक्तिरेव धर्मः । स च फलप्रसवभेदानुमित एकस्यान्योऽन्यश्च परिदृष्टः । तत्र वर्तमानः स्वव्यापारमनुभवन्धर्मी धर्मान्तरेभ्यः शान्तेभ्यश्चाव्यपदेश्येभ्यश्च भिद्यते । यदा तु सामान्येन समन्वागतो भवति तदा धर्मिस्वरूपमात्रत्वात्कोऽसौ केन भिद्येत । णामलक्षणमाह--अवस्थितस्य द्रव्यस्यति । धर्मशब्द आश्रितत्वेन धर्मलक्षणावस्थावाचकः ॥ १३ ॥ यस्यैष त्रिविधः परिणामस्तं धर्मिणं सूत्रेण लक्षयति-तत्र-शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी । धर्मोऽस्यास्तीति धर्माति नाविज्ञाते धर्मे स शक्यो ज्ञातुमिति धर्म दर्शयति-योग्यतेति । धर्मिणो द्रव्यस्य मृदादेः शक्तिरेव चूर्णपिण्डघटाद्युत्पत्तिशक्तिरेव धर्मस्तेषां तत्राव्यक्तत्वेन भाव इति यावत् । नन्वेवमव्यक्ततया सन्तस्ते ततः प्रादुर्भवन्तु । उदकाहरणादयस्तु तैः स्वकारणादनासादिताः कुतः प्राप्ता इत्यत उक्त-योग्यसावच्छिन्नेति । याऽसौ घटादीनामुत्पत्तिशक्तिः सोदकाहरणादियोग्यतावच्छिन्ना, तेनोदकाहरणादयोऽपि घटादिभिः स्वकारणादेव प्राप्ता इति नाऽऽकस्मिका इति भावः । अथवा के धर्मिण इत्यत्रोत्तरं-योग्यतावच्छिन्ना धर्मिण इति । को धर्म इत्यत्रोत्तरं शक्तिरेव धर्मस्तेषां योग्यतैव धर्म इत्यर्थः । अतस्तद्वान्धर्मीति सिद्धं भवति । तत्सद्भावे प्रमाणमाह--स च फलमसवभेदानुमित एकस्य धर्मिणोऽन्यश्वान्यश्च चूर्णपिण्डघटादिरूप इत्यर्थः । कार्यभेददर्शनाच्च भिन्न इति यावत् । परिदृष्ट उपलब्धः । तत्रानुभकारोहिणो वर्तमानस्य मृत्पिण्डस्य शान्ताव्यपदेश्याभ्यां मृच्चूर्णमृद्धटाभ्यां भेदमाह-तत्र वर्तमान इति । यदि न भिद्येत पिण्डवच्चूर्णघटयोरपि तद्वदेव स्वव्यापारव्याप्तिप्रसङ्ग इति भावः । अव्यक्तस्य तु पिण्डस्य नोक्तं भेदसाधनं संभवतीत्याह---यदा त्विति । कोऽसौ केन भेदसाधनेन भिद्यतेति। क. ग. प. उ. च. तसद्भाव र । २ क, च. 'न्यस्याभ्यश्च । ३ क. यदर्शनात्का. भौ । ५ ज. नात्तत्तत्कार्यदर्शनाच । ५ क. "त ताई पि । । .  तत्र ये खलु धर्मिणो धर्माः शान्ता उदिता अव्यपदेश्या- चेति, तत्र शान्ता ये कृत्वा व्यापारानुपरताः सव्यापारा उदितास्ते चानागतस्य लक्षणस्य समनन्तरा वर्तमानस्यानन्तरा अतीताः । किमर्थमतीतस्यानन्तरा न भवन्ति वर्तमानाः, पूर्वप- श्चिमताया अभावात् । यथाऽनागतवर्तमानयोः पूर्वपश्चिमता नैवमतीतस्य । तस्मानातीतस्यास्ति सरनन्तरः। तदनांगत एव समनन्तरो भवति वर्तमानस्येति । अथाव्यपदेश्याः के । सर्व सर्वात्मकमिति । यत्रोक्तम्-जल- भूम्योः पारिणामिकं रसादिवैश्वरूप्यं स्थावरेषु दृष्टम् । तथ

तदेवं धर्माणां भेदसाधनमभिधाय तं भेदं विभजते[६३]-तत्र ये खल्विति । उदिता इति वर्तमाना इत्यर्थः । अध्वनां पौर्वापर्य[६४] नियमयति-ते चेति । चोदयति- किमर्थमिति । किनिमित्तमतीतस्यानन्तरा न भवन्ति वर्तमानाः । हेतुमाहै[६५] सिद्धान्ती- पूर्वपश्चिमताया अभावात । विषयेण विषयिणीमनुपलब्धि सूचयति । अनुपलम्भ- मेवोपलम्भवैधयेण दर्शयति-यथाऽनागतवर्तमानयोरिति । उपसंहरति-[६६] दनागत एवं समनन्तरः पूर्वत्वेन भवति वर्तमानस्य नातीतः । अतीतस्य वर्तमानः पूर्वत्वेन समनन्तरो नाव्यपदेश्यः[६७]। तस्मादध्वनां यविष्ठोऽतीत इति सिद्धम् ।

स्यादेतदनुभयमानानुभूततयोदितातीतौ शक्यावन्नेतुमव्यपदेश्यास्तु पुनर्धर्मा अध्यप. देश्यतयैवं शक्या नोन्नेतुमित्याशयवान्पृच्छति-अथाव्यपदेश्याः के केषु समीक्षामहे । अत्रोत्तरमाह---सर्वं सर्वात्मकमिति । यत्रोक्तमिति[६८]। तदेवोपपादयति-जलभू- भ्योरिति । जलस्य हि रसरूपस्पर्शशब्दवतो भुमेश्च गन्धरसरूपस्पर्शशब्द- वत्याः पारिणामिकं वनस्पतिलतागुल्मादिषु मूलफलप्रसवपल्वादिगतरसादिवैश्वरूप्यं दृष्टम् । सोऽयमनेवमात्मिकाया भूमेरनीदृशस्य वा जलस्य न परिणामो भवितुमर्हति । उपपादितं हि नासदुत्पद्यत इति । तथा स्थावराणां पारिणामिकं जङ्गमेषु मनुष्यपशु- मृगादिषु रसादिवैचित्र्यं दृष्टम् । उपयुञ्जाना हि ते फलादीनि रूपादिभेदसंपदमासाद- यन्ति । एवं जङ्गमान पारिणामिकं स्थावरेषु दृष्टम् । रुधिरावसेकास्किल दाडिमी.

. १ 3.1 ते त्रयः ख । २.

४  । ५ । त। ६  । एतौं ।  स्थावराणां जङ्गमेषु जङ्गमानां स्थावरेष्वित्येवं जात्यनुच्छेदेन

सर्व सर्वात्मकमिति ।

 

देशकालाकारनिमित्तापबन्धान खलु समानकालमात्मनाम-
भिव्यक्तिरिति । य एतेष्वभिव्यक्तानभिव्यक्तेषु धर्मेष्वनुपाती
सामान्यविशेषात्मा सोऽन्वयी धर्मी । यस्य तु धर्ममात्रमेवेदं
निरत्वयं तस्य भोगाभावः । कस्मात् , अन्येन विज्ञानेन कृतस्य
कर्मणोऽन्यत्कथं भोक्तृत्वेनाधिक्रियेत । तत्स्मृत्यभावश्च नाय
दृष्टस्य स्मरणमन्यस्यास्तीति । वस्तुप्रत्यभिज्ञानाच्च स्थितोऽन्वयी
धर्मी को धर्मान्ययात्वमभ्युपगतः प्रत्यभिज्ञायते । तस्मान्नेदं
धर्ममात्र निरन्वयमिति ॥१४॥

 

क्रमान्यत्वं परिणामान्यत्वे हेतुः ॥ १५ ॥


फलानि तालफलमात्राणि भवन्ति । उपसंहरति- एवं सर्व जलभूम्यादि सर्वरसाद्यात्म. कम् । तत्र हेतुमाह -जात्यनुच्छेदेन जलत्वभूमित्वादिजातेः सर्वत्र प्रत्यभिज्ञायमान- वेनानुच्छेदात् ।

  ननु सर्व चेत्सर्वात्मकं हन्त भोः सर्वस्य सर्वदा सर्वत्र सर्वथा संनिधानासमानकोलं भावानां व्यक्तिः प्रसज्येत, न खलु संनिहिताविकलकारणं कार्य विलम्बितुमर्हतीत्यत आह- देशकालति । यद्यपि कारणं सर्व सर्वात्मकं तथाऽपि यो यस्य कार्यस्य देशो यथा कुङ्कुमस्य काश्मीरः । तेषां सत्वेऽपि पाञ्चालादिषु न समुदाचार इति न कुङ्कु- मस्य पाञ्चालादिष्वभिव्यक्तिः । एवं निदाघे न प्रावृषः समुदाचार इति न तदा शाली- नाम् । एवं न मृगी मनुष्यं प्रसूते न तस्यां मनुष्याकारसमुदाचार इति । एवं नापुण्य. वान्सुखरूपं भुङ्क्ते न तस्मिन्पुण्यनिमित्तस्य समुदाचार इति । तस्माद्देशकालाकारनिमित्ता- नामपबन्धादपगमान्न समानकालमात्मनां भावानामभिव्यक्तिरिति । तदेवं धर्मान्विभज्य तेषु धर्मिणोऽनुगमं दर्शयति --य एतेष्विति । सामान्यं धर्मिरूपं विशेषो धर्मस्तदा- मोभयात्मक इत्यर्थः । तदेवमनुगतं धर्मिणं दर्शयित्वा तमनिच्छतो वैनाशिकस्य क्षणिक विज्ञानमात्रं चित्तमिच्छतोऽनिष्टप्रसङ्गमुक्तं स्मारयति -यस्य त्विति । वस्तुप्रत्यभिज्ञाना- चेति । नहि देवदत्तेन दृष्टं यज्ञदत्तः प्रत्यभिजानाति । तस्माद्यश्चानुभविता स एव प्रत्य- भिज्ञातेति ॥ १४ ॥

  क्रमान्यत्वं परिणामान्यत्वे हेतुः । किमकस्य धर्मिण एक एव धर्मलक्षणावस्था- लक्षणः परिणाम उत बहवो धर्मलक्षणावस्थालक्षणाः परिणामाः । तत्र किं प्राप्तमेकत्वा.


[६९] सू. १५] पातञ्जलयोगसूत्राणि। १३५ एकस्य धर्मिण एक एव परिणाम इति प्रसक्ते क्रमान्यत्वं परिणामान्यत्वे हेतुर्भवतीति । तद्यथा चूर्णमृत्पिण्डमृद्घटमृत्कपा- लमृत्कणमृदिति च क्रमः । यो यस्य धर्मस्य समनन्तरो धर्मः स तस्य क्रमः । पिण्डः प्रच्यवते घट उपजायत इति धर्मपरिणामक्रमः । लक्षणपरिणामक्रमो घटस्यानागतभावाद्वर्तमानभावः क्रमः । तथा पिण्डस्य वर्तमानभावादतीतभावः क्रमः । नातीतस्यास्ति क्रमः । कस्मात् । पूर्वपरतायां सत्यां समनन्तरत्वं, सा तु नास्त्यतीतस्य । तस्माद्वयोरेव लक्षणयोः क्रमः । तथाऽवस्थापरिणामक्रमोऽपि घटस्याभिनवस्य प्रान्ते पुराणता दृश्यते । सा च क्षणपरम्परानुपातिना क्रमेणाभिव्यज्यमाना परां व्यक्तिमापद्यत इति । धर्मलक्षणाभ्यां च विशिष्टोऽयं तृतीयः परिणाम इति । द्धर्मिण एक एव परिणामः । नहि एकरूपाकारणात्कार्यभेदो भवितुमर्हति तस्याऽऽकस्मिकत्वप्रसङ्गादित्येवं प्राप्त उच्यते-क्रमान्यत्वात्परिणामान्यत्वम् । एकस्या मृदश्चूर्णपिण्डघटकपालकणाकारा परिणतिपरम्परा क्रमवती लौकिकपरीक्षकैरध्यक्षं समीक्ष्यते । अन्यच्चेदं चूर्णपिण्डयोरानन्तर्यमन्यञ्च पिण्डघटयोरन्यच्च घटकपालयोरन्यच्च कपालकणयोरेकत्र परस्यान्वत्र पूर्वत्वात् । सोऽयं क्रमभेदः परिणाम एकस्मिन्नवकल्पमानः परिणामभेदमापादयति । एकोऽपि च मृद्धर्मी क्रमोपनिपातितत्तत्सहकारिसमवधानक्रमेण क्रमवर्ती परिणामपरम्परामुद्रहन्तैनामाकस्मिकयतीति भावः । धर्मपरिणामान्यत्ववल्लक्षणपरिणामान्यत्वेऽवथापरिणामान्यत्वे च समान क्रमान्यत्वं हेतुरिति । तदेतद्भाष्येणावद्योत्यते-एकस्य धर्मिण इति । क्रमक्रमवतोरभेदमास्थाय स तस्य क्रम इत्युक्तम् । तथाऽवस्थापरिणामक्रम इति । तथाहि-कीनाशेन कोष्ठागारे प्रयत्नसंरक्षिता अपि हि व्रीहयो हायनैरतिबहुभिः पाणिस्पर्शमात्रविशीर्यमाणावयवसंस्थानाः परमाणुभावमनुभवन्तो दृश्यन्ते । न चायमभिनानामकस्मादेव प्रादुर्भवितुमर्हति । तस्मात्क्षणपरम्पराक्रमेण सूक्ष्मसूक्ष्मतरसूक्ष्म- तमबृहबृहत्तरबृहत्तमादिक्रमेण प्राप्तेषु विशिष्टोऽयं लक्ष्यत इति । १८. ख. घ. उ. °सके क । २ ख. म. भावक' । ३ ख. ग. भावक' ४ झ. लव १५ क. स्थानाञ्च प°१६ क. 'वानक। १३६ वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि- [ ३ विभूतिपादे- त एते क्रमा धर्मधर्मिभेदे सति प्रतिलब्धस्वरूपाः । धर्मोऽपि धर्मी भवत्यन्यधर्मेस्वरूपापेक्षयति । यदा तु परमार्थतो धर्मिण्यभेदोपचारस्तद्द्वारेण स एवाभिधीयते धर्मस्तदाऽयमेकत्वेनैव क्रमः प्रत्यवभासते। चित्तस्य द्वये धर्मा परिदृष्टाश्चापरिदृष्टाश्च । तत्र प्रत्यया- त्मकाः परिदृष्टा वस्तुमात्रात्मका अपरिदृष्टाः । ते च सप्तैव भवन्त्यनुमानेन प्रापितवस्तुमात्रसद्भावाः । “निरोधधर्मसंस्काराः परिणामोऽथ जीवनम् । चेष्टा शक्तिश्च चित्तस्य धर्मा दर्शनवर्जिताः" इति ॥ १५ ॥ तदिदं क्रमान्यत्वं धर्मधर्मिभेदपक्ष एवेत्याह-त एत इति । आ विकारेभ्य आ चालिङ्गादापेक्षिको धर्मधर्मिभावो मृदादेरपि तन्मात्रापेक्षया धर्मत्वादित्याह –धर्मोऽपीति । यदा परमार्थधर्मिण्यलिङ्गेऽभेदोपचारप्रयोगस्तद्द्वारेण सामानाधिकरण्यद्वारेण धर्म्येव धर्म इति यावत् । तदैक एव परिणामो धर्मिपरिणाम एवेत्यर्थः । धर्मलक्षणावस्थानां धर्मिस्वरूपाभिनिवेशात् । तदनेन धर्मिणो दूरोत्सारितं कूटस्थनित्यत्वमित्युक्तप्रायम् । धर्मपरिणामं प्रतिपादयन्प्रसङ्गेन चित्तधर्माणां प्रकारभेदमाह-वित्तस्येति । परिदृष्टाः प्रत्यक्षा अपरिदृष्टाः परोक्षास्तत्र प्रत्ययात्मकाः प्रमाणादयो रागादयश्च । वस्तुमात्रा इत्यप्रकाशरूपतामाह । स्यादेतदपरिदृष्टाश्वेन्न सत्येवेत्यत आह-अनुमानेन प्रापितो वस्तुमात्रेण सद्भावो येषां ते तथोक्ताः । पश्चान्मानसाधादागमोऽप्यनुमानम् । सप्तापरिदृष्टान्कारिकया संगृह्णाति-निरोधेति । निरोधो वृत्तीनामसंप्रज्ञातावस्था चित्तस्याऽऽगमतः संस्कारशेषभावोऽनुमानतश्च समधिगम्यते । धर्मग्रहणेन पुण्यापुण्ये उपलक्षयति ! क्वचित्कर्मेति पाठस्तत्रापि तज्जनिते पुण्यापुण्ये एव गृह्येते । ते चाऽऽगमतः सुखदुःखोपभोगदर्शनाद्वाऽनुमानतो गम्येते । संस्कारस्तु स्मृतेरनुमीयते । एवं त्रिगुणत्वाच्चि तस्य चलं च गुणवृत्तमिति प्रतिक्षणं परिणामोऽनुमीयते । एवं जीवनं प्राणधारणं प्रयत्नभेदोऽ- संविदितश्चित्तस्य धर्मः श्वासप्रश्वासाभ्यामनुमीयते । एवं चेतसश्चेष्टा क्रिया यथा यथा

  • क. पुस्तके-'दयः । निरोधादयस्तु ब° इति पाठो वर्तते, स प्रामादिकः ।

१ ख. घ. इ. च. रबारे । २ ख दमपेक्षन इत्या । झ. दमपेक्षत र°। ३ क. ख. स. आ चलि°४ ज. तो ध । ५ ज. धर्मप। ६ ख. धर्मस्व' । ७ क. ज. स.  अतो योगिन उपात्तसर्वसाधनस्य चुभुत्सितार्थप्रतिपत्तये संपमस्य विषय उपक्षिप्यते-

  परिणामत्रयसंयमादत्ती-   तानागतज्ञानम् ॥१६॥

 

धर्मलक्षणावस्थापरिणामेषु संयमाद्योगिनां भवत्यतीतानाग-
तज्ञानम् । धारणाध्यानसमाधित्रयमेकत्र संयम उक्तः । तेन
परिणामत्रयं साक्षाक्रियमाणमतीतानागतज्ञानं तेषु संपा-
दयति ॥१६॥

 

शब्दार्थप्रत्ययानामितरेतराध्यासात्संकरस्त-
त्पविभागसंयमात्सर्वभूतरुतज्ञानम् ॥ १७ ॥
तत्र वाग्वर्णेष्वेवार्थवती । श्रोत्रं च ध्वनिपरिणाम-

तैस्तारिन्द्रियः शरीरप्रदेशेर्वा संप्रयुज्यते । साऽपि तत्संयोगादेवानुमीयते । एवं शक्तिरप्युद्ध तानां कार्याणां सूक्ष्मावस्था चेतसो धर्मस्थलकार्यानुभवादेवानुमीयत इति ॥ १५ ॥  अत: परमा पादपरिसम.ते: संयमविषयस्तद्वीकारसूचनी विभृतिश्च वक्तव्या । तत्रोक्तप्रकार परिणामत्रयमेव तावत्प्रथममुपात्तसकलयोगाङ्गस्य योगिनः संयमविषयतयोग. क्षिपति-परिणामत्रयसंयमादतीतानागतज्ञानम् । ननु यत्र संयमरतत्रैव साक्षात्क- रगं तत्कथं परिणामत्रयसंयमोऽतीतानागतं साक्षात्कारयेदित्यत आह-तेन परिणामत्रयं साक्षाक्रियमाणं तेष परिणामेष्वनुगते ये अतीतानागते तद्विषयं ज्ञानं संपादयति । परिणामत्रयसाक्षात्करणमेव तदन्तर्भूतातीतानागतसाक्षात्करणात्मकमिति न विषयभेदः संयमसाक्षात्कारयोरित्यर्थः ॥ १६ ॥

 अयमपरः संयमस्य विषय उपक्षप्यते---शब्दार्थप्रत्ययानामितरतराध्यासात्सं. करस्त प्रविभागलंयमात्सवेभूतरुतज्ञानम् । अत्र वाचकं शब्दमाचिख्यासुः प्रथम तावद्वाग्व्यापारविषयमाह ---तत्र वाग्वागिन्द्रियं वर्णव्यञ्जकमष्टस्थानम् ।

यथाऽऽह- अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा ।  जिह्वामूलं च दन्ताश्च नामि[७०]कोष्ठौ च तालु च"    पाणि०शि०१३ ] इति ॥  सा पावर्णेयेव यथालेकप्रतातिसिद्धेष्वर्थवती नच वाचक इत्यर्थः । श्रीत्रव्यापार- विषयं निरूपयति----श्रोत्रं पुनर्धनेरुदा[७१]नस्य वागिन्द्रियाभिघातिनो यः परिणतिभेदो मात्रविषयम् । पदं पुनर्नादानुसंहारबुद्धिनिर्ग्राह्यमिति ।

 वर्णा एकसमयासंभवित्वात्परस्परनिरनुग्रहात्मानस्ते पदमसंस्पृश्यानुपस्थाप्याऽऽविर्भूतास्तिरोभूताश्चेति प्रत्येकमपदस्वरूपा उच्यन्ते ।

वर्णः पुनरेकैकः पदात्मा सर्वाभिधानशक्तिप्रचितः सहकारिवर्णान्तरंप्रतियोगित्वाद्वैश्वरूप्यमिवाऽऽपन्नः पूर्वश्चोत्तरेणोत्तरश्च पूर्वेण

वर्णात्मा तेनाऽऽकारेण परिणतं तन्मात्रविषयं नतु वाचकविषयमित्यर्थः । यथालोकप्रतीतिसिद्धेभ्यो वर्णेभ्यो वाचकं भिनत्ति पदं पुनर्वाचकं पुनर्नादानुसंहारबुद्धिनिर्ग्राह्यं यथाप्रतीतिसिद्धान्नादान्वान्प्रत्येकं गृहीत्वाऽनु पश्चाद्या संहरत्येकत्वमापादयति गौरित्येतदेकं पदमिति तया पदं गृह्यते । यद्यपि प्राच्योऽपि बुद्धयो वर्णाकारं पदमेव प्रत्येकं गोचरयन्ति तथाऽपि न विश[७२]दं प्रथते । चरमे नु विज्ञाने तदतिविशदमिति नादानुसंहारबुद्धिनिर्ग्राह्यमुक्तम् ।

 यस्तु वैजात्यादेकपदानुभवमविज्ञाय वर्णानेव वाचकानातिष्ठते तं प्रत्याह-वर्णा इति । ते खल्वमी वर्णाः प्रत्येकं वाच्यविषयां धियमादधीरन्नागदन्तका इव शिक्यावलम्बनं संहता वा ग्रावाण इव पिठरधारणम् । न तावत्प्रथमः कल्पः । एकस्मादर्थप्रतीतेरनुत्पत्तेरुत्पत्तौ वा द्वितीयादीनामनुवारणप्रसङ्गो निष्पादितक्रिये कर्मणि विशेषानाधायिनः साधनस्य साधनन्यायातिपातात् । तस्माद्वितीयः परिशिष्यते । संभवति हि ग्राव्णां संहतानां पिठरधारणमेकसमयभावित्वात् । वर्णानां तु यौगपद्यासंभवोऽतः परस्परमनुग्राह्यानुग्राहकत्वायोगात्संभूयापि नार्थधियमादधते । ते पदरूपमेकमसंस्पृशन्तस्तादात्म्येनात एवानुपस्थापयन्त आविर्भू[७३]तास्तिरोभूता अयःशलाकाकल्पाः प्रत्येकमपदस्वरूपा उच्यन्ते।

 यदि पुनः पदमेकं तादात्म्येन स्पृशेयुर्वर्णास्ततो नोक्तदोषप्रसङ्ग इयाह---वर्णः पुनरेकैकः पदात्मा सर्वाभिधानशक्तिचितः सर्वाभिरभिधानशक्ति भिर्निचितो गोगणगरनै[७४]गेत्यादिषु हि गकारो गोत्वाद्यर्थाभिधायिषु[७५] दृष्ट इति तत्तदभिधानशक्तिः । एवं सांमशोचिरेत्यादिष्वीश्वराद्यार्थभिधायिषु पदेष्योवर्णो दृ[७६]ष्ट इति सोऽपि तत्तदभिधानशक्तिः । एवं सर्वत्रोहनीयम् । स चेकैको वर्णो गकारादिः सहकारि यद्वर्ण.न्तरमोकरादि तदेव प्रतियोगि प्रतिसंबन्धि यस्[७७]य स तथोक्तस्तस्य भावस्तत्त्वं तस्माद्वैश्वरूप्यं नानात्वमिवाऽऽपन्नो नतु नानात्वमापन्नस्तस्य तत्त्वादेव पूर्णे वर्णो गकार उत- रेणौकारेण गणादिपदेभ्यो व्यावर्त्योत्तरश्चैकारो गकारेण शोचिरदिपदेभ्यो व्यावर्त्य

 

विशेषेऽवस्थापित इत्येवं बहवो वर्णाः क्रमानुरोधिनोऽर्थसंकेतेना-
वच्छिन्ना इयन्त एते सर्वाभिधानशक्तिपरिवृता गकारौकारविस-
र्जनीयाः सास्नादिमन्तमर्थ द्योतयन्तीति ।

विशेषे गोन्यवाचके गोपदस्फे टेऽवस्थापितोऽनुसंहारबुद्धौ । अयमभिसंधिः-अर्थप्रत्ययो हि वर्णैर्नियतक्रमतया परस्परमसंभवद्भिरशक्यः कर्तुम् । न च संस्कारद्वा[७८]रऽऽग्नेयादीना- मिव परमापूर्वे वा स्वर्गे वा जनयितव्येऽनियतकमाणामपि साहित्यमर्थबुद्धयुपजनने वर्णा- नामिति सांप्रतं विकल्पासहत्वात् । स खल्वयं वर्णानुभवजन्यः संस्कारः स्मृतिप्रसवहे- तुरन्यो वाऽऽग्नेयादिजन्य इवापुर्वाभिधानो न तावदनन्तरः कल्पनागौरवापत्तेः । स एव ताबददृष्टपूर्णः कल्पनीयस्तस्य च क्रमवद्भिर्वर्णानुभवैरेकस्य जन्यत्वं न संभवतीति तज्जाती- यानेकावान्तरसंस्कारकल्पनेति गौरवम् । न चैष ज्ञापकहेत्वङ्गमज्ञातस्तदङ्गतामनुभव[७९]तीति । न खलु संबन्धोऽर्थप्रत्यायनाङ्गमज्ञातोऽङ्गतामुपैति । स्मृतिफलप्रसवानुमितस्तु संस्कारः स्वकारणानुभवविषयनियतो न विषयान्तरे प्रत्ययमाधातुम सहते । अन्यथा यत्किंचिदेवैकै- कमनुभूय सर्वः स जानीयादिति । न च प्रत्येकवर्णानुभवजनितसंस्कारपिण्डलब्धजन्म. स्मृतिदर्पणसमारोहिणो वर्णाः समधिगतसहभावा वाचका इति सांप्रतम् । क्रमाक्रमवि. परीतक्रमानुभूतानां तत्राविशेषेणार्थवीजननग्रसङ्गात् । न चैतत्स्मरणज्ञानं पूर्वानुभवव. तिनी परापरतां गोचरयितुमर्हति । तस्माद्वर्णेभ्योऽसंभवन्नर्थप्रत्यय एकपदानुभवमेव स्वनि- मित्तमुपकल्पयति । न चैष पदेऽपि प्रसङ्गः । तद्धि प्रत्येकमेव प्रयत्नभेदभिन्ना ध्वनयो व्यञ्जयन्तः परस्परविसदृशतत्तत्पदव्यञ्जकध्वनिभिस्तुल्यस्थानकरणनिष्पन्नाः सदृशाः सन्तोऽ- न्योन्यविसदृशैः पदैः पदमेकं सदृशमापादयन्तः प्रतियोगिभेदेन तत्तत्सादृश्यानां भेदात्त. दुपधानादेकमप्यनवयवमपि सावयवमिवाने कात्मकभिवावभासयन्ति, यथा नियतवर्णपरि- माणसंस्थानं मुखमेकमपि मणिकृपाणदर्पणादयो विभिन्नवर्णपरिमाणसंस्थानमनेकमादर्शयन्ति न परमार्थतः । सादृश्योपधानभेदकाल्पता भागा एव निर्भागस्थ पदस्य वर्णास्तेन तहद्धि. वर्णात्मना पदभेदे स्फोटमभेदभेव निर्भागभेव सभेदमिव सभागमिवाऽऽलम्बते । अते! गे.पदरफोटभेदस्यैकस्य गकारभागो गौरादिपदस्फोटसादृश्येन न निर्धारयति स्वभागिनमि. त्योकारेण विशिष्टो निर्धारयत्येवमोकारोऽपि भागः शोचिरादिपदसदृशतया न शक्तो निधी- रयितुं स्वभागिनं गोपदस्फोटमिति गकारेण विशिष्टो निर्धारयति । असहभाविनामपि च संस्कारद्वारेणास्ति सहभाव इति विशेषणविशेष्यभावोपपत्तिः । न च भिन्नविषयत्वं संस्कारयोर्भागद्वयविषययोरनुभवयोस्तजन्मनोश्च संस्कारयोरेकपदविषयत्वात् । केव. १ २

तदेतेषामर्थसंकेतेनावच्छिन्नानामुपसंहतध्वनिक्रमाणां य एको
बद्धिनिर्भासस्तत्पदं वाचकं वाच्यस्य संकेत्यते । तदेकं
पदमेकबुद्धिविषय[८०] एकप्रयत्नाक्षिप्तमभागमक्रममवर्ण बौद्ध-

ठभागानुभवेन पदमव्यक्तमनुभूयतेऽनुसंहारधिया तु भागानुभश्योनिसंस्कारलब्धजन्मना व्यक्तमिति विशेषः । अव्यक्तानुभवाश्च प्राञ्चः संस्क.राधानक्रमेण व्यक्तमनुभवमादधाना दृष्टा यथा दुरावनस्पतावस्तिप्रत्ययों[८१] अव्यक्ता व्यक्तवनस्पतिप्रत्ययहेतवः । न चेयं विधा वर्णानामर्थप्रत्यायने संभविनी । नो खलु वर्णाः प्रत्येकमव्यक्तमर्थप्रत्ययमादधत्यन्ते व्यक्त- मिति शक्यं वक्तुम् । प्रत्यक्षज्ञान एव नियमाद्वयक्ताव्यक्त वस्य । वर्णाधेयस्वर्थप्रत्ययो न प्रत्यक्षस्तदेष वर्णेभ्यो जायमानः स्फुट एव जायेत । न वा जायेत न त्वस्फुटः । स्फोटस्य तु ध्वनिव्यङ्गयस्य प्रत्यक्षरय सतः स्फुटारफुटत्वे कल्प्येते इत्यसमानम् । एवं प्रत्येकवर्णा- नुभवजनितसंस्कारसहितश्रोत्रलब्धजन्मन्यनुसंह रबुद्धौ संहता वर्णा एकपदस्फोटभावमापन्नाः प्रयत्नविशेषव्यङ्ग्यतया प्रयत्नविशेषस्य च नियतक्रमापेक्षतया क्रमस्यान्यत्वे तदभिव्यज- कप्रयत्नविशेषाभावेन तदभिव्यक्त्यभावप्रसङ्ग क्रमानुरोधिनोऽर्थसंकेतैनावच्छिन्नाः संके. तावच्छेदमेव लौकिक सभागपदविषयं दर्शयन्ति, इयन्तो वित्रास्त्रिचतुराः पञ्चषा वा एते सर्वाभिधानशक्तिपरिवृता गकारौकारविसर्जनीयाः सास्नादिमन्तमर्थमवद्योतयन्तीति ।

तकिमिदानों संकेतानुसारेण वर्णनामेव वाचकत्वं तथा च न पदं नाम किंचिदेक- मित्यत आह--तदेतेषामिति । धनिनिमित्तः क्रमो ध्वनिक्रमः । उपसंहृतो धनि- क्रमो येषु ते तथोक्ताः । बुद्धया निर्भास्यते प्रकाश्यत इति बुद्धिनिर्भासः । संवे.ताव- च्छिन्नाः स्थलदर्शिलोकाशयानुरोधेन गकारौकारविसर्जनीया इत्युक्तम् । गकारादी- नामपि तद्भागतया तादात्म्येन वाचकवाप्रतीत्यनुसारतस्त्वेकमेव पदं वाचकमित्यर्थः । एतदेव स्पष्टयति---तदेकं पदं लोकबुद्धया प्रतीयत इति संबन्धः । कस्मादेकमित्यत आह--एकबद्धिविषयो गौरित्येक पदमित्यकाकाराया बुद्धविषयो यतस्तस्मादेकम् । तस्य व्यञ्जकमाह--एकप्रयत्नाक्षिप्तमिति । रस इतिपदव्यञ्जका प्रयत्नाद्विलक्षणः सर इतिपदव्यञ्जकः प्रयत्नः । स चोपक्रमैतः[८२] सर इतिपदव्याक्तिलक्षणफल[८३] वच्छिन्नः पूर्वा- परीभूत एकस्तदाक्षिप्तं भागानां सादृश्योपधानभेदकल्पितानां परमार्थसतामभावादभागम् । अत एव पूर्वापरीभूतभावादक्रमम् । ननु वर्णाः पूर्वापरीभूतास्ते चास्य भागा इति कथमक्रममभागं चेत्यत आह-अवर्णम् । न सत्य वर्णा भागाः किंतु सादृश्योप.

। ज. क्षणाव ।

=मन्त्यवर्णप्रत्ययव्यापारोपस्थापितं परत्र प्रतिपिपादयिषया वर्ग-
रेवाभिधीयमानः श्रूयमाणैश्च श्रोतृभिरनादिवाग्व्यवहारवासनानु-
विद्धया लोकबुद्धया सिद्धवत्संप्रतिपत्त्या प्रतीयते ।।
• तस्य संकेतबुद्धितः प्रविभाग एतावतामेवंजातीयकोऽनुसंहार
एकस्यार्थस्य[८४] वाचक इति । संकेतस्तु पदपदार्थयोरितरेतराध्या-


धानभेदात्पदमेव तेन तेनाऽऽकारणापरमार्थसता प्रथते । न हि मणिकृपाणदर्पणादिव. तीनि मुखानि मुखस्य परमार्थसतोऽवयवा इति । बौद्धमनुसंहारबुद्धौ विदितमन्यवर्णप्रत्य यस्य व्यापारः संस्कारः पूर्ववर्णानुभवजनितसंस्कारसहितस्तेनोपस्थापितं विषयीकृतम् । वर्णानुभवतत्तत्संस्काराणां च पदविषयत्वमुपयादितमधस्तात् । स्यादेतदभागमक्रममवर्ण[८५] त्पदतत्त्वं कस्मादेवविध कदाचिन्न प्रथते नहि लाक्षारसाक्सेकोपधानापादितारुणभावः स्फटिकमणिस्तदपगमे स्वच्छधवलो नानुभूयते तस्मात्पारमार्थिका एव वर्णा इत्यत आह- परत्रेति । प्रतिपिपादयिषया वगैरेवाभिधीयमानरुच्चार्यमाणैः श्रयमाणैश्च श्रेतृभिरनादियोऽयं वाग्व्यवहारो विभक्तवर्णपदनिबन्धनस्तननिता वासना साऽप्यनादिरेव । तदनुविद्धया तद्वासितया लोकबुद्ध्या विभक्तवर्णरूषितपदावगाहिन्या सिद्धवत्परमार्थवत्संप्रतिपत्त्या संवा. देन वृद्धानां पदं प्रतीयते । एतदुक्तं भवति-अस्ति कश्चिदुपाधिर्य उपधेयेन संयुज्यते वियुज्यते च । यथा लाक्षादिस्तत्र तद्वियोगे स्फटिकः स्वाभाविकेन स्वच्छधवलेन रूपेण प्रकाशत इति युज्यते । पदप्रत्ययस्य तु प्रयत्नभेदोपनीतध्वनिभेदादन्यतोऽनुत्पादात्तस्य च मदा सादृश्कदोरूषिततया[८६] वर्णात्मनैव प्रत्ययजनकत्वमिति कुतो निरुपाधिनः पदस्य प्रथा ।

=यथाऽऽg:--" ध्वनयः सदृशात्मानो विपर्यासस्य हेतवः ।
उपलम्भकमेतेषां विपर्यासस्य कारणम् ।
उपायत्वाच्च नियतः पददर्शितदार्शनाम् ।
ज्ञानस्यैव च बाधेयं लोके ध्रुवमुपप्लवः” इति ।


यतः पदात्मा विभक्तवर्णरूषितः प्रकाशतेऽतः स्थूलदर्शी लोको वर्णानव पदमाभम- न्यमानस्तानेव प्रकारभेदभाजोऽर्थभेदे संकेतयतीत्याह-तस्येति । तस्य पदस्याजानत एकस्यापि संकेतबुद्धितः स्थूलदर्शिलोकहिताय वर्णात्मना विभागः । विभागमाह-एता- वा न न्यूनानामधिकानां वा, एवंजातीयको नैरन्तर्यक्रमविशेषोऽनुसंहार एकबुद्ध्यु- पग्रह एकस्यार्थस्य गोत्वादेर्वाचक इति । ननु यद्यकस्यार्थस्यायं शब्दो वाचक इति संकेतो हन्त भोः शब्दार्थयोर्नेतरतराध्यासस्तीत्यत आह-संकेतस्त्विति । स्मृतावात्मा सरूपः स्मत्यात्मको योऽयं शब्दः सोऽयमर्थो योऽयमर्थः सोऽयं शब्द इति । एवमितरेतराध्यासरूपः संकेतो भवतीति । एवमेते शब्दार्थप्रत्यया इतरेतराध्यासात्संकीर्णा गौरिति शब्दो गौरि- त्यर्थो गौरिति ज्ञानम् । य एषां प्रविभागशः स सर्ववित् ।


 सर्वपदेषु चास्ति वाक्यशक्तिर्वृक्ष इत्युक्तेऽस्तीति गम्यते ।' न सत्तां पदार्थों व्यभिचरतीति। तथा न ह्यसाधना क्रियाऽस्तीति । तथाच पचतीत्युक्ते सर्वकारकाणामाक्षेपो नियमार्थोऽनुवादः| [८७]

स्वरूपं यस्य स तथोक्तः । न हि कृत इत्येव संकेतोऽर्थमवधारयत्यपि तु स्मर्यमाणः । एतदुक्तं भवति-अभिन्नाकार एव संकेते कथंचिद्भेदं विकल्प्य षष्ठी प्रयुक्तेति । य एषां प्रविभागज्ञः स तत्र संयमे भवति सर्ववित्सर्वभूतरुतज्ञ इति । तदेवं विकल्पितवर्णभागमेकमनवयवं पदं व्युत्पाद्य कल्पितपदविभागं वाक्यमेकमनवयवं व्युत्पादयितुमाह--सर्वपदेषु चास्ति वाक्यशक्तिः । अयमभिसंधिः-परप्रत्यायनाय शब्दः प्रयुज्यते तत्र तदेव च परं प्रति प्रतिपादयितव्यं यत्तैः प्रतिपित्सितं, तदेव तैः प्रतिपित्सितं यदुपादानादिगोचरः । न च पदार्थमात्रं तद्गोचरः किंतु वाक्यार्थ इति वाक्यार्थपरा एव सर्वे शब्दास्तेन स एव तेषामर्थः । अतो यत्रापि केवलस्य पदस्य प्रयोगस्तत्रापि पदान्तरेण सहैकीकृत्य ततोऽर्थो गम्यते, न तु केवलात्कस्मात्तन्मात्रस्यासामर्थ्यात्तथा च वाक्यमेव तत्र तत्र वाचकं न तु पदानि । तद्भागतया तु तेषामप्यस्ति वाक्या- र्थवाचकशक्तिः पदार्थ इव पदभागतया वर्णानाम् । तेन यथा वर्ण एकैकः सर्वपदार्थाभिधानशक्तिः प्रचित एवं पदमप्येकैकं सर्ववाक्यार्थाभिधानशक्तिप्रचितम् । तदिदमुक्तम्- सर्वपदेषु चास्ति वाक्यशक्तिर्वृक्ष इत्युक्तेऽस्तीति गम्यते । अध्याहृतास्तिपदसहितं वृक्ष इति पदं वाक्यार्थे वर्तत इति तद्भागवाद्वृक्षपदं तत्र वर्तते । कस्मात्पुनरस्तीति गम्यत इत्यत आह-न सत्तां पदार्थों व्यभिचरतीति । लोक एव हि पदानामर्थावधारणोपायः । स च केवलं पदार्थमस्त्यर्थेनामिसमस्य सर्वत्र वाक्यार्थो करोति सोऽयमव्यभिचारः सत्तया पदार्थस्यात एव शब्दवृत्तिविदां व्यवहारो यत्रान्यत्क्रियापदं नास्ति तत्रास्तिर्भवन्तीपरः प्रयोक्तव्य इति । क्रियाभेदाव्यभिचारि प्रातिपदिकमुक्त्वा क्रियाभेदं कारकाव्यभिचारिणं दर्शयति- तथा च पचतीत्युक्त इति । पचतीत्युक्ते हि कारकपात्रस्य तदन्वययोग्यस्यावग मादन्यव्यावृत्तिपरस्तद्भेदानामनुवादः । तदेवं भेद एवं वाक्यार्थ इति तथाऽनपेक्षकर्तृकरणकर्मणां चैत्राग्नितण्डुलानामिति । दृष्टं च वाक्याथें पदरचनं श्रोत्रियश्छन्दोऽधीते, जीवति प्राणान्धारयति । तत्र वाक्ये पदार्थाभिव्यक्तिस्ततः पदं प्रविभज्य व्याकरणीयं क्रियावाचकं वा कारकवाचकं वा । अन्यथा भवत्यश्वोऽजापय इत्येवमादिषु नामाख्यातसारूप्यादनिर्ज्ञातं कथं क्रियायां कारके वा व्याक्रियेतेति ।

 तेषां शब्दार्थप्रत्ययानां प्रविभागः । तद्यथा श्वेतते प्रासाद इति क्रियार्थः, श्वेतः प्रासाद इति कारकार्थः शब्दः,

[८८]

मपि पदं वाक्यार्थे वर्तमानं दृश्यत इति सुतरामस्ति वाक्यशक्तिः पदानामित्याह-दृष्टं चेति । न चैतावताऽपि श्रोत्रियादिपदस्य स्वतन्त्रस्यैवंविधार्थप्रत्यायनं न यावदस्त्यादिभिरभिसमासोऽस्य भवति । तथा चास्यापि वाक्यावयवत्वात्कल्पितत्वमेवेति भावः । स्यादेतपदानामेव चेद्वाक्यशक्तिः कृतं तर्हि वाक्येन तेभ्य एव तदर्थावसायादित्यत आह- तत्र वाक्य इति । उक्तमेतन्न केवलात्पदात्पदार्थः प्रतिपित्सितः प्रतीयते न यावदेतत्पदान्तरेणाभिसमस्यत इति । तथा च वाक्यात्पदान्यपोद्धृत कल्पितानि वाक्यार्थाच्चापोद्धृत्य तदेकदेशं कारकं वा क्रियां वा तत्पदं प्रकृत्य दिविभागकल्पनया व्याकरणीयमन्वाख्येयम् । किमर्थं पुनरेतावता क्लेशेनान्वाख्यायत इत्यत आह-अन्यथेति । घटो भवति भवति भिक्षां देहि भवति तिष्ठतीति नामाख्यातयोश्च साम्यात् । एवमश्वस्त्वमश्वो यातीति । एवमजापयः पिब, अजापयः शत्रूनिति नामाख्यातसारूप्यादनिर्ज्ञातं नामत्वेनाऽऽख्यातत्वेन वाऽन्याख्यानाभावे निष्कृष्याज्ञातं कथं क्रियायां कारके वा व्याक्रियेत । तस्माद्वाक्यात्पदान्यपोद्धृत्य व्याख्यातव्यानि । न त्वन्याख्यानादेव पारमार्थिके विभागः पदानामिति । तदेवं शब्दरूपं व्युत्पाद्य शब्दार्थप्रत्ययानां संकेतापादितसंकराणामसंकरमाख्यातुमुपक्रमते-तेषां शब्दार्थप्रत्ययानां प्रविभागस्तद्यथा श्वेतते प्रासाद इति क्रियार्थः शब्दः । स्फुटतरो ह्यत्र पूर्वापरीभूतायाः क्रियायाः साध्वरूपायाः सिद्धरूपः क्रियार्थः श्वेतत इति भिन्नः शब्दः । यत्रापि शब्दार्थयोः सिद्धरूपत्वं तत्राप्यर्थादस्ति शब्दस्य भेद इत्याह --श्वेतः प्रासाद इति कारकार्थः शब्दः । अभिहितत्वाञ्च कारकविभक्तेरभावः । · वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि- [ ३ विभूतिपादे-

                                                क्रियाकारकात्मा तदर्थः प्रत्ययश्च । कस्मात् । सोऽयमित्याभि-
                                   संबन्धादेकाकार एव प्रत्ययः संकेत इति ।

__ यस्तु श्वेतोऽर्थः स शब्दप्रत्यययोरालम्बनीभूतः । स हि

                                               स्वाभिरवस्थाभिर्विक्रियमाणो न शब्दसहगतो न बुद्धिसहगतः ।
                                              एवं शब्द एवं प्रत्ययो नेतरेतरसहगत इत्यन्यथा शब्दोऽन्य-
                                               थाऽर्थोऽन्यथा प्रत्यय इति विभागः । एवं तत्प्रविभागसंयमा-
                                               योगिनः सर्वभूतरुतज्ञानं संपद्यत इति ॥ १७ ॥
                                               

संस्कारसाक्षात्करणात्पूर्वजातिज्ञानम् ॥ १८॥

व्यासभाष्यम् - द्वये खल्वमी संस्काराः स्मृतिक्लेशहेतवो वासनारूपाः, विपाकहेतवो धर्माधर्मरूपाः। ते पूर्वभवाभिसंस्कृताः परिणाम – चेष्टा – निरोध – शक्ति जीवन – धर्मवदपरिदृष्टाश्वित्तधर्माः। तेषु संयमः


                                 अर्थ विभजते-क्रियाकारकात्मा तदर्थस्तयोः शब्दयोरर्थः क्रियात्मा कारकात्मा च ।
                                 प्रत्ययं विभजते-प्रत्ययश्चेति । चशब्देन तदर्थ इत्येतत्पदमत्रानुकृष्यते । तदत्रान्यपदार्थ.
                                 प्रधानं संबध्यते । स एव क्रियाकारकात्माऽर्थो यस्य स तथोक्तः । नन्वभेदेन प्रतीते:
                                 शब्दार्थप्रत्ययानां संकरात्कुतः प्रविभाग इत्याशयवान्पृच्छति-कस्मादिति । उत्तरमाह-
                                 सोऽयमित्यभिसंबन्धादिति । संकेतोपाधिरेकाकारप्रत्ययो नतु तात्त्विक इत्यर्थः ।
                                 संकेतस्य निमित्तता दर्शिता संकेत इति सप्तम्या ।
                                              परमार्थमाह-यस्तु श्वेतोऽर्थ इति । अवस्था नवपुराणत्वादयः । सहगतः संकीर्णः ।
                                   एवं च प्रविभागसंयमाद्यागिनः सर्वेषां भूतानां पशुमृगसरीसृपवयःप्रभृतीनां यानि रुतानि
                                   तत्राप्यव्यक्तं पदं तदर्थस्तत्प्रत्ययश्चेति । तदिह मनुष्यवचनवाच्यप्रत्ययेषु कृतः संयमः
                                   समानजातीयतया तेष्वपि कृत एवेति । तेषां रुतं तदर्थभेदं तत्प्रत्ययं च योगी जाना.
                                   तीति सिद्धम् ॥ १७॥
                                            संस्कारसाक्षात्करणात्पूर्वजातिज्ञानम् । ज्ञानजा हि संस्काराः स्मृतियोऽविद्या-
                                  दिसंस्कारा अविद्यादीनां क्लेशानां हेतवः । विपाको जात्यायुर्भोगरूपस्तस्य हेतवो धर्माधर्मरूपाः । पूर्वेषु भवेष्वभिसंस्कृता निष्पादिताः स्वकारणैर्यथासंस्कृतं व्यञ्जनं कृतमिति गम्यते।

परिणामचेष्टानिरोधशक्ति जीवनान्येव धर्माश्चित्तस्य तद्वदपरिदृष्टाश्चित्तधर्मस्तेषु श्रुतेष्वनुमितेषु सू०१८] |पातञ्जलयोगसूत्राणि।| १४५

संस्कारसाक्षात्क्रियायै समर्थः, न च देशकालनिमित्तानुभवै विना तेषामस्ति साक्षात्करणम्। तदित्थं संस्कारसाक्षात्करणात्पूर्वजातिज्ञानमुत्पद्यते योगिनः। परत्राप्येवमेव संस्कारसाक्षात्करणात्परजातिसंवेदनम्।


अत्रेदमाख्यानं श्रूयते – भगवतो जैगीषव्यस्य संस्कारसाक्षात्करणाद् दशसु महासर्गेषु जन्मपरिणामक्रममनुपश्यतो विवेकजं ज्ञानं प्रादुरभवत्। अथ भगवानावट्यस्तनुधरस्तमुवाच – दशसु महासर्गेषु भव्यत्वादनभिभूतबुद्धिसत्त्वेन त्वया नरकतिर्यग्गर्भसंभवं दुःखं संपश्यता देवमनुष्येषु पुनः पुनरुत्पद्यमानेन सुखदुःखयोः किमधिकमुपलब्धमिति। भगवन्तमावट्यं जैगीषव्य उवाच – दशसु महासर्गेषु भव्यत्वादनभिभूतबुद्धिसत्त्वेन मया नरकतिर्यग्भवं दुःखं संपश्यता देवमनुष्येषु पुनः पुनरुत्पद्यमानेन यत् किञ्चिदनुभूतं तत्सर्वं दुःखमेव प्रत्यवैमि। भगवानावट्य उवाच – यदिदमायुष्मतः प्रधानवशित्वमनुत्तमं च संतोषसुखं किमिदमपि दुःखपक्षे निक्षिप्तमिति। भगवान् जैगीषव्य उवाच – विषयसुखापेक्षयैवेदमनुत्तमं संतोषसुखमुक्तम्, कैवल्यापेक्षया दुःखमेव। बुद्धिसत्त्वस्यायं धर्मस्त्रिगुणः, त्रिगुणश्च प्रत्ययो हेयपक्षे न्यस्त इति। दुःखस्वरूपस्तृष्णातन्तुः, तृष्णादुःखसन्तापापगमात्तु प्रसन्नमबाधं सर्वानुकूलं सुखमिदमुक्तमिति।।18।।


सपरिकरेषु संयमः संस्काराणां द्वयेषां साक्षास्क्रियायै समर्थः । अस्तु तत्र संयमात्तत्साक्षात्कारः पूर्वजातिसाक्षात्कारस्तु कुतै इत्यत आह-न च देशेति । निमित्तं पूर्वशरीरमिन्द्रियादि च । सानुबन्धसंस्कारसाक्षात्कारस्तु एव नान्तरीयकतया जात्यादिसाक्षात्कारमाक्षिपतीत्यर्थः । स्वसंस्कारसंयम परकीयेष्वतिदिशति-परत्राप्येवमिति । __ अत्र श्रद्धोत्पोदे हेतुमनुभवत आवट्यत्य जैगीपव्येण संवादमुपन्यस्यति-अत्रेदमा- ख्यानं श्रूयत इति । महाकल्पो महासर्गः । तनुधर इति निर्माणकायसंपदुक्ता । भव्यः शोभनो विगलितरजस्तमोमल इत्यर्थः । प्रधानवशित्वमैश्वर्य तेन हि प्रधानं विक्षोभ्य यस्मै यादृशी कायेन्द्रियसंपदं दित्सति तस्मै तादृशी दत्ते । स्वकीयानि च कायेन्द्रियसहस्राणि निर्मायान्तरिक्षे दिवि भुवि च यथेच्छं विहरतीति । संतोषो हि तृष्णाक्षयो बुद्धिसत्त्वस्य प्रशान्तता धर्मः ॥ १८ ॥ १ ग. घ. ङ. च. °वल्यापे । २ छ, 'तस्तदृष्टार्थ । ३ ख. "तस्य इ १ स. 'त्यादहेतुं भगव' । ज. पाहे । ५ झ. परकी भाभि ।

प्रत्ययस्य परचित्तज्ञानम् ॥ १९ ॥

प्रत्यये संयमात्प्रत्ययस्य साक्षात्करणात्ततः परचित्तज्ञानम् ॥ १९ ॥

न चं तत्सालम्बनं तस्या-
विषयीभूतत्वात् ॥ २० ॥

रक्तं प्रत्ययं जानात्यमुष्मिन्नालम्बने रक्तमिति न जानाति ।
परप्रत्ययस्य यदालम्बनं तद्योगिचित्तेन नाऽऽलम्बनीकृतं परम-
त्ययमात्रं तु योगिचित्तस्याऽऽलम्बनीभूतमिति ॥ २० ॥

कायरूपसयमात्तद्ग्राह्यशक्तिस्तम्भे चक्षु-
ष्प्रकाशसिंप्रयोगेऽन्तर्धानम् ॥ २१ ॥

कायस्य रूपे संयमाद्रूपस्य या ग्राह्या शक्तिस्तां प्रतिष्टन्नाति ।
ग्राह्यशक्तिस्तम्भे सति चक्षुष्प्रकाशासंप्रयोगेऽन्तर्धानमुत्पद्यते
योगिनः । एतेन शब्दाधन्तर्धानमुक्तं वेदितव्यम् ॥ २१ ॥


प्रत्ययस्य परचित्तज्ञानम् । प्रत्ययस्य परचित्तज्ञानम् । परप्रत्ययस्य चित्तमात्रस्य साक्षात्करणादिति ॥ १९ ॥

यथा संस्कारसाक्षात्कारस्तदनुबन्धपूर्वजन्मसाक्षात्कारमाक्षिपत्येवं परचित्तसाक्षात्कारोऽपि तदालम्बनसाक्षात्कारमाक्षिपेदिति प्राप्त आह--नंच तत्सालम्बनं तस्याविषयीभू- तत्वात् । सानुबन्धसंस्कारविषयोऽसौ संयमोऽयं तु परचित्तमात्रविषय ड़यभिप्रायः ॥२०॥

कायरूपसंयमात्तद्ग्राह्यशक्तिस्तम्भे चक्षुषकाशासंप्रयोगेऽन्तर्धानम् । पञ्चात्मकः कायः । स च रूपवत्तया चाक्षुषो भवति । रूपेणं हि कायश्च तद्रूपं च चक्षुर्ग्रहणकर्म-शक्तिमनुभवति । तत्र यदा रूपे संयमविशेषो योगिना क्रियते तदा रूपस्य ग्राह्यशक्ती रूपवत्कायप्रत्यक्षताहेतुः स्तम्भ्यते । तस्माद्ग्राह्यशक्तिस्तम्भे सत्यन्तर्धानं योगिनस्ततः परकीयचक्षुर्जरितेन प्रकाशेन ज्ञानेनासंप्रयोगश्चक्षुर्ज्ञानाविषयत्वं योगिनः कायस्येति यावत् ।तस्मिन्कर्तव्येऽन्तर्धानं कारणमित्यर्थः । एतेनेति ।कायशब्दस्पर्शरसगन्धसंयमात्तद्ग्रासशक्तिस्तम्भे श्रोत्रत्वग्रसनघ्राणप्रकाशासंप्रयोगेऽन्तर्धानमिति सूत्रमूहनीयम् ॥ २१ ॥


[८९] सू० २२ ] पातञ्जलयोगसूत्राणि । १४७ सोपक्रमं निरुपमं च कर्म तत्संयमाद- परान्तज्ञानमरिष्टेभ्यो वा ॥ २२ ॥ आयुर्विपाकं कर्म द्विविधं सोपक्रमं निरुपक्रमं च । तत्र यथाऽऽद्रं वस्त्रं वितानितं लघीयसा कालेन शुष्येत्तथा सोपक्र- मम् । यथा च तदेव संपिण्डितं चिरेण संशुष्येदेवं निरुपक्रमम् । यथा वाऽग्निः शुष्के कक्षे मुक्तो वातेन समन्ततो युक्तः क्षेपीयसा कालेन दहेत्तथा सोपक्रमम् । यथा वा स एवाग्निस्तृणराशौ क्रमशोऽवयवेषु न्यस्तश्विरेण दहेत्तथा निरुपक्रमम् । तदैकभविकमायुष्करं कर्म द्विविधं सोपक्रमं निरुपक्रमं च । तत्संयमादपरान्तस्य प्रायणस्य ज्ञानम् ।। अरिष्टेभ्यो वेति । त्रिविधमरिष्टमाध्यात्मिकमाधिभौतिकमा-- धिदैविकं चेति । तत्राऽऽध्यात्मिकं घोषं स्वदेहे पिहित- कर्णो न शृणोति, ज्योतिर्वा नेत्रेऽवष्टब्धे न पश्यति । तथाऽऽधिभौतिक यमपुरुषान्पश्यति, पितॄनतीतीनकस्मात्पश्यति । तथाऽऽधिदैविकं स्वर्गमकस्मात्सिद्धान्वा पश्यति । विपरीतं वा सर्वमिति । अनेन वा जानात्यपरान्तमुपस्थित- मिति ॥ २२॥ सोपक्रम निरुपक्रमं च कर्म तत्संयमादपरान्तज्ञानमरिष्टेभ्यो वा । आयुर्विपाकं च कर्म द्विविधं सोपक्रमं निरुपक्रमं च । यत्खल्वैकभविकं कर्म जात्यायुर्भोगहेतुस्तदायुर्विपाकम् । तच्च किंचित्कालानपेक्षमेव भोगदानाय प्रस्थितं दत्तबहुभोगमल्पावशिष्टफलं प्रवृत्तव्यापार केवलं तत्फलस्य सहसा भोक्तुमेकेन शरीरेणाशक्यत्वाद्विलम्बते तदिदं सोपक्रमम् । उपक्रमो व्यापारस्तत्सहितमित्यर्थः । तदेव तु दत्तस्तोकफलं तत्कालमपेक्ष्य फलदानाय व्याप्रियमाणं कादाचित्कमन्दव्यापारं निरुपक्रमम् । एतदेव निदर्शनाभ्यां विशदयति-तत्र यथेति । अत्रैवातिवैशद्याय निदर्शनान्तरं दर्शयति-यथा वाऽग्निरिति । परान्तं महाप्रलयमपेक्ष्यापरान्तो मरणम् । तस्मिन्कर्मणि धर्माधर्मयोः संयमादपरान्तज्ञानम् । ततश्च योगी सोपक्रममात्मनः कर्म विज्ञाय बहून्कायान्निर्माय सहसा फलं भुक्त्वा स्वेच्छया म्रियते । प्रासङ्गिकमाह-अरिष्टेभ्यो वा। अरिवत्रासयन्तीत्यरिष्टानि त्रिविधानि मरणचिह्नानि । विपरीतं वा सर्वं माहेन्द्रजालादिव्यतिरेकेण ग्रामनगरादि स्वर्गमभिमन्यते, मनुष्यलोकमेव देवलोकमिति ॥ २२ ॥ १. ख. च. हसीयसा । २ क. ख. तानागतान १३ ग. प. उ.च. ति । आधि।

मैत्र्यादिषु बलानि ॥ २३ ॥

 मैत्री करुणा मुदितेति तिस्रो भावनास्तत्र भूतेषु सुखितेषु मैत्रीं भावयित्वा मैत्रीवलं लभते । दुःखितेषु करुणां भाव यित्वा करुणावलं लभते । पुण्यशीलेषु मुदितां भावयित्वा मुदितावलं लभते । भावनातः समाधिर्यः स संयमस्ततो बला न्यवन्ध्यवीर्याणि जायन्ते । पापशीलेषूपेक्षा न तु भावना । ततश्च तस्यां नास्ति समाधिरित्यतो न बलमुपेक्षातस्तत्र संय माभावादिति ॥ २३॥

बलेषु हस्तिबलादीनि ॥ २४ ॥

 हस्तिबले संयमाद्धस्तिवलो भवति । वैनतेयबले. संयमाद्वै नतेयबलो भवति । वायुबले संयमाद्वायुबलो भवतीत्येव मादि ॥ २४॥

प्रवृत्त्यालोकन्यासात्सूक्ष्मव्यव हितविपकष्टज्ञानम् ॥ २५ ॥

 ज्योतिष्मती प्रवृत्तिरुक्ता मनसस्त[९०]स्या य आलोकस्तं योगी सूक्ष्मे वा व्यवहिते वा विप्रकृष्टे वाऽर्थे विन्यस्य तमर्थमधि- ग[९१]च्छति ॥ २५॥


 मैत्र्यादिषु बलानि । मैत्र्यादिषु संयमान्मैत्र्यादिबलान्यस्य । तत्र मैत्री- भावनातो बलं येन जीवलोकं सुखा करोति ततः सर्वहितो भवति । एवं करुणाबला- पाणिनो दुःखाहुःखहेतोर्वा समुद्धरति । एवं मुदिताबलाजीवलोकस्य माध्याथ्यमाधत्ते । वक्ष्यमानणौपयिकं भावनाकारणत्वं समाधेराह‌-‌भावनातः समाधिर्यः स संयमः। यद्यपि धारणाध्यानसमाधित्रयमेव संयमो न समाधिमात्रं तथाऽपि समाध्यनन्तरं कार्यो- त्पादात्समाधेः प्राधान्यात्तत्र संयम उपचरितः । कचिद्भावना समाधिरिति पाठः । तत्र भावनासमाधी समूहस्य संयमस्यावयवौ हेतू भवतः । वीय प्रयत्नः, तेन मैत्र्यादिव- लवतः पुंसः सुखितादिषु परेषां कर्तव्येषु प्रयत्नोऽवन्धो भवतीति । उपेक्षौदासीन्यं, न तत्र भावना नापि सुखादिवद्भाव्यं किंचिदस्तीति ॥ २३ ॥

 बलेषु हस्तिबलादीनि । यस्य बले संयमस्तस्य बलं लभत इति ॥ २४ ॥

 प्रवृत्त्यालोकन्यासात्सूक्ष्मव्यवहितविप्रकृष्टज्ञानम् । सूक्ष्मे व्यवहिते विप्रकृष्टे वाऽर्थे संयमेन विन्यस्य तमधिग[९२]च्छति ॥ २५ ॥ १४९ सू० २६] पातञ्जलयोगसूत्राणि भुवनज्ञानं सूर्ये संयमात् ॥ २६ ॥ तत्पस्तारः सप्त लोकाः । तत्रावीचेः प्रभृति मेरुपृष्ठं यावदि- त्येवं भूर्लोकः । मेरुपृष्ठादारभ्य-आधुवाद्ग्रहनक्षत्रताराविचि- पोऽन्तरिक्षलोकः । ततः परः स्वर्लोकः पञ्चविधो माहेन्द्रस्तुतीयो लोकः । चतुर्थः प्राजापत्यो महर्लोकः । त्रिविधो ब्राह्मः । तद्यथा--- जनलोकस्तपोलोकः सत्यलोक इति । " ब्राह्मस्त्रिभूमिको लोकः प्राजापत्यस्ततो महान् ।

               माहेन्द्रश्च स्वरित्युक्तो दिवि तारा भुवि प्रजाः "॥

इति संग्रहशलोकः।

     तत्राबीचेरुपर्युपरि निविष्टाः षण्महानरकभूमयो घनसलिला-
     नलानिलाकाशतमःप्रतिॺठ महाकालाम्बरीषरौरवमहारौरवकाल-
     सूत्रान्धतामिस्राः । यत्र स्वकर्मोपार्जितदुःखवेदनाः प्राणिनः
     कष्टमायुर्दीर्घमाक्षिप्य जायन्ते । ततो महातलरसातलातलसुत.
    लवित्तलतलातलपातालाख्यानि सप्त पातालानि । भूमिरियम-
    षुमी सप्तद्वीपा वसुमती, यस्याः सुमेरुमध्ये पर्वतराजः काञ्चनः ।
    तस्य राजतवैदूर्यस्फटिकहेममणिमयानि शृङ्गाणि । तत्र वैदूर्य-
     प्रभानुरागानीलोत्पलपत्रश्यामो नभसो दक्षिणी भागः, श्वेत::
    पूर्वः, स्वच्छ, पश्चिमः, कुरण्टकाभ उत्तरः । दक्षिणपाइँ चास्य
    जम्बूर्यतोऽयं जम्बूद्वीपः । तस्य सूर्यप्रचाराद्वात्रिंदिवं लग्नमिव
    वर्तते । तस्य नीलश्वेतशृङ्गवन्त उदीचीनास्त्रयः पर्वता द्विसा-
    इस्रायामाः । तदन्तरेषु त्रीणि वर्षाणि नव नव योजनसाह-
    साणि रमणकं हिरण्मयमुत्तराः कुरव इति । निषधहेमकूटहिम-
    शैला दक्षिणतो दिसाइस्रायामाः । तदन्तरेषु त्रीणि वर्षाणि
    नव नव योजनसाहस्राणि हरिवर्ष किंपुरुषं भारतमिति -__________________________________________________________________________________________

भुवनज्ञानं सूर्ये संयमात् । आधुवादितो मेरुपृष्ठात् । तदेवमनेन संग्रहश्लोका. न्तेन संक्षेपतः सप्त लोकानुपन्यस्य विस्तरेणाऽऽह-तत्रावीचेरिति । धनशब्देन पृथिव्युच्यते । भूमिः स्थानमित्यर्थः । एते महानरका अनेकोपनरकपरिवारा बोद्धव्याः । एतानेव नामान्तरेणोपसंहरति-महेति । तस्य सूर्यप्रचाराद्रात्रिंदिवं लग्नमित्र वर्तते । _______________________________________________________________________________________________ १ ग, घ, इ, तत्परः । २ क. स. "कालमा । ३ ग, घ, ङ. कुरुण्डका । च.

सुमेरोः प्राचीना भद्राश्वमाल्यवत्सीमानः प्रतीचीनाः केतुमाला
गन्धमादनसीयानः । मध्ये वर्षमिलावृतम् । तदेतद्योजनशत-
साहस्रं सुमेरोर्दिशिदिशि तदर्धेन व्यूढम् ।
 स खल्वयं शनसाहस्रायामो जम्बूद्वीपस्ततो द्विगुणेन लवणो-
दधिनावलयाकृतिना वेष्टितः । ततश्च द्विगुणा द्विगुणाः शाककुश-
क्रौञ्चशाल्मलंगोमेध(प्लक्ष)पुष्करद्वीपाः, समुद्राश्च सर्षेपराशिकल्पाः
सविचित्रशैलावतंसा इक्षुरससुरासर्पिर्दधिमण्डक्षीरस्वादूदकाः।
सप्त समुद्रपरिवेष्टिता वलयाकृतयो लोकालोकपर्वतपरिवाराः
पञ्चाशद्योजनकोटिपरिसंख्याताः । तदेतत्सर्वे सुप्रतिष्ठितसंस्थान-
मण्डमध्ये व्यूढम् । अण्डं च प्रधानस्याणुरवयवो यथाऽऽकाशे
खद्योत इति ।
 तत्र पाताले जलधौ पर्वतेष्वेतेषु देवनिकाया असुरगन्धर्वकि-
नरकिंपुरुषयक्षराक्षसभूतप्रेतपिशाचापस्मारकाप्सरोब्रह्मराक्षसकू-
ष्माण्डविनायकाः प्रतिवसन्ति । सर्वेषु द्वीपेषु पुण्यात्मानो
देवमनुष्याः ।
 सुमेरुस्त्रिदशानामुद्यानभूमिः । तत्र मिश्रवनं नन्दनं चैत्ररथं
सुमानसमित्युद्यानानि । सुधमो देवसभा । सुदंशेनं पुरम् ।
वैजयन्तः प्रासादः । ग्रहनक्षत्रतारकास्तु ध्रुवे निबद्धा वायुविक्षे-
पनियमेनोपलक्षितपचाराः सुमेरोरुपयुपरि संनिविष्टां दिवि
विपरिवर्तन्ते ।


यमेवास्य भागं सूर्यस्त्यजति तत्र रात्रिः । यमेव भागमलं करोति तत्र दिनमिति । सक- लजम्बूद्वीपपरिमाणमाह-तदेतद्योजनशतसाहस्रम् । किंभूतं योजनानां शतसाहस्रमि- स्याह---सुमेरोदिशि दिशि तदर्धेन पञ्चायोजनसहस्रेण व्यूढं संक्षिप्तम् ।। ___ यतोऽस्य मध्यस्थः सुमेरुः समुद्राश्च सर्षपराशिकल्पा इति द्विगुणा द्विगुणा इति संबन्धः । यथा सर्षपराशिन ब्रीहिराशिरिवोच्छितो नापि भूमिसमस्तथा समुद्रा अपीत्यर्थः । विचित्रैः शैलैरवतंसैरिव सह वर्तन्त इति सविचित्रशैलावतंसा द्वीपाः । तदेतत्सर्व संद्वीपविपिननगनगरनीरधिमालावलयं लोकालोकपरिवृतं विश्वंभरामण्डलं ब्रह्माण्डमध्ये व्यूढ़ संक्षिप्तं सुप्रतिष्ठितं संस्थानं संनिवेशो यस्य तत्तथोक्तम् ।। ये यत्र प्रतिवसन्ति तत्र तान्दर्शयति-तत्र पाताल इति ।। __सुमेरोः संनिवेशमाह-सुमेरुरिति । तदेवं भूर्लोक सप्रकारमुक्त्वा सप्रकारमेवान्स-

रिक्षलोकमाह-ग्रहोत । विक्षेपो व्यापारः ।


१ ग. °लमगध । २ ग. प. उ. ज. 'टा विप° । ३ ज. झ. 'शता योज। ४ क. सप्तधी। सू०.२६] पातञ्जलयोगसूत्राणि । १५१ माहेन्द्रनिवासिनः षड्देवनिकायाः-त्रिदशा अग्निष्वात्ता योम्यास्तुपिता अपरिनिर्मितवशवर्तिनः परिनिर्मितवशवर्तिनश्चेति । सर्वे संकल्पसिद्धा अणिमाद्यैश्वर्योपपन्नाः कल्पायुषो वृन्दारकाः कामभोगिन औपपादिकदेहा उत्तमानुकूलाभिरप्स-रोभिः कृतपरिचाराः। महति लोके पाजापत्ये पञ्चविधो देवनिकाय:-कुमुदा ऋभवः प्रतर्दना अञ्जनामाः प्रचिताभा इति । एते महाभूतवशिनो ध्यानाहाराः कल्पसहस्रायुषः । प्रथमे ब्रह्मणो जनलोके चतुर्विधो देवनिकायो ब्रह्मपुरोहिता ब्रह्मकायिका ब्रह्मम- हाकायिका अमरा इति । ते भूतेन्द्रियवशिनो द्विगुणद्विगुणोत्तरायुषः। द्वितीये तपसि लोके त्रिविधो देवनिकाय:-आभास्वरा महाभास्वराः सत्यमहाभास्वरा इति । ते भूतेन्द्रियप्रकृतिवशिनो द्विगुणद्विगुणोत्तरायुषः सर्वे ध्यानाहारा ऊर्ध्वरेतस ऊर्ध्वमपति- स्वर्लोकमादर्शयति-माहेन्द्रनिवासिन इति । देवनिकाया देवजातयः । षण्णामपि देवनिकायानां रूपोत्कर्षमाह-सर्वे संकल्पसिद्धा इति । संकल्पमात्रादेवैषां विषया उपनमन्ति । वृन्दारकाः पूज्याः । कामभोगिनो मैथुनप्रियाः । औपपादिकदेहाः पित्रोः संयोगमन्तरेणाकस्मादेव दिव्यं शरीरमेषां धर्मविशेषातिसंस्कृतेभ्योऽणुभ्यो भूतेम्यो भवतीति । महर्लोकमाह-महतीति । महाभूतवशिनः । यद्यदेतेभ्यो रोचते तत्तदेव महाभूतानि प्रयच्छन्ति । तदिच्छातश्च महाभूतानि तेन तेन संस्थानेनावतिष्ठन्ते । ध्यानाहारा ध्यानमात्रतृप्ताः पुष्टा भवन्ति । जनलोकमाह-प्रथम इत्युक्तक्रमेण । भूतेन्द्रियवशिन इति । भूतानि पृथिव्यादीनीन्द्रियाणि श्रोत्रादीनि यथा नियोक्तुमिच्छन्ति तथैव नियुज्यन्ते । उक्तक्रमापेक्षया द्वितीयं ब्रह्मणस्तपोलोकमाह-द्वितीय इति । भूतेन्द्रियप्रकृति- वशिन इति । प्रकृतिः पञ्च तन्मात्राणि तद्वशिनस्तदिच्छातो हि तन्मात्राण्येव कायाकारेण परिणमन्त इत्यागभिनः । द्विगुणेत्याभास्वरेभ्यो द्विगुणायुषो महाभास्वरास्तेभ्योऽपि द्विगुणायुषः सत्यमहाभास्वरा इत्यर्थः । ऊर्ध्वमित्यूर्ध्वं सत्यलोकेऽप्रतिहतज्ञाना अवीचेस्तु प्रभृत्यातपोलोकं सूक्ष्मव्यवहितादि सर्वं विजानन्तीत्यर्थः । तृतीयं ब्रह्मणः सत्यलोकमाह- १ क. ख. यामास्तु । २ क. ख. 'ति । ते स । ३ ग. घ. च. ज. रिवाराः । ४ ख. च. अजना। ५क. ख. चित्ताभा । हनज्ञाना अधरभूमिष्वनातज्ञानविषयाः । तृतीये ब्रह्मणः सत्य- लोके चत्वारो देवनिकाया अकृतभवनन्यासाः स्वप्रतिष्ठा उप- युपरिस्थिताः प्रधानवशिनो यावत्सर्गायुषः।

तत्राच्युताः सवितर्कभ्यानसुखाः, शुद्धनिवासाः सविचार-
ध्यानसुखाः, सत्याभा आनन्दमात्रध्यानसुखाः, संज्ञासंज्ञिनश्चा-
स्मितामात्रध्यानसुखाः। तेऽपि त्रैलोक्यमध्ये प्रतितिष्ठन्ति । त
एते सप्त लोकाः सर्व एव ब्रह्मलोकाः । विदेहमतिलयास्तु
मोक्षपद वतन्त इति न लोकमध्ये न्यस्ता इति । एतयोगिना
साक्षात्करणीयं सूर्यद्वारे संययं कृत्वा, ततोऽन्यत्रापि एवं ताव-
दभ्यसेद्यावदिदं सर्व दृष्टमिति ॥ २६ ॥

ततीय इति । भकृतो भवनस्य गृहस्य न्यासो यैस्ते तथोक्ताः । आधाराभावादेव स्वप्र. तिष्ठाः । स्वेषु शरीरेषु प्रतिष्ठा येषां ते तथोक्ताः । प्रधानवशिनस्तदिच्छातः सत्वरजस्त.. मांसि प्रवर्तन्ते यावत्सर्गायुषः।

  तथाच श्रूयते---

" ब्रह्मणा सह ते सर्व संप्राप्ते प्रतिसंचरे।।
परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम् "

  [कू० पु० पू० ख० १२ । २६९ ] इति ॥

  तदेवं चतुणों देवनिकायानां साधारणधर्मानुक्त्वा नामविशेषग्रहणेन धर्मविशेषानाह- तत्रेति । अच्युता नाम देवाः स्थूलविषयध्यानमुखास्तेन ते तृप्यन्ति । शुद्धनिवासा नाम देवाः सूक्ष्मविषयध्यानमुखास्तेन ते तृप्यन्ति । सत्याभा नाम देवा इन्द्रियविषयध्यानमुखा- स्तेन ते तृप्यन्ति । संज्ञासंझिनो नाम देवा अस्मितामात्रध्यानमुखास्तेन ते तृष्यन्ति । त एते सर्वे संप्रज्ञातसमाधिमुपासते । अथासंप्रज्ञातसमाधिनिष्ठा विदेहप्रकृतिलया: कस्मान्न लोकमध्ये न्यस्यन्त इत्यत आह -विदेहप्रकृतिलयास्त्विति । बुद्धिवृत्तिमन्तो हि दर्शि- तविषया लाकयात्रां वहन्तो लोकेषु वर्तन्ते । नचैत्रं विदेहप्रकृतिलयाः सत्यपि साधि- कारत्व इत्यर्थः । तदेतदासत्यलोकमा चावीचेोगिना साक्षात्करणीयं, सूर्यद्वारे सुषुम्नायां नाड्याम् । न चैतावताऽपि तत्साक्षात्कारो भवतीत्यत आह -एवं तावदन्यत्रापि सुषु. म्नाया अन्यत्रापि योगोपाध्यायोपदिष्टेषु यावदिदं सर्वं जगदृष्टमिति । बुद्धिसत्त्रं हि स्वभावत एव विश्वप्रकाशनसमर्थ तमोमलावतं यत्रैव रजसोद्घाय्यते तदेव प्रकाशयति । सूर्यद्वारसंयमोद्घाटितं तु भुवनं प्रकाशयति । न चैवमन्यत्रापि प्रसङ्गस्तत्संयमस्य तावन्मा. त्रोद्घाटनसामर्थ्यादिति सर्वमवदातम् ॥ २६ ॥

[९३]

चन्द्रे ताराव्युहज्ञानम् ॥ २७ ॥

चन्द्रे संयमे कृत्वा ताराणां व्यूह विजानीयात् ॥ २७ ॥

ध्रुवे तद्गविज्ञानम् ॥ २८ ॥

ततो ध्रुवे संयमं कृत्वा ताराणां गतिं विजानीयात् । ऊर्य.
विमानेषु कृतसंयमस्तानि विजानीयात् ॥ २८ ॥

नाभिचके कायव्यूहज्ञानम् ॥ २९ ॥

नाभिचक्रे संयमं कृत्वा कायन्यूह विजानीयात् । वातपित्त-
लेष्माणखयो दोषाः । पातवः सप्त त्वग्लोहितांसनायवस्थि-
मजाशुक्राणि । पूर्व पूर्वमेषां वायमित्येष विन्यासः ॥ २९ ॥

कण्ठकूपे क्षुत्पिपासानिवृत्तिः ॥ ३० ॥

जिताया अधस्तात्तन्तुस्तन्तोरवस्तात्कण्ठस्ततोऽधस्तात्कूप-
स्तत्र संयमात्क्षुत्पिपासे न बाते ॥ ३० ॥

कूर्मनाड्यां स्थैर्यम् ॥ ३१ ॥

  कूपादध उरसि कूर्माकारा नाही, तस्यां कृतसंयमः स्थिर-
पदं लभते । यथा सो गोधां वेति ॥ ३१॥

मूर्धज्योतिषि सिद्धदर्शनम् ॥ ३२ ॥

  शिरःकपालेऽन्तश्छिद्रं प्रभास्वरं ज्योतिस्तत्र संयम कृत्वा
सिद्धानां द्यावापृथिव्योरन्तरालचारिणां दर्शनम् ॥ ३२ ।।


चन्द्रे ताराव्यूहज्ञानम् । ध्रुवे तद्गतिज्ञानम् । नाभिचक्रे कायव्यूहन्नानम् । कण्ठकूपे क्षुत्पिपासानिवृत्तिः। कर्मनाड्या स्थैर्यम् । तत्र तत्र जिज्ञासायां योगि. नस्तत्र तत्र संयमः । एवं क्षुत्पिपासानिवृत्तिहेतुः संयमः स्थैर्यहतुश्च सूत्रपदैरुपदिष्टो भाष्यण च निगदव्याख्यातेन व्याख्यात इति न व्याख्यातः ॥ २७ ॥ २८ ॥ ॥ २९ ॥ ३० ॥ ३१॥

  मूर्धज्योतिषि सिद्धदर्शनम् । मूर्धशब्देन सुषुम्ना नाडी लक्ष्यते तत्र संयम इति ॥ ३२ ॥


[९४]

प्रातिभाद्वा सर्वम् ॥ ३.३३ ॥

 प्रातिभं नाम तारकं तद्विवेकजस्य ज्ञानस्य पूर्वरूपम् । यथो-
दये प्रभा भास्करस्य । तेन वा सर्वमेव जानाति योगी प्राति-
भस्य ज्ञानस्योत्पत्ताविति ।। ३३ ॥

हृदये चित्तसंवित् ॥ ३.३४॥

  यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म तत्र विज्ञानं सस्मि-
न्संयमाञ्चित्तसंवित् ॥ ३४ ॥

सत्त्वपुरुषयोरत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोगः परार्थात्स्वार्थसंयमात्पुरुषज्ञानम् ॥ ३.३५ ॥

बुद्धिसत्त्वं प्रख्याशीलं समानसत्त्वोपनिवन्धने रजस्तमसी


प्रातिभावा सर्वम् । प्रतिभोहस्तद्भवं प्रातिभम् । प्रसंख्यानहेतुसंयमवतो हि तत्प्रकर्षे प्रसंख्यानोदयपूर्वलिङ्गं यदूहजं ज्ञानं तेन सर्व विजानाति योगी । तच्च प्रसं- ख्यानसंनिधापनेन संसारात्तारयतीति तारकम् ॥ ३३ ॥

  हृदये चित्तसंवित् । हृदयपदं व्याचष्टे -यदिदमस्मिन्ब्रह्मपुरे । बृहत्त्वादात्मा ब्रह्म तस्य पुरं निलस्तद्धि तत्र विजानाति स्वमिति । दहरं गतं तदेव पुण्डरीकम- धोमुखं वेश्म मनसः । चित्तसंवेदनावे हेतुमाह -तत्र विज्ञानं तत्र संयमाचित्तं विजानाति स्ववृत्तिविशिष्टम् ॥ ३४ ॥

  सत्त्वपुरुषयोरत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोगः परीर्थात्स्वार्थसंयमा- स्पुरुषज्ञानम् । यत्र प्रकाशरूपस्यातिस्वच्छस्य नितान्ताभिभूतरजस्तमस्तया विवेक- ख्यातिरूपेण परिणतस्य बुद्धिसत्त्वस्याऽऽत्यन्तिकश्चैतन्यादसंकरस्तत्र कैव कथा रजस्तमसोर्जडस्वभावयोरित्याशयवा-सूत्रकारः सत्त्वपुरुषयोरित्युवाच । इममेवाभिप्रायं गृहीत्वा भाष्यकारोऽप्याह -बुद्धिसत्त्वं प्रख्याशीलमिति । न प्रख्याशीलमात्रमपि तु विवेकख्यातिरूपेण परिणतमतो नितान्तशुद्धप्रकाशतयाऽत्यन्तसारूप्यं चैतन्येनेति संकर इत्यत आह -समानेति । सत्त्वेनोपनिबन्धनमविनाभावः संबन्धः, समानम् सत्वोपनिबन्धनं वयो रजस्तमसोस्ते तथोक्त । वशीकारोऽभिभवः । असंकरमाह-


[९५] १५६ वाचस्पतिकृतटीकासंवलिसव्यासभागष्यसमेतानि- [ ३ विभूतिपादे,

ततः प्रातिभश्रावणवेदनादर्शास्वादवार्ता जायन्ते ॥ ३.३६॥

प्रातिभात्सूक्ष्मव्यवहितविप्रकृष्टातीतानागतज्ञानम् । श्रावणा- दिव्यशब्दश्रवणम् । वेदनादिव्यस्पर्शाधिगमः । आदर्शाद्दिव्यरूपसंवित् । आस्वादादिव्यरससंवित् । वार्तातो दिव्यगन्धविज्ञानमित्येतानि नित्यं जायन्ते ॥३६॥

ते समाधावुपसर्गा व्युत्थाने सिद्धयः ॥ ३.३७ ॥

ते प्रातिभादयः समाहितचित्तस्योत्पद्यमाना उपसर्गास्तदर्शप्रत्यनीकत्वात् । व्युत्थितचित्तस्योत्पद्यमानाः सिद्धयः॥३७॥

बन्धकारणशैथिल्यात्प्रचारसंवेदनाच्च चित्तस्य परशरीरावेशः ॥ ३.३८ ॥

स च स्वार्थसंयमो न यावत्प्रधानं स्वकार्यं पुरुषज्ञानमभिनिर्वर्तयति तावत्तस्य पुरस्ताद्या विभूतीराधत्ते ताः सर्वा दर्शयति--ततः प्रातिभश्रावणवेदनादर्शा- स्वादवार्ता जायन्ते । तदनेन योगजधर्मानुगृहीतानां मनःश्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानां यथासंख्यं प्रातिभज्ञानदिव्यशब्दाद्यपरोक्षहेतुभावा उक्ताः । श्रोत्रादीनां पञ्चानां दिव्यशब्दाद्युपलम्भकानां तान्त्रिक्यः संज्ञाः श्रावणाद्याः । सुगभं भाष्यम् ॥ ३६ ॥ कदाचिदात्मविषयसंयमे प्रवृत्तस्तत्प्रभावादमूर्त्थान्तरसिद्धीरधिगम्य कृतार्थमन्यः संयमाद्विरभेदत आह-ते समाधाधुपसर्गा व्युत्थाने सिद्धयः । व्युस्थितचित्तो हि ताः सिद्धीरभिमन्यते । जन्मदुर्गत इवं द्रविणकणिकामपि द्रविणसंभारम् । योगिना तु समाहितचित्तेनोपनताभ्योऽपि ताभ्यो विरन्तव्यम् । अभिसंहिततापत्रयात्यन्तिकोपशमरूपपरम- पुरुषार्थः स खल्वयं कथं तत्प्रत्यनीकासु सिद्धिष रज्येतेति सूत्रभाष्ययार्थः ॥ ३७॥ . तदेवं ज्ञानरूपमैश्वर्यं पुरुषदर्शनान्तं संयमफलमुक्त्वा क्रियरूपमैश्वर्यं संयमफलमाह--बन्धकारणशैथिल्याप्रचारसंवेदनाच्च चित्तस्य परशरीरावेशः । - रस. चं. ज. निधार ख. स. भाव उक्तः । भो । 0 ३.९:]. ... ... . पातञ्जलयोगसूत्राणि । . . .

लोलीभूतस्य मनसोऽप्रतिष्ठस्य शरीरे कर्माशयवशाद्बन्धः पतिष्ठेत्यर्थः । तस्य कर्मणो बन्धकारणस्य शैथिल्यं समाधिवलाद्भवति । प्रचारसंवेदनं व चित्तस्य समाधिजमेव । कर्मबन्धक्षयात्स्वचित्तस्य प्रचारसंवेदनाश्च योगी चित्तं स्वशरीरान्निष्कृष्य

शरीरान्तरेषु निक्षिपत्ति । निक्षिप्तं चित्तं चेन्द्रियाण्यनु पतन्ति । यथा मधुकरराजानं मक्षिका उत्पतन्तमनुत्पतन्ति निविशमानमनु निविक्षन्ते तथेन्द्रियाणि परशरीरावेशे चित्तमनु विधीयन्त इति ॥ ३८॥ .. . . . . . .

उदानजयाज्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च ॥ ३.३९ ॥

समस्तेन्द्रियवृत्तिः प्रागादिलक्षणा जीवनं, तस्य क्रिया पञ्चतयी प्राणो मुखनासिकागतिराहृदयवृत्तिः । समं नयनात्समानश्चाऽऽनाभिवृत्तिः । अपनयनादपान आपादतलवृत्तिः । उन्न-


समाधिवलादिति । बन्धकारणेविषयसंयमबलात्प्राधान्यत्समाधिग्रहणम् । प्रचरत्मनेनास्मिन्निति प्रचारः । चित्तस्य गमागमाध्वानो नाड्यस्तस्मिन्प्रचारे संयमात्तद्वेदनं, तस्माञ्च बन्धकारणशैथिल्यान्न तेन प्रतिबध्यते । अप्रतिबद्धमप्युन्मार्गेण गच्छन्न स्वशरीरादप्रत्यूहं निष्कामति । न च परशरीरमाविशति । तस्मात्तप्रचारोऽपि ज्ञातव्यः । इन्द्रियाणि च चित्तानुसारीणि परशरीरे यथाधिष्ठानं निविशन्त इति ॥ ३८ ॥ '. उदानजयाज्जलपङ्कन्कण्टकादिष्वसङ्ग उत्क्रान्तिश्च । समस्तेन्द्रियवृत्तिर्जीवनं प्राणादिलक्षणा प्राणादयो लक्षणं यस्याः सा तथोक्ता । द्वयीन्द्रियाणां वृत्तिर्बाह्याऽऽभ्यन्तरी च । बाह्या रूपाद्यालोचनलक्षणा । आभ्यन्तरी तु जीवनं, सा हि प्रयत्नभेदः शरीरोपगृहीतमारुतक्रियाभेदहेतुः सर्वकरणसाधारणः । - यथाऽऽड्क:-"सामान्यकरणवृत्तिः प्राणाद्या वायवः पञ्च" [ सां० का० २९ ] इति । तैरस्य लक्षणीयत्वात्तस्य प्रयत्नस्य क्रिया कार्यं पञ्चतयी। प्राण आ नासिकाग्रादा च हृदयादवस्थितः । अशितपीताहारपरिणतिभेदं रसं तत्र तत्र स्थाने सममनुरूपं नयन्समानः । आ हृदयादा च नाभेरस्यावस्थानम् । मूत्रपुरीषगर्भादीनामपनयनहेतुरपानः । आ १ख झ. "णसं २क, ख. झ.स। १५८ पाचस्पतिकतरीकासंगाजत पासमान्पसमेतानि

 यनादुदान आशिरोवृत्तिःव्यापी व्यान इतिएषां प्र[९६]धानं
प्राणःउदानजयाज्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च पाय-

णकाले भवतितां वशित्वेन प्रतिपद्यते ॥ ३९ ।।

       समानजयाज्ज्वलनम् ॥ ३.४० ॥
       
जितसमानस्तेजस उपध्मानं कृत्वा ज्वक[९७]लयति ॥ ४०॥

       'श्रोत्राकाशयोः संबन्धसंयमाद्दिव्यं श्रोत्रम्॥३.४१॥   
       

सर्वश्रोत्राणामाकाशं प्रतिष्ठां[९८] सर्वशब्दानां च। यथोक्तम्--


माभेरा च पादतलादस्य वृत्तिः । उन्नयनाद् नयनादसादीनामुदानः । मा नासिकाप्रादा

च शिरसो वृत्तिरस्य । पापी  व्यानः । एषा मुक्तानां प्रधानं प्राणस्तदुत्क्रमे सर्वोत्क्रम

"प्राणमुत्क्रामन्तमनु सर्वे प्राणा उत्क्रान्ति" [बृ०४।।२ ] इति । तदेवं प्राणादीनां

क्रियास्थानंभेदेन भेदं प्रतिपाद्य सूत्रार्थमवतारयति --उदानजयादिति । उदाने कृतसंयम-

स्तजयाज्जलादिभिर्न प्रतिहन्यते । उत्क्र् निॠ्चिराचिरादिमाग[९९]ण भवति प्रायणकाले । तस्मात्ता- मुत्क्रान्ति वशित्वेन प्रतिपद्यते। प्राणादिसंयमात्तद्विज[१००]ये भूतजन एताः क्रियाः स्थानैविजया- दिभेदात्प्रतिपत्ताः ॥ ३९ ॥ समानजयाज्ज्वलनम् । तेजसः शारीरस्योपम्मानमुत्तेजनम् ॥ १० ॥

स्वार्थसंयमादम्बाचयशिष्टं श्रावणाद्यक्तं संप्रति श्रावणाद्ययऻदेव संयमऻच्छ्,वणादि भवती.त्याह---श्रोत्राकाशयोः संवन्धसंयमादिव्यं श्रोत्रम् । संयमविषयं श्रोत्रम संबन्धमाधाराधेयभावमाह-सर्वश्रोत्राणामाहंकारिकाणामप्याकाशं कर्णशकुलीविवरं प्रतिष्ठा तदायतनं श्रोत्रं तदुपकार,पकाराभ्यां श्रोत्रस्योपकारापकारदर्शनात् - शब्दानां च श्रोत्रसह- कमरणंी पार्थिवादिशब्दग्रहणे कर्तव्ये कर्णशष्कुलीसुषिर्र[१०१]वति श्रोत्रं स्वाश्रय[१०२]नभोगतासाधार- दृष्टम् ।गन्धादिगुणसहकारिभिघ्राणादिभि[१०३]र्वा[१०४]ह्यं । आहंकारिकमपि घ्राणरसनत्वकचक्शुः स्रोत्रं र्भूताधिष्ठानमेव भूतोपकारापकाराभ्यां प्राणा, दीनामुपकारापकारदर्शनादित्युक्तम् । तच्छेदं श्रोत्रमाहंकारिकमयःप्रतिममयस्कान्तमणिकल्पेन वक्तृवक्रसमुत्पन्नेन वस्थेन शब्देनाऽऽकृष्टं स्वे[१०५]वृत्ततिपरम्परया वक्तवक्रमागतं शब्दमालोचयति । णशब्दमपेक्षते । सू०.१] पातञ्जलयोगसूत्राणि । १५९ तुल्यदेशश्रवणानामेकदेशश्रुतित्वं सर्वेषां. भवतीति । तचैतदाकाशस्य लिङ्गम् । . अनावरणं धोक्तम् । तथाऽमूर्तस्यानावरणदर्शनाद्विभुत्वमपि प्रख्यातमाकाशस्य । शब्दग्रहणानुमितं श्रोत्रम्.। बधिराबधिरयोरेक: शब्दं गृह्णात्यपरो न गृह्णातीति. 1 तस्माच्छोत्रमेव शब्दविषयम् । श्रोत्राकाशयोः संबन्धे कृतसंयमस्य योगिनो दिव्यं श्रोत्रं प्रवर्तते ॥४१॥ . . . . . .


तथाच दिग्देशवर्तिशब्दप्रतीतिः प्राणभृन्मात्रस्य नासति बाधकेऽप्रमाणीकृता भविष्य- तीति । तथाच पञ्चशिखस्य वाक्यम्-तुल्यदेशश्रवणानामेकदेशश्रुतित्वं सर्वेषां भवतीति । तुल्यदेशानि श्रवणानि श्रोत्राणि येषां चैत्रादीनां ते तथोक्ताः । सर्वेषा श्रवणान्याकाशवर्तीनीत्वर्थः । तच्च श्रोत्राधिष्ठानमाकाशं शब्दगुणतन्मात्रादुत्पन्नं शब्दगुणकं येन शब्देन सहकारिणा पार्थिवादीञ्शब्दानगृह्णाति । तस्मात्सर्वेषामेकजातीया श्रुतिः शब्द इत्यर्थः । तदनेन श्रोत्राधिष्ठानत्वमाकाशस्य शब्दगुणत्वं च दर्शितमिति । तच्चैकदेश. श्रुतित्वमाकाशस्य लिङ्गम् । सा ह्येकजातीया शब्दव्यञ्जिका श्रुतिर्यदाश्रया तदेवाऽऽकाशशब्दवाच्यम् । न हीदृशीं श्रुतिमन्तरेण शब्दव्यक्तिः । न चेदृशी श्रुतिः पृथिव्यादिगुणस्तस्य स्वात्मनि व्यङ्ग्यव्यञ्जकत्वानुपपत्तेरिति । अनावरणं चाऽऽकाशलिङ्गम् । यद्याकाशं, नाभविष्यदन्योन्यसंपिण्डितानि मूर्तानि न सूचीभिरप्यभेत्स्यन्त । ततश्च सर्वेरेव सर्वमावृतं स्यात् । न च मूर्तद्रव्याभावमात्रादेवानावरणमस्याभावस्य भाषाश्रितत्वेन तदभावेऽभावात् । न च चितिशक्तिस्तदाश्रया भवितुमर्हति । अपरिणामितयाऽवच्छेदकत्वाभावात् । न च दिक्कालादयः पृथिव्यादिद्रव्यव्यतिरिकाः सन्ति । तस्मात्तादृशः परिणतिभेदो नभस एवेति सर्वमवदातम् । अनावरणे चाऽऽकाशलिङ्गे सिद्धे यत्र यत्रानावरणं तत्र तत्र सर्वत्राऽऽकाशमिति सर्वगतत्वमप्याकाशस्य सिद्धमित्याह-तथाऽमूर्तस्येति । श्रोत्रसद्भावे प्रमाणमाह -शब्दग्रहणेति । क्रिया हि करण- साध्या दृष्टा । यथा छिदादिर्वास्यादिसाध्या। तदिह शब्दग्रहणक्रिययाऽपि करणसाध्यया भवितव्यं, यच्च करणं तच्च श्रोत्रमिति । अथास्याश्चक्षुरादय एव कस्मात्करणं न भवन्तीत्यत आह-बधिराबधिरयोरिति । अन्वयव्यतिरेकाभ्यामवधारणम् । उपलक्षणं चैतत्वग्वा- तयोश्चक्षुस्तेजसो रसनोदकयोर्नासिकापृथिव्योः संबन्धसंयमाद्दिव्यत्वगाद्यप्यूहनीयम् ॥४१॥ - - - १. ख. च. ज. 'स्याप्यन्यवाना। १६० बाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि- [ ३ विभूतिपादे-

कायाकाशयोः संबन्धसंयमाल्लघुतूलसमापत्तेश्चाऽऽकाशगमनम् ॥ ३.४२ ॥

यत्र कायस्तत्राऽऽकाशं तस्यावकाशदानात्कायस्य तेन संबन्धः प्राप्तिस्तत्र कृतसंयमो जित्वा तत्संबन्धं लघुषु वा तूलादिष्वा परमाणुभ्यः समापत्तिं लब्ध्वा जितसंबन्धी लघुर्भवति । लघुत्वाश्च जले पादाभ्यां विहरति । ततस्तूर्णनाभितन्तुमात्रे विहृत्य रश्मिषु विहरति । ततो यथेष्टमाकाशगतिरस्य भवतीति ॥ ४२ ॥

बहिरकल्पिता वृत्तिर्महाविदेहा ततः प्रकाशावरणक्षयः॥३.४३॥

शरीराद्बहिर्मनसो वृत्तिलाभी विर्देहा नाम धारणा । सा यदि शरीरमतिष्ठस्य मनसो बहिर्वृत्तिमात्रेण भवति सा कल्पितेत्युच्यते । या तु शरीरनिरपेक्षा बहिर्भूतस्यैव मनसो बहिर्वृत्तिः सा खल्वकल्पिता । सत्र कल्पितया साधवन्त्यकल्पितां महाविदेहामिति । यया परशरीराण्याविशन्ति योगिना । ततश्च धारणातः प्रकाशात्मनो बुद्धिसत्त्वस्य यदावरणं क्लेशकर्म-


कायाकाशयोः संबन्धसंयमाल्लधुतूलसमापत्तेश्वाऽऽकाशगमनम् । कायाकाशसंबन्धसंयमाद्वा लघुनि वा तूलादी कृतसंयमात्समापत्तिं चेतसस्तत्स्थतदानतां लब्ध्वेति । सिद्धिक्रममाह-जल इति ॥ ४२ ॥ - अपरमपि परशरीरावंशहेतुं संयमं क्लेशकर्मविपाकक्षयहेतुं चाऽऽह-~-बहिरकल्पिता वृत्तिर्महाविदेहा ततः प्रकाशावरणक्षयः । विदेहामाह-शरीरादिति । अकल्पिताया महाविदेहाया य उपायस्तत्प्रदर्शनाय कल्पितां विदेहामाह-सा यदीति । वृत्तिमात्रं कल्पनाज्ञानमात्रं तेन । महाविदेहामाह-या त्विति । उपायोपेयते कल्पिताकल्पितयोराह--तत्रेति । किं परशरीरावेशमात्रमितो नेत्याह-ततश्वेति । ततो धारणातो महाविदेहाया मनःप्रवृत्तेः सिद्धिः । क्लेशश्च कर्म च ताभ्यां ४. "१ क. बन्धाराप्ति । ख. "बन्धो व्याप्ति' । घ. 1. च. बन्धमा । २ क. ख. गुम । ३ ख. ग. प. उ. प. ज. लघुः । ल । ४ ख. ग. प. उ. ज. यस्यक । ५ ख. ज.स. हेतुमाह। सू० ४४] . पातञ्जलयोगसूत्राणि । . १६१ विपाकत्रयं रजस्तमोमूलं तस्य च क्षयो भवति ॥ ४३ ॥

स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद्भूतजयः ॥३.४४॥

तत्र पार्थिवाद्याः शब्दादयो विशेषाः सहाऽऽकारादिभिर्धर्मैः स्थूलशब्देन परिभाषिताः । एतद्भूतानां प्रथमं रूपम् । द्वितीयं रूपं स्वसामान्य मूर्तिर्भूमिः स्नेहो जलं वह्निरुष्णता वायुः


विपाकत्रयं जात्यायुर्भोगाः । तदेतद्रजस्तमोमूलं विगलितरजस्तमसः सत्त्वमात्राद्विवेकख्यातिमात्रसमुत्पादात् । तदेतद्विपाकत्रयं रजस्तमोमूलतया तदात्मकं सद्बुद्धिसत्त्वमावृणोति । तत्क्षयाच्च निरावरणं योगिचित्तं यथेच्छं विहरति विजानाति चेति ॥ ४३ ॥ स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद्भूतजयः । स्थूलं च स्वरूपं च सूक्ष्मं चान्वयश्चार्थवत्त्वं चेति स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वानि तेषु संयमात्तज्जयः । स्थूलमाह- तत्रेति । पार्थिवाः पाथीयास्तैजसा वायवीया आकाशीयाः शब्दस्पर्शरूपरसगन्धा यथासंभवं विशेषाः षड्जगान्धारादयः शीतोष्णादयो नौलपीतादयः कषायमधुरादयः सुरभ्यादयः । एते हि नामरूपप्रयोजनैः परस्परतो भिद्यन्त इति विशेषाः । एतेषां पञ्च पृथिव्यां गन्धवर्जं चत्वारोऽस्तु गन्धरसवर्जं त्रयस्तेजसि गन्धरसरूपवर्जं द्वौ नभस्वति शब्द एवाऽऽकाशे । त एव ईदृशा विशेषाः सहाऽऽकारादिभिर्धर्मैः स्थूलशन्देन परिभा. षिताः शास्त्रे । तत्रापि पार्थिवास्तावद्धर्माः- ___ " आकारो गौरवं रौक्ष्यं वरणं स्थैर्यमेव च । वृत्तिर्भेदः क्षमा कार्ष्ण्यं काठिन्यं सर्वभोग्यता" ।। अपां धर्माः-" स्नेहः सौम्यं प्रभा शौक्ल्य मार्दवं गौरवं च यत् । शैत्यं रक्षा पवित्रत्वं संधान चौदका गुणाः " ॥ तैजसा धर्माः-" ऊर्ध्वभाक्वाचकं दग्धृ पावकं लघु भास्वरम् । प्रध्वंस्योजस्त्रि वै तेजः पूर्वाभ्यां भिन्नलक्षणम् " ॥ वायवीया धर्मा:-" तिर्यग्यानं पवित्रत्वमाक्षेणे नोदनं बलम् । चलमच्छायता रोक्ष्यं वायोधर्माः पृथग्विधाः " ॥ आकाशीया धर्माः---" सर्वतोगतिरव्यहोऽविष्टम्भश्चेति ते त्रयः । आकाशधर्मा व्याख्याताः पूर्वधर्मविलक्षणाः ” इति ।। त एत आकारप्रभृतयो धर्मास्तैः सहेति । आकारश्च सामान्याविशेषो गोत्वादिः । द्वितीय रूपमाह-द्वितीयं रूपं स्वसामान्यम् । मूर्तिः सांसिद्धिकं काठिन्यम् । स्नेहो जलं मृजापुष्टिबलाधानहेतुः । वह्विरुष्णतोदर्ये सौर्ये भौमे च सर्वत्रैव तेजसि १ के. यिंग आप्य सै। २ ख. ज. झ. च । १६२ ... वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि - [ ३ विभूतिपादे- प्रणामी सर्वतोगतिराकाश इत्येतत्स्वरूपशब्देनाच्यते । अस्य सामान्यस्य शब्दादयो विशेषाः । तथा चोक्त . एकजातिसमन्वितानामेषां धर्ममात्रव्यावृत्तिरिति । सामान्यविशेषसमुदायोऽत्र द्रव्यम् । द्विष्टो हि समूहः प्रत्य-. स्तमितभेदावयवानुगतः शरीर वृक्षा यूथं वनमिति ।


समक्तोष्णतेति । सर्वं चैतद्धर्मधर्मिणोरभेदविवक्षयाऽभिधानम् । वायुः प्रणामी वहनशीलः । तदाह-" चलनेन तृणादीनां शरीरस्याटनेन च । __ सर्वगं वायुसामान्यं नामित्वमनुमीयते " ॥ सर्वतोगतिराकांशः सर्वत्र शब्दोपलब्धिदर्शनात् । श्रोत्राश्रयाकाशगुणेन हि शब्देन पार्थिवादिशब्दोपलब्धिरित्युपपादितमधस्तात् । एतत्स्वरूपशब्देनोक्तम् । . अस्यैव मूर्त्यादिसामान्यस्य शब्दादयः षड्जादय उष्णत्वादयः शुक्लत्वादयः कषायत्वादयः सुरभित्वादयो मूर्त्यादीनां सामान्यानां भेदाः । सामान्यान्यपि मूर्त्यादीनि जम्बीरपनसामलकफलादीनि रसादिभेदात्परस्परं व्यावर्तन्ते । तेनेतेषामेते रसादयो विशेषाः । तथा चोक्तम्-एकजातिसमन्वितानां प्रत्येकं पृथिव्यादीनामेकैकया जात्या मूर्तिस्नेहादिना समन्वितानामेषां षड्जादिधर्ममात्रव्यावृत्तिरिति । तदेवं सामान्यं मृर्त्याद्युक्तं विशेषाश्च शब्दादय उक्ताः । ये चाऽऽहुः सामान्यविशेषःश्रयो द्रव्यमिति तान्प्रत्याह-सामान्यविशेषसमुदायोऽत्र दर्शने द्रव्यम् । येऽपि तदाश्रयो द्रव्यमास्थिषत तैरपि तत्समुदायोऽनुभूयमानो नापह्रोतव्यः । न च तदपह्रवे तयोराधारो द्रव्यमिति भवति । तस्मात्तदेवास्तु द्रव्यम् । न तु ताभ्यां तत्समुदायाच्च तदाधारमपरं द्रव्यमुपलभामहे । ग्रावभ्यो ग्रावसमुदायादिव च तदाधारमपरं पृथग्विधं शिखरम् । समूहो द्रव्यमित्युक्तं तत्रे समूहमात्रं द्रव्यमितिभ्रमापनुत्तये समूहविशेषो द्रव्यमिति निर्धारयितुं समूहप्रकारानाह---द्विष्ठो होति । यस्मादेवं तस्मान्न समूहमात्रं द्रव्यमित्यर्थः । द्वाभ्यां प्रकाराभ्यां तिष्ठतीति द्विष्ठः । एकं प्रकारमाह- प्रत्यस्तमितोते । प्रत्यस्तमितो भेदो येषामवयवानां ते तथोक्ताः । प्रत्यस्तमितभेदा अवयवा यस्य स तथोक्तः । एतदुक्तं भवति- शरीरवृक्षयूथवनशब्देभ्यः समूहः प्रतीयमानोऽप्रतीतावयवभेदस्तद्वाचकशब्दाप्रयोगात्समूह एकोऽवगम्यत इति । युतायुतसिद्धाव- यवत्वेन चेतनाचेतनत्वेन चोदाहरणचतुष्टयम् । युतायुतसिद्धावयवत्वं चाग्रे वक्ष्यते । . १ के. ख. रस। सू० ४३] पातञ्जलयोगसूत्राणि । १६३ .. शब्देनोपात्तभेदावयवानुगतः समूह उभये देवमनुष्याः । समूहस्य देवा एको भागो मनुष्या द्वितीयो भागस्ताभ्यामेवाभिधीयते समूहः । स च भेदाभेदविवक्षितः । आम्राणां वनं ब्राह्मणानां संघ आम्रवर्ण ब्राह्मणसंघ इति । - स पुनर्द्विविधो युतसिद्धावयवोऽयुतसिद्धावयवश्च । युतसिद्धावयवः समूहो वनं संघ इति । अयुतसिद्धावयवः संघातः शरीरं वृक्षः परमाणुरिति । अयुतसिद्धावयवभेदानुगतः समूहो द्रव्यमिति पतञ्जलिः । एतत्स्वरूपमित्युक्तम् ।। __ अथ किमेषां सूक्ष्मरूपं, तन्मात्र भूतकारणं, तस्यैकोऽवयवः परमाणुः सामान्यविशेषात्माऽयुतसिद्धावयवभेदानुगतः समुदाय


द्वितीयं प्रकारमाह-शब्देनोपात्तभेदावयवानुगतः समूह उभये देवमनुष्या इति । देवमनुष्या इति हि शब्देनोभ्यशब्दवाच्यस्य समूहस्य भागौ भिन्नावुपात्तौ । ननूभयशब्दात्तावदवयवभेदो न प्रतीयते तत्कथमुपात्तभेदावयवानुगत इत्यत आह--ताभ्यां भागाभ्यामेव समूहोऽभिधीयते । उभयशब्देन भागद्वयवाचिशब्दसहितेन समूहो वाच्यः, वाक्यस्य वाक्यार्थवाचकत्वादिति भावः । 'पुनर्द्वैविध्यमाह-स चेति । भेदेन चाभेदेन च विवक्षितः । भेदविवक्षितमाह- आम्राणां वनं ब्राह्मणानां संघ इति । भेद एवं षष्टीश्रुतेः, यथा गर्गाणां गौरिति । अभेदविवक्षितमाह-आम्रवणं ब्राह्मणसंघ इति । आम्राश्च ते वनं चेति समहसमूहिनोरभेदं विवक्षित्वा सामानाधिकरण्यमित्यर्थः । विधान्तरमाह-स पुनर्द्विविधः । युतसिद्धावयवः समूहः । युतसिद्धाः पृथक्सिद्धाः सान्तराला अवयवा यस्य स तथोक्तः, यूथं वनमिति । सान्तराला हि तदवयवा वृक्षाश्च गावश्च । अयुतसिद्भावयश्च समूहो वृक्षो गौः परमाणुरिति । निरन्तरा हि तदवयवाः सामान्यविशेषा वा सास्नादयो वेति । तदेतेषु, समूहेषु द्रव्यभूतं समूहं निर्धास्यति- अयुतसिद्धेति । तदेवं प्रासङ्गिक द्रव्यं व्युत्पाद्य प्रकृतमुपसंहरति-एतत्स्वरूपमित्युक्तमिति । - - तृतीयं रूपं विवक्षुः पृच्छति- अथेति । उत्तरमाह-तन्मात्रमिति । तस्यै- कोऽवयवः परिमाणभेदः परमाणुः, सामान्य मूर्तिः, शब्दादयो विशेपास्तदात्मा, अयुतसिद्धा निरन्तरा येऽवयवाः सामान्य विशेषास्तद्भेदेष्वनुगतः समुदायः । यथा च १ ख. ज. झ. रिगामझे' । २ ज. 'मानेऽय' । इत्येव सर्वतन्मात्राण्येतत्तृतीयम् । अथ भूतानां चतुर्थं रूपं ख्यातिक्रियास्थितिशीला गुणाः कार्यस्वभावानुपातिनोऽन्वयशब्देनोक्ताः। अथैषां पञ्चमं रूपमर्थवत्त्वं, भोगापवर्गार्थता गुणेष्वेवान्वयिनी,गुणास्तन्मात्रभूतभौतिकेष्विति सर्वमर्थवत् । तेष्विदानीं भूतेषु. पञ्चसु पञ्चरूपेषु संयमात्तस्य तस्य रूपस्य स्वरूपदर्शनं जयश्च प्रादुर्भवति । तत्र पञ्च भूतस्वरूपाणि जित्वा भूतजयी भवति । तज्जयाद्वत्सानुसारिण्य इव गावोऽस्य संकल्पानुविधायिन्यो भूतप्रकृतयो भवन्ति ॥४४॥

ततोऽणिमादिप्रादुर्भावः कायसंपत्तद्धर्मानभिघातश्च ॥ ३.४५ ॥

तत्राणिमा भवत्यणुः । लघिमा लघुर्भवति । महिमा महान्भवति । प्राप्तिरङ्गुम्ल्यग्नेगापि स्पृशति चन्द्रमसम् । प्राकाम्या
मिच्छानभिघातः । भूमावुन्मज्जति निमज्जति यथोदके ।


परमाणुः सूक्ष्मं रूपमेवं सर्वतन्मात्राणि सूक्ष्म रूपमिति । उपसंहरति-एतदिति । अथ भूतानां चतुर्थं रूपं ख्यातिक्रियास्थितिशीला गुणाः कार्यस्वभावमनुपतितुमनुगन्तुं शीलं येषां ते तथोक्ताः । अत एवान्वयशब्देनोक्ताः । अथैषां पञ्चमं रूपमर्थवत्वं विवृणोति--भोगेति । नन्वेवमपि सन्तु गुणा अर्थवन्तस्तत्कार्याणां तु कुतोऽर्थवत्वमित्यत आह -गुणा इति । भौतिका गोघटादयः । तदेवं संयमविषयमुक्त्वा संयम तत्फलं चाऽऽह--तेष्विति । भूतप्रकृतयो भूतस्वभावाः ॥ ४४ ॥ . संकल्पानुविधाने भूतानां कि योगिनः सिध्यतीत्यत आह-ततोऽणिमादिप्रादुर्भावः कायसंपत्तद्धर्मानभिघातश्च । स्थूलसंयमजयाच्चतस्रः सिद्धयो भवन्तीत्याह- तत्राणिमा महानपि भवत्यणुः । लघिमा महानपि लघुभूत्वेषीकातूल इवाऽऽकाशे विहरति । महिमाऽल्पोऽपि नागनगगगनपरिमाणो भवति । प्राप्तिः सर्वे भावाः संनिहिता भवन्ति योगिनः । तद्यथा भूमिष्ठ एवाङ्गुल्यग्रेण स्पृशति चन्द्रमसम् । स्वरू- पसंयमविजयासिद्धिमाह-प्राकाम्यमिच्छानभिघातो नास्य रूपं भूतस्वरूपैर्मूर्त्यादिभिर्हन्यते । भूमावुन्मज्जति निमज्जति च यथोदके । सूक्ष्मविषयसंयमजयात्सि.

१ क. ख. स त° 1 २ ग. घ. ड.. 'वन्ध ।

सू० ४६]पातञ्जलयोगसूत्राणि । १६५

वशित्वं भूतभौतिकेषु वशी भवत्यवश्यश्चान्येषाम् । ईशितृत्वं तेषां प्रभवाप्ययव्यूहानामीष्टे । यत्र कामावसायित्वं सत्यसंकल्पता यथा संकल्पस्तथा भूतप्रकृतीनामवस्थानम् । नच शक्तोऽपि पदार्थविपर्यासं करोति । कस्मात् । अन्यस्य यत्र कामावसायिनः पूर्वसिद्धस्य तथा भूतेषु संकल्पादिति । एतान्यष्टावैश्वर्याणि ।

{{bold|

कायसंपद्वक्ष्यमाणा । तद्धर्मानभिघावश्च पृथ्वी मूर्त्या न निरु- णद्धि योगिनः शरीरादिक्रियां, शिलामप्यनुविशतीति । नाऽऽपः स्निग्धाः क्लेदयन्ति । नाग्निरुष्णो दहति । न वायुः प्रणामी वहति । अनावरणात्मकेऽप्याकाशे भवत्यावृतकायः सिद्धाना- मप्यदृश्यो भवति ॥४५॥

}

रूपलावण्यबलवज्रसंहननत्वानि कायसंपत् ॥ ३.४६॥

दर्शनीयः कान्तिमानतिशयबलो वज्रसंहननश्चेति ॥ ४६ ॥}}


द्धिमाह-वशित्वं भूतानि पृथिव्यादीनि भौतिकानि गोघटादीनि तेषु वशी स्वतन्त्री भवति, तेषां ववश्यस्तत्कारणतन्मात्रपृथिव्यादिपरमाणुवीकारात्तत्कार्यवीकारस्तेन यानि यथाऽवस्थापयति तानि तथाऽवतिष्ठन्त इत्यर्थः । अन्वयविषयसंयमजयासिद्धिमाह-- इशितृत्वं तेषां भूतभौतिकानां विजितमूलप्रकृतिः सन्यः प्रभव उत्पादो यश्चाप्ययो विनाशों यश्च व्यहो यथावदवस्थापनं तेषामोष्टे । अर्थवत्त्वसंयमासिद्धिमाह-यत्र कामावसा- यित्वं सत्यसंकल्पता । विजितगुणार्थवत्त्वो हि योगी यद्यदर्थतया संकल्पयति तत्तस्मै प्रयोजनाय कल्पते । विषमप्यमृतकार्ये संकल्प्य भोजयजीवयतीति । स्यादेतद्यथा शक्तिवि- पर्यासं करोत्येवं पदार्थविपर्यासमपि कस्मान्न करोति । तथाच चन्द्रमसमादित्यं कुर्यात्कु है च सिनीवालीमित्यत आह-नच शक्तोऽपीति । न खल्वेते यत्र कामावसायिनस्तत्र- भवतः परमेश्वरस्याऽऽज्ञामतिक्रमितुमुत्सहन्ते । शक्तयस्तु पदार्थानां जातिदेशकालावस्था- भैदेनानियतस्वभावा इति युज्यते तासु तदिच्छानुविधानमिति । एतान्यष्टावैश्वर्याणि ।

तद्धर्मानभिघात इति । अणिमादिप्रादुर्भाव इत्यनेनैव तद्धर्मानभिघातसिद्धौ पुनरु- पादानं कायसिद्धिवदेतत्सूत्रोपबद्धसकलविषयसंयमफलवत्त्वज्ञापनाय । सुगममन्यत् ॥४५॥

कायसंपदमाह-रूपलावण्यवलवजसंहननत्वानि कायसंपत् । वास्येव. संहन- नमवयवव्यूहो दृढो निबिडो यस्य स तथोक्तः ॥ १६॥


१ ज. ज. 'शिवं । २ न. शित्वं । ३ ख. ज. "स्थान । ४ अ. पदक'५ स.

न.झ.तथा।

ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमादिन्द्रियजयः ॥ ३.४७ ॥

 सामान्यविशेषात्मा शब्दादिग्राह्यः[१०६] । तेष्विन्द्रियाणां वृत्ति-
ग्रहणम् । न च तत्सामान्यमात्रग्रहणाकारं[१०७] कथमनालोचितः स
विषयविशेष इन्द्रियेण मनसाऽनुव्यवसीयेतेति । स्वरूपं पुनः
प्रकाशात्मनो बुद्धिसत्त्वस्य सामान्यविशेषयोरयुतासिद्धावयवभे
दानुगतः समूहो द्रव्यमिन्द्रियम् । तेषां तृतीयं रूपमस्मितालक्ष-
णोऽहंकारः । तस्य सामान्यस्येन्द्रियाणि विशेषाः। चतुर्थ रूपं व्य-
वसायात्मकाः प्रकाशक्रियास्थितिशीला गुणा येषामिन्द्रियाणि
साहंकाराणि परिणामः । पञ्चमं रूपं गुणेषु यदनुगतं पुरुषार्थव-
त्वमिति । पञ्चवतेष्विन्द्रियरूपेषु यथाक्रम संयमस्तत्र तत्र.
जयं कृत्वा पञ्चरूपजयादिन्द्रियजयः मादुर्भवति योगिनः॥४७॥

  - जितभूतस्य योगिन इन्द्रियजयोपायमाह-ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंय- मादिन्द्रियजयः । ग्रहणं च स्वरूपं चास्मिना चान्वयश्वार्थवत्त्वं च तेषु संयमस्तस्मादि. त्यर्थः । गृहीतिग्रहणं, तच्च ग्राह्याधीननिरूपणमिति ग्राह्यं दर्शयति--सामान्यविशेषा- स्मेति । ग्राह्यमुक्त्वा ग्रहणमाह-तेष्विति । वृत्तिरलोचनं विषयाकारा परिणतिरिति. यावत् । ये त्वाः --सामान्यमात्रगोचरेन्द्रियवृत्तिरिति तान्प्रत्याह---न चेति । गृह्यत. इति ग्रहणम् । न सामान्यमानगोचरं ग्रहणम् । बाह्येन्द्रियतन्त्रं हि मनो बह्ये प्रवर्तते । अन्यथाऽन्धंबधिराद्यभावप्रसङ्गात् । तदिह यदि न विशेषविषयमिन्द्रियं तेनासावनालो- चितो विशेष इति कथं मनसाऽनुव्यवसीयेत । तस्मात्सामान्यविशेषविषयमिन्द्रियालोचन- मिति । तदेतद्ग्रहणमिन्द्रियाणां प्रथमं रूपम् । द्वितीयं रूपमाह-स्वरूपं पुनरिति । अहंकारो हि सत्त्वभागेनाऽऽत्मीयनेन्द्रियाण्यजीजनत् । अतो यत्तत्र करणत्वं सामान्यं यत्र नियतरूपादिविषयत्वं विशेषस्तदुभयमपि प्रकाशात्मकमित्यर्थः । तेषां तृतीय रूपमिति । अहंकार हीन्द्रियाणां कारणमिति यत्रेन्द्रियाणि तत्र तेन भवितव्यमिति सर्वेन्द्रियसाधारण्या . सामान्यमिन्द्रियाणामित्यर्थः । चतुर्थ रूपमिति । गुणानां हि द्वैरूथ्यं व्यवसेयात्मकत्वं व्यवसायात्मकावं च । तत्र व्यवसेयात्मकतां ग्राह्यतामास्थाय पञ्च तन्मात्राणि भूतभौति- कानि निर्मिमीते । व्यवसायात्मकत्वं तु ग्रहणरूपमास्थाय साहंकाराणीन्द्रियाणीत्यर्थः । शेषं सुगमम् ॥ ४७ ॥

१६७

मू० ४८-४९] पातञ्जलयोगसूत्राणि । ,

ततो मनोजवित्वं विकरणभावः प्रधानजयश्च ॥ ३.४८॥

कायस्यानुत्तमो गतिलाभो मनोजवित्वम् । विदेहानामिन्द्रि- याणामभिप्रेतदेशकालविषयापेक्षो वृत्तिलाभो विकरणभावः । सर्वप्रकृतिविकारवशित्वं प्रधानजय इत्येतास्तिस्रः सिद्धयो मधुप्रतीका उच्यन्ते । एताश्च करणपञ्चरूपजयादधिगम्यन्ते ॥४८॥

सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञातृत्वं च ।। ३.४९ ।।

निर्धूतरजस्तमोमलस्य बुद्धिसत्त्वस्य परे वैशारद्ये परस्या वशीकारसंज्ञायां वर्तमानस्य सत्त्वपुरुषान्यताख्यातिमात्ररूपप्र. तिष्ठस्य सर्वभावाधिष्ठातृत्वम् । सर्वात्मानो गुणा व्यवसायव्य- पञ्चरूपेन्द्रियजयासिद्धीराह–ततो मनोजवित्वं विकरणभावः प्रधानजयश्च । विदेहानामिन्द्रियाणां करणभावो विकरणभावः । देशः काश्मीरादिः । कालोऽतीतादिः । विषयः सूक्ष्मादिः । सान्वयेन्द्रियजयात्सर्वप्रकृतिविकारवशित्वं प्रधानजयः । ता एताः सिद्धयो मधुप्रतीका इत्युच्यन्ते योगशास्त्रनिष्णातैः । स्यादेतदिन्द्रियजयादिन्द्रियाणि सविषयाणि वश्यानि भवन्तु, प्रधानादीनां तत्कारणानां किमायातमित्यत आह-एताश्चेति । करणानामिन्द्रियाणां पञ्च रूपाणि ग्रहणादीनि तेषां जयात् । एतदुक्तं भवति-नेन्द्रियमात्रजयस्यैताः सिद्धयोऽपि तु पञ्चरूपस्य तदन्तर्गतं च प्रधानादीति ॥ ४८॥ : त एते ज्ञानक्रियारूपैश्चर्यहेतवः संयमाः साक्षात्पारम्पर्येण च स्वसिद्धयुपसंहारसंपादि- तश्रद्धद्वारेण यदर्थास्तस्याः सत्त्वपुरुषान्यताख्यातेरवान्तरविभूतीर्दर्शयति-सत्वपुरुषा- न्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञातृत्वं च । निर्धूतरजस्तमोमलतया वैशारद्यं ततः परा वशीकारसंज्ञा रजस्तमोभ्यामुपप्लुतं हि चित्तसत्त्वमवश्यमासीत्तदुपशमे तु तद्वश्यं योगिनो वशिनस्वस्मिन्वश्ये योगिनः सत्त्वपुरुषान्यताख्यातिमात्ररूपंप्रतिष्ठस्य सर्वभावाधिष्ठातृत्वम् । एतदेव विवृणोति- सर्वात्मान इति । व्यवसायव्यवसेयात्मानो १ क. ख च ज : 'चावरू' । ग. प. ड 'चकरू'। २ ज साधनेन्द्रि' । ३ क. 'पहा । ज. "पपा। १६८ . वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि-[ ३ विभूतिपादे- वसेयात्मकाः स्वामिनं क्षेत्र प्रत्यशेषदृश्यात्मत्वेनोपस्थिता इत्यर्थः । सर्वज्ञातृत्वं सर्वात्मनां गुणानां शान्तोदिताव्यपदेश्यधर्मत्वेन व्यवस्थितानामक्रमोपारूढं विवेकजं ज्ञानमित्यर्थः । इत्येषा विशोका नाम सिद्धिर्वा प्राप्य योगी सर्वज्ञः क्षीणक्लेशबन्धनो घशी विहरति ॥४१॥

तद्वैराग्यादपि दोषबीजक्षये कैवल्यम् ॥ ३.५० ॥

यदाऽस्यैवं भवति क्लेशकर्मक्षये सत्त्वस्यायं विवेकप्रत्ययो धर्मः सत्त्वं च हेयपक्षे न्यस्तं पुरुषश्चापरिणामी शुद्धोऽन्यः सत्त्वादिति। एवमस्य ततो विरज्यमानस्य यानि क्लेशबीजानि दग्धशालिबीजकल्पान्यप्रसवसमर्थानि तानि सह मनसा प्रत्यस्तं गच्छन्ति । तेषु प्रलीनेषु पुरुषः पुनरिदं तापत्रयं न भुङ्के । तदेतेषां गुणानां मनसि कर्मक्लेशविपाकस्वरूपेणाभिव्यक्तानां चरितार्थानां प्रतिप्रसवे पुरुषस्याऽऽत्यन्तिको गुणवियोगः कैवल्यं, तदा स्वरूप्रतिष्ठा चितिशक्तिरेव पुरुष इति ॥ ५० ॥

स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनरनिष्टप्रसङ्गात् ॥ ३.५१॥

जडप्रकाशरूपा इत्यर्थः । तदनेन क्रियैश्वर्यमुक्तम् । ज्ञानेश्वर्यमाह-सर्वज्ञातृत्वमिति । अस्या अपि द्विविधायाः सिद्धर्वैराग्याय योगिजनप्रसिद्धा संज्ञामाह---एषा विशोकेति । क्लेशाश्च बन्धनानि च कर्माणि तानि क्षीणानि यस्य स तथा ॥ ४९॥ संयमान्तराणां पुरुषार्थाभासफलत्वाद्विवेकख्यातिसंयमार्थतां दर्शयितुं विवेकख्यातेः पर- वैराग्योपजननद्वारेण कैवल्यं फलमाह-तद्वैराग्यादपि दोषबीजक्षये कैवल्यम् । यदाऽस्य योगिनः क्लेशकर्मक्षय एवं ज्ञानं भवति । किंभूतमित्याह-सत्त्वस्यायं विवेकप्रत्ययो धर्मः। शेषं तत्र तत्र व्याख्यातत्वात्सुगमम् ॥ ५० ॥ संप्रति कैवल्यसाधने प्रवृत्तस्य योगिनः प्रत्यूहसंभवे तन्निराकरणकारणमुपदिशति-स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनरनिष्टप्रसङ्गगत् । स्थानानि येषां १ ग. पतिष्ठन्त र' । २ क. 'यमस्य गुरु गर्थ । ३ ख स. न'। ५ ज. पसंह रति । ५ क.M, F. त् । तानि स्था। सू० ५१]

          पातञ्जलयोगसूत्राणि।

            चत्वारः खल्बमी योगिनः प्रायमकल्पिको मभूमिक प्रज्ञा-
            ज्योतिरतिक्रान्तभावंनीयस्रेति  । तत्राभ्यासी प्रवृत्तमात्रज्योतिः
            प्रथमः । ऋतंभरप्रज्ञो, द्वितीयः । भूतेन्द्रियजयी तृतीयः सर्वेषु
            भावितेषु भावनीयेषु कृतरक्षाबन्धः कर्तव्यसाधनादिमान् ।
            चतुर्थो यस्त्वतिक्रान्तभावनीयस्तस्य चित्तप्रतिसर्ग एकोऽर्थः ।
             सप्तविधाऽस्य प्रान्तभूमिप्रज्ञा ।
               तत्र मधुमतीं भूमिं साक्षात्कुर्वतो ब्राह्मणस्य स्थानिनो देवाः
            सत्त्ववैशुद्धिमनुपश्यन्तः स्थानरुपनिमन्त्रयन्ते भो इहाऽऽस्यता-
            मिह रम्यतां कमनीयोऽयं भोगः कमनीयेयं कन्या रसायन-
            मिदं जरामत्यु बाधते वैहायसमिदं यानममी कल्पद्रुमाः पुण्या
            मन्दाकिनी सिद्धा महर्षय उत्तमा अनुकूला अप्सरसो दिव्ये
            श्रोत्रचक्षुषी व नोपमः कायः स्वगुणैः सर्वमिदमुपार्जितमायुष्मता
            प्रतिपद्यतामिदमक्षयमजरममरस्थानं देवानां प्रियमिति । एवम-
            भिधीयमानः सङ्गदोषान्भावयेद्घोरेषु संसाराङ्गारेषु पच्यमानेन
            मया जननमरणान्धकारे विपरिवर्तमानेन कथंचिदासादितः
            क्लेशतिमिरविनाशी योगप्रदीपस्तस्य चैते तृष्णायोनयो विषयवा.'
       --------------------------------------------------------
       सन्ति ते स्थानिनो महेन्द्रादयस्तैरुपनिमन्त्रणं तस्मिन्सङ्गश्च स्मयच न कर्तव्यः पुनरनिष्ट.
       प्रसङ्गात् । तत्र यं देवाः स्थानरुपमन्त्रयन्ते तं योगिनमेकं निर्धारयितुं यावन्तो योगिनः
       संभवन्ति तावत एवाऽऽह-चत्वार इतिं । तत्र प्राथमकल्पिकस्य स्वरूपमाह-
       तत्राभ्यासीति । प्रवृत्तमात्रं न पुनर्वशीकृतं उयोतिञानं परचित्तादिविपयं यस्य स तथा ।
       द्वितीयमाह - ऋतंभरमज्ञ इति । यत्रेदमुक्तम्-" ऋतंभरा तत्र प्रज्ञा " इति । स हि
       भतेन्द्रियाणि जिगीषुः । तृतीयमाह-भूतेन्द्रियजयीति । तेन हि स्थूलादिसंयमेन
       प्रहणादिसंयमन च भूतेन्द्रियाणि जितानि । तमंवाऽऽह-सर्वेषु मावितेषु, निष्पादितेपु
       भतेन्द्रियजयाः परचित्तादिज्ञानादिषु कृतरक्षाबन्धो यतस्तेभ्यो न च्यवते भावनीयेषु निष्पा-
      दनीयेषु विशो

कादिषु परवैराग्यपर्यन्तेष कर्तव्यसाधनवान्पुरुषप्रयत्नस्य साधनविषयस्यैव

      साध्यनिष्पादकत्वात् । चतुर्थमाह---चतुर्थ इति । तस्य हि भगवतो जीवन्मुक्तस्य चर.
     मदेहस्य चित्तप्रतिसर्ग एकोऽर्थः ।
          तदेतेषु यो गिष्पनिमन्त्रणविषयं योगिनमवचारयति-तत्र मधुमतीमिति । प्राथमक-
      लिपके तावन्महे द्रादीनां तत्प्राप्तिशकैव नास्ति । तृतीयोऽपि तैनोपनिमन्त्रणीयो भनेन्द्रि-
      यवशित्वेनैव तत्प्राप्तेः । चतुर्थेऽपि परवैर,ग्यसंपत्तेरासङ्गशङ्का दरोत्सारितवैति पारिशेष्यावि-
      तीय एव ऋतंभरप्रशस्तदुपनिमन्त्रणविषय इति । वैहायसमाकाशगामि, अक्षयमविनाशि,
      अजरं सदाऽभिनवम् । १७० - वाचस्पतिकृतटीकासंवलितव्यासंभाष्यसमेतानि- [ ३ विभूतिपादे--

यवः प्रतिपक्षाः । स खल्वहं लब्धालोकः कथमनया विषयमृगतृष्णया वञ्चितस्तस्यैव पुनः प्रदीप्तस्य संसाराग्रेरात्मानमिन्धनी कुर्यामिति । स्वस्ति वः स्वप्नोपमेभ्यः कृपणजनमार्थनीयेभ्यो विषयेभ्य इत्येवं निश्चितमतिः समाधिं भावयेत् । . . सङ्गमकृत्वा स्मयमपि न कुर्यादेवमहं देवानामपि प्रार्थनीय इति । स्मयादयं सुस्थिसंमन्यतया मृत्युना केशेषु गृहीतमिवाऽऽत्मानं न भावयिष्यति । तथा चास्य च्छिन्द्रान्तरप्रेक्षी नित्यं यत्नोपचर्यः प्रमादो लब्धविवरः क्लेशानुत्तम्भयिष्यति ततः पुनरनिष्टप्रसङ्गः । एवमस्य सङ्गस्मयावकुर्वतो भावितोऽर्थो दृढी भविष्यति । भावनीयवार्थोऽभिमुखी भविष्यतीति ॥ ५१ ॥ क्षणतत्क्रमयोः संयमाद्वि- वेकजं ज्ञानम् ॥ ५२॥ यथाऽपकर्षपर्यन्तं द्रव्यं परमाणुरेवं परमापकर्षपर्यन्तः कालः क्षणो यावता वा समयेन चलितः परमाणुः पूर्वदेशं जह्यादुत्तदेशमुपसंपद्येत स कालः क्षणः । तत्प्रवाहाविच्छेदस्तु क्रमः। क्षणतत्क्रमयोर्नास्ति वस्तुसमाहार इति बुद्धिसमाहारो 'मुहूर्ताहो- स्मयकरणे दोषमाह-~-स्मयादयमिति । स्मयात्सुस्थितमन्यो नानित्यतां भावयिष्यति, न तस्यां प्रणिधास्यतीत्यर्थः । सुगममन्यत् ॥ ५१ ॥ . उक्ता क्वचित्क्वचित्संयमात्सर्वज्ञता, सा च न निःशेषज्ञता । अपि तु प्रकारमात्रविवक्षया, यथा सर्वैर्र्व्यञ्जनैर्भुक्तमिति । अत्र हि यावन्तो व्यञ्जनप्रकारास्तैर्भुक्तमिति गम्यते न तु निःशेषैरिति । अस्ति च निःशेषवचनः सर्वशब्दो यथोपनीतमन्नं सर्वमशितं प्राशकेनेति । तत्र हि निःशेषमिति गम्यते । तदिह निःशेषज्ञतालक्षणस्य विवेकजज्ञानस्य साधनं संयममाह-क्षणतत्क्रमयोः संयमाद्विवेकजं ज्ञानम् । क्षणपदार्धं निदर्शनपूर्वकमाह--यथेति । लोष्टस्य हि प्रविभज्यमानस्य यस्मिन्नवयवेऽल्पत्वतारतम्यं व्यवतिष्ठते सोऽपकर्षपर्यन्तः परमाणुर्यथा तथाऽपकर्षपर्यन्तः कालः क्षणः, पूर्वापरभागविकलकालकलेति यावत् । तमेव क्षणं प्रकारान्तरेण दर्शयति-यावता वेत्ति । परमाणुमात्रं 'देशमतिक्रामेदित्यर्थः । क्रमपदार्थमाह -- तत्प्रवाहेति । तत्पदेन क्षणः परामृश्यते । न चेदृशः क्रमो वास्तवः किंतु काल्पनिकस्तस्य- समाहाररूपस्यायुगपदुपस्थितेषु ' वास्तवत्वेन विचारासहत्वादित्याह--क्षणतरक्रमयोरिति । अयु. सू० ५३] पातञ्जलयोगसूत्राणि । . . १७१ रात्रादयः । स खल्वयं कालो वस्तुशून्योऽपि बुद्धिनिर्माणः शब्द- ज्ञानानुपाती लौकिकानां व्युत्थितदर्शनानां वस्तुस्वरूप इवाव- भासते। क्षणस्तु वस्तुपतितः क्रमावलम्बी । क्रमश्च क्षणानन्तर्यात्मा ते कालविदः काल इत्याचक्षते योगिनः । नच द्वौ क्षणौ सह भवतः । क्रमश्च न द्वयोः सहभुवोरसंभवात् । पूर्वस्मादुत्तरभाविनो यदानन्तर्यं क्षणस्य स क्रमः । तस्माद्वर्तमान एवैकः क्षणो न पूर्वोत्तरक्षणाः सन्तीति । तस्मानास्ति तत्समाहारः । ये तु भूतभागिनः क्षणास्ते परिणामान्विता व्याख्येयाः । तेनैकेन क्षणेन कृत्स्नो लोकः परिणाममनुभवति । तत्क्षणोपारूढाः खल्वमी सर्वे धर्माः । तयोः क्षणतत्क्रमयोः संयमानयोः साक्षात्करणम् । ततश्च विवेकजं ज्ञानं प्रादुर्भवति ॥ ५२ ।। तस्य विषयविशेष उपक्षिप्यते---- जातिलक्षणदेशैरन्यतानवच्छेदात्तु- ल्ययोस्ततः प्रतिपत्तिः ॥ ५३ ॥ . गपद्भाविक्षणधर्म वात्क्रमस्य क्षणसमाहारस्यावास्तवत्वाक्षणतत्क्रमयोरप्पवास्तवत्वं समाहारस्य नैसर्गिकवैतण्डिकबुद्धयतिशयरहिता लौकिकाः प्रतिक्षण एव व्युत्थितदर्शना भ्रान्ता ये कालमीदृशं वास्तवमभिमन्यन्त इति । तत्किं क्षणोऽप्यवास्तवो नेत्याह-क्षणस्तु वस्तुपतितो वास्तव इत्यर्थः । क्रमस्यावलम्बनमवलम्बः सोऽस्यास्तीति क्रमेणावलम्ब्यते वैकल्पिकनेत्यर्थः । क्रमस्य क्षणावलम्ब. नत्वे हेतुमाह--क्रमश्चेति । क्रमायावास्तवत्वे हेतुमाह-न चेति । चो हेत्वर्थे । यस्तु वैजात्यात्सहभावमुपेयात्तं प्रत्याह-क्रमश्च न द्वयोरिति । कस्मादसंभव इत्यत आह--- पूर्वस्मादिति । उपसंहरत-तस्मादिति । तत्किमिदानीं शशविषाणायमाना एवं पूर्वोत्तरक्षणा नेत्याह-ये त्विति । अन्विताः साम्येन समन्वागता इत्यर्थः । उपसंहरति- तेनेति । वर्तमानस्यैवार्थक्रियासु स्वोचितासु सामर्थ्यादिति ॥ ५२ ॥ - यद्यप्येतद्विवेकजं ज्ञानं निःशेषभावविषयमित्यग्रे वक्ष्यते तथाऽप्यतिसूक्ष्मत्वात्प्रथम तस्य विषयविशेष उपक्षिप्यते-जातिलक्षणदेशैरन्यतानवच्छेदात्तुल्ययोस्ततः प्रतिपत्तिः। लौकिकानां जातिभेदोऽन्यताया ज्ञापकहेतुः । तुल्या जातिर्गोत्वं तुल्यश्च देशः - -- १ क, ख. क. च. ज. रस्य भा! २ ख. ज. ति। तत्कि। १७२ . वाचस्पनिकृनटीकासंबलितव्यासभाध्यसमेतानि- [३ विभूतिपादे- तुल्ययोर्देशलक्षणसारूप्ये जातिभेदोऽन्यताया हेतुः, गौरियं वडवेयमिति । तुल्यदेशजातीयत्वे लक्षणमन्यत्वकरं कालाक्षी गौः स्वस्तिमती गौरिति । द्वयोरामलकयोर्जातिलक्षणसारूप्याद्देशभेदोऽन्यत्वकर इदं पूर्वमिदमुत्तरमिति । यदा तु पूर्वमामलकमन्यव्यग्रस्य ज्ञातुरुत्तरदेश उपावर्त्यते तदा तुल्यदेशत्वं पूर्वमेतदुत्तरमैतदितिप्रविभागानुपपत्तिः । असंदिग्धेन च तत्त्वज्ञानेन भवितव्यमित्यत इदमुक्तं ततः प्रतिपत्तिर्विवेकनज्ञानादिति । . - कथं, पूर्वामलकसहक्षणो देश उत्तरामलकसहक्षणाद्देशाद्भिन्नः । ते चाऽऽमलके स्वदेशक्षणानुभवभिन्ने । पूर्वादिः। कालाक्षीस्वस्तिमत्योर्लेक्षणभेदः परमिति । द्वयोरामलकयोस्तुल्याऽऽमलकत्व जातिर्व तुलादि लक्षणं तुल्यं देशभेदः परमिति । यदा तु योगिज्ञानं जिज्ञासुना केनचित्पूर्वामलकम- न्यव्यग्रस्य योगिनो ज्ञातुरुत्तरदेश उपावर्त्यत उत्तरदेशमामलकं ततोऽपसार्य पिधाय वा तदा तुल्यदेशत्वे पूर्वमेतदुत्तरमेतदितिप्रविभागानुपपत्तिः प्राज्ञस्य लौकिकस्य त्रिप्रमाणीनिपुण. स्यासंदिग्धेन च तत्त्वज्ञानेन भवितव्यं विवेकजज्ञानवतो योगिनः संदिग्धत्वानुपपत्तेः । अत उक्तं सूत्रकृता-~-ततः प्रतिपत्तिः। तत इति व्याचष्टे---विवेकजज्ञानादिति । क्षणतत्क्रमसंयमाज्जातं ज्ञानं कथमामलकं तुल्यजातिलक्षणदेशादामलकान्तराद्विवेचय- तीति पृच्छति--कथमिति । उत्तरमाह-पूर्वामलकसहक्षणो देशः पूर्वामलकेनैकक्षणो देशस्तेन सह निरन्तरपरिणाम इति यावत् । उत्तरामलकसहक्षणादेशादुत्तरामलकनिरन्तरपरिणामाद्भिन्नो भवतु देशयोर्भेदः किमायातमामलकभेदस्येत्यत आह-ते चाऽऽमलके स्वदेशक्षणानुभवभिन्ने, स्वदेशसहितो यः क्षणस्तस्वाऽऽमलकस्य कालफला स्वदेशेन सहौत्तराधर्यरूपपरिणामलक्षिता सा स्वदेशक्षणस्तस्यानुभवः प्राप्तिर्वा ज्ञानं वा तेन भिन्ने आमलके यथोरामलकयोः पूर्वोत्तराभ्यां देशाभ्यामौत्तराधर्मपरिणामक्षण आसीत्तयोर्देशान्तरोत्तराधर्यपरि- णामक्षणविशिष्टत्मनुभन्संयमी ते भिन्न एव प्रत्येति । संप्रति तद्देशपरिणामेऽपि पूर्वभिन्नदेशपरिणामाद्विशिष्टत्य.. चैतद्देशपरिणामक्षणस्य संयमतः साक्षात्करणात् । तदिदमुक्तम् । १ क. ब. व. .तयां हे।२क, ख. य. 'वर्तते। ३ क.स. ख.न.बयोगीते १७४ वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि- [ ३ विभूतिपादे-- तारकं सर्वविषयं सर्वथाविषयमकमं चेति विवेकजं ज्ञानम् ॥ ५४॥ तारकमिति स्वप्रतिभोत्थमनौपदेशिकमित्यर्थः। सर्वविषयं नास्य किंचिदविषयीभूतमित्यर्थः । सर्वथाविषयमतीतानागतप्रत्युत्पन्नं सर्वं पर्यायैः सर्वथा जानातीत्यर्थः । अक्रममित्येकक्षणोपारूढं सर्व सर्वथा गृह्णातीत्यर्थः । एतद्विवेकजं ज्ञानं परिपूर्णम् । अस्यैवांशो योगमदीपो मधुमतीं भूमिमुपादाय यावदस्य परिसमाप्तिरिति ॥ ५४॥ प्रातविवेकजज्ञानस्यामाप्तविवेकजज्ञानस्य वा- सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यमिति ॥ ५५॥ (इति श्रीपतञ्जलिविरक्तियोगसूत्रेषु तृतीयो विभातिपादः ॥॥) तदेवं विषयैकदेशं विवेकजज्ञानस्य दर्शयित्वा विवेकजं ज्ञानं लक्षयति-तारकं सर्वविषयं सर्वथाविषयमक्रमं चेति विवेकजं ज्ञानम् । विवेकजं ज्ञानमिति लक्ष्यनिर्देशः। शेष लक्षणम् । संसारसागराचारपतीति तारकम् । पूर्वस्मात्प्रातिभाद्विशेषयति-सर्वथा. विषयमिति । पर्याया अवान्तरविशषाः । अत एव विवेकजं ज्ञानं परिपूर्ण नास्य क्वचि- किंचित्कथंचित्कदाचिदगोचर इत्यर्थ. | आस्तां तावज्ज्ञानान्तरं संप्रज्ञातोऽपि तावदस्यांशः । तस्मादतः परं किं परिपूर्णमित्याह-अस्यैवांशो योगप्रदीपः संप्रज्ञातः । किमुपक्रमः किमवसानश्वासावित्याह---मधुमतीभिति । ऋतंभरा प्रज्ञैव मधु मोदकारणत्वात् । यथोक्तं प्रज्ञाप्रासादमारुह्येति । तद्वती मधुमती धियोऽवस्था तामुपादाय यावदस्य परिसमाप्तिः सप्तधा प्रान्तभूमिः प्रज्ञा । अत एव विवेकजं ज्ञानं तारकं भवति । तदंशस्य योगप्रदीपस्य तारकत्वादिति ॥ ५ ॥ . तदेवं परम्परया कैवल्यस्य हेतून्सविभूतीन्संयमानुक्त्वा सत्त्वपुरुषान्यताज्ञानं साक्षात्कैवल्यसाधनमित्यत्र सूत्रमवतारयति-प्राप्तेति । विवेकजं ज्ञानं भवतु मा वा भूत्सत्त्वपुरुषान्यताख्यातिस्तु कैवल्यप्रयोजिकेत्यर्थः । सत्त्वपुरुषयोः बुद्धिसाम्ये कैवल्यमिति । इति: सूत्रसमाप्तौ । ईश्वरस्य पूर्वोक्तैः संयमैर्ज्ञानक्रियाशक्तिमतोऽनीश्वरस्य वा समनन्तरोक्तेन संयमेन विवेकजज्ञानभागिन इतरस्य वाऽनुत्पन्नज्ञानस्य न १ क. ज. °स्य वोल्प । झ. 'स्य चानु। सू० ५५ ] पातञ्जलयोगसूत्राणि। १७५ यदा निर्धूतरजस्तमोमलं बुद्धिसत्त्वं पुरुपस्यान्यताप्रतीतिमात्राधिकारं दग्धक्लेशबीजं भवति तदा पुरुषस्य शुद्धिसारूप्यमिवाऽऽपन्नं भवति, तदा पुरुषस्योपचरितभोगाभावःशुद्धिः। एतस्यामवस्थायां कैवल्यं भवतीश्वरस्यानीश्वरस्य वा विवेकजज्ञानभागिन • इतरस्य वा । नहि दग्धक्लेशबीजस्य ज्ञाने पुनरपेक्षा काचिदस्ति । सत्वशुद्धिद्वारेणैतत्समाधिजमैश्वर्यं ज्ञानं चोपक्रान्तम् । परमार्थस्तु ज्ञानाददर्शनं निवर्तते तस्मिन्निवृत्ते न सन्त्युत्तरे क्लेशाः । क्लेशाभावात्कर्मविपाकाभावः । चरिताधिकाराश्चैतस्यामवस्थायां गुणा न पुरुषस्य पुनर्दृश्यत्वेनोपतिष्ठन्ते । तत्पुरुषस्य कैवल्यं, तदा पुरुषः स्वरूपमात्रज्योतिरमलः केवली भवति ॥ ५५॥ इति श्रीपातञ्जले सांख्यप्रवचने योगशास्त्रे व्यास- ___ भाष्ये विभूतिपादस्तृतीयः ।। ३ ।। विभूतिषु काचिदपेक्षाऽस्तीत्याह-न हीति । ननु यद्यनपेक्षिता विभूतयः कैवल्ये व्यर्थस्तर्हि तासामुपदेश इत्यत आह---सत्त्वशुद्धिद्वारेणेति । इत्यंभूतलक्षणे तृतीया । नात्यन्तमहेतवः कैवल्ये विभूतयः किंतु न साक्षादिव्यर्थः । ज्ञानं विवेकजमुपक्रान्तं यच्च पारम्पर्येण कारणं तदोपचारिकं न तु मुख्यं, परमार्थस्तु ख्यातिरेव मुख्यमित्यर्थः । ज्ञानादिति प्रसंख्यानादित्यर्थः ॥ ५५ ॥ “ अत्रान्तरङ्गाण्यङ्गानि परिणामाः प्रपञ्चिताः । संयमाद्भूतसंयोगस्तःसु ज्ञानं विवेकजम्" इति ( *पदार्थसंग्रहश्लोकः)॥ इति श्रीवाचस्पतिमिश्रविरचितायां पातञ्जलभाष्यव्याख्यायां तत्ववैशारद्यां विभूतिपादस्तृतीयः ॥ ३ ॥ -

  • एतशिलान्तर्गतं क. पुस्तके नास्ति ।

१ग. प. इ.च.ज. प्रत्ययमा। वाचस्पतिकृतीकासंवलितव्यासभाष्यसमेतानि पातञ्जलयोगसूत्राणि । ( तत्र चतुर्थः कैवल्यपादः ।) जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः ॥ १॥ देहान्तरिता जन्मना सिद्धिः । ओषधिभिरसुरभवनेषु रसाय- नेनेत्येवमादिः । मन्त्रैराकाशगमनाणिमादिलाभः । तपसा संकल्पसिद्धिः, कामरूपी यत्र तत्र कामग इत्येवमादि । समाधिजाः सिद्धयो व्याख्याताः ॥ १॥ तदेवं प्रथमद्वितीयतृतीयपादैः सम्बधितसाधनतद्विभूतयः प्राधान्येन व्युत्पादिताः । इतरत्तु प्रासङ्गिकमौपोद्घातिकं चोक्तमिहेदानी तहेतुकं कैवल्यं व्युत्पादनीयम् । नचैतत्कैवल्यभागीयं चित्तं परलोकं च परलोकिनं विज्ञानातिरिक्तं चित्तकरणकमुखाद्यात्मक- शब्दाद्युपभोक्तारमात्मानं च प्रसंख्यानपरमकाष्ठां च विना व्युत्पाद्य शक्यं वक्तमिति तदेतत्सर्वमत्र पादे व्युत्पादनीयमितरच्च प्रसङ्गादुपोद्घाताद्वा । तत्र प्रथमं सिद्धचित्तेषु कैवल्यभागीयं चित्तं निर्धारयितुकामः पञ्चतयी सिद्धिमाह-जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः । व्याचष्टे-देहान्तरितेति । स्वर्गोपभोगभागीयातद्कर्मणो मनुष्यजातीयाचरितात्कुतश्चिन्निमित्ताल्लब्धपरिपाकात्क्वचिद्देवनिकाये जातमात्रस्यैव दिव्यदेहान्तरिता सिद्धिर- णिमाद्या भवतीति । ओषधिसिद्धिमाह-असुरभवनेष्विति । मनुष्यो हि कुतश्चिन्निमितादसुरभवनमुपसंप्राप्तः कमनीयाभिरसुरकन्याभिरुपनीतं रसायनमुपयुज्याजरामरण मन्याश्च सिद्धीरासादयति । इहैव वा रसायनोपयोगेन यथा माण्डव्यो मुनी रसोपयोगाद्विन्ध्यवासीति । मन्त्रसिद्धिमाह----मन्त्रैरिति । तपःसिद्धिमाह----तपसेति । संकल्पसिद्धिमाह-कामरूपीति । यदेव कामयतेऽणिमादि तदेकपदेऽस्य भवतीति । यत्र कामयते श्रोतुं वा मन्तुं वा तत्र तदेव शृणोति मनुते वेति । आदिशब्दादर्शनादयः संगृहीता इति ॥ १॥ समाधिजाः सिद्धयो व्याख्याता अधस्तने पादे । अथ चतसृषु सिद्धियोपवादि- साधनासु तेषामेव कायेन्द्रियाणां जात्यन्तरपरिणतिरिष्यते । सा पुनर्न तावदुपादानमात्रात् । न हि तावन्मात्रमुपादानं न्यूनाधिकदिव्यादिव्यभावेऽस्य भवति । नो खेल्वविलक्षणं कारणं कार्यवैलक्षण्यायालम् । माऽस्योऽऽकस्मिकत्व भूदित्याशङ्कय पूरयित्वा सूत्रं १ क. ख. च. ज. "न्मसि । २ क. स. "दिसिद्धिः । त° । च. ज. दिलब्धिः । त' । ३ ख. झ. 'मिदा । ४ झ. "स्या आक।

तत्र कायेन्द्रियाणामन्य जातीयपरिणतानाम्--
जात्यन्तरपरिणामः प्रकृत्यापूरात् ॥ २ ॥[१०८]
पूर्वपरिणामापाय उत्तरपरिणामोपजनस्तेपामपूर्वावयवानुप्रवे.
शाद्भवंति । कायेन्द्रियप्रकृतयश्च स्वं स्वं विकारमनुगृहन्त्यापूरण
धर्मादिनिमित्तमपेक्षमाणा इनि ॥ २ ॥
निमित्तमप्रोजकं प्रकृतीनां वरण-
दस्तु ततः क्षेत्रिकवत् ॥ ३ ॥

 न हि धर्मादि निमित्तं तत्प्रयोजकं प्रकृतीनां भवति । न कार्येण कारणं प्रवर्त्यत इति । कथं तर्हि, वरणभेदस्तु ततः क्षेत्रिकवत् । यथा क्षेत्रिकः केदारादपा पूर्णाकेदारान्तरं: पिप्ला- वयिषुः समं निम्नं निम्नतरं वा नापः पाणिनाऽपकपत्यावरण स्वासां भिनत्ति तस्मिन्भिन्ने स्वयमेवाऽऽपः केदारान्तरमाला- वयन्ति तथा धर्मः प्रकृतीनामावरणधर्म भिनत्ति तस्मिन्भिन्ने
 पठति-तत्र कायेन्द्रियाणामन्य जातीयपरिणताना--नात्यन्तरपरिणामः प्रक- त्यापूरात् । मनुष्यजातिपरिणत:नां कायेन्द्रियाणां यो देवतिय जातिपरिणामः स खलु प्रकृत्यापुरात् । कायस्य हि प्रकृतिः पृथिव्यादीनि भूतानि । इन्द्रियाणां च प्रकृतिर स्मिता, तदबयवानुप्रवेश आपरम्तस्माद्भवति । तदिदमाह पूर्वपरिगामेति । ननु यद्या- पूरेणानुग्रहः कस्मात्पुनरसी न सदातन इत्यत आह-धर्मादीति । तदनेन तस्यैव शरी- रस्थ बाल्यकौमारयोवनवार्थकादीनि च न्यग्रोधधानायां न्यग्रोधतरुभावश्च वह्निकणिकाया- स्तुणराशिनिवेशिताया वा प्रोद्भबज्ज्वालासहस्रसमालिङ्गितगगनमण्डलयं च व्याख्यातम् ॥२॥
 प्रकृत्यापूरादित्युक्तं तदं सदिह्यते-कमापरः प्रकृतीनां स्वाभाविको धर्मादिनिमित्तो वेति । किं प्राप्त सतीष्वपि प्रकृतिषु कदाचिदापूराद्धर्मादि. निमित्तश्रवणाच तन्निमित्त एपेति प्राप्तम् । एवं प्राप्त अह-निमित्तमप्रयोजक प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवत् । सत्यं धर्मादयो निमित्तं न तु प्रयो- जकास्तेषामपि प्रकृतिकार्यस्यात् । न च कार्य कारणं प्रयोज़यति तस्य तदधीनो. त्पत्तितया कारणपरसन्त्रात्रात् । स्वतन्त्रस्य च प्रयोजकत्रात् । न खलु कुलालम-


स्वयमेव प्रकृतयः स्वं स्वं विकारमालावयन्ति । यथा वा स
एव क्षेत्रिकस्तस्मिन्नेव केदारे न प्रभवत्यौदकान्भौमान्या रसा.
धान्यमूलान्यनुप्रवेशयितुं, किं तर्हि मुद्गवेधुकश्यामाकादीस्त-
तोऽपकर्षति । अपकृष्टेषु तेषु स्वयमेव रसा धान्यमूलान्यनुप्रवि-
शन्ति, तथा धर्मो निवृत्तिमात्रे कारणमधर्मस्य, शुद्धयशुद्धयो-
रत्यन्तविरोधात्, न तु प्रकृतिप्रवृत्तौ धर्मो हेतुर्भवतीति । अत्र
नन्दीश्वरादय उदाहायोः । विपर्ययेणाप्यधर्मो धर्म बाधते ।
ततश्चाशुद्धिपरिणाम इति । तत्रापि नहुषाजगरादय उदा.
हार्याः ॥ ३ ॥[१०९]
यदा तु योगी वहून्कायानिमिमीते तदा किमेकमनस्कास्ते
भवन्त्यथानेकमनस्का इति-
निर्माणचित्तान्यस्मितामात्रात् ॥ ४ ॥
अस्मितामात्रं चित्तकारणमुपादाय निर्माणचित्तानि करोति,
ततः सचित्तानि भवन्तीति ॥ ४॥


न्तरेण मृद्दण्डचक्रसलिलादय उत्पित्सितेनोत्पन्नेन वा घटेन प्रयुज्यन्ते । किं तु स्वतन्त्रण कुलालेन । न च पुरुषार्थाऽपि प्रवर्तकः । किं तु तदुद्देशनेश्वरः । उद्देश्यता- मात्रेण पुरुषार्थः प्रवर्तक इत्युच्यते । उत्पित्सोस्त्वस्य पुरुषार्थस्याव्यक्त य स्थितिकारणत्वं युक्तम् । न चैतावता धर्मादीनामनिमित्तता प्रतिबन्धापनयनमात्रेण क्षेत्रिकवदुपपत्तेरीश्वर- स्यापि धर्माधिष्ठानार्थ प्रतिबन्धापनय एव व्यापारो वेदितव्यः । तदेतन्निगदव्याख्यातेन भाष्येणोक्तम् ॥ ३ ॥
 प्रकृत्यापूरेण सिद्धीः समर्थ्य सिद्धिविनिर्मितनानाकायतिचित्तैकत्वनानात्वे विचार- यति -यदा विति । तत्र नानामनस्त्वे कायानां प्रतिचित्तमभिप्रायभेदादेकाभिप्रायानु- नुरोधश्च परस्परप्रतिसंधानं च न स्यातां पुरुषान्तरवत् । तस्मादेकमेव चित्तं प्रदीपवद्विसा- रितया बहूनपि निर्माणकायान्व्यानोतीति प्राप्त आह--निर्माणचित्तान्यस्मितामात्रात् । यद्यावज्जीचच्छरीरं तत्सर्वमेकैकासाधारणचित्तान्वितं दृष्टम् । तद्यथा चैत्रमैत्रादिशरीरम् । तथा च निर्माणकाया इति सिद्धं तेषामपि प्रातिस्विकं मन इत्यभिप्रायेणाऽऽह-अस्मि- तामात्रमिति ॥ ४ ॥

प्रवृत्तिोदे प्रयोजकं चित्त-
मेकमनेकेषाम् ॥ ५ ॥[११०]
बहूनां चित्तानां कथमेकचित्ताभिप्रायपुरःसरा प्रवृत्तिरिति
.सर्वचिसानां प्रयोजनं चित्तमेकं निर्मिमीते, ततः प्रवृत्ति-
भेदः ॥५॥

तत्र ध्यानजमनाशयम् ॥ ६ ॥
पश्चविधं निर्माणचित्तं जन्मौपधिमन्त्रतपासमाधिजाः सिद्धय
इति । तत्र यदेव ध्यानजं चित्तं तदेवानाशयं तस्यैव नास्त्या-
शयो रागादिप्रवृत्ति तः पुण्यपापाभिसंबन्धः क्षीणक्लेशत्वाद्यो-
गिन इति । इतरेषां तु विद्यते कर्माशयः ॥ ६॥

यदुक्तमनेकचित्तत्व एकाभिप्रायानुरोधश्च प्रतिसंधानं च न स्यातामिति तत्रोत्तरं सूत्रम्-प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषाम् । अभविष्यदेष दोषो यदि चित्त- मेकं नानाकायवर्ति मनोनायकं न निरमास्यत्, तनिर्माणे स्वदोषः । न चैकं गृहीत्वा कृतं प्रातिस्विकैर्मनोभिः कृतं वा नायकनिर्माणेन निजस्यैव मनसो नायकत्वादिति वाच्यम् । प्रमाणसिद्धस्य नियोगपर्यनुयोगानुपपत्तेरिति । अत्र पुराणं भवति--

" एकस्तु प्रभुशक्त्या वै बहुधा भवतीश्वरः ।
भूत्वा यस्मात्तु बहुधा भवत्येकः पुनस्तु सः ।।
तस्माश्च मनसो भेदो जायन्ते चैत एव. हि । ( वायुपु० ६६ ॥१४३)
एकधा स द्विधा चैव त्रिधा च बहुधा पुनः ॥
योगीश्वरः शरीराणि करोति विकरोति च ।
प्राप्नुयाद्विषयान्कैश्चित्कैश्चिदुग्रं तपश्चरेत् ॥
संहरेच्च पुनस्तानि सूर्यो रश्मिगणानिव" (वायुपु० ६६३१५२) इति ॥

तदेतेनाभिप्रायेणाऽऽह-बहूनां चित्तानामिति ॥ ५॥ तदेवमुदितेषु पञ्चसु सिद्धचिसेष्वपवर्गभागीयं चित्तं निर्धारयति-तत्र ध्यानजम- नाशयम् । आशेरत इत्याशयाः कर्मवासनाः क्लेशवासनाश्च । त एते न विद्यन्ते यस्मिस्तदनाशयं चित्तमपवर्गभागीयं भवतीत्यर्थः । यतो रागादिनिबन्धना' प्रवृत्तिर्ना स्त्यतो नास्ति पुण्यपापाभिसंबन्धः । कस्मात्पुना रागादिजनिता प्रवृत्तिनास्तीत्यत आह- क्षीणक्लेशत्वादिति । ध्यानजस्यानाशयस्य मनोन्तरेभ्यो विशेष दर्शयितुमितरेषामाशयव- त्तामाह---इतरेषां विति ॥ ६॥


यतः-

कमांशुक्लाकृष्ण योगिनांस्त्र-
विधमितरेषाम् ॥ ७ ॥
चतुष्पदी खल्वियं कर्मजातिः । कृष्णा शुक्लकृष्णा शुक्ला
शुक्लाकृष्णा चेति । तत्र कृष्णा दुरात्मनाम् । शुक्लकृष्णा बहि:-
साधनसाध्या । सत्र परपीडानुग्रहद्वारेणेव कमांशयप्रचयः।
शुल्ला तपास्वाध्यायध्यानवताम् । सा हि केचले मनस्यायत्तत्वा-
दवहिःसाधनाधीना न परान्पीडयित्वा भवति । अशुक्लाकृष्णा
संन्यासिनां क्षीणलेशानां चरमदेहानामिति । तत्राशुलं योगिन
एव फलसंन्यासादकृष्णं चानुपादानात् । इतरेषां तु भूतानां
पूर्वमेव त्रिविधमिति ॥ ७ ॥
ततस्नापाकानुगुणानामेवाभि-
व्यक्तिर्वासनानाम् ॥ ८॥


तत्रैव च हेतुपरं सुत्रमवतारयति--यत इति । कर्माशुक्लाकृष्णं योगिनस्त्रिविध- मितरेषाम् । पदं स्थानम् । चर्तुषु समवेता चतुष्पदी । यद्यावहिःसाधनसायं तत्र सर्वत्रास्ति कस्यचित्पीडा । न हि ब्रह्मादिसाधनेऽपि कर्मणि परपीडा नास्त्यवधातादिसम- येऽपि पिपीलिकादिवधसंभवात् । अन्ततो बीजादिवर्धन स्तम्बादिभेदोत्पत्तिप्रतिबन्धात् । अनुग्रहश्च दक्षिणादिना ब्राह्मणादेरिति । शुक्ला तपःस्वाध्यायथ्यानवतामसंन्यासिनाम् । शुक्लत्वमुपपादयति-सा हीति । अशुजाकृष्णा संन्यासिनाम् । संन्यासिनो दर्शयति---- क्षीणेति । कर्मासंभवात् । कर्मसंन्यासिनो हि न कचिद्वहिःसाधनसाध्ये कर्मणि प्रवृत्ता इति न चैषामस्ति कृष्णः कर्माशयः । योगानुष्ठानसाध्यस्य कर्माशयफलस्येश्वरे समर्पः णान्न शुक्लः कर्माशयः । निर्रत्ययफलो हि शुक्ल उच्यते । यस्य फलभेव नास्ति कुतस्तस्य निरत्ययफलत्वमित्यर्थः । तदेवं चतुष्टयी कर्मजातिमुकवा कतमा कस्येत्यवधारयति-- तत्राशुक्लामिति ॥ ७॥ कर्माशयं विविच्य क्लेशाशयगतिमाह--ततस्तद्विपाकानगुणानामेवाभिव्यक्ति- र्वासनानाम् । यजातीयस्य पुण्यजातीयस्यापुण्याजातीयस्य वा कर्मणो यो विपाको दिन्यो वा नारको वा जात्यायु गस्तस्य विपाकस्यानुगुणाः । ता एवाऽऽह--- [१११] पातञ्जलयोगसूत्राणि । . तत इति त्रिविधात्कर्मणः, तद्विपाकानुगुणानामेति यज्जा- तीयस्य कर्मणो यो विपाकरतस्यानुगुणा या वासनाः कर्मविपाकमनुशेरते तासामेवाभिव्यक्तिः । न हि दैवं कर्म विपच्यमानं नारकतिर्यङ्मनुष्यवासनाभिव्यक्तिनिमित्तं संभवति । किंतु दैवानुगुणां एवास्य वासना व्यज्यन्ते । नारकतिर्यङ्मनुष्येषु चैवं समानश्चर्चः ॥८॥ जातिदेशकालव्यवहितानामप्यानन्तर्यं स्मृतिसंस्कारयोरेकरूपत्वात् ॥ ९ ॥ वृषदंशविपाकोदयः स्वव्यञ्जकाञ्जनाभिव्यक्तः। स यदि जातिशतेन वा दूरदेशतया वा कल्पशतेन वा व्यवहितः पुनश्च स्वव्यञ्जकाञ्जन एवोदियाद्रागित्येवं पूर्वानुभूतवृषदंशविपाकाभिसंस्कृता वासना उपादाय व्यज्येत । कस्मात् । यतो व्यवहितानामप्यासां सदृशं कर्माभिव्यञ्जकं निमित्तीभूतमित्यानन्तर्यमेव । कुतश्च, स्मृतिसंस्कारयोरेकरूपत्वात् । यथाऽनुभवास्तथा संस्काराः। या वासनाः कर्मविपाकमनुशेरतेऽनुकुर्वन्ति । दिव्यभोगजनिता हि दिव्यकर्मविपाकानुगुणा वासनाः । नहि मनुष्यभोगवासनाभिव्यक्तौ दिव्यकर्मफलोपभोगसंभवः । तस्मात्स्वविपाकानुगुणा एव वासनाः कर्माभिव्यञ्जनीया इति भाष्यार्थः ॥ ८ ॥ _स्यादेतत् । मनुष्यस्य प्रायणानन्तरमधिगतमार्जारभावस्यानन्तरतया मनुष्यवासनाया एवाभिव्यक्त्या भवितव्यम् । न खल्वस्ति संभवो यदनन्तरदिवसानुभूतं न स्मयते व्यवहितदिवसानुभूतं च स्मर्यत इत्यत आह-जातिदेशकालव्यवहितानामप्यानन्तर्यं स्मृतिसंस्कारयोरेकरूपत्वात् । भवतु वृषदंशवासनाया जात्यादिव्यवधिस्तथाऽपि तस्याः फलत आनन्तर्यं वृषदंशविपाकेन कर्मणा तस्या एव स्वविपाकानुगुणाया अभिव्यक्तौ तत्स्मरणसमुत्पादादित्याह-वृषदंशविपाकोदय इति । उदेत्यस्मादित्युदयः कर्माशयः । पुनश्च स्वव्यञ्जकाञ्जन एवोदियात् , अभिव्यज्येत विपाकारम्भाभिमुखः क्रियेतेत्यर्थः । अभिसंस्कारक्रिया उपादाय गृहीत्वा व्यज्येत । यदि व्यज्येत स्वविपाकानुगुणा एव वासना गृहीत्या व्यज्यतेत्यर्थः । आनन्तर्यमेव फलतः कारणद्वारकमुपपाद्य कार्यद्वारकमप्रपादयति-- कुतश्च स्मृतीति । एकरूपता सादृश्यम् । तदेवाऽऽह-- यथेति । नन्वनुभवसरूपाश्चेत्संस्कारास्तथा सत्यनुभवा विशरारव इत्येतेऽपि विशरारवः कथं चिरभाविनेऽनुभवाय १. 'यात्तदा द्रा । २ ग. इ. 'त्येव पू । ३ ज. तवृषदंशभा १ ४ क. ख. झ.

पतया सा।

१८२

वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि

[ ४ कैवल्यपादे-

ते च कर्मवासनानुरूपाः । यथा च वासनास्तथा स्मृतिरिति जातिदेशकालव्यवहितेभ्यः संस्कारेभ्यः स्मृति:। स्मृतेश्च पुनः संस्कारा इत्येवमेते स्मृतिसंस्काराः कर्माशयवृत्तिलाभवशांद्व्यज्यन्ते । अतश्च व्यवहितानामपि निमित्तनैमित्तिकभावानुच्छेदा- दानन्तर्यमेव सिद्धमिति ॥ ९॥

तासामनादित्वं चाऽऽशिषो
नित्यत्वात् ॥ १० ॥

 तासां वासनानामाशिषो नित्यत्वादनादित्वम्। येयमात्माशीर्मा न भूवं भूयासमिति सर्वस्य दृश्यते सा न स्वाभाविकी । कस्मात् । जातमात्रस्य जन्तोरननुभूतमरणधर्मकस्य द्वेषदुःखानुस्मृतिनिमित्तो मरणत्रासः कथं भवेत् । न च स्वाभाविकं वस्तु निमित्तमुपादत्ते ।


कल्पेरन्नित्यत आह--ते च कर्मवासनानुरूपाः । यथाऽपूर्व स्थायि क्षणिककर्मनिमित्तमप्येवं क्षणिकानुभवानिमित्तोऽपि संस्कारः स्थायी किंचिद्भेदाधिष्ठानं च सारूप्यमन्यथाऽभेदे तत्वेन सादृश्यानुपपत्तेरित्यर्थ: । सुगममन्यत् ॥ ९॥

 स्यादेतव्यज्येरन्पूर्वपूर्वतरजन्माभिसंस्कृता वासनाः । यदि पूर्वपूर्वतरजन्मसद्भावे प्रमाणं स्यात्तदेव तु नास्ति । न च जातमात्रस्य जन्तोहर्षशोकदर्शनमात्रं प्रमाणं भवितुमर्हति, पद्मादिसंकोचविकासवत्स्वाभाविकत्वेन तदुपपत्तेरित्यत आह-तासामनादित्वं चाऽऽशिषो नित्यत्वात् । तासां वासनानामनादित्वं च न केवलमानन्तर्यमिति चार्थः । आशिषो नित्यत्वात् । आत्माशिषो वासनानामनादित्वे नित्यत्वाव्यभिचारादिति । ननु स्वाभाविकत्वेनाप्युपपत्तेरसिद्धमाशिषो नित्यत्वमित्यत आह-येयमिति । नास्तिकः पृच्छति-कस्मात् ।उत्तरं-जातमात्रस्य जन्तोरिति । अत एवैतस्मिञ्जन्मन्यननुभूतमरणधर्मकस्य मरणमेव धर्मः सोऽननुभूतो येन स तथोक्तस्तस्य मातुरङ्कात्प्रस्खलतः कम्पमानस्य माङ्गल्यचक्रादिलाञ्छितं तदुरःसूत्रमतिगाढं पाणिग्राहमवलम्बमानस्य बालकस्य कम्पभेदानुमिता द्वेषानुषक्ते दुःखे या , स्मृतिस्तन्निमित्तो मरणत्रासः कथं भवेदिति । ननूक्तं स्वभावादित्यत आह-न च स्वाभाविकं वस्तु निमित्तमुपादत्ते गृह्णाति स्वोत्पत्तौ । एतदुक्तं भवति-बालकस्येदृशो दृश्यमानः कम्पो भयनिबन्धन ईदृशकम्पत्वादस्मदादिकम्पवत् । बालकस्य भयं द्वेषदुःखस्मृतिनि-


 १ क. ख. च. ज. नारू । २ म. प. ड. 'त्येते । ३ क. च. ति । वासनाः संस्कारा आशया इत्यर्थः ॥ ९॥ ४ ख. स. "जन्मभिः । ५ झ. 'दित्वं नि।

सू० १०]

पातञ्जलयोगसूत्राणि ।

१८३

तस्मादनादिवासनानुविद्धमिदं चित्तं निमित्तवशात्काश्चिदेव
वासनाः प्रतिलभ्य पुरुषस्य भोगायोपावर्तत इति ।

 घटप्रासादप्रदीपकल्पं संकोचविकासि चित्तं शरीरपरिमाणाकारमात्रमित्यपरे प्रतिपन्नाः । तथा चान्तराभावः संसारश्च युक्त
इति।


मित्तं भयत्वादस्मदादिभयवत् । आगामिप्रत्यवायोत्प्रेक्षालक्षणं च भयं न दुःखस्मृतिमात्राद्भवति, अपि तु यतो बिभेति तस्य प्रत्यवायहेतुभावमनुमाय संप्रत्यपि प्रत्यवायं भयं च विदध्यादिति शङ्कते । तस्माद्यज्जातीयादनुभूतचराद्द्वेवेषानुपक्तं दुःखमुंपपादितं तस्य स्मरणात्तज्जातीयस्यानुभूयमानस्य तद्दु:खहेतुत्वमनुमाय ततो बिभेति । न च बालकेनास्मिञ्जन्मनि स्खलनस्यान्यत्र दुःखहेतुत्वमवगतम् । न च तादृशं दुःखमुपलब्धम् । तस्मात्प्राग्भवीयोऽनुभवः परिशिष्यते । तच्चैतदेवं प्रयोगमारोहति---जातमात्रस्य बालस्य स्मृतिः पूर्वानुभवनिबन्धना स्मृतित्वादस्मदादिस्मतिवदिति । न च पद्मसंकोचविकासावपि स्वाभाविकौ । न हि स्वाभाविकं कारणान्तरमपेक्षते, वह्नेरौष्ण्यं प्रत्यपि कारणान्तरापेक्षाप्रसङ्गात् । तस्मादागन्तुकमरुणकरसंपर्कमात्रमेव कमलिनीविकासकारणम् । संकोचकारणं च संस्कारः स्थितिस्थापक इति । एवं स्मिताद्यनुमितहर्षादयोऽपि प्राचि भवे हेतवो वेदतव्याः । तदास्तां तावत्प्रकृतमुपसंहरति-तस्मादिति । निमित्तं लधविपाककालं कर्म । प्रतिलम्भोऽभिव्यक्तिः ।

 प्रसङ्गतश्चित्तपरिमाणविप्रतिपत्तिं निराचिकीर्षुर्विप्रतिपत्तिमाह-वटप्रासादेति । देहप्रदेशवर्तिकार्यदर्शनादेहाद्वहिः सद्भावे चित्तस्य न प्रमाणमस्ति । न चैतदणुपरिमाणं दीर्घशष्कुलीभक्षणादावपर्यायेण ज्ञानपञ्चकानुत्पादप्रसङ्गात् । न चाननुभूयमानक्रमकल्पनायां प्रमाणमस्ति । न चैकमणु मनो नानादेशैरिन्द्रियैरपर्यायेण संबन्धुमर्हति । तत्पारिशेष्यात्कायपरिमाणं चित्तं घटप्रासादवर्तिप्रदीपवत् । संकोचविकाशौ पुत्तिकाहस्तिदेहयोरस्योत्पत्स्यते । शरीरपरिमाणमेवाऽऽकारः परिमाणं यस्येत्यपरे प्रतिपन्नाः । नन्वेवं कथमस्य क्षेत्रबीजसंयोगः । न खल्वेतदनाश्रयं मृतशरीरान्मातपितृदेहवर्तिनी लोहित्तरेतसी प्राप्नोति परतन्त्रत्वात् । न हि स्थाण्वादिष्यगच्छासु तच्छाया गच्छति । न चामच्छति प्रटे तदाश्रयं चित्रं गच्छति । तथा च न संसारः स्यादित्यत' आह-- तथा चान्तराभावः संसारश्च युक्त इति । तथा च शरीरपरिमाणत्वे देहा-


 १ क. तो यतो बि । २ क. °स्य तस्य प्र । ३ क. "स्मात्तज्जा । ४ ज. मुद पादितस्मातस्मर। ५ख. ज. परिणापवि। क. झ. °व:। अत एव सं ।

१८४
[ ४ कैवल्लपादे-
वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि-
            वृत्तिरेवास्य विभु[११२]नश्चित्तस्य संकोचविकासिनीत्याचार्यः ।
              तच्च धर्मादिनि मित्तापेक्षम् । निमित्तं च द्विविधम् -बाह्यमा-
              ध्यात्मिकं च । शरीरादिसाधनापेक्षं बाह्यं स्तुतिदानाभिवादनादि,
             चित्तमात्राधीनं श्रद्धाद्याध्यात्मिकम् । तथा चोक्तम्-~~-ये चैते
        न्तरप्राप्तये पूर्वदेहत्यागो देहान्तरप्राप्तिश्चान्तराऽस्याऽऽतिवाहिकशरीरलंयोगाद्भवतस्तेन खल्पयं
        देहान्तरे संचरेत् ।
         तथा च पुराणम्-" अङ्गुष्ठमात्रं पुरुपं निश्कर्ष यमो बलात्"
                   ( भार० ३ । २९७ । १७ ) इति |
              सोऽयमन्तराभावः । अत एव संसारश्च युक्त इति ।
            तदेतदमृष्यमाणः स्वमतमाह-वृत्तिरेवास्य विभुनश्चित्तस्य संकोचविकासिनी-
        त्याचार्यः स्वयंभूः प्रतिपदे । इदमत्राऽऽकृतं—यद्यनाश्रयं चित्तं न देहान्तरसंचारि
        कथमेतदातिवाहिकमाश्रयते, तत्रापि देहान्तरकल्पनायामनवस्था । न चास्य देहान्नि
        ष्कर्षः[११३]र् सातिवाहिकस्य संभवति । निष्कृष्टस्य चेतसस्तत्संबन्धात् । अस्तु तर्हि सूक्ष्मश-
        रीरमेवाऽऽसर्गादा च महाप्रलयान्नियतं चित्तानामाधष्टानं पाटकौशिकशरीरमध्यवर्ति ।
        तेन हि चित्तमा सत्यलोकादा चावीचेस्तत्र तत्र शरीरे संचरति । निष्कर्षश्वास्योपपन्नः
        घाटकौशिकात्कायात् । तत्र हि तदन्तराभावस्तस्य नियतत्वात् । न चास्यापि सद्भावे
        प्रमाणमस्ति । न खल्येतदध्यक्षगोचरः । न च संसारोऽस्यानुमानम् । आचार्यमतेनाप्युप-
        पत्तेः । आगमस्तु पुरुषस्य निष्कर्षमाह । न च चित्तं वा सूक्ष्मशरीरं वा पुरुषः किंतु
        चितिशत्तिरप्रतिसंक्रमा । न चास्या निष्कर्षः संभवतीत्यौपचारिको व्याख्येयः । तथाच
        चितेश्चित्तस्य च तत्र तत्र वृत्वभाव एव निष्कर्षार्थः । यच्च स्मृतीतिहासपुराणेषु मर-
        णानन्तरं प्रेतशरीरप्राप्तिस्तद्विमोकश्च सपिण्डीकरणादिभिरि युक्तं तदनुजानीमः । आति-
        वाहिकत्वं तस्य न मध्यामहे । न च त्रास्ति कश्चिदागमः । लब्धशरीर एव च यमपुर-
        पैरपि पाशबद्धो नीयते । न त्वातिवाहिकशरीरः । तस्मादाहंकारिकत्वाचेतसोऽहंकारस्य च
        गगनमण्डलंवत्रैलोक्यव्यापित्वाद्विभुत्वं मनसः । एवं चेदस्य वृत्तिरपि विभ्वीति सर्वज्ञता-
        पत्तिरित्यत उक्तं वृत्तिरेवास्येति । 
        स्यादेतत् । चित्तमात्राधीनाया वृत्तः संकोचयिकासी कुतः कादाचिका-
        वित्यत आह-तञ्च चित्तं धर्मादिनिमित्तापेक्षम् । वृत्तौ निमित्तं विभजते-
        निमित्तं चेति । आदिग्रहणेनेन्द्रियधनादयो . गहन्ते । श्रद्वादीत्यत्रापि
        वीर्यस्मत्यादयो गृह्यन्ते । आन्तरत्वे संमतिमाचार्याणामाह -तथा चोक्तम् ।
       

• ११] पातञ्जलयोगसूत्राणि । १८५ मैत्र्यादयो ध्यायिनां विहारास्ते बाह्य साधननिरनुग्रहात्मानः प्रकृष्ट धर्ममभिनिवर्तयन्ति । तयोर्मानसं बलीयः । कथं, ज्ञानवैराग्ये केनातिशय्येते, दण्डकारण्यं च चित्तवलव्यतिरेकेण शारीरेण कर्मणा शून्यं कः कर्तुमुत्सहेत समुद्रमगस्त्यवद्वा पिवेत् ॥१०॥ हेतुफलाश्रयालम्बनैः संगृहीत- त्वादेषामभावे तदभावः ॥ ११॥ हेतुर्धर्मात्सुखमधर्मादुःखं, सुखाद्रागी दुःखाद्द्वेषस्ततश्च प्रय. स्नस्तेन मनसा वाचा कायेन वा परिस्पन्दमानः परमनुगृह्णास्युपहन्ति वा ततः पुनर्धर्माधर्मौ सुखदुःखे रागद्वेषाविति प्रवृत्तमिदं षडरं संसारचक्रम् । अस्य च प्रतिक्षणमावर्तमानस्याविद्या नेत्री मूलं सर्वक्लेशानामित्येष हेतुः । फलं तु यमाश्रित्य यस्य प्रत्युत्पन्नता धर्मादेः, न ह्यपूर्वोपजनः । मनस्तु, साधिकारमाश्रयो वासनानाम् । न ह्यवसिताधिकारे मनसि निराश्रया वासनाः स्थातुमुत्सहन्ते । यदभिमुखीभूतं वस्तु यां वासनां व्यनक्ति तस्यास्तदालम्बनम् । एवं हेतुफलाश्रयालम्बनैरेतैः संगृहीताः सर्वा वासनाः । एषामभावे तत्संश्रयाणामपि वास- नानामभावः ॥११॥ विहारो व्यापारः । प्रकृष्टं शुक्लं, तयोर्बाह्याभ्यन्तरयोर्मध्ये । ज्ञानवैराग्ये तज्जनितो (तौ) धर्म:(मौ) केन बाह्य साध्येन धर्मेणातिशय्येते अभिभूयेते । ज्ञानवैराग्यजावेव धर्मो तमभिभवतः, बीजभावादपनयत इत्यर्थः । अत्रैव सुप्रसिद्धमुदाहरणमाह-दण्डकारण्यमिति ॥ १० ॥ अथैताश्चित्तवृतयो वासनाश्चानादयश्चेत्कयमासामुच्छेदः । न खलु चितिशक्तिरनादिरुच्छिद्यत इत्यत आह-हेतुफलाश्रयालम्बनैः संगृहीतत्वादेषामभाचे तदभावः । अनादेरपि समुच्छेदो दृष्टः । तद्यथाऽनागतत्वस्येति सव्यभिचारत्वादसाधनम् । चितिशक्तिस्तु विनाशकारण भावान्न विनश्यति, न त्वनादित्वात् । उक्तं च वासनानामनादीनामपि समुच्छेदे कारणं सूत्रेणेति । अनुप्रहोपघातावपि धर्माधर्मादिनिमित्तमुपलक्षयतः | तेन सुरापानादयोऽपि संगृहीता भवन्ति । नेत्री नायिका । अत्रैव हेतुमाह---मूलमिति । प्रत्युत्पन्नता वर्तमानता न तु धर्मस्वरूपोत्पादः । अत्रैव हेतुमाह-न हीति । यदभिमुखीभूतं वस्तु कामिनसंपर्कादि । व्यापकाभावे व्याप्यस्याभाव इति सूत्रार्थः ॥ ११ ॥ १स. शव्य । २. भूपते .

      १८६      .वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि- [ ४ कैवल्पपादे--
                    
               नास्त्यसतः संभवः, न चास्ति सतो विनाश इति द्रव्यत्वेन
             संभवन्त्यः कथं निवर्तिष्यन्ते वासना इति--
                       अतीतानागतं स्वरूपतोऽस्त्य-
                       ध्वभेदाद्धर्माणाम्  ॥  १२ ॥
               भविष्यद्वयक्तिकमनागतमनुभूतव्यक्तिकमतीतं  -स्वव्यापारो-
             पारूढं वर्तमानं, त्रयं चैतद्वस्तु ज्ञानस्य ज्ञेयम् । यदि चैतत्स्व-
             रूपतो नाभविष्यन्नेदं  निर्विषयं  ज्ञानमुदपत्स्यत । तस्मादती:
             तानागतं स्वरूपतोऽस्तीति । किंच  भोगभागीयस्य वाऽपवर्ग-
             भागीयस्य वा कर्मणः फलमुत्पित्सु यदि निरुपाख्यमिति तदु-
             देशेन नेन निमित्तेन कुशलानुष्ठानं न युज्येत । सतश्च फलस्य
             निमित्तं वर्तमानीकरणे समर्थ नापूर्वोपजनने.।  सिद्धं निमित्त
             नैमित्तिकस्य विशेषानुग्रहणं कुरुते नापूर्वमुत्पादयंतीति ।
         
      उत्तरसूत्रमवतारयितुं शङ्कते-नास्तीति।असत इति तु संपातायातं निदर्शनायवा।
  अतीतानागतं   स्वरूपतोऽस्त्यध्वभेदाधर्माणाम् । नासतामुत्पादो न सतां  विनाशः
  किंतु  सतामेव धर्माणामध्वभेदपरिणाम एवोदयव्ययाविति  सुत्रार्थः ।  अनुभूता प्राप्ता येन
  व्यक्तिस्तत्तथा । संप्रति व्यक्तिर्नास्तीति यावत् ।  इतश्च  त्रकाल्येऽपि धर्मः  सन्नित्याह---
  यदि चेति । न  ह्यसञ्ज्ञानविषयः संभवतीति निरुपाख्य वाद्विषयावभासं हि विज्ञानं
  नासति विषये भवति ।  त्रैक.ल्यविषयं च विज्ञानं  योगिनामस्मदादीनां  च  विज्ञानमसति
  विषये नोत्पन्नं स्यात् । उत्पद्यते च ।  तस्मादतीतानागते  सामान्यरूपेण  समनुगते  स्त
  इति। एवमनुभवतो ज्ञानं विषयसत्वे हेतुरुक्तम्।  उद्देश्यत्वादप्यनागतस्य  विषयत्वेन  सत्त्व-
  मेवेत्याह --किंच भोगभागीयस्येति । कुशलो निपुणः । अनुष्ठेयेऽपि च यद्यनिमित्तं
  तत्सर्वं नैमित्तिके सत्येव विशेषमाधंत्त । यथा काण्डलाववेदाध्यायादयः । न खल्वेते काण्ड-
  लावादयोऽसन्तमुत्पादयन्ति । सत एव तु तत्प्राप्तिविकारौ कुर्वन्ति । एवं  कुलालादयोऽपि
  सत एव घटस्य वर्तमानीभावहेतब इत्याह -सतश्चेति
      यदि  तु  वर्तमानःवाभावादतीतानागतयोरसत्वं हन्त भो  वर्तमानस्याप्यभावोऽती-
   तानागतत्वाभावात् ।  अध्वविशिष्टतया   तु   सत्तं   त्रयाणामध्यविशिष्टमित्यभिप्राये-

      १ क.ख. ॰ग्रहं कु'। २ ग.क. इ. 'यति । ३ ख.स.'मानभा'। ४. ख. झ.'त।
   स्वार्थवि॰ । ५ क, ध्वधर्म्यवि' ।' स० १३ ]                                              पातञ्जलयोगसूत्राणि ।


                                       धर्मी चानेकधर्मस्वभावस्तस्य चाध्वभेदेन धर्माः प्रत्यव-
                              स्थिताः । न च यथा वर्तमान व्यक्तिविशेषापन्नं द्रव्यतोऽस्त्ये-
                             वमतीतमनागतं च । कथं तर्हि, स्वेनैव व्यङ्गन्येन स्वरूपेणाना-
                             गतमस्ति । स्वेन चानुभूतव्यक्तिकेन स्वरूपेणातीतमिति । वर्त.
                            मानस्यैवाध्वनः स्वरूपव्यक्तिरिति न सा भवत्यतीतानागतयो-
                            रध्वनोः । एकस्य चाध्वनः समये द्वावध्वानौ धर्मिसमन्वागतौ
                           भवत एवेति नाभूत्वा भावस्त्रयाणामध्वनामिति ॥ १२॥
                                                ते व्यक्तसूक्ष्मा गुणात्मानः ॥ १३ ॥
                                   ते खल्वमी त्रयध्वानो धर्मा वर्तमाना व्यक्तात्मानोऽतीता-
                              नागताः सूक्ष्मात्मानः षडविशेषरूपाः । सर्वमिदं गुणानां संनि-
                              वेशविशेषमात्रमिति परमार्थतो गुणात्मानः । तथा च शास्त्रा-
                              नुशासनम् -
                                            "गुणानां परमं रूपं न दृष्टिपथमृच्छति ।
                                             यत्तु दृष्टिपथं प्राप्तं तन्मायेव सुतुच्छकम् " इति ॥ १३ ।।
                        णाऽऽह-~-धर्मी चेति । प्रत्येकमवस्थानं प्रत्यवस्थितिरिति । द्रव्यत इति द्रव्ये धर्मिणि
                       सार्वविभक्तिकस्तसिः । यद्यतीतानागतावतीतानागतत्वे न स्तस्तर्हि वर्तमानसमये तत्त्वा-
                       भावान्न स्यातामित्यत आह–एकस्य चेति । प्रकृतमुपसंहरति-इति नाभूत्वा भाव
                       इति ॥ १२ ॥
                                 स्यादेतत् । अयं तु नानापकारो धर्मिधर्मावस्थापरिणामरूपो विश्वभेदप्रपञ्चो न प्रधा-
                             नादेकस्माद्भवितुमर्हति । न ह्यविलक्षणात्कारणात्कार्यभेदसंभव इत्यत आह-ते व्यक्त-
                             सूक्ष्मा गुणात्मानः । ते त्रयध्वानो धर्मा व्यक्ताश्च सूक्ष्माश्च गुणात्मानो न त्रैगुण्याति-
                            रिक्तमेषामस्ति कारणम् । वैचित्र्यं तु तदाहितानादिक्लेशवासनानुगताद्वैचित्र्यात् ।
                                       यथोक्तं वायुपुराणे-"वैश्वरूप्याप्रधानस्य परिणामोऽयमद्भूतः"
                                                                              [वा० पु० ५३ । १२० इति ॥
                                        व्यक्तानां पृथिव्यादीनामेकादशेन्द्रियाणां च वर्तमानानामतीतानागतत्वं, षडवि.
                                  शेषा यथायोगं भवन्ति । संप्रति विश्वस्य नित्यानित्यरूपे विभजन्नित्यरूपमाह-सर्व
                                  मिदमिति । दृश्यमानं संनिवेशः संस्थानभेदवान्परिणाम इत्यर्थः । अत्रैक षष्टितन्त्रशास्त्र-
                                                १ ग. वा । २ म. ह. 'मः || ज. विशे । ४ ज. यवरणिकर ।
                                         ५. धर्मधर्थन । ६ क. नाती । ७ ज. झ. पति ।          १८८ . बाचस्पतिकृतटीकासंवलिनन्यासभाष्यसमेतानि- [४ कैवल्यपादे-
             यदा तु सर्वे गुणाः कथमेकः शब्द एकमिन्द्रियमिति--
                  परिणामैकत्वाद्वस्तुतत्त्वम् ॥ १४ ॥
             प्रख्याक्रियास्थितिशीलानां गुणानां ग्रहणात्मकानां करण-
          भावेनेकः परिणामः श्रोत्रपिन्द्रिये, ग्राह्यात्मकानां शब्देतन्मात्र-
          भावनैकः परिणामः शब्दो विषय इति, शब्दादीनां मूर्तिसमान-
          जातीयानामेकः परिणामः पृथिवीपरमाणुस्तन्मात्रावयवस्तेषां
          चैकः परिणामः पृथिवी गौर्वृक्षः पर्वत इत्येवमादिर्भूतान्तरेष्वपि
          स्नेहौण्यप्रणामित्वावकाशदानान्युपादाय सामान्यमेकरिकारा-
          इम्भः समाधेयः।
            नास्त्यर्थोः विज्ञानविसहचरः, अस्ति तु ज्ञानमर्थविसहचरं
    -----------------------------------------------------------
    स्यानुशिष्टिः । मायेव न तु माया। मुतुच्छकं विनाशि । यथा हि मायाऽहायैवान्यथा
    भवति एवं विकारा अप्याविर्भावतिरोभावधर्माणः प्रतिक्षणमन्यथा । प्रकृतिर्नित्यतया माया-
    विधर्मिणी परमार्थेति ॥ १३ ॥ 
       भवतु त्रैगुण्यस्येत्थं परिणामवैचित्र्यमेकरतु परिणामः पृथिवीति या तोयमिति वा कुे॔त
    आत्मन एकत्वविरोधादित्याशङ्कय सूत्रमवतारयति---यदा तु सर्वे गुणा इति । परि-
    णामैकत्वाद्वस्तुतत्त्वम् । बह्नामध्येक परिणामो दृष्टः । तद्यथा-- गवाश्वमहिषमात-
    ङगानां रुमानिक्षिप्तानामेको लवणत्वजातीयलक्षणः परिणामो बर्तितैत्मनलानां च प्रदीप
    इति । एवं बहुत्वेऽपि गुणानां परिणभैकत्वं, ततस्तन्मात्रभूतभौतिकम्नां प्रत्येकं तत्वमे-
    कस्बम् । ग्रहणात्मकामाऺ सत्त्वप्रधानतया प्रकाशात्मनामहंकारावान्तरकार्याणां करणभावनैकः
    परिणामः श्रोत्रमिन्द्रियम् । तेषामेव गुणानां समःप्रधानतया जडत्वेन माह्यात्मकानां
    शब्दतन्मात्रभागेनैकः परिणामः शब्दो विषयः । शब्द इति शब्दतन्मात्रम् । विषय इति
    ७ इत्वमाह न तु तन्मात्रस्य श्रोत्रविषयत्वसंभव इति । शेषं सुगमम् ।।
       अथ विज्ञानवादिनं वैनाशिकमुत्थापयति--नास्त्यर्थो विज्ञानविसहचर इति ।
    यदि हि भूतभौतिकानि विज्ञानमात्राद्भिन्नानि भवेयुस्ततस्तदुत्पत्तिकारणमीदृशं प्रधानं
    कल्प्येत, न तु तानि विज्ञानातिरिक्तानि सन्ति परमार्थतः । तत्कथं प्रधानकल्पनं कथं
    च ग्रहणानामिन्द्रियाणामहऺकारविकाराणां कल्पनेति । तथाहि---जडस्यार्थस्य स्वयमप्र-
    काशत्वान्नास्त्यर्थो विज्ञानविसहचरः । साहचर्य संबन्धः । तदभावो विसहचरत्नम् ।

       १ ग. घ. इ. च. ज. ॰ब्दमा॰ । २ ख. प. ङ. च. ज. ॰दिभूता॰ । ३ स्व. ज.स.
    ॰धर्मेण प॰ । ४ ज, कुनी नानात्मान। सू १४] पातञ्जलयोगसूत्राणि । १८९

स्वमादौ कल्पितमित्यनया दिशा ये वस्तुस्वरूपमपहनुवते ज्ञानपरिकल्पनामात्रं वस्तु स्वप्नविषयोपमं न परमार्थतोऽस्तीति य आहुस्ते तथेति प्रत्युपस्थितमिदं स्वमाहात्म्येन वस्तु कथमप्रमाणात्मकेन विकल्पज्ञानबलेन वस्तुस्वरूपमुत्सृज्य तदेवापलपन्तः श्रद्धेयवचनाः स्युः ॥ १४ ॥ विरभावार्थः । विज्ञानासंबन्धो नास्ति व्यवहारयोग्य इत्यर्थः । अस्ति तु 'ज्ञानमर्थविसहचरं तस्य स्वयंप्रकाशत्वेन स्वगोचरास्तिताव्यवहारे कर्तव्ये जडमर्थं प्रत्यपेक्षाभावात् । तदनेन वेद्यत्वसहोपलम्भनियमौ सूचितौ विज्ञानवादिना । तौ चैवं प्रयोगमारोहतः- यद्वेद्यते येन वेदनेन तत्ततो न भिद्यते । यथा ज्ञानस्याऽऽत्मा । वेद्यन्ते च भूतभौतिकानीति विरुद्धव्याप्तोपलब्धिर्निषेध्यभेदविरुद्धनाभेदेन व्याप्तं वेद्यत्वं दृश्यमानं स्वव्यापकमभेदमुपस्थापयत्तद्विरुद्धं भेदं प्रतिक्षिपतीति । तथा यद्येन नियतसहोपलम्भं तत्ततो न भिद्यते । यथैकस्माञ्चन्द्राद्वितीयश्चन्द्रः । नियतसहोपलम्भश्चार्थो ज्ञानेनेति व्यापकविरुद्धो- पलब्धिः । निषेध्यभेदव्यापकोनियमविरुद्धो नियमोऽनियमं निवर्तयंस्तद्याप्तं भेदं प्रतिक्षिपतीति । स्यादेतत् । अर्थश्चेन्न भिन्नो ज्ञानात्कथं भिन्नवत्प्रतिभासत इत्यत आह- कल्पितमिति । यथाऽऽहुर्वैनाशिका: -" सहोपलम्भनियमादभेदो नीलतद्धियोः । भेदश्च भ्रान्तिविज्ञानैर्दृश्य इन्दाविवाद्वय " इति ।। कल्पितत्व विशदयति--ज्ञानपरिकल्पनेति । निराकरोति--त इति । ते कथं श्रद्धेयवचनाः स्युरिति संबन्धः । प्रतिज्ञानमुपस्थितं प्रत्युपस्थितम् । कथम्-तथेति । यथा यथाऽवभासत इदंकारास्पदत्वेन तथा तथा स्वयमुपस्थितं न तु कल्पनोपकल्पितं विज्ञानविषयतापन्नम् । स्वमाहात्म्येनेति विज्ञानकारणत्वमर्थस्य दर्शयति । यस्मादर्थेन स्वकीयया ग्राह्यशक्त्या विज्ञानमजनि तस्मादर्थस्य ग्राहकं तदेवंभूतं वस्तु कथमप्रमाणात्मकेन विकल्पविज्ञानबलेन विकल्पस्याप्रामाणिकत्वात्तद्बलस्यापि तदात्मनोऽप्रमाणात्मकत्वं, तेन वस्तुस्वरूपमुत्सृज्योपप्लुतं कृत्वा । उपगृह्येति क्वचित्पाठः । तत्रापि स एवार्थः । तदेवापलपन्तः श्रद्धातव्यवचनाः स्युरिति । इदमत्राऽऽकृतम्----सहोपलम्भ- नियमश्च वैद्यत्वं च हेतू संदिग्धव्यतिरेकतया नैकान्तिको । तथाहि-ज्ञानाकारस्य भूतभौतिकादेर्थदेतद्बाह्यत्वं स्थूलत्वं च भासेते न ते ज्ञाने संभवतः । तथाहि नानादेशव्यापिता स्थौल्यं विच्छिन्नदेशता च बाह्यत्वम् । न चैकविज्ञानस्य नानादेश. . १च. 'मुपमृज्य । ज. 'मुगृह्य त । २७. झ. नाम्तीति । ३ झ. माने स्व । ४ मा 'मुन्थ पयंस्तद्वि' । ५ के. 'पकनि' । ६ क, छ. ति कारणत्वं विज्ञानं प्रत्यर्थ । ख. "ति कारणाषिश नं पत्पर्थ । ७ ज. पगुह्ये'। १९. वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि-- [४कैवल्यपादे-- कुतश्चेतदन्याय्यम्-

वस्तुसाम्ये चित्तभेदात्तयो- रेविभक्तः पन्थाः ॥ १५॥

व्यापिता विच्छिन्नदेशता चोपपद्यते । तद्देशत्वातद्देशत्वलक्षणविरुद्धधर्मसंसर्गस्यैकंत्रासंभ• वात्संभवे वा त्रैलोक्यस्यैकत्वप्रसङ्गात् । अत एवास्तु विज्ञानभेद इति चेत् । हन्त भोः परमसूक्ष्मगोचराणां प्रत्ययानां परस्परवार्तानभिज्ञानां स्वगोचरमात्रजागरूकाणां कुतस्त्योऽयं स्थूलावभासः । न च विकल्पगोचरोऽभिलापः संसर्गाभावाद्विशदप्रतिभासत्वाञ्च । न च स्थूलमालोचितं यतस्तदुपाधिकस्य विशदता भवेत्तत्पृष्ठभाविनः । न चाविकल्पवद्विकल्पोऽपि स्वाकारमात्रगोचरस्तस्य चास्थूलत्वान्न स्थूलगोचरो भवितुमर्हति । तस्माद्बाह्ये च प्रत्यये स्थूलस्य बाह्यस्य चासंभवादलीकमेतदास्थातव्यम् । न चालीकं विज्ञानादभिन्नं विज्ञानस्य तद्वत्तुच्छत्वप्रसङ्गात् । तथा च वेद्यत्वस्याभेदव्याप्यत्वाभावात्कुतो भेदप्रतिप- क्षत्वम् । सहोपलम्भनियमश्च सदसतोरिव विज्ञानस्थौल्ययोः सतोरपि स्वभावाद्वा कुतश्चित्प्रतिबन्धौदोपपत्स्यते । तस्मादनैकान्तिकत्वादेतौ हेत्वाभासौ विकल्पमात्रमेव बाह्याभावे प्रसुवति । न च प्रत्यक्षमाहात्म्यं विकल्पमात्रेणापोद्यते । तस्मात्साधूक्तं कथमप्रमाणात्मकेन विकल्पज्ञानबलेनेति । एतेन प्रत्ययत्वमपि स्वप्नादिप्रत्ययदृष्टान्तेन निरालम्बनत्यसाधनमपास्तम् । प्रमेयविकल्पस्त्ववयविव्यवस्थापनेन प्रयुक्तः । विस्तरस्तु न्यायकणिकायामनुसरणीय इति तदिह कृतं विस्तरेणेति ॥ १४ ॥ तदेवमुत्सूत्रं भाष्यकृद्विज्ञानातिरिक्तस्थापने युक्तिमुक्त्वा सौत्री युक्तिमवतारयति- कुतश्चैतदिति । वस्तुसाम्ये चित्तभेदात्तयोर्विभक्तः पन्थाः । यन्नानात्वे यस्यैकत्वं तत्ततोऽत्यन्तं भिद्यते । यथा चैत्रस्य ज्ञानमेकं भिन्नेभ्यो देवदत्तविष्णुमित्रमैत्रप्रत्ययेभ्यो भिद्यते । ज्ञाननानात्वेऽपि चार्थो न भिद्यत इति भवति विज्ञानेभ्योऽन्यः। अभेदश्वार्थस्य ज्ञानभेदेऽपि प्रमातृणां परस्परप्रतिसंधानादवसीयते । अस्ति हि रक्तद्विष्टविमूढमध्यस्थानामेकस्यां योषिति प्रतीयमानायां प्रतिसंधानं या त्वया दृश्यते सैव मयाऽपीति । तस्माद्वस्तुसाम्ये चित्तभेदाज्ज्ञानभेदात्तयोरर्थज्ञानयोर्विभक्तः पन्थाः स्वरूपभेदोपायः । सुखज्ञानं कान्तायां कान्तस्य, सपत्नीनां दुःखज्ञानम् । चैत्रस्य तु तामविन्दतो मूढज्ञानं विषादः । स्यादेतत् । य एकस्य चित्तेन परिकल्पितः १ ज. च। २. सविकल्पस्य भा।३ज, धामोप। सू० १५] पातञ्जलयोगसूत्राणि । १९१ बहुचित्तालम्बनीभूतमेकं वस्तु साधारणं, तत्खलु नैकचित्तपरिकल्पितं नाप्यनेकचित्तपरिकल्पितं किंतु स्वप्रतिष्ठम् । कथं, वस्तुसाम्ये चित्तभेदात् । धर्मापेक्षं चित्तस्य वस्तुसाम्येऽपि सुखज्ञानं भवत्यधर्मापेक्षं तत एव दुःखज्ञानमविद्यापेक्षं तत एव मूढज्ञानं सम्यग्दर्शनापेक्षं तत एव माध्यस्थ्यज्ञानमिति । कस्य तच्चितेन परिकल्पितम् । न चान्यचित्तपरिकल्पितेनार्थेनान्यस्य चित्तोपरागो युक्तः । तस्माद्वस्तुज्ञानयोर्ग्राह्यग्रहणभेदभित्रयोर्विभक्तः पन्थाः । नानयोः संकरगन्धोऽप्यस्तीति । सांख्यपक्षे पुनर्वस्तु त्रिगुणं चलं च गुणवृत्तमिति धर्मादिनि मित्तापेक्षं चित्तैरभिसंबध्यते । निमित्तानुरूपस्य च प्रत्ययस्योत्त्पद्यमानस्य तेन तेनाऽऽत्मना हेतुर्भवति । केचिदाहुः-ज्ञानसहभूरेवार्थो भोग्यत्वात्सुखादिवदिति । त एतया द्वारा साधारणत्वं बाधमानाः पूर्वोत्तरक्षणेषु वस्तुरूपमेवापनुवते ॥ १५ ॥ कामिनीलक्षणोऽर्थस्तेनैवान्येषामपि चितमुपरज्यत इति साधारणमुपपद्यत इत्यत आह- न चान्येति । तथा सत्येकस्मिन्नीलज्ञानवति सर्व एवं नीलज्ञानवन्तः स्युरिति । नन्वर्थवादिनामप्येकोडर्थः कथं सुखादिभेदभिन्नविज्ञानहेतुः । न ह्यविलक्षणात्कारणात्कार्यभेदो युक्त इत्यत आह-सांख्यपक्ष इति । एकस्यैव बाह्यस्य वस्तुनस्त्रैगुण्यपरिणामस्य त्रैरूप्यमुपपन्नम् । एवमपि सर्वेषामविशेषेण सुखदुःखमोहात्मकं विज्ञानं स्यादित्यत आह-धर्मादिनिमित्तापेक्षं रजःसहितं सत्वं धर्मापेक्षं सुखज्ञानं जनयति । सत्वमेव तु विगलितरजस्कं विद्यापेक्षं माध्यस्थ्यज्ञानमिति । ते च धर्मादयो न सर्वे सर्वत्र पुरुषे सन्ति किंतु कश्चि क्वचिदित्युपपन्ना व्यवस्थेति । अत्र केचिदाहुः प्रावादुका ज्ञानसहभूरेवार्थो भोग्यत्वात्मुखादिवदिति । एतदुक्तं भवति-भवत्यर्थो ज्ञानाद्वयतिरिक्तस्तथाऽप्यसौ जडत्वान्न ज्ञानमन्तरेण शक्यः प्रतिपत्तुम् । ज्ञानेन तु भासनीयः । तथाच ज्ञानसमय एवास्ति नान्यदा प्रमाणाभावादिति । तदेतदुत्सूत्रं तावद्दूषयति भाष्यकारः-त एतया द्वारेति । वस्तु खलु सर्वचित्तसाधारणमनेकक्षणपरम्परोह्यमानं परिणामात्मकमनुभूयते लौकिकपरीक्षकैः । तच्चेद्विज्ञानेन सह भवेन्नूनमेवंविधमिवं चेदिदमंशस्योपरि कोऽयमनुरोधो येन सोऽपि नापहनुयेतेत्यर्थः ।। १५ ॥ । ४ झ. १ म. प. उ. च. ज. चावल' । २. स्तुस्वरू । ३ ज. एकै गत । ५ ज. विज्ञानसहित । THE KUPPUSWAMI SASTRI RESEARCH INSTITUTE - MADRAS-4 १९२ वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि - [४ कैवल्पपादे- न चैकचित्ततन्त्रं वस्तु तदप्रमाणकं . तदा किं स्यात् ॥ १६ ॥ एकचित्ततन्त्रं चेद्वस्तु स्यात्तदा चित्ते व्यग्रेनिरुद्धे वाऽस्वरूप. मेव तेनापरामृष्टमन्यस्याविषयीभूतमप्रमाणकमगृहीतस्वभावकं केनचित्तदानीं किं तत्स्यात् । संबध्यमानं च पुनश्चित्तेन कुत उत्पद्येत । ये चास्यानुपस्थिता भागास्ते चास्य न स्युरेवं नास्ति पृष्ठमित्युदरमपि न गृह्येत । तस्मात्स्वतन्त्रोऽर्थः सर्वपुरुषसाधारणः स्वतन्त्राणि च चित्तानि प्रतिपुरुषं प्रवर्तन्ते । तयोः संवन्धादुपलब्धिः पुरुषस्य भोग इति ।। १६ ।। मा वा भूदिदमंशस्यापह्नवो ज्ञानसहभूरेत्वास्त्वर्थस्तत्राप्याह-न चैकचित्ततन्त्रं वस्तु तेंदप्रमाणकं तदा किं स्यात् । यद्धि घटग्राहि चित्तं तद्यदा पटद्रव्यव्यग्रतया न घटे वर्तते । यद्वा विवेकविषयमासीत्तदेव च निरोधं समापद्यते तदा घटज्ञानस्य धा विवेकज्ञानस्य वाऽभावाद्विवेको वा घटो वा ज्ञानभेदमात्रजीवनस्तन्नाशान्नट एव स्यादित्याह-एकचित्तेति । किं तत्स्यान्न स्यादित्यर्थः । संबध्यमानं च चितेन तद्वस्तुविधेको वा घटो वा कुत उत्पद्येत । नियतकारणान्वयव्यतिरेकानुविधायिभावानि हि कार्याणि न स्वकारणमतिवर्त्य कारणान्तराद्भवितुमीशते । मा भूदकारणत्वे तेषां कादाचिकात्वव्याघातः । नच तज्ज्ञानकारणत्वमेव तत्कारणेत्वमिति युक्तम् । आशामोदकस्य मोदकस्य चोपयुज्यमानस्य रसवीर्यविपाकादिसाम्यप्रसङ्गात् । तस्मात्साधूक्तं संबध्यमानं वा (च) पुनश्चित्तेनेति । अपि च यो योऽर्वाग्भागः स सर्वो मध्यपरभागव्याप्तः । ज्ञानाधीने सद्भावित्वस्थाननुभूयमानत्वान्मध्यपरभागौ न स्त इति व्यापकाभावादर्वाग्भागोऽपि न स्यादित्य- र्थाभावात्कुतो ज्ञानसहभूरर्थ इत्याह-ये चास्येति । अनुपस्थिता अज्ञाताः । उपसंहरति- तस्मादिति । सुगमं शेषम् ॥ १६ ॥ १क.ख.चेहरतु । २ क.ख. च. ज. तत्पमाणकं । ३ क.ख. घ. च. ज. गा। ४ क. चेदस्तु । ५ क. तत्यमाणकं । ६ ज. त्वेन ते' । ७ स. °ण । ८ ख. त्यामे ! ९. गमि'। १० क. कस्योपार्जितमो' । ११ ख. ज. गमम् । सू०१७-१८] पातञ्जलयोगसूत्राणि । तदुपरागापेक्षित्वाचित्तस्य वस्तु ज्ञाताज्ञातम् ॥ १७ ॥ अयस्कान्तमणिकल्पा विषया अय:सधर्मकं चित्तमभिसंबन्ध्योपरञ्जयन्ति । येन च विषयेणोपरक्तं चित्तं स विषयो ज्ञातस्ततोऽन्यः पुनरज्ञातः । वस्तुनो ज्ञाताज्ञातस्वरूपत्वात्परिणामि चित्तम् ॥ १७॥ ____ यस्य तु तदेव चित्तं विषयस्तस्य- सदा ज्ञाताश्चित्तवृत्तयस्तत्प्रग्नो: । पुरुषस्यापरिणामित्वात्॥ १८॥ स्यादेतदर्थश्चेत्स्वतन्त्रः, स च जडस्वभाव इति न कदाचित्प्रकाशेत । प्रकाशने पा जडत्वमप्यस्यापगतमिति भावोऽपपगच्छेत् । न जातु स्वभावमपहाय भावो वर्तितुमर्हति । न चेन्द्रियाद्याधेयो जडस्वभावस्यार्थस्य धर्मः प्रकाशंत इति सांप्रतम् । अर्थधर्मत्वे नीलत्वादिवत्सर्वपुरुषसाधारण इत्येकः शास्त्रार्थ इति सर्व एव विद्वांसः प्रसज्जेरन्न जाल्मः कश्चिदस्ति । न चातीतानागतयोर्धर्म: प्रत्युत्पन्नो युक्तः । तस्मात्स्वतन्त्रोऽर्थ उपलम्भवि- षय इति मनोरथमात्रमेतदित्यत आह-तदुपरागापेक्षित्वाचित्तस्य वस्तु ज्ञाताज्ञातम् । जडस्वभावोऽप्यर्थ इन्द्रियप्रणाडिकया चित्तमुपरजयति । तदेवंभूतं चित्तदर्पणमुसंक्रान्तप्रतिबिम्बा चितिशक्ति:श्चित्तमर्थोपरक्तं चेतयमानार्थमनुभवति, न त्यर्थे किचित्प्राकट्य दिकमाधत्ते । नाप्यसंबद्धा चित्तेन तत्प्रतिबिम्बसंक्रान्तेरुक्तत्वादिति । यद्यपि च सर्वगतत्वाच्चित्तस्य चेन्द्रियस्य चाऽऽहंकारिकस्य विषये नास्ति संबन्धस्तथाऽपि यत्र शरीरे वृत्तिनच्चित्तं तेन सह संबन्धो विषयाणामित्ययस्कान्तमणिकल्पा इत्युक्तम् । अयःसधर्मकं चित्तमिति । इन्द्रियप्रणाडिकयाऽभिसंबन्ध्योपरञ्जपन्ति । अत एव चित्तं परिणामीत्याह्---वस्तुन इति ॥ १७ ॥ तदेवं चित्तव्यतिरेकिणमर्थमवस्थाप्य तेभ्यः परिणतिधर्मकेभ्यो व्यतिरिक्तमात्मानमाद. र्शयितुं तद्वैधर्म्यपरिणामित्वमस्य- वक्तुं पूरयित्वा सूत्रं पठति ---यस्य तु तदेष चित्तं विषयस्तस्य-सदा ज्ञाताश्चित्तवृत्त्यस्तत्प्रभो: पुरुषस्यापरिणामित्वात् । क्षिप्तमूढविक्षिप्तैकाग्रतावस्थितं चित्तमा निरोधात्सर्वदा पुरुषेणानुभूयते वृत्तिमत्तत्कस्य हेतोर्यतः पुरुषोऽपरिणामी परिणामित्वे चित्तवत्पुरुषोऽपि ज्ञाताज्ञातविषयो भवेत् । १ क. स. झ. 'थल ई । २ ख. ज. स. सो । सू०२०) पातञ्जलयोगसूत्राणि । १९५ यति । प्रकाशश्चायः:प्रकाश्यप्रकाशकसंयोगे: दृष्टः । न च स्वरूपमात्रेऽस्ति संयोगः । किं च स्वाभासं चित्तमित्यग्राह्यमेव कस्यचिदिति शब्दार्थः । तद्यथा स्वात्मप्रतिष्ठमाकाशं न परप्रतिष्ठमित्यर्थः । स्वबुद्धिप्रचारप्रतिसंवेदनात्सत्त्वानां प्रवृत्तिर्दृश्यते- क्रुद्धोऽहं भीतोऽहममुत्र मे रागोऽमुत्र मे क्रोध इति । एतत्स्वबुद्धेरग्रहणे न युक्तमिति ॥ १९ ॥</poem>}}

 एकसमये चोभयानवधारणम् ॥ २० ॥
 न चैकस्मिन्क्षणे स्वपररूपावधारणं युक्तं, क्षणिकवादिनो
यद्भवनं सैव क्रिया तदेव च कारकमित्यभ्युपगमः ॥ २० ॥

मित्यर्थः । स्वबुद्धिपचारपतिसंवेदनात्सत्वानां प्रवृत्तिदृश्यते- क्रुद्धोऽहं भीतोऽहममुर मे रागोऽमुत्र मे क्रोध इति । एतत्स्वबुद्धे- रग्रहणे न युक्तमिति ॥ १९ ॥ एकसमये चोभयानवधारणम् ॥ २० ॥ न चैकस्मिन्क्षणे स्वपररूपावधारणं युक्तं, क्षणिकवादिनो यद्भवनं सैव क्रिया तदेव च कारकमित्यभ्युपगमः ।। २० ॥ प्रकाशश्चायमिति । अयमिति पुरुषस्वभावात्प्रकाशाद्वयवच्छिनत्ति, क्रियारूपः प्रकाश इति यावत् । एतदुक्तं भवति-~या या क्रिया सा सा सर्वा कर्तृकरणकर्मसंबन्धेन दृष्टा । यथा पाको दृष्टश्चैत्रामितण्डुलसंबन्धेन यथा वा प्रकाशनम् । तथा च प्रकाशोऽपि क्रियेति तयाऽपि तथा भवितव्यम् । संबन्धश्च भेदाश्रयो नाभेदे संभवतीत्यर्थः । किं च स्वाभासं चित्तमित्यग्राह्यमेव कस्यचिदिति शब्दार्थः । स्यादेतत् । मा भूद्ग्राह्यं चित्तम् । न हि ग्रहणस्याकारणस्याव्यापकस्य च निवृत्तौ चित्तनिवृत्तिरित्यत आह-स्वबुद्धीति । बुद्धिश्चित्तं, प्रचारा व्यापाराः, सत्त्वाः प्राणिनः, चित्तस्य वृत्तिभेदाः क्रोधलोभादयः स्वाश्रयेण चिंत्तन स्वविषयेण च सह प्रत्यात्ममनुभूयमानाश्चित्तस्याग्राह्यतां विघटयन्तीत्यर्थः । स्वबुद्धिप्रचारप्रतिसंवेदनमेव विशदयति-क्रुद्धोऽहमिति ॥ १९ ॥ एकसमये चोभयानवधारणम् । स्वाभासं विषयाभासं चित्तमिति ब्रुवाणो न तावद्येनैव व्यापारेणाऽऽत्मानमवधारयति तेनैव विषयमपीति वक्तुमर्हति । न ह्यविलक्षणो व्यापारः कार्यभेदाय पर्याप्तस्तस्माद्वयापारभेदोऽङ्गीकर्तव्यः । न च वैनाशिकानामुत्पत्तिभेदातिरिक्तोऽस्ति व्यापारः । न चैकस्या एवोत्पत्तेरविलक्षणायाः कार्यवैलक्षण्यसंभवः । तस्य ऽऽकस्मिकत्वप्रसङ्गात् । न चैकस्योत्पत्तिद्वयसंभवः । तस्मादर्थस्य च ज्ञानरूपस्य चावधारणं नैकस्मिन्समय इति । तदेतद्भाष्येणोच्यते-न चैकस्मिन्क्षण इति । तथा चोक्तं वैनाशिकैः- भूतिर्येषां क्रिया सैव कारक सैव चोच्यते " इति । तस्मादृश्यत्वमेतञ्चित्तस्य सदातनं स्वाभासदमपनद्रष्टार व द्रष्टुरपरिणामित्वं च दर्शयतीति सिद्धम् ॥ २०॥ १ क. स. काक्त्यिमातिष्ठा । २ क. भजीत' । ३ अ. मेव चिन । 66 १९६ वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि- [ ४ कैवल्यपादे- स्यान्मतिः स्वरसनिरुद्धं चित्तं चित्तान्तरेण समनन्तरेण गृह्यत इति- चित्तान्तरदृश्ये बुद्धिबुद्धेरतिप्र- सङ्गः स्मृतिसंकरश्च ॥ २१ ॥ अथ चित्तं चेञ्चित्तान्तरेण गृह्येत बुद्धिबुद्धिः केन गृह्यते, साऽप्यन्यया साऽप्यन्ययेत्यतिप्रसङ्गः। स्मृतिसंकरश्च, यावन्तो बुद्धिबुदीनामनुभवास्तावत्यः स्मृतयः प्राप्नुवन्ति । तत्संकराचैकस्मृत्यनवधारणं च स्यादित्येवं बुद्धिमतिसंवेदिनं पुरुषमपलषद्भिर्वैनाशिकः सर्वमेवाऽऽकुलीकृतम् । ते तु भोक्तृस्वरूपं यत्र क्वचन कल्पयन्तो न न्यायेन संगच्छन्ते । केचित्तु सत्त्वमात्रमपि परिकल्प्यास्ति स सत्त्वो य एतान्पञ्च स्कन्धानिक्षिप्याभ्यांच प्रतिसंदधातीत्युक्त्वा तत एव पुनस्त्रस्यन्ति । तथा स्कन्धानां महन्निर्वेदाय विरागायानुत्पादाय प्रशान्तये गुरोरन्तिके ब्रह्मचर्यं चरिष्यामीत्युक्त्वा सत्त्वस्य पुनः सत्त्वमेवापड्नुवते । सांख्ययोगादयस्तु प्रवादाः स्वशब्देन पुरुषमेव स्वामिनं चित्तस्य भोक्तारमपयन्तीति ॥ २१॥ पुनर्नाशिकमुत्थापयति-स्यान्मतिः । मा भूदृश्यत्वेन स्वसंवेद॑नम् । एवमप्यात्मा म मिध्यति । स्वसंतानवर्तिना चरमचित्तक्षणेन स्वरसनिरुद्धस्वजनकचित्तक्षणग्रहणादित्यर्थः । समं च तज्ज्ञानत्वेनानन्तरं चाव्यवहितत्वेन समनन्तरं तेन । चित्तान्तरदृश्ये बुद्धिबुद्धेरतिप्रसङ्गः स्मृतिसंकरश्च । बुद्धिरिति चित्तमित्यर्थः । नागृहीता चरमा बुद्धिः पूर्वबुद्धिग्रहणसमर्था । नहि बुद्ध्याऽसंबद्धा पूर्वबुद्धिर्बुद्धा भवितुमर्हति । न ह्यगृहीतद्पडो दण्डिनमवगन्तुमर्हति । तस्मादनवस्थेति । विज्ञानवेदनासंज्ञारूपसंस्कारों स्कन्धाः । सांख्ययोगादयः प्रवादाः सांख्याश्च योगाश्च त एवाऽऽदयो येषां वैशेषिकादिप्रवादाना ते सांख्ययोगादयः प्रवादाः । सुगममन्यत् ॥ २१ ॥ स्यादेतत् । यदि चित्तं न स्वाभासं नापि चित्तान्तरवेद्यमात्मनाऽपि कथं भोक्ष्यते चित्तम् । न खल्वात्मनः स्वयंप्रकाशस्याप्यस्ति काचित्क्रिया । न च तामन्तरेण कर्ताः न चासंबद्धश्चित्तेन कर्मणा तस्य भोक्ताऽतिप्रसङ्गादित्याशयवान्पृच्छति- १ ख. गे. °ण गृ । २ ग, य. उ. च. ज, 'चिसत्व । ३ ग. महानि ! ४ क, दन स्वप्रकाशेन । ए° । ५ कं. राः पञ्च स्क। सू० २२-२३] पातञ्जलयोगसूत्राणि । कथम्-- चितेरप्रतिसंक्रमायास्तदाकारा- पत्तौ स्वबुद्धिसंवेदनम् ॥ २२॥ अपरिणामिनी| हि भोक्तृशक्तिरप्रतिसंक्रमा च परिणामिन्यर्थे प्रतिसंक्रान्तेव तद्वृत्तिमनुपतति । तस्याश्च प्राप्तचैतन्योपग्रहस्वरूपाया बुद्धिवृत्तेरनुकारिमात्रतया बुद्धिवृत्त्यविशिष्टा हि ज्ञानवृत्तिराख्यायते । तथा चोक्तम्- "न पातालं न च विवरं गिरीणां नैवान्धकारं कुक्षयो नोदधीनाम् । गुहा यस्यां निहितं ब्रह्म शाश्वतं बुद्धिवृत्तिमविशिष्टां कवयो वेदयन्ते " ॥ इति ॥ २२ ॥ अतश्चैतदभ्युपगम्यते- द्रष्ट्रदृश्योपरक्तं चित्तं सर्वार्थम् ॥ २३ ॥ कथमिति । सूत्रेणोत्तरमाह-चितेरप्रतिसंक्रमायास्तदाकारापत्तौ स्वबुद्धिसंवेदनम् । यत्तदवोचद्वृत्तिसारुप्यमितरत्रेति तदितः समुत्थितम् । चितेः स्वबुद्विसंवेदन्ं बुद्धेस्तदाकारापत्तौ चितिप्रतिबिम्बाधारतया तद्रूपतापत्तौ सत्याम् | यथा हि चन्द्रमसः क्रिया- मन्तरणापि संक्रान्तचन्द्रप्रतिबिम्बममलं जलमचलं चलमिवाऽऽलवालमरालमित्र चन्द्रमसमवभासयति एवं विनाऽपि चितिव्यापारमुपसंक्रान्तचितिप्रतिबिम्बं चित्तं स्वगतया क्रियया क्रियावतीमसंगतामपि संगतां चितिशक्तिमवभासयद्भोग्यभावमासादयद्भोक्तृभावमापादयति तस्या इति सूत्रार्थः । भाष्यमप्येतदर्थमसकृत्तत्र तत्र व्याख्यातमिति न व्याख्यातमत्र । बुद्धिवृत्यविशिष्टत्वे ज्ञानवृत्तेरागममुदाहरति--तथा चोक्तं-न पातालमिति । शाश्वतस्य शिवस्य ब्रह्मणो विशुद्धस्वभावस्य चितिच्छायापन्नां मनोवृत्तिमेव चितिच्छायापन्नत्वाचिते. रप्यवशिष्टां गुहां वेदयन्ते । तस्यामेव गुहायां तद्गुह्यं ब्रह्म तदपनये तु स्वयंप्रकाशमनावरणमनुपसर्गं प्रद्योतते चरमदेहस्य भगवत इति ॥ २२ ॥ तदेवं दृश्यत्वेन चित्तस्य परिणामिनस्तदतिरिक्तः पुमानपरिणतिधर्मोपपादितः संप्रति लोकप्रत्यक्षमपन्न प्रमाणयति--अतश्चैतदिति । अवश्यं चैतदित्यर्थः । द्रष्टदृश्योपरक्तं चित्तं सर्वार्थम् । यथा हि नीलाद्यनुरक्तं चित्तं नीलाद्यर्थं प्रत्यक्षेणैवावस्थापयति एवं

१ क. ख. च, ज. कारमा । २ क. वाळं म । ३-स्व. ज. पनम ।

१९८
[४ कैवल्पपादे-
वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि-

            
                   मनो हि मन्तव्येनार्थेनोपरक्तं, [११४]तत्स्वयं च विषयत्वाद्विष-
               यिणा पुरुषेणाऽऽत्मीयया वृत्त्याऽभिसंबद्धं, तदेतश्चित्तमेव द्रष्टृ-
               दृश्योपरक्तं विषयविषयिनिर्भासं चेतनाचेतनस्वरूपापन्नं विष-
               यात्मकमप्यविषयात्मकमिवाचेतनं चेतनमिव स्फटिकमणिकल्पं
               सर्वार्थमित्युच्यते ।
            
                    न्तदनेन चित्तसारूप्येण भ्रान्ताः केचित्तदेव चेतनमित्याहुः ।
               अपरे चित्तमात्रमेवेदं सर्वे नास्ति खल्वयं गवादिर्घटादिश्च सका-
               रणो लोक इति । अनुकम्पनीयास्ते । कस्मात्, अस्ति हि तेषां
               भ्रान्तिबीजं सर्वरूपाकारनिर्भासं चित्तमिति । समाधिमज्ञायां
               प्रज्ञेयोऽर्थः प्रतिबिम्बीभूतस्तस्याऽऽलम्बनीभूतत्वादन्यः 

         द्रष्टच्छायापन्त्या तदनुरक्तं चित्तं द्रष्टारमपि प्रत्यक्षेणावस्थापयति । अस्ति हि [११५]त्र्याकारं ज्ञानं
         नीलमहं [११६]संप्रत्येमीति । तस्माज्ज्ञेयवत्तज्ज्ञाताऽपि प्रत्यक्षसिद्धोऽपि न विविच्यावस्थापितो
         यथा जले चन्द्रमसो बिम्बम् । न त्वेतावता तदप्रत्यक्षम् । न चास्य जलगतत्वे तदप्रमा-
         णमिति चन्द्ररूपेऽप्यप्रमाणं भवितुमर्हति । तस्माच्चित्तप्रतिबिम्बतया[११७]बिम्बतया चैतन्यगोचराऽपि
         चित्तवृत्तिर्न चैतन्यागोचरेति । तदिदं सर्वार्थत्वं चित्तस्येति । तदेतदाह--मनो हीति ।
         न केवलं तदाकारापत्त्या मन्तव्येनार्थेनोपरक्तं मनोऽपि तु स्वयं चेति । चकारो भिन्नक्रमः
         पुरुषेणेत्यस्यानन्तरं द्रष्टव्यः । तच्छायापत्तिः पुरुषस्य वृत्तिः ।
          इयं च चैतन्यच्छायापत्तिश्चित्तस्य पैनाशिकैरभ्युपेतन्या । कथमन्यथा चिते चैतन्य-
         मेत आरोपयांबभूवुरित्याह-तदनेनेति । केचिद्वैनाशिका बाह्यार्थवादिनः । अपरे विज्ञा-
         नमात्रवादिनः । ननु यदि चित्तमेव द्रष्ट्राकारं दृश्षाकारं चानुभूयते हन्त चित्तादभिन्ना.
         वेवाऽऽस्तां द्रष्टृदृश्यौ ।
          यथाऽऽहु:-"अभिन्नोऽपि हि बुद्ध्यात्मा विपर्यासितदर्शनैः ।
                      ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते" इति ||
          तत्कथमेतेऽनुकम्पनीया इत्यत आह–समाधिप्रज्ञायामिति । ते खलूक्ताभिरुपप-
         त्तिभिश्चित्तातिरिक्तं पुरुष[११८]मभ्युपग[११९]म्याप्यष्टाङ्गयोगोपदेशेन समाधिप्रज्ञायामात्मगोचरायामव-
         तार्य बोधयितव्याः । तद्यथा-समाधिप्रज्ञायां प्रज्ञेयोऽर्थ आत्मा प्रतिबिभ्बीभूतोऽन्यः
         कस्मात्तस्याऽऽत्मन आलम्बनीभूतत्वात् । अथ चित्तादभिन्नमेव कस्मान्नाऽऽलम्बनं भवतीति|

 

सू० २४]
१९९
पातंजलयोगसूत्राणि।
                 
                 स चेदर्थश्चित्तमात्रं स्यात्कथं प्रज्ञयैवं प्रज्ञारूपमवधार्येत । तस्मा-
                 प्रतिबिम्बीभूतोऽर्थः प्रज्ञायां येनावधार्यते स पुरुष इति । एवं
                 ग्रहीतृग्रहणग्राह्यस्वरूपचित्तभेदात्रयमप्येतजातितः प्रविभजन्ते ते
                 सम्यग्दर्शिनस्तरधिगतः पुरु[१२०]षः ॥ २३ ॥
                     
                      कुतश्च-
                         तदसंख्येयवासनाभिश्चित्रमपि परार्थ
                         संहत्यकारित्वात् ॥ २४ ॥
                  
                     तदेतञ्चित्तमसंख्येयाभिर्वासनाभिरेव चित्रीकृतमपि परार्थं
                 परस्य भोगापवर्गार्थं न स्वार्थ संहत्यकारित्वाद्गृहवत् । संहत्य-
                 कारिणा चित्तेन न स्वार्थेन भवितव्यं, न [१२१]सुखचित्तं सुखार्थ न
                 ज्ञानं ज्ञानार्थमुभयमप्येतत्परार्थम् । यश्च भोगेनापवर्गेण चार्थे-
           यदि युक्तिबोधितोऽपि वै[१२२]यात्याद्वदेत्तत्र हेतुमाह --स चेदात्मरूपोऽर्थश्चित्तमात्रं स्यान्न
           तु ततो व्यतिरिक्तस्ततः कथं प्रज्ञयैव प्रज्ञारूपमवधार्येत स्वात्मनि वृत्तिविरोधात् ।
           उपसंहरति--तस्मादिति । समीचीनोपदेशेनानुकम्पिता भवन्तीत्याह--एव[१२३]मिति ।
           जातितः स्वभावत इत्यर्थः || २३ ||
              चित्तातिरिक्तात्मसद्भावे हेत्वन्तरमवतारयति--कु[१२४]तश्चेति । तदसंख्येयवासना-
           भिचिवमपि परार्थे संहत्यकारित्वात् । यद्यप्यसंख्येयाः कर्मवासनाः क्लेशवासनाच
           चित्तमेवाधिशेरते नतु पुरुषम् । तथा च वासनाधीना विपाकाश्चित्ताश्रयतया चित्तस्य
           भोक्ततामावहन्ति, भोक्तुरर्थे च भोग्यमिति सर्व चित्तार्थ प्रातं, तथाऽपि तच्चित्तमसंख्येय-
           वासनाविचित्रमपि परार्थम् । कस्मात् । संहत्यकारित्वादिति सूत्रार्थः । व्याचष्टे--
           तदेतदिति । सादेतचित्तं संहत्यापि करिष्यति स्वार्थ च भविष्यति कः खलु विरोध
           इति यदि कश्चिद्व्यात्तं प्रत्याह---संहत्यकारिणेति । सु[१२५]खचित्तमिति भोगमुपलक्षयति ।
           तेन [१२६]दुःखचित्तमपि द्रष्टव्यम् । ज्ञानमित्यपवर्ग उक्तः । एतदुक्तं भवति-सुखदुःखे
           चित्ते प्रतिकूलानुकलात्मके नाऽऽत्मनि संभवतः । स्वात्मनि वृत्तिविरोधात् । न
           चान्योऽपि संहत्यकारी साक्षात्परम्परया वा सुखदुःखे विदधानस्ताभ्यामनुकूलनीयः
           प्रतिकूलनीयो वा । तस्माद्यः साक्षात्परम्परया वा न सुखदुःखयोाप्रियते स 
           एवाऽऽभ्यामनुकूलनीयः प्रतिकूलनीयो वा । स च नित्योदासीनः पुरुष एव-

नार्थवान्पुरुषः स एव परो न परः सामान्यमात्रम् । यत्तु किंचित्परं सामान्यमात्रं स्वरूपेणोदाहरेद्वैनाशिकस्तत्सर्वं संहत्यकारि- त्वात्परार्थमेव स्यात् । यस्त्वसौ परो विशेषः स न संहत्यकारी पुरुष इति ॥ २४॥

विशेषदर्शिन आत्मभाव.
भावनानिवृत्तिः ॥२५॥

यथा प्रावृषि तृणाङ्कुरस्योद्भेदेन तद्बीजसत्ताऽनुमीयते तथा मोक्षमार्गश्रवणेन यस्य रोमहर्षाश्रुपातौ दृश्येते तत्राप्यस्ति विशेषदर्शनबीजमपवर्गभागीयं कर्माभिनिर्वर्तितमित्यनुमीयते । तस्याऽऽत्मभावभावना स्वाभाविकी प्रवर्तते । यस्याभावादिदमुक्तं स्वभावं मुक्त्वा दोषाद्येषां पूर्वपक्षे रुचिर्भवत्यरुचिश्च निर्णये भवति । तत्राऽऽत्मभावभावना कोऽहमासं कथमहमासं किंस्विदिदं कथंस्विदिदं के भविष्यामः कथं वा भविष्याम इति । सा

मपवृज्यते येन ज्ञानेन तस्यापि ज्ञेयतन्त्रत्वात्स्वात्मनि च वृत्तिविरोधान्न ज्ञानार्थत्वम् । ने बाह्यविषयादस्मादपवर्गसंभवो विदेहप्रकृतिलयानामपवर्गासंभवात् । तस्मात्तज्ज्ञानमपि पुरुषार्थमेव न तत्स्वार्थं नापि परमात्रार्थम् । संहतपरार्थत्वे चानवस्थाप्रसङ्गादसंहतपरार्थ. सिद्धिरिति ॥ २४ ॥

 तदेवं कैवल्यमूलबीजं युक्तिमयमात्मदर्शनमुक्त्वा तदुपदेशाधिकृतं पुरुषमनधिकृतपुरुषा. न्तराद्वयावृत्तमाह--विशेषदर्शिन आत्मभावभावनानिवृत्तिः । यस्याऽऽऽत्मभावे भावनाऽस्ति तस्याष्टाङ्गयोगोपदेशादनुतिष्ठतो युञ्जानस्य तत्परिपाकच्चित्तसत्वपुरुषयोर्विशेषदर्श नादात्मभावभावना निवर्तते । यस्याऽऽत्मभावभावनैव नास्ति नास्तिकस्य तस्योपदेशान- धिकृतस्यापारनिश्चितात्मतत्परलोकभावस्य नोपदेशो न विशेषदर्शनं नाऽऽत्मभावभावनानिवृत्तिरिति सूत्रार्थः । नन्वात्मभावभावनायाश्चित्तवर्तिन्याः कुतोऽवगम इत्यत आह--यथा प्रावृषीति । प्राग्भवीयं तत्त्वदर्शनबीजमपवर्गभागीयं यत्कर्माष्टाङ्गयोगानुष्ठानं तदेकदेशानुष्ठानं वा तदभिनिवर्तितमस्तीत्यनुमीयते । तस्य चाऽऽत्मभावभावनाऽवश्यमेव स्वाभाविकी वस्त्वभ्यासं विनाऽपि प्रवर्तते । अनधिकारिणमागमिनां वचनेन दर्शयति-यस्याभावादिदमिति । पूर्वपक्षी नास्ति कर्मफलं परलोकिनोऽभावात्परलोकाभाव इति, तत्र रुचिररुचिश्च निर्णये पञ्चविंशतितत्वविषये ।

[१२७]

सू० २६-२८]
२०१
पातञ्जलयोगसूत्राणि ।
                 तु विशेषदार्शनो निवर्तते । कुतः । चिसस्यैवैष विचित्रः परि.
                 णामः, पुरुषस्त्वसत्यमिविद्यायां शुद्धश्चित्तधर्मेरपरामृष्ट इति ।
                 नतोऽस्याऽऽस्मभावभावना कुशलस्य[१२८] निवर्तत इति ॥ २५ ॥
                               तदा पिवकनिम्नं कैवल्य-
                               प्रारभारं चित्तम् ॥२६॥
                    तदानीं यदस्य चित्तं विषयप्राग्भारमज्ञाननिन्नमासीलदस्या-
                 पया भवति कैवल्यमाग्भारं विवेक[१२९]जज्ञाननिम्नमिति ॥ २६ ॥
                               तच्छिद्देषु प्रत्ययान्तराणि
                               संस्कारेण्यः[१३०]॥ २७ ॥
                 प्रत्ययविवेकनिम्नस्य सत्त्वपुरुषान्यताख्यातिमात्रमा[१३१] हिण-
                 श्चित्तस्य तच्छिंद्रेषु प्रत्ययान्तराण्यस्मीति वा ममेति था जाना-
                 मीति वा न जानामीति वा । कुतः, क्षीयमाणवीजेभ्यः पूर्वसं-
                 स्कारेभ्य इति ॥ २७ ॥
                          हानमेषां क्रुशवदुक्तम् ॥ २८ ॥
           आत्मभावभावना प्राग्व्याख्याता । विशेषदर्शिन: परामर्शमाह-चित्तस्यैवेति । त.
           (अ)स्य विशेषदर्शनकुशलस्याऽऽरममावभावनों[१३२] निवर्तत इति ॥ २५ ॥
             मथ विशेषदर्शिनः कीदृशं चितमित्यत आह-तदा विवेकनिम्न कैवल्यप्राग्भारं
           चित्तम् । निगदव्याख्यातम् ॥ २६॥
                स्यादेतद्विशेषदर्शनं चेद्विवेकनिष्ठं, न जातु चित्तं व्युस्थितं स्यात् । दृश्यते चास्य
           भिक्षामठतो व्युत्थितमित्यत आह-तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः ।
           प्रत्ययेति । प्रतीयते येन से प्रत्ययश्चित्तसत्वं तस्माद्विवेकश्चितः । तेन निम्नस्य जाना-
           मीति साक्षा[१३३] मोक्षो विविच्य दैर्शितो. न जानामीति मोहस्तन्मूलावहंकारममकारावह-
           मस्मीति वा ममेति वा द[१३४]र्शितौ । क्षीयमाणानि च तानि बीजानि चेति समासः ।
           पूर्वसंस्कारेभ्यो व्युत्थानसंस्कारेभ्यः ॥ २७॥
                स्यादेतत्सत्यपि विवेकविज्ञाने व्युत्यानसंस्कारा यदि पत्ययान्तराणि , प्रमुवते
           कस्तहि हानहेतुरेतेषां यतः प्रत्ययान्तराणि म पुनः प्रसुवीरनियत आह-हानभेषां
           क्लेशवदुक्तम् । अपरिपकविवेकज्ञानस्याक्षीयमाणा व्युत्थानसंस्काराः प्रत्ययान्तरं प्रसु.

२०२ ... वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि- [५ कैवल्यपाद- यथा क्लेशा दग्धबीजभावां न प्ररोहसमर्था भवन्ति तथा ज्ञानाग्निना दग्धबीजभावः पूर्वसंस्कारो न प्रत्ययप्रसर्भवति । ज्ञानसंस्कारास्तु चित्ताधिकारसमाप्तिमनुशेरत इति न चिन्त्यन्ते ॥ २८ ॥ प्रसंख्यानेऽपकुसीदस्य सर्वथा विवे. कख्यातेधर्ममेघः समाधिः ॥ २९ ॥ यदाऽयं ब्राह्मणः प्रसंख्यानेऽप्यकुसीदस्ततोऽपि न किंचित्प्रार्थयते । तत्रापि विरक्तस्य सर्वथा विवेकख्यातिरेव भवतीति संस्कारबीजक्षयान्नास्य प्रत्ययान्तराण्युत्पद्यन्ते । तदाऽस्य धर्म- मेघो नाम समाधिर्भवति ॥ २९॥ ततः क्लेशकर्मनिवृत्तिः ॥ ३० ॥ : तल्लाभादविद्यादयः क्लेशाः समूलकाषं कषिता भवन्ति । कुशलाकुशलाश्च कर्माशयाः समूलघातं हता भवन्ति । क्लेशकर्मनिवृत्तौ वते न तु परिपक्वविवेकज्ञानस्य क्षीणाः प्रत्ययान्तराणि प्रसोतुमर्हन्ति । यथा विवेकाच्छिद्रसमुत्पन्ना अपि क्लेशा न संस्कारान्तरं प्रसुवते तत्कस्य हेतोस्तदेते क्लेशा विवेकज्ञानवह्निदग्धबीजभावा इति । एवं व्युत्थानसंस्कारा अपीति । अथ व्युत्थानसंस्कारा विवेकज्ञानसंस्कारैर्निरोद्धव्या विवेकसंस्काराश्च निरोधसंस्कारैनिधिसंस्काराणां त्वबाह्यविषयत्वं दर्शितं निरोधोपायः प्रायश्चिन्तनीय इत्यत आह-ज्ञानसंस्कारास्त्विति । परवैराग्यसंस्कारा इत्यर्थः ॥ २८ ॥ तदेवं सूत्रकारो व्युत्थाननिरोधोपायं प्रसंख्यानमुक्त्वा प्रसंख्याननिरोधोपायमाह- प्रसंख्यानेऽप्यकुसीदस्य सर्वथा विवेकख्यातेर्धर्ममेघः समाधिः । ततः प्रसंख्यानान्न किंञ्चित्सर्वभावाधिष्ठतृत्वादि प्रार्थयते । प्रत्युत तत्रापि क्लिश्नाति परिणामित्वदोषदर्शनेन विरक्तः सर्वथा विवेकख्यातिरेव भवति । एतदेव विवृणोति-तत्रापीति । यदा व्युत्थानप्रत्यया भवेयुस्तदा नायं ब्राह्मणः सर्वथा विवेकख्यातियतस्तस्य न प्रत्ययान्तराणि भवन्ति ततः सर्वथा विवेकख्यातिरिति । तदाऽस्य धर्ममेधः समाधिर्भवति । एतदुक्तं भवति- प्रसंख्यांने विरक्तस्तन्निरोधमिच्छन्धर्ममेधं समाधिमुपासीत । तदुपासने च सर्वथा विवेकख्यातिर्भवति । तथा च तं निरोद्धुं पारयतीति ॥ २२ ॥ तस्य च प्रयोजनमाह---ततः क्लेशकर्मनिवृत्तिः । कस्मात्पुनर्जीवन्नेव विद्वा-

१ क. ख. च. चिन्त्यते । २ ख. °व मु° । ज, झ. व विमु' ।

जीवन्नेव विद्वान्विमुक्तो भवति । कस्मात्, यस्माद्विपर्ययो भवस्य कारणम् । न हि क्षीणविपर्ययः[१३५] कश्चित्केनचित्कचिज्जातो दृश्यत इति ॥ ३०॥

तदा सर्दावरणमलापेतस्य ज्ञान- स्याऽऽनन्त्याज्ज्ञेयमल्पम् ॥ ३१॥

सर्वैः क्लेशकर्मावरणैर्विमुक्तस्य ज्ञानस्याऽऽनन्त्यं भवति । आवरकेण तमसाऽभिभूतमादृतमनन्तं ज्ञानसत्त्वं क्वचिदेव रजसा प्रवर्तितमुद्घाटितं ग्रहणसमर्थ भवति । तत्र यदा सर्वैरावरणमलै- रपगतं[१३६] भवति तदा भवत्यस्याऽऽनन्त्यम् । झानस्याऽऽनन्त्या- ज्ज्ञेयमल्पं संपद्यते । यथाऽऽकाशे खद्योतः । यत्रेदमुक्तम्-

विमुक्तो भवति । उत्तरं यस्मादिति ।[१३७] केशकर्मवासनेद्धः किल कर्माशयो जात्या- दिनिदानम् । न चासति निदाने निदानी भवितुमर्हति । यथाऽऽहात्र भगवानक्षपादः- वीतरागजन्मादर्शनात् । [गौ० सू०३ । १ । २५] इति ॥ ३०॥

 अथैवं धर्ममेधे सति कीदृशं चित्तमित्यत आह- तदा सर्वावरणमलापेतस्य ज्ञानस्याऽऽनन्त्याज्ञयमल्पम् । आव्रियते चित्तसत्त्वमेभिरित्यावरणानि मला: क्लेश- कर्माणि सर्वे च त आवरणमलाश्चेति सर्वावरणमलास्तेभ्योऽपेतस्य चित्तसत्त्वस्य ज्ञानस्य ज्ञायतेऽनेनेत्यनया व्युत्पत्त्याऽऽनन्त्यादपरिमेयत्वाज्ज्ञेयमल्पम् । यथा हि शरदि धनपटलमु. कस्य चण्डार्चिषः परितः प्रद्योतमानस्य प्रकाशानन्त्यात्प्रकाश्या घटादयोऽस्माः प्रकाशन्ते, एवमपगतरजस्तमसश्चित्तसत्त्वस्य प्रकाशानन्त्यादयं प्रकाश्यामिति । तदेतदाह-सर्वेरिति । एतदेव व्यतिरेकमुखेन (ण) स्फोरयति--आवरकेण तमसाऽभिभूतमिति । क्रियाशी- लेन रजसा प्रवर्तितमत एवोद्घाटितं प्रदेशादपनीतं तम इत्यर्थः । अत एव सर्वान्धर्मा- झेयान्मेहति. वर्षति प्रकाशनेनेति धर्ममेध इत्युच्यते । नन्वयमस्तु धर्ममेधः समाधिः सवा- सनक्लेशकर्माशयप्रशमहेतुः । अथ सत्यप्यस्मिन्कस्मान्न जायते पुनर्जन्तुरित्यत आह-यत्रे- दमुक्तमिति । कारणसमच्छेदादपि चेत्कार्य क्रियते हन्त भो मणिवेधादयोऽन्धादिभ्यो भवेयुः प्रत्यक्षाः । तथा चानुपपनार्थतायामामाणको लौकिक उपपन्नार्थः स्यात्--अवि२०४५ वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि- . कैवल्यपादे- " अन्धो मणिमविध्यत्तमनङ्गुलिरावयत् । अग्रीवस्तं प्रत्यमुञ्चत्तमजिह्वोऽभ्यपूजयत्" इति ॥ ३१ ॥ ततः कृतार्थानां परिणामक- मसमाप्तिर्गुणानाम् ।। ३२॥ तस्य धर्ममेघस्योदयात्कृतार्थानां गुणानां परिणामक्रमः परिसमाप्यते । न हि कृतभोगापवर्गाः परिसमाप्तक्रमाः क्षणम्प्यवस्थातुमुत्सहन्ते ॥ ३२ ॥ अथ कोऽयं क्रमो नायेति- क्षणप्रतियोगी परिणामापरान्त- निर्ग्राह्यः क्रमः ॥ ३३ ॥ क्षणानन्तर्यात्मा परिणामस्यापरान्तेनावसानेन गृह्यते क्रमः। न छन- ध्यदन्धो मणिमिति । आवयद्ग्रथितवान् । प्रत्यमुञ्चपिनद्धवानभ्यपूजयस्तुतवानिति ॥३१॥ ननु धर्ममेघस्य परा काष्ठा ज्ञानप्रसादमात्रं परं वैराग्यं समूलघातमपहन्तु व्युत्थानसमाघिसंस्कारान्सक्लेशकर्माशयान्गुणास्तु स्वत एव विकारकरणशीला: कस्मात्तादृशमपि पुरुषं प्रति देहेन्द्रियादीनाऽऽरभन्त इत्यत आह-ततः कृतार्थानां परिणामक्रमसमाप्तिर्गुणानाम् । शीलमिदं गुणानां यदमी यं प्रति कृतार्थास्तं प्रति न प्रवर्तन्त इति भावः ॥ ३२॥ अत्रान्तरे परिणामक्रमं पृच्छति-अथ कोऽयमिति । क्षणप्रतियोगी परिणामापरान्तनिर्ग्राह्यः क्रमः । परिणामक्रमः क्षणप्रतियोगी क्षणः प्रतिसबन्धी यस्य स तथोक्तः। क्षणप्रचयाश्रय इत्यर्थः । न जातु क्रमः क्रमवन्तमन्तरेण शक्यो निरूपयितुम् । न चैकस्यैव क्षणस्य क्रमः । तस्मात्क्षणप्रचयाश्रयः परिशिष्यते । तदिदमाह-क्षणानन्तर्येति । परिणामक्रमे प्रमाणमाह--परिणामस्येति । नवस्य हि वस्त्रस्य प्रयत्नसंरक्षितस्यापि चिरेण पुराणता दृश्यते । सोऽयं परिणामस्यापरान्तः पर्यवसानं, तेन हि परिणामस्य क्रमः । ततः प्रागपि पुराणतायाः सूक्ष्मसूक्ष्मतरसूक्ष्मतमस्थूलस्थलतरस्थूलतमत्वादीनां पौर्वापर्यमनुमीयते । एतदेव व्यतिरेकमुखेन(ण) दर्शयति-न हीति । अननुभूतोऽप्राप्तः क्रमक्षणो यया सा तथोक्ता । नन्वेष क्रमः प्रधानस्य न संभवति तस्य नित्यत्वादित्यत आह- १ स. क. 'रान्छेश । २ क. 'क्रमक' १. ३ स. अ. °चय आश्र । . . . ३३] पातञ्जलयोगसूत्राणि । २ मुभूतक्रमक्षणा पुराणता वस्त्रस्यान्ते भवति । नित्येषु च क्रमो दृष्टः । द्वयी चेयं नित्यता कूटस्थनित्यता परिणामिनित्यता च । तत्र कूटस्थानित्यता पुरुषस्य । परिणामिनित्यता गुणानाम् । यस्मिन्परिणम्यमाने तत्त्वं न विहन्यते तन्नित्यम् । उभयस्य च तत्त्वानाभघातान्नित्यत्वम् । तत्र गुणधर्मेषु बुद्ध्यादिषु परिणामापरान्तनिर्ग्राह्यः क्रमो लब्धपर्यवसानो नित्येषु धर्मिषु गुणेष्वलब्धपर्यवसानः । कूटस्थनित्येषु स्वरूपमात्रप्रतिष्ठेषु मुक्तपुरुषेषु स्वरूपास्तिता क्रमेणैवानुभूयत इति तत्राप्यलब्धपर्यवसानः शब्दपृष्ठेनास्तिक्रियामुपादाय कल्पित इति । अथास्य संसारस्य स्थित्या गत्या च गुणेषु वर्तमानस्यास्ति नित्येषु चेति । बहुवचनेन सर्वनित्यव्यापितां क्रमस्य प्रतिजानीते । तत्र नित्यानां प्रकारभेदं दर्शयित्वा नित्यव्यापितां क्रमस्योपपादयति-द्वयीति । ननु कूटस्थं स्वभावादपच्युतमस्तु नित्यं परिणामि सदैव स्वरूपाच्च्यवमानं कथं नित्यमित्यत आह-- यस्मिन्निति । धर्मलक्षणावस्थानामुदयव्ययधर्मत्वं धर्मिणस्तु तत्त्वादविघात एवेति । अथ किं परिणामापरान्तनिर्ग्राह्यता सर्वत्र क्रमस्य नेत्याह-तत्र गुणधर्मेषु बुद्धयादिष्विति । यतो लब्धपर्यवसाना धर्माणां विनाशाप्रधानस्य तु परिणामक्रमो न लब्धपर्यवसानः । ननु प्रधानस्य धर्मरूपेण परिणामादस्तु परिणामक्रमः । पुरुषस्य त्वपरिणामिनः कुतः परिणामक्रम इत्यत भाह --- कूटस्थेति । तत्र बद्धानां चित्ताव्यतिरेकाभिमानात्तत्परिणामेन परिणामाभ्यासः । मुक्तानां चास्तिक्रियामुपादायावास्तवोऽपि परिणामो मोहकल्पितः शब्दस्य पुरःसरतया तापृष्ठो विकल्पोऽस्तिक्रियामुपादत्त इति । गुणेष्वलब्धपर्यवसानः परिणामक्रम इत्युक्तम् । तदसहमानः पृच्छति-अथेति । स्थित्येति महाप्रलयावस्थायाम् | गत्येति सृष्टौ । एतदुक्तं भवति-यद्यानन्त्यान्न परिणामसमाप्तिः संसारस्य हन्त भोः कथं महाप्रलयसमये सर्वेषामात्मनां सहसा समुच्छिद्येत कथं च सृष्टयादौ सहसोत्पद्येत संसारः । तस्मादेकैकस्याऽऽत्मनो मुक्तिक्रमेण सर्वेषां विमोक्षादुच्छेदः सर्वेषां संसारस्य क्रमेणेति प्रधानपरिणामक्रमपरिसमाप्तिः । एवं च प्रधा. १. ख. मानवपु 11. 'णा नवस्य पु । २ ख. प. क. णामनि । ३ . प. क. 'णामनि । ५ क. च. °णममा ११क. 'त्यं याद । ६ क.झ, 'पक | ७. मानं । ८ स्ख, ज. झ. यथाऽन।

क्रमसमाप्तिर्न वेति । अवचनीयमेतत् । कथम् । अस्ति प्रश्न
एकान्तवचनीयः सर्वो जातो मरिष्यतीति । ॐ भो इति ।
 
अथ सर्वो मृत्वा जनिष्यत इति । विभज्यवचनीयमेतत् ।
प्रत्युदितख्यातिः क्षीणतृष्णः कुशलो न जनिष्यत इतरस्तु जनि:
प्यते । तथा मनुष्यजातिः श्रेयसी न वा श्रेयसीत्येवं परिपष्टे
विभम्ज्य वचनीयः प्रश्नः पशूनधिकृत्य श्रेयसी देवानृषीश्चाधि-
कृत्य नेति । अयं स्ववचनीयः प्रश्नः संसारोऽयमन्तवानथानन्त
इति । कुशलस्यास्ति संसारक्रमेसमाप्तिर्नेतरस्येति[१३८] अन्यतरावधा-
रणे दोषः । तस्माद्वयाकऱाणीय एवायं प्रश्न इति ॥ ३३ ॥

नस्याप्यनित्यत्वप्रसङ्गः । न चापूर्वसत्त्वप्रादुर्भाव इष्यते येनाऽऽनन्त्यं स्यात् । तथा सत्य. नादित्वव्याहतेः सकलशास्त्रार्थभङ्गप्रसङ्ग इति भावः । उत्तरमाह- अवचनीयमनुत्तराई. मेतत् । एकान्तत ऐतस्यावचनीयतां[१३९] दर्शयितुमेकान्तवचनीयं प्रश्नं दर्शयति-अस्ति प्रश्न- इति । सर्वो जातो मरिष्यतीतिप्रश्नोत्तरम्-ॐ भो इति । सत्यं भो इत्यर्थः ।   अविभज्य वचनीयमुक्त्वा पविभज्यवचनीयं प्रश्नमाह-अथ सर्व इति। विभज्य वचनीयतामाह-विभज्येति । विभज्य वचनीयमेव प्रश्नान्तरं विस्पष्टार्थमाह-तथा मनुष्येति । अयं त्ववचनीय एकान्ततः । न हि सामान्येन कुशलाकुशलपुरुषसंसारस्या- न्तवत्त्वमनन्तवत्त्वं वा शक्यमेकान्ततो वक्तुम् । यथा प्राणभ्रुन्मात्रस्य श्रेयस्त्वमश्रेयस्त्वं वा नैकान्ततः शक्यमवधारयितुम् । यथा जातमात्रस्य मरणमेकान्ततः। विभज्य पुनः शक्या- वधारणमित्याह-कुशलस्येति । अयमभिसंधिः-क्रमेण मोक्षे सर्वेषां मोक्षासंसारो- च्छेद इत्यनुमानं, तचाऽऽगमसिद्धमोक्षाश्रयं, तथा चाभ्युपगतमोक्षप्रतिपादकागमप्रमाण- भावः[१४०] कथं तमेवाऽऽगमं[१४१] प्रधानविकारनित्यतायामप्रमाणी कुर्यात् । तस्मादागमबाधितवि- षयमेतदनुमानं न प्रमाणम् । श्रूयते हि श्रुतिस्मृतीतिहासपुराणेषु सर्गप्रतिसर्गपरम्पराया अनादित्वमनन्तत्वं चेति । अपि च सर्वेषामेवाऽश्मनां संसारस्य न तावद्युगपदुच्छेदः संभवी । न हि पण्डितरूपाणामप्यनेकजन्मपरम्पराभ्यासपरिश्रमसाध्या विवेकख्यातिप्रतिष्ठा । किं पुनः प्राणभ्रुन्मात्रस्य स्थावरजङ्गमादेरेकदाऽकस्माद्भवितुमर्हति । न च कारणायोगपद्ये कार्ययोगपंद्यं युज्यते । क्रमेण तु विवेकख्यातावसंख्येयानां क्रमेण मुक्तौ न संसारोच्छेदोऽ- नन्तत्वाजन्तूनामसंख्येयत्वादिति सर्वमवदातम् ॥ ३३ ॥ २०७ सू० ३४] पातञ्जलयोगसूत्राणि । गुणाधिकारक्रमसमाप्तौ कैवल्यमुक्तं तत्स्वरूपमवधार्यते- पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिरिति ॥ ३४ ॥ . (इति श्रीपतञ्जलिविरचितयोगसूत्रेषु चतुर्थः कैवल्य पादः ॥ ४ ॥) कृतभोगापवर्गाणां पुरुषार्थशून्यानां यः प्रतिप्रसवः कार्यकारणात्मकानां गुणानां तत्कैवल्यं, स्वरूपप्रतिष्ठा पुनर्बुद्धिसत्त्वानभिसंबन्धात्पुरुषस्य चितिशक्तिरेव केवला, तस्याः सदा तथैवावस्थानं कैवल्यमिति ॥ ३४ ॥ इति श्रीपातञ्जले सांख्यप्रवचने योगशास्त्रे व्यास- भाष्ये कैवल्यपादश्चतुर्थः ॥४॥ कैवल्यरूपावधारणपरस्य सूत्रस्यावान्तरसंगतिमाह ---गुणाधिकारेति । पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिरिति । कृतकरणीयतया पुरुषार्थशून्यानां यः प्रतिप्रसवः स्वकारणे प्रधाने लयस्तेषां कार्यकारणात्मैकानां गुणानां व्युत्थानसमाधिनिरोधसंस्कारा मर्नेसि लीयन्ते मनोऽस्मितायामस्मिता लिङ्गे लिङ्गमलिङ्ग इति । योऽयं गुणानां कार्यकारणात्मकानां प्रतिसर्गस्तत्कैवल्यम् । यं कंचित्पुरुषं प्रति प्रधानस्य मोक्षः स्वरूपप्रतिष्ठा वा पुरुषस्य॑ मोक्ष इत्याह—स्वरूपेति । अस्ति हि महाप्रलयेऽपि स्वरूपप्रतिष्ठा चितिशक्तिः । न चासौ मोक्ष इत्यत आह- पुनरिति । सौत्र इतिशब्दः शास्त्रपरिसमाप्तौ ॥ ३४ ॥ मुक्त्यर्ह चित्तं परलोकमेयज्ञसिद्धये धर्मधनः समाधिः । द्वयी च मुक्तिः प्रतिपादिताऽस्मिन्पादे प्रसङ्गादपि चान्यदुक्तम् ॥ १॥ निदानं तापानामुदितमथ तापाश्च कथिताः सहाङ्गैरष्टाभिर्विहितमिह योगद्वयमपि ॥ कृतो मुक्तेरध्वा गुणपुरुषभेदः स्फुटतरो विविक्तं कैवल्यं परिगलिततापा चितिरसौ ॥ २॥ ' इति श्रीवाचस्पतिमिश्रविरचितायां पातञ्जलभाष्यव्याख्यायां कैवल्यपादश्चतुर्थः ॥ ४॥ समाप्तमिदं पातञ्जलयोगदर्शनं सटीकभाष्ययुतम् ।। क. ख. च. ज. °मपरिस १२ ग.घ. ङ. च. ज. त्मना ! ३ क. ख. झ. त्मना। ४ क. सि प्रली ! ५ स. स. 'ठा पु। ६ व. स. "स्य वा मो १७ ख. स. द्धयो ध। - me- - समाप्तानि वाचस्पतिमिश्रविरचितटीकासमेतश्रीव्यासभाष्यसमेतानि पातञ्जलयोगसूत्राणि ॥ ॐ तत्सब्रह्मणे नमः। भोजदेवकृतवृत्तिसमेतानि पातञ्जलयोगसूत्राणि । (तत्र प्रथमः समाधिपादः।) x देहार्धयोगः शिवयोः स श्रेयांसि तनोतु वः । दुष्प्रापमपि यत्स्मृत्या जनः कैवल्यमश्नुते ॥ १ ॥ त्रिविधान्यपि दुःखानि यदनुस्मरणान्नृणाम् । प्रयान्ति सद्यो विलयं तं स्तुमः शिवमव्ययम् ॥ २ ॥ पतञ्जलिमुनेरुक्तिः काऽप्यपूर्वा जयत्यसौ । पुंग्र(स्प्र) कृत्योर्वियोगोऽपि योग इत्युदितो यया ॥ ३ ॥ जयन्ति वाचः फणभर्तुरान्तर- स्फुरत्तमस्तोमनिशाकरत्विषः । विभाव्यमानाः सततं मनांसि वा सतां सदाऽऽनन्दमयानि कुर्वते ॥ ४ ॥ शब्दानामनुशासनं विदधता पातञ्जले कुर्वता ___ वृत्तिं राजमृगाङ्कसंज्ञकमपि व्यातन्वता वैद्यके । वाक्वेतोवपुषां मलः फणिभृतां भर्त्रैव येनोद्धत. स्तस्य श्रीरणरङ्गमल्लनृपतेर्वाचो जयन्त्युज्ज्वला: ॥ ५ ॥ दुर्बोधं यदतीव तद्विजहति स्पष्टार्थमित्युक्तिभिः स्पष्टार्थेष्वपि विस्तृतिं विदधति व्यर्थैः समासादिकैः । अस्थानेऽनुपयोगिभिश्च बहुभिर्जल्पैर्भ्रमं तन्वते श्रोतृणामिति वस्तुविप्लवकृतः सर्वेऽपि टीकाकृतः ॥ ६॥ उत्सृज्य विस्तरमुदस्य विकल्पजालं ___ फल्गुप्रकाशमवधार्य च सम्यगर्थान् । सन्तः पतञ्जलिमते विवृतिर्मयेय- मातन्यते बुधजनप्रतिबोधहेतुः ॥ ७ ॥ x इत आरभ्य सफद्वयं नास्ति ग्ठ, पुस्तके । १ क. यथा । २ क. सि स । ३ क. भर्ने । ४ क. तद्धि ज'। ५ क. मत्यु । ६ क. ग. °ध्वतिवि' । '७ ख. उन्मूलय । ८ ख. कारन' ! ग. कामप' । १ग, अन्तः ।

१० ख. तिपतिहे।

२.  . भोजदेवविरचितवृत्तिसमेतानि- [समा०पा - १सू० १-२ ]

अथ योगानुशासनम् ॥ १॥

अनेन सूत्रेण शास्त्रस्य संबन्धाभिधेय प्रयोजनान्याख्यायन्ते । अथशब्दोऽधिकारद्योतको मङ्गलार्थकश्च । योगो युक्तिः समाधानम् । 'युज समाधौ' । अनुशिष्यते व्याख्यायते लक्षणभेदोपायफलर्येन तदनुशासनम् । योगस्यानुशासनं योगानुशासनम् । तदा शास्त्रपरिसमाप्तेरधिकृतं बोद्धव्यमित्यर्थः । तत्र शास्त्रस्य व्युत्पाद्यतया योगः ससाधनः सफलोऽभिधेयः । तव्युत्पादनं च फलम् । व्युत्पादितस्य योगस्य कैवल्यं फलम् । शास्त्राभिधेययोः प्रतिपाद्यप्रतिपादकर्मोवलक्षणः संबन्धः । अभिधेयस्य योगस्य तत्फलस्य च कैवल्यस्य साध्यसाधनभावः । एतदुक्तं भवति - व्युत्पाद्यस्य योगस्य साधनानि शास्त्रेण प्रदर्श्यन्ते,. तत्साधनसिद्धो योगः कैवल्याख्यं फलमुत्पादयति ॥ १ ॥  तत्र को योग इत्यत आह---

योगश्चित्तवृत्तिनिरोधः ॥२॥

चित्तस्य निर्मलसत्त्वपरिणामरूपस्य या वृत्तयोऽङ्गाङ्गिभावपरिणामरूपास्तासां निरोधो बहिर्मुखेपरिणतिविच्छेदादन्तर्मुखतया प्रतिलोमपरिणामेन स्वकारणे लयो योग इत्या- ख्यायते । स च निरोधः सर्वांसां चित्तभूमीनां सर्वप्राणिनां धर्मः कदाचित्कस्यांचिद्भूमावाविर्भवति । ताश्च क्षिप्तं मूढं विक्षिप्तमेकाग्रं निरुद्धमिति चित्तस्य भूमयः, चित्तस्यावरणाविशेषाः । तत्र क्षिप्तं रजस उद्रेकादस्थिरं , बहिर्मुखतया सुखदुःखादिविषयेषु विकल्पितेषु व्यवहितेषु संनिहितेषु वा रजसा प्रेरितम् । तच्च सदैव दैत्यदानवादीनाम् । मूढं तमस उद्रेकात्कृत्याकृत्यविभागमगणयत्क्रोधादिभिर्विरुद्वकृत्येष्वेव नियमितम् । तच्च सदैव रक्षःपिशाचादीनाम् । विक्षिप्तं तु सत्त्वोद्रकाद्वैशिष्टयेन परिहृय दुःखसाधनं सुखसाधनेष्वेव शब्दादिषु प्रवृत्तम् । तच्च सदैव देवानाम् । एतदुक्तं भवति-रजसा प्रवृत्तिरूपं, तमसा परापकारनिरतं, सत्त्वेन सुखमयं चित्तं भवति । एतास्तिस्रश्चित्तावस्थाः समाधावनुपयोगिन्यः । एकाग्रनिरुद्धरूपे द्वे च सत्त्वोत्कर्षाद्यथोत्तरमवस्थितत्वात्समाधावुपयोगं भजेते । सत्त्वादिक्रमव्युत्क्रमे त्वयमभिप्राय:---द्वयोरपि रजस्तमसोरत्यन्तहेयत्वेऽप्येतदर्थं रजसः प्रथममुपादानं, यावन्न प्रवृत्तिर्दर्शिता तावन्निवृत्तिर्न शक्यते दर्शयितुमिति द्वयोर्व्यत्ययेन प्रदर्शनम् । सत्त्वस्य त्वेतदर्थं पश्चात्प्रदर्शनं यत्तस्योत्कर्षेणोत्तरे द्वे भूमी योगोप-

ख. नानि व्याख्या' । ख. श्च य योगः स ! ग °श्व , युक्कियो । यु' । गं. 'धो समाधानम् । । ख. कृतमि । क. भावः सं°१६ क. °स्य च त°। क. कैवल्येन । ख. प्रदृश्यन्ते । क. इत्याह । १. ख. पास्त भरो । ११ क. °खन या प।१२ क. चिबुद्धिभूमा । १३ क. भन्तरेण कोधा । १४ ख. हनदुः १५ . देवता ताम् ।१६ क. नियतं । १७ ख. यत्नस्यो । { समा०पा०१सू०३-७] पातञ्जलयोगसूत्राणि । योगिन्याविति । अनयोर्द्वयोरेकाग्रनिरुद्धयोर्भूम्येर्यश्चित्तस्यैकाग्रतारूपः परिणामः स योग इत्युक्तं भवति । एकाग्रे बहिर्वृत्तिनिरोधः । निरुद्धे च सर्वासां वृत्तीनां संस्काराणां च प्रविलय इत्यनयोरेव भूम्योर्योगस्य संभवः ॥ २ ॥ इदानी सूत्रकारश्चित्तवृत्तिनिरोधपदानि व्याख्यातुकामः प्रथमं चित्तपदं व्याचष्टे--- तदा द्रष्टुः स्वरूपेऽवस्थानम् ॥३॥ द्रष्टुः पुरुषस्य तस्मिन्काले स्वरूपे चिन्मात्ररूपतायामवस्थानं स्थितिर्भवति । अयमर्थः- उत्पन्नविवेकख्यातेश्चित्संक्रमभावात्कर्तृत्वाभिमान निवृत्तौ पोन्मुक्तपरिणामायां बुद्धावात्मनः स्वरूपणावस्थानं स्थितिर्भवति ॥ ३ ॥ व्युत्थानदशायां तु तस्य किं रूपमित्या (त्यत आ) ह वृत्तिसारूप्यमितरत्र ॥ ४ ॥ इतरत्र योगादन्यस्मिन्काले वृत्तयो या वक्ष्यमाणलक्षणास्ताभिः सारूप्यं तद्रूपत्वम् । अयमर्थः-~यादृश्यो वृत्तयः सुखदुःखमोहात्मिकाः प्रादुर्भवन्ति तादृग्रूप एव संवेद्यते व्यवहर्तृभिः पुरुषः । तदेवं यस्मिन्नेकाग्रतया परिणते विविक्तः स्वस्मिन्रूपे प्रतिष्ठितो भवति । यस्मिंश्चेन्द्रियवृत्तिद्वारेण विषयाकारेण परिणते पुरुषस्तैदाकार इव परिभाव्यते, यथा जलतरङ्गेषु चलत्सु चन्द्रश्चलन्निव प्रतिभासते तच्चित्तम् ॥ ४ ॥ वृत्तिपदं व्याख्यातुमाह- वृत्तयः एश्वतय्यः क्लिष्टाक्लिष्टाः ॥ ५॥ वृत्तयश्चित्तस्य परिणामविशेषाः । वृत्तिसमुदायरूपस्यावयविनो या अवयरूपा वृत्तप- स्तदपेक्षया तयप्प्रत्ययः । एतदुक्तं भवति–पञ्च वृत्तयः । कीदृश्यः, क्लिष्टा अक्लिष्टाः, क्लेशैर्वक्ष्यमाणलक्षणैराक्रान्ताः क्लिष्टाः । तद्धिपरीता अक्लिटाः ॥ ५ ॥ एती एव पञ्च वृत्तयः संक्षिप्योद्दिश्यन्ते- प्रमाणविपर्ययविकल्पनिद्रास्मृतयः ॥ ६ ॥ आसां क्रमेण लक्षणमाह- प्रत्यक्षानुमानागमाः प्रमाणानि ॥ ७ ॥ अत्रातिप्रसिद्धत्वात्प्रमाणानां शास्त्रकारेण भेदनिरूपणेनैव गतत्यालक्षणस्य न पृथ. ५ ख ग. निराधे । २ क. बता । ३ क. 'तं चित्त 1 ४ ख. 'श्चित्तसंक । ५ क. प्रोच्छन्ना । ख. मोन्मुखप। ६ क. बुद्धौ चाऽऽत्म १७ ख. 'पेन । ८ ग. कि स्वरू। ९ ख रूपं भवतीत्या । १० ख. ग. यो व। ११ क. त्तयो दुःखमोहसुखायामि । १२ क. ते चितिशक्तः स्व" । १३ क. प्रतिष्ठान । १४ ख. कारपरिणतेः पु। १५: क. °स द्रु कार एव । १६ ख. ते ॥ ४ ॥ तवृत्ति । १७ क. म. 'धा अक्लि । १८ क. 'यल ण या । १९ क. भूता वृ । २० ख. श. ता । २१ रु.. ग. 'यः मुर्दिश्य व्याख्या यन्ने । २२ क. दलक्षणे । ४ . भोजदेवविरचितवृत्तिसमेतानि- [समा०पा० १सू०८-११ ] क्तल्लक्षणं कृतम् । प्रमाणलक्षणं तु अविसंवादिज्ञानं प्रमाणमिति । इन्द्रियद्वारेण बाह्यवस्तूपरागाञ्चित्तस्य तद्विषयसामान्यविशेषात्मनोऽर्थस्य विशेषावधारणप्रधाना वृत्तिः प्रत्यक्षम् । संगृहीतसंबन्वाल्लिङ्गालिङ्गिनि सामान्यात्मनाऽध्यवसायोऽनुमानम् । आप्तवचनमागमः ॥ ७ ॥ एवं प्रमाणरूपां वृत्तिं व्याख्याय विपर्ययरूपामाह- विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् ॥ ८॥ अतथाभूतेऽर्थे तथोत्पद्यमानं ज्ञानं विपर्ययः । यथा शुक्तिकायां रजतज्ञानम् । अतद्रुपप्रतिष्ठमिति । तस्यार्थस्य यद्रुपं तस्मिन्रूपे न प्रतितिष्ठति तस्यार्थस्य यत्पारमार्थिकं रूपं न तत्प्रतिभासयतीति यावत् । संशयोऽप्यतद्रूपप्रतिष्ठत्वान्मिथ्याज्ञानम् । यथा स्थाणुर्वा पुरुषो वेति ॥ ८॥ विकल्पवृत्तिं व्याख्यातुमाह- शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ॥ ९ ॥ शब्दजनितं ज्ञानं शब्दज्ञानं, तदनु पतितुं शीलं यस्य स शब्दज्ञानानुपाती । वस्तुनस्तथावमनपेक्षमाणो योऽध्यवसायः स विकल्प इत्युच्यते । यथा पुरुषस्य चैतन्यं स्वरूपमिति । अत्र देवदत्तस्य कम्बल इति शब्दजनिते ज्ञाने पष्ठया योऽध्यवसितो भेदस्तमिहाविद्यमानमपि समारोप्याध्यवसायः । वस्तुतस्तु चैतन्यमेव पुरुषः ॥ ९ ॥ निद्रां व्याख्यातुमाह- अभावप्रत्ययालम्बना वृत्तिर्निद्रा ।। १० ॥ __ अभावप्रत्यय आलम्बनं यस्या वृत्तेः सा तथोक्ता । एतदुक्तं भवति-यो संततमुदिक्त- त्वात्तमसः समस्तविषयपरित्यागेन प्रवर्तते वृत्तिः सा निद्रा । अस्याश्च सुखमहमस्वाप्समितिस्मृतिदर्शनात्स्मृतेश्च,नुभवव्यतिरेकेणानुपपत्तेर्वृत्तित्वम् ॥ १० ॥ स्मृति व्याख्यातुमाह- अनुभूतविषयासंप्रमोषः स्मृतिः ॥ ११ ॥ प्रमाणेनानुभूतस्य विषयस्य योऽयमसंप्रमोषः संस्कारद्वारेण बुद्धावुपारोहः सा स्मृतिः। तत्र प्रमाणविपर्ययविकल्पा जाग्रदवस्था । त एवं तानुभवबलात्प्रक्षीयमाणाः स्वप्नः । निद्रा तु असंविद्यमानविषया । स्मृतिश्च प्रमाणविपर्ययविकल्पनिद्रानिमित्ता ॥ ११ ॥ क. र प्य पवर्ततेऽध्य । २ ख. ग त्यन्तमु । ३ क. 'दावारो । ४ ग. स । ५ ख. ग °व यदाऽनु' । ६ ग. 'त्यत्मक्षाय । ७ ख. ग. 'णाः स स्व । समा०पा० १सू०१२--१६] पातञ्जलयोगसूत्राणि । एवं वृत्तीव्याख्याय सोण्यं निरोधं व्याख्यातुमाह- अभ्यासवैराग्याभ्यां तन्निरोधः ॥ १२ ॥ अभ्यासवैराग्ये वक्ष्यमाणलक्षणे, ताभ्यां प्रकाशप्रवृत्तिनियमरूपा या वृत्तयस्तासां • निरोधो भवतीत्युक्तं भवति । तासां विनिवृत्तबाह्याभिनिवेशानामन्तर्मुखतया स्वकारणा एव चित्ते शक्तिरूपतयाऽवस्थानम् । तत्र विषयदोषदर्शनजेन वैराग्येण तद्वैमुख्यमुत्पाद्यते । अभ्यासन च सुखजनकशान्तप्रवाहप्रदर्शनद्वारण दृढं स्थैर्यमुत्पाद्यते । इत्थं ताभ्यां भवति चित्तवृत्तिनिरोधः ॥ १२ ॥ अभ्यास व्याख्यातुमाह- तत्र स्थितौ यत्नोऽभ्यासः ॥ १३ ॥ वृत्तिरहितस्य चित्तस्य स्वरूपनिष्ठः परिणाम; स्थितिस्तस्यां यत्न उत्साहः पुनः पुनस्तथात्वेन चेतसि निवेशनमभ्यास इत्युच्यते ॥ १३ ॥ तस्यैव विशेषमाह- स तु दीर्घकॉलनैरन्तर्यसत्कारसेवितो दृढभूमिः ॥ १४ ॥ . बहुकालं नैरन्तयेणाऽऽदरातिशयेन च सेव्यमानो दृढभूमिः स्थिरो भवति दार्ढ्याय प्रभवतीत्यर्थः ॥ १४ ॥ वैराग्यस्य लक्षणमाह- दृष्टानुश्रविकविषयवितृष्णस्य वशी- कारसंज्ञा वैराग्यम् ॥ १५ ॥ द्विविधो हि विषयो दृष्ट आनुश्रविकश्च । दृष्ट इहैवोपलभ्यम.न: शब्दादिः । देवलोकादावानुश्रविकः । अनुश्रूयते गुरुमुखादित्यनुश्रवो वेदस्तंत आगत आनुश्रविकः । तयोर्द्वयोरपि विषययोः परिणामविरसत्वदर्शनाद्विगतगर्थस्य वशीकारसंज्ञा ममैते वश्या नाहमेतेषां वश्य इति योऽयं विमर्शस्तद्वैराग्यमित्युच्यते ॥ १५ ।। तस्यैव विशेषमाह- तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम् ॥ १६ ॥ तद्वैराग्यं पर प्रकृष्टं प्रथमं वैराग्यं विषयविषयं द्वितीयं गुणविषयमुत्पन्न गुणपुरुषविवेकख्यातेरेव भवति, निरोधसमाधेरत्यंन्तानुकुलत्वात् ।। १६ ।। १ ख. ग. पाणां चि नवृतीनां यत् तिहननं स निरोधः । किमुक्तं । २ क. न शा। ३ ग. इ-या । ४ क. 'स्तत्त्वेन । ५ क. कालादरनै । ६ क. °न्तर्शदरातिशयो 1 ७ क. 'स्तत्समधिग ! ८ ख, "ततर्षस्य । ९ क. म. 'ग्यमुच्य । ६ . भोजदेवविरचितवृत्तिसमेतानि- समा०पा०१सू०१७-१८) एवं योगस्य स्वरूपमुक्त्वा संप्रज्ञातरूपं भेदमाह -- वितर्कविचारानन्दास्मितारू- पानुगमात्संप्रज्ञातः ॥ १७॥ समाधिरिति शेषः । सम्यक्संशयविपर्ययरहितत्वेन प्रज्ञायते प्रकर्षेण ज्ञायते भाव्यस्य स्वरूपं येन स संप्रज्ञातः, समाधिर्भावनाविशेषः । स वितर्कादिभेदाच्चतुर्विधः-सवितर्कः सविचारः सानन्दः सास्मितश्च । भावना भाव्यस्य विषयान्तरपरिहारेण चेतसि पुनः पुनर्निवेशनम् । भाव्यं च द्विविधम्---ईश्वरस्तत्त्वानि च । तान्यपि द्विविधानि जडाजडभेदात् । जडानि चतुर्विंशतिः । अजडः पुरुषः । तत्र यदा महाभूतेन्द्रियाणि स्थूलानि विषयत्वेनाऽऽदाय पूर्वापरानुसंधानेन शब्दार्थोल्लेखसंभेदेन च भावना क्रियते तदा सवितर्कः समाधिः । अस्मिन्नेवाऽऽलम्बने पूर्वापरानुसंधानशब्दोल्लेखशून्यत्वेन यदा भावना प्रवर्तते तदा निर्वितर्कः । तन्मात्रान्तःकरणलक्षणं सूक्ष्मविषयमालम्ब्य तस्य देशकालधर्मावच्छेदेन यदा भावना प्रवर्तते तदा सविचारः । तस्मिन्नेवावलम्बने देशकालधर्मावच्छेदं विना धर्मिमात्रावभासित्वेन भावना क्रियमाणा निर्विचार इत्युच्यते । एवंपर्यन्तः समाधिर्ग्राह्यसमापत्तिरिति व्यपदिश्यते । यदा तु रजस्तमोलेशानुविद्धमन्तःकरणसत्त्वं भाव्यते तदा गुणभावञ्चितिशक्तेः सुखप्रकाशमयस्य सत्त्वस्य भाव्यमानस्योद्रेकात्सानन्दः समाधिर्भवति । अस्मिन्नेव समाधौ ये बद्धधृतयस्तत्वान्तरं प्रधानपुरुषरूपं न पश्यन्ति ते विगतदेहाहंकारत्वाद्विदेहशब्दवाच्याः । इयं ग्रहणसमापत्तिः । ततः परं रजस्तमोलेशानभिभूतं शुद्धसत्त्वमालम्बनीकृत्य या प्रवर्तते भावना तस्यां ग्राह्यस्य सत्त्वस्य न्यग्भावाचितिशक्तेरूद्रेकात्सत्तामात्रावशेषत्वेन समाधिः सास्मित इत्युच्यते। न चाहंकारास्मितयोरभेदः शङ्कनीयः । यतो यत्रान्तःकरणमहमित्युल्लेखेन विषयान्वेदयते सोऽहंकारः । यत्रान्तर्मुखतया प्रतिलोमपरिणामे प्रकृतिर्लीने चेतसि सत्तामात्रमवभाति साऽस्मिता । अस्मिन्नेव समाधौ ये कृतपरितोषाः परमात्मानं पुरुषं न पश्यन्ति तेषां चेतसि स्वकारणे लयमुपागते प्रकृतिलया इत्युच्यन्ते । ये परं पुरुषं ज्ञात्वा भावनायां प्रवर्तन्तेि तेषामियं विवेकख्यातिर्ग्रहीतृसमापत्तिरित्युच्यते । तत्र संप्रज्ञाते समाधौ चतस्रोऽव्यवस्थाः शक्तिरूपतयाऽवतिष्टन्ते । तत एकैकस्यात्याग उत्तरोत्तरत्रेति चतुरवस्थोऽयं संप्रज्ञातः समाधिः ॥ १७ ॥ असंप्रज्ञातमाह- विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः ॥ १८ ॥ विरम्यतेऽनेनेति विरामो वितर्कादिचिन्तात्यागः । विरामश्चासौ प्रत्ययश्चेति विराम- १ म. 'तानु । २ ख. °यत अात्मस्वरू। ३ ख. ग. प्रवर्तते । ४ ख. भावयति । ५ ख'

म. मेन । ६ ख. म. व सवितर्कस ! ७ क. त? 10 क. 'त्तरा इति ।

[समा०पा०१२०१९-२० ]

पातञ्जलयोगसूत्राणि।

प्रत्ययस्तस्याभ्यास: पौनःपुन्येन चेतसि निवेशनम् । तत्र या काचिद्वृत्तिरुल्लसति तस्या नेति नेतीतिनैरन्तर्येण पर्युदसनं तत्पूर्वः संप्रज्ञातसमाधिः(धि)संस्कारशेषोऽन्यस्तद्विलक्षणोऽ- संप्रज्ञात इत्यर्थः । न तत्र किंचिद्वेद्यं संप्रज्ञायत इत्यसंप्रज्ञातो निर्बीजः समाधिः । इह चतुर्विधश्चित्तस्य परिणामः-- व्युत्थानं समाधिप्रारम्भ एकाग्रता निरोधश्च । तत्र क्षिप्तमृढे चित्तभूमी व्युत्थानं, विक्षिप्ता भूमिः सत्वोद्रेकात्समाधिप्रारम्भः । एकाग्रत्वनिरुद्धते च पर्यन्तभूमी । मतिपरिणामं च संस्काराः । तत्र व्युत्थानजनिताः संस्काराः समाधिप्रारम्भः संस्कारैः प्रत्याहन्यन्ते । तज्जाश्चैकाग्रताजैः, निरोधजनितैरेकाग्रताजाः संस्काराः स्वरूपं च हन्यन्ते । यथा सुवर्णसंवलितं ध्मायमानं सीसकमात्मानं सुवर्णमलं च निर्दहति एवमे- काग्रताजनितान्संस्कारान्निरोधजाः स्वात्मानं च निर्दहन्ति ॥ १८ ॥

तदेवं योगस्य स्वरूपं भेदं संक्षेपेणोपायं चाभिधाय विस्तरेणोपायं योगाभ्या(भा)सप्रदर्शनपूर्वकं वक्तुमुपक्रमते--

भवप्रत्ययो विदेहप्रकृतिलयानाम् ।। १९ ।।

विदेहाः प्रकृतिलयाश्च वितर्कादिभूमिकासूत्रे व्याख्याताः, तेषां समाधिर्भवप्रत्ययः, भवः संसारः स एव प्रत्ययः कारणं यस्य स भवप्रत्ययः । अयमर्थः-आविर्भूत एवं संसारे ते तथाविधसमाधिभाजो भवन्ति । तेषां परतत्वादर्शनाद्योगाभासोऽयम् । अतः पर- तत्त्रज्ञाने तद्भावनायां च मुक्तिकामेन महान्यनो विधेय इत्येतदर्थमुपदिष्टम् ॥ १९ ॥ तदन्येषां तु--

श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् ॥२०॥

विदेहप्रकृतिलयव्यतिरिक्तानी योगिनां श्रद्धादिपूर्वकः श्रद्धादयः पूर्वे उपाया यस्य स श्रद्धादिपूर्वकः । ते च श्रद्धादयः क्रमादुपायेपेयभावेन प्रवर्तमानाः संप्रज्ञातसमाधेरुपायतां प्रतिपद्यन्ते । तत्र श्रद्धा योगविषये चेतसः प्रसादः । वीर्यमुत्साहः । स्मृतिरनुभूतासंप्रमोषः । समाधिरेकाग्रता । प्रज्ञा प्रज्ञातव्यविवेकः । तत्र श्रद्धावतो वीर्यं जायते योगविषय उत्साहवान्भवति । सोत्साहस्य च पाश्चात्यासु भूमिषु स्मृतिरुत्पद्यते । तत्स्मरणाञ्च चेतः समाधीयते । समाहितचित्तश्च भाव्यं सम्यग्विवेकेन जानाति । त एते संप्रज्ञातसमाधेरुपायाः । तस्याभ्यासात्पराञ्च वैराग्याद्भवल्यसंप्रज्ञातः ॥ २० ॥}}

 १ ख. हन्यते । २ क. आधिमात्रान्तर्भूता र । ३ ब. गाभ्यासो' । ४ क. ख. नां

अं'। ५ क. 'त्यानुभूतिषु । ६ ख ग. "रुपजायते।

८ . भोजदेवविरचितवृत्तिसमेतानि- समा०पा० १सू०२१-२४]

उक्तोपायवतां योगिनामुपायभेदाद्भेदानाह-

तीव्रसंवेगानामासन्नः ॥ २१ ॥ .

समाधिलाभ इति शेषः । संवेगः क्रियाहेतुदृढतरः संस्कारः । स तीव्रो येषामधिमात्रोपायानां तेषमासन्नः समाधिलाभः, समाधिफलं चाऽऽसन्नं भवति शीघ्रमेव संपद्यत इत्यर्थः ॥ २१ ॥ के ते तीव्रसंवेगा इत्यत आह ----

मृदुमध्याधिमात्रत्वात्ततोऽपि विशेषः ॥ २२॥

तेभ्य उपायेभ्यो मुद्वादिभेदभिन्नेभ्त उपायवतां विशेषो भवति । मृदुर्मध्योऽधिमात्र इत्युपायभेदाः । ते प्रत्येकं मृदुसंवेगमध्यसंवेगतीव्रसंवेगभेदास्त्रिधा । तद्भेदेन च नव योगिनो भवन्ति । मृदूपायो मृदुसंवेगो मध्यसंवेगस्तीव्रसंवेगश्च । मध्योपायो मृदुसंवेगो मध्यसंयेगस्तीव्रसंवेगश्च । अधिमात्रोपायो मृदुसंवेगो मध्यसंवेगस्तीव्र संवेगश्च । अधिमात्रोपाये तीव्रसंवेगे च महान्यत्नः कर्तव्य इति भेदोपदेशः ॥ २२ ॥ इदानीमेतदुपायविलक्षणं सुगममुपायान्तरमाह-

ईश्वरप्रणिधानाद्वा ॥ २३॥

ईश्वरो वक्ष्यमाणलक्षणः, तत्र प्रणिधानं भक्तिविशेषो विशिष्टमुपासनं सर्वक्रियाणां तत्रार्पणं, विषयसुखादिकं फलमनिच्छन्सर्वाः क्रियास्तस्मिन्परमगुरावर्पयति तत्प्रणिधानं समाधेस्तत्फललाभस्य च प्रकृष्ट उपायः ॥ २३ ॥ ईश्वरस्य प्रणिधानात्समाधिलाभ इत्युक्तं, तत्रेश्वरस्य स्वरूपं प्रमाणं प्रभावं वाचकमुपासनाक्रमं तत्फलं च क्रमेण वक्तुमाह-

क्लेशकर्मविपाकाशयैरपरामृष्टः
पुरुषविशेष ईश्वरः ॥ २४ ॥

क्लिश्नन्तीति क्लेशा अविद्यादयो वक्ष्यमाणाः । विहितप्रतिषिद्वव्यामिश्ररूपाणि कर्माणि । विपच्यन्त इति विपाकाः कर्मफलानि जात्यायुर्भोगाः । आ फलविपाकाञ्चित्तभूमौ शेरत इत्याशया वासनाख्याः संस्कारास्तैरपरामृष्टस्त्रिष्वपि कालेषु न संस्पृष्टः । पुरुषविशेषः, अन्येभ्यः पुरुषेभ्यो विशिष्यत इति विशेषः । ईश्वर ईशनशील इच्छामात्रेण सकलजगदुद्धरणक्षमः । यद्यपि सर्वेषामात्मनां क्लेशादिस्पर्शो नास्ति तथाऽपि चित्तगतस्तेषामपदिश्यते । यथा योद्धृगतौ जयपराजयौ स्वामिनः । अस्य तु त्रिष्यपि कालेषु तथाविधोऽपि क्लेशादिपरामर्शो नास्ति । अतः स विलक्षण एव भगवानीश्वरः । तस्य च तथाविधमैश्वर्यमनादेः सत्त्वोत्कर्षात् । सत्त्वोत्कर्षश्वास्य प्रकृष्टज्ञानादेव । न चानयोनैिश्वर्थयोरितरेतराश्रयत्वं, परस्परानपेक्षत्वात् । ते द्वे ज्ञानेश्वर्ये ईश्वरसत्त्वे वर्त- १ क. ख. न दर्शयितुमा । २ ख. पर मृष्टः ।

[समा०प०१सू०२५-२७) पातंजलयोगसूत्राणि ।

माने अनादिभूते । तेन च तथाविधेन सत्त्वेन तस्यानादिरेव संबन्धः । प्रकृतिपुरुषसंयोगवियोगयोरीश्वरेच्छाव्यतिरेकेणानुपपत्तेः । यथेतरेषां प्राणिनां सुखदुःखमोहात्मकतया परिणतं चित्तं निर्मले सात्त्विके धर्मात्मप्रख्ये योगिशरीरे प्रतिसंक्रान्तं चिच्छायासंक्रान्ते संवेद्यं भवति नैवमीश्वरस्य । तस्य केवल एवं सात्त्विकः परिणाम उत्कर्षवाननादिसंबन्धेन भोग्यतया व्यवस्थितः । अतः पुरुषान्तरविलक्षणतया स एवेश्वरः । मुक्तात्मना तु पुनः क्लेशादियोगस्तैस्तैः शास्त्रोक्तैरुपायैर्निवर्तितः । अस्य पुनः सर्वदैव तथाविधत्वान्न मुक्तात्मतुल्यत्वम् । न चेश्वराणामनेकत्वं, तेषां तुल्यत्वे भिन्नाभिप्रायत्वात्कार्यस्यैवानुप॑पत्तेः। उत्कर्षापकर्षयुक्तत्वे य एवोत्कृष्टः स एवेश्वरस्तत्रैव काष्ठाप्राप्तत्वादैश्चर्यस्य ॥ २४ ॥ एवमीश्वरस्य स्वरूपमभिधाय प्रमाणमाह- तत्र निरतिशयं सार्वज्ञ्यबीजम् ॥ २५ ॥ तस्मिन्भगवति सर्वज्ञत्वस्य यद्वीजमतीतानागतादिग्रहणस्याल्पत्वं महत्त्वं च मूलत्वाद्वीजमिव बीज तत्तत्र निरतिशयं काष्ठा प्राप्तम् । दृष्टा ह्यल्पत्वमहत्त्वादीनां धर्माणां सातिशयानां काष्ठाप्राप्तिः । यथा परमाणावल्पावस्याऽऽकाशे परममहत्त्वस्य । एवं ज्ञाना. दयोऽपि चित्तधर्मास्तारतम्येन परिदृश्यमानाः क्वचिन्निरतिशयतामासादयन्ति । यत्र चैते निरतिशयाः स ईश्वरः । यद्यपि सामान्यमानेऽनुमानस्य पर्यवसितत्याना विशेषावगतिः संभवति तथाऽपि शास्त्रादस्य सर्वज्ञत्वादयो विशेषा अवगन्तव्याः । तस्य स्वप्रयोजनाभावे कथं प्रकृतिपुरुषयोः संयोगवियोगावापादयतीति नाऽऽशङ्कनीयं, तस्य कारुणिकत्वाद्भूतानुग्रह एव प्रयोजनम् । कल्पप्रलयमहाप्रलयेषु निःशेषान्संसारिण उद्धरिष्यामीति तस्याध्यवसायः । यद्यस्येष्टं तत्तस्य प्रयोजनम् ॥ २५ ॥ एवमीश्वरस्य प्रमाणमभिधाय प्रभावमाह--- स पूर्वषामपि गुरुः कालेनानवच्छेदात् ॥ २६ ॥ आद्यानां स्रष्ट्रणां ब्रह्मादीनामपि स गुरुरुपदेष्टा । यतः स कालेन भावच्छिद्यते, अनादित्वात् । तेषां पुनरीदिमत्त्वादस्ति कालेनावच्छेदः ।। २६ ॥ एवं प्रभावमुक्त्वोपासनोपयोगाय वाचकमाह--- तस्य वाचकः प्रणवः ।। २७ ।। इत्यमुक्तस्वरूपस्येश्वरस्य वाचकोऽभिधायकः प्रकर्षेण नयते स्तुयतेऽनेनेति नौति स्तोतौति वा प्रणव ओंकारस्तयोश्च वाच्यवाचकभावलक्षणः संबन्धो नित्यः संकेतेन प्रका- १ क. मानुर । २ क. ख. "ख्ये प्र' । ३ ख. ग, पतिः । उ । ४ व. ग. शिवी'। ५ के. नमावस्य ! ६ क. पां अमदीना पु । ' द. ग. पणः । १० भोजदेवविरचितवृत्तिसमेतानि- [समा०पा०१सू०२८-३१]

श्यते न तु केनचिस्क्रियते, यथा पितापुत्रयोविद्यमान एव संबन्धोऽस्यायं पिताऽस्यायं पुत्र इति केनचित्प्रकाश्यते ॥ २७ ॥ उपासनमाह-

 तज्जपस्तदर्थभावनम् ॥ २८ ॥

तस्य सार्वत्रिमात्रस्य प्रणवस्य जपो यथावदुचारणं तद्वाच्यस्य चेश्वरस्य भावनं पुनः

पुनश्चेतसि विनिवेशनमेकाग्रताया उपायः । अतः समाधिसिद्धये योगिना प्रणवो जप्य- स्तदर्थ ईश्वरश्च भावनीय इत्युक्तं भवति ॥ २८ ॥ उपासनायाः फलमाह--

  ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च ॥ २९ ॥

तस्माज्जपात्तदर्थभावनाञ्च योगिनः प्रत्यक्चेतनाधिगमो भवति विषयपातिकृत्येन

स्वान्तःकरणाभिमुखमञ्चति या चेतना दृक्शक्तिः सा प्रत्यक्चेतना तस्या अधिगमो ज्ञानं भवति । अन्तराया वक्ष्यमाणास्ते पामभावः शक्तिप्रतिबन्धोऽपि भवति ॥ २९ ॥ अथ फेऽन्तराया इत्याशङ्कायामाह--

   व्याधिस्त्यानसंशयप्रमादालस्याविरति-
                                भ्रान्तिदर्शनालब्धभूमिकत्वानवस्थित-
                                 त्वानि चित्तविक्षेपास्तेऽन्तरायाः॥३०॥

नवैते रजस्तमोबलात्प्रवर्तमानाश्चित्तस्य विक्षेपा भवन्ति तरेकाग्रताविरोधिभिश्चित्तं विक्षिप्यत इत्यर्थः । तत्र व्याधिर्धातुवैषम्यनिमित्तो ज्वरादिः । स्त्यानमकर्मण्यता चित्तस्य । उभयकोटयालम्बनं ज्ञानं संशयो योगः साध्यो न वेति । प्रमादोऽनवधानता समाधिसा- धनेष्वौदासीन्यम् । आलस्य कायचित्तयोर्गुरुत्वं योगविषये प्रवृस्यभावहेतुः । अविरति- श्चित्तस्य विषयसंप्रयोगात्मा गर्धः । भ्रान्तिदर्शनं शुक्तिकायां रजतवद्विपर्ययज्ञानम् । अलब्धभूमिकत्वं कुतश्चिनिमित्तात्समाधिभूमेरल भोऽसंप्राप्तिः । अनवस्थितत्वं लन्धोया- मपि भूभौ चित्तस्य तत्राप्रतिष्ठा । त एते समाधेरेकाग्रताया यथायोगं प्रतिपक्षत्वादन्तराया इस्युच्यन्ते ॥ ३०॥

   चित्तविक्षेपकारकानन्यानप्यन्तरायान्प्रतिपादयितुमाह--

    दुःखदौर्मनस्याङ्गन्मेजयत्वश्वासप्रश्वासा
                            विक्षेपसहभुवः ॥ ३१ ॥

                                                                           १ क. °म त्रिकस्य । २ म. विक्षेप्य । ३ ख. क.स्पता । ४ ख. 'देऽनुन्थानशीलता ।

ग. दोऽननुष्ठानशीलता ! ५ ख. ग. 'ब्धावस्थाया। ६ ख ग. °पि समाविभू' । [समा०पा० १सू०३२--३४] पातञ्जलयोगसूत्राणि । कुतश्चिन्निमित्तादुत्पन्नेषु विक्षेपेषु एते दुःखादयः प्रवर्तन्ते । तत्र दुःखं चित्तस्य राजसः परिणामो बाधनालक्षणः । यद्वाधात्वपाणिनस्तदपघाताय प्रवर्तन्ते । दौर्मनस्य बाह्याभ्यन्तरैः कारणैर्मनसो दौस्थ्यम् । अङ्गमेजयत्वं सर्वाङ्गीणो वेपथुरासनमनःस्थैर्यस्य बाधकः । प्राणो यद्बाह्यं वायुमाचामति स श्वासः । यत्कौष्ठयं वायुं निःश्वसिति स प्रश्वासः । त एते विक्षेपैः सह प्रवर्तमाना यथोदिताम्यासवैराग्याभ्यां निरोद्धव्या इत्येषामुपदेशः ॥ ३१ ॥ सोपद्रवविक्षपप्रतिषेधार्थमुपायान्तरमाह-- तत्प्रतिषेधार्थयेकतत्त्वाभ्यासः ॥ ३२॥ तेषां विक्षेपाणां प्रतिषेधार्थमेकस्मिन्कस्मिंश्चिदभिमते तत्त्वेऽभ्यासश्चेतसः पुनः पुनर्निवेशन का यद्बलात्प्रत्युदितायामेकाग्रतायां विक्षेपाः प्रणाशमुपयान्ति ॥ ३२ ॥ इदानीं चित्तसंस्कारापादकपरिकर्मकथनमुपायान्तरमाह-- मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्य- विषयाणां भावनातश्चित्तप्रसादनम् ॥ ३३ ॥ मैत्री सौहार्दम् । करुणा कृपा । मुदिता हर्षः । उपेक्षौदासीन्यम् । एता यथाक्रम सुखितेषु दुःखितेषु पुण्यवत्सु अपुण्यवत्सु च विभावयेत् । तथा हि-सुखितेषु साँधु एषा सुखित्वमिति मैत्री कुर्यान्न तु ईर्ष्याम् । दुःखितेषु कथं नु नामैषां दुःखनिवृत्तिः स्यादिति कृपामेव कुर्यान्न ताटस्थ्यम् । पुण्यवत्सु पुण्यानुमोदनेन हर्षमेव कुर्यात्न तु किमेते पुण्य- वन्त इति विद्वेषम् । अपुण्यवत्सु चौदासीन्यमेव भावयेन्नानुमोदनं न वा द्वेषम् । सूत्रे सुखदुःखादिशब्दैस्तद्वन्तः प्रतिपादिताः । तदेवं मैत्र्यादिपरिकर्मणा पिते. प्रसीदति सुखेन समाधेराविर्भावो भवति । परिकर्म चैतद्बाह्यं कर्म । यथा. गणिते मिश्रकादिव्यवहारो गणितनिष्पत्तये संकलितादिकर्मोपकारकत्वेन प्रधानकर्मनिष्पत्तये भवति एवं द्वेषरागादिप्रति- पक्षभूतमैत्र्यादिभावनया समुत्पादितप्रसादं चित्तं संप्रज्ञातादिसमाधियोग्यं, संपद्यते । रागद्वेषावेव मुख्यतया विक्षेपमुत्पादयतः । तौ चेत्समूलमुन्मूलितौ स्यातां. तदा प्रसन्नत्वान्मनसो भवत्येकाग्रता ॥ ३३॥ उपायान्तरमाह- प्रच्छर्दनविधारणाभ्यां वा प्राणस्य ॥ ३४ ॥ प्रच्छर्दनं कौष्ठ्यस्य वायोः प्रयत्नविशेषान्मात्राप्रमाणेन बहिर्निःसारणम् । विधारणं, मासप्रमाणेनैव प्राणस्य, वायोर्बहिर्गतिविच्छेदः । स च द्वाभ्यां प्रकाराभ्यां। बाह्यस्याभ्यः १. क. या ते वि। २ ख. ग. प्रशमम। ३ ख. °षु स्यादेषां। ४. क. साधुषु। ५. स्व.

"मादक । ६ ख. 'तं सत्त्वाभिधं 1७ क. "स्यान्न । .

१२ - भोजदेवविरचितत्तिसमेतानि- [ समा०पा० १सू०३५-३८]

स्तरापूरणेन पुरितस्य वा तत्रैव निरोधेन । तदेवं रेचकपूरककुम्भकभेदेन त्रिविधः प्राणा- यामश्चित्तस्य स्थितिमेकाग्रतया निबध्नाति । सर्वासामिन्द्रियवृत्तीनां प्राणावृत्तिपूर्वकत्वात् । मनःप्राणयोश्च स्वव्यापारे परस्परमेकयोगक्षेमत्वाज्जीयमानः प्राणः समस्तेन्द्रियवृत्तिनिरोधद्वारेण चित्तस्यैकाग्रतायां प्रभवति । समस्तदोषक्षयकारित्वं चास्याऽऽगमे श्रूयते । दोषकृताश्च सर्वा विक्षेपवृत्तयः । अतो दोषनिर्हरणद्वारेणाप्यस्यैकाग्रतायां सामर्थ्यम् ॥ ३४ ॥ इदानीमुपायान्तरप्रदर्शनोपक्षेपेण संप्रज्ञातस्य समाधैः पूर्वाङ्गं कथयति-

विषयवती वा प्रवृत्तिरुत्पन्ना
स्थितिनिबन्धिनी ॥ ३५ ॥

मनस इति वाक्पशेषः । विजया गन्धरसरूपस्पर्शशब्दास्ते विद्यन्ते फलत्वेन यस्याः सा विषयवती प्रवृत्तिर्मनसः स्थैर्यं करोति । तथा हि-नासाग्रे चितं धारयतो दिव्यगन्धसंबिदुपजायते । तादृश्येव जिह्वाग्रे रससंवित् । ताल्वग्रे रूपसंवित् । जिह्वामध्ये स्पर्शसंवित् । जिह्वामूले शब्दसंवित् । तदेवं तत्तदिन्द्रियद्वारेण तस्मिंस्तस्मिन्दिव्ये विषये जायमाना संविञ्चित्तस्यैकाग्रताया हेतुर्भवति । अस्ति योगस्य फलमिति योगिनः समाश्वासोत्पादनात् ॥ ३५ ॥

  एवंविधमेवोपायान्तरमाह-

विशोका वा ज्योतिष्मती ॥ ३६॥

प्रवृत्तिरुत्पन्ना चित्तस्य स्थितिनिबन्धिनीति वाक्यशेषः । ज्योतिःशब्देन सात्विकः प्रकाश उच्यते । स प्रशस्तो भूयानतिशयवांश्च विद्यते यस्यां सा ज्योतिष्मती प्रवृत्तिः । विशोका विगतः सुखमयसत्त्वाभ्यासवशाच्छोको रजःपरिणामो यस्याः सा विशोका चेतसः स्थितिनिबन्धिनी । अयमर्थः--हृत्पद्मसंपुटमध्ये प्रशान्तकल्लोलक्षीरोदधिप्रख्यं चित्तसत्त्वं भावयतः प्रज्ञाल्लोकात्सर्ववृतिपरिक्षये चेतसः स्थैर्यमुत्पद्यते ॥ ३६ ॥

  उपायान्तरप्रदर्शनद्वारेण संप्रज्ञातसमाधेविषयं दर्शयति--

वीतरागविषयं वा चित्तम् ॥ ३७ ।।

मनसः स्थितिनिबन्धनं भवतीति शेषः । वीतरागः परित्यक्तविषयामिलाषस्तस्य यच्चित्तं 'परिहृतक्लेशं तदालम्बनीकृतं चेतसः स्थितिहेतुर्भवति ।। ३७ ॥

      एवंविधमुपायान्तरमाह- .

स्वप्ननिद्राज्ञानालम्बनं वा ॥ ३८॥

प्रत्यस्तमितबाह्येन्द्रियवृत्तेर्मनोमात्रेणैव यत्र भोक्तृत्वमात्मनः स स्वप्नः । निद्रा पूर्वोक्त

१ क. प्रतायां नि । २ . त्या क्षीयमाणः मा' । ३ ख. ग. पूर्वरङ्गं करोति ! कर ख. "यत्वाभ्या।

[समा०पा०१सू०, २९-४१] पातञ्जलयोगसूत्राणि ।

लक्षणा । तदालम्बनं स्वप्नालम्बनं निद्रालम्बनं वा ज्ञानमालम्ब्यमानं चेतसः स्थिति करोति ॥ ३८ ॥ नानारुचित्वात्प्राणिनां यस्मिन्कस्मिंश्चिद्वस्तुनि योगिनः श्रद्धा भवति तस्य ध्यानेनापीसिद्धिरिति प्रतिपादयितुमाह- यथाभिमतध्यानाद्वा ।। ३९ ॥ यथाभिमतवस्तुनि बाह्ये चन्द्रादावाभ्यन्तरे नाडीचक्रादौ वा भाव्यमाने चेतः स्थिरी भवति ॥ ३९॥ एवमुपायान्प्रदर्श्य फलदर्शनायाऽऽह-- परमाणुपरममहत्त्वान्तोऽस्य वशीकारः ॥ ४० ॥ एभिरुपायश्चित्तस्य स्थैर्यं भावयतो योगिनः सूक्ष्मविषयभावनाद्वारेण परमाण्वन्तो वशीकारोऽप्रतिघातरूपो जायते, न क्वचित्परमाणुपर्यन्ते सूक्ष्मे विषयेऽस्य मनः प्रतिह- न्यत इत्यर्थः । एवं स्थूलमाकाशादिपरममहत्पर्यन्तं भावयतो न क्वचिच्चेतसः प्रतिघात उत्पद्यते । सर्वत्र स्वातन्त्र्यं भवतीत्यर्थः ।। ४०॥ एवमेभिरुपायैः संस्कृतस्य चेतसः कीदृग्रूपं भवतीत्या ( त्यत आ ) ह- क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतग्रहणग्रा- ह्येषु तत्स्थतदञ्जनता समापत्तिः ।। ४१ ।। क्षीणा वृत्तयो यस्य तत्क्षीणवृत्ति तस्य ग्रहीतृग्रहणग्राह्येषु आत्मेन्द्रियविषयेषु तत्स्थतदञ्जनता समापत्तिर्भवति । तत्स्थत्वं तत्रैकाग्रता । तदञ्जनता तन्मयत्वं, न्यर्ग्भृते चित्ते विषयस्य भाव्यमानस्यैवोत्कर्षः । तथाविधा समापत्तिः, तद्रूपः परिणामो भवतीत्यर्थः । दृष्टान्तमाह-अभिजातस्येव मणेर्यथाऽभिजातस्य निर्मलस्य स्फटिकमणेस्तत्तदुपाधिवशात्तस्तद्रूपापत्तिरेवं निर्मलस्य चित्तस्य तत्तद्भावनीयवस्तूपरागात्तत्तद्रूपापत्तिः । यद्यपि ग्रहीतृग्रहणग्राह्येषु इत्युक्तं तथाऽपि भूमिकाक्रमवशाद्ग्राह्यग्रहणग्रहीतृषु इति बोध्यम् । यतः प्रथमं ग्राह्यनिष्ठ एव समाधिस्ततो ग्रहणनिष्ठस्ततोऽस्मितामात्ररूपो ग्रहीतृनिष्टः, केवलस्य पुरुषस्य ग्रहीतुर्भाव्यत्वासंभवात् । ततश्च स्थूलसूक्ष्मग्राह्योपरक्तं चित्तं तत्र समापन्नं भवति । एवं ग्रहणे ग्रहीतरि च समापन्नं बोद्धव्यम् ॥ ४१ ।। १ क. °माण्वन्ते । २ क. हत्त्वपर्य° । ३ ख. ग. सत्कृतस्य । ४ ख. ग. षु अस्मि. तोन्द्रि। ५ ख. ग. तदेका । ६ क. क्षीणभूते।७ ख. "कर्षात् । त° । ८ ख. ग. तद्रूपानं यो । ९ ख. ग. 'त्तसत्त्वस्य । १० ख. हीतृभावासं। ११ ख. हणग्रहीत्रोरपि स । १२ ख पनत्व बो । १३ ग. 'नं तद्रूप रिणामत्वं बो। १४ भोजदेवविरचितवृत्तिसमेतानि- [समा०पा०१सू०४२-४५] • इदानीमुक्ताया एव समापत्तेश्चातुर्विध्यमाह- तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का समापत्तिः ॥ ४२ ॥ श्रोत्रेन्द्रियग्राह्यः स्फोटरूपो वा शब्दः । अर्थो जात्यादिः । ज्ञानं सत्वप्रधाना बुद्धिवृत्तिः । विकल्प उक्तलक्षणः । तैः संकीर्णा यस्यामेते शब्दादयः परस्पराध्यासेन प्रतिभासन्ते, गौरित्यर्थो गौरिति ज्ञानमित्यनेनाऽऽकारण सा सवितर्का समापत्तिरुच्यते॥४२॥ उक्तलक्षणविपरीतां निर्वितर्कामाह- स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमा- त्रनिर्भासा निर्वितर्का ॥ ४३ ॥ शब्दार्थस्मृतिप्रविलये सति प्रत्युदितस्पष्टग्राह्याकारप्रतिभासितया न्यग्भूतनांशत्वेक्त स्वरूपशून्येव निर्वितर्का समापत्तिः ॥ ४३ ।। भेदान्तरं प्रतिपादयितुमाह- एतयैव सविचारा निर्विचारा च. सूक्ष्मविषया व्याख्याता ॥४४ ॥ एतयैव सवितर्कया निर्वितर्कया च समापत्त्या सविचारा निर्विचारा च व्याख्याता । कीदृशी, सूक्ष्मविषया सूक्ष्मस्तन्मात्रेन्द्रियादिविषयो यस्याः सा तथोक्ता । एतेन पूर्वस्याः स्थूलविषयत्वं प्रतिपादितं भवति । सा हि महाभूतालम्बना । शब्दार्थविषयत्वेन शब्दार्थ- विकल्पसहितत्वेन देशकालधर्माद्यवच्छिन्नः सूक्ष्मोऽर्थः प्रतिभाति यस्यां सा सविचारा । देशकालधर्मादिरहितो धर्मिमात्रतया सूक्ष्मोऽर्थस्तन्मात्रेन्द्रियरूपः प्रतिभाति यस्यां सा निर्विचारा ॥ १४ ॥ अस्या एव सूक्ष्मविषयायाः किंपर्यन्तः सूक्ष्मविषय इत्याह- सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् ॥ ४५ ॥ सविचारनिर्विचारयोः समापत्योर्यत्सूक्ष्मविषयत्वमुक्तं तदलिङ्गपर्यवसानं न क्वचिल्लीयते न वा किंचिल्लङ्गति गमयतीत्यलिङ्गं प्रधानं तत्पर्यन्तं सूक्ष्मविषयत्वम् । तथा हि--- गुणानां परिणाम चत्वारि पर्वाणि विशिष्टलिङ्गमविशिष्टलिङ्गं लिङ्गमात्रमलिङ्गं चेति । विशिष्टलिङ्गं भूतानि, अविशिष्टलिङ्गं तन्मात्रेन्द्रियाणि, लिङ्गमात्रं बुद्धिः, अलिङ्गं प्रधानमिति । नातः परं सूक्ष्ममस्तीत्युक्तं भवति ॥ ४५ ॥ १ क. दयस्रयः । २ क. °न विकल्परूपेण प्र । ३ क. °ण या सा । ४ क. "ततया । ५ म. ज्ञानसत्त्वेन । ६ क. भूतेन्द्रियाल । ७ ग. सरहि' । ८ क. धर्ममा । ९ क. भूतेन्द्रि- याणि । १० क. मावान्तःकरणानि लि। समा० पा०१ सू० ४६-५०] पातञ्जलयोगसूत्राणि । एतासां समापत्तीनां प्रकृते प्रयोजनमाह- ता एव सबीजः समाधिः ॥ ४६॥ ता एवोक्तलक्षणाः समापत्तयः सह बीजेनाऽऽलम्बनेन वर्तत इति सबीजः संप्रज्ञातः समाधिरित्युच्यते, सर्वासां सालम्बनत्वात् ॥ ४६॥ अथेतरासां समापत्तीनां निर्विचारफलत्वान्निर्विचारायाः फलमाह- निर्विचारवैशारद्येऽध्यात्मप्रसादः॥४७॥ निर्विचारत्वं व्याख्यातम् । वैशारद्यं नैर्मल्यम् । सवितर्का स्थूलविषयामपेक्ष्य निर्वितर्कायाः प्राधान्यम् । ततोऽपि सूक्ष्मविषयायाः सविचारायाः । ततोऽपि निर्विकल्परूपाया निर्विचारायाः । तस्यास्तु निर्विचारायाः प्रकृष्टाभ्यासवशाद्वैशारद्ये नैर्मल्ये सत्यध्यात्मप्रसादः समुपजायते । चित्तं क्लेशवासनारहितं स्थितिप्रवाहयोग्यं भवति । एतदेव चित्तस्य वैशारद्यं यत्स्थितौ दाढर्यम् ॥ ४७ ॥ तस्मिन्सति किं भवतीत्याह- __ ऋतंभरा तत्र प्रज्ञा ॥४८॥ ऋतं सत्यं बिभर्ति कदाचिदपि न विपर्ययणाऽऽच्छाद्यते सतंभरा प्रज्ञा तस्मिन्सति भवतीत्यर्थः । तस्माञ्च प्रज्ञालोकात्सर्वं यथावत्पश्यन्योगी प्रकृष्टं योगं प्राप्नोति ॥ ४८ ॥ अस्याः प्रज्ञान्तराद्वैलक्षण्यमाह- श्रुतानुमानप्रज्ञाभ्यां सामान्यवि- षया विशेषार्थत्वात् ।। ४९॥ श्रुतमागमज्ञानम् , अनुमानमुक्तलक्षणम् , ताभ्यां या जायते प्रज्ञा सा सामान्यविषया । न हि शब्दलिङ्गयोरिन्द्रियवद्विशेषप्रतिपत्तौ सामर्थ्यम् । इयं पुनर्निर्विचारवैशारद्यसमुंद्भवा प्रज्ञा ताभ्यां विलक्षणा विशेषविषयत्वात् । अस्यां हि प्रज्ञायां सूक्ष्मव्यवहितविप्रकृष्टानामपि विशेषः स्फुटेनैव रूपेण भासते । अतस्तस्यामेव योगिना परः प्रयत्नः कर्तव्य इत्युपदिष्टं भवति ॥ ४९ ॥ अस्याः प्रज्ञायाः फलमाह- तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी ॥ ५० ॥ तया प्रज्ञया जनितो यः संस्कारः सोऽन्यान्व्युत्थानजान्समाधिजांश्च संस्कारान्प्रतिबध्नाति स्वकार्यकरणाक्षमान्करोतीत्यर्थः । यतस्तत्त्वरूपतयाऽनया. जनिताः संस्कारा बलवत्त्वादतत्त्वरूपप्रज्ञाजनितान्संस्कारान्बाधितुं शक्नुवन्ति । अतस्तामेव प्रज्ञा- मभ्यसेदित्युक्तं भवति ॥ ५० ॥ १५. ते यो । २ ख. म. स्थिरप्र । ३ ख. धभावादन्यपज्ञाभ्यां वि । ४ ग. भुपेता म" । ५ ख. ग. मत्रि' । ६ ख. रा निगलम्बनत्वा । १६ . भोजदेवविरचितवृत्तिसमेतानि- [ समा० पा०.१ सू० ५१ साध० पा.२ ० १] एवं संप्रज्ञातं समाधिमभिधायासंप्रज्ञातं वक्तुमाह- तस्यापि निरोधे सर्वनिरोधा- न्निर्बीजः समाधिः ॥५१॥ तस्यापि संप्रज्ञातस्य निरोधे प्रविलये सति सर्वासां चित्तवृत्तीनां स्वकारणे प्रविलयाद्या या संस्कारमात्रावृत्तिरुदेति तस्यास्तस्या नेति नेतीति केवलं पर्युदसनान्निर्बीजः समाधिराविर्भवति । यस्मिन्सति पुरुषः स्वरूपनिष्टः शुद्धो भवति । तदत्राधिकृतस्य योगस्य लक्षणं चित्तवृत्तिनिरोधपदानां च व्याख्यानमभ्यासवैराग्यलक्षणं तस्योपायद्वयस्य स्वरूपं भेदं चाभिधाय संप्रज्ञातासंप्रज्ञातभेदेन योगस्यं मुख्यामुख्यभेदमुक्त्वा योगाभ्यासप्रदर्शनपूर्वकं विस्तरेणोपायान्प्रदर्श्य सुगमोपायप्रदर्शनपरतयेश्वरस्य स्वरूपप्रमाणप्रभाववाचकोपासनानि तत्फलानि [च ] निर्णीय चित्तविक्षेपांस्तत्सहभुवश्च दुःखादीन्विस्तरेण च तत्प्रतिषेधोपायानेकतत्त्वाभ्यासमैञ्यादीन्प्राणायामांदीन्संप्रज्ञातासंप्रज्ञातपूर्वाङ्गभूतविषयवती प्रवृत्तिरित्यादीना(दींश्चाऽs)ख्यायोपसंहारद्वारेण च समापत्तीः सलक्षणाः सफलाः स्वस्वविषयसहिताश्चोक्त्वा संप्रज्ञातासंप्रज्ञातयोरुपसंहारमभिधाय सबीजपूर्वको निर्बीजः समाधिरभिहित इति व्याकृतो योगपादः ॥ ५१ ॥ इति श्रीमहाराजाधिराजभोजदेवविरंचिताया राजमार्तण्डाभिधायां पातञ्जलयोगशास्त्रसूत्रवृत्ती योगपादः प्रथमः ॥ १ ॥ अथ भोजदेवविरचित्तवृत्तिसहितयोगसूत्रेषु द्वितीयः साधनपादः। ते ते दुष्प्रापयोगर्द्धिसिद्धये येन दर्शिताः । उपायाः स जगन्नाथरूयक्षोऽस्तु प्रार्थिताप्तधे !! तदेवं प्रथमे पादे समाहितचित्तस्य सोपायं योगमभिधाय व्युत्थितचित्तस्यापि कथमुपायाभ्यासपूर्वको योगः सात्म्यमुपयातीति तत्साधनानुष्ठानप्रतिपादनाय क्रियायोगमाह- तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः ॥१॥ तपः शास्त्रान्तरोपदिष्टं कृच्छ्चान्द्रायणादि । स्वाध्यायः प्रणवपूर्वाणां मन्त्राणां १ख ग. तस्य । २ क. यान सं० । ३ क. °वा दृष्टिरु । ल. °घा वृत्ति। ४ क. सत्रा । ५ क. क्षगस्यो। ६ ख. स्य भे। ७ ख. नाक्रम त । ग. नाकवत । ८ क. ध्यादिपाणा ! ९ म. 'दीनां सं° । १० ख. ग. 'पूरिङ्ग । ११ ख. त्यादिना । १२ के. °पत्तिलक्षणकरसहितां स्व । १३ क. हितां चोक्त्वा । १४ क. गः स्वास्थ्यम् । [ साध०पा०२सू० २-४ ] पातञ्जलयोगसूत्राणि । जपः । ईश्वरप्रणिधानं सर्वक्रियाणां तस्मिन्परमगुरौ फलनिरपेक्षाया समर्पणम् । एतानि क्रियायोग इत्युच्यते ॥ १॥ स किमर्थ इत्यत आह--- .. समाधिभावनार्थः क्लेशतनूकरणार्थश्च ॥ २॥ क्लेशा वक्ष्यमाणास्तेषां तनूकरणं स्वकार्यकरणप्रतिबन्धः । समाविरुक्तलक्षणस्तस्य भावना चेतसि पुनःपुनर्निवेशनं सोऽर्थः प्रयोजनं यस्य स तथोक्तः । एतदुक्तं भवति-- एते तपःप्रभृतयोऽभ्यस्यमानाश्चित्तगतानविद्यादीन्क्लेशाशिथिलीकुर्वन्तः समाधेरुपकारकतां भजन्ते । तस्मात्प्रथमं क्रियायोगावधानपरेण योगिना भवितव्यमित्युपदिष्टम् ॥ २ ॥ क्लेशतनूकरणार्थं इत्युक्तं, तत्र के क्लेशा इत्यत आह- __ अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः ॥३॥ अविद्यादयो वश्यमाणलक्षणाः पञ्च । ते च बाधनालक्षणं परितापमुपजनयन्तः क्लेशशब्दवाच्या भवन्ति । ते हि चेतसि प्रवर्तमानाः संसारलक्षणं गुणपरिणामं द्रढयन्ति ।। ३ ॥ सत्यपि सर्वेषां तुलले क्लेशत्वे मूलभूतत्वादविद्यायाः प्राधान्यं प्रतिपादयितुमाह --- अविद्या क्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम् ॥ ४ ॥ अविद्या मोहः, अनात्मन्यात्माभिमान इति यावत् । सा क्षात्रं प्रसवभूमिरीत्तरेषामस्मितादीनां प्रत्येकं प्रसुप्ततन्वादिभेदेन चतुर्विधानाम् । अतो यत्राविद्या विपर्यपज्ञानरूपा शिथिली भवति तत्र क्लेशानामस्मितादीनां नोद्भवो दृश्यते । विपर्यपज्ञानसद्भावे च तेषामद्भवदर्शनास्थितमेव मूलत्वमविद्यायाः । प्रसुप्ततनुविच्छिनोदाराणामिति । तत्र ये क्लेशाश्चित्तभूमौ स्थिताः प्रबोधकाभावे स्वकार्यं नाऽऽरमन्ते ते प्रसुप्ता इत्युष्यन्ते । यथा बालावस्थायां, बालस्य हि वासनारोग स्थिता अपि क्लेशाः प्रबोधकसहकार्यभावे नाभिव्यज्यन्ते । ते तनवो ये स्वस्थप्रतिपक्षभावनया शिथिलीकृतकार्यसंपादनशक्तयो वासनावशेषतया चेतस्यवस्थिताः प्रभूतां सामग्रीमन्तरेण स्वकार्यमारब्धुमक्षमाः । यथाऽभ्यासवतो योगिनः ।.ते विछिन्ना ये केनचिद्वलता क्लेशेनाभिभूतशक्तयस्तिष्ठन्ति । यथा द्वेषावस्थायां राग , रागावस्थायां वा द्वेष , न ह्यनयो: परस्परविरुद्धयोर्युगपत्संभवोऽस्ति । ते उदारा ये प्राप्तसहकारिसंनिधयः स्वं स्वं कार्यमभिनिवर्तयन्ति । यथा सदैव योगपरिपन्थिनो व्युत्थानदशायाम् । एषां प्रत्येकं चतुर्विधानामपि मूलभूतत्वेन स्थिताऽप्यविद्याऽन्वयित्वेन प्रतीयते । न हि क्वचिदपि क्लेशानां १ ख. ग. थमतःकि' । २ क. 'योगविया । - क. संस्कार । ४ क. 'रूपाः स्थि। १८. भोजदेवविरचितवृत्तिसमेतानि- [साध०पा०२सू०५-९]

       विपैर्ययान्वयनिरपेक्षाणां स्वरूपमुपलभ्यते । तस्यां च मिथ्यौरूपाैयां सम्यग्ज्ञानेन निवर्ति-
       तायां दग्धबीजकल्यानाभेषां न क्वचित्प्ररोहोऽस्ति । अतोऽविद्यानिमित्तत्वमविद्यान्वयश्चैतेषां
       निश्चीयते । अतः सर्वेऽपि अविद्याव्यपदेशभाजः । सर्वेषां च क्लेशानां चित्तविक्षेपकारि-
       त्वाद्योगिना प्रथममेव तदुच्छेदे यत्नः काैर्य इति ॥ ४ ॥
          अविद्याया लक्षणमाह -
                         अनित्याशुचिदुःखानात्मसु नित्य-
                         शुचिसुखात्मख्यातिरविद्या ॥५॥
       अतंस्मिस्तदिति  प्रतिभासोऽविद्येत्यविद्यायाः सामान्यलक्षणम् । तस्या  एव    भेदप्रति-    
       पादनम्--अनित्येषु घटादिषु  नित्यत्वाभिमानोऽविद्येति उच्यते । एवमशुचिषु  कायादिषु
       शुचित्वाभिमानः, दुःखेषु च विषयेषु सुखत्वाभिमानः, अनात्मनि शरीर आत्मत्वाभिमानः।
       एतेनापुण्ये पुण्यभ्रमोऽनर्थे चार्थभ्रमो व्याख्यातः ॥ ५ ॥
          अस्मितां लक्षयितुमाह-
                    दृग्दर्शनशक्त्योरेकात्मतै(ते)वास्मिता ॥ ६॥
          दृक्शक्तिः पुरुषः, दर्शनशक्ती रजस्तमोभ्यामनभिभूतः सात्त्रिकः परिणामोऽन्तःकरण-
       रूपः, अनयोभोग्यभोक्तृत्वेन जडाजडत्वेनात्यन्तभिन्नरूपयोरेकतामिमानोऽस्मितेति उच्यते।
       यथा प्रकृतिर्वस्तुतः कर्तृत्वभोक्तृत्वरहिताऽपि कर्त्र्यहं  भोग्यहमित्यभिमन्यते  ।  सोऽयम.
       स्मिताख्यो विपर्यास: क्लेशः ॥६॥
          रागस्य लक्षणमाह-
                            सुखानुशयी रागः ॥ ७ ॥
          सुखमनुशेत इति मुखानुशयी सुखज्ञस्य सुखानुस्मृतिपूर्वकः सुखसाधनेषु तृष्णारूपो
       गधौ रागसंज्ञकः क्लेशः ॥ ७ ॥
          द्वेषस्य लक्षणमाह--
                            दुःखानुशयी द्वेषः ॥ ८ ॥
          दुःखमुक्तलक्षणं, तदभिज्ञस्य तदनुस्मृतिपूर्वकं तत्साधनेषु अनभिर्लंपतो योऽयं    
       निन्दा-स्मकैः क्रोधः स द्वेषलक्षणः क्लेशः ॥ ८ ॥ 
          अभिनिवेशस्य लक्षणमाह--
                 “स्वरसवाही विदुषोऽपि तन्वनुबन्धोऽभिनिवेशः ॥ ९ ॥
          पूर्वजन्मानुभूतमरणदुःखानुभववासनाबलाद्भयरूपः समुपजायमानः शरीरविषयोदेर्मम 

१ ख. ग. ॰पर्यासान्ध॰ । २ क. तस्मान्निथ्याज्ञानरू॰। ३ ग. ॰ध्यभूतायां । ४ क. 

॰पायामविद्यायां स॰ । ५ ख. म. कर्तव्य । ६ क. सुखाभि॰ ।७ क.आत्माभि'। ८ ख. ॰लभ्यता योऽयं निरासो द्वे॰ । ९ ग. ॰कः स । १० क, तथारूढोऽभि॰ । ११ क. ग ॰यादिभिर्म॰ । [साध०पा०२सू० १०-१२] पातञ्जलयोगसूत्राणि । वियोगो मा भूदिति अन्वहमनुबन्धरूपः सर्वस्यैवाऽऽ कृमेर्ब्रह्मपर्यन्तं निमित्तमन्तरेण प्रवर्तमानोऽभिनिवेशाख्यः क्लेशः ॥ ९॥ तदेवं व्युत्थानस्य क्लेशात्मकत्वादेकाग्रताभ्यासकामेन प्रथमं क्लेशाः परिहर्तव्याः । न चाज्ञातानां तेषां परिहारः कर्तुं शक्य इति तज्ज्ञानाय तेषाद्देशं क्षेत्रं विभागं लक्षणं चाभिधाय स्थूलसूक्ष्मभेदभिन्नानां तेषां प्रहाणोपायविभागमाह-- ते प्रतिप्रसवहेयाः सूक्ष्माः ॥ १० ॥ ते सूक्ष्माः क्लेशा ये वासनारूपेणैव स्थिता न वृत्तिरूपं परिणाममारभन्ते, ते प्रतिप्रसवेन प्रतिलोमपरिणामेन हेयास्त्यक्तव्याः । स्वकारणास्मितायां कृतार्थं सवासनं चितं यदा प्रविष्टं भवति तदा कुतस्तेषां निर्मूलानां संभवः ॥ १० ॥ स्थूलानां हानोपायमाह - ध्यानहेयास्तद्वृत्तयः ॥ ११ ॥ तेषां क्लेशानामारब्धकार्याणां याः सुखदुःखमोहात्मिका वृत्तयस्ता ध्यानेनैव चित्तैकाग्रतालक्षणेन हेया हातव्या इत्यर्थः । चित्तपरिकर्माभ्यासमात्रेणैव स्थूलत्वात्तासां निवत्तिर्भवति । यथा वस्त्रादौ स्थूलो मलः प्रक्षालनमात्रेणैव निवर्तते, यस्तु तत्र सूक्ष्मः स तैस्तैरुपायैरुत्तापनप्रभृतिभिरेव निवर्तयितुं शक्यते ॥ ११ ॥ एवं क्लेशानां तत्त्वमभिधाय कर्माशयस्याभिधातुमाह-- क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः ॥ १२ ॥ कर्माशय इत्यनेन तस्य स्वरूपमभिहितम् । यतो वासनारूपाण्येव कर्माणि । क्लेशमूल इत्यनेन कारणमभिहितम् । यतः कर्मणां शुभाशुभानां क्लेशा एव निमित्तम् । दृष्टादृष्टजन्मवेदनीय इत्यनेन फलमुक्तम् । अस्मिन्नेव जन्मनि अनुभवनीयो दृष्टजन्मवेदनीयः । जन्मान्तरानुभवनीयोऽदृष्टजन्मवेदनीयः । तथाहि-कानिचित्पुण्यानि कर्माणि देवताराधनादीनि तीव्रसंवेगेन कृतानीहैव जन्मनि जात्यायुर्भोगलक्षणं फलं प्रयच्छन्ति । यथा नन्दीश्वरस्य भगवन्महेश्वराराधनबलादिहैव जन्मनि जात्यादयो विशिष्टाः प्रादुर्भूताः । एवमन्येषां विश्वामित्रादीनां तपःप्रभावाज्जात्यायुषी । केषांचिज्जातिरेव . । यथा तीव्रसंवेगेन दुष्टकर्मकृतां नहुषादीनां जात्यन्तरादिपरिणामः । उर्वश्याश्च कार्तिकेयवने लतारूपतया । एवं व्यस्तसमस्तरूपत्वेन यथायोगं योज्यम् ।। १२ ।। १ ख. न. 'मित्तं विना प° । २ ख. 'मुपदेशं । ३ क. स्थिताः स्ववृ । ४ क. यस्य तदभि । ५ क. तथा। २० . भोजदेवविरचितवृत्तिसमेतानि- [साध०पा०२सू०१३-१९] इदानीं कर्माशयस्य स्वभेदभिन्नं फलमाह--- ___ सति मूले तद्विपाको जात्यांयुर्भोगाः ॥ १३ ॥ मूलमुक्तलक्षणाः क्लेशाः । तेष्वनभिभूतेषु सत्सु कर्मणां कुशलाकुशलरूपाणां विपाकः फलं जात्यायुर्भोगा भवन्ति । जातिर्मनुष्यत्वादिः । आयुश्चिरकालमेकशरीरसंबन्धः । भोगा विषया इन्द्रियाणि सुखसंविदुःखसंविच्च कर्मकरणभावसाधनव्युत्पत्या भोगशब्दस्य । इदमत्र तात्पर्यम्-चित्तभूमावनादिकालसंचिताः कर्मवासना यथा यथा पाकमुपयान्ति तथा तथा गुणप्रधानभावेन स्थिता जात्यायुर्भोगलक्षणं स्वकार्यमारभन्ते ॥१३॥ उक्तानां कर्मफलत्वेन जात्यादीनां स्वकारणकर्मानुसारेण कार्यकर्तृत्वमाह-- ते ह्लादपरितापफलाः पुण्या- पुण्यहेतुत्वात् ॥ १४ ॥ ह्लादः सुखं, परितापो दुःखं. ह्लादपरितापौ फलं येषां ते तथोक्ताः । पुण्यं कुशलं कर्म, तद्विपरीतमपुण्यं. ते पुण्यापुण्ये कारणं येषां ते तेषां भावस्तस्मात् । एतदुक्तं भवति-पुण्यकर्म च्या जात्यायुर्भोगा ह्लादफला अपुण्यकर्मारब्धास्तु परितापफलाः । एतच्च प्राणिमात्रापेक्षया द्वैविध्यम् ॥ १४ ॥ योगिनस्त सर्वं दुःखभित्याह---- परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरो- धाच्च दुःखमेव सर्वं विवेकिनः ॥ १५॥ विवेकिनः परिज्ञातक्लेशादिविवेकस्य परिदृश्यमानं सकलमेव भोगसाधनं सविषं ग्वाद्भ्रमामिव दु.खमेव प्रतिकूलवेदनीयमेवेत्यर्थः । यस्मादत्यन्ताभिजातो योगी दु:खलेशेनाप्युद्धिजते । यथाऽक्षिपात्रमातन्तुस्पर्शमात्रेणैव महती पीडामनुभवति नेतरदङ्गं तथा विवेकी स्वल्पदुःखानुबन्धेनापि उद्विजते । कथमित्याह---परिणामतापसंस्कारदुःखैः । विषयाणामुपभुज्यमानानां यथायथं गर्धाभिवृद्धेस्नदप्राप्तिकृतस्य दुःखस्थापरिहार्यतया दुःखान्तरसाधनत्याचास्येव दुःखरूपतेति परिणामदुःखत्वम् । उपभुज्यमानेषु सुखसाधनेषु तत्प्रतिपन्थिनं प्रति द्वेषस्य सर्वदैवायस्थितत्वात्मुखानुभवकालेऽपि तापदुःखं दुष्परिहरमिति तापदुःखता । संस्कारदुःखत्वं च स्याभिमतानभिमतविषयसंनिधाने सुखसंविदुःखसंविच्चोपजायमाना तथाविधमेव स्वक्षेत्रे संस्कारमारभते । संस्काराच्च पुनस्तथाविधसंविदनुभव इत्यपरिमितसंस्कारोत्पत्तिद्वारेण संसारानुच्छेदासर्व- १ क.स्य स्वभेदभिमस्य स्व। २ क. सारियां का' । ३ ग, कारणे । ४ ख' घमणुत । NEJinni. ...- - - - MADRAS.4. २१ [साधःपा०२सू० १६-१८] पातञ्जलयोगसूत्राणि । स्यैव दुःखत्यम् । गुणवृत्तिविरोधाच्चेति । गुणानां सत्त्वरजस्तमसा या वृत्तयः सुखदुःखमोहरूपाः परस्परममिभाव्याभिभावकत्वेन विरुद्धा जायन्ते तासां सर्वत्रैव दुःखानुवेधादु:खत्वम् । एतदुक्तं भवति-ऐकान्तिकीमात्यन्तिकी च दुःखनिवृत्तिमिच्छतो विवेकिन उक्तरूपकारणचतुष्टयात्सर्वे विषया दुःखरूपतया प्रतिभान्ति । तस्मात्सर्वकर्मविपाको दुःखरूप एवेत्युक्तं भवति ॥ १५ ॥ तदेवमुक्तस्य क्लेशकर्माशयविपत्कराशेरविद्याप्रभवत्वादविद्यायाश्च मिथ्याज्ञानरूपतया सम्यग्ज्ञानान्छेद्यत्वात्सम्यग्ज्ञानस्य च साधनहेयोपादेयावधारणरूपत्वात्तदभिधानायाऽऽह~-- हेयं दुःखमनागतम् ॥ १६ ॥ भूतस्यातिक्रान्तत्वादनुभूयमानस्य च त्यक्तुमशक्यत्वादनागतमेव संसारदुःखं हातव्यमित्युक्तं भवति ।। १६ ॥ हेयहेतुमाह--- द्रष्टदृश्ययोः संयोगो हेयहेतुः ॥ १७ ॥ द्रष्टा चिद्रपः पुरुषः, दृश्यं बुद्धिसत्वं, तयोरविवेकख्यातिपूर्वको योऽसौ संयोगो भोग्यभोत्तृत्वेन संनिधानं स हेयस्य दुःखस्य गुणपरिणामस्य संसारस्य हेतुः कारणं तन्निवृत्त्या संसार निवृत्तिर्भवतीत्यर्थः ॥ १७ ॥ द्रष्टृदृश्ययोः संयोग इत्युक्तं, तत्र दृश्यस्य स्वरूपं कार्य प्रयोजनं चाऽऽह--- प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थ दृश्यम् ॥ १८ ॥ प्रकाशः सत्त्वस्य धर्मः, क्रिया प्रवृत्तिरूपा रजसः, स्थितिर्नियमरूपा तमसः, ताः प्रकाशक्रियास्थितयः शीलं स्वाभाविक रूपं यस्य तत्तथाविधीमिति स्वरूपमस्य निर्दिष्टम् | भूतेन्द्रियात्मकमिति । भूतानि स्थूलसूक्ष्मभेदेन द्विविधानि पृथिव्यादीनि गन्धतन्मात्रादीनि च । इन्द्रियाणि बुद्धीन्द्रियकर्मेन्द्रियान्त:करणभेदेन त्रिविधानि । उभयमेतद्ग्राह्यग्रहणरूपमात्मा स्वरूपाभिन्नः परिणामो यस्य तत्तथाविधमित्यनेनास्य कार्यमुक्तम् । भोगः कथितलक्षणः, अपवर्गो विवेकख्यातिपूर्विका संसारनिवृत्तिः, तौ भोगापवर्गावर्थः प्रयोजनं यस्य तत्तथाविधं दृश्यमित्यर्थः ॥ १८ ॥ सव २ख.न्ति तावत्स। ३ ख. खप।४ क. रूपस्य। १ख. म. प्र ५ ख.ग, 'यस्व। २२ . भोजदेवविरचितवृत्तिसमेतानि- [साध०पा०२सू०१९-२२] तस्य च दृश्यस्य नानावस्थारूपपरिणामात्मकस्य हेयत्वेन ज्ञातव्यत्वात्तदवस्थाः कथयिक तुमाह- विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि ॥ १९ ॥ गुणानां पर्वाण्यवस्थाविशेषाश्चत्वारो ज्ञातव्या इत्युपदिष्टं भवति । तत्र विशेषा महाभूतेन्द्रियाणि, अविशेषास्तन्मात्रान्तःकरणानि, लिङ्गमात्रं बुद्धिः, अलिङ्गमव्यक्तमित्युक्तम् । सर्वत्र त्रिगुणरूपस्याव्यक्तस्यान्वयित्वेन प्रत्यभिज्ञानादवश्यं ज्ञातव्यत्वेन योगकाले चत्वारि पर्वाणि निर्दिष्टानि ॥ १९ ॥ एवं हेयत्वेन दृश्यस्य प्रथमं ज्ञातव्यत्वात्तदवस्थासहितं व्याख्यायोपादेयं द्रष्टारं व्याख्या- तुमाह- द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः ॥ २० ॥ द्रष्टा पुरुषो दृशिमात्रश्चेतनामात्रः । मात्रग्रहणं धर्मधर्मिनिरासार्थम् । केचिद्धि चेतनामात्मनो धर्ममिच्छन्ति । स शुद्धोऽपि परिणामित्वाद्यभावेन स्वप्रतिष्ठोऽपि प्रत्ययानुपश्यः प्रत्यया विषयोपरक्तानि ज्ञानानि, तानि अनु अव्यवधानेन प्रतिसंक्रमाद्यभावेन पश्यति । एतदुक्तं भवति-जातविषयोपरागायामेव बुद्धौ संनिधिमात्रेणैव पुरुषस्य द्रष्टृत्वमिति ॥२०॥ स एव भोक्तेत्याह--- तदर्थ एव दृश्यस्याऽत्मा ॥२१॥ दृश्यस्य प्रागुक्तलक्षणस्याऽऽत्मा यत्स्वरूपं स तदर्थस्तस्य पुरुषस्य भोक्तृत्वसंपादनं नाम स्वार्थपरिहारेण प्रयोजनम् । न हि प्रधानं प्रवर्तमानमात्मनः किंचित्प्रयोजनमपेक्ष्य प्रवर्तते किंतु पुरुषस्य भोग संपादयामीति ॥ २१ ॥ यद्येवं पुरुषस्य भोगसंपादनमेव प्रयोजनं तदा संपादिते तस्मिंस्तन्निष्प्रयोजनं विरतव्यापारं स्यात् । तस्मिश्च परिणामशून्ये शुद्धत्वात्सर्वे द्रष्टारो बन्धरहिताः स्युः । ततश्च संसारोच्छेद इत्याशङ्कयाऽऽह- कृतार्थं प्रति नष्टमप्यनष्टं तदन्य- साधारणत्वात् ॥ २२ ॥ यद्यपि विवेकख्यातिपर्यन्ताद्भोगसंपादनात्कमपि कृतार्थं पुरुषं प्रति तन्नष्टं विरतव्यापार तथाऽपि सर्वपुरुषसाधारणत्वादन्या प्रत्यनष्टव्यापारमवतिष्ठते । अतः प्रधानस्य १ क. र वक्तुमा । २ म. व्याकर्तुमा । ३ क. °न सुप्र । ४ क. नि पिज्ञा ।५ क. भोक्तृत्व संपादयितुमिति । ६ क. ततः। सकलभोक्तसाधारणत्वाने कदाचिदपि विनाशः । एकस्य मुक्तौ वा न सर्वमुक्तिप्रसङ्ग इत्युक्तं भवति ॥ २२ ॥[१४२]  दृश्यद्रष्टारौ च्यस्वयाय संयोग व्याख्यातुमाह-

 स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः ॥ २३ ॥[१४३] कार्यद्वारेणास्ब लक्षणं करोति, स्वशक्तिदृश्यस्य स्वभावः, स्वामिशक्तिद्रष्टुः स्वरूपं, तयोर्द्वयोरपि संवेद्यसंवेदकत्वेन व्यवस्थितयोर्या स्वरूपोपलब्धिस्तस्याः कारणं यः स संयोगः । स च सहजभोग्यभोक्तभावस्वरूपान्नान्यः । न हि तयोनित्ययोर्व्यापकयोश्च स्वरूपादतिरिक्तः कश्चित्संयोगः । यदेव भोग्यस्य भोग्यत्वं भोक्तुश्च भोक्तत्वमनादिसिद्ध स एव संयोगः ॥ २३ ॥[१४४] तस्यापि कारणमाह-

 तस्य हेतुरविद्या ॥ २४ ॥[१४५]
या पूर्व विासात्मिका मोहरूपाऽविद्या व्याख्याता सा तस्य विवेकाख्यातिरू.
पस्य संयोगस्य कारणम् ॥ २४ ॥[१४६]
हेयं हानक्रियाकर्मोच्यते । किं पुनस्तद्धानमित्यत आह--- १
तदर्भावे संयोगाभावो हाने
तद्द्दशेः कैवल्यम् ॥२५॥[१४७]
तस्या अविद्यायाः स्वरूपविरुद्धेन सम्यग्ज्ञानेनोन्मूलिताया योऽयमभावस्तस्मिन्सति
तत्कार्यस्य संयोगस्याप्यभावस्तद्धानमित्युच्यते । अयमर्थ:---तस्य मूर्तद्रव्यवत्परित्यागो
युज्यते किंतु जातायां विवेकल्यातावविवेकनिमित्तः संयोगः स्वयमेव निवर्तत इति
तस्य हानम् । यदेव च संयोगस्य हानं तदेव नियं केवलस्थापि पुरुषस्य कैवल्यं व्यप-
दिश्यते ॥ २५॥
तदेवं संयोगस्य स्वरूपं कारणं कार्य चाभिहितम् । अथ हानोपायकथनद्वारेणोपा.
देयकारणमाह---
विवेकख्यातिरविप्लवा हानोपायः ॥ २६॥[१४८]
अन्ये गुणा अन्यः पुरुष इत्येवंविधस्य विवेकस्य या ख्याति: प्रख्या साऽस्य
हानस्य. दृश्यपरित्यागस्योपायः कारणम् । कीदृशी, अविप्लवा न विद्यते विप्लत्रो
विच्छेदोऽन्तराऽन्तरा व्युत्थानरूपो यस्याः साऽविप्लवा । इदमत्र तात्पर्यम्-प्रतिपक्ष-
१ ग. °न कृतार्थता नापि । २ क. °हजो भो । ३ क. म.. 'मित्याह । ४ ख. ग.
भावात्सयो । ५ क. 'तस्थामर्नवस्नुनो विभागो। ६ रु. व दृश्यसं ७ क, यदुःखप ।

२४ . भोजदेघविरचितवृत्तिसमेतानि- [साध०प०२सू०२७-२९]

     भावनावलादविद्य प्रविलये विनिवृत्तकर्तृत्वभोक्तवाभिमानाया रजस्तमोमलानभिभूताया  बुद्धे.
     रन्तर्मुखाया  या  चिछायासंक्रान्तिः सा विवेकख्यातिरुच्यते । तस्यां  च संततत्वेन  प्रवृ.
     त्तायां सत्यां दृश्यस्याधिकारनिवृत्तेर्भवत्यैव फैवल्पम् ।। २६ ॥
         उत्पन्न विवेकख्यातेः पुरुषस्य यादृशी प्रज्ञा भवति  तां  कथयन्विकल्यातरेव  स्वरू-
     पमाह --
                   तस्य सप्तधा प्रान्तभूमौ प्रज्ञा ॥ २७ ॥
         तस्योपनधिवकज्ञानस्य   ज्ञातव्यविवेकरूपा  प्रज्ञा  प्रान्तभूमौ  सकलसालम्बनसमा-
     विभूमिपर्यन्ते सप्तप्रकारा भवति । तत्र कार्यविमुक्तिरूपा  चतुष्प्रकारा-ज्ञातं  मया  ज्ञेयं
     न ज्ञातव्यं किंचिदस्ति, क्षीणा मे क्लेशा  न  किंचिक्षेतव्यमस्ति, अधिगतं  मया  ज्ञानं,
     प्राप्ता  मया  विवेकख्यातिरिति  ।  प्रत्ययान्तरपरिहारेण  तस्यामवस्थायामीदृश्येव  प्रज्ञा
     आयते । ईदृशी प्रज्ञा कार्यविषयं निर्मलं ज्ञानं कार्यविमुक्तिरित्युच्यते । चित्तविमुक्तिस्त्रिधा-
     चरितार्था मे  बुद्धिगुणा हृताधिकारा मिरिशिखरनिपतिता इव ग्रावाणो  न  पुनः  स्थिति
     यास्यन्ति,  स्वकारणे  प्रविलयामिमुग्लानां  गुणानां   मोहाभिधानमूलकारणाभावान्निष्प्रयो.
     जनत्वाच्चाभीषां कुतः  प्ररोहो भवेत् , सामीभनश्च  में  समाधिस्तस्मिन्सति  स्वरूपप्रति.
     टोऽहमिति । ईदशी  त्रिप्रकारा  चित्तविमुक्तः  ।  तदेवमादृश्यां  सप्तविधप्रान्तभूमिप्रज्ञा-
     यामुपजातायां पुरुषः केवल इत्युच्यते ॥ २७ ॥
         विवेकख्यातिः संयोगाभावहेतुरित्युक्तं,  तस्यास्तूत्पत्तौ  कि  निमित्तमित्यत  आह --
                    योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञान-
                    दीप्तिरा विवेकख्यातेः ॥ २८ ॥'
         योगङ्गानि  वक्ष्यमाणानि  तेषामनुष्ठानाज्ज्ञानपूर्वकादम्यामादा  विवेकल्यातेरशुद्धिक्षये
      चिञ्चसत्त्वस्य प्रकाशावरणलक्षणक्लेशरूपाशुद्धिक्षये  या  ज्ञानदीप्तिस्तारतम्येन  सात्विकः
      परिणामो विवेकख्यातिपर्यन्तः स तस्याः ख्यातेहेतु रित्यर्थः ॥ २८ ॥
         योगाङ्गानुष्ठानादशुद्धिक्षय इत्युक्तं, कानि पुनस्तानि योगाङ्गानीति तेपःमद्देशमाह --
                   यमनियमासनप्राणायामप्रत्याहारधार.
                   णाध्यानसमाधयोऽष्टावङ्गानि ॥ २९ ॥'
         इह  कानिचित्समाधैः  साक्षादुपकारकचेनान्तरङ्गाणि,  यथा  धारगादीनि । कानि.
      चित्पतिपक्षभूतहिंसादिवितर्कोन्मूलनद्वारेण  समाधिमुपकुर्वन्ति  ।  यथा यमनियमादीनि ।
     --------------------------------------------------------------
       १ ख. ग. सज्ञातृत्वकर्तृ-या । २ क. या चि। ३ क भ म । ४ क. "विपर्यन्तं
   स। ५ख, कुशल।' साध०पा०२सू०३०-३३] पातञ्जलयोगसूत्राणि ।

तत्राऽऽसनादीनामुत्तरोत्तरमुपकारकत्वम् । तद्यथा----सत्यासनजये प्राणायामस्थैर्यम् । एषमुत्तरत्रापि योज्यम् ॥ २९॥ क्रमेणैषां स्वरूपमाह--- . अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः ॥३०॥ तंत्र प्राणवियोगप्रयोजनव्यापारो हिंसा । सा च सर्वानर्थहेतुः । सदभावोऽहिंसा । हिंसायाः सर्वप्रकारेणैव परिहार्यत्वात्प्रथमं तदभावरूपाया अहिंसाया 'निर्देशः । सत्यं वाङ्मनसयोर्यथार्थत्वम् । स्तेयं परस्यापहरणं तदभावोऽस्तेयम् । ब्रह्मचर्यमुपस्थसंयमः । अपरिग्रहो भोगसाधनामामनङ्गीकारः । त एतेऽहिंसादयः पञ्च यमशब्दवाच्या योगाङ्गत्वेन निर्दिष्टाः ॥ ३० ॥ एषां विशेषमाह- एते जातिदेशकालसमयानवच्छिन्नाः सावर्भौमा महाव्रतम् ॥ ३१ ॥ जातिर्ब्राह्मणत्वादिः । देशस्तीर्थादिः । कालश्चतुर्दश्यादिः । समयो ब्राह्मणप्रयोजनादिः । एतैश्चतुर्भिरनवच्छिन्नाः पूर्वोक्ता अहिंसादयो यमाः सर्वासु क्षिप्तादिषु चित्तभूमिषु भवा महाव्रतमित्युच्यते । तद्यथा--ब्राह्मणं न हनिष्यामि तीर्थे न कंचन हनिष्यामि चतुर्दश्यां न हनिष्यामि देवब्राह्मणप्रयोजनव्यतिरेकेण कमपि न हनिष्यामीति । एवं चतुर्विधावच्छेदव्यतिरेकेण किंचित्क्वचित्कदाचित्कस्मिंश्चिदर्थे न हनिष्यामीत्यनवच्छिन्ना । एवं सत्यादिषु यथायोगं योज्यम् । इत्थमनियतीकृताः सामान्येनैव प्रवृत्ता महाव्रतमित्युच्यते न पुनः परिच्छिन्नावधारणम् ॥ ३१ ।। नियमानाह- शौचसंतोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः ॥ ३२ ॥ शौचं द्विविधं बाह्यमाभ्यन्तरं च । बाह्यं मृज्जलादिभिः कायादिप्रक्षालनम् आभ्यन्तरं मैत्र्यादिभिश्चित्तमलानां प्रक्षालनम् । संतोषस्तुष्टिः । शेषाः प्रागेव कृतव्याख्यानाः । एते शौचादयो नियमशब्दवाच्याः ॥ ३२ ॥ कथमेषां योगाङ्गत्वमित्यत आह- वितर्कबाधने प्रतिपक्षभावनम् ।। ३३ ।। वितर्क्यन्त इति वितर्का योगपरिपन्थिनो हिंसादयस्तेषां प्रतिपक्षभावने सति यद बाधा भवति तदा योगः सुकरो भवतीति भवत्येव यमनियमानां योगाङ्गत्वम् ॥ ३३ ॥ १ ख. 'यो । २ ख. वकालं प । ग. कालमेव । ३ ख. क्यन्ते । त।

२६
भोजदेवविरचितवृत्तिसमेतानि- [साध०पा० २सू०३४-३६]

इदानी वितर्काणां स्वरूपं भेदप्रकारं कारणं फलं च क्रमेणाऽऽह-

वितर्का हिंसादयः कृतकारितानुमोदिता लोभ-
क्रोधमोहपूर्वका मृदुमध्याधिमात्रा दुःखाज्ञा-
नानन्तफला इति प्रतिपक्षमावनम् ॥३४ ॥

 एते पूर्वोक्ता [षितर्का] हिंसादयः प्रथमं त्रिधा भिद्यन्ते कृतकारितानुमोदिता (त) भेदेन । तत्र स्वयं निष्पादिताः कृताः । कुरु कुर्विति प्रयोजकव्यापारण समुत्पादिताः कारिताः । अन्येन क्रियमाणाः साधित्यङ्गीकृता अनुमोदिताः। एतच्च त्रैविध्यं परस्पर- व्यामोहनिवारणायोच्यते । अन्यथा मन्दमतिरेवं मन्येत न मया स्वयं हिंसा कृतेति नास्ति मे दोष इति । एतेषां कारणप्रतिणदनाय लोभक्रोधमोहपूर्वका इति । यद्यपि लोभः प्रथमं निर्दिष्टस्तथाऽपि सर्वक्लेशानां मोहस्यानामनि आत्माभिमानलक्षणस्य निदानत्वा- त्तस्मिन्सति स्वपरविभागपूर्वकत्वेन लोभक्रोधादीनामुद्भवान्मूलत्वमवसेयम् । मोह- पूर्षिका सर्वा दोषजातिरित्यर्थः । लोभस्तष्णा । क्रोधः कृत्याकृत्यविवेकोन्मूलकः प्रज्व- लनात्मकश्चित्तधर्मः । प्रत्येकं कृतादिभेदेन त्रिप्रकारा अपि. हिंसादयो मोहादिकारण. खेन त्रिधा भिद्यन्ते । एषामेव पुनरवस्थाभेदेन त्रैविध्यमाह.---मृदुमध्याधिमात्राः । मृदवो मन्दा न तीवा नापि मध्या मध्या नापि मन्दा नापि तीव्राः । अधिमात्रा. स्तीत्राः । पाश्चात्त्या नत्र भेदाः । इत्थं त्रैविध्ये सति सप्तविंशतिर्भवति । मृदादीन। मपि प्रत्येकं मृदुमध्याधिमात्रभेदात्रैविध्यं संभवति । तद्यथायोगं योज्यम् । तद्यथा --- मृदुमदुर्मुदुमध्यो मृदुतीव्र इति । एषां फलमाह---दुःस्वाज्ञानानन्तफलाः। दुःखं प्रतिकूलतयाऽवभासमानो राजसश्चित्तधर्मः । अज्ञानं मिथ्याज्ञानं संशयविपर्ययरूपं, ते दुःखाज्ञाने अनन्तमपरिच्छिन्नं फलं येषां ते तथोक्ताः । इत्थं तेषां स्वरूपकारणादिभेदेन ज्ञातानां प्रतिपक्षभावनया योगिना परिहारः कर्तव्य इत्युपदिष्टं भवति ॥ ३४ ॥ .  एषामभ्यासवशात्प्रकर्षमागच्छतामनुनिष्पादिन्यः सिद्धयो यथा भवन्ति तथा क्रमेण प्रतिपादयितुमाह---

 

अहिंसाप्रतिष्ठायां तत्संनिधौ वैरत्यागः ॥३५॥

 तस्याहिंसां भावयतः संनिधौ सहजविरोधिनामप्यहिनकुलादीनां वैरत्यागो निर्मत्स- रतयाऽवस्थानं भवति । हिंस्रा अपि हिंस्रत्वं परित्यजन्तीत्यर्थः ॥ ३५ ।। सत्याभ्यासवतः किं भवतीत्याह---

सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् ॥ ३६ ॥

क्रियाणा हि क्रिया यागादिकाः फलं स्वर्गादिकं प्रयन्छन्ति । तस्य तु सत्या-

______________________________________________________________________

१ क. ग. मोदनभे । २ ख. लोभकोधौ । ३ ख. दिटो तथाऽ । ४ ख. ग. "ते। तेषां । ५. स्तीवा इति न" । ६ ग. शतिः । म'। ७ दिका फ'। ८ ख. 'च्छति ।। साध०पा०२सू०३७-४१] पातञ्जलयोगसूत्राणि । २७. भ्यासवतो योगिनस्तथा सत्यं प्रकृष्यते यथा क्रियायामकृतायामपि योगी फलमाप्नोति । तद्वचनाद्यस्य कस्यचित्क्रियामकुर्वतोऽपि क्रियाफलं भवतीत्यर्थः ।। ३६ ॥ अस्तेयाभ्यासवतः फलमाह- अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् ।। ३७॥ अस्तेयं यदाऽभ्यस्यति तदाऽस्य तत्प्रकर्षानिरभिलाषस्यापि सर्वतो दिव्यानि रत्नानि उपतिष्ठन्ते ॥ ३७ ॥ ब्रह्मचर्याभ्यासस्य फलमाह- ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः ॥ ३८॥ यः किल ब्रह्मचर्यमभ्यस्यति तस्य तत्प्रकर्षान्निरतिशयं वीर्य सामर्थ्यमाविर्भवति । वीर्यनिरोधो हि ब्रह्मचर्य तस्य प्रकर्षाच्छरीरेन्द्रियमनःसु वीर्यं प्रकर्षमागच्छति ॥ ३८ ॥ अपरिग्रहाभ्यासस्य फलमाह- अपरिग्रहस्थैर्ये जन्मकतासंबोधः ॥ ३९ ॥ कथमित्यस्य भावः कथंता जन्मनः कथंता जन्मकथंता तस्याः संबोधः सम्यग्ज्ञानं जन्मान्तरे कोऽहमासं कीदृशः किंकार्यकारीति जिज्ञासायां सर्वमेव सम्यग्जानातीत्यर्थः । न केवलं भोगसाधनपरिग्रह एव परिग्रहो यावदात्मनः शरीरुपरिग्रहोऽपि. परिग्रहः, भोगसाधनत्वाच्छरीरस्य । तस्मिन्सति रागानुबन्धाद्बहिर्मुखायामेव प्रवृत्तौ न तात्विकज्ञानप्रादुर्भावः । यदा पुनः शरीरादिपरिग्रहनरपेक्ष्येण माध्यस्थ्यमवलम्बते. तदा मध्यस्थस्य रागादित्यागात्सम्यग्ज्ञानहेतुर्भवत्येव पूर्वापरजन्मसंबोधः ॥ ३९ ॥ उक्ता यमानां सिद्धयः । अथ नियमानामाह --- __शौचात्स्वाङ्गजुगुप्सा परैरसंसर्गः ॥ ४० ॥ यः शौचं भावयति तस्य. स्वाङ्गेष्वपि कारणस्वरूपपर्यालोचनद्वारेण, जुगुप्सा घृणा समुपजायतेऽशुचिरयं कायो नात्राऽऽग्रहः कार्य इति । अमुनैव हेतुना परैरन्यैश्च कायवद्भिरसंसर्गः संसर्गाभावः संसर्गपरिवर्जनमित्यर्थः । यः किल स्वमेव कायं जुगुप्सते तत्तदवद्यदर्शनात्स कथं परकीयैस्तथाभूतैः कायैः संसर्गमनुभवति. ॥ ४० ॥ शौचस्यैव फलान्तरमाह- सत्त्वशुद्धिसौमनस्यैकोग्र्येन्द्रियजया- त्मदर्शनयोग्यत्वानि च ॥ ४१ ॥ भवन्तीति वाक्यशेषः । सत्त्वं प्रकाशसुखाद्यात्मकं तस्य शुद्धी रजस्तमोभ्यामनभिभवः । १ ख. कथमो । २ व. ग. कर्तव्य । ३ क. 'कायतेन्द्रि। २८. . भोजदेवविरचितवृत्तिसमेतानि- [साथ०पा०२सू०४२-४६) सौमनस्य खेदाननुभवेन मानसी प्रीतिः । एकाग्रता नियतेन्द्रियविषये चेतसः स्थैर्यम् । इन्द्रियजयो विषयपराङ्मुखाणामिन्द्रियाणामात्मनि अवस्थानम् । आत्मदर्शने विवेकख्यातिरूपे चित्तस्य योग्यत्वं समर्थत्वम् । शौचाभ्यासवत एते सत्त्वशुद्धयादयः क्रमेण प्रादुर्भवन्ति । तथा हि-सत्त्वशुद्धेः सौमनस्यं सौमनस्यादैकाग्र्यमैकाग्र्यादिन्द्रियजय इन्द्रियजयादात्मदर्शनयोग्यतेति ।। ४१॥ संतोषाभ्यासस्य फलमाह- संतोषादनुत्तमः सुखलामः ॥ ४२ ॥ संतोषप्रकर्षेण योगिनस्तथाविधमान्तरं सुखमाविर्भवति । यस्य बाह्यविषयसुखं शतांशेनापि न समम् ॥ ४२ ।। तपसः फलमाह-- कायेन्द्रियसिद्धिरशुद्धिक्षयात्तपसः ॥ ४३ ॥ तपः समभ्यस्यमानं चेतसः क्लेशादिलक्षणाशुद्धिक्षयद्वारेण कायेन्द्रियाणां सिद्धिमुत्कर्षमादधाति । अयमर्थ:-चान्द्रायणादिना चित्तक्लेशक्षयस्तत्क्षयादिन्द्रियाणां सूक्ष्मव्यवहितविप्रकृष्टदर्शनादिसामर्थ्यमाविर्भवति । कायस्य यथेच्छमणुत्वमहत्त्वादीनि ॥ ४३ ॥ स्वाध्यायस्य फलमाह- स्वाध्यायादिष्टदेवतासंप्रयोगः ॥ ४४ ॥ अभिप्रेतमन्त्रजपादिलक्षणे स्वाध्याये प्रकृष्यमाणे योगिन इष्टयाऽभिप्रेतया देवतया संप्रयोगो भवति । सा देवता प्रत्यक्षा भवतीत्यर्थः ॥ ४४ ॥ ईश्वरप्रणिधानस्य फलमाह- ___ समाधिसिद्धिरीश्वरप्रणिधानात् ॥ ४५ ॥ ईश्वरे यत्पणिधानं भक्तिविशेषस्तस्मात्समाधेरुक्तलक्षणस्याऽऽविर्भावो भवति । यस्मात्स भगवानीश्वरः प्रसन्नः सन्नन्तरायरूपान्क्लेशान्परिहत्य समाधिं संबोधयति ॥ ४५ ॥ यमनियमानुक्त्वाऽऽसनमाह- स्थिरसुखमासनम् ॥ ४६ ॥ आस्यतेऽनेनेत्यासनं पद्मासनदण्डासनस्वस्तिकासनादि । तद्यदा स्थिरं निष्कम्पं सुखमनुद्वैजनीयं च भवति तदा योगाङ्गतां भजते ॥ ४६ ।। स. १ ख. निरूपिता । इ । २. यतदि । ३ ख. सवतः फ।४ क. र्षे यो मैं तथा । ५ ख. बाह्य सुखं ले0 1 ६ ख. ग. °दा तयोगा। [साध०पा०२सू०१७-६०] पातञ्जलयोगसूत्राणि । तस्यैव स्थिरसुखत्वप्राप्त्यर्थमुपायमाह-- प्रयत्नशैथिल्यानन्त्यसमापत्तिभ्याम् ॥ ४७ !! तदासनं प्रयत्नशैथिल्येनाऽऽनन्त्यसमापत्त्या च स्थिरं सुखं भवतीति संबन्धः । यदा यदाऽऽसनं बध्नामीतीच्छां करोति प्रयत्नशैथिल्येऽपि अक्लेशेनैव तदा तदाऽऽसनं संपद्यते । यदा चाऽऽकाशादिगत आनन्त्ये चेतसः समापत्तिः क्रियतेऽवधानेन तादात्म्यमापद्यते तदा देहाहंकाराभावान्नाऽऽसनं दुःखजनकं भवति । अस्मिंश्चाऽऽसनजये सति समाध्यन्तरायभूता न प्रभवन्ति अङ्गमेजयत्वादयः ॥ ४७ ॥ तस्यैवानुनिष्पादि फलमाह- ततो द्वंद्वानभिघातः॥४८॥ तस्मिन्नासनजये सति द्वंद्वैः शीतोष्णक्षुत्तृष्णादिभिर्योगी नाभिहन्यत इत्यर्थः ॥ १८ ॥ आसनजयानन्तरं प्राणायाममाह- तस्मिन्सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः ॥ ४९ ॥ __ आसनस्थैर्ये सति तन्निमित्तकः प्राणायामलक्षणो योगाङ्गविशेषोऽनुष्ठेयो भवति । कीदृशः, श्वासप्रश्वासयोर्गतिविच्छेदलक्षणः । श्वासप्रश्वासौ निरुक्तौ । तयोस्त्रिधा रेचैर्नस्तम्भनपूरणद्वारेण बाह्याभ्यन्तरेषु स्थानेषु गतेः प्रवाहस्य विच्छेदो धारणं प्राणायाम उच्यते ॥ ४९॥ तस्यैव सुखावगमाय विभज्य स्वरूपं कथयति-- स तु बाह्याभ्यन्तरस्तम्भवृत्तिर्देशकालसं- ख्याभिः परिदृष्टो दीर्घसूक्ष्मः ॥ ५० ॥ बाह्यवृत्तिः श्वासो रेचकः । अन्तर्वृत्तिः प्रश्वासः पुरकः । अन्तस्तम्भवृत्तिः कुम्भकः । तस्मिञ्जलमिव कुम्भे निश्चलतया प्राणा अवस्थाप्यन्त इति कुम्भकः । त्रिविधोऽयं प्राणायामो देशेन कालेन संख्यया चोपलक्षितो दीर्घसूक्ष्मसंज्ञो भवति । देशेनोपलक्षितो यथा-नासाद्वादशान्तादौ । कालेनोपलक्षितो यथा-षट्त्रिंशन्मात्रादिप्रमाणः । संख्ययोपलक्षितो यथा-इयतो वारान्कृत एतावद्भिः श्वासप्रश्वासै: प्रथम उद्धातो भवतीति । एतज्ज्ञानाय संख्याग्रहणमुपात्तम् । उद्धातो नाम नाभिमूलात्प्रेरितस्य वायोः शिरसि अभिहननम्॥ ५० ॥ १ क. 'तेऽव्यय । २ क. 'दितं फ° । ३ क. ग. यादन ४ ख. ग. कृतलक्षणी ५ ख. ग. 'चनाक्षेपणपू । ६ क. आन्तरस्तम्भकवृत्तिः । ७ ग. दौ । नासामारभ्य दादशा. छ मुलपर्यन्तमित्यर्थः । का। ३० . भोजदेवविरचितवृत्तिसमेतानि- [साध०पा०२सू०५१-५५]

        श्रीन्प्राणायामानभिधाय चतुर्थमभिधातुमाह-
                   बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः ॥ ५१ ॥ .
         प्राणस्य बाह्यो विषयो नासाद्वादशान्तादिः । आभ्यन्तरो विषयो हृदयनाभिचक्रादिः ।
       तौ द्वौ विषयावाक्षिप्य पर्यलोज्य यः स्तम्भरूपो गतिविच्छेदः  स  चतुर्थः प्राणायामः ।
       तृतीयस्मात्कुम्भकाख्यादयमस्य विशेषः-स   बाह्याभ्यन्तरविषयावपर्यालोच्यैव ' सहसा
       तप्तोपलनिपतितजलन्यायेन  युगपत्स्तम्भवृत्या निष्पद्यते । अस्य  तु  विषयद्वक्षिपको
       निरोधः । अयमपि पूर्वदेशकालसंख्यामिरुपलक्षितो द्रष्टव्यः ॥ ५१ ॥
         चतुर्विधस्यास्य फलमाह-
                   ततः क्षीयते प्रकाशावरणम् ॥ ५२ ॥
         ततस्तस्मात्प्राणायामात्प्रकाशस्य चित्तसत्त्वगतस्य यदावरणं क्लेशरूपं तत्क्षीयते विनश्य-
       तीत्यर्थः ॥ ५२ ।।
         फलान्तरमाह-
                   धारणासु च योग्यता मनसः ॥ ५३ ॥
         धारणा वक्ष्यमाणलक्षणास्तासु प्राणायामैः क्षीणदोषं मनो यत्र यत्र धार्यते तत्र तत्र
       स्थिरी भवति न विक्षेपं भजते ।। ५३ ॥
         प्रत्याहारस्य लक्षणमाह---
                   स्वविषयासंप्रयोगे चित्तस्वरूपानुकार
                   इवेन्द्रियाणां प्रत्याहारः ॥ ५४ ॥'
         इन्द्रियाणि विषयेभ्यः प्रतीपमाहियन्तेऽस्मिन्निति प्रत्याहारः । स  च  कथं    निष्पद्यत 
       इत्याह-चक्षुरादीनामिन्द्रियाणां  स्वविषयो रूपादिस्तेन  संप्रयोग्यस्तदाभिमुख्येन    वर्तनं
      'तदभावस्तदाभिमुख्यं परित्यज्य स्वरूपमात्रेऽवस्थानं, तस्मिन्सति चित्तस्वरूपमात्रानुकारी-
       जीन्द्रियाणि भवन्ति । यतश्चित्तमनु वर्तमानानि  मधुकरराजमिवे  मक्षिकाः   सर्वाणीन्द्रि-
       याणि प्रतीयन्तेऽतश्चित्तनिरोधे तानि प्रत्याहृतानि भवन्ति । तेषां तत्स्वरूपानुकारः  प्रत्या-
       हार उक्तः ॥ १४ ॥
            प्रत्याहारफलमाह-
                   ततः परमा वश्यतेन्द्रियाणाम् ॥ ५५ ॥
            अभ्यस्यमाने  हि  प्रत्याहारे तथा वश्यानि  आयत्तानीन्द्रियाणि  संपद्यन्ते  यथा
       बाह्यविषयाभिमुखतां नीयमानान्यपि न यान्तीत्यर्थः । तदेवं प्रथमपादोक्तलक्षणस्य.

       '१ ग. ॰लोचयतः स्त° । २ क. निष्पाद्यते । ३ ख. ॰क्यापेक्षको । ४ क. ॰यापेक्षको ॰व मधुम॰ । ग. ॰व मधुकरम॰ । ६ क. ॰कयो॰ ।' [विभू०पा०३०१] पातञ्जलयोगसूत्राणि ।

योगस्याङ्गभूतक्लेशतनूकरणफलं क्रियायोगमभिधाय क्लेशानामुद्देशं स्वरूपं कारणं क्षेत्र फलं चोक्त्वा कर्मणामपि भेदं कारणं स्वरूपं फलं चाभिधाय विपाकस्य स्वरूपं कारणं चाभिहितम् । ततस्त्याज्यत्वात्क्लेशादीनां ज्ञानव्यतिरेकेण त्यागस्याशक्यत्वाज्ज्ञानस्य च शास्त्राय- त्तत्वाच्छास्त्रस्य च हेयेहानकारणोपादेयोपादानकारणबोधकत्वेन चतुर्व्यूहत्वाद्धेयस्य च हानव्यतिरेकेण स्वरूपानिष्पत्तेहानसहितं चतुर्व्यूहं स्वस्वकारणसहितमभिधायोपादेयकारणभूताया विवेकख्यातेः कारणभूतानामन्तरङ्गबहिरङ्गभावेन स्थितानां योगाङ्गानां यमादीनां स्वरूपं फलसहितं व्याकृत्याऽऽसनादीनां धारणापर्यन्तानां परस्परमुपकार्योपकारकभावेनावस्थितानामुद्देशमभिधाय प्रत्येकं लक्षणकरणपूर्वकं फलमभिहितम् । तदयं योगो यमनियमादिभिः प्राप्तबीजभाव आसनप्राणायामेरङ्कुरितः प्रत्याहारेण पुष्पितो ध्यानधारणासमाधिभिः फलिष्यतीति व्याख्यातः साधनपादः ॥ ५५ ।। इति श्रीमहाराजाधिराजभोजदेवविरचितायां राजमार्तण्डाभिधायां पातञ्जलयोगशास्त्रसूत्रवृत्तौ साधनपादो द्वितीयः ॥ २॥ अथ भोजदेवविरचितवृत्तिसहितयोगसूत्रेषु तृतीयो विभूतिपादः। यत्पादपद्मस्मरणादणिमादिविभूतयः । भवन्ति भविनामस्तु भूतनाथः स भूतये ॥ २ ॥ तदेवं पूर्वोद्दिष्टं धारणाद्यङ्गत्रयं निर्णेतुं संयमसंज्ञाभिधानपूर्वकं बाह्याभ्यन्तरादिसिद्धिप्रतिपादनाय लक्षयितुमुपक्रमते । तत्र धारणायाः स्वरूपमाह--- देशबन्धश्चित्तस्य धारणा ॥१॥ देशे नाभिचक्रनासाग्रादौ चित्तस्य बन्धो विषयान्तरपरिहारेण यत्स्थिरीकरणं सा चित्तस्य धारणोच्यते । अयमर्थः--मैत्र्यादिचित्तपरिकर्मवासितान्त:करणेन यमनियमवता जितासनेन परिहतप्राणविक्षेपेण प्रत्याहृतेन्द्रियग्रामेण निर्बाधे प्रदेश ऋजुकायेन जितद्वंद्वेन योगिना नासाग्रादौ संप्रज्ञातस्य समाधेरभ्यासाय चित्तस्य स्थिरीकरणं कर्तव्यमिति ॥१॥ १ ग. हेयाइयका । २ ख. °यका । ३ ख. ग. गत्ये । ४ म. पादानका ५ ग. कुसुमितो । ६ ख. नि भावि । ७ ख. जाविधा । ८ ख. नरसि । ९ ख. शभंव' ।

१० ख. °स्य संब।

३२ . भोजदेवविरचितवृत्तिसमेतानि-

[विभू० पा० ३ सू०२-७ ]

धारणामभिधाय ध्यानमभिधातुमाह--

तत्र प्रत्ययकतानता ध्यानम् ॥२॥

तत्र तस्मिन्प्रदेशे यत्र चित्तं धृतं तत्र प्रत्ययस्य ज्ञानस्य यैकतानता विसदृशपरिणाम- परिहारद्वारेण यदेव धारणायामालम्बनीकृतं तदालम्बनतयैव निरन्तरमत्पत्तिः सा भ्यानम- ध्यते ॥२॥

चरम यगाङ्गं समाधिमाह--

तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः ॥ ३ ॥

तदेवोक्तलक्षणं ध्यानं यत्रार्थमात्रनिर्भासमर्थाकारसमावेशादुद्भूतार्थरूपं न्याभूतज्ञानस्व. रूपत्वेन स्वरूपशून्यतामिवाऽऽपद्यते स समाधिरित्युच्यते । सम्यगाधीयत एकाग्री क्रियते विक्षेपा-परिहृत्य मनो यत्र स समाधिः ॥ ३ ॥ उक्तलक्षणस्य योगाङ्गत्रयस्य व्यवहाराय स्वशास्त्रे तान्त्रिकी संज्ञा कर्तुमाहे--

त्रयमेकत्र संयमः॥४॥

एकस्मिन्विषये धारणाध्यानसमाधित्रयं प्रवर्तमानं संयमसंज्ञया शास्त्रे व्यवहियते ॥ ४ ॥

तस्य फलमाह-

तज्जयात्प्रज्ञालोकः ॥५॥

तस्य संयमस्य जयादभ्यासेन साम्योत्पादनात्पज्ञायां विवेकख्यातेरालोकः प्रसवो भवति । प्रज्ञा ज्ञेयं सम्यगवभासयतीत्यर्थः ॥ ५॥ तस्योपयोगमाह-

तस्य भूमिषु विनियोगः ॥ ६॥

तस्य संयमस्य भूमिषु स्थूलसूक्ष्मालम्बनभेदेन स्थितासु चित्तवृत्तिषु विनियोगः कर्तव्यः, अधरामधरां चित्तभूमि जितां जितां ज्ञात्वोत्तरस्या भूमौ संयमः कार्यः । न हानात्मीकृता- धरभूमिरुत्तरस्यां भूमौ संयम कुर्वाणः फलभाग्भवति ॥ ६ ॥ साधनपादे योगाङ्गान्यष्टावुद्दिश्य पञ्चानां लक्षणं विधाय त्रयाणां कथं न कृतमित्या. शङ्कयाऽऽह--

त्रयमन्तरङ्गं पूर्वेभ्यः ॥ ७॥

पूर्वेभ्यो यमादिभ्यो योगाङ्गेभ्यः पारम्पर्येण समाधेरुपकारकेभ्यो धारणादियोगाङ्गत्र संप्रज्ञातस्य समाधेरन्तरङ्ग समाधिस्वरूपनिष्पादनात् ॥ ७ ॥

१ ख. ग. यथार्य । २ ग. रूपमश्रुनं ज्ञा । ३ ख. ° शून्यज्ञा 1 ४ ख. ग. इ- तत्रय । ५ स. 'या ध्यातव्यावि। ग. या ज्ञातव्यवि'। ६ ख. "करूपाया आलो° । " "कस्वरूपाया आलो । ख. विकासो । ग. परो। ८ ख, घसाधारमी । ग, ह्यसामात्माता धार । ९ ख. 'यमम । [विभू०पा०२ ० ८-११) पातञ्जलयोगसूत्राणि । तस्यापि समाध्यन्तरापेक्षया बहिरङ्गत्वमाह- तदपि बहिरङ्गं निर्बीजस्य ॥ ८॥ निर्बीजस्य निरालम्बनस्य शून्यभावनापरपर्यायस्य समाधेरेतदपि योगाङ्गत्रयं बहिरङ्गं पारम्पर्येणोपकारकत्वात् ॥ ८ ॥ इदानीं योगसिद्धीराख्यातुकामः संयमस्य विषयपरिशुद्धिं कर्तुं क्रमेण परिणामत्रयमाह- व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ निरो- धक्षणचित्तान्वयो निरोधपरिणामः ॥ ९ ॥ व्युत्थानं क्षिप्तमृढविक्षिप्ताख्यं भूमित्रयम् । निरोधः प्रकृष्ट सत्त्वस्याङ्गितया चेतसः परिणामः । ताभ्यां व्युत्थाननिरोधाभ्यां यौ जनितौ संस्कारौ तयोर्थथाक्रममभिभवप्रादुर्भाव यदा भवतः । अभिभवो न्यग्भूततया कार्यकरणासामर्थेनावस्थानम् । प्रादुर्भावो वर्तमानेऽध्वनि अभिव्यक्तरूपतयोऽऽविर्भावः । तदा निरोधक्षणे चित्तस्योभयवृत्तित्वादन्वयो यः स निरोधपरिणाम उच्यते । अयमर्थः-यदा व्युत्थानसंस्काररूपो धर्मस्तिरोभूतो भवति, निरोधसंस्काररूपश्चाऽऽविर्भवति, धर्मिरूपतया च चित्तमुभेयान्वयित्वेऽपि निरोधत्मनाऽवस्थितं प्रतीयते, तदा स निरोधपरिणामशब्देन व्यवह्रियते । चलवाद्गुणवृत्तस्य यद्यपि चेतसो निश्चलत्वं नास्ति तथाऽपि एवंभूतः परिणामः स्थैर्यमुच्यते ॥ ९ ॥ तस्यैव फलमाह- तस्य प्रशान्तवाहिता संस्कारात् ॥ १० ॥ तस्य चेतस उक्तान्निरोधसंस्कारात्प्रशान्तवाहिता भवति । परिह्रतविक्षेपतया सदृशप्रवाहपरिणामि चित्तं भवतीत्यर्थः ॥ १ ॥ निरोधपरिणाममभिधाय समाविपरिणाममाह-. सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिविपरिणामः ॥ ११ ॥ सर्वार्थता चलत्वान्नानाविधार्थग्रहणं चितस्य विक्षेपो धर्मः । एकस्मिन्नेवाऽऽलम्बने सदृशपरिणामितैकाग्रता, साऽपि चित्तस्य धर्मः । तयोर्यथाक्रमं क्षयोदयौ सर्वार्थतालक्षणस्य धर्मस्य क्षयोऽयन्ताभिभव एकाग्रतालक्षणस्य धर्मस्य १ ख. म. योमाङ्गसि । २ क. ख. °धलक्ष°। ३ ग, न्यूनतया । ४ ख. ग. यस्य कारणेभ्योऽसामन्येना। ५ ख. ग. 'याऽवस्थामम् । त° । ६ क. ख. धलक्ष । ७ ख. । ८ क. यलक्षण । ९ ख. ग. 'भयत्रावयित्वेनाव । १० ख. ग. अस्यैव । ११ क. 'तसो निसका। ३४ . भोजदेवविरचितवृत्तिसमेतानि- [विभू०पा०३२०१२-१४] प्रादुर्भावोऽभिव्यक्तिश्चित्तस्यौद्रिक्तसत्त्वस्यान्वयितयाऽवस्थानं समाधिपरिणाम इत्युच्यते । पूर्वस्मात्परिणामादस्यायं विशेषः-तत्र संस्कारलक्षणयोधर्मयोरभिभवप्रादुर्भावौ पूर्वस्य व्युत्थानसंस्काररूपस्य न्यग्भावः । उत्तरस्य निरोधसंस्काररूपस्योद्भवोऽनभिभूतत्वेनावस्थानम् । इह तु क्षयोदयाविति सर्वार्थतारूपस्य विक्षेपत्यात्यन्ततिरस्कारादनुत्पत्तिरतीतेऽध्वनि प्रवेशः क्षय एकाग्रतालक्षणस्य धर्मस्योद्भवो वर्तमानेऽध्वनि प्रकटत्वम् ॥ ११ ॥ तृतीयमेकाग्रतापरिणाममाह- शान्तोदितौ तुल्यप्रत्ययौ चित्त- स्यैकग्रतापरिणामः॥ १२ ॥ समाहितस्यैव चित्तस्यैकप्रत्ययो वृत्तिविशेषः शान्तोऽतीतमध्वानं प्रविष्टः । अपरस्तूदितो वर्तमानेऽध्वनि स्फुरितः । द्वावपि समाहितचित्तत्वेन तुल्यावेकरूपालम्बनत्वेन सदृशौ प्रत्ययावुभयत्रापि समाहितस्यैव चित्तस्यान्वयित्वेनावस्थानं, स एकाग्रतापरिणाम इत्युच्यते ॥ १२ ॥ चित्तपरिणामोक्तं रूपमन्यत्राप्यतिदिशन्नाह- एतेन भूतेन्द्रियेषु धर्मलक्षणावस्था- परिणामा व्याख्याताः॥ १३ ॥ एतेन त्रिविधेनोक्तेन चित्तपरिणामेन भूतेषु स्थूलसूक्ष्मेषु इन्द्रियेषु बुद्धिकर्मलक्षणभेदेनावस्थितेषु धर्मलक्षणावस्थाभेदेन त्रिविधः परिणामो व्याख्यातोऽवगन्तव्यः । अवस्थितस्य धर्मिणः पूर्वधर्मनिवृत्तौ धर्मान्तरापत्तिः परिणामः । यथा---मूल्लक्षणस्य धर्मिणः पिण्डरूपधर्मपरित्यागेन घटरूपधर्मान्तरस्वीकारो धर्मपरिणाम इत्युच्यते । लक्षणपरिणामो यथा-तस्यैव घटस्यानागताधपरित्यागेन वर्तमानाध्वस्वीकारः । तत्परित्यागेन चातीताध्व- परिग्रहः । अवस्थापरिणामो यथा-तस्यैव घटस्य प्रथमद्वितीययोः सदृशयोः क्षणयोरन्वयित्वेन । यतश्च गुणवृत्तिर्परिणममाना क्षणमप्यस्ति ॥ १३ ।। ननु कोऽयं धर्मीत्याशङ्कय धर्मिणो लक्षणमाह- शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी ॥ १४ ॥ शान्ता ये कृतस्वस्वव्यापारा अतीतेऽध्वनि अनुपविष्टाः, उदिता येऽनागतमध्वानं परित्यज्यं वर्तमानेऽध्वनि स्वव्यापारं कुर्वन्ति, अव्यपदेश्या ये शक्तिरूपेण स्थिता १ क. कर्मान्तःकरण । २ क. पत्तिभर । ३ क. यो: कालजस । ४ ख. "ज्य व्या । ग. "ज्य स्वव्या । ३५ [विभू०पा०३ मू०१५-१६] पातञ्जलयोगसूत्राणि । व्यपदेष्टुं न शक्यन्ते तेषां यथास्वं सर्वात्मकत्वमित्येवमादयो नियतकार्यकारणरूपयोग्यतयाऽवच्छिन्ना शक्तिरेवेह धर्मशब्देनाभिधीयते । तं त्रिविधमपि धर्म योऽनुपतति अनुवर्ततेऽन्वयित्वेन स्त्री करोति स शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मात्युच्यते । यथा सुवर्णं रुचकरूपधर्मपरित्यागेन स्वस्तिकरूपधर्मान्तरपरिग्रहे सुवर्णरूपतयाऽनुवर्तमानं तेषु धर्मेषु कथंचिद्भिन्नेषु धर्मिरूपतया सामान्यात्मना धर्मरूपतया विशेषात्मना स्थितमन्वयित्वेनावभासते ॥ १४ ॥ एकस्य धर्मिणः कथमनेके परिणामा इत्याशङ्कामपनेतुमाह- क्रमान्यत्वं परिणामान्यत्वे हेतुः ॥ १५ ॥ धर्माणामुक्तलक्षणानां यः क्रमस्तस्य यत्प्रतिक्षणमन्यत्वं परिदृश्यमानं [ तत् ] परिणाम- स्योक्तलक्षणस्यान्यत्वे नानाविधत्वे हेतुर्लिङ्ग ज्ञापकं भवति । अयमर्थः-याऽयं नियतः क्रमो मृच्चूर्णान्मपिण्डस्ततः कपालानि तेभ्यश्च घट इत्येवंरूपः परिदृश्यमानः परिणामस्यान्यत्वमावेदयति, तस्मिन्नेव धर्मिणि यो लक्षणपरिणामस्यावस्थापरिणामस्य वा क्रमः सोऽपि अनेनैव न्यायेन परिणामान्यत्वे गमकोऽवगन्तव्यः । सर्व एव भावा नियतेनैव क्रमेण प्रतिक्षणं परिणममानाः परिदृश्यन्ते । अतः सिद्धं क्रमान्यत्वात्परिणामान्यत्वम् । सर्वेषां चित्तादीनां परिणममानानां केचिद्धर्माः प्रत्यक्षेणैवोपलभ्यन्ते । यथा सुखादयः संस्थानादयश्च । केचिच्चैकान्तेनानुमानगम्याः । यथा-धर्मसंस्कारशक्तिप्रभृतयः । धर्मिणश्च भिन्ना- भिन्नरूपतया सर्वत्रानुगमः ॥ १५ ॥ इदानीमुक्तस्य संयमस्य विषयप्रदर्शनद्वारेण सिद्धीः प्रतिपादयितुमाह- परिणामत्रयसंयमादतीतानागतज्ञानम् ॥ १६ ॥ धर्मलक्षणावस्थाभेदेन यत्परिणामत्रयमुक्तं तत्र संयमात्तस्मिन्विषये. पूर्वोक्तसंयमस्य कारणादतीतानागतज्ञानं योगिनः समाधेराविर्भवति । इदमत्र तात्पर्यम्----अस्मिन्धर्मिणि अयं धर्म इदं लक्षणमियमवस्था चानागतादध्वनः समेत्य वर्तमानेऽध्वनि स्वं व्यापारं विधायातीतमध्वानं प्रविशतीत्येवं परिहृतविक्षेपतया यदा संयमं करोति तदा यकिंचिदनुत्पन्नमतिक्रान्तं वा तत्सर्वं योगी जानाति । यतश्चित्तस्य शुद्धसत्त्वप्रकाशरूपत्वात्सर्वार्थग्रहणसामर्थ्य- मविद्यादिभिर्विक्षेपेरपक्रियते । यदा तु तैस्तैरुपायैर्विक्षेपाः परिहियन्ते तदा निवृत्तमलस्येवाऽऽदर्शस्य सर्वार्थग्रहणासामर्थ्यमेकाग्रताबलादाविर्भवति ॥ १६ ॥ १ क. ग. कमि १२ ख. 'मनुपातित्वे । म. °मनुयायित्वे । ३ क. धर्मा । ४ क. य. च । ५ क. 'गम्यमा । ६ क. गम्यमा । ७ ख. लक्ष्यन्ते । ८ क. °था सर्वसः । ९ के. 4. 'माधिर्म' । १० ग. 'स्था वाऽना । ११ ख. ग. रजस्रं परिहियते । ३६ . भोजदेवविरचितवृत्तिसमेतानि- [विभू०पा०३सू०१७-१९] सिद्धयन्तरमाह- शब्दार्थप्रत्ययानामितरेतराध्यासात्संकरस्त. त्प्रविभागसंयमात्सर्वभूतरुतज्ञानम् ॥ १७ ॥ शब्दः श्रोत्रेन्द्रियग्राह्यो नियतक्रमवर्णात्मा नियतैकार्थप्रतिपत्त्यवच्छिन्नः । यदि वा क्रमरहितः स्फोटात्मा शास्त्रसंस्कृतबुद्धिग्राह्यः । उभयथाऽपि पदरूपो वाक्यरूपश्च तयोरेकार्थप्रतिपत्तौ सामर्थ्यात् । अर्थो जातिगुणक्रियादिः । प्रत्ययो ज्ञानं विषयाकारा बुद्धिवृत्तिः । एषां शब्दार्थज्ञानानां व्यवहार इतरेतराध्यासाद्भिन्नानामपि बुद्धयेकरूपतासंपादनासंकीर्णत्वम् । तथा हि-गामानयेत्युक्ते कश्चिद्गोलक्षणमर्थं गोत्वजात्यवच्छिन्नं सास्नादिमत्पिण्डरूपं शब्दं च तद्वाचकं ज्ञानं च तद्ग्राहकमभेदेनैवाध्यवस्यति, न त्वस्य गोशब्दो वाचकोऽयं गोशब्दस्य वाच्यस्तयोरिदं ग्राहकं ज्ञानमिति भेदेन व्यवहरति । तथा हि-कोऽयमर्थः कोऽयं शब्दः किमिदं ज्ञानमिति पृष्टः सर्वत्रैकरूपमेवोत्तरं ददाति गौरिति । स यद्येकरूपतां न प्रतिपद्यते कथमेकरूपमुत्तरं प्रयच्छति । एकस्मिन्स्थिते योऽयं प्रविभाग इदं शब्दस्य तत्त्वं यद्वाचकत्वं नाम, इदमर्थस्य यद्वाच्यत्वमिदं ज्ञानस्य यत्प्रकाशकत्वमिति प्रविभागं विधाय तस्मिन्प्रविभागे यः संयम करोति तस्य सर्वेषां भूतानां मृगपशुपक्षिसरीसृपादीनां यद्रुतं यः शब्दस्तत्र ज्ञानमुत्पद्यतेऽनेनैवाभिप्रायेणैतेन प्राणिनाऽयं शब्दः समुच्चारित इति सर्वं जानाति ॥ १७ ॥ सिद्भयन्तरमाह- संस्कारसाक्षात्करणात्पूर्वजातिज्ञानम् ॥ १८ ॥ द्विविधाश्चित्तस्य वासनारूपाः संस्काराः । केचिस्मृतिमात्रोत्पादनफलाः, केचिज्जात्यायुर्भोगलक्षणविपाकहेतवः, यथा धर्माधर्माख्याः । तेषु संस्कारेषु यदा संयमं करोति एवं मया सोऽर्थोऽनुभूत एवं मया सा क्रिया निष्पादितेति पूर्ववृत्तमनुसंदधानो भावयमेव प्रबोधकमन्तरेणोद्बुद्धसंस्कारः सर्वमतीतं स्मरति । क्रमेण साक्षात्कृतेषूद्बुद्धेषु संस्कारेषु पूर्वजन्मानुभूतानपि जात्यादीन्प्रत्यक्षेण पश्यति ॥ १८ ॥ सिद्धयन्तरमाह- प्रत्ययस्य परचित्तज्ञानम् ॥ १९ ॥ प्रत्ययस्य परचित्तस्य केनचिन्मुखरागादिना लिङ्गेन गृहीतस्य यदा संयमं करोति १ क. 'त्मा ध्वनिसं। २ क, पर्व तस्मिन्नवास्थि । ग. एतस्मि । ३ ख. म. पनयैव । [विभू०पा०३सू०२०-२२] पातञ्जलयोगसूत्राणि । ३७ तदा परकीयचित्तस्य ज्ञानमुत्पद्यते सरागमस्य चित्तं विरागं वेति । परचित्तगतानपि धर्माजानातीत्यर्थः ।। १९ ॥ अस्यैव परचित्तज्ञानस्य विशेषमाह- . न तत्सालम्बनं तस्याविषयीभूतत्वात् ॥ २० ॥ तस्य परस्य यश्चित्तं तत्सालम्बनं स्वकीयेनाऽऽलम्बनेन सहितं न शक्यते ज्ञातुमालम्बनस्य केनचिल्लिङ्गेनाविषयीकृतत्वात् । लिङ्गोच्चित्तमात्रं परस्यावगतं नतु नीलविषयमस्य चित्तं पीतविषयमिति वा । यच्च न गृहीतं तत्र संयमस्य कर्तुमशक्यत्वान्न भवति परचितस्य यो विषयस्तत्र ज्ञानम् । तस्मात्परकीयचित्तं नाऽऽलम्बनसहितं . गृह्यते, तस्याऽऽलम्बनस्यागृहीतत्वात् । चित्तधर्माः पुनर्गुह्यन्त एव । यदा तु किमनेनाऽऽलम्बितमिति प्रणिधानं करोति तदा तत्संयमात्तद्विषयमपि ज्ञानमुत्पद्यत एव ॥ २० ॥ सिद्धयन्तरमाह- कायरूपसंयमात्तद्ग्राह्यशक्तिस्तम्भे चक्षु- ष्प्रकाशासंयोगेऽन्तर्धानम् ॥ २१ ॥ कायः शरीरं तस्य रूपं चक्षुर्ग्राह्यो गुणस्तस्मिन्नस्त्यस्मिन्काये रूपमिति संयमात्तस्य रूपस्य चक्षुर्ग्राह्यत्वरूपा या शक्तिस्तस्याः स्तम्भे भावनावशात्प्रतिबन्धे चक्षुष्प्रकाशासंयोगे चक्षुषः प्रकाशः सत्त्वधर्मस्तस्यासंयोगे तद्ग्रहणव्यापाराभावे योगिनोऽन्तर्धानं भवति, न केनचिदसौ दृश्यत इत्यर्थः । एतेनैव रूपाद्यन्तर्धानोपायप्रदर्शनेन शब्दादीनां श्रोत्रादिग्राह्याणामन्तर्धानमुक्तं वेदितव्यम् ॥ २१ ॥ सिद्धयन्तरमाह- सोपक्रमं निरुपक्रमं च कर्म तत्संयमा- दपरान्तज्ञानमरिष्टेभ्यो वा ॥ २२ ॥ आयुर्विपाकं यत्पूर्वकृतं कर्म तद्विप्रकारं सोपक्रमं निरुपक्रमं च । तत्र सोपक्रमं यत्फलजननायोपक्रमेण कार्यकरणाभिमुख्येन सह वर्तते । यथोष्णप्रदेशे प्रसारितमार्द्रवासः शीघ्रमेव शुष्यति । उक्तरूपविपरीतं निरुपक्रमं यथा तदेवाऽऽर्द्रवासः संवर्तितमनुष्णदेशे चिरेण शुष्यति । तस्मिन्द्विविधे कर्मणि यः संयमं करोति किं कर्म • शीघ्रविपाकं चिरविपाकं वा, एवं ध्यानदाढर्यादपरान्तज्ञानमस्योत्पद्यते । अपरान्तः शरीरवियोगस्त- १ क. °षज्ञानमा । २ ख. ङ्गाद्धि चित्त । ३ क. ग. र्थः ॥ २१ ॥ एतेन शब्दा- पन्तर्धानमुक्तम् ॥ २२ ॥ ए° । ४ ख. ग. र्यकार । ५ क. किं मम क। ३८ . भोजदेवविरचितवृत्तिसमेतानि-- [विभू०पा०३सू०२३-२६] स्मिञ्ज्ञानममुष्मिन्कालेऽमुष्मिन्देशे मम शरीरवियोगो भविष्यतीति निःसंशयं जानाति । अरिष्टेभ्यो वा । अरिष्टानि त्रिविधानि आध्यात्मिकाधिभौतिकाधिदैविकभेदेन । तत्राऽऽ- ध्यात्मिकानि पिहितकर्णः कोष्टयस्य वायोर्धोषं न शृणोतीत्येवमादीनि । आधिभौतिकानि अकस्माद्विकृतपुरुषदर्शनादीनि । आधिदैविकानि अकाण्ड एव द्रष्टुमशक्यस्वर्गादिपदार्थ- दर्शनादानि । तेभ्यः शरीरवियोगकालं जानाति । यद्यपि अयोगिनामप्यरिष्टेभ्यः प्रायेण तज्ज्ञानमुत्पद्यते, तथाऽपि तेषां सामान्याकारेण तत्संशयरूपं, योगिनां पुनर्नियतदेशकालतया प्रत्यक्षवदव्यभिचारि ॥ २२॥ परिकर्मनिष्पादिताः सिद्धीः प्रतिपादयितुमाह- मैत्र्यादिषु बलानि ॥ २३ ॥ मैत्रीकरुणामुदितोपेक्षासु यो विहितसंयमस्तस्य बलानि मैत्र्यादीनां संबन्धीनि प्रादुर्भवन्ति । मैत्रीकरुणामुदितोपेक्षास्तथाऽस्य प्रकर्षं गच्छन्ति यथा सर्वस्य मित्रत्वादिकमर्य प्रतिपद्यते ॥ २३ ॥ सिद्धयन्तरमाह- बलेषु हस्तिबलादीनि ॥ २४ ॥ हस्त्यादिसंबन्धिषु बलेषु कृतसंयमस्य तद्बलानि हस्त्यादिबलानि आविर्भवन्ति । तदयमर्थः--यस्मिन्हस्तिबले वायुवेगे सिंहवीर्ये वा तन्मयीभावनायं संयमं करोति तत्त-- सामर्थ्ययुक्तं सत्वमस्य प्रादुर्भवतीत्यर्थः ॥ २४ ॥ सिद्धयन्तरमाह- प्रवृत्त्यालोकन्यासात्सूक्ष्मव्यव- हितविप्रकृष्टज्ञानम् ॥ २५ ॥ प्रवृत्तिर्विषयवती ज्योतिष्मती च प्रागुक्ता तस्या योऽसावालोकः सात्त्विकप्रकाशप्रसरस्तस्य निखिलेषु विषयेषु न्यासात्तद्वासितानां विषयाणां भावनात्सान्तःकरणेषु इन्द्रियेषु प्रकृष्टशक्तिमापन्नेषु सूक्ष्मस्य परमाण्वादेर्व्यवहितस्य भूम्यन्तर्गतस्य निधानादेर्विप्रकृष्टस्य मेर्वपरपार्श्ववर्तिनो रसायनादेर्ज्ञानमुत्पद्यते ॥ २५ ॥ एतत्समानवृत्तान्तं सिद्धयन्तरमाह- । भुवनज्ञानं सूर्यसंयमात् ॥ २६ ॥ सूर्ये प्रकाशमये यः संयमं करोति तस्य सप्तसु भूर्भुवःस्वःप्रभृतिषु लोकेषु यानि १ ख. निष्पन्दभूतां सिद्धिं प्र । ग. निस्पन्दभूताः । र ख. स्यापि मि° । ३ ख. °दिकं संप° । ग. दिकं संप 1 ४ ख. ग. 'वेन सं° । ५ ख. तत्सर्वं सामर्थ्ययुक्तत्वात्सत्वस्य । ग. तत्सर्वं सामर्थ्ययुक्तत्वात्सर्वमस्य । ६ ख. सूर्यप्रकाशसमये । [विभू०पा०३१०२७-३१] पातञ्जलयोगसूत्राणि । भुवनानि तत्तत्संनिवेशभाञ्जि पुराणि तेषु यथावदस्य ज्ञानमुत्पद्यते । पूर्वस्मिन्सूत्रे सात्त्विकप्रकाश आलम्बनतयोक्त इह तु भौतिक इति विशेषः ॥ २६ ॥ भौतिकप्रकाशालम्बनद्वारेणैव सिद्धयन्तरमाह- ... चन्द्रे ताराव्यूहज्ञानम् ॥ २७ ॥ ताराणां ज्योतिषां यो व्यूहो विशिष्टः संनिवेशस्तस्य चन्द्रे कृतसंयमस्य , ज्ञानमुत्पद्यते । सूर्यप्रकाशेन हततेजस्कत्वात्ताराणां सूर्यसंयमात्तज्ज्ञानं न शक्नोति भवितुमिति पृथगुपायोऽभिहितः ॥ २७॥ सिद्धयन्तरमाह- ध्रुवे तद्गतिज्ञानम् ॥ २८ ॥ ध्रुवे निश्चले ज्योतिषां प्रधाने कृतसंयमस्य तासां ताराणां या गतिः प्रत्येकं नियतकाला नियतदेशा च तस्या ज्ञानमुत्पद्यते । इयं ताराऽयं ग्रह इयता कालेनामुं राशिमिदं नक्षत्रं यास्यतीति सर्वं जानाति । इदं कालज्ञानमस्य फलमित्युक्तं भवति ॥ २८ ॥ बाह्याः सिद्धीः प्रतिपाद्याऽऽन्तराः सिद्धीः प्रतिपादयितुमुपक्रमते- ___ नाभिचक्रे कायव्यूहज्ञानम् ॥ २९ ॥ शरीरमध्यवर्ति नाभिसंज्ञकं यत्षोडशारं चक्रं तस्मिन्कृतसंयमस्य योगिनः कायगतो योऽसौ व्यूहो विशिष्टरसमलधातुनाड्यादीनामवस्थानं तत्र ज्ञानमुत्पद्यते । इदमुक्तं भवति- नाभिचक्रं शरीरमध्यवर्ति सर्वतः प्रसृतानां नाड्यादीनां मूलभूतमतस्तत्र कृतावधानस्य समग्रसंनिवेशो यथावदाभाति ॥ २९ ॥ । सिद्धयन्तरमाह- कण्ठकूपे क्षुत्पिपासानिवृत्तिः ॥ ३० ॥ कण्ठे गले कृपः कण्ठकूपः, जिह्वामूले जिह्वातन्तोरधस्तात्कूप इव कूपो गर्ताकारः प्रदेशः पाणादेर्यत्संस्पर्शात्क्षुत्पिपासादयः प्रादुर्भवन्ति तस्मिन्कृतसंयमस्य योगिनः क्षुत्पिपासादयो निवर्तन्ते । घण्टिकाधस्तास्रोतसा धार्यमाणे तस्मिन्भाविते भवत्येवंविधा सिद्धिः ॥३०॥ सिद्धयन्तरमाह- कूर्मनाड्यां स्थैर्यम् ॥ ३१ ॥ कण्ठकूपस्याधस्ताद्या कूर्माख्या नाडी तस्यां कृतसंयमस्य चेतसः स्थैर्यमुत्पद्यते । १ ख. ग. तत् । २ क. स्थानानि । ३ ख. ग. स्तस्मिंश्चन्दे । ४ ग. 'थगयमुपा । ५ ग. नातीति सूत्रार्थः । इ'।६ क. ख. °नस्य । ७ क. ख. "लमुक्तं । ८ ख. हातोऽय | ९ख. म. "स्ताइट्टढा का ४० . भोजदेवविरचितवृत्तिसमेतानि- [विभू०पा०३सू०३२-३५] तरस्थानमनुप्रविष्टस्य चञ्चलता न भवतीत्यर्थः । यदि वा कायस्य स्थैर्यमुत्पद्यते न केनचित्स्पन्दयितुं शक्यत इत्यर्थः ॥ ३१ ॥ सिद्धयन्तरमाह- मूर्धज्योतिषि सिद्धदर्शनम् ।। ३२ ॥ शिरःकपाले ब्रह्मरन्ध्राख्यं छिद्रं प्रकाशाधारत्वाज्ज्योतिः । यथा गृहाभ्यन्तरस्थस्य मणेः प्रसरन्ती प्रभा कुञ्चिताकारेव सर्वप्रदेशे संघटते तथा हृदयस्थः सात्त्विकः प्रकाशः प्रसतस्तत्र संपिण्डितत्वं भजते । तत्र कृतसंयमस्य ये द्यावापृथिव्योरन्तरालवर्तिनः सिद्धा दिव्याः पुरुषास्तेषामितरप्राणिभिरदृश्यानां तस्य दर्शनं भवति । तान्पश्यति तैश्च स संभाषत इत्यर्थः ।। ३२ ॥ सर्वज्ञत्व उपायमाह- प्रातिभाद्वा सर्वम् ॥ ३३ ॥ - निमित्तानपेक्षं मनोमात्रजन्यमविसंवादकं द्रागुत्पद्यमानं ज्ञानं प्रतिभा । तस्यां संयमे क्रियमाणे प्रातिभं विवेकख्यातेः पूर्वभावि तारकं ज्ञानमुदेति । यथोदेष्यति सवितरि पूर्वं प्रभा प्रादुर्भवति तद्वद्विवेकख्याते: पूर्वं तारकं सर्वविषयं ज्ञानमुत्पद्यते । तस्मिन्सति संयमान्तरानपेक्षः सर्वं जानातीत्यर्थः ॥ ३३ ॥ सिद्धयन्तरमाह--- हृदये चित्तसंवित् ॥ ३४ ॥ हृदयं शरीरस्य प्रदेशविशेषस्तस्मिन्नधोमुखस्वरूपपुण्डरीकाभ्यन्तरेऽन्तःकरणसत्वस्य स्थानं तत्र कृतसंयमस्य स्वपरचित्तज्ञानमुत्पद्यते । स्वचित्तगताः सर्वा वासनाः परचित्तग- तांश्च रागादीञ्जानातीत्यर्थः ॥ ३४ ॥ सिद्धयन्तरमाह- सत्त्वपुरुषयोरत्यन्तासंकीर्णयोः प्रत्ययाविशेषा- द्भोगः परार्थान्यस्वार्थसंयमात्पुरुषज्ञानम् ॥३५॥ सत्त्वं प्रकाशसुखात्मकः प्राधानिकः परिणामविशेषः । पुरुषो भोक्ताऽधिष्ठातृरूपः । तयोरत्यन्तासंकीर्णयोर्भोग्यभोक्तृरूपत्वाच्चेतनाचेतनत्वाच्च भिन्नयोर्यः प्रत्ययस्याविशेषो भेदेनाप्रतिभासनं तस्मात्सत्त्वस्यैव कर्तताप्रत्ययेन या सुखदुःखसंवित्स भोगः । सत्त्वस्य स्वार्थनैरपेक्ष्येण परार्थः पुरुषार्थनिमित्तस्तस्मादन्यो यः स्वार्थः पुरुषस्वरूपमात्रालम्बन: १ ख. ग. काये । २ ख. अिकाविवरप्रदेशैः संवद्वते । ग. शिक्षाविवरपदेशे संघटते । ३ ग. भाव्यत । ४ ख. ग. पायान्तरमा ।

      [विभूपा०३सू०३६-३८]   पातञ्जलयोगसूत्राणि ।                        ४१
      परित्यक्ताहकारसत्वे या चिच्छायासंक्रान्तिस्तत्र कृतसंयमस्य पुरुषविषयं ज्ञानमुपयते ।
      तत्र तदेवंरूपं स्वालम्बनं ज्ञानं सत्त्वनिष्ठः पुरुषो जानाति न पुनः पुरुषो ज्ञाता ज्ञानस्य
      विषपभावमापद्यते । ज्ञेयत्वापतेातृज्ञेययोश्चात्यन्तविरोधात् ॥ ३५ ॥
       . अस्यैव संयमस्य फलमाह---
               ततः  मातिभश्रावणवेदनादर्शास्वादवार्ता जायन्ते ॥३६॥
         ततः पुरुषसंयमादभ्यस्यमानाव्यस्थितस्यापि ज्ञानानि जायन्ते । तत्र  प्रातिभं  पूर्वोक्त
      ज्ञानं तस्याऽऽविर्भावात्सूक्ष्मादिकमर्थं पश्यति । श्रावणं  श्रोत्रेन्द्रियजं ज्ञानं  तस्माञ्च  प्रष्टा.
      दिव्यं दिवि भवं शब्दं जानाति । वेदना स्पर्शेन्द्रियजं ज्ञानं वेद्यतेऽनयेतिं कृत्वा तान्त्रिक्या
      संज्ञया व्यवहियते ।  तस्मादिव्यस्पर्शविषयं  ज्ञानं  समुपजायते ।  आदर्शश्चक्षुरिन्द्रियजं
      ज्ञानम् । आ  समन्तादृश्यतेऽनुभूयते रूमनेनेति  कृत्वा, तस्य प्रकर्षादिव्यं रूपज्ञानमुत्प.
      द्यते । आस्वादो रसनेन्द्रियजं ज्ञानम् । भास्वाधतेऽनेनेति कृत्वा, तस्मिन्प्रकृष्टे दिव्ये रसे
      संविदुपजायते । वार्ता गन्धसंवित् । वृत्तिशब्देन तान्त्रिक्या परिभाषया घ्राणेन्द्रियमुच्यते ।
      वर्तते गन्धविषय इति कृत्वा,  वत्तेणेन्द्रियागजाता  वार्ता  गन्धसंवित् ।  तस्यां प्रकृष्य-
      माणायां दिव्यगन्धोऽनुभूयते ॥ ३६ ॥ 
         एतेषां फलविशेषाणां विषयविभागमाह- .
                   ते समाधावुपसर्गा न्युत्थाने सिद्धयः ।। ३७ ।।
         ते प्राक्प्रतिपादिताः फलविशेषाः समाधेः प्रकर्ष गच्छत उपसर्गा उपदवा विघ्नकारिणः।
      तत्र हर्षविस्मयादिकरणेन समाधिः शिथिली भवति । व्युथाने तु पुनर्भवहारदशायाँ
      विशिष्टफलदायकत्वासिद्धयो भवन्ति ।। ३७ ॥
         सिद्धयन्तरमाह-
                       बन्धकारणशैथिल्यात्यचारसंवेदनाच
                       चित्तस्य  परशरीरावेशः ॥ ३८ ॥
         व्यापकत्वादात्मचितयोनियतकर्मवशादेव शरीरान्तर्गतयो क्तभोग्यभावेन यत्संवेदनमु.
      पजायते स एव शरीरे बन्ध इत्युच्यते । तद्यदा  समाधिवशाद्वन्धकारणं  धर्माधर्माख्यं
      शिथिलं भवति तानवमापद्यते । चितस्य च योऽसौ  प्रचारो  हृदयप्रदेशादिन्द्रियद्वारेण
      विषयाभिमुख्येन प्रसरस्तस्य संवेदनं ज्ञानमियं चित्तवहा  नाडी,  अनया चित्तं वहति,

        १ म. तदे। २ क. निष्ठं पु' । ३ क. 'नातीत्यर्थः । न ४ क. ख. कृष्टं दिव्यं ।
      ५ ख. दिव्यरससं । ६ ख. ग. विहिः ।व । ७ क. ति 1 ८ स. ग. वित्तिः । त।
      क. विशेषधि। ४२ . भोजदेवविरचितवृत्तिसमेतानि- [विभू०पा० ३सू०३९-४२]

इयं च रसप्राणादिवहाभ्यो नाडीभ्यो विलक्षणेति, स्वपरशरीरयोर्यदा संचारं जानाति . तदा परकीयं शरीरं मृतं जीवच्छरीरं वा चित्तसंचारद्वारेण. प्रविशति । चित्तं परशरीरे . प्रविशदिन्द्रियाण्यपि अनुवर्तन्ते मधुकरराजमित्र मधुमक्षिकाः । अथ परशरीरप्रविष्टो . योगी स्वशरीरवत्तेर्न व्यवहरति । यतो व्यापकयोश्चितपुरुषयोर्भोगसंकोचे कारणं कर्म तश्चेत्समाधिना क्षिप्तं तदा स्वातन्त्र्यात्सर्वत्रैव भोगनिष्पत्तिः ॥ ३८ ॥ सिद्धयन्तरमाह- उदानजयाज्जलपङ्ककण्टकादिष्व- सङ्ग उत्क्रान्तिश्च ॥ ३९ ॥ समस्तानामिन्द्रियाणां तुषज्वालावद्या युगपस्थिता वृत्तिः सा जीवनशब्दवाच्या । तस्याः क्रियाभेदात्प्राणापानादिसंज्ञाभिर्व्यपदेशः । तत्र हृदयान्मुखेनासिकाद्वारेण वायोः प्रणयनात्प्राण इत्युच्यते। नाभिदेशात्पादाङ्गुष्ठपर्यन्तमपनयनादपानः । नाभिदेशं परिवेष्टय समन्तान्नयनात्समानः । कृकाटिकादेशादा शिरोवृत्तेरुन्नयनादुदानः । व्याप्य नयनात्सर्व- शरीरव्यापी व्यानः । तत्रोदानस्य संयमद्वारेण जपादितरेषां वायूनां निरोधादुर्ध्वगतित्वेन जले महानद्यादौ महति वा कर्दमे तीक्ष्णेषु कण्टकेषु वा न सज्जतेऽतिलघुत्वात् । तूलपिण्डवज्जलादौ मज्जितोऽप्युद्गच्छतीत्यर्थः ॥ ३९ ॥ सिद्धयन्तरमाह- समानजयात्यज्वलनम् ॥ ४०॥ अग्निमावेष्टय व्यवस्थितस्य समानाख्यस्य वायोर्जयात्संयमेन वशीकारान्निरावरणस्याग्नेरुद्भुतत्त्वात्तेजसा प्रज्वलन्निव योगी प्रतिभाति ॥ ४० ॥ सिद्धयन्तरमाह- श्रोत्राकाशयोः संबन्धसंयमाद्दिव्यं श्रोत्रम् ॥४१॥ श्रोत्रं शब्दग्राहकमाहंकारिकमिन्द्रियम् । आकाशं व्योम शब्दतन्मात्रकार्यम् । तयोः सबन्धो देशदेशिभावलक्षणस्तस्मिन्कृतसंयमस्य योगिनो दिव्यं श्रोत्रं प्रवर्तते, युगपत्सूक्ष्मव्यवहितविपकृष्टशब्दग्रहणसमर्थं भवतीत्यर्थः । ४१ ॥ सिद्धयन्तरमाह- कायाकाशयोः संबन्धसंयमाल्लघुतू- ___." लसमापत्तेश्वाऽऽकाशगमनम् ॥ ४२ ॥ कायः पाञ्चभौतिकं शरीरं तस्याऽऽकाशेनावकाशीयकेन यः संबन्धस्तत्र १ ख. ग. च पा' । २ क. 'यं । ३ क. संच प। ४ क. माझे'। ५ ख, ग, ततः । ६ क. °न सर्व व्य' । ७ ग. कर्माभूत्तच्चे' । ८ ख. लादावनिपजस्तदुपरितः तरने। गच्छ ।' ख. देशाविभागल' । १० ख. ग. दानायः । ४३ [विभू०पा०३सू०४३-४४] पातञ्जलयोगसूत्राणि । संयमं विधाय लघुनि तूलादौ समापत्तिं तन्मयीभावलक्षणां च विधाय प्राप्तातिलघुभावो योगी प्रथमं यथारुचि जले संचरन्क्रमेणोर्णनाभतन्तुजालेन संचरमाण आदित्यरश्मिभिश्च विहरन्यथेष्टमाकाशेन गच्छति ॥ ४२ ॥ सिद्धयन्तरमाह- बहिरकल्पिता वृत्तिर्महाविदेहा ततः प्रकाशावरणक्षयः॥४३॥ शरीराद्बहिर्वा मनसः शरीरनैरीक्ष्येण वृत्तिः सा महाविदेहा नाम विगतशरीराहकारदार्ढ्यद्वारेणोच्यते । ततस्तस्यां कृतात्संयमात्प्रकाशावरणक्षयः सात्त्विकस्य चित्तस्य यः प्रकाशस्तस्य यदावरणं क्लेशकर्मादि तस्य क्षयः प्रविलयो भवति । अयमर्थः-शरीराहंकारे सति या मनसो बहिर्वृत्तिः सा कल्पितेत्युच्यते । यदा पुनः शरीराहकारभावं परिःयज्य स्वातन्त्र्येण मनसो वृत्तिः साऽकल्पिता, तस्यां संयमायोगिनः सर्वे चित्तमलाः क्षीयन्ते॥४३॥ तदेवं पूर्वान्तविषयाः परान्तविषया मध्यभवाश्च सिद्धीः प्रतिपाद्यानन्तर भुवनज्ञानादिरूपा बाह्याः कायव्यहादिरूपा अभ्यन्तराः परिकर्मनिष्पन्नभूताश्च मैत्र्यादिषु बलानीत्येवमाद्याः समाध्युपयोगिनीश्चान्तःकरणबहिःकरणलक्षणेन्द्रियभवाः प्राणादिवायभवाश्च सिद्धी श्चित्तदाढ्यसमाधौ समाश्वासोत्पत्तये प्रतिपाद्येदानीं स्वदर्शनोपयोगिसबीजनिर्बीजसमाधिसिद्धये विविधोपायप्रदर्शनायाऽऽह- स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद्भूतजयः ।। ४४ ॥ . ., पञ्चानां पृथिव्यादीनां भूतानां ये पञ्चावस्थाविशेषरूपा धर्माः स्थूलत्वादयस्तत्र कृतसंयमस्य भूतजयो भवति । भूतानि अस्य वश्यानि भवन्तीत्यर्थः । तथाहि-भूतानां परिदृश्यमानं विशिष्टाकारवस्थूलरूपं, स्वरूपं चैषां यथाक्रमं कार्यं गन्धस्नेहोष्णताप्रेरणावकाशदानलक्षणं, सूक्ष्मं च यथाक्रमं भूतानां करणत्वेन व्यवस्थितानि गन्धादितन्मात्राणि । अन्वयिनो गुणाः प्रकाशप्रवृत्तिस्थितिरूपतया सर्वत्रैवान्वयित्येन “समुपलभ्यन्ते । अर्थवत्वं तेष्वेव गुणेषु भोगापवर्गसंपादनाख्या शक्तिः । तदेवं भूतेषु पञ्चसूक्तलक्षणावस्थाभिन्नेषु प्रत्यवस्थं संयमं कुर्वन्योगी भूतजयी भवति । तद्यथा--प्रथमं ग. पत्तिस्तन्मयीभावलक्षणा तां च.। २ क. गताका कार्य गोप्य । ३ क. "रादई । ४ ख. 'पन्दभू । ग. 'पन्द९०° । ५ ख. कार स्थूलरूपं चै । ६ ग. वद्रूपं स्थूल २५ । ७ क. पदेन । ८ ख. ग. 'नित ! ९ ख. 'सक्ष्यन्ते । १० क. "कधर्मल । ११ ग. स्थावच्छिन्ने । १२ ग. भून्मयो । ४४ . भोजदेवविरचितवृत्तिसमेतानि- [विभू०पा० ३२०४५-४८] स्थूलरूपे संयम विधाय तदनु स्वरूप इत्येवं क्रमेण तस्य कृतसंयमस्य संकल्पानुविधायिन्यो वासानुसारिण्य 'इव गावो भूतप्रकृतयो भवन्ति ॥ ४ ४ ॥ तस्यैव भूतजयस्य फलमाह--- ततोऽणिमादिप्रादुर्भावः कायसंपत्तद्धर्मानभिघातश्च ॥ ४५ ॥ अणिमा परमाणुरूपतापत्तिः । महिमा महत्त्वम् । लघिमा तलपिण्डवल्लघुत्वप्राप्तिः । गरिमा गुरुत्वम् । प्राप्तिरङ्गुल्यग्रेण चन्द्रादिस्पर्शनशक्तिः । प्राकाम्यमिच्छानभिघातः । शरीरान्तःकरणेश्वरत्वमीशित्वम् । सर्वत्र प्रभविष्णुता वशित्वं, सर्वाण्यैव भूतानि अनुगामित्वात्तदुक्तं नातिकामन्ति । यत्र कामावसायो यस्मिन्विषयेऽस्य काम इच्छा भवति त (य)स्मिन्विषये योगिनो व्यवसायो भवति तं विषयं स्वीकारद्वारेणाभिलाषसमाप्तिपर्यन्तं नयन्तीत्यर्थः । त एतेऽणिमाद्याः समाध्युपयोगिनो भूतजयाद्योगिनः प्रादुर्भवन्ति । यथा परमाणुत्वं प्राप्तो वज्रादीनामप्यन्तः प्रविशति । एवं सर्वत्र योज्यम् । त एतेऽणिमादयोऽष्टौ गुणा महासिद्धय उच्यन्ते । कायसंपद्वक्ष्यमाणा तां प्राप्नोति । तद्धर्मानभिघातश्च तस्य कायस्य ये धर्मा रूपादयस्तेषामनभिघातो नाशो न कुतश्चिद्भवति । नास्य रूपमग्निर्दहति न वायुः शोषयतीत्यादि योज्यम् ॥ १५॥ कायसंपदमाह- रूपलावण्यबलव्रजसंहननत्वानि कायसंपत् ॥ ४६॥ रूपलावण्यबलानि प्रसिद्धानि । वज्रसंहननत्वं वज्रत्वस्कठिना संहतिरस्य शरीरे भवतीत्यर्थः । इति कायस्याऽऽविर्भूतगुणसंपत् ॥ ४६ ॥ एवं भूतजयमभिधाय प्राप्तभूमिकाविशेषस्येन्द्रियजयमाह-- ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमादिन्द्रियजयः ॥ ४७ ॥ ग्रहणमिन्द्रियाणां विषयाभिमुखी वृत्तिः । स्वरूपं सामान्येन प्रकाशकत्वम् । अस्मिताऽहंकारानुगमः । अन्वयार्थवत्वे पूर्ववत् । एतेषामिन्द्रियाणामवस्थापञ्चके पूर्ववत्संयमं कृत्वेन्द्रियजयी भवति ॥ ४७ ॥ तस्य फलमाह- ततो मनोजवित्वं विकरणभावः प्रधानजयश्च ॥४८॥. शरीरस्य मनोवदनुत्तमगतिलाभो मनोजवित्वम् । कायनिरपेक्षाणामिन्द्रियाणां १ क. सूक्ष्मरूप । २ क. 'स्पार्थवि १३ क. भवन्तीत्यर्थः । १ . 'मोऽध्य । ५ ख. यतीत्य । ६ ग. "गिभू । ७ ख. 'नत्वादीनि । ग. ननानि । ८ स. २. ननं ।

९ ग. मिकस्य । १० क. 'कायामिन्द्रि । ११ ख. ग. 'शत्व'

वेभू०पा०३सू०४९-५१]

पातञ्जलयोगसूत्राणि

   त्तिलाभो विकरणभावः । सर्ववशित्वं प्रधानजयः । एताः सिद्धयो जितेन्द्रियस्य प्रादु-   
  विन्ति । ताश्चास्मिञशास्त्रे मधुप्रतीका इत्युच्यन्ते । यथा मधुन एकदेशोऽपि स्वदत एवं
  त्येकमेताः सिद्धयः स्वदन्त इति मधुप्रतीकाः ॥ ४८ ॥      .
     इन्द्रियजयमभिधायान्तःकरणजयमाह-

सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावा.
धिष्ठातृत्वं सर्वज्ञातृत्वं च ॥ ४९ ॥

    तस्मीञद्धे साचिके परिणामे कृतसंयमस्य या सत्त्वपुरुषयोरुत्पद्यते विवेकख्याति-
  र्गुणानां कर्तत्वाभिमानशिथिलीभावरूपा तन्माहात्म्यात्तत्रैव स्थितस्य योगिनः सर्वभा-
  वाधिष्ठातत्वं सर्वज्ञातत्वं च समधिर्भवति । सर्वेषां गुणपरिणामानां भावानां स्त्रास्मिवदा-
  क्रमणं सर्वभावाधिष्ठातत्वं, तेषामेव च शान्तोदिताव्यपदेश्यधर्मित्वेनावस्थितानां यथा-
  वद्विवेकज्ञानं सर्वज्ञातृत्वम् । एषां चास्मिञ्शास्त्रे परस्यां वशीकारसंज्ञायां प्राप्तायां विशोका
  नाम सिद्धिरित्युच्यते ॥ ४९ ॥
    क्रमेण भूमिकान्तरमाह-

तद्वैराग्यादपि दोषवीजक्षये कैवल्यम् ॥ ५० ॥

  एतस्यामपि विशोकायां सिद्धौ यदा वैराग्यमुत्पद्यते योगिनस्तदा तस्मादोषाणां रागा-
दीनां यद्वीजमविद्यादयस्तस्य क्षये निर्मूलने कैवल्यमात्यन्तिकी दुःखनिवृत्तिः पुरुषस्य
गुणानामधिकारपरिसमाप्तो स्वरूपप्रतिष्ठत्वम् ॥ ५० ॥
  अस्मिन्नेव समाधौ स्थित्युपायमाह-
{bold

|स्वाम्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनरनिष्टप्रसङ्गात् ॥ ५१ ॥

    चत्वारो योगिनो भवन्ति । तत्राभ्यासवान्प्रवृत्तमात्रज्योतिः प्रथमः । ऋतंभरप्रज्ञो
 द्वितीयः । भूतेन्द्रियजयी तृतीयः । अतिक्रान्तभावनीयश्चतुर्थः । तत्र चतुर्थस्य(श्च)
 समाधेः प्राप्तसप्तविधप्रान्तभूमिप्रज्ञो भवति । ऋतंभरप्रज्ञस्य द्वितीयां मधुमतीसंज्ञं भूमिकां
 साक्षात्कुर्वतः स्वामिनो देवा उपनिमन्त्रयितारो भवन्ति । दिव्यस्त्रीरसायनादिकं डौक-
 यन्ति । तस्मिन्नुपनिमन्त्रणे नानेन सङ्गः कर्तव्यः । नापि स्मयः। सङ्गकरणे पुनर्विषय-
 भोगे पतति । स्मयकरणे कृतकृत्यमात्मानं मन्यमानो न समाधावुःसहते । अतः सङ्गस्मय-
 योस्तेन वर्जनं कर्तव्यम् ॥ ५१ ॥

- १ . 'स्मिन्बुद्धेः सा । २ . "ते साऽन्यताख्यातिः । गुणा 1 ३ क. पात्तन्मा । ख. पात्तत्तादात्मया । ४ ग. 'माधिर्म । ५ . 'पनिष्ठ । ६ . ग. 'मः । कृन्तान्तर । ५ क. 'धभूमिप्रत्ययस्यान्त्यां म । ग. भूमिप्रशस्यानयां म । ८ ख. 'ति । नत्र ऋ। क. नीवसना ४६ भोजदेवविरचितवृत्तिसमेतानि- विभू०पा० ३सू०५२-५४ अस्यामेव फलभूतायां विकल्यातौ पूर्वोक्तसंयमव्यतिरिक्तमुपायान्तरमाह -- क्षणतत्क्रमयोः संयमाद्विवेकजं ज्ञानम् ॥ ५२ ॥ क्षणः सर्वान्त्यः कालावययो यस्य कलाः प्रभवितुं न शक्यन्ते । तथाविधानां कालक्षणानां यः क्रमः पौर्वापर्येण परिणामस्तत्र संयमात्प्रागुक्तं विवेकजं ज्ञानमुत्पद्यते । अयमर्थः—अयं कालक्षणोऽमुष्मात्कात्लक्षणादुत्तरोऽयमस्मात्पूर्व इत्येवंविधे क्रमे कृतसंयमस्यात्यन्तसूक्ष्मेऽपि क्षणक्रमे यदा भवति साक्षात्कारस्तदाऽन्यदपि सूक्ष्मं महदादि साक्षात्करोतीति विवेकज्ञानोत्पत्तिः ॥ ५२ ।। अस्यैव संयमस्य विषयविवेकोपेक्षेपणायाऽऽह--- जातिलक्षणदेशैरन्यतानवच्छेदा- त्तुल्ययोस्ततः प्रतिपत्तिः।। ५३॥ पदार्थानां भेदहेतवो जातिलक्षणदेशा भवन्ति । क्वचिद्भेदहेतुर्जातिः , यथा गौरियं महिषोऽयमिति । जात्या तुल्ययोलक्षणं भेदहेतुः, इयं कर्बुरेयमरुणेति । जात्या लक्षणेन चाभिन्नयोर्भेदहेतुर्देशो दृष्टः, यथा तु परिमाणयोमलंकयोर्भिन्नदेशस्थितयोः । यत्र पुनर्भेदोऽवधारयितुं न शक्यते यथैकदेशस्थितयोः शुक्लयोः पार्थिवयोः परमाण्वोस्तथाविधे विषये भेदाय कृतसंयमस्य भेदेन ज्ञानमुत्पद्यते तदा तदभ्यासासूक्ष्माण्यपि तत्त्वानि भेदेन प्रतिपद्यते । एतदुक्तं भवति--- यत्र केनचिदुपायेन भेदो नावधारयितुं शक्यस्तत्र संयमाद्भवत्येव भेदप्रतिपत्तिः ।। ५३ ।। सूक्ष्माणां तत्त्वानामुक्तस्य विवेकजन्यज्ञानस्य संज्ञाविषयस्वाभाव्यं व्याख्यातुमाह - तारकं सर्वविषयं सर्वथाविषयमक्रमं । चेति विवेकजं ज्ञानम् ॥ ५४ ॥ उक्तसंयमबलादन्त्यायां भूमिकायामुत्पन्नं ज्ञानं तारयत्यगाधात्संसारसागराद्योगिनमित्यावरिक्या संज्ञया तारकमित्युच्यते । अस्य विषयमाह--सर्व विषयमिति । सर्वाणि तत्त्वांनि महदानि विषयो यस्येति सर्वविषयम् । स्वभावश्चास्य सर्वथाविषयत्वम् । सर्वाभिरवस्थाभिः स्थूलसूक्ष्मादिभेदेन तैस्तैः परिणामः सर्वेण प्रकारेणावस्थितानि तत्त्वानि विषयो यत्येति सर्वथाविषयम् । स्वभावान्तरमाह-अक्रमं 93 १ ख. ग. 'पक्रम । २ क. ग. व ज्ञा' । ३ व. म. व ला प्रविभक्तुं न शक्यते त । ४ क. का'। ५ ग. 'पयो माह । ६ क. 'ल्यप्रमा । ७ ख. 'मुपजायते । ग. 'मुपजायते तद । ८ क. ख. 'यन्ते । ए° । ९ ख. “प्रतीतिः ॥ ५३ ॥ १० ख. 'कवि। ११ क. संझा वि । १२ ह. ग. षयं स्वा । १३ क. ग. 'मित्यन्न । १४ ख. ग. °म् । सर्वा । व०पा०४-०१] पातञ्जलयोगसूत्राणि । ते । निःशेषनानावस्थापरिणतव्यात्मकभावग्रहणे नास्य क्रमो विद्यत इति अक्रमम् । करतलामलकचद्युमपत्पश्यतीत्यर्थः ।। ५४ ॥ अस्माच्च विवेकजात्तारकाख्याज्ञानात्किं भवतीत्याह- सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यम् ॥ ५५ ॥ सत्त्वपुरुषायुक्तलक्षणो तयोः शुद्धिसाम्ये कैवल्यं सत्त्वस्य सर्वकर्तृत्वाभिमाननिवृत्त्या प्रकारणेऽनुप्रवेशः शुद्धिः, पुरुषस्य शुद्धिरूपचरितभोगाभाव इति द्वयोः समानायां शुद्धौ रुपस्य कैवल्यमुत्पद्यते मोक्षो भवतीत्यर्थः । तदेवमन्तरङ्गं योगाङ्गत्रयमभिधाय तस्य च नियमसंज्ञां कृत्वा संयमस्य च विषयप्रदर्शनार्थं परिणामत्रयमुपपाद्य संयमबलोत्पद्यमानाः पूर्वा- उपरान्तमध्यभवाः सिद्धीरुपदर्श्य समाध्याश्वासोत्पत्तये बाह्या भुवनज्ञानादिरूपा आभ्यतराश्च कायव्यूहज्ञानादिरूपाः प्रदर्श्य समाध्युपयोगायेन्द्रियप्राणजयादिपूर्विकाः परमपुरुषार्थसिद्धये यथाक्रममवस्थासहितभूतजयेन्द्रियजयसत्त्वजयोद्भवोश्च व्याख्याय विवेकज्ञानोत्पत्तये तांस्तानुपायानुपन्यस्य तारकस्य सर्वसमाध्यवस्थापर्यन्तभवस्य स्वरूपमभिधाय तत्समापत्तेः कृताधिकारस्य चित्तसत्वस्य स्वकारणेऽनुप्रवेशात्कैवल्यमुत्पद्यत इत्यभिहितमिति नेर्णितो विभूतिपादस्तृतीयः ।। ५५ ॥ इति श्रीभोजदेवविरचितायां राजमार्तण्डाभिधायां पात- ञ्जलवृतौ विभूतिपादस्तुतीयः ।। ३ ।। अथ भोजदेवविरचितवृत्तिसहितयोगसूत्रेषु ___ चतुर्थः कैवल्यपादः। यदाज्ञयैव कैवल्यं विनोपायैः प्रजायते । तमेकमजमीशानं चिदानन्दमयं स्तुमः ॥ १ ॥ इदानीं विप्रतिपत्तिसमुत्थभ्रान्तिनिराकरणेन युक्त्या कैवल्यस्वरूपज्ञानाय कैवल्यपादोऽ. यमारभ्यते। १ क. तदिव्येक ९ ख. ग. यन्तिाप ! ३ क. °माध्यभ्यासोपत्त । ४ क. काः मदर्थ प । ५ ख. वाश्चाऽऽख्या । ग. या व्या। ६ क. नोपपत्त । ७ ग. ये तातामुपा। - ग. "स्य रू । ९ ख. 'रूपावस्थापना । १. ग. शांपना । ४८ . भोजदेवविरचितवृत्तिसमेतानि- [कैव पा० ४ सू० १-३ ] ___ तत्र याः पूर्वमुक्ताः सिद्धयस्तासां नानाविधजन्मादिकारणप्रतिपादनद्वारेणैव बोधयति । यदि वा या एताः सिद्धयस्ताः सर्वाः पूर्वजन्माभ्यस्तसमाधिबलाजन्मादिनिमित्तमात्रत्वेनाs श्रित्य प्रवर्तन्ते । ततश्चानेकभवसाध्यस्य समाधेर्न क्षतिरस्तीत्याश्वासोत्पादनाय समाधिसिद्धेश्च प्राधान्यख्यापनार्थ कैवल्यप्रयोगार्थं चाऽऽह- जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः॥१॥ काश्चन जन्मनिमित्ता एव सिद्धयः । यथा पक्ष्यादीनामाकाशगमनादयः । यथा वा कपिलमहर्षिप्रभृतीनां जन्मसमनन्तरमेवोपजायमाना ज्ञानादयः सांसिद्धिका गुणाः । ओषधिसिद्धयो यथा-पारदादिरसायनाद्युपयोगात् । मन्त्रसिद्धिर्यथा-मन्त्रजपात्केषांचिदाकाशगमनादि । तपःसिद्धिर्यथा-विश्वामित्रादीनाम् । समाधिसिद्धिः प्राक्प्रतिपादिता । एताः सिद्धयः पूर्वजन्मक्षपितक्लेशानामेवोपजायन्ते । तस्मात्समाधिसिद्धाविवान्यासां सिद्धीनां समाधिरेव जन्मान्तराभ्यस्तः कारणं, मन्त्रादीनि निमित्तमात्राणि ॥ १॥ ___ तनु नन्दीश्वरादिकानां जात्यादिपरिणामोऽस्मिन्नेव जन्मनि दृश्यते तत्कथं जन्मान्तराभ्यस्तस्य समाधेः कारणत्वमुच्यत इत्याशङ्कयाऽऽह -- जात्यन्तरपरिणामः प्रकृत्यापूरात् ॥ २ ॥ योऽयमिहैव जन्मनि नन्दीश्वरादीनां जात्यादिपरिणामः स प्रकृत्यापूरात्, पाश्चात्या एव हि प्रकृतयोऽमुस्मिञ्जन्मनि विकारानापूरयन्ति जात्यन्तराकारेण परिणामयन्ति ॥ २ ॥ ननु धर्माधर्मादयस्तत्र क्रियमाणा उपलभ्यन्ते तत्कथं प्रकृतीनामापूरकत्वमित्याह-- निमित्तमप्रयोजकं प्रकृतीनां वरण- भेदस्तु ततः क्षेत्रिकवत् ॥ ३ ॥ निमित्तं धर्मादि तत्प्रकृतीनामर्थान्तरपरिणामे न प्रयोजकम् । नहि कार्येण कारणं प्रवर्तते । कुत्र तर्हि तस्य धर्मादेव्यापार इत्याह---वरणभेदस्तु ततः क्षेत्रिकवत् । ततस्तस्मादनुष्ठीयमानाद्धर्माद्वरणमावरकमधर्मादि तस्यैव विरोधित्वाद्भेदः क्षयः क्रियते । १ ख. धजात्यादि । २ ख. यावत्यःसि । ३ ख. सति विश्वा । ४ क. 'वल्यो. पयोगार्थमाह । ५ क. नादिः । त । ६ ख. ग. सिद्धिर्यथा पा । ७ ख. ग. "न्मनि । ८ क. °थं जन्मनि ज । ९ ख. योऽस्मिों '। १० क. °कारेणाऽऽपू । ११ ख. °न्ति नाम रूपजात्यादिवारेण परिगयन्ति । १२ ज. जात्यदिवारे । १३ क. परिणमन्ति । १४ ग. "नु च धर्माद । १५ ख. 'रकारणत्व" ! ग. "रणे कारणत्व । १६ ग. वयते । कैव०पा०४सू०४-८ पातञ्जलयोगसूत्राणि । ४९ तस्मिन्प्रतिबन्धके क्षीणे प्रकृतयः स्वयमभिमतकार्याय प्रभवन्ति । दृष्टान्तमाह-क्षेत्रिकवत् । यथा क्षेत्रिकः कृषीवल: केदारात्केदारान्तरं जलं निनीषुर्जलप्रतिबन्धकवरणभेदमात्रं करोति, तस्मिन्भिन्ने जलं स्वयमेव प्रसरद्रूपं परिणामं गृह्णाति न तु जलप्रसरणे तस्य कश्चित्प्रयत्न एवं धर्मादेर्बोद्धव्यम् ॥ ३॥ ___यदा साक्षात्कृततत्त्वस्य योगिनो युगपत्कर्मफलभोगायाऽऽत्मीयनिरतिशयविभूत्यनुभावाद्युगपदनेकशरीरनिर्मित्सा जायते तदा कुतस्तानि चित्तानि प्रभवन्तीत्याह--- निर्माणचितान्यस्मितायात्रात् ॥४॥ योगिनः स्वयं निर्मितेषु कायेषु यानि चित्तानि तानि मूलकारणादस्मितामात्रादेव तदिच्छया प्रसरन्ति अग्नेविस्फुलिङ्गा इव युगपत्परिणमन्ति ॥ ४ ॥ ननु बहुनां चित्तानां भिन्नाभिप्रायत्यान्नैककार्यकर्तृत्वं स्यादित्यत आह- ___ प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषाम् ॥ ५॥ तेषामनेकेषां चेतसां प्रवृत्तिभेदे व्यापारनानात्व एकं योगिनश्चितं प्रयोजक प्रेरकमधिष्ठातृत्वेन । तेन न भिन्नमतत्वम् । अयमर्थः- यथाऽऽत्मीयशरे मनश्चक्षुःपाण्या- दीनि यथेच्छं प्रेरयति अधिष्ठातृत्वेन तथा कायान्तरेष्वपीति ॥ ५ ॥ जन्मादिप्रभवत्वात्सिद्धीनां चित्तमपि तत्प्रभवं पञ्चविधमेव । ततो जन्मादिप्रभवाच्चित्तात्समाधिप्रभवस्य चित्तस्य वैलक्षण्यमाह- तत्र ध्यानजमनाशयम् ॥ ६ ॥ ध्यानजं समाधिजं यञ्चित्तं तत्पञ्चसु मध्येऽनाशयं कर्मवासन रहितमित्यर्थः ॥ ६॥ यथेतरचित्तेभ्यो योगिनश्चित्तं विलक्षणं क्लेशादिरहितं तथा कर्मापि विलक्षणमित्याह- ___ कर्माशुक्लाकृष्णं योगिनस्त्रिविधमितरेषाम् ।। ७ ॥ शुभफलदं कर्म यागादि शुक्लम् । अशुभफलदं ब्रह्महत्यादि कृष्णम् । उभयसंकीर्ण शुक्लकृष्णम् । तत्र शुक्लं कर्म विचक्षणानां दानतपःस्वाध्यायादिमतां पुरुषाणाम् । कृष्णं कर्म नारकिणाम् । शुक्लकृष्णं मनुष्याणाम् । योगिनां तु संन्यासवतां त्रिविधकर्मविपरीतं यत्फलत्यागानुसंधानेनैवानुष्ठानान्न किंचित्फलमारभते ॥ ७ ॥ अस्यैव कर्मणः फलमाह- . ततस्तद्विपाकानुगुणानामेवाभि- व्यक्तिर्वासनानाम् ॥ ८ ॥ " इह हि द्विविधाः कर्मवासनाः स्मृतिमात्रफला जात्यायुर्भोगफलश्च । तत्र जात्यायुर्भो. १७. ग. विड्यापार । २ ख. ग. फलोपभो । ३ क. 'नुभवा । ४ ग. तस्स्यानि । ५ क. 'दित्याह । ६ ख. ग. 'म् । थे । ७ क. अतो। ८ क. दानवानाम् । ९ख. रकाणा। ५० भोजदेवविरचितवृत्तिसमेतानि- कैव०पा० ४सू०९-१०] गफला एकानेकजन्मभवा इत्यनेन पूर्वमेव कृतनिर्णयाः । यास्तु स्मृतिमात्रफलास्तासु ततः कर्मणो येन कर्मणा यादृक्शरीरमारब्धं देवमनुष्यतिर्यगादिभेदेन तस्य विपाकस्य या अनुगुणा अनुरूपा वासनास्तासामेवाभिव्यक्तिर्वासनानां भवति । अयमर्थः-येन कर्मणा पूर्व देवतादिशरीरमारब्धं जात्यन्तरशतव्यवधानेन पुनस्तथाविधस्यैव शरीरस्याऽs. रम्भे तदनुरूपा एव स्मृतिफला वासनाः प्रकटी भवन्ति । लोकोत्तरेष्वेवार्थेषु तस्य स्मृत्यादयो जायन्ते । इतरास्तु सत्योऽपि अव्यक्तसंज्ञास्तिष्ठन्ति न तस्यां दशायां नारका. दिशरीरोद्भवा वासना व्यक्तिमायान्ति ॥ ८ ॥ आसामेव वासनानां कार्यकारणभावानुपपत्तिमाशङ्कय समर्थयितुमाह- जातिदेशकालव्यवहितानामप्यानन्तर्यं स्मृतिसंस्कारयोरेकरूपत्वात् ॥ ९॥ इह नानायोनिषु भ्रमतां संसारिणां कांचिद्योनिमनुभूय यदा योन्यन्तरसहस्रव्यवधानेन पुनस्तामेव योनि प्रतिपद्यते तदा तस्यां पूर्वानुभूतायां योनौ तथाविधशरीरादिव्य- ञ्जकापेक्षया वासना याः प्रकटीभूता आसंस्तास्तथाविधव्यञ्जकाभावात्तिराहिताः पुनस्तथा- विधव्यञ्जकशरीरादिलाभे प्रकटी भवन्ति । जातिदेशकालव्यवधानेऽपि तासां स्वानुरूपस्मृत्यादिफलसाधन आनन्तर्यं नैरन्तयम्, कुतः, स्मृतिसंस्कारयोरेकरूपत्वात् । तथा ह्यनुष्ठीयमानाकर्मणश्चित्तसत्त्वे वासनारूपः संस्कारः समुत्पद्यते । स च स्वर्गनरकादीनां फलानामङ्कुरीभावः कर्मणां वा यागादीनां शक्तिरूपतयाऽवस्थानम् । कर्तुर्वा तथाविधभोग्यभोक्तृत्वरूपं सामर्थ्यम् । संस्कारास्मृतिः स्मृतेश्च सुखदुःखोपभोगस्तदनुभवाच्च पुनरपि संस्कारस्मृत्यादयः । एवं च यस्य स्मृतिसंस्कारादयो भिन्नास्तयाऽऽनन्तर्याभावे दुर्लभः कार्यकारणभावः । अस्माकं तु यदाऽनुभव एव संस्कारी भवति संस्कारश्च स्मृतिरूपतया परिणमते तदैकस्यैव चित्तस्यानुसंधातृत्वेन स्थितत्वात्कार्यकारणभावो न दुर्घटः ॥ ९॥ भवत्वानन्तर्यं कार्यकारणभावश्च वासनानां यदा तु प्रथममेवानुभवः प्रवर्तते तदा किं वासनानिमित्त उत निर्निमित्त इति शङ्कां व्यपनेतुमाह- तासामनादित्वमाशिषो नित्यत्वात् ॥ १० ॥ तासां वासनानामनादित्वं न विद्यत आदिर्यस्य तस्य भावस्तत्त्वं तासामादिर्ना- १ ख. °लास्ततः । २ . °स्तास्ततः । ३ ख. ग. °मेव तस्मादभि । ४ क. तिर्भद ५ क. लोकान्तरे ६ क. °स्तु ताभ्यो न्याभूनास्ति । ७ ग. शरस्योपभोगभग । ८ ख. ग. 'रणानु। ९ ख. म. रोभूताः । १० क.नुभूतस्म । ११ ख. ग. "न्तर्यमेव । कु. । १२ ख. नानुरू। १३ ख. ग. भोगभो । १४ ग. च सति य. । १५ ग. त्वेनान्वित । [कैव०पा०४२० ११-१२] पातञ्जलयोगसूत्राणि । ५१ स्तीत्यर्थः । कुत इत्यत आह-आशिषो नित्यत्वात् । येयमाशीमहामोहरूपा सदैव सुखसाधनानि मे भूयासुर्मा कदाचन तैर्मे वियोगो भूदिति यः संकल्पविशेषो वासनानां कारणं, तस्य नित्यत्वादनादित्वादित्यर्थः । एतदुक्तं भवति–कारणस्य संनिहितत्वादनुभवसंस्कारादीनां कार्याणां प्रवृत्तिः केन वार्यते, अनुभवसंस्काराद्यनुविद्धं संकोचविकाशधर्मि चित्तं तत्तदभिव्यञ्जक विपाकलाभात्तत्तत्फलरूपतया परिणमत इत्यर्थः ॥ १० ॥ तासामानन्त्याद्धानं कथं संभवतीयाशङ्कय हानोपायमाह- हेतुफलाश्रयालम्बनैः संगृहीतत्वा- देषामभावे तदभावः ॥ ११ ॥ वासनानामनन्तरानुभवो हेतुस्तस्याप्यनुभवस्य रागादयस्तेषामविद्येति साक्षात्पारम्पर्येण हेतुः । फलं शरीरादि स्मृत्यादि च । आश्रयो बुद्धिसत्त्वम् । आलम्बनं यदेवानुभवस्य तदेव वासनानामतस्तैर्हेतुफलाश्रयालम्बनैरनन्तानामपि वासनाना संगृहीतत्वात्ते(दे) षां हेत्वादीनामभावे ज्ञानयोगाभ्यां दग्धबीजत्वे विहिते निर्मलत्वान्न वासनाः प्ररोहन्ति न कार्यमारमन्त इति तासामभावः ॥ ११ ॥ ननु प्रतिक्षणं चित्तस्य नश्वरत्वात्तरतमत्वोपलब्धेर्वासनानां तत्फलानां च कार्यकारण- भावेन युगर्पदभावित्वाद्भेदे कथमेकत्वमित्याशङ्कयैकत्वसमर्थनायाऽऽह- - अतीतानागतं स्वरूंपतोऽस्त्यध्व- भेदोद्धर्माणाम् ॥ १२ ॥ इहात्यन्तमसतां भावानामुत्पत्तिर्न युक्तिमती तेषां सत्त्वसंबन्धायोगात् । न हिं. शशविषाणादीनां क्वचिदपि सत्त्वसंबन्धो दृष्टः । निरुपाये च कार्ये किमुद्दिश्य कारणानि प्रवर्तेरन् । न हि विषयमनालोच्य कश्चित्प्रवर्तते । सतामपि विरोधानाभावसंबन्धोऽस्ति । यत्स्वरूपेण लब्धसत्ताकं तत्कथं निरुपायतामविरूपतां वा भजते न विरुद्धं रूपं स्वीकरोतीत्यर्थः । तस्मासतामभावासंभवादसतां चोत्पत्त्यसंभवात्तैस्तैर्धर्मैर्विपरिणममानो धर्मी सदैवैकरूपतयाऽवतिष्ठते । धर्मास्तु व्यधिकत्वेन त्रैकालिकत्वेन व्यवस्थिताः स्वस्मिन्स्वस्मिन्नध्वनि व्यवस्थिता न स्वरूपं त्यजन्ति । वर्तमानेऽध्वनि व्यवस्थिताः केवलं भोग्यतां क. 'दित्वमित्य । २ क. रानु । ३ क. कला । ४ ग. 'त्यादयश्च । आ । ५ क, "जकल्यत्वे । ख. जवदल्पत्वे । ६ क. स्त्वो। ७ ख. वाद्धे । ८ क. पदावि ९ ख. ग. 'रूपं नास्त्य' । १० व. ग. दात्तद्ध' । ३१ ख. 'स्यतां भ । १२ ग. 'वसक रूपतां भ । १३ क. 'स्तु अधि । ख. स्तु तत्रैव म । १४ क. न त । ५२ - भोजदेवविरचितवृत्तिसमेतानि [ कैव०पा०४२०१३-१५] भजन्ते । तस्माद्धर्माणामेवातीतानागताद्यष्वभेदस्तेनैव रूपेण कार्यकारणभावोऽस्मिन्दर्शने प्रतिपाद्यते । तस्मादपवर्गपर्यन्तमेकमेव चित्तं धर्मितयाऽनुवर्तमानं न निह्रोतुं पार्यते ॥ १२॥ त एते धर्मधर्मिणः किंरूपा इत्यत आह- ते व्यक्तसूक्ष्मा गुणात्मानः ॥ १३ ॥ य एते धर्मधर्मिणः प्रोक्तास्ते व्यक्तसूक्ष्मभेदेन व्यवस्थितो गुणाः सत्त्वरजस्तमोरूपास्तदात्मानस्तत्स्वभावास्तत्परिणामरूपा इत्यर्थः । यतः सत्त्वरजस्तमोभिः सुखदुःखमोहरूपैः सर्वासां बाह्याभ्यन्तरभेदभिन्नानां भावव्यक्तीनामन्वयानुगमो दृश्यते । यद्यदन्वयि तत्तत्परिणामरूपं दृष्टं यथा घटादयो मृदन्विता मृत्परिणामरूपाः ॥ १३ ॥ यद्येते त्रयो गुणाः सर्वत्र मूलकारणं कथमेको धर्मीति व्यपदेश इत्याशङ्कयाऽऽह --- परिणामैकत्वाद्वस्तुतत्त्वम् ॥ १४ ॥ यद्यपि त्रयो गुणास्तथाऽपि तेषामङ्गाङ्गिभावगमनलक्षणो यः परिणामः क्वचित्सत्वमङ्गि क्वचिद्रजः क्वचिच्च तम इत्येवंरूपस्तस्यैकत्वाद्वस्तुनस्त्वमेकत्वमुच्यते । यथेयं पृथिवी, अयं वायुरित्यादि ॥ १४ ॥ ननु च ज्ञानव्यतिरिक्ते सत्यर्थे वस्त्वेकानेकं वा वक्तं युज्यते । यदा विज्ञानमेव वासनावशात्कार्यकारणभावेनावस्थितं तथा तथा प्रतिभाति तदा कथमेतच्छक्यते वक्तुमित्याशङ्कयाऽऽह--- वस्तुसाम्ये चित्तभेदात्तयोर्विविक्तः पन्थाः ॥ १५ ॥ तयोर्ज्ञानार्थयोर्विविक्तः पन्था विविक्तो मागः इति यावत् । कथं, वस्तुसाम्ये चित्तभेदात् । समाने वस्तुनि स्यादावुपलभ्यमाने नानाप्रमातृणां चित्तस्य भेदः सुखदुःखमोहरूपतया समुपलभ्यते । तथाहि----एकस्यां रूपलावण्यवत्यां योषिति उपलभ्यमानायां सरागस्य सुखमुत्पद्यते सपन्यास्तु द्वेषः परिव्राजकादेर्धृणेत्येकस्मिन्वस्तुनि नानाविधचित्तोदयात्कथं चित्तकार्यत्वं वस्तुन एकचित्तकार्यत्वे वस्त्वेकरूपतयैवावभासेत । किं च चित्तकार्यत्वे वस्तुनो यदीयस्य चित्तस्य तद्वस्तु कार्यं तस्मिन्नर्थान्तरव्यासक्तेतद्वस्तु न किंचित्स्यात् । भवत्विति चेन्न तदेव कथमन्यैर्बहुभिरुपलभ्येत, उपलभ्यते च । १ क. भेदात्तेनै । २ ग. °ता ये गु । ३ ग. गमा बुझ्यो । यद । ४ क. पामि, 1 ५ ख. पदिश्यत इ।६ क, स्तुतत्व । ७ ग. निशेययो १८ ख. मार्यो भेद इ । ९ क. देश इ । १० क. °ने लावण्यादौ ना। ११ ख. "वता स । १२ ख. ग. यदा य" १३ ख. 'व्यापृते चित्ते ल । १४ ग. में चित्ते त° । १५ ख. ग. तदैव । ५३. [कैव०पा०४२०१६] पातञ्जलयोगसूत्राणि । तस्मान्न चित्तकार्यम् । अथ युगपद्बहुभिः सोऽर्थः क्रियते, तदा बहुभिर्निर्मितस्यार्थस्यैकनिर्मिताद्वैलक्षण्यं स्यात् । यदा तु वैलक्षण्यं नेष्यते तदा कारणभेदे सति कार्यभेदस्याभावे निर्हेतुकमेकरूपं वा जगत्स्यात् । एतदुक्तं भवति-- सत्यमपि भिन्न कारणे यदि कार्यस्याभेदस्तदा समग्रं जगन्नानाविधकारणजन्यमेकरूपं स्यात् । कारणभेदाननुगमा स्वातंत्र्येण निर्हेतुकं वा स्यात् । यद्येवं कथं तेन त्रिगुणात्मनोऽर्थेनैकस्यैव प्रमातुः सुखदुःखमोहमयानि ज्ञानानि न जन्यन्ते । मैवम् । यथाऽस्त्रिगुणस्तथा चित्तमपि त्रिगुणं तस्य चार्थप्रतिभासोत्पत्तौ धर्मादयः सहकारिकारणं तदुद्भवाभिभववशात्कदाचिच्चित्तस्य तेन तेन रूपेणाभिव्यक्तिः । तथा च कामुकस्य संनिहितायां योषिति धर्मसहकृतं चित्तं सत्त्वस्याङ्गितया परिणममानं सुखमयं भवति । तदेवाधर्मसहकारि रजसोऽङ्गितया दुःखरूपं सपनीमात्रस्य भवति । तीव्राधर्मसहकारितया परिणममानं तमसोऽङ्गत्वेन कोपनायाः सपत्न्या मोहमयं भवति । तस्माद्विज्ञानव्यतिरिक्तोऽस्ति बाह्योऽर्थः । तदेवं न विज्ञानार्थ- योस्तादात्म्यं विरोधान्न कार्यकारणभावः । कारणाभेदे सत्यपि कार्यभेदप्रसङ्गादिति ज्ञानाद्वयतिरिक्तत्वमर्थस्य व्यवस्थापितम् ॥ १५ ॥ यद्येवं ज्ञानं चेत्प्रकाशकत्वाद्ग्रहणस्वभावमयश्व प्रकाश्यत्वाद्ग्राह्यस्वभावस्तत्कथं युगपत्सर्वानर्थान् गृह्णाति न स्मरति चेत्याशङ्कय परिहारं वक्तुमाह- तदुपरागापेक्षित्वाञ्चित्तस्य वस्तु ज्ञाताज्ञातम् ॥ १६ ॥ तस्यार्थस्योपरागादाकारसमर्पणाच्चित्ते बाह्यं वस्तु ज्ञातमज्ञातं च भवति । अयमर्थः- सर्वः पदार्थ आत्मलाभे सामग्रीमपेक्षते । नीलादिज्ञानं चोपजायमानमिन्द्रियप्रणालिकया समागतमर्थोपरागं सहकारिकारणत्वेनापेक्षते । व्यतिरिक्तस्यार्थस्य संबन्धाभावाग्रहीतुमशक्यत्वात् । ततश्च येनैवार्थेनास्य ज्ञानस्य स्वरूपोपरागः कृतस्तमेवार्थं ज्ञानं व्यवहारयोग्यतां नयति । ततश्च सोऽर्थो ज्ञात इत्युच्यते । येन चाऽऽकारो न समर्पित': स न ज्ञातत्वेन व्यवह्रियते । यस्मिंश्चानुभूतेऽर्थे सदृशादिरर्थः संस्कारमुबोधयन्सहका- १ ख. तन्व्यं नि । २ ग. ये नि 1 ३ ग. के स्या' । ४ क. ना चितेनै । ५ क. स. °नि ज°। ६ क. ग. या त । ७ क. 'तिरेकेणास्ति । ८ क. " कि । ९ ख. ग. ज्ञानवस्तुनीस्ता । १० क. दात्म्यवि । ११ ख. ग. रणभेदेऽम° । १२ क. °शकां परिहर्तुम । १३ ख. °दार्थः स्वात्म° । १४ ग. "त्मज्ञानसा । १५ क. भे चित्तं सा । १६ ख. नमन्द्रियकतया । १७ ग. स्वस्वरू। १८ क. ' तज्ज्ञानं । १९ ख. ज्ञानव्य । १. क. जनयति । २१ ग. "तः सोऽज्ञा । २२ क. र्थे सादृश्यादि । ५४ . भोजदेवविरचितवृत्तिसमेतानि- [कैव०पा०४सू०१७- १९] रिकारणता प्रतिपद्यते तस्मिन्नेवार्थे स्मृतिरुपजायत इति न सर्वत्र ज्ञानं नापि सर्वत्र स्मृतिरिति न कश्चिद्विरोधः ॥ १६॥ पद्येवं प्रमाताऽपि पुरुषो यस्मिन्काले नीलं वेदयते न तस्मिन्काले पौतमतस्तस्यापि कादाचित्कं, ग्रहीतृरूपत्वादाकारग्रहणे परिणामित्वं प्राप्तमित्याशङ्कां परिहर्तुमाह-- सदा ज्ञाताश्चित्तवृत्तयस्तत्प्रभोः पुरुषस्यापरिणामित्वात् ॥ १७॥ या एताश्चित्तस्य प्रमाणविषयादिरूपा वृत्तयस्तास्तत्प्रभोश्चित्तस्य ग्रहीतुः पुरुषस्य सदा सर्वकालमेव ज्ञेयाः, तस्य चिद्रूपतयाऽपरिणामा(मित्वा ):परिणामित्वाभावादित्यर्थः । यद्यसौ परिणामी स्यात्तदा परिणामस्य कादाचित्कत्वाप्रमातुस्तासां चित्तवृत्तीनां सदा ज्ञातत्वं नोपपद्येत । अयमर्थः-पुरुषस्य चिद्रूपस्य सदैवाधिष्ठातृत्वेन व्यवस्थितस्य यदन्तरङ्गं निर्मलं सत्त्वं तस्यापि सदैवावस्थितैत्वाद्येन येनार्थेनोपरक्तं भवति तथाविधंस्यार्थस्य सदैव चिच्छायासंक्रान्तिसद्भावस्तस्यां सत्यां सिद्धं सदा,ज्ञातृत्वमिति न कदाचित्परिणामित्वाशङ्का ॥ १७ ॥ ननु चित्तमेव यदि सत्त्वोत्कर्षात्प्रकाशकं तदा स्वपरप्रकाशकत्वादात्मानमर्थं च प्रकाश- यतीति तावतैव व्यवहारसमप्तिः किं ग्रहीत्रन्तरेणेत्याशङ्कामपनेतुमाह--- न तत्स्वाभासं दृश्यत्वात् ॥१८॥ तच्चित्तं स्वाभासं स्वप्रकाशकं न भवति पुरुषवेद्यं भवतीति यावत् । कुतः, दृश्यत्वात् । यत्किल दृश्यं तद्दष्ट्वेद्यं दृष्टं यथा घटादि । दृश्यं च चित्तं तस्मान्न स्वाभासम् ॥ १८ ॥ ननु साध्याविशिष्टोऽयं हेतुः, दृश्यत्वमेव चित्तस्यासिद्धम् । किंच स्वबुद्धिसंवेदनद्वारेण पुरुषाणां हिताहितप्राप्तिपरिहाररूपा वृत्तयो दृश्यन्ते । तथाहि -क्रुद्धोऽहं भीतोऽह- मत्र मे राग इत्येवमाद्या संविबुद्धेरसंवेदने नोपपद्यतेत्याशङ्कामपनेतुमाह- एकसमये चोभयानवधारणम् ॥ १९ ॥ अर्थस्य संवित्तिरिदंतया व्यवहारयोग्यतापादनमयमर्थः सुखहेतुर्दुःखहेतुर्वेति । १ क. रितां । २ ख. ग. °लंसंवेदयति ।३ क. पीतादिमतश्चित्तसत्त्वस्या 1४ क. फि कदाचिद्गृहीतरू। ५ ख. ग. °णामात् । ६ ग. ङ्ग शेयं नि । ७ ग. "तत्वं तये । ८ ख. ग. °धस्य वृश्यस्य । ९ ख. न काचित्परिणामाश। १० क. "चित्क्वचित्परिणामाश | १५क. ख. शलपत्वा । १२ क. 'माप्तिः किं । १३ ग. °सेः कृतं य । १४ ग. वेयं । १५ क. हि । १६ ग. 'माद्याः संबिंदो युद्धे । १७ ख. पनेत्या । म. पन्ना इत्या १८ ख. ग. शहां निरसितु । १९ क. रणात् ॥ १९ ॥ (कैव०पा०४सू०२०-२१] पातञ्जलयोगसूत्राणि । बुद्धेश्व संविदहमित्येवमाकारेण सुखदुःखरूपतया व्यवहारक्षमतापादनम् । एवंविधं च व्यापारद्वयमर्थप्रत्यक्षताकाले न युगपत्कर्तुं शक्यं विरोधात् । न हि विरुद्धयोापारयोर्युगपत्संभवोऽस्ति । अत एकस्मिन्काल उभयस्य स्वरूपस्यार्थस्य • चावधारयितुमशक्यत्वान्न चित्तं स्वप्रकाशमित्युक्तं भवति । किं चैवंविधव्यापारयनिष्पाद्यस्य फलद्वयस्यासंवेदनाद्वहिर्मुखतयैवार्थनिष्ठत्वेन चित्तस्य संवेदनादर्थनिष्ठमेव फलं न स्वनिष्ठमित्यर्थः ॥ १९ ॥ ननु मा भूद्बुद्धेः स्वयं ग्रहणं बुद्ध्यन्तरेण भविष्यतीत्याशङ्कयाऽऽह---- चित्तान्तरदृश्ये बुद्धिबुद्धेरतिप्र- सङ्गः स्मृतिसंकरश्च ॥ २० ॥ यदि हि बुद्धिर्बुद्धयन्तरेण वेद्यते तदा साऽपि बुद्धिः स्वयमबुद्धा बुद्धयन्तरं प्रकाशयितुमसमर्थेति तस्या ग्राहकं बुद्धयन्तरं कल्पनीयं तस्याप्यन्यदित्यनवस्थानात्पुरुषायुषेणाप्यर्थ- प्रतीतिर्न स्यात् । न हि प्रतीतीवप्रतीतायामर्थः प्रतीतो भवति । स्मृतिसंकरश्च प्राप्नोति रूपे रसे वा समुत्पन्नायां बुद्धौ तद्ग्राहिकाणामनन्तानां बुद्धीनां समुत्पत्तेर्बुद्धिजनितैः संस्कारैर्यदा युगपद्बह्वयः स्मृतयः क्रियन्ते तदा बुद्धेरपर्यवसानाद्बुद्धिस्मृतीनां च बहीना युगपदुत्पत्तेः कस्मिन्नर्थे स्मृतिरियमुत्पन्नेति ज्ञातुमशक्यत्वात्स्मृतीनां संकरः स्यात् । इयं रूपस्मृतिरियं रसस्मृतिरिति न ज्ञायेत ॥ २० ॥ ननु बुद्धेः स्वप्रकाशत्वाभावे बुद्धयन्तरेण चासंवेदने कथमयं विषयसंवेदनरूपो व्यवहार इत्याशङ्कय स्वसिद्धान्तमाह- चितेरपतिसंक्रमायास्तदाकारापत्तौ स्वबुद्धिसंवेदनम् ॥ २१ ॥ पुरुषश्चिद्रूपत्वाञ्चितिः साऽप्रतिसंक्रमा न विद्यते प्रतिसंक्रमोऽन्यत्र गमनं यस्याः सा तथोक्ता, अन्येनासंकीर्णेति यावत् । यथा गुणा अङ्गीङ्गिभावलक्षणे परिणामेऽङ्गिनं गुणं संक्रामन्ति तद्रूपतामिवाऽऽपद्यन्ते, यथा वा लोके परमाणवः प्रसरन्तो विषयमारूपयन्ति नैवं चितिशक्तिस्तस्याः सर्वदैकरूपतया स्वप्रतिष्ठितत्वेन व्यवस्थितत्वात् । अतस्तत्संनिधाने यदा बुद्धिस्तदाकारतामापद्यते चेतनेवोपजायते, बुद्धिवृत्तिप्रतिसं. १ ग. पदियमि । २ ख. °ण वा सु । ३ क. 'क्षका । ४ ग. दयायत्तस्य । ५ क. थैव स्वनि । ६ क. "स्य स्वयं वे 1७ ग. स्वयं बुद्ध्य । ८ क. यमेव स्वीयभावरूपमज्ञात्वाऽ बुद्ध्वा बुद्ध्य । ९ ख. बोधकं । १० ख. "ताया। ११ ख. ग. "ना यु। १२ ग. करादियं । १३ क. शायते । १४ क. दादिमा । १५ म. वगमनल° । १६ ख. ग. गुणमुपसं । १७क, मारोप। E ५६ . भोजदेवविरचितवृत्तिसमेतानि- कैव०पा०४२०२२-- क्रान्ता च यदा चिच्छक्तिबुद्धिवृत्तिविशिष्टतया संवेद्यते सदा बुद्धेः स्वस्याऽरमनो वेदन भवतीत्यर्थः ॥ २१ ॥ इत्थं स्वसंविदितं चित्तं सर्वार्थग्रहणसामर्थ्येन सकलव्यवहारनिर्वाहक्षम भवतीत्याह-- ___ द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थम् ॥ २२ ॥ द्रष्टा पुरुषस्तेनोपरक्तं तत्संनिधानेन तद्रूपतामिव प्राप्तं दृश्योपरक्तं विषयोपरक्तं गृहीत. विषयाकारपरिणामं यदा भवति तदा तदेव चित्तं सर्वार्थग्रहणसमर्थ भवति । यथा निर्मलं स्फटिकदर्पणाद्यैव प्रतिबिम्बग्रहणसमर्थमेवं रजस्तमोभ्यामनभिभूतं सत्त्वं शुद्धत्वाच्चिच्छायाग्रहणासमर्थं भवति, न पुनरशुद्धत्वाद्रजस्तमसी । तग्न्यग्भूतरजस्तमोरूपमैङ्गितया सत्त्वं निश्चलप्रदीपशिखाकारं सदैवकरूपतया परिणममानं चिच्छायाग्रहणसामर्थ्यादा मोक्ष- प्राप्तेरवतिष्ठते । यथाऽयस्कान्तसंनिधाने लोहस्य चलनमाविर्भवति एवं चिद्रूपपुरुषसंनिधाने सत्त्वस्याभिव्यङ्गयमभिव्यज्यते चैतन्यम् । अत एवास्मिन्दर्शने द्वे चिच्छक्ती नित्योदिताऽ. भिव्यङ्गया च । नित्योदिता चिच्छक्तिः पुरुषस्तत्संनिधानादभिव्यक्तमभिव्यङ्गयचैतन्यं सत्त्वमभिव्यङ्गया चिच्छक्तिः । तदत्यन्तसंनिहितत्वादन्तरङ्गं पुरुषस्य भोग्यतां प्रतिपद्यते । तदेव शान्तब्रह्मवादिभिः सांख्यैः पुरुषस्य परमात्मनोऽधिष्ठेयं कर्मानुरूपं सुखदुःखभोक्तृतया व्यपदिश्यते । यस्वनुद्रिक्तत्वादेकस्यापि गुणस्य कदाचित्कस्यचिदङ्गित्वात्त्रिगुणं प्रतिक्षणं परिणममानं सुखदुःखमोहात्मकमनिर्मलं तत्तस्मिन्कर्मानुरूपे शुद्धे सत्त्वे स्वाकारसमर्पणद्वारेण संवेद्यतामापादयति । तच्छुद्धमाद्यं चित्तसत्यमेकतःप्रतिसंक्रान्तचिच्छायमन्यतोगृहीतविषयाकारेण चित्तेनोपढौकितस्वाकारं चित्संक्रान्तिबलाच्चेतना- यमानं वास्तवचैतन्याभावेऽपि सुखदुःखंभोगमनुभवति । स एव भोगोऽत्यन्तसंनिधा नेन विवेकाग्रहणादभोक्तुरपि पुरुषस्य भोग इति व्यपदिश्यते । अनेनैवाभिप्रायेण १ ख. कान्ततया चिच्छक्तिबुद्धयन्तरवृ' । २ ख. ग. वृत्त्यावेशात्तथा संघद्यते । ३ क. "नं संवेदनं भ । ४ क. निग्र । ५ क.लनि । ६ ख. रजनकं भ° । ७ क, भविष्यती । ८ ख. "तं वि । ९ ग. °क्तं गृ । १० ख. ग. 'व स । ११ ख. ग. जायते । १२ ग. लं स्फाटिकं द. १३ ख. ग. येवं प्र । १४ ख. तदा न्यग्भू । ग. तदनभिभूत । १५ ग. 'मसङ्गि' । १६ क. चित्तवृत्ती। १७ क. रुषे तत्त । १८ ख. ग. 'व्यनत्यभि । १९ ख. ग. व्यङ्गन्यां चिच्छति त । २० ख. व सांख्यय २१ ख. ग. तस्मि । २२ ख. 'कर्मणाऽऽत्मरू' ग. कर्मात्मरू । २३ क. तत्सत्तमा । २४ क. त्वमेवेति प्र' । २५ ग. तय । २६ क. "खस्वरूपभो । ख. वरूपभो । २७ ख. ग. न्तमानिध्येन । [ कैव०पा०४ सू०२२] पातञ्जलयोगसूत्राणि । विन्ध्यवासिनोक्तं " सत्त्वतप्यत्रमेव पुरुषतप्यत्वम् ” इति । अन्यत्रापि प्रतिबिम्बे प्रतिबिम्बमानम्छायासदृशच्छायोद्भवः प्रतिबिम्बशब्देनोच्यते । एवं सत्त्वेऽपि पौरुषेयचिच्छायासदृशेचिदभिव्यक्तिः प्रतिसंक्रान्तिशब्दार्थः । • ननु प्रतिबिम्बनं नाम निर्मलस्य नियतपरिणामस्य निर्मले दृष्टं, यथा मुखस्य दर्पणे । अत्यन्तनिर्मलस्य व्यापकस्यापरिणामिनः पुरुषस्य तस्मादैत्यन्तनिर्मलात्पुरुषादनिर्मले सत्त्वे कथं प्रतिबिम्बनेमुपपद्यते । उच्यते-प्रतिबिम्बनस्य स्वरूपमनवगच्छता भवतेदमभ्यधायि । यैव सत्त्वगताया अभिव्ययायाश्चिच्छक्तेः पुरुषस्य सांनिध्यादभिव्यक्तिः सैव प्रतिबिम्बनमुच्यते । यादृशी पुरुषगता चिच्छक्तिस्तच्छाया तथाऽऽविर्भवति । यदप्युक्तमत्यन्तनिर्मल: पुरुषः कथमनिर्मले सत्वे प्रतिसंक्रामतीति तदप्यनैकान्तिकं, नैर्मल्यादपकृष्ठेऽपि जलादावादित्यादयः प्रतिसंक्रान्ताः समुपलभ्यन्ते । यदप्युक्तमनवच्छिन्नस्य नास्ति प्रतिसंक्रान्तिरिति तदप्ययुक्तं, व्यापकस्याप्याकाशस्य दर्पणादौ प्रतिसंक्रान्तिदर्शनात् । एवं सति न काचिदनुपपत्तिः प्रतिबिम्बदर्शनस्य । ननु सात्त्विकपरिणामरूपे बुद्धिसत्त्वे पुरुषसंनिधानादभिव्यङ्गयायाश्चिन्छक्तेर्बाह्यार्थीकारसंक्रान्तौ पुरुषस्य सुखदुःखरूपो भोग इत्युक्तं तदनुपपन्नम् । देव चित्तसत्त्वं प्रकृतावपरिणतायां कथं संभवति किमर्थश्च तस्याः परिणामः । अथोच्येत पुरुषेस्यार्थोपभोगसंपादनं तथा कर्तव्यम् । अतः पुरुषार्थकर्तव्यतया तस्या युक्त एव परिणामः । तच्चानुपपन्नं, पुरुषार्थकर्तव्यताया एवानुपपत्तेः । पुरुषार्थो मया कर्तव्य इत्येवंविधोऽध्यवसायः पुरुषार्थकर्तव्यतोच्यते । जडायाश्च प्रकृतेः कथं प्रथममवैवविधोऽन्यवसायः । अस्ति चेदध्यवसायः कथं जडत्वम् । अत्रोच्यते--अनुलोमप्रतिलोमलक्षणपरिणामद्वये सहजं शक्तिद्वयमस्ति तदेव पुरुषार्थकर्तोव्यतोच्यते । सा च शक्तिरचेतनाया अपि प्रकृतेः सहजैव । तत्र महदादिमहाभूतपर्यन्तोऽस्या बहिर्मुखतयाऽनुलोमः परिणामः पुनः स्वकारणानुप्रवेशद्वारेणास्मितान्तः परिणामः प्रतिलोमः । इत्थं पुरुषस्याऽऽभोगपरिसमाप्तेः सहजशक्तिद्वयक्षयात्कृतार्था प्रकृतिर्न पुनः परिणाममारभते । एवंविधायां च पुरुषार्थकर्तव्यतायां जडाया अपि प्रकृतेर्न काचिदनुपपत्तिः । ननु यदीदृशी शक्तिः सहजैव प्रधानस्यास्ति तत्किमर्थं मोक्षार्थिभिर्मोक्षाय यत्नः क्रियते, ४ १ ख. ग. सतथात्व' । २ ख. रुषीयम् । म. पीयत्व । ३ क. पि बि । ४ ख बिम्ब । ५ स. ग. °शस्वकीयचिच्छायान्तराभिव्यक्तिः प्रतिबिबश । ६ क. दार्थ इति न । ७ ख. ग. कस्य च. पु । ८ ख. ग. दनिर्मले । ९ ख. °नम् । तस्य । १० ग. मुत्यय १२ ख. ग. °निध्येऽभि'। १२ ख. ग. धनुष"न व्या । १३ ग. नदेवं । १४ ख. ग. थोच्यते पु' । १५ ख. ग. रुषार्थो । १६ ख. कथभेरं । १७ क. । १८ स्व. व्यत. योच्य : ५८ - भोजदेवविरचितवृत्तिसमेतानि- कैव०पा० ४सू०२३] मोक्षस्य चानर्थनीयत्वे तदुपदेशकशास्त्रस्याऽऽनर्थक्यं स्यात् । उच्यते --योऽयं प्रकृतिपुरुषयोरनादिर्भाग्यभोक्तृत्वलक्षणः संबन्धस्तस्मिन्सति व्यक्तचेतनायाः प्रकृतेः कर्तृत्वाभिमानादुःखानुभवे सति कथमियं दुःखनिवृत्तिरात्यन्तिकी मम स्यादिति भवत्येवाध्यवसायः । अतो दुःखनिवृत्युपायोपदेशकशास्त्रोपदेशापेक्षाऽस्त्येव प्रधानस्य । तथाभूतमेव च कर्मानुरूपं बुद्धिसत्त्वं शास्त्रोपदेशस्य विषयः । दर्शनान्तरेष्वप्येवंविध एवाविद्यास्वभावः शास्त्रऽधिक्रियते । स च मोक्षाय प्रयतमान एवंविधमेव शास्त्रोपदेशं सहकारिणमपेक्ष्य मोक्षाख्यं फलमासादयति । सर्वाण्येव कार्याणि प्राप्तायां सामग्र्यामात्मानं लभन्ते । अस्य च प्रतिलोमपरिणामद्वारेणवोत्पाद्यस्य मोक्षाख्यस्य कार्यस्येदृश्येव सामग्री प्रमाणेन निश्चिता प्रकारान्तरेणानुपपत्तेः । अतस्तां विना कथं भवितुमर्हति । अतः स्थितमेतत् , संक्रान्तविषयोपरागमभिव्यक्तचिच्छायं बुद्धिसत्त्वं विषयनिश्चयद्वारेण समग्रां लोकयात्रा निर्वाहयतीति । एवंविधमेव चित्तं पश्यन्तो भ्रान्ताः स्वसंवेदनं चित्तं चित्तमात्रं च जगदित्येवं ब्रुवाणा: प्रतिबोधिता भवन्ति ॥ २२ ॥ ननु यद्येवंविधादेव चित्तात्सकलव्यवहारनिष्पत्तिः कथं प्रमाणशून्यो द्रष्टाऽभ्युपगम्यत इत्याशङ्कय द्रष्टुः प्रमाणमाह- तदसंख्येयवासनाभिश्चित्रमपि परार्थं संहत्यकारित्वात् ।। २३ ॥ तदेव चित्तं संख्यातुमशक्याभिर्वासनाभिश्चित्रमपि नानारूपमपि परार्थं परस्य स्वामिनो भोक्तुर्भोगापवर्गलक्षणमर्थं साधयतीति । कुतः, संहत्यकारित्वात् , संहत्य संभूय मिलित्वाऽयक्रियाकारित्वात् । यच्च संहत्यार्थक्रियाकारि तत्परार्थं दृष्टं, यथा शयनासनादि । सत्त्वरजस्तमांसि च चित्तलक्षणपरिणामभाञ्जि संहत्यार्थकारीणि चीतः परार्थानि । यः परः स पुरुषः । ननु यादृशेन शयनादिना परेण शरीरवता पारार्थ्यमुपलब्धं तद्दृष्टान्तबलेन तादृश एव परः सिध्यति । यादृशश्च भवता परोऽसंहत- रूपोऽभिप्रेतस्तद्विपरीतस्य सिद्धेरयमिष्टविघातकृद्धेतुः । उच्यते--यद्यपि सामान्येन परार्थमात्रे व्याप्तिर्गृहीता तथाऽपि सत्त्वादिविलक्षणधर्मिपर्यालोचनया तद्विलक्षण एवं भोक्ता परः सिध्यति । यथा चन्दनवनावृते शिखरिणि विलक्षणाद्धूमाद्वह्निरनुमीयमान १ ख. ग. "क्तभावल । २ ख. ग. °स्नेऽभिधीय । ३ क. दनचित्तमात्रं ज' ।.ग. "दनचि° ४ ख. चित्त । ५ ग. द्रार । ६ ख. "देतच्चित्तं । ७ ग. स्थायिनो । ८ ख. नोऽ. थक्रियाभो । ९ ख. ग. अतः । १. ख. ग. यश्च । ११ क. "नासनादीनां । १२ क. भवतां । १३म. मात्रत्वेन व्या। कैव०पा०४सू०२४-२७] पातञ्जलयोगसूत्राणि । तरवह्निविलक्षणश्चन्दनप्रभव एव प्रतीयते, एवमिहापि विलक्षणस्य सत्त्वाख्यस्य भोग्यस्य परार्थत्वेऽनुमीयमाने तथाविध एव भोक्ताऽधिष्ठाता परश्चिन्मात्ररूपोऽसंहतः सिध्यति । यदि च तस्य परत्वं सर्वोत्कृष्टत्वमेव प्रतीयते तथाऽपि तामसेभ्यो विषयेभ्यः प्रकृष्यते शरीरं, प्रकाशरूपेन्द्रियाश्रयत्वात् , तस्मादपि प्रकृष्यन्त इन्द्रियाणि, ततोऽपि प्रकृष्टं सत्त्वं आकाशरूपं, तस्यापि यः प्रकाशकः प्रकाश्यविलक्षणः स चिद्रूप एव भवतीति कुतस्तस्य संहतत्वम् ॥ २३ ॥ इदानी शास्त्रफलं कैवल्यं निर्णेतुं दशभिः सूत्रैरुपक्रमते--- विशेषदर्शिन आत्मभावभावनानिवृत्तिः ॥ २४॥ एवं सत्त्वपुरुषयोरन्यत्वे साधिते यस्तयोर्विशेषं पश्यति अहमस्मादन्य इत्येवंरूपं, तस्य विज्ञातचित्तस्वरूपस्य चित्ते याऽऽत्मभावभावना सा निवर्तते चित्तमेव कर्तृ ज्ञातृ भोक्तृ इत्यभिमानो निवर्तते ॥ २४ ॥ तस्मिन्सति किं भवतीत्याह - तदा विवेकनिम्न कैवल्यप्राग्भारं चित्तम् ॥ २५॥ [* यदस्याज्ञाननिम्नपथं बहिर्मुखं विषयोपभोगफलं चित्तमासीत्तदिदानीं विवेकनिम्नमार्गगन्तर्मुखं कैवल्यप्राग्भारं कैवल्यफलं कैवल्यप्रारम्भं वा संपद्यत इति ] ॥२५॥ अस्मिंश्च विवेकवाहिनि चित्ते येऽन्तरायाः प्रादुर्भवन्ति तेषां हेतुप्रतिपादनद्वारेण त्यागोपायमाह- तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः ॥ २६ ॥ तस्मिन्समाधौ स्थितस्य च्छिद्रेष्वन्तरालेषु यानि प्रत्ययान्तराणि व्युत्थानरूपाणि ज्ञानानि तानि प्राग्भूतेभ्यो व्युत्थानानुभवजेभ्यः संस्कारेभ्योऽहं ममेत्येवंरूपाणि क्षीयमाणेभ्योऽपि प्रभवन्ति अन्तःकरणोच्छित्तिद्वारेण तेषां हानं कर्तव्यमित्युक्तं भवति ॥ २६ ॥ हानोपायश्च पूर्वमेवोक्त इत्याह- हानमेषां क्लेशवदुक्तम् ॥ २७ ॥ यथा क्लेशानामविद्यादीनां हानं पूर्वमुक्तं तथा संस्काराणामपि कर्तव्यम् । यथा ते ज्ञानाग्निना प्लुष्टा दग्धबीजकल्पा न पुनश्चित्तभूमौ प्ररोहं लभन्ते तथा संस्कारा अपि ॥ २७ ॥

  • धनुश्चिह्नान्तर्गतग्रन्थस्थाने ख. पुस्तके " तदानीं यदस्य चित्तं विषयमारभारज्ञाननिम्न-

मासीत्तदन्यथा भवति कैवल्यपारभारं भवति ॥ इति पाठो विद्यते।

१ ख. वा । २ ख. तथाहि । ३ क.

माक्तनेभ्यो। मा । ४ क. ल्यारम्भं । ५ ख. ग. ६. भोजदेवविरचितवृत्तिसमेतानि-- [कैव०पा०४सू०२८-३२] एवं प्रत्ययान्तरानुदयेन स्थिरीभूते समाधी यादृश (शाs) स्य योगिनः समाधिप्रकर्षप्राप्तिर्भवति तथाविधमुपायमाह- प्रसंख्यानेऽप्यकुसीदस्य सर्वथा विवेक- ख्यातेधर्ममेघः समाधिः ॥ २८ ॥ प्रसंख्यानं यावतां तत्त्वानां यथाक्रमं व्यवस्थितानां परस्परविलक्षणरंवरूपविभावनं तस्मिन्सत्यप्यकुशीदस्य फलमलिप्सोः प्रत्ययान्तराणामनदये सर्वप्रकार विवेकख्यातेः परिशेषार्द्धममेघः समाधिर्भवति । प्रकृष्टमशुक्लकृष्णं धर्मं परमपुरुषार्थसाधकं मेहति सिञ्चतीति धर्ममेधः । अनेन प्रकृष्टधर्मस्यैव ज्ञानहेतुत्वमित्युपपादितं भवति ॥ २८ ॥ तस्माद्धर्भमेघात्किं भवतीयत आह- ततः क्लेशकर्मनिवृत्तिः ॥ २९॥ क्लेशानामविद्यादीनामभिनिवेशान्तानां कर्मणां च शुक्लादिभेदेन त्रिविधानां ज्ञानोदयात्पूर्वपूर्वकारणनिवृत्या निवृत्तिर्भवति ॥ २९ ॥ तेषु निवृत्तेषु किं भवतीत्यत आह- तदा सर्वावरणमलाषेतस्य ज्ञान- स्थाऽऽनन्त्याज्ज्ञेयमल्पम् ॥३०॥ आव्रीयते चित्तमेभिरित्यावरणानि क्लेशास्त एव मलास्तेभ्योऽपेतस्य तद्विरहितस्य ज्ञानस्य शरद्गगननिभस्याऽऽनन्यादनवच्छेदाज्ज्ञेयमल्पं गणनास्पदं न भवत्यश्लेशेनैव सर्वं ज्ञेयं जानातीत्यर्थः ॥ ३०॥ ततः किमित्यत आह- ततः कृतार्थानां परिणामक्रम- समाभिर्गुणानाम् ॥ ३१ ॥ कृतो निष्पादितो भोगापवर्गलक्षणः पुरुषार्थः प्रयोजनं यैस्ते कृतार्था गुणाः सत्त्वरजस्तमांसि तेषां परिणाम आ पुरुषार्थसमाप्तेरानुलोम्येन प्रातिलोम्येन चाङ्गाङ्गिभावः स्थितिलक्षणस्तस्य योऽसौ क्रमो वक्ष्यमाणस्तस्य परिसमाप्तिनिर्ष्ठा न पुनरुद्भव इत्यर्थः॥३१॥ क्रमस्योक्तस्य लक्षणमाह- क्षणप्रतियोगी परिणामापरा- न्तनिर्ग्राह्यः क्रमः ॥ ३२ ॥ क्षणोऽल्पीयान्कालस्तस्य योऽसौ प्रतियोगी क्षणविलक्षणः परिणामापरान्तनिर्ग्ना- १ ख. 'दयात्सव । २ . त.त्याह । ३ ग. पूर्वका । ४ क. तीत्याह । ५ क. ६ भ। ६ क. ख. मित्य ह'। ७ क. 'णामोऽप° 1 ८ ख. ग. योग्येकक्ष। क, ग. गानोऽ। [कैव०पा ०४सू०३३] पातञ्जलयोगसूत्राणि । योऽनुभूतेषु क्षणेषु पश्चात्संकलनबुद्धयैव यो गृह्यते स क्षणानां क्रम उच्यते । न ह्यननुभूतेषु क्षणेषु क्रमः परिज्ञातुं शक्यः ॥ ३२ ॥ इदानी फलभूतस्य कैवल्यस्यासाधारणं स्वरूपमाह- पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तेरिति ।। ३३ ।। समाप्तभोगापवर्गलक्षणपुरुषार्थानां गुणानां यः प्रतिप्रसवः प्रतिलोमस्य परिणामस्य समाप्तौ विकारानुद्भवः, यदि वा चितिशक्तेर्वृत्तिसारूप्यनिवृत्तौ स्वरूपमात्रेऽवस्थानं तत्कैवल्यमुच्यते । न केवलमस्मद्दर्शने क्षेत्रज्ञः कैवल्यावस्थायामेवंविधश्चिद्रूयो यावद्दर्शनान्तरेष्वपि विमृष्यमाण एवरूपोऽवतिष्ठते । तथाहि--संसारदशायामात्मा कर्तृत्वभोक्तृत्वानुसंधातृत्वमयः प्रतीयतेऽन्यथा यद्ययमेकः क्षेत्रज्ञस्तथाविधो न स्यात्तदा ज्ञानक्षणानामेव पूर्वापरानुसंधातृशून्यानामात्मभावे नियतः कर्मफलसंबन्धो न स्यात्कृतहानाकृताभ्यागमप्रसङ्गश्च । यदि येनैव शास्त्रोपदिष्टमनुष्ठितं कर्म तस्यैव भोक्तत्वं भवेत्तदा हिताहितप्राप्तिपरिहाराय सर्वस्य प्रवृत्तिर्घटेत सर्वस्यैव व्यवहारस्य हानोपादानलक्षणस्यानुसंधानेनैव व्याप्तत्वाज्ज्ञानक्षणानां परस्परभेदेनानुसंधानशून्यवात्तदनुसंधानाभावे कस्यचिदपि व्यवहारस्वःनुपत्तेः कर्ता भोक्ताऽनुसंधाता यः स आत्मेति व्यवस्थाप्यते । मोक्षदशायां तु सकलग्राह्यग्राहकलक्षणव्यवहाराभावाश्चैतन्यमात्रमेव तस्यावशिष्यते । तचैतन्यं चितिमात्रत्वे नैवोपपद्यते न पुनरात्मसंवेदनेन । यस्माद्विषयग्रहणसमर्थत्वमेव चिते रूपं नाऽऽमग्राहकत्वम् । तथाहि-अर्थश्चित्या गृह्यमाणोऽयमिति गृह्यते स्वरूपं गृह्यमाणमहमिति न पुनर्युगपद्बर्हिमुखतान्तर्मुखतालक्षणव्यापारद्वयं परस्परविरुद्धं कर्तुं शक्यम् । अत एकस्मिन्समये व्यापारद्वयस्य कर्तुमशक्यत्वाच्चिद्रूपतैवावशिष्यते । अतो मोक्षावस्थायां निवृत्ताधिकारेषु गुणेषु चिन्मात्ररूप एवाऽऽत्माऽवतिष्ठत इत्येवं युक्तम् । संसारदशायां त्वेवंभूतस्यैव कर्तृभोक्तृत्वमनुसंधातृत्वं च सर्वमुपपद्यते । तथाहि-योऽयं प्रकृत्या सहानादिर्नैसर्गिकोऽस्य भोग्यभोक्तृत्वलक्षणः संबन्धोऽविवेकख्यातिमलस्तस्मिन्सति पुरुषार्थकर्तव्यतारूपशक्तिद्वयसद्भावे या महदादिभावेन परिणतिस्तस्यां संयोगे सति यदात्मनोऽधिष्ठातृत्वं चिच्छायासमर्प- १०. ग. 'लना । २ क. शतिर ।३ क. वः क्षणेषु । य°। ४ क. ख. चिच्छते ५ म. वेणाव । ६ ख. ग. कैव । ७ ख. ग. ते । पुनर्बुद्धिसत्वानधिगमे सति स्वरूपमात्रे त्यवस्थानं न । ८ ख. °स्वरूपी । ग. भूतो दर्श । ९ ख. ग. 'रूप एवाव । १० ग. °धानम् । ११ ग, स्यात् । १२ ख. 'धानाभावे । १३ ख. ग. तनाशक । १४ क. °व माप्त । १५ व. ग. वाई । १६ ख. वैन क. १७ ख. पत्तिरित की। १८ क. र्थनमें । १९ क. स. पतयैवा" । २० व. कर्तृत्वादि च। ६२ . भोजदेवविरचितवृत्तिसमेतानि- कैव०पा०४२०३३] णसामर्थ्यं बुद्धिसत्वस्य च संक्रान्तचिच्छायाग्रहणसामर्थ्यं चिदवष्टब्धायाश्च बुद्धेर्योऽयं कर्तृत्वभोक्तृत्वाध्यवसायस्तत एव सर्वस्यानुसंधानपूर्वकस्य व्यवहारस्य निष्पत्तेः किमन्यैः फल्गुभिः कल्पनोजल्पैः । यदि पुनरेवंभूतमार्गव्यतिरेकेण पारमार्थिकमात्मनः कर्तत्वाद्यङ्गीक्रियेत तदाऽस्य परिणामित्वप्रसङ्गः । परिणामित्वाच्चानित्यत्वे तस्याऽऽत्मत्वमेव न स्यात् । ने ह्येकस्मिन्नेव समय एकेनैव रूपेण परस्परविरुद्धावस्थानुभवः संभवति । तथाहि- यस्यामवस्थायामात्मसमवेते सुखे समुत्पन्ने तस्यानुभवितत्वं न तस्याभवावस्थायां दुःखानुभवितृत्वम् । अतोऽवस्थानां नानात्वात्तदभिन्नस्यावस्थावतोऽपि नानात्वं, नानात्वेन च परिणामित्वान्नाऽऽत्मत्वम् । नापि नित्यत्वम् । अत एव शान्तब्रह्मवादिभिः सांख्यरात्मनः सदैव संसारदशायां मोक्षदशायां चैकरूपत्वमङ्गी क्रियते । ये तु वेदान्तवादिनश्चिदानन्दमयत्वमात्मनो मोक्षे मन्यन्ते तेषां न युक्तः पक्षः । तथाहि-आनन्दस्य सुरूपत्वात्सुखस्य च सदैव संवेद्यमानतदैव प्रतिभासात्संवेद्यमानत्वं च संवेदनव्यतिरेकेणानुपपन्नमिति संवेद्यसंवेदनयोरभ्युपगमादद्वैतहानिः । अथ सुखात्मकत्वमेव तस्योच्येत तद्विरुद्धधर्माध्यासादनुपपन्नम् । न हि संवेदनं संवेद्यं चैकं भवितुमर्हति । किंचाद्वैतवादिभिः कर्मात्मपरमात्मभेदेनाऽऽत्मा द्विविधः स्वीकृतः । इत्थं च तत्र येनैव रूपेण सुखदुःखभोक्तत्वं कर्मात्मनस्तेनैव रूपेण यदि परमात्मनः स्यात्तदा कर्मात्मवत्परमात्मनः परिणामित्वमविद्यास्वभावत्वं च स्यात् । अथ न तस्य साक्षाद्भोक्तृत्वं किंतु तदुपढौकितमुदासीनतयाऽधिष्ठातृत्वेन स्वी करोति तदाऽस्मद्दर्शनानुप्रवेशः । आनन्दरूपता च पूर्वमेव निराकृता । किं चाविद्यास्वभावत्वे निःस्वभावत्वात्कर्मात्मनः कः शास्त्राधिकारी । नतावन्नित्यनिर्मुक्तत्वात्परमात्मा,नापि अविद्यास्वभावत्वात्कर्मात्मा । ततश्च सकलशास्त्रवैयर्थ्यप्रसङ्गः । अविद्यामयत्वे च जगतोऽङ्गीक्रियमाणे कस्याविद्येति विचार्यते । न तावत्परमात्मनो नित्यमुक्तत्वाद्विद्यारूपत्वाच्च । कर्मात्मनोऽपि परमार्थतो निःस्वभावतया शशविषाणप्रख्यत्वे कथमविद्यासंबन्धः । अथोच्यते, एतदेवाविद्याया अविद्यात्वं यदविचाररमणीयत्वं नाम । यैव हि विचारेण दिनकरस्पृष्टनीहारवद्विलयमुपयाति साऽविद्येत्युच्यते । मैवं, यद्वस्तु १७ १ ख. 'क्रान्तेश्चिच्छा' । २ ख. 'नाजातः । य । ग. नाजालैः । य । ३ ख. ग. तभङ्गीव्य । ४ क. यथा । ५ क. 'ण न प । ६ क. ति । यथा य । ७ क. °स्थाना । ग. 'स्थायां ना । ८ ख. स्थातो । ९ क. 'नात्वाञ्च प० । १० क. चैक रूपम° 1 ११ क. मोक्षं । १२ क. °खस्वरू। १३ क. 'योईयोर । १४ क. 'हतीति । १५ स. ग. "विध इष्यते । त° । १६ ख. वाक । १७ ग. विचर्यताम् । १८ ख. नो निः। १९ ग. 'पि निः । २० ख. ग. नैवं। ६३ [कैर०पा० ४सू , ३३] पातञ्जलयोगसूत्राणि । किंचित्कार्यं करोति तदवश्यं कुतश्चिद्भिन्नमभिन्नं वा वक्तव्यम् । अविद्यायाश्च संसारलक्षणकार्यकर्तृत्वमवश्यमङ्गीकर्तव्यम् । तस्मिन्सत्यपि यद्यनिर्वाच्यत्वमुच्यते तदा कस्यचिदपि वाच्यत्वं न स्यात् । ब्रह्मणोऽप्यवाच्यत्वप्रसंक्तिः । तस्मादधिष्ठातृतारूपव्यतिरेकेण नान्यदात्मनो रूपमुपपद्यते । अधिष्ठातृत्वं च चिद्रूपमेव तद्वयतिरिक्तस्य धर्मस्य कस्यचित्प्रमाणानुपपत्तेः । यैरपि नैयायिकादिभिरात्मा चेतनायोगाच्चेतन इत्युच्यते । चेतनाऽपि तस्य मनः- संयोगजा । तथा हि-इच्छाज्ञानप्रयत्नादयो गुणास्तस्य व्यवहारदशायामात्ममनःसंयोगादुत्पद्यन्ते । तैरेव च गुणैः स्वयं ज्ञाता कर्ता भोक्तेति व्यपदिश्यते । मोक्षदशायां तु मिथ्याज्ञाननिवृत्तौ तन्मूलानां दोषाणामपि निवृत्तेस्तेषां बुद्ध्यादीनां विशेषगुणानामत्यन्तोच्छित्तेः स्वरूपमात्रप्रतिष्ठत्वमात्मनोऽङ्गीकृतं तेषामयुक्तः पक्षः । यतस्तस्यां दशायां नित्यस्वव्यापकत्वादयो गुणा आकाशादीनामपि सन्ति अतस्तद्वैलक्षण्येनाऽऽत्मनश्चिद्रूपत्वमवश्य- मङ्गीकार्यम् । आत्मलक्षणजातियोग इति चेत् । न, सर्वस्यैव हि तज्जातियोगः संभवति । अतो जातिभ्यो वैलक्षण्यमात्मनोऽवश्यमङ्गीकर्तव्यम् । तेश्चाधिष्ठातृत्वं, तच्च चिद्रुपतयेव घटते नान्यथा । यैरपि मीमांसकैः कर्मकर्तृरूप आत्माऽङ्गी क्रियते तेषामपि न युक्तः पक्षः । तथा हि-अहंप्रत्ययग्राह्य आत्मेति तेषां प्रतिज्ञा । अहंप्रत्यये च कर्तृत्वं कर्मत्वं चाऽऽत्मन एव । न चैतद्विरुद्धत्वादुपपद्यते । कर्तृत्वं प्रमातृत्वं, कर्मत्वं च प्रमेयत्वम् । न चैतद्विरुद्धधर्माध्यासो युगपदेकस्य घटते । यद्विरुधर्माध्यस्तं न तदेकं, यथा भावाभावौ, विरुद्धे च कर्तृत्वकर्मत्वे । अथोच्यते-न कर्तृत्वकर्मत्वयोर्विरोधः किंतु कर्तृत्वकरणत्वयोः । केनैतदुक्तं विरुद्धधर्माध्यासस्य तुल्यत्वाकर्तत्वकरणत्वयोरेव विरोधो न कर्तृत्वकर्मत्वयोः । तस्मादहंप्रत्ययग्राह्यत्वं परिह्रत्याऽऽत्मनोऽधिष्ठातृत्वमेवोपपन्नम् । तच्च चेतनत्वमेव । यैरपि द्रव्यबोधपर्यायभेदेनाऽऽऽत्मनोऽव्यापकस्य शरीरपरिमाणस्य परिणामित्व- १ ख. ग. ‘णप्रपञ्चका । २ ख. सक्तिर्वा । त° । ३ ख. ग. तृरूपताव्य 1 ४ ख. ग. पत्वमे । ५ ग. धर्माधर्मविज्ञानानु । ६ ख. तनपाऽन्वित इष्यते । ७ ग. इष्यते । ८ म. हिंशा ९ ख. °च्छादेषभ । १. क. यो ये मु । ११ क.वृत्तिस्ते' । १२.क. °च्छित्तिः व । १३ व. त्रत्वं स्वप' । १४ ख. ग. तेषां न यु। १५ ख. या किमात्मनो नि । ग, या किमात्मन आत्माने' । १६ ग. त्मनः किंचिद्रूपम । १७ ख. °पम । १८ म. "त्वजा । १९ ख. 'त्, तदा स" । २. ख. ग. हि जाते । २१ ख: ति । ततो वै । २२ ग. जडेभ्यो । २३ क. तस्याधि । २४ क. ग. त्वं चि । २५ ग. पतेव । २६ ख. भ्यासादे । ग, ध्यास एक । २७ ख. पप । २८ ख. भदादात्म । ग. भेदात्म । ६४ भोजदेवविरचितवृत्तिसमेतानि- कैव . पा० ४ सू० ३३ ] मिष्यते तेषामुत्थानपराह्रत एव पक्षः । परिणामित्वे चिद्रूपताहानिश्चिद्रूपताभावे किमात्मन आत्मत्वम् । तस्मादात्मन आत्मत्रमिच्छता चिद्रूपत्वमेवाङ्गीकर्तव्यम् । तच्चाधिष्ठातृत्वमेव । केचित्कर्तृरूपमेवाऽऽत्मानमिच्छन्ति । तथा हि-विषयसानिध्ये या ज्ञानलक्षणा क्रिया समुत्पन्ना तस्या विषयसंवित्तिः फलं, तस्यां च फलरूपायां संवित्तौ स्वरूप प्रकाशरूपतया प्रतिभासते । विषयश्च ग्राह्यतया, आत्मा च ग्राहकतया, घटमहं जानामीत्याकारेण तस्याः समुत्पत्तेः । क्रियायाश्च कारण कर्तैव भवतीत्यतः कर्तृत्वं भोक्तृत्वं चाऽऽत्मनो रूपमिति । तदनुपपन्नं, यस्मात्तासां संवित्तीनां स किं कर्तृत्वं युगपत्प्रतिपद्यते क्रमेण वा । युगपत्कर्तृत्वे क्षणान्तरे तस्य कर्तृत्वं न स्यात् । अथ क्रमेण कर्तृत्वं तदेकरूपस्य न घटते । एकेन रूपेण चेत्तस्य कर्तृत्वं तदैकस्य रूपस्य सदैव संनिहितत्वात्सर्वं फलभेकरूपं स्यात् । अथ नानारूपतया तस्य कर्तृत्वं तदा परिणामित्वं, परिणामित्वाच्च न चिद्रूपत्वम् । अतश्चिद्रूपत्वमेवाऽऽत्मन इच्छेद्भिर्न साक्षात्कर्तृत्वमङ्गीकर्तव्यम् । यादृशमस्माभिः कर्तृत्वमात्मनः प्रतिपादितं कूटस्थस्य नित्यस्य चिद्रूपस्य तदेवोपपन्नम् । एतेन स्वप्रकाशस्याऽऽत्मनो विषयसंवित्तिद्वारेण ग्राहकत्वमभिव्यजत इति ये वदन्ति तेऽपि अनेनैव निराकृताः। केचिद्विमर्शात्मकत्वेनाऽऽस्मनश्चिन्मयत्वमिच्छन्ति । ते ह्याहुर्न विमर्शव्यतिरेकेण चिद्रूपत्वमात्मनो निरूपयितुं शक्यम् । जडाद्वैलक्षण्यमेव चिद्रूपत्वमुच्यते । तच्च विमर्शव्यतिरेकेण निरूप्यमाणं नान्यथाऽवतिष्ठते । तदनुपपन्नम् । इदमित्थमेवरूपमिति यो विचारः स विमर्श इत्युच्यते । स चास्मिताव्यतिरेकेण नोत्थानमेव लभते । तथाहि-~-आत्मन्युपजायमानो विमर्शोऽहमेवंभूत इत्यनेनाऽऽकारेण संवेद्यते । ततश्चाहंशब्दसंभिन्नस्याऽऽत्मलक्षणस्यार्थस्य तत्र स्फुरणान्न विकल्परूपतातिक्रमः । विकल्पश्चाध्यवसायात्मा बुद्धिधर्मो न चिद्धर्मः । कूटस्थनित्यत्वेन चितेः सदैकरूपत्वान्नाहंकारानुप्रवेशः । तदनेन सविमर्शत्वमात्मनः प्रतिपादयता बुद्धिरेवाऽऽत्मत्वेन भ्रान्त्या प्रतिपादिता न प्रकाशात्मनः परस्य पुरुषस्य स्वरूपमवगतमिति ।

  • अननैवेत्यधिकम् ।

१ क. हानेश्चि । २ ग, प.वाभा १३ ख. तथाऽयि' । ४ ग. वित्त । ५ ख. ग. °कत्येन घ°। ६ म. मीत्यनेन प्रकारेण । ७ ख. च । ८ क. तदैक । ९ क. ‘स्य स । १. ग. रूपण । ११ ग. नित्यान चि । १२ क. ग. त्यात्म । १३ ख. ग. °च्छता न सा ! १४ ख. ग. स्थान । १५ ग. "त्यचि । १६ ग. न्ति । तथाहि न वि । १७ क. जगदै'। १८ ख. डाकि पैल° । ग. डाकिल पैल' । १९ क. ग. 'ब्दभि । २० क.म तत्र वि । २१ क लस्वरू। कैव० पा० ४ सू० ३३] पातञ्जलयोगसूत्राणि । इत्थं सर्वेष्वपि दर्शनेष्वधिष्ठातृत्वं विहाय नान्यदात्मनो रूपमुपपद्यते । अधिष्ठातृत्वं व चिद्रूपत्वम् । तच्च जडाद्वैलक्षण्यमेव । चिद्रूपतया यदधितिष्ठति तदेव भोग्यतां नयति । यञ्च चेतनाधिष्ठितं तदेव सकलैव्यापारयोग्यं भवति । एवं च सति कृतकृत्यत्वात्प्रधानस्य व्यापारनिवृत्तौ यदात्मनः कैवल्यमस्माभिरुक्तं तद्विहाय दर्शनान्तराणामपि नान्या गतिः । तस्मादिदमेव युक्तमुक्तं वृत्तिसारूप्यपरिहारेण स्वरूपे प्रतिष्ठा चितिशक्तेः कैवल्यम् । तदेवं सिद्धयन्तरेभ्यो विलक्षणां सर्वसिद्धिमूलभूतां समाधिसिद्धिमभिधाय जात्यन्तरपरिणामलक्षणस्य च सिद्धिविशेषस्य प्रकृत्यापूरणमेव कारणमित्युपपाद्य धर्मादीनां प्रतिबन्धकनिवृत्तिमात्र एव सामर्थ्यमिति प्रदर्श्य निर्माणचित्तानामस्मितामात्रादुद्भव इत्युक्त्वा तेषां च योगिचित्तमेवाधिष्ठापकमिति प्रदर्श्य योगिचित्तस्य चित्तान्तरवैलक्षण्यमभिधाय तत्कर्मणामलौकिकत्वं चोपपाद्य विपाकानुगुणानां च वासनानामभिव्यक्तिसामर्थ्यं कार्यकारणयोश्वैक्यप्रतिपादनेन व्यवहितानामपि वासनानामानन्तर्यमुपपाद्य तासामानन्त्येऽपि हेतुफलादिद्वारेण हानमुपदर्श्यातीतादिष्वध्वसु धर्माणां सद्भावमुपपाद्य विज्ञानवादं निराकृत्य साकारवादं च प्रतिष्ठाप्य पुरुषस्य ज्ञातृत्वमुक्त्वा चित्तद्वारेण सकलव्यवहारनिष्पत्तिमुपपाद्य पुरुषसत्वे प्रमाणमुपदर्श्य कैवल्यनिर्णयाय दशभिः सूत्रैः क्रमेणोपयोगिनोऽर्थानभिधाय शास्त्रान्तरेऽप्येतदेव कैवल्यमित्युपपाद्यं कैवल्यस्वरूपं निर्णीतमिति व्याकृतः कैवल्यपादः सर्वे यस्य वशाः प्रतापवसतेः पादान्तसेवानति- प्रभ्रश्यन्मुकुटेषु मूर्धसु दधत्याज्ञां धरित्रीभतः ॥ यद्वक्त्राम्बुजमाष्य गर्वमसमं वाग्देवताऽपि श्रिता स श्रीभोजपतिः फणाधिपतिकृत्सूत्रेषु वृत्ति व्यधात् ॥ १ ॥ इति श्रीधारेश्वरभोजदेवविरचितायां राजमार्तण्डाभिधायां पातञ्जलयोगसूत्रवृत्तौ कैवल्यपादश्चतुर्थः ॥ ४ ॥ समाप्तश्चायं ग्रन्थः। १ ख, ग, °लव्यपहार' । २ क. 'ति नित्य' । ३ ख. ग. ""रूपप। ४ ख. ग. शक्ति के । ५ ख. ग. षसि छौ प° । ६ ख. निर्वाणाय । ७ ख. ल्यमुपपन्नामि । ८. ता संश्रि"। अथ पातञ्जलयोगसूत्रपाठः। तत्र प्रथमः पादः। ॐ। अथ योगानुशासनम् ॥ १॥ योगश्चित्तवृत्तिनिरोधः ॥ २ ॥ तदा द्रष्टुः स्वरूपेऽवस्थानम् ॥ ३॥ वृत्तिसारूप्यमितरत्र ॥ ४॥ वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः॥ ५॥ प्रमाणविपर्ययविकल्पनिद्रास्मृतयः ॥६॥ प्रत्यक्षानुमानागमाः प्रमाणानि ॥ ७॥ विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् ॥ ८ ॥ शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ॥ ९॥ अभावप्रत्ययालम्बना वृत्तिर्निद्रा ॥ १० ॥ अनुभूतविषयासंप्रमोषः स्मृतिः ॥ ११ ॥ अभ्यासवैराग्याभ्यां तन्निरोधः ॥ १२ ॥ तत्र स्थितौ यत्नोऽभ्यासः ॥ १३ ॥ स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः ॥ १४॥ दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् ॥ १५ ॥ तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम् ॥ १६॥ वितर्कविचारानन्दास्मितारूपानुगमात्संप्रज्ञातः ॥ १७॥ विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः ॥ १८ ॥ भवप्रत्ययो विदेहप्रकृतिलयानाम् ॥ १९॥ श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् ॥ २० ॥ तीव्रसंवेगानामासन्नः ॥ २१ ॥ मृदुमध्याधिमात्रत्वात्ततोऽपि विशेषः ॥ २२ ॥ ईश्वरप्रणिधानाद्वा ॥ २३ ॥ क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः ॥ २४ ॥ तत्र निरतिशयं सर्वज्ञबीजम् ॥ २५ ॥ पूर्वेषामपि गुरुः कालेनानवच्छेदात् ॥ २६ ॥ तस्य वाचकः प्रणवः ॥ २७ ॥ तज्जपस्तदर्थभावनम् ॥ २८ ॥ ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च ॥ २९ ॥ व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपास्तेऽन्तरायाः ॥ ३० ॥ दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः ॥ ३१ ॥ तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः ॥ ३२ ॥ मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चित्तप्रसादनम् ॥ ३३ ॥ प्रच्छर्दनविधारणाभ्यां वा प्राणस्य ॥३४॥ विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धनी ॥ ३५ ॥ विशोका वा ज्योतिष्मती ॥ ३६ ॥ वीतरागविषयं वा चित्तम् ॥ ३७ ॥ स्वप्रनिद्राज्ञानालम्बनं वा ॥ ३८ ॥ यथाभिमतध्यानाद्वा ॥ ३९ ॥ परमाणुपरममहत्त्वान्तोऽस्य वशीकारः ॥ ४०॥ क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापतिः ॥४१॥ तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का समापत्तिः ॥ ४२ ॥ पातञ्जलयोगसूत्रपाठः। स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का ॥ ४३ ॥ एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता ॥४४॥ सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् ॥ ४५ ॥ ता एव सबीजः समाधिः ॥ ४६ ।। निर्विचारवैशारद्येऽध्यात्मप्रसादः ॥ ४७ ॥ ऋतंभरा तत्र प्रज्ञा ॥४८॥ श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात् ॥ ४९ ॥ तज्जः संस्कारोऽन्यसंस्कारणप्रतिबन्धी ॥५०॥ तस्यापि निरोधे सर्वनिरोधानिर्बीजः समाधिः ।। ५१॥ इति पातञ्जलयोगसूत्रपाठे प्रथम. पादः ॥ १॥ अथ पातञ्जलयोगसूत्रपाठे द्वितीयः पादः। तपास्वाध्यायेश्वरप्रणिधानानि क्रियायोगः ॥ १ ॥ समाधिभावनार्थः क्लेशतनूकरणार्थश्च ॥ २ ॥ अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः ॥ ३ ॥ अविद्या क्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम् ॥ ४ ॥ अनित्याशुचिदु:खानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या ॥ ५॥ दृग्दर्शनशक्त्योरेकात्मतेवास्मिता ॥ ६ ॥ सुखानुशयी रागः ॥७॥ दुःखानुशयी द्वेषः ॥८॥ स्वरसवाही विदुषोऽपि तथा रूढोऽभिनिवेशः ॥९॥ ते प्रतिप्रसवहेया: सूक्ष्माः ॥१०॥ ध्यानहेयास्तवृत्तयः॥ ११ ॥ क्लेशमूल: कर्माशयो दृष्टादृष्टजन्मवेदनीयः॥ १२ ॥ सति मूले तद्विपाको जात्यायुर्भोगाः॥ १३ ॥ ते हलादपरितापफलाः पुण्यापुण्यहेतुत्वात् ॥ १४ ॥ परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः ॥ १५ ॥ हेयं दुःखमनागतम् ॥ १६ ॥ द्रष्टृदृश्ययोः संयोगो हेयहेतुः ॥ १७ ॥ प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम् ॥ १८ ॥ विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि ॥ १९ ॥ द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः ॥२०॥ तदर्थ एव दृश्यस्याऽऽत्मा ।। २१ ॥ कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात् ॥ २२ ॥ स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः ॥ २३ ॥ तस्य हेतुरविद्या ॥ २४ ॥ तदभावात्संयोगाभावो हानं तदृशेः कैवल्यम् ॥२५॥ विवेकख्यातिरविप्लवा हानोपायः ॥ २६ ॥ तस्य सप्तश प्रान्तभूमिः प्रज्ञा ॥ २७ ॥ योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिरा विवेकख्याते: ॥ २८ ॥ यमनियमासनप्राणायामप्रत्यहारधारणाध्यानसमाधयोऽष्टाषङ्गानि- ॥ २९ ॥ अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः ॥ ३० ॥ जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम् ॥ ३१ ॥ शौचसंतोषत्तप:स्वाध्यायेश्वरमणिधानानि नियमाः ॥ ३२ ॥ वितर्कबाधने प्रतिपक्षभावचम् ॥ ३३ ॥ वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका मृदुपातञ्जलयोगसूत्रपाठः। मध्याधिमात्रा दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम् ॥ ३४ ॥ अहिंसाप्रतिष्ठायां तत्संनिधौ वैरत्यागः ॥ ३५ ॥ सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् ॥ ३६॥ अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् ।।.३७ ॥ ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः ॥ ३८ ॥ अपरिग्रहस्थैर्ये जन्मकयंतासंबोधः ॥ ३९ ॥ शौचात्वाङ्गजुगुप्सा परैरसंसर्गः ॥ ४० ॥ सत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानि च ॥ ४१ ॥ संतोषादनुत्तमः सुखलाभः ॥.४२ ॥ कायेन्द्रियसिद्धिरशुद्धिक्षयात्तपसः ॥ ४३ ॥ स्वाध्यायादिष्टदेवतासंप्रयोगः ॥४४॥ समाधिसिद्धिरीश्वरमणिधानात् ॥ ४५ ॥ स्थिरसुखमासनम् ॥ ४६॥ प्रयत्नशैथिल्यानन्तसमापत्तिभ्याम् ॥ ४७ ॥ ततो द्वंद्वानभिघातः ॥ ४८ ॥ तस्मिन्सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः ॥ ४९ ।। बाह्याभ्यन्तरस्तम्भवृत्तिर्देशकालसंख्याभिः परिदृष्टो दीर्घसूक्ष्मः ॥ ५० ॥ बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः ॥ ५१॥ ततः क्षीयते प्रकाशावरणम् ।। ५२ ॥ धारणासु च योग्यता मनसः ॥ ५३ ॥ स्वविषयासंप्रयोगे चित्तस्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः ॥ ५४ ॥ ततः परमा वश्यतेन्द्रियाणाम् ॥ ५५ ॥ इति पातञ्जलयोगसूत्रपाठे द्वितीयः पादः ॥ २ ॥ %3- अथ पातञ्जलयोगसूत्रपाठे तृतीयः पादः । देशबन्धश्चित्तस्य धारणा ॥ १ ॥ तत्र प्रत्ययैकतानता ध्यानम् ॥ २ ॥ तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः ॥३॥ त्रयमेकत्र संयमः॥४॥ तज्जयात्प्रज्ञालोकः॥ ५ ॥ तस्य भूमिषु विनियोगः ॥ ६ ॥ त्रयमन्तरङ्गपूर्वेभ्यः ॥ ७॥ तदपि बहिरङ्गं निर्बीजस्य ॥ ८॥ व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ निरोधक्षणचित्तान्वयो निरोधपरिणामः ॥ ९॥ तस्य प्रशान्तवाहिता संस्कारात् ॥ १० ॥ सवार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः ॥ ११ ॥ ततः पुनः शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः॥१२॥ एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामाव्याख्याताः॥१३॥ शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी ॥ १४ ॥ क्रमान्यत्वं परिणामान्यत्वे हेतुः ॥ १५॥ परिणामत्रयसंयमादतीतानागतज्ञानम् ॥ १६ ॥ शब्दार्थप्रत्ययांनामितरेतराध्यासात्संकरस्तत्प्रविभागसंयमात्सर्वभूतरुतज्ञानम् ॥ १७ ॥ संस्कारसाक्षात्करणात्पूर्वजातिज्ञानम् ॥ १८॥ प्रत्ययस्य परचित्तज्ञानम् ॥१९॥ नच तत्सालम्बनं तस्याविषयीभूतत्वात् ॥ २० ॥ कायरूपसंयमातग्राह्यशक्तिपातञ्जलयोगसूत्रपाठः। स्तम्भे चक्षुष्पकाशासंप्रयोगेऽन्तर्धानम् ॥ २१ ॥ सोपक्रमं निरुपक्रम च कर्म तत्संयमादपरान्तज्ञानमरिष्टेभ्यो वा ॥ २२ ॥ मैच्यादिषु बलानि ॥ २३ ॥ बलेषु इस्तिबलादीनि ॥ २४ ॥ प्रवृत्त्यालोकन्यासात्सूक्ष्मव्यवहितविप्रकृष्टज्ञा- नम् ॥ २५ ॥ भुवनज्ञानं सूर्ये संयमात् ॥२६॥ चन्द्रे ताराव्यूहज्ञानम् ॥ २७॥ ध्रुवे तद्गतिज्ञानम् ॥ २८ ॥ नाभिचक्रे कायव्यूहज्ञानम् ॥ २९ ॥ कण्ठकूपे क्षुत्पिपासानिवृत्तिः ॥ ३० ॥ कूर्मनाड्यां स्थैर्यम् ॥ ३५ ॥ मूर्धज्योतिषि सिद्ध- दर्शनम् ॥ ३२॥ प्रातिभावा सर्वम् ॥३३॥ हृदये चित्तसंवित् ॥३४॥ सत्त्व- पुरुषयोरत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोगः परार्थात्स्वार्थसंयमात्पुरुषज्ञा- नम् ॥ ३५ ॥ ततः प्रातिभश्रावणवेदनादर्शास्वादवार्ता जायन्ते ॥ ३६ ॥ ते समाधावुपसर्गा व्युत्थाने सिद्धयः॥ ६७ ॥ बन्धकारणशैथिल्यात्पचारसंवेद- नाच्च चित्तस्य परशरीरावेशः ॥ ३८ ॥ उदानजयाज्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च ।। ३९ ॥ समानजयाज्ज्वलनम् ॥ ४० ॥ श्रोत्राकाशयोः संब- न्धसंयमाद्दिव्यं श्रोत्रम् ॥ ४१ ॥ कायाकाशयोः संवन्धसंयमाल्लघुतूलसमाप- तेश्वाऽऽकाशगमनम् ॥ ४२ ॥ बहिरकल्पिता वृत्तिमहाविदेहा ततः प्रकाशावर- णक्षयः ॥ ४३ ॥ स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद्भूतजयः ॥ ४४ ॥ ततोऽणिमादिप्रादुर्भावः कायसंपत्तद्धर्मानभिघातश्च ।। ४५ ॥ रूपलावण्यबलव- जसंहननत्वानि कायसंपत् ॥ ४६॥ ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमादि- न्द्रियजयः॥४७॥ ततो मनोजवित्वं विकरणभावः प्रधानजयश्च ॥४८॥ सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातत्वं सर्वज्ञातृत्वं च ॥४९॥ तद्वैराग्यादपि दोपवीजक्षये कैवल्यम् ॥ ५० ॥ स्थान्युपनिमन्त्रणे सङ्गस्मया- करणं पुनरनिष्टप्रसङ्गात् ॥५१॥ क्षणतत्क्रमयोः संयमाद्विवेकजं ज्ञानम् ॥ ५२ ॥ जातिलक्षणदेशैरन्यतानवच्छेदात्तुल्ययोस्ततः प्रतिपत्तिः ॥ ५३॥ तारकं सर्वविषयं सर्वथाविषयमक्रमं चेति विवेकजं ज्ञानम् ॥ ५४॥ सत्त्वपुरु- षयोः शुद्धिसाम्ये कैवल्यमिति ॥ ५५॥ इति पातञ्जलयोगसूत्रपाठे तृतीयः पादः ॥३॥ अथ पातञ्जलयोगसूत्रपाठे चतुर्थः पादः । जन्मौषधिमन्त्रतपासमाधिजाः सिद्धयः ॥ १॥ जात्यन्तरपरिणामः प्रकृ. त्यापूरात् ॥ २॥ निमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवत् ॥३॥ निर्माणचित्तान्यस्मितामात्रात् ॥ ४॥ प्रवृत्तिभेदे प्रयोजकं चित्तमेकम- नेकेषाम् ॥ ५ ॥ तत्र ध्यानजमनाशयम् ॥ ६॥ कर्माशुक्लाकृष्णं योगिनस्त्रि- विधमितरेषाम् ॥ ७ ॥ ततस्तद्विपाकानुगुणानामेवाभिव्यक्तिर्वासनानाम् ॥८॥ पातञ्जलयोगसूत्रपाठः । जातिदेशकालव्यवहितानामप्यानन्तर्यं स्मृतिसंस्कारयोरेकरूपत्वात् ॥ ९ ॥ तासामनादित्वं चाऽऽशिषो नित्यत्वात् ॥ १०॥ हेतुफलाश्रयालम्बनैः संगृहीतत्वादेषामभावे - तदभावः ॥ ११ ॥ अतीतानागतं स्वरूपतोऽस्त्यध्वभेदाद्धर्माणाम् ॥ १२ ॥ ते व्यक्तसूक्ष्मा गुणात्मानः ॥ १३ ॥ परिणामैकत्वाद्वस्तुतत्त्वम् ॥ १४. ॥ वस्तुसाम्ये चित्तभेदात्तयोर्विभक्तः पन्थाः ॥ १५ ॥न चैकचिततन्त्रं वस्तु तदप्रमाणकं तदा किं स्यात् ॥ १६ ॥ तदुपरागापेक्षित्वाञ्चित्तस्य वस्तु ज्ञाताज्ञातम् ॥ १७॥ सदा ज्ञाताश्चित्तवृत्तयस्तत्प्रभोः पुरुषस्यापरिणामित्वात् ।। १८॥ न तत्स्वाभासं दृश्यत्वात् ॥१९॥ एकसमये चोभयानवधारणम् ॥ २० ॥ चित्तान्तरदृश्ये बुद्धिबुद्धेरतिप्रसङ्गः स्मृतिसंकरश्च ॥ २१ ॥ चितेरप्रतिसंक्रमायास्तदाकारापत्तौ स्वबुद्धिसंवेदनम् ॥ २२ ॥ द्रष्टदृश्योपरक्तं चित्तं सर्वार्थम् ॥ २३ ॥ तदसंख्येयवासनाभिश्चित्रमपि परार्थं संहत्यकारित्वात् ॥ २४ ॥ विशेषदर्शिन आत्मभावभावनानिवृत्तिः ॥ २५ ॥ तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम् ॥ २६ ॥ तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः ॥ २७ ॥ हानमेषां क्लेशवदुक्तम् ॥ २८ ॥ प्रसंख्यानेडप्यकुसीदस्य सर्वथा विवेकख्यातेधर्ममेघः समाधिः ॥ २९ ॥ ततः क्लेशकर्मनिवृत्तिः ॥ ३० ॥ तदा सर्वावरणमलापेतस्य ज्ञानस्याऽऽनन्त्याज्ज्ञेयमल्पम् ॥ ३१॥ ततः कृतार्थानां परिणामक्रमसमाप्तिर्गुणानाम् ।। ३२ ॥ क्षणप्रतियोगी परिणामापरान्तनिर्ग्राह्यः क्रमः ॥ ३३ ॥ पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिरिति ॥ ३४ ॥ इति पाताञ्जलयोगसूत्रपाठे चतुर्थः पादः ॥ ४ ॥ समाप्तोऽयं श्रीमत्पतञ्जलिप्रणीतो योगसूत्रपाठः ॥ अथ पातञ्जलयोगसूत्राणां- - वर्णानुक्रमसूची। पादाङ्कःसूचाङ्का:पृष्ठावाः अतीतानागतं स्वरूपतोऽस्त्यध्वभेदादर्माणाम् ... ... ४ १२ १८६ अथ योगानुशासनस् .... .... .... ..... .... १ १ १ अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखास्मख्यातिरविद्या २ ५ ६१ अनुभूतविषयासंप्रमोषः स्मृतिः .... .... .... .... .१ ११ १६ अपरिग्रहस्थैर्ये जन्मकथंतासंबोधः... .... .... .... २ ३९ १०८ अभावप्रत्ययालम्बना वृत्तिर्निद्रा .... .... .... .... ११० १५ अभ्यासवैराग्याभ्यां तन्निरोधः .... .... .... .... १ १२ १७ अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः .... .... .... २ ३ ५९ अविद्या क्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम् .... अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् .... .... .....२ .२ ३७ १०८ अहिंसाप्रतिष्ठायां तत्संनिधौ वैरत्यागः ... .... .... २ ३५ १०७ अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः .... .... .... ____www.n. ईश्वरप्रणिधानाद्वा .... .... ... ... .... .... १ २३ २५ उदानजयाज्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च... .... ३ ३९ १५७ ऋतंभरा तत्र प्रज्ञा ............. ... .... ... १४८ ५? एकसमये चोभयानवधारणम् .... .... .... ... ४ २० १९६ एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्या- ख्याता.... .... ... .... .... .... .... १४४ १८ एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः.... ३ १३ १२४ क. कण्ठकूपे क्षुत्पिपासानिवृत्तिः ........ ... ...: ३ ३० १५३ कर्माशुक्लाकृष्णं योगिनस्त्रिविधमितरेषाम् ... ... .... ४ ७ १८० पातञ्जलयोगसूत्राणां- पादाङ्काःसूत्राङ्काः:पृष्ठाङ्काः कायरूपसंयमातग्राह्यशक्तिस्तम्भे चक्षुष्प्रकाशासंप्रयोगेऽन्त- र्धानम्.... ..... .... .... .... .... .... ३ २१ १४६ कायाकाशयोः संबन्धसंयमाल्लघुतूलसमापत्तेश्वाऽऽकाशगम- नम् .... .... ... .... .... .... ... ३ ४२.१६० कायेन्द्रियसिद्धिरशुद्धिक्षयात्तपसः.... .... .... .... २ ४३ ११० धर्मनाड्यां स्थैर्यम्.... .... ... .... .... ..... ३ ३१ १५३ कृतार्थ प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात् २२२ क्रमान्यत्वं परिणामान्यत्वे हेतुः .... .... .... .... ३ १५ १३४ क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः .... १२४ २५ क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः .... .... .... २१२ .६७ क्षणतत्क्रमयोः संयमाद्विवेकजं ज्ञानम् .... .... .... ३ ५२ १७० क्षणप्रतियोगी परिणामापरान्तनिर्ग्राह्यः क्रमः .... ... ४ ३३ २०४ क्षीणवृतेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता- समापत्तिः, .... .... ... .... .... . ... १४१ ४३ ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमादिन्द्रियजय...... ... ३ ४७ १६६ चन्द्रे ताराव्यूहज्ञानम् .... .... .... ..... .... ३ २७ १५३ चित्तान्तरदृश्ये बुद्धिबुद्धरतिप्रसङ्गः स्मृतिसंकरश्च.... .... ४ २१ १९६ चितेरपतिसंक्रमायास्तदाकारापत्तौ स्वबुद्धिसंवेदनम् .... ४ २२ १९७ जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः ..... .... .... ४ १ १७६ जातिदेशकालव्यवहितानामप्यानन्तर्यं स्मृतिसंस्कारयोरे- करूपत्वात् ... .... .... .... .... .... ४ ९१८१ जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम् .... २ ३१ १०४ जातिलक्षणदेशैरन्यतानवच्छेदात्तुल्ययोस्ततः प्रतिपत्तिः .... ३ ५३ १७६ जात्यन्तरपरिणामः प्रकृत्यापूरात् ... ... .... .... ४ २ १७५ तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः ... ... .... ४ २७ २० वर्णानुक्रमसूची। पादाङ्का:सूत्राङ्का:पृष्ठाङ्काः तज्जपस्तदर्थभावनम् ... ... ... .... ... १ २८ ३३ तज्जयात्मज्ञालोकः ... ... ... .... ... ... ३ ५ १२० तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी ... ... .... १५० ५३ ततः कृतार्थानां परिणामक्रमसमाप्तिर्गुणानाम् ... ४ ३२ २०४ ततः क्लेशकर्मनिवृत्तिः ... ... ... ... ... ४ ३० २०२ ततः परमा वश्यतेन्द्रियाणाम् ... ... ... ... ३ ५५ ११६ ततः पुनः शान्तोदितौ तुल्यप्रत्ययो चित्तस्यैकाग्रतापरिणामः ३ १२ १२४ ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च ... ... .... १ २९ ३३ स प्रातिभश्रावणवेदनादर्शास्वादवार्ता जायन्ते ... ... ३ ३६ १५६ ततस्तद्विपाकानुगुणानामेवाभिव्यक्तिर्वासनानाम् .... ... ४ ८ १८० ततः क्षीयते प्रकाशावरणम्... .... ... .... ... २ ५२ ११४ ततोऽणिमादिप्रादुर्भावः कायसंपत्तद्धर्मानभिघातश्च ३ ४५ १६४ ततो द्वंद्वानभिघातः ... ... ... ... ... ... २ ४८ १११ ततो मनोजवित्वं विकरणभावः प्रधानजयश्च .... ... ३ ४८ १६७ तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम् ... ... ... ... १ १६ १९ तत्पतिषेधार्थमेकतत्त्वाभ्यासः ... १ ३२ ३५ तत्र प्रत्यैयकतानता ध्यानम् ... ... ... ... ३ २ ११९ तत्र ध्यानजमनाशयम् .... .... .... .... .... ४ ६ १७९ तत्र निरतिशयं सर्वज्ञवीजम् . .... १ २५ २९ तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का समापत्तिः ... १ ४२ ४४ तत्र स्थितौ यत्नोऽभ्यासः .... .... .... .... .... १ १३ १७ तदर्थ एव दृश्यस्याऽऽत्मा .... .... .... .... .... २ २१ ८९ तदपि बहिरङ्गं निर्वीजस्य .... ... ... .... .... ३ ८ १२२ तदभावात्संयोगाभावो हानं तददृशेः कैवल्यम् ... .... २ २५ ९६ तदसंख्येयवासनाभिश्चित्रमपि परार्थं संहत्यकारित्वात् सदा द्रष्टुः स्वरूपेऽवस्थानम् .... .... .... .... .... १. ३ ७ तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम् .... .... .... ४ २६ २०१ तदा सर्वावरणमलापेतस्य ज्ञानस्याऽऽनन्त्याज्ज्ञेयमल्पम् .... १ ३१ २०३ तदुपरागापेक्षित्वादस्य वस्तु ज्ञाताज्ञातम् ... .... .... ४ १७ १९३ तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः ........ .३ ३ ११९ पातञ्जलयोगसूत्राणा- पादाकःसूत्राङ्का:पृष्ठावा तद्वैराग्यादपि दोषबीज़क्षये कैवल्यम् .... .... ... ३ ५० १६८ तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः ... .... तस्मिन्सति श्वासप्रश्वासयोगतिविच्छेदः प्राणायामः ... २ ४९ १२२ तस्य प्रशान्तवाहिता संस्कारात् ... ३ १० १२३ तस्य भूमिषु विनियोगः .... ... ... तस्य वाचकः प्रणवः .... .... ... ३२ तस्य सप्तधा प्रान्तभूमिः प्रज्ञा ... .... २ २७ ९७ तस्य हेतुरविद्या ... .... .... .... .... ... २ २४ ९४ तस्यापि निरोधे सर्वनिरोधान्निीर्बीजः समाधिः ५४ ता एव सबीजः समाधिः .... .... .... ५० तारकं सर्वविषयं सर्वथाविषयमक्रमं चेतिःविवेकजं ज्ञानम्... ३ ५४ १७४ तासामनादित्वं चाऽऽशिषो नित्यत्वात् ... ४ १० १८२ तीव्रसंवेगानामासनः .... ... .... ... १२१ २४ ते प्रतिप्रसवहेयाः सूक्ष्माः .... ..... .... .... २१० ६६ ते ह्लादपरितापफलाः पुण्यापुण्यहेतुत्वात् .... .... .... २ १४ ७३ ते व्यक्तसूक्ष्मा गुणात्मानः .... .... ... ते समाधावुपसर्गा व्युत्थाने सिद्धयः । ३ ३७ १५६ त्रयमन्तरङ्गं पूर्वेभ्यः.... ... .... ३ ७ १२१ त्रयमेकत्र संयमः .... .... .... .... ... .... ३ ४ १२० दुःखदौर्मनस्याङ्गन्मेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः दुःखानुशयी द्वेषः .... ... .... .... ... २ ८ ६५ दृग्दर्शनशक्त्योरेकात्मतेवास्मिता .... ... दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् १८ देशबन्धश्चित्तस्य धारणा .... ... .... .... .... ३ ३ १ ११८ द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः .... २ २० ८७ द्रष्टदृश्ययोः संयोगो हेयहेतुः ... ... २ १७ ७९ द्रष्ट्रदृश्योपरक्तं चित्तं सर्वार्थम् ४ २३ १९७ धारणासु च योग्यता मनसः ... .... ध्यानदेयास्तद्वृत्तयः .... .... ... ........ २ ५२ ११५ वर्णानुक्रमसूची। पादाङ्काः सूत्राङ्काः पृष्ठाङ्काः ध्रुवे तद्गतिज्ञानम् .... .... .... .... .... ... ३ २८ १५३ न च तत्सालम्बनं तस्याविषयीभूतत्वात् ..... ........ ३ २० १४६ न चैकचित्ततन्त्रं वस्तु तदप्रमाणकं तदा किं स्यात् .... ४ १६ १९२ न तत्स्वाभासं दृश्यत्वात् .... .... .... .... ४ १९ १९५ नाभिचक्रे कायव्यूहज्ञानम् .... .... .... .... ३ २९ १५३ निमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवत्.... ४ ३ १७७ निर्माणचित्तान्यस्मितामात्रात् .... .... .... ..... ४ ४ १७८ निर्विचारवैशारद्येऽध्यात्मप्रसादः .... .... .... .... १ ४७ ५१ परमाणुपरममहत्त्वान्तोऽस्य वशीकारः .... .... .... १४० ४२ परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः .... .... .... .... .... .... २१५ ७४ परिणामत्रयसंयमादतीतानागतज्ञानम् .... .... .... ३ १६ १३७ परिणामैकत्वाद्वस्तुतत्त्वम् .... .... .... .... .... ४ १४ १८८ पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिरिति .... .... .... .... .... ४३४ २०७ पूर्वेषामपि गुरुः कालेनानवच्छेदात् .... .... .... १ २६ ३१ प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम् २ १८ ८१ प्रच्छर्दनाविधारणाभ्यां वा प्राणस्य .... ..... १३४ ३९ प्रत्यक्षानुमानागमाः प्रमाणानि .... .... प्रत्ययस्य परचित्तज्ञानम् प्रमाणविपर्ययविकल्पनिद्रास्मृतयः .... .... .... .... १ ६ १० प्रयत्नशैथिल्यानन्तसमापत्तिभ्याम् .... .... २४७ १११ प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषाम् .... .... .... ४ ५ १७९ प्रवृत्त्यालोकन्यासात्सूक्ष्मव्यवहितविप्रकृष्टज्ञानम् .... .... ३ २५ १४८ प्रसंख्यानेऽप्यकुसीदस्य सर्वथा विवेकख्यातेर्धर्ममेघः । . समाधिः .... .... .... .... ... .... ४ २९ २०२ प्रातिभाद्वा सर्वम् .... .... .... .... .... ... ३ ३३ १५४ बन्धकारणशैथिल्यात्मचारसंवेदनाच्च चित्तस्य परशरीरावेशः ३ ३८ १५६ पातञ्जलयोगसूत्राणां- पादाङ्काःसूत्राङ्काःपृष्ठाङ्काः ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः .... ........ ..... २ ३८ १०८ बलेषु हस्तिबलादीनि .... .... .... .... .... ३ २४ १४८ बहिरकल्पिता वृत्तिमहाविदेहा ततः प्रकाशावरणक्षयः .... ३ ४३ १६० बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः .... ..... .... .... २ ५१ ११३ बाह्याभ्यन्तरस्तम्भवृत्तिर्देशकालसंख्याभिः परिदृष्टो दीर्घ- सूक्ष्मः .... .... .... .... .... .... .... २ ५० ११२ भवप्रत्ययो विदेहप्रकृतिलयानाम् ..... .... ... .... १ १९ २२ भुवनज्ञानं सूर्ये संयमात् .... .... .... .... .... ३ २६ १४९ म. मूर्धज्योतिषि सिद्धदर्शनम् ..... .... .... .... .... ३ ३२ १५३ मृदुमध्याधिमात्रत्वात्ततोऽपि विशेषः .... .... .... १ २२ २५ मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावनातचित्तप्रसादनम् .... .... ... .... १३३ ३८ मैत्र्यादिषु बलानि .... .... .... .... .... ३ २३ १४८ यथाभिमतध्यानाद्वा .... ..... .... .... .... १ ३९ ४२ यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोs- ष्टावङ्गानि .... .... .... .... .... .... २ २९ १०१ योगश्चित्तवृत्तिनिरोधः .... .... .... .... .... १ २ ४ योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिरा विवेकख्यातेः ... २ २८ ९८ रूपलावण्यबलवनसंहननत्वानि कायसंपत् .... .... ३ ४६ १६५ वस्तुसाम्ये चित्तभेदात्तयोविभक्तः पन्थाः .... .... .... ४ १५ वितर्कबाधने प्रतिपक्षभावनम् .... .... .... .... २ ३३ १०५ वितर्कविचारानन्दास्मितारूपानुगमात्संप्रज्ञातः .... .... १ १७ २० वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका मृदुमध्याधिमात्रा दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम् .... ... ...... ... ... .... .... २३४ १०६ ४ G वर्णानुक्रमसूची। पादाङ्काःसूत्राङ्का:पृष्ठाङ्काः विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः । .... ११८ २१ विवेकख्यातिरविप्लवा हानोपायः .... .... .... .... २ २६ ९६ विशेषदर्शिन आत्मभावभावनानिवृत्तिः ४ २५ २०० विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि २१९ ८४ विशोका वा ज्योतिष्मती .... .... .... विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धमी १३५ ३९ वीतरागविषयं वा चित्तम् .... .... .... .... १३७ ४१ वृत्तयः पञ्चतथ्यः क्लिष्टाक्लिष्टाः ...... .... .... ..... वृत्तिसारूप्यमितरत्र .... .... .... ......... .... व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनालब्धभू- मिकत्वानवस्थितत्वानि चित्तविक्षेपास्तेऽन्तरायाः ..... व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ निरोधक्षणचि- त्तान्वयो निरोधपरिणामः .... .... .... .... ३ ९ श. शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः .... .... .... १ ९. १३ शब्दार्थप्रत्ययानामितरेतराध्यासात्संकरस्तत्प्रविभागसंयमा- सर्वभूतरुतज्ञानम् .... .... .... ..... .... ३ १७ १३७ शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी .... .... .... ३ १४ १३२ शौचसंतोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः .... २ ३२ १०४ शौचात्स्वाङ्गजुगुप्सा परैरसंसर्गः .... .... .... .... '२ ४० १०९ श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् .... .... .... १ २० २३ श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात् .... .... १ ४९ ५२ श्रोत्राकाशयोः संबन्धसंयमादिव्यं श्रोत्रम् .... .... ३ ४१ १५८ सति मूले तद्विपाको जात्यायुर्भोगाः .... .... .... २.१३ ६८ स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः .... .... ११४ १८ संत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् .... .... .... .... २ ३६ १०७ सत्त्वपुरुषयोरत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोगः परार्था- त्स्वाथेसंयमात्पुरुषज्ञानम् .... .... ... .... ३ ३५ १५४



  1. अयं श्लोको घ. पुस्तक नास्ति । वाचस्पतिमिश्ररेतच्छ्लोकस्य व्याख्या न कृता विज्ञानभिक्षुणा तु व्याख्यानं कृतम् ।
  2. क. विधीयते ।
  3. ख. ज, झ. इत्यादि।
  4. ख. 'स्रवकृत्व’
  5. ख. °त्तस्य° भू ।
  6. ख. °यः । आत्मनश्चित्तवृत्तिभिरेव विहारं कुर्वन्ति । तासां रोधे विहारशून्यास्ताभिः सह वैराग्येण ब्रह्मणि लयं गच्छन्ति । नित्यं साक्षादात्मा केवढात्मसंस्कारशेषं
    समाधिना लयं कृत्वा ब्रह्मणि योगे योग: । स च योगिनां ह्रदियोगे भिन्नाभावः सार्वभोम इति । त° ।
  7. घ. ङ. ति प्राक्षि
  8. ज. यश्चित्तरथेम्ना न ।
  9. क. ज. यकार ।
  10. ख. झ.पशब्दो हि ।
  11. ३ ख. ज. थः । न ।
  12. ४ अ. त्योपादा।
  13. क. ख. च. छ. प्यस्यापि र
  14. क. ख. च. छ. 'ति । स च
  15. क, ज एतलक्ष
  16. १ क, ख. श. हि मा । २ ख. ज. हित मनो य । ३ ख. ज. 'केब'। ५. ‘पायभावेऽपि । ५.म् । संमोह।
  17. १ क. 'मान्यक।
  18. १ ज. °न्या कारण !
  19. ३ क. "वृत्तेर्हि ।
  20. ४ ख. ज.काङ्गा।
  21. ५ज, पकृत।
  22. १ क. 'ते रागः कौं । २ क. पलभ्यानां ।
  23. १ ग. छ. च. त्स्यबन्धक । छ. त्स्यवेध । २ ग. घ. छ. च्यते ॥ ३१ ॥ १ क. द्वंद्वं च जि । ग. घ. च. द्वंद्वश्च । ढ. द्वंद्वानि च जि । ४ ख. झ. णथागमा । ५ क. ख.झ. विशेषः।
  24. १ ज. वादनियतत्वाभि' ।
  25. २ क. ख. झ. 'वृत्तिरि ।
  26. १ ख. 'दं के।
  27. २ क. ख. तिाप' । ग. च. छ.'र्वाप' ।
  28. ३ ज. तिहला ।
  29. ४ ज. व भावादि ।
  30. ५ ज; 'गधि।
  31. ६ कालो ।
  32. =१ क.स्व.च छ
    नमनना
  33. १ क. झ. स्यतेऽवाऽऽ ।
  34. ३ ख. ज. स्थैर्यमु।
  35. ४ ख. ज.स. सि ।
  36. ५ रु. झ. तब भग । ज. तब भव' ।
  37. ६ ख. ज. 'ल्या । ७ ख. ज.तरे फ ।
  38. १ ग. प्र. पद्भवत्य' । २ ख. ज, रणध । ३ ख. ज. झं. रणः । ४ ख. ज. यत्नः ।।
  39. १ ख. ज. झ मन्दः । २ ज. श्वासपच रोपन्ना तु सं° ।
  40. 1
  41. 2
  42. 3
  43. 4
  44. 5
  45. 6
  46. 7
  47. १. ख. मणिधानाजि ।२. ख. च, न्यथैवा । ३. उ. एषमुक्त।
  48. १ ख. ज. अ. ननि।
  49. १ ग. य. द. निरोधसंस्काराम्य । २ क. ख. घ. ङ. च धर्मः सं ।
  50. १ चित्तमपायोपजनयोः
  51. २ पूर्यापरीभूताया
  52. =क. ख. च. °मः । नि।
  53. =क. स्व. स. मधाभ' ।
  54. = क. नताल |
  55. =ज.'ताल'।
  56. = ज.'नताल।
  57. =ख. झ, "मस्य नि
  58. १ ग. घ. ह.
    च. ताश्च तां ता।
  59. २ म. दशैक।
  60. १ ग. . छ. च. नां वि° ५ २ ख. नित्यतायां क° । ३ ज. प त । ४ ख. गुण ।
  61. =घ.
  62. ३ ज. प त
  63. =ग.त्र त्रयः ख।
  64. = झ. निगम । ३ क. ज. झ.
  65. =ह-पु°1
  66. =क. ज. तस्मातत्तस्मा-
  67. =ज. 'देश्य इत्युक्तम्
  68. =क. झ. ति
  69. क. म. तिवमिति । २ क. 'काला भा । झ. कालीना भा । ३ ज. हित- सक।४ क.ज. तस्या।
  70. =ज. कौ च ।
  71. =क. दातस्य ।
  72. =ज. शइमाशु प ।
  73. =झ. 'गगो गौर नग इत्या' ।
  74. =क. ज. नग इत्या । ख.नयर इ-या :
  75. =ज. षु पदेषु दृ' ।
  76. = क. झ दृष्टः स'!
  77. =ख ज. 'स्य तत्तयोक्तं तस्य ।
  78. = ख. ज. दारेगाऽऽग्ने ।
  79. =ज. वति ।
  80. =क. स. छ. च. यमेक
  81. =स. न. 'या व्यक्त ।
  82. =क. ख. 'मतो रस इ
  83. =क.ख. क्षणः फ°
  84. =क. ख. मानरुच्चार्यमाणैः श्रु'
  85. =क. ख. ड. च. एतस्या
  86. =ख. झ. पदूषि'
  87. १ क. ख. कीर्णाः । तद्यथा गौ । २ ख. °था प° 1 ३ ज, क्यार्थे वा । ४ ख. ज. 'रोऽयं य । ५ झ. 'वतिर्वा प । ६ ख. ज. था ।
  88. १. च । २ क. ख. ५ रू. च. °क्थे पदप । ३ ज. वाश्यार्थे । ४ ज. किगपई । ५ क. णीयं ब्याख्ये'। ६ क. ज. नमोनीमा । ख. ज. व्याख्यायेत । त। ८ ज, दार्थः सिद्धपस्तत्राप्यस्ति । ९ व. यस्य सि ।
  89. १ . च साल । २ ख. च. संयो । ३ क. च. °संयो' । ४ क. ख. न चाते । सा।
  90. १ क, ख, "स्तस्यां य।
  91. २ ख. गच्छेत् ॥ २५ ॥
  92. ३ क. ख, ज. गच्छादात
  93. १ क, ख. ज. ज. सर्व सत्रमकाः । २ ग, घ, ड. ज. तिन्ले न ।
  94. १ क. ख. षु संयमं कृत्वा तानि । २ ज. ठकृप' । ३ क. ख. चेति । ४ ज. छिदं । ५ ज. भासुरवाज्ज्योति । ६ ग, प..च, ज. 'यमासिद्धा । १०
  95. १ क. ख. ग. घ. स. छ. रार्थत्वात्स्वा । २ क. 'रार्थत्वात्स्वा । ३ ख. ज. नेस्य ।
  96. ..१ ग.घ. च. ज. प्रधानः ।
  97. २ ग. घ. उ. "लति ।
  98. ३ ख. ज. श°1
  99. ५ अ. नभेदापवनविजयादिषु प्रतिं । ।
  100. ४ क.ज. "ये विभूतय एव ताः लियास्था'।
  101. ६. ख, ररूपं मभः हा
  102. ७ ज. यमः।
  103. ८ म. म. 'बांने पृ
  104. ९।क.झ.कार्यर्ये।
  105. १०. प्रामाहीमामुपकासयय वं
  106. =१ के. ख. 'विषियः । ते ।
  107. = २ च. 'मावण

  108. . स. च. जे. जातिय
    तं प्रयो
  109. १ ग. घ. हु. अ. भवन्ति । २ ख. 'स्त्वपु ! ज. 'स्त्वस्या' । ३ क. र्थस्य व्य° :
    ४ ज. णत्वमुक्त।
  110. १ क. स्व. ज, “दानाय ।
  111. १ क. ग. इ. च. ज"तुष्पात्सलि' । २ ख. 'यय । ३ ग. प. ४. 'यतला। ४ ज. झ. कर्म° । ५ ख. °त् । ० १ ६ ज, रवयफ' । ७ ज. रययफ।
  112. १ ग. घ. ड. च. ज. “भुनः सं' ।
  113. २ स. अ. झ. 'कर्ष आरे'।
  114. १ ग.ततः स्वयं।
  115. २ क.व्याकार।
  116. ३ ख. ज. संवेधीति ।
  117. ४ स. बिम्तिन |
  118. ५ "स.'थमुपलभ्याय ।
  119. ६.क. गमरमप्य।
  120. १ ग. "रुष इति ॥ २३ ॥
  121. २ क. ख. सुखं चि ।
  122. ३ ख.वैधाद्वै जात्या। ज.झ.वैजात्या ।
  123. ४ ख.ज.स.वमेतदिति।
  124. ५ ख.इतश्चेति ।
  125. ६ क.ख.सुखं चि ।
  126. ७ क.दखे वि।
  127. ५ ग. च. ज. नाविनि । २ स. झ. न चान्यषि' । ३ ज. नाविन ।
  128. १ क, “स्य विनि |
  129. २ ख. पनि ॥
  130. ३ च.ज.भ्यः ॥ २७॥ विषेकप्रत्ययानि ।
  131. ४ क. स. च. पाहारोहि° १e*-
  132. ५ के. ख. झ. ना बिनि ।
  133. ६ क. ग्ध. "मोक्षे वि' । झ, योसेवि।
  134. ७ क.दर्शिते।
  135. क. च. णक्लेशवि ।
  136. म. घ. इ. ज. °गतमल भ ।
  137. ख. ज. ति ।
  138. १ क. ख. ब. क. °मपरिस
  139. २ ख. झ. एक त°
  140. ३ न. °ममा
  141. ४ ज. तदेवा- समान। ल्य्
  142. १ ग. °न कृतार्थता नापि
  143. २ क. °हजो भो
  144. ३ क. म.. 'मित्याह
  145. ४ ख. ग.
    भावात्सयो
  146. ५ क. 'तस्थामर्नवस्नुनो विभागो
  147. ६ रु. व दृश्यसं ७ क, यदुःखप
  148. ६ रु. व दृश्यसं ७ क, यदुःखप