पातञ्जलयोगदर्शनम् व्यासभाष्य-तत्त्ववैशारदी-योगवार्तिक-समेतम्/साधनपादः

विकिस्रोतः तः
पातञ्जलयोगदर्शनम्
(२)
द्वितीयः साधन-पादः ।
(२.१)
उद्दिष्टः समाहित-चित्तस्य योगः । कथं व्युत्थित-चित्तोऽपि योग-युक्तः स्याद् इत्य् एतद् आरभ्यते—
तपः-स्वाध्यायेश्वर-प्रणिधानानि क्रिया-योगः ॥
नातपस्विनो योगः सिद्ध्यति । अनादि-कर्म-क्लेश-वासना-चित्रा प्रत्युपस्थित-विषय-जाला चाशुद्धिर् नान्तरेण तपः सम्भेदम् आपद्यतैति तपस उपादानम् । तच् च चित्त-प्रसादनम् अबाधमानम् अनेनासेव्यमिति मन्यते । स्वाध्यायः प्रणवादि-पवित्राणां जपो मोक्ष-शास्त्राध्ययनं वा ।ीश्वर-प्रणिधानं सर्व-क्रियाणां परम-गुराव् अर्पणं तत्-फल-संन्यासो वा ॥१॥
तत्त्व-वैशारदी : ननु प्रथम-पादेनैव सोपायः सावान्तर-प्रभेदः सफलो योग उक्तस् तत् किम् अपरम् अवशिष्यते यद्-अर्थं द्वितीयः पादः प्रारभ्येतेत्य् अत आह—उद्धिष्टैति । अभ्यास-वैराग्ये हि योगोपायौ प्रथमे पाद उक्तौ । न च तौ व्युत्थित-चित्तस्य द्राग् इत्य् एव सम्भवतैतिद्वितीय-पादोपदेश्यानुपायान् उपेक्षते सत्त्व-शुद्ध्य्-अर्थम् । ततो हि विशुद्ध-सत्त्वः कृत-रक्षा-संविधानोऽभ्यास-वैराग्ये प्रत्यहं भावयति । समाहिततत्वम् अविक्षिप्तत्वम् । कथं व्युत्थान-चितोऽप्युपदेक्ष्यमाणैर् उपायैर् युक्तः सन् योगी स्याद् इत्य् अर्थः । तत्रवक्ष्यमाणेषु नियमेष्व् आकृष्य प्राथमिकं प्रत्युपयुक्ततरतया प्रथमतः क्रिया-योगम् उपदिशति सूत्रकारः—तपः-स्वाध्यायैत्य्-आदि ।
क्रियैव योगः क्रिया-योगः योग-साधनत्वात् । अत एवविष्णु-पुराणे खाण्डिक्य-केशिध्वज-संवादे—योग-युक् प्रथमं योगो युञ्जमानोऽभिधीयते[वि.पु. ६.७.३३]इत्य् उपक्रम्य तपः-स्वाध्यायादयो दर्शिताः ।
व्यतिरेक-मुखेन तपस उपायत्वम् आह—नातपस्विनैति । तपसोऽवान्तर-व्यापारम् उपायतोपयोगिनं दर्शयति—अनादीति । अनादिभ्यां कर्म-क्लेश-वासनाभ्यां चित्रात एव प्रत्युपस्थितम् उपनत-विषय-जालं यस्यां वा तथोक्ता । अशुद्धी रजस्-तमः-समुद्रं को नान्तरेण तपः सम्भेदम् आपद्यते । सान्द्रस्य नितान्त-विरलता सम्भेदः ।
ननूपादीयमानम् अपि तपो धातु-वैषम्य-हेतुतया योग-प्रतिपक्षैतिकथं तद्-उपाय इत्य् अत आह—तच् चेति । तावन्-मात्रम् एव तपश् चरणीयं न यावता धातु-वैषम्यम् आपद्येतेत्य् अर्थः ।
प्रणवादयः पुरुष-सूक्त-रुद्र-मण्डल-ब्राह्मणादयो वैदिकाः, पौराणिकाश् च ब्रह्म-पारायणादयः । परम-गुरुर् भगवानीश्वरस् तस्मिन् । यत्रेदम् उक्तम्—
कामतोऽकामतो वापि यत् करोमि शुभाशुभम् ।
तत् सर्वं त्वयि संन्यस्तं त्वत्-प्रयुक्तः करोम्य् अहम् ॥िति ।
तत् फल-संन्यासो वा । फलानाम् अभिसन्धानेन कार्य-करणम् । यत्रेदम् उक्तम्—
कर्मण्य् एवाधिकारस् ते मा फलेषु कदाचन ।
मा कर्म-फल-हेतुर् भूर् मा ते सङ्गोऽस्त्व् अकर्मणि ॥[गीता २.४७] ॥१॥
योग-वार्तिकम् : ननु प्रथम-पादेनैव योगः सोपायः सफलश् चावान्तर-भेदैः सह प्रोक्तः । तत् किम् अपरम् अवशिष्यते यद्-अर्थं द्वितीय-पाद आरब्धव्य इत्य् आकाङ्क्षायाम् आह—उद्दिष्टैति । समाहित-चित्तस्य योगारूढ-चित्तस्योत्तमाधिकारिणोऽभ्यास-वैराग्य-मात्र-साधनेनैव क्रिया-योगादि-सकलाङ्गानां नैरपेक्ष्येणपूर्व-पादे योगः प्रदर्शितः । तेषां बहिरङ्गत्वं वक्ष्यति त्रयम् अन्तरङ्गं पूर्वेभ्यः[३.७]इति सूत्रेण तद्-अभावेऽपिभावादिति भाष्येण च । तथा चोक्तम् आश्वमेधिके—
अपेत-व्रत-कर्मा तु केवलं ब्रह्मणि स्थितः ।
ब्रह्म-भूतश् चरन् लोके ब्रह्मचारीति कथ्यते ॥[म.भा. १४.२६.१६]इति ।
तथा गारुडेऽपि—
आसन-स्थान-विषयो न योगस्य प्रसाधकाः ।
शिशुपालः सिद्धिम् आप स्मरणाभ्यास-गौरवात् ॥
ते चाभ्यास-वैराग्ये न सर्वेषां द्रागिन्य् एव भवतः, अतो व्युत्थित-चित्तो बहिर्मुखोऽपि योगम् आरुरुक्षुः क्रमात् केनोपायेन योग-युक्तः स्यादिति तम् उपायं वक्तुम् एतत्-सूत्र-जातम् आरभत इत्य् अर्थः । तद् एवम् अधिकार-भेदेन साधन-भेदो गारुडादिष्व् अप्य् उक्तः—
आरुरुक्षु-यतीनां च कर्म-ज्ञाने उदाहृते ।
आरूढ-योग-वृक्षाणां ज्ञान-त्यागौ परौ मतौ ॥िति ।
त्यागो बाह्य-कर्मणाम् । गीतायाम् अपि—
आरुरुक्षोर् मुनेर् योगं कर्म कारणम् उच्यते ।
योगारूढस्य तस्यैव शमः कारणम् उच्यते ॥[गीता६.३]इति ।
कारणं योगस्य ।
तपः-स्वाध्यायेश्वर-प्रणिधानानि क्रिया-योगः । योगोपायत्वाद् योगः क्रिया चासौ योगश् चेति विग्रहः । तप-आदीनि त्रीणि क्रिया-योग इत्य् अर्थः । ईश्वर-प्रणिधान-रूपो भक्ति-योगोऽप्य् अत्र क्रिया-योग-मध्य एव प्रवेशितः ।
अतो—योगास् त्रयो मया प्रोक्ता भक्ति-ज्ञान-क्रियात्मकाः [भा.पु. ११.२०.६]११२इत्य्-आदि-स्मृतिषु त्रय एव योगोपायत्वाद् योगा उक्ताः, तत्र ज्ञान-योगो धाराना-ध्यान-समाधि-रूपः पूर्व-पादे प्रोक्तः, विस्तरस् त्व् अस्याग्रे भविष्यतीति । यद्यपि यमादयोऽपिक्रिया-योगास् तथापिवक्ष्यमाण-यम-नियमादिषु मध्ये तप-आदि-त्रयं प्रकृष्टयादौ पृथङ् निर्दिष्टं केवलेनैतेनापि तीव्रतरेण योगो भवतीति सूचयितुमिति बोध्यम् ।
ननु स्वाध्यायेश्वर-प्रणिधानं च तत्त्व-ज्ञानेश्वरानुग्रहाभ्यां योगोपकारकं स्यात्, तपस् तु देहेन्द्रिय-शोषणात्मकं केन द्वारेण योगस्योपकारकं भवतु, प्रत्युत चित्त-क्षोभकत्वेन योग-विरोध्य् एवेत्य् आशङ्क्य तपसो द्वारम् आह—नातपस्विनैति । असिद्धौ हेतुम् आह—अनादीति । अनादि-क्लेश-कर्म-वासनया हेतुना चित्रा नाना-विधाशुद्धिः पापाख्या प्रत्युपस्थापित-विषय-जालतया योग-विरोधिनी तपो विना न सम्भेदं तनुताम् आपद्यत इत्य् अर्थः ।
इतीति । इत्य् अतः साधन-मध्ये तपसो ग्रहणम् इत्य् अर्थः । योग-विरोध-शङ्काम् अपाकरोति—तच् चेति । तच् च तपश् चित्त-प्रसादाविरोधि मृद्व् एवानेन योगिना कर्तव्यमितिपरमर्षिभिर् मन्यत इत्य् अर्थः ।
पवित्राणां पाप-क्षय-हेतूनाम् ।
प्रथम-पादोक्त-प्रणिधानाद् अतिरिक्तम् अत्र प्रणिधानम् आह—सर्व-क्रियाणामिति । लौकिक-वैदिकासाधारण्येन सर्व-कर्मणां परमेश्वरेऽन्तर्यामिण्य् अर्पणम् इत्य् अर्थः । तद् उक्तं गीतायां—
यत् करोषि यद् अश्नासि यज् जुहोषि ददासि यत् ।
यत् तपस्य सि कौन्तेय तत् कुरुष्व मद्-अर्पणम् ॥[गीता९.२७]इति ।
अर्पणं च—
कामतोऽकामतो वापि यत् करोमि शुभाशुभम् ।
तत् सर्वं त्वयि संन्यस्तं त्वत्-प्रयुक्तः करोम्य् अहम् ॥
इत्य्-आदि-स्मृतिभिर् व्याख्यातमिति । त्वत्-प्रयुक्तः करोम्य् अहमिति चिन्तनम् एव सन्न्यास इत्य् अर्थः । अत्र प्रयोक्तृत्वम् अन्तर्यामि-विधयैव न तु श्रुति-द्वारा, अशुभ-कर्मसु श्रुत्य्-अभावादिति । एतद् अपेक्षयापि प्रकृष्टं द्विविधं कर्मारणान्तरं कौर्मे प्रोक्तम्—
ब्रह्मणा दीयते देयं ब्रह्मणे सम्प्रदीयते ।
ब्रह्मैव दीयते चेति ब्रह्मार्पणम् इदं परम् ॥
नाहं कर्ता सर्वम् एतत् ब्रह्मैव कुरुते तथा ।
एतद् ब्रह्मार्पणं प्रोक्तम् ऋषिभिस् तत्त्व-दर्शिभिः ॥िति ।
तत्-फलेति । एतद् अपि कौर्मे प्रोक्तम्—
यद् वा फलानां संन्यासं प्रकुर्यात् परमेश्वरे ।
कर्मणाम् एतद् अप्य् आहुर् ब्रह्मार्पणम् अनुत्तमम् ॥िति ।
कर्म-फलानाम् ईश्वरो भोक्तेति चिन्तनं कर्म-फल-संन्यासः—भोक्तारं यज्ञ-तपसां सर्व-लोक-महेश्वरं [गीता५.२९]इत्य्-आदि-वाक्यात् । तद् उक्तं—करोति यद् यत् सकलं परस्मै नारायणायेति समर्पयेत् तत् [भा.पु. ११.२.३६]इति ।
यज्ञादीनां हीन्द्रादि-भावापन्नस्यान्तर्यामिणो भोग एव मुख्यं फलं—
येऽप्य् अन्य-देवता-भक्ता यजन्ते श्रद्धयान्विताः ।
तेऽपि माम् एव कौन्तेय यजन्त्य् अविधि-पूर्वकम् ॥[गीता७.२३]इत्य्-आदि-वाक्येभ्यैति ।
नन्व् अत्र वाक्ये विष्ण्व्-आख्य-देवता-विशेषस्य इवेतर-देवता-यजनेन यजनं प्रोक्तं न परमात्मनैति चेत् ? न—परं हि ब्रह्म कथितं योग-युक्तेन तन्-मय[म.भा. १४.१६.१२] इत्य् अनुगीता-वाक्यतः श्री-कृष्णस्य भगवद्-गीतायां परमात्मोपदेशस्यैव लाभादिति । यद्यपीश्वरस्य भोगो नित्यः तथापि सिसृक्षाद्य्-उत्पत्तिवत तद् उत्पत्तिर् गौणी, यज्ञादि-सहकारेणैव फल-दातृतयेश्वर-प्रीतेर् अभिव्यक्तेः ।
नन्व् ईश्वर-प्रणिधानम् अत्र पूर्व-पादोक्त-भावना-रूपम् एव कथं न भवति ? तत्राह—स हि क्रिया-योगैति । स हि स एव फल-संन्यासः कर्मार्पणं च क्रिया-योगी भवति, कर्म-शेषत्वात् तज्-जपस् तद्-अर्थ-भावनं[१.२८]इति पूर्वोक्तं च भावना-रूपं प्रणिधानं ज्ञानम् एव, कर्म-तच्-छेषत्वयोर् अभावाद् इत्य् अर्थः । उत्तर-सूत्रेण सहान्वये तु हि-शब्द-वैयर्थ्यमिति बोध्यम् ॥१॥
—o)0(o—
(२.२)
समाधि-भावनार्थः क्लेश-तनूकरणार्थश् च ॥
स ह्य् आसेव्यमानः समाधिं भावयति क्लेशांश् च प्रतनूकरोति । प्रतनूकृतान् क्लेशान् प्रसङ्ख्यानाग्निना दग्ध-बीज-कल्पान् अप्रसव-धर्मिणः करिष्यतीति । तेषां तनूकरणात् पुनः क्लेशैर् अपरामृष्टा सत्त्व-पुरुषान्यताख्यातिः सूक्ष्मा प्रज्ञा समाप्ताधिकारा प्रतिप्रसवाय कल्पिष्यतैति ॥२॥
तत्त्व-वैशारदी : तस्य प्रयोजनाभिधानाय सूत्रम् अवतारयति—स हीति । सूत्रम्—समाधि-भावनार्थः क्लेश-तनूकरणार्थश् च ॥
ननु क्रिया-योग एव चेत् क्लेशान् प्रतनूकरोति कृतं तर्हि प्रसाग्ख्यानेनेत्य् अत आह—प्रतनूकृतानिति । क्रिया-योगस्य प्रतनूकरण-मात्रे व्यापारो न तु बन्ध्यत्वे क्लेशानाम् । प्रसङ्ख्यानस्य तु तद्-बन्ध्यत्वे । दग्ध-बीज-कल्पानिति बन्ध्यत्वेन दग्ध-कलम-बीज-सारूप्यम् उक्तम् । स्याद् एतत्—प्रसङ्ख्यानम् एव चेत् क्लेशान् अप्रसव-धर्मिणः करिष्यति, कृतम् एषां प्रतनूकरणेनेत्य् अत आह—तेषामिति । क्लेशानाम् अतानवे हि बलवद् विरोधि-ग्रस्ता सत्त्व-पुरुषान्यताख्यातिर् उदेतुम् एव नोत्सहते , प्राग् एव तद्-बन्ध्य-भावं कर्तुम् । प्रविरलीकृतेषु तु क्लेशेषु दुर्बलेषु तद्-विरोधिन्य् अपि वैराग्याभ्यासाभ्याम् उपजाय़् । उपजाता च तैर् अपरामृष्टानाभिभूता नैव यावत् परामृश्यतैति । सत्त्व-पुरुषान्यता-मात्र-ख्यातिः सूक्ष्मा प्रज्ञा, अतीन्द्रियतया सूक्ष्मोऽस्य विषयैति सूक्ष्मा प्रज्ञा, प्रतिप्रसवाय प्रविलयाय कल्पिष्यते । कुतः ? यतः समाप्ताधिकारा समाप्तोऽधिकारः कार्यारम्भणं गुणानां यथा हेतु-भूतया सा तथोक्तेति ॥२॥
योग-वार्तिकम् :तेषांयोग-द्वारम् आह—समाधि-भावनार्थः क्लेश-तनूकरणार्थश् च ॥ुभयार्थत्वे हेतुम् आह—स हीति । आ सम्यक् । निष्कामादि-रूपेण सेव्यमानः स हि स एव कर्म-योगः कर्मातिरिक्त-विषयेभ्यो निरुद्ध-वृत्तिकं निष्पापं च चित्तं करोति, ततः क्रमेण सत्त्वोद्रेकाद् एकाग्रम् अन्यत्रापि करोति, अविद्यादिकं न प्रकर्षणानायासेन तनूकरोति सत्त्व-शुद्ध्य्-आदि-द्वारेत्य् अर्थः । उत्तमाधिकारिणश् च सिद्धान्ति-योग्यता क्लेश-तनुता च सिद्धैवेत्य् अतः पूर्व-पादे तद्-उभय-योग-साधनतया नोक्तम् ।
नन्व् अविद्यादीनां क्लेशानां नाशेनैव संसाराच् छेदः, प्रतनूकरणेन तु किं प्रयोजनम् इत्य् आकाङ्क्षायाम् आह—प्रतनूकृतानिति ।प्रतनूकृतांश् च शुष्केन्धन-तुल्यान् कृतान् क्लेशान् क्रिया-योगः स्वयम् उद्दीपितेन प्रसङ्ख्यानाग्निना विवेक-ख्याति-वह्निना दग्ध-बीजवद् अप्रसव-धर्मिणोऽप्रसव-स्वभावान् संस्काराजनकान् करिष्यति, जीवन्-मुक्ति-दशायामिति शेषः ।
प्रसङ्ख्यानाग्नि-ज्वालने तनूकरणस्य द्वारं वदन् पूर्वोक्तम् उपसंहरति—तेषामिति । अपरामृष्टा अनभिभूता, तथा चानभिभव एव तनूकरणस्य द्वारमिति ।
सूक्ष्म- इति । सूक्ष्म-विषयत्वात् सूक्ष्मा साक्षात्कार-रूपिणी प्रज्ञा क्रमेण समाप्त-कर्तव्या चरंाक्षण्गुणे प्रतिप्रसवाय कल्पिते विदेह-कैवल्य-दशायामिति शेषः । तद् एवं क्रिया-योगस्य मोक्ष-ज्ञानादि-व्यापाकत्व-कथनात् कर्म-योगो ज्ञानादि-साधनतया ज्ञानाद्य्-अङ्गम् एव न साक्षान् मोक्ष-हेतुरितिसमाधैति ॥२॥
—o)0(o—
(२.३)
अथ के ते क्लेशाः ?
अविद्यास्मिता-राग-द्वेषाभिनिवेशाःपञ्च क्लेशाः ॥३॥
क्लेशाइति । पञ्च विपर्यया इत्य् अर्थः । ते स्यन्दमाना गुणाधिकारं द्रढयन्ति, परिणामम् अवस्थापयन्ति, कार्य-कारण-स्रोत उन्नमयन्ति, परस्परानुग्रह-तन्त्रीभूय कर्म-विपाकं चाभिनिर्हरन्तीति ॥३॥
तत्त्व-वैशारदी : पृच्छति—अथेति । अविद्येति सूत्रेण परिहारः । अविद्यास्मिता-राग-द्वेषाभिनिवेशाः पञ्च क्लेशाः ॥ व्याचष्टे—पञ्च विपर्ययाइति । अविद्या तावद् विपर्यय एव । अस्मितादयोऽप्य् अविद्योपादानास् तद्-अविनाभाव-वर्तिनैति विपर्ययाः । ततश् चाविद्यासङ्ग-च्छेदे तेषाम् अपि समुच्छेदो युक्तैति भावः । तेषाम् उच्छेत्तव्यता-हेतुं संसार-कारणत्वम् आह—तैति । स्यन्दमानाः समुदाचरन्तो गुणानाम् अधिकारं द्रढयन्ति बलवन्तं कुर्वन्ति, अत एव परिणामम् अवस्थापयन्ति, अव्यक्त-महद्-अहङ्कार-परम्परया हि कार्य-कारण-स्रोत उन्नमयन्त्य् उद्दावयन्ति । यद्-अर्थं सर्वम् एतत् कुर्वन्ति तद् दर्शयति—परस्परेति । कर्मणां विपाको जात्य्-आयुर्-भोग-लक्षणः पुरुषार्थस् तम् अमी क्लेशा अभिनिर्हरन्ति निष्पादयन्ति । किं प्रत्येकं निष्पादयन्ति ? नेत्य् आह—परस्परानुग्रहेति । कर्मभिः क्लेशाः क्लेशैश् च कर्माणीति ॥३॥
योग-वार्तिकम् :ुत्तर-सूत्रावताराय पृच्छति—अथेति । अविद्यास्मिता-राग-द्वेषाभिनिवेशाः पञ्च क्लेशाः ॥पञ्च विपर्ययाइति पूरयित्वा सङ्क्षेपतः सूत्रार्थम् आह—क्लेशा इतीति ।िति-शब्दोऽविद्यादि-परामर्शी । तथा चाविद्यास्मिता-राग-द्वेषाभिनिवेशाइति पञ्च विपर्ययाः क्लेशा इत्य् अर्थैति योजना । अत्र कियन्तैति प्रश्नस्योत्तरं पञ्चेत्य् अनेन । के त इत्य् अस्य चोत्तरं विपर्यया इत्य् अनेनाह—पञ्च विपर्ययाइति । अत्र पञ्चेत्य् अर्थाद् एव लब्धं विपर्ययाइति च पूरितं विशेष-लक्षणस्य च सामान्य-लक्षण-पूर्वकत्वौचित्यात् । विपर्यय-शब्दश् चात्र संसार-हेतु-विपर्ययार्थकः । अतो न शुक्ति-रजत-विपर्यये क्लेश-लक्षणातिव्यप्तिः । रागादीनां च विपर्यय-कार्यतया विपर्ययत्वं चेष्टम् ।प्रकृतस्य संसार-हेतु-विपर्ययस्य लक्षणम् अदृष्ट-सामान्य-हेतु-मनो-विशेष-गुणत्वमिति ।
ननु क्लेश-शब्दो दुःख-वाची किम् इत्य् अविद्यादिषु परिभाषितः, किम्-अर्थं वा तेषाम् उच्छेदोऽपेक्षित इत्य् आकाङ्क्षायाम् आह—ते स्यन्दमानाइति । ते क्लेशाःस्यन्दमाना लब्ध-वृत्तिका दृष्टादृष्ट-द्वारा गुणानां सत्त्वादीनाम् अधिकारं कार्यारम्भण-सामर्थ्यं द्रढयन्ति बलवत् कुर्वन्ति । तद् दर्शयति—तथागुणानां परिणामं वैषम्य-रूपम् अवस्थापयन्ति निर्वर्तयन्ति । ततश् च महद्-आदि-रूप-कार्य-कारण-प्रवाहम् उन्नमयन्ति प्रवर्तयन्ति ।
यद्-अर्थम् एतत् सर्वं कुर्वन्ति तद् दर्शयति—परस्परेति । कर्म-विपाकं जात्य्-आयुर्-भोगं चाभिनिर्हरन्ति निष्पादयन्ति । किं स्वतन्त्रा एव ? नेत्य् आह—परस्परानुग्रह-तन्त्रा भूत्वेति । अविद्यातो रागो रागाच् चाविद्येत्य् एवम् -आदि-रूपान्योन्यानुग्रहाधीना भूतेत्य् अर्थः । अन्योन्य-साहित्येनैव हि क्लेशानां स्थैर्यं भवति, येन स्थैर्येण विपाक-परम्परा निर्वहतीति भावः । तथा च क्लेशाख्य-दुःखदत्वाद् अविद्यादीनां क्लेश-परिभाषा तान्त्रिकी, तथादुःख-निदानतयाविद्यादयः समुच्छेत्तव्याइति भावः ॥३॥
—o)0(o—
(२.४)
अविद्या क्षेत्रम् उत्तरेषां प्रसुप्त-तनु-विच्छिन्नोदाराणाम् ॥४॥
अत्राविद्या क्षेत्रं प्रसव-भूमिर् उत्तरेषाम् अस्मितादीनां चतुर्विध-कल्पानां प्रसुप्त-तनु-विच्छिन्नोदाराणाम् । तत्र का प्रसुप्तिः ? चेतसि शक्ति-मात्र-प्रतिष्ठानां बीज-भावोपगमः । तस्य प्रबोध आलम्बने सम्मुखीभावः । प्रसङ्ख्यानवतो दग्ध-क्लेश-बीजस्य सम्मुखीभूतेऽप्य् आलम्बने नासौ पुनर् अस्ति । दग्ध-बीजस्य कुतः प्ररोहः ?इति । अतः क्षीण-क्लेशः कुशलश् चरम-देह इत्य् उच्यते ।
तत्रैव सा दग्ध-बीज-भावा पञ्चमी क्लेशावस्था नान्यत्रेति । सतां क्लेशानां तदा बीज-सामर्थ्यं दग्धमितिविषयस्य सम्मुखीभावेऽपि सति न भवत्य् एषां प्रबोधैति । उक्ता प्रसुप्तिर् दग्ध-बीजानाम् अप्ररोहश् च । तनुत्वम् उच्यते—प्रतिपक्ष-भावनोपहताः क्लेशास् तनवो भवन्ति । तथाविच्छिद्य विच्छिद्य तेन तेनात्मना पुनः पुनः समुदाचरन्तीति विच्छिन्नाः । कथम् ? राग-काले क्रोधस्यादर्शनात् । न हि राग-काले क्रोधः समुदाचरति । रागश् च क्वचिद् दृश्यमानो न विषयान्तरे नास्ति । नैकस्यां स्त्रियां चैत्रो रक्त इत्य् अन्यासु स्त्रीषु विरक्तैति । किन्तु तत्र रागो लब्ध-वृत्तिर् अन्यत्र तु भविष्यद्-वृत्तिरिति । स हि तदा प्रसुप्त-तनु-विच्छिन्नो भवति । विषये यो लब्ध-वृत्तिः स उदारः । सर्व एवैते क्लेश-विषयत्वं नातिक्रामन्ति । कस् तर्हि विच्छिन्नः प्रसुप्त-तनु-विच्छिन्नः प्रसुप्त-तनुर् उदारो वा क्लेशैति । उच्यते—सत्यम् एवैतत् । किन्तु विशिष्टानाम् एवैतेषां विच्छिन्नादित्वम् । यथैव प्रतिपक्ष-भावनातो निवृत्तस् तथैव स्व-व्यञ्जकाञ्जनेनाभिव्यक्तैति ।
सर्व एवामी क्लेशा अविद्या-भेदाः । कस्मात् ? सर्वेष्व् अविद्यैवाभिप्लवते । यद् अविद्यया वस्त्व् आकार्यते, तद् एवानुशेरते क्लेशा विपर्यास-प्रत्यय-काले उपलभ्यन्ते क्षीयमाणां चाविद्याम् अनु क्षीयन्तैति॥४॥
तत्त्व-वैशारदी : हेयानां क्लेशानाम् अविद्या-मूलत्वं दर्शयति—अविद्या क्षेत्रम् उत्तरेषां प्रसुप्त-तनु-विच्छिन्नोदाराणाम् ॥
तत्र का प्रसुप्तिः ?इति । स्वोचिताम् अर्थ-क्रियाम् अकुर्वता क्लेशानां तद्-भावे न प्रमाणम् अस्तीत्य् अप्य् अभिप्रायः पृच्छतः । उत्तरम् आह—चेतसिइति । मा नामार्थ-क्रियां कार्षुः क्लेशा विदेह-प्रकृति-लयानां, बीज-भावं प्राप्तास् तु ते शक्ति-मात्रेण सन्ति क्षीर इव दधि । न हि विवेक-ख्यातेर् अन्यद् अस्ति कारणं तद्-बन्ध्यतायाम् । अतो विदेह-प्रकृति-लया विवेक-ख्याति-विरहिणः प्रसुप्त-क्लेशा न यावत् तद्-अवधि-कालं प्राप्नुवन्ति । तत्-प्राप्तौ तु पुनर् आवृत्ताः सन्तः क्लेशास् तेषु तेषु विषयेषु संमुखीभवन्ति । शक्ति-मात्रेण प्रतिष्ठा येषां ते तथोक्ताः । तद् अनेनोत्पत्ति-शक्तिर् उक्ता । बीज-भावोपगमैति च कार्य-शक्तिरिति ।
ननु विवेक-ख्यातिमतोऽपि क्लेशाः कस्मान् न प्रसुप्ताः ? इत्य् अत आह—प्रसङ्ख्यानवतैति । चरम-देहः, न तस्य देहान्तरम् उत्पत्स्यते यद्-अपेक्षयास्य देहः पूर्व इत्य् अर्थः । नान्यत्र विदेहादिष्व् इत्य् अर्थः ।
ननु सतो नात्यन्त-विनाश इत्य् अत आह—सतामिति । सन्तु क्लेशाः दग्ध-स्वेषां प्रसङ्ख्यानाग्निना बीज-भाव इत्य् अर्थः ।
क्लेश-प्रतिपक्षः क्रिया-योगस् तस्य भावनम् अनुष्ठानं तेनोपहतास् तनवः । अथ वा सम्यग्-ज्ञानम् अविद्यायाः प्रतिपक्षः, भेद-दर्शनम् अस्मितायाः, माध्यस्थ्यं राग-द्वेषयोर् अनुबन्ध-बुद्धि-निवृत्तिर् अभिन्वेशस्येति ।
विच्छित्तिम् आह—तथाइति । क्लेशानाम् अन्यतमेन समुदाचरताभिभवाद् वात्यन्तं विषय-सेवया वा विच्छिद्य विच्छिद्य तेन तेनात्मनापुनः पुनः समुदाचरन्ति आविर्भवन्ति वाजीकरणाद्य्-उपयोगेन वाभिभावक-दौर्बल्येन वेति । वीप्सया विच्छेद-समुदाचारयोः पौनः-पुन्यं दर्शयता यथोत्कात् प्रसुप्ताद् भेद उक्तः ।
रागेण वा समुदाचरता विजातीयः क्रोधोऽभिभूयते सआर्रयीयेन वा विषयान्तर-वर्तिना रागेणैव विषयान्तरवर्ती रागोऽभिभूयत इत्य् आह—राग- इति । भविष्यद्-वृत्तेस् त्रयी गतिर् यथायोगं वेदितव्येत्य् आह—न हिइति । भविष्यद्-वृत्ति-क्लेश-मात्र-परामर्शि सर्वनाम न चैत्र-राग-परामर्शि, तस्य विच्छिन्नत्वाद् एवेति ।
उदारम् आह—कस् तर्हि?इति । क्लेशत्वेन समानत्वेऽपि यथोक्तावस्था-भेदाद् विशेषैति परिहरति उच्यते—सत्यमिति । स्याद् एतत्, अविद्यातो भवन्तु क्लेशाः, तथाप्य् अविद्या-निवृत्तौ कस्मान् निवर्तन्ते ? न खलु पटः कुविन्द-निवृत्तौ निवर्तत इत्य् अत आह—सर्व एवैति । भेदा इव भेदाः । तद्-अविनिर्भाग-वर्तिनैति यावत् । पृच्छति—कस्मात् ?इति । उत्तरम् आह—सर्वेष्विति । तद् एव स्फुटयति—यदिति । आकार्यते समारोप्यते । शेषं सुगमम् ।
प्रसुप्तास् तत्त्व-लीनानां तन्व्-अवस्थाश् च योगिनाम् ।
विच्छिनोदार-रूपाश् च क्लेशा विषय-सङ्गिनाम् ॥िति सङ्ग्रहः ॥४॥
योग-वार्तिकम् : क्लेशानां स्थूल-सूक्ष्माणां सर्वेषाम् एव ज्ञान-नाश्यत्वं वक्ष्यमाणम् उपपादयितुम् अविद्या-मूलकत्वम् अन्य-क्लेशानाम् आह—अविद्या क्षेत्रम् उत्तरेषां प्रसुप्त-तनु-विच्छिन्नोदाराणाम् ॥
निमित्त-कारणस्यापि प्रसव-भूमित्वं प्राधान्य-मात्रेण गौणं व्याख्यास्यते—अत्रैति । अत्रैतेषु क्लेशेषु मध्ये चतुर्-भेदानाम् अस्मितादि-क्लेशानाम् इत्य् आदिर् अर्थः । प्रसुप्तादीनां सर्वेषाम् एवाविद्या-सत्त्वे सत्त्वं, तद्-अभावे तद्-अभाव इत्य् आशयः ।
तेषां चतुर्विध-भेदं विवृणोति—तत्र का प्रसुप्तिः ?इति । चेतसि शक्ति-मात्रेण अनागतावस्थयाव-स्थितानाम् अस्मितादीनां बीज-भावोपगमः स्व-कार्य-जनन-सामर्थ्यं प्रसुप्तिर् इत्य् अर्थः । अस्माद् वाक्यात् कार्यस्यानागतावस्थैव कारणे कार्य-शक्तिरिति लब्धम्, सैव चोपादान-कारणतेति भावः । दग्ध-बीज-भावां पञ्चमीम् अवस्थां व्यावर्तयितुं बीज-भावोपगम इत्य् उक्तम् । दग्ध-बीज-भावानां चास्मितादीनां पुनर् अप्रसवाद् अविद्या न क्षेत्रमिति सा पञ्चम्य्-अवस्था न लक्ष्येति भावः ।
कदाचित् प्रबोध-सत्त्व एव प्रसुप्तिः सम्भवतीत्य् अत प्रबोधम् अपि दर्शयति—तस्यैति । तस्य सुप्त-क्लेशस्य स्व-स्व-विषये संमुखी-भावोऽपिभिव्यक्तिः प्रबोध इत्य् अर्थः । पञ्चम्य्-अवस्थायायतिव्याप्त्य्-अभावं प्रतिपादयति—प्रसङ्ख्यान- इति । प्रसङ्ख्यानवतो विवेक-साक्षात्कारिणो जीवन्मुक्तस्य दग्ध-क्लेश-बीजतया सम्मुखीभूते सन्निकृष्टेऽपि विषयेऽसौ क्लेशानां संमुखी-भावः पुनर् न भवति । तत्र हेतुः—दग्ध-बीजस्य कुतः प्ररोहैतिइति । कारणाभावाद् इत्य् अर्थः । तत्र तस्य पुनः क्लेश-प्ररोहे शास्त्र-प्रसिद्धं चरम-देहकत्वं प्रमाणयति—अतैति । पुनः प्ररोहे सति देहान्तरोत्पत्त्या ज्ञानि-देहस्य चरमत्वानुपपत्तिरिति भावः । तथा च स्मर्यते—
बीजान्य् अग्न्य्-उपदग्धानि न रोहन्ति यथा पुनः ।
ज्ञान-दग्धैस् तथा क्लेशैर् नात्मा सम्पद्यते पुनः ॥[म.भा. १२.२११.१७]इति ।
ज्ञान-दग्धैः क्लेश-रूप-बीजैर् हेतुभिर् आत्मा देहो न पुनर् उत्पद्यत इत्य् अर्थः । क्लेशाख्य-बीज-दाहाद् इत्य् अर्थः । दग्ध-बीज-भावाया अवस्थाया अपरिगणने बीजम् आह—तत्रैवैति । तत्रैव चरम-देह एव दग्ध-बीजावस्था नान्यत्र, पुनर् जन्माभावाद् इत्य् अर्थः । अतो नास्ति दग्ध-बीजावस्थस्यप्रसवो नापि तत्-प्रसव-भूमिर् अविद्येति भावः ।
जीवन्मुक्तानां विषय-सन्निकर्षेऽपि क्लेशानाभिव्यक्तेः क्लेश-संस्कार एव तदा नास्ति विवेके कैवल्य इवेति भ्रमं निरस्य ति—सतामिति । सूक्ष्म-रूपेण सताम् एव क्लेशानां तदा चरम-देहे बीज-सामर्थ्यं कार्य-जनन-सामर्थ्यं दग्धम् नाशितम् इत्य् आदिर् अर्थः । अग्न्य्-आदौ दाहादि-शक्तेर् यावद् द्रव्य-भावितादर्शनात् चित्तेन सहैव क्लेश-शक्तेर् अशेषतो नाश-सम्भवात् । एतच् च ते प्रतिप्रसव-हेयाः सूक्ष्माः[२.१०]इति सूत्रे व्यक्तीभविष्यति । उपसंहरति—इत्य् उक्ता प्रसुप्तिर् दघ-बीजानाम् अप्ररोहश् चेति ।
शिष्यावधानाय क्रम-प्राप्तं तनुत्वस्य निर्वचनं प्रतिजानीते—तनुत्वम् उच्यतेइति । प्रतिपक्ष- इति । क्लेश-प्रतिपक्षः क्रिया-योगः, तस्य भावनानुष्ठानं तेनोपहताः क्लेशास् तनवो विवेक-ख्याति-बन्धाक्षमा भवन्ति । एतद् एव तनुत्वमिति शेषः ।
केचित् तु सम्यग्-दर्शनं श्रवणादि-रूपं परोक्षम् अविद्यायाः प्रतिपक्षः, एवं भेद-दर्शनम् अस्मितायाः, अहेयानुपादेयता-ज्ञान-रूपं माध्यस्थ्यं राग-द्वेषयोः, उपकरणाख्यानुबन्ध-बुद्धि-निवृत्तिर् अभिनिवेशस्य , एतेषां भावनेनानुष्ठानेनोपहता इत्य् अर्थम् आहुः ।
विच्छित्तिं व्याचष्टे—तथाइति । क्लेशानाम् अन्यतमेनाभिभवाद् अत्यन्त-विषय-सेवनाद् वा विच्छिद्य तेन तेनात्मना पूर्ववद् अतनु-भावेनैव पुनः समुदाचरन्ति आविर्भवन्तीत्य् अतो विच्छिन्न-शब्द-वाच्या भवन्तीत्य् अर्थः । अत्र वीप्सया विच्छित्ति-समुदाचारयोः पौनःपुन्यं दर्शयता प्रसुप्ताद् भेद उक्तः । प्रसुप्तिर् हि क्लेशानां व्यञ्जक-विलम्बेनैक-द्वि-त्रि-जन्मादि-बहु-कालं व्यापारानभिव्यक्तिरिति भेदः । तेन तेनात्मनेत्य् अनेन च तन्व्-अवस्थातो भेद उक्तैति ।
विच्छेदे प्रमाणं पृच्छति—कथम् ? उत्तरं—राग- इति । राग-काले क्रोधस्यादर्शनात् क्रोधस्य विच्छिन्नता सिध्यतीत्य् अर्थः । तदा क्रोधाभावे च पुनः क्रोधोत्पत्त्य्-असम्भवोऽसत्-कार्यानभ्युपगमादिति भावः । एवं क्लेशान्तरेऽपि द्रष्टव्यम् ।
राग-काले क्रोधस्य विच्छेदे च विरोधो बीजम् इत्य् आह—न हिइति । कालिक-विच्छेदं क्लेशानाम् उदाहृत्य दैशिक-विच्छेदम् अप्य् उदाहरति—रागश् चैति । विषयान्तरे च नास्ति, अपि तु विच्छिन्नावस्थस् तत्रापि, अन्यथासद्-उत्पादासम्भवाद् इत्य् अर्थः । अतो विषयान्तरे तदा रागेण विच्छिन्नैति भावः ।
तद् एव लोक-व्यवहारेणाप्य् अवधारयति—नैकस्यामिति । तत्रैकस्यां स्त्रियाम् इत्य् अर्थः । स हिइति । स हि रागस् तदान्यत्र प्रसुप्तो वा तनुर् वा विच्छिन्नो वैकतरोऽवश्यं भवति, तत्र विच्छिन्नताम् आदायात्रोदाहृत इत्य् आशयः ।
उदारतां व्याचष्टे—विषयैति । लब्ध-वृत्तिर् लब्ध-स्वाभाविक-वृत्तिर् इत्य् अर्थः । तेन तनु-व्यावृत्तिः । ननु प्रसुप्त-विच्छिन्नयोः कथं क्लेशत्वं दुःखाजनकत्वाद् इत्य् आशङ्क्याह—सर्व एवैतेइति । क्लेश-विषयत्वं क्लेश-जनन-योग्यत्वं नातिक्रामन्ति, उदाराद्य्-अवस्थायां प्रसुप्तादि-रूपस्य धर्मिणो दुःखदत्वाद् इत्य् अर्थः ।
नन्व् एवं सर्वासाम् एव क्लेश-व्यक्तीनां काल-भेदाच् चानुरूप्ये कथं प्रसुप्तादि-रूपेण क्लेशानां विभाग इत्य् आशङ्कते—कस् तर्हिइति । परिहरति—उच्यतैति । प्रसुप्तादि-रूपेण चतुर्णां क्लेशानाम् एकत्वमिति सत्यम् एतत्, तथाप्य् अवस्थाभिर् विशिष्टानाम् एव क्लेशानां विच्छिन्नादित्वं विवक्षितम् । यथैकस्यैव पुरुषस्य बालक-तरुण-वृद्धादि-रूपो विभाग इत्य् अर्थः ।
उक्ताया उदारावस्थायाः कारणं प्रदर्शयति हानाय—यथैवैति । स्व-व्यञ्जकेन विषय-ध्यानेनाञ्जनेनाभिव्यक्त उदारो भवति क्लेशोऽतो मुमुक्षुणा प्रतिपक्ष-भावनावद् विषय-सङ्ग-त्यागोऽपि कार्य इत्य् आशयः ।
निमित्त-कारणेऽपि क्षेत्र-शब्दो येन गुणेनात्र गौणः, तम् आह—सर्व एवेति । ननु रागादीनां ज्ञानत्वाभावात् कथम् अविद्या-विशेषत्वम् इत्य् आशयेन पृच्छति—कस्मात् ?इति । उत्तरं—सर्वेष्विति । सर्वेष्व् एव स्वेतर-क्लेशेष्व् अविद्यैव व्यापिका भवति । तत्र हेतुः—यदिइति । आकार्यते विषयीक्रियते । अनुशेरते अनुगता भवन्ति । शेषं सुगमम् ।
तथा च वैशेष्यात् तद्-वादैति न्यायेनाविद्या-प्राचुर्याद् अविद्या-मिश्रितेषु सर्व-क्लेशेष्व् अविद्या-भेदवत्त्वम् उपपन्नं यथा सुवर्णादिषु पार्थिवांश-मिश्रितेषु तेजो-वैशेष्यात् तेजो-भेदत्वमिति भावः ॥४॥
—o)0(o—
(२.५)
तत्राविद्या-स्वरूपम् उच्यते—
अनित्याशुचि-दुःखानात्मसु नित्य-शुचि-सुखात्म-ख्यातिर् अविद्या ॥५॥
अनित्ये कार्ये नित्य-ख्यातिः । तद् यथा—ध्रुवा पृथिवी, ध्रुवा स-चन्द्र-तारका द्यौः, अमृता दिवौकसैति ।
तथाशुचौ परम-बीभत्से काये । उक्तं च—
स्थानाद् बीजाद् उपष्ठम्बान् निःस्यन्दान् निधनाद् अपि ।
कायम् आधेय-शौचत्वात् पण्डिता ह्य् अशुचिं विदुः ॥
इत्य् अशुचौ शरीरे शुचि-ख्यातिर् दृश्यते । नवेव शशाङ्क-लेखा कमनीयेयं कन्या मध्व्-अमृतावयव-निर्मितेव चन्द्रं भित्त्वा निःसृतेव ज्ञायते, नीलोत्पल-पत्रायताक्षी हाव-गर्भाभ्यां लोचनाभ्यां जीव-लोकम् आश्वासयन्तीवेति कस्य केनाभिसम्बन्धः ? भवति चैवम् अशुचौ शुचि-विपर्यास-प्रत्ययैति । एतेनापुण्ये पुण्य-प्रत्ययस् तथैवानर्थे चार्थ-प्रत्ययो व्याख्यातः ।
तथा दुःखे सुख-ख्यातिं वक्ष्यति—परिणाम-ताप-संस्कार-दुःखैर् गुण-वृत्ति-विरोधाच् च दुःखम् एव सर्वं विवेकिनः[२.१५]इति । तत्र सुख-ख्यातिर् अविद्या ।
तथानात्मन्य् आत्म-ख्यातिर् बाह्योपकरणेषु चेतनाचेतनेषु भोगाधिष्ठाने वा शरीरे, पुरुषोपकरणे वा मनस्य् अनात्मन्य् आत्म-ख्यातिरिति । तथैतद् अत्रोक्तम्—व्यक्तम् अव्यक्तं वा सत्त्वम् आत्मत्वेनाभिप्रतीत्य तस्य सम्पदम् अनुनन्दत्य् आत्म-सम्पदं मन्वानस् तस्य व्यापदम् अनुशोचत्य् आत्म-व्यापदं मन्वानः स सर्वोऽप्रतिबुद्धैति ।
एषा चतुष्पदा भवत्य् अविद्या मूलम् अस्य क्लेश-सन्तानस्य कर्माशयस्य च स-विपाकस्येति । तस्याश् चामित्रागोष्पदवद् वस्तु-स-तत्त्वं विज्ञेयम् । यथा नामित्रो मित्राभावो न मित्र-मात्रं किन्तु तद्-विरुद्धः सपत्नः११३ । तथा चागोष्पदं न गोष्पदाभावो न गोष्पद-मात्रं किन्तु देश एव ताभ्याम् अन्यद् वस्त्व्-अन्तरम्११४ । एवम् अविद्या न प्रमाणं न प्रमाणाभावः, किन्तु विद्या-विपरीतं ज्ञानान्तरम् अविद्येति ॥५॥
तत्त्व-वैशारदी : अनित्याशुचि-दुःखानात्मसु नित्य-शुचि-सुखात्म-ख्यातिर् अविद्या ॥ अनित्योपयोगि विशेषणं—कार्यैति ।केचित् किल भूतानि नित्यत्वेनाभिमन्यमानास् तद्-रूपम् अभीप्सवस् तान्य् एवोपासते । एवं धूमादि-मार्गान् उपासते चन्द्र-सूर्य-तारका-द्युलोकान् नित्यानभिमन्यमानास् तत्-प्राप्तये । एवं दिवौकसो देवान् अमृतान् अभिमन्यमानास् तद्-भावाय सोमं पिबन्ति । आम्नायते हि—अपाम सोमम् अमृता अभूमैति । सेयम् अनित्येषु नित्य-ख्यातिर् अविद्या ।
तथाशुचौ परम-बीभत्से काये । अर्धोक्त एव काय-बीभत्सतायां वैयासकीं गाथां पठति—स्थानादिति । मातुर् उदरं मूत्राद्य्-उपहतं स्थानम् । पित्रोर् लोहित-रेतसी बीजम् । अशित-पीताहार-रसादि-भाव उपष्ठम्बः, तेन शरीरं धार्यते । निःस्यन्दः प्रस्वेदः । निधनं च श्रोत्रिय-शरीरम् अपवित्रीयते, तत्-स्पर्शे स्नान-विधानात् ।
तथा दुःखैति सुगमम् । तथा अनात्मनि सुगमम् ।
तथैतद् अत्रोक्तं पञ्चशिखेन । व्यक्तं चेतनं पुत्र-दार-पश्व्-आदि । अव्यक्तम् अचेतनं शय्यासनाशनादि । स सर्वोऽप्रतिबुद्धो मूढः ।
चत्वारि पदानि स्थानान्नस्याइति चतुष्पदा । नन्व् अन्वायि दिङ्-मोहालात-चक्रादि-विषयानन्त-पदाविद्या, तत् किम् उच्यते चतुष्पदेत्य् अत आह—मूलम् अस्येति । सन्तु नामान्या अप्य् अविद्याः, संसार-बीजं तु चतुष्पदैवेति ।
नन्व् अविद्येति नञ्-समासः पूर्व-पदार्थ-प्रधानो वा स्याद् यथाऽमक्षिकमिति । उत्तर-पदार्थ-प्रधानो वा यथाराज-पुरुषैति । अन्य-पदार्थ-प्रधानो वा यथामक्षिको देशैति ? तत्र पूर्व-पदार्थ-प्रधानत्वे विद्यायाः प्रसज्य-प्रतिषेधो गम्येत, न चास्याः क्लेशादि-कारणत्वम् । उत्तर-पदार्थ-प्रधानत्वे विद्यैव कस्य चिद् अभावेन विशिष्टा गम्यते । सा च क्लेशादि-परिपन्थिनी न तु तद्-बीजम् । न हि प्रधानोपघाती प्रधान-गुणो युक्तः । तद्-अनुपघाताय गुणे त्व् अन्याय्य-कल्पना । तस्माद् विद्या-स्वरूपानुपघाताय नञोऽन्यथा-करण-मध्याहारो वा निषेध्यस्येति । अन्य-पदार्थ-प्रधानत्वे त्व् अविद्यमान-विद्या बुद्धिर् वक्तव्या, न चासौ विद्याया अभाव-मात्रेण क्लेशादि-बीजं, विवेक-ख्याति-पूर्वक-निरोध-सम्पन्नाया अपि तथात-प्रसङ्गात् । तस्मात् सर्वथैवाविद्याया न क्लेशादि-मूलतेत्य् अत आह—तस्याश् चैति ।
वस्तुनो भावो वस्तु-स-तत्त्वं वस्तुत्वमिति यावत् । तद् अनेन न प्रसज्य-प्रतिषेधः, नापि विद्यैवाविद्या, न तद्-अभाव-विशिष्टा बुद्धिः, अपित् तु विद्या-विरुद्धं विपर्यय-ज्ञानम् अविद्येत्य् उक्तम् । लोकाधीनावधारणो हि शब्दार्थयोः सम्बन्धः । लोके चोत्तर-पदार्थ-प्रधानस्यापि नञ उत्तर-पदाभिधेयोपमर्दकस्य तल्-लक्षित-तद्-विरुद्ध-परतया तत्र तत्रोपलब्धेर् इथापि तद्-विरुद्धे वृत्तिरिति भावः ।
दृष्टान्तं विभजते—यथा नामित्रैति । न मित्राभावः नापि मित्र-मात्रम् इत्य् अस्यानन्तरं किन्तु वस्त्व्-अन्तरं११५ तद्-विरुद्धः सपत्नैति वक्तव्यम् । तथागोष्पदमिति न गोष्पदाभावो न गोष्पद-मात्रं, किन्तु देश एव विपुलो गोष्पद-विरुद्धस् ताभ्याम् अभाव-गोष्पदाभ्याम् अन्यद् वस्त्व्-अन्तरम् । दार्ष्टान्तिके योजयति—एवमिति ॥५॥
योग-वार्तिकम् : अविद्यैव मूलं दुःख-बीजम् इत्य् उक्तं, इदानीं पञ्च क्लेशान् पय्चभिः सूत्रैः क्रमेण लक्षयति—अनित्याशुचि-दुःखानात्मसु नित्य-शुचि-सुखात्म-ख्यातिर् अविद्या ॥ अनित्य्-आदि-चतुष्टये क्रमेण नित्य्-आदि-बुद्धिर् अविद्येत्य् अर्थः ।
अविद्या-चतुष्टयं क्रमेण व्याचष्टे, उदाहरणानि च दर्शयति—अनित्यैति । अनित्यत्वम् असत्त्वं काल-निष्ठाभाव-प्रतियोगित्वमिति यावत् । तस्यैव स्वरूपाख्यानं कार्यैति । नित्यत्वं च सत्त्वम् । गारुडे—
अनात्मन्य् आत्म-विज्ञानम् असतः सत्-स्वरूपता ।
सुखाभावे तथा सौख्यं माया विद्या-विनाशिनी ॥[ग.पु.]इति ।
भगवद्-गीतायां च—
नासतो विद्यते भावो नाभावो विद्यते सतः ।
उभयोर् अपि दृष्टोऽन्तस् त्व् अनयोस् तत्त्व-दर्शिभिः ॥[गीता२.१६]
असतः प्राग्-अभाव-प्रतियोगिनो भावोऽविनाशित्वं नास्ति । सतश् चानादि-भावस्याभावो विनाशो नास्तीत्य् अर्थः । अविनाशि तु तद् विद्धि[गीता २.१७] इत्य्-आद्य्-उत्तर-वाक्यात् अत्राभाव-प्रतियोगित्व-रूपानित्यत्वम् एवासत्त्वम् उक्तमिति । इमाम् एवासति सत्-बुद्धि-रूपाम् अविद्याम् आदाय, प्रपञ्च आविद्यकःिति श्रुति-स्मृति-डिण्डिमः । तथा प्रपञ्च-ज्ञानस्यासति सद्-आकारकत्वाद् भ्रमत्वम् अपि शुक्ति-रजतादि-ज्ञानवद् गीयतैति । उक्ताविद्यायाः प्रपञ्चम् एवोदाहरणम् आचार्योऽप्य् आह—ध्रुवेति । वाचारम्भण-विकारो नाम-धेयं मृत्तिकेत्य् एव सत्यम्[छा.उ. ७.४.१] इत्य् आदि-श्रुत्यापि प्रपञ्चस्येदृशम् एवासत्यत्वम् उक्तम् ।
परम-बीभत्सैति । कुत्सितेऽपवित्रैति यावत् । कायस्याशुचित्वे श्रुतिं प्रमाणयति—उक्तं चैति। स्थानं मूत्राद्य्-उपहतं मातुर् उदरं, बीजं शुक्र-शोणिते, उपष्ठम्बो मातृ-भुक्ताद्न्नादि-रसः, निःस्यन्दो नव-द्वार-रोम-कूपादिभिश् च क्षरणम्, निधनं मरणम् । एवम् अन्येऽशुद्धि-हेतवः स्पष्टाः । तथा स्नानादिभिः शौचाधानाद् अपि सदा स्वतोऽशुचित्वम् अनुमीयत इत्य् आह—आधेय-शौचत्वातिति ।
ननु भवतु शरीरम् अशुचि, तथापि तत्र शुचि-ख्यातो किं प्रमाणम् इत्य् आकाङ्क्षायाम् आह—अशुचौ शुचि-ख्यातिर् दृश्यतेइति । नवीन-शशाङ्कवद् इयं कन्या कमनीया मधुनोऽमृतस्य वावयवैर् अंशैर् निर्मितेव दृश्यते । हावः शृङ्गारजा लीला, कस्य स्त्री-कामस्य निकृष्टस्य केन चन्द्रकलादिनाऽतिनिर्मलेनाभिसम्बन्धः साधर्म्यम् ? नास्त्य् एव विवक्षित-साधर्म्यम् इत्य् अर्थः ।
उपसंहरति—भवतिइति । एतेनैति भाष्ये । एतेनाशुचौ शुचि-ख्यातेर् व्याख्यानेनापुण्ये तप्त-शिलाऽऽरोहणादौ हिंसादौ वा पुण्य-प्रत्ययस् तथानर्थेऽर्जन-रक्षणादिना दुःख-बहुलतयाऽपुरुषार्थे धनादाव् अर्थ-प्रत्ययोऽप्य् अविद्यात्वेन व्याख्यातः । शुचाशुचि-शब्दयोर् योगोत्कृष्ट-साधनासाधन-मात्रोपलक्षकत्वाद् इत्य् अर्थः । भाष्योक्तम् अप्य् अविद्या-द्वयम् अनासाम् अपि संसार-हेतूनाम् अवैद्यानाम् उपलक्षकम् अतो न न्यूनता ।
तत्रेत्य् उत्तर-ग्रन्थेन तृतीयाम् अविद्यां व्याख्यातुम् आदौ वक्ष्यमाण-सूत्र-मुखेन तस्योदाहरणं प्रदर्शयति—तथा दुःखेइति । तथेत्य् अस्य तत्र सुख-ख्यातिर् अविद्येत्य् अनेनान्वयः । वक्ष्यतिइति । अर्थादिति शेषः । तत्रैति । जगद्-रूप-दुःखम् इत्य् अर्थः । अत्र च दुःखम् एव सर्वं विवेकिन [२.१५] इत्य् आगामि-सूत्रे दुःख-साधनतया दुःख-बहुलतया च दुःखत्व-वचनाद् दुःख-साधने दुःख-निवृत्त्य्-आख्य-तात्त्विक-सुख-साधनत्व-बुद्धिः, तथा दुःख-प्रचुरे सुख-प्रचुरत्व-बुद्धिश् च तृतीयाविद्येति बोध्यम् । अन्यथा केवल-दुःखे सुख-भ्रमस्यासिद्धिरिति ।
४ईम् अविद्यां व्याचष्टे—तथानात्मनिइति । उदाहरणम् आह—बाह्य- इति । बाह्य् अस्य देहस्योपकरणेषु पुत्रादिष्व् अहं-बुद्धितया विषय-भोगावच्छेदकतयान्तः-करणस्योपकरणे शरीरेऽहं-बुद्धिस् तथा भोग्यतया साक्षात्-पुरुषस्योपकरणेऽन्तः-करणेऽहं-बुद्धिर् इत्य् अर्थः । इमाम् एव चतुर्थीम् अविद्याम् आदाय प्रपञ्चोऽविद्या-कार्य इत्य् उच्यते । अहं कर्तेत्य्-आद्य्-अभिमानस्यैव धर्माधर्मोत्पत्ति-द्वाराखिल-जगद्-धेतुत्वादिति ।
अत्र पञ्चशिखाचार्य-संवादम् आह—तथाइति । यथा मयोक्तं तथा अत्र चतुर्थेऽविद्या-विषये पञ्चशिखेनाप्य् एतद् उक्तम् इत्य् अर्थः । व्यक्ताव्यक्तं व्याकृताव्याकृतं स्थूल-सूक्ष्म-रूपं बुद्धि-सत्त्वम् आत्मतया गृहीत्वा तस्य सत्त्वस्य सम्पत्तिं सत्य-सङ्कल्पादिकं शुभ-वासनादृष्टादिकं चानुनन्दत्य् आत्म-सम्पदं मन्वानस् तथा तस्य[व्यापदं] विपत्तिम् इच्छा-विघातादि-रूपादिकं चानुशोचत्य् आत्म-विपत्तिं मन्वानः, एवं-विधो यः, ससर्वोऽविद्वान् इत्य् एतद् उक्तम् इत्य् अन्वयः ।
ननु शुक्ति-रजतादि-भ्रम-रूपाणाम् अविद्यानां कथम् अत्र गणना न कृतेत्य् आशङ्क्याह—एषाइति । पशोर् इव चत्वारि पदानि पादा अंशा अस्याइतिचतुष्पदा । एवं-भूतैवैषा संसारस्य मूलं भवतीत्य् अर्थः । तथा च संसाराहेतुतया नान्यासाम् अत्र गणनमिति भावः ।
ननु विग्रहतोऽविद्या-शब्दस्य ११६ विद्या-भिन्नत्वं विद्या-शून्यत्वम् अत्युत्तम-विद्यात्वं वार्थः स्यात्, न तु विपरीत-ख्यातिर् इत्य् आशङ्क्याह—तस्याश् चैति । तस्याश् चाविद्यायाः स-तत्त्वं तत्त्वं वस्त्व् एव विज्ञेयं, न त्व् अभावोऽमित्रागोष्पदवद् इत्य् अर्थः। दृष्टान्तं विभजते—यथा नामित्रौइति । न मित्राभावःिति । अत्राभाव-शब्देन संसर्गान्योन्याभावौ ग्राह्यौ । न मित्र-मात्रमिति । नास्ति मित्रं यस्मादिति व्युत्पत्त्या केवल-मित्रम् इत्य् अर्थः । किं तु तद्-विरुद्धो मित्र-विरुद्ध इत्य् अर्थः । तथा च निरूढ-लक्षणेति भावः । किन्तु देश एवैति । विपुलो देश-विशेषोऽगोष्पदैति परिभाषितः । प्रमाणं विद्या ।
ज्ञानान्तरमिति । एतेनाविया-शब्दस्य ज्ञान-विशेषे रूढत्वावधारणाद् आधुनिक-वेदान्तिनाम् अन्यार्थत्वेओपवर्णनं स्वातन्त्र्य-मात्रम् अवधेयम् । क्वाचित्कस् तु त्रिगुणात्मक-प्रकृताव् अविद्या-शब्दो गौणः । अविद्ययात्मन्य् आरोपितत्वात् जडत्वाच् च । विद्याविद्या-शब्दयोर् ज्ञानाज्ञान-वाचित्वेनात्मानात्म-वाचित्वादिति । अस्मश् च दर्शने साङ्ख्यानाम् इवाविवेको नाविद्या-शब्दार्थः, किं तु वैशेषिकादिवद् विशिष्ट-ज्ञानम्११७ एवेति सूत्र-भाष्याभ्याम् अवगन्तव्यम् ॥५॥
—o)0(o—
(२.६)
दृग्-दर्शन-शक्त्योर् एकात्मतेवास्मिता ॥६॥
पुरुषो दृक्-शक्तिर् बुद्धिर् दर्शन-शक्तिर् इत्य् एतयोर् एक-स्वरूपापत्तिर् इवास्मिता क्लेश उच्यते । भोक्तृ-भोग्य-शक्त्योर् अत्यन्त-विभक्तयोर् अत्यन्तासङ्कीर्णयोर् अविभाग-प्राप्ताव् इव सत्यां भोगः कल्पते । स्वरूप-प्रतिलम्भे तु तयोः कैवल्यम् एव भवति, कुतो भोगः ?इति । तथा चोक्तं—बुद्धितः परं पुरुषम् आकार-शील-विद्यादिभिर् विभक्तम् अपश्यन् कुर्यात् तत्रात्म-बुद्धिं मोहेन[पञ्चशिख]इति ॥६॥
तत्त्व-वैशारदी : अविद्याम् उक्त्वा तस्याः कार्यम् अस्मितां रागादि-वरिष्ठाम् आह—दृग्-दर्शन-शक्त्योर् एकात्मतेवास्मिता ॥ दृक् च दर्शनं च, ते एव शक्ती, तयोर् आत्मानात्मनोर् अनात्मन्य् आत्म-ज्ञान-लक्षणाविद्यापादिता यैकात्मतेव, न तु परमार्थत एकात्मता सास्मिता । दृग्-अदर्शनयोरिति वक्तव्ये तयोर् भोक्तृ-भोग्ययोर् योग्यता-लक्षणं सम्बन्धं दर्शयितुं शक्ति-ग्रहणम् ।
सूत्रं विवृणोति—पुरुषैति । नन्व् अनयोर् अभेद-प्रतीतेर् अभेद एव कस्मान् न भवति, कुतश् चैकत्वं क्लिश्नाति पुरुषम् ? इत्य् अत आह—भोक्तृ-भोग्य- इति । भोक्तृ-शक्तिः पुरुषो भोग्य-शक्तिर् बुद्धिः, तयोर् अत्यन्त-विभक्तयोः । कुतोऽत्यन्त-विभक्तत्वम् इत्य् अत आह—अत्यन्तासङ्कीर्णयोरिति । अपरिणामित्वादि-धर्मकः पुरुषः परिणामित्वादि-धर्मिका बुद्धिर् इत्य् असङ्कीर्णता । तद् अनेन प्रतीयमानोऽप्य् अभेदो न पारमार्थिक इत्य् उक्तम् । अविभाग- इति क्लेशत्वम् उक्तम् ।
अन्वयं दर्शयित्वा व्यतिरेकम् आह—स्वरूप- इति । प्रतिलम्भो विवेक-ख्यातिः । परस्याप्य् एतत्-संमतम् इत्य् आह—तथा चोक्तमिति पञ्चशिखेन—बुद्धितःिति । आकारः स्वरूपं सदा विशुद्धिः । शीलम् औदासीन्यम् । विद्या चैतन्यम् । बुद्धिर् अविशुद्धानुदासीना जडा चेति तत्रात्म-बुद्धिर् अविद्या । मोहः पूर्वाविद्या-जनितः संस्कारस् तमो वाविद्यायास् तामसत्वादिति ॥६॥
योग-वार्तिकम् : अविद्यानन्तरं तत्-कार्यम् अस्मितां लक्षयति—दृग्-दर्शन-शक्त्योर् एकात्मतेवास्मिता ॥ दृग् द्रष्टा, दृश्यतेऽनेनेति दर्शनं करणं बुद्धिः, प्रलयादौ फलोपधानं नास्तीति शक्ति-ग्रहणं, तयोर् एकात्मतैव स्वरूपतो धर्मतश् चात्यन्तम् एकाकारो विपर्ययोऽस्मिता अहङ्कार इत्य् अर्थः ।
एतद् एव शब्दान्तरेणाह—पुरुष इत्य् आदिना । एक-स्वरूपापत्तिर् इवैकाकारो यः क्लेशः सोऽस्मितोच्यत इत्य् अन्वयः । अविद्यातश् चास्मिताया अयं भेदो यद् बुद्ध्य्-आदाव् आदौ या सामान्यतोऽहं-बुद्धिर् अयं च भेदाभेदेनाप्य् उपपद्यतेऽत्यन्ताभेदाग्रहणात्, सैवाविद्या न तु तद्-उत्तर-कालीनः पुरुषे बुद्धादि-गुण-दोषारोप ईश्वरोऽहम् अहं भोगी[गीता १६.१४]इत्य् आदि-रूपः । न वा दूरस्थ-वनस्पत्योर् इव तयोर् अत्यन्तम् एकता-भ्रमः, अस्मिता तु एतद्-उभय-रूपिणीति । भ्रमत्वाविशेषेऽपि कार्य-कारण-रूपावान्तर-विशेषाद् अविद्यास्मितयोर् भेदेनोपन्यासैति । अनयोश् च कार्य-कारण-भाव-बोधो लोकानुसारेणावधार्यते । लोके ह्य् आदौ कलत्र-पुत्र-भूत्य्-आदिष्व् आत्म-भावो जायते, पश्चाद् एव तु तेषां सुख-दुःखादिकम् आत्मन्य् अभिमन्यते, तथादौ जलादिषूपाधिषु प्रतिबिम्बादि-रूपेण चन्द्राद्य्-आरोपो भवति, पश्चाद् एव तु चन्द्रादिषु तद्-द्वारा कम्प-मालिन्य्-आद्य्-आरोपो भवतीति ।
अयं च कार्य-कारण-भावः पूर्व-सूत्रस्येव पञ्चशिख-वाक्येनाप्य् उक्तः । तथा साङ्ख्य-कारिकायाम् अपि पाठ-क्रमेणोक्तम्—
तस्मात् तत्-संयोगाद् अचेतनं चेतनावद् इव लिङ्गम् ।
गुण-कर्तृत्वे च तथा कर्तेव भवत्य् उदासीनः ॥[सां.का. २०]इति ।
ननु बुद्धि-पुरुषयोर् अन्यारोपेणैवाहं दुःखीत्य्-आदि-व्यवहारोपपत्ताव् एकात्मतारोपे किं प्रमाणम् ? परस्परारोपश् च व्य्क्त्योर् अभेद-ग्रहं विनापि रङ्ग-रजतयोर् इव सम्भवत्य् एव, अग्नि-लोहयोर् दूर-स्थ-वनस्पत्योश् च पुनः स्फुटैक्य-प्रत्यय-दर्शनाद् अभेदारोपः सिध्यति, आत्म-बुद्ध्योः परम-सूक्ष्मतया नास्ति स्फुटम् ऐक्य-प्रत्यक्षमिति । तत्राह—भोक्तृ-भोग्य-शक्त्योरिति । अत्यन्त-विविक्तयोर् इत्य् अत्र हेतुर् अत्यन्तासङ्कीर्णयोर् अत्यन्त्-विप्रकृष्ट-धर्मकयोरिति । भोग्य-भोक्तृत्वे एव स्फुटे वैधर्म्ये, अन्यथा कर्म-कर्तृ-विरोधादिति भावः । एवं भूतयोर् भोक्तृ-भोग्ययोः पुरुष-बुद्ध्योर् अविभाग-प्राप्ताव् इव सत्याम् एकत्व-प्रत्यये सत्य् एव भोगः संभवति, भेद-ग्रहे तु तयोः कैवल्यम् अन्योन्य-वियोग एव भवति, पर-वैराग्याद् इत्य् अतः कथं भोगः स्याद् इत्य् अर्थः ।
तथा च भोगान्यथानुपपत्तिर् एकात्मताऽऽरोपे प्रमाणम् इत्य् आशयः । अत एव सत्त्व-पुरुषयोः प्रत्ययाविशेषो भोगःिति सूत्र-कृद् वदिष्यति । योऽहं सुखी सोऽहं तद्-अनुभवितेत्य् एकाकारतैव च बुद्ध्य्-आत्म-प्रत्यययोर् अविशेषाद्य् अस्मिन् सत्य् एव च लोके भोग-व्यवहारैति । जीवन्मुक्तस्य च गौण एव भोगः सुखादि-साक्षात्कार-मात्र-रूपैति वक्ष्यामः । इदं चोपलक्षणं सुख-दुःख-ज्ञा एक एवेति प्रत्ययोऽप्य् एकात्मतारोपे प्रमाणं बोध्यम् ।
अस्मितायाः स्वरूपेऽविद्या-जन्यत्वे च पञ्चशिखाचार्य-वाक्यं प्रमाणयति—तथा चोक्तमिति । परमार्थतो बुद्धितः परं पृथक्-कृतं पुरुषम् बुद्धेर् आकार-शील-विद्यादिभिर्विविक्तम् असंस्पृष्टम् अपश्यन् अविवेकी जनस् तत्र बुद्ध्य्-आकारादिष्व् आत्म-बुद्धिम् अस्मितां कुर्यात्, शान्ताद्य्-आकारोऽस्मि, जाग्रद्-आदि-शीलोऽस्मि, विद्यादिमान् अस्मीत्य् एवं-रूपाम् । मोहेन पूर्व-सूत्रोक्ताविद्ययेत्य् अर्थः ॥६॥
—o)0(o—
सुखानुशयी रागः ॥७॥
सुखाभिज्ञस्य सुखानुस्मृति-पूर्वः सुखे तत्-साधने वा यो गर्धस् तृष्णा लोभः स रागैति ॥७॥
तत्त्व-वैशारदी : विवेक-दर्शने रागादीनां विनिवृत्तेर् अविद्यापादितास्मिता रागादीनां निदानम् इत्य् अस्मितानन्तरं रागादीन् लक्षयति—सुखानुशायी रागः ॥
सुखानभिज्ञस्य स्मृतेर् अभावात् सुखाभिज्ञस्येत्य् उक्तम् । स्मर्यमाणे सुखे रागः सुखानुस्मृति-पूर्वकः । अनुभूयमाने तु सुखे नानुस्मृतिम् अपेक्षते । तत्-साधने तु स्मर्यमाणे दृश्यमाने वा सुखानुस्मृति-पूर्व एव रागः । दृश्यमानम् अपि हि सुख-साधनं तज्-जातीयस्य सुख-हेतुतां स्मृत्वा तज्-जातीयतया वास्य सुख-हेतुत्वम् अनुमायेच्छति । अनुशयि-पदार्थम् आह—यैति ॥७॥
योग-वार्तिकम् : अस्मितां लक्षयित्वा तत्-कार्यं रागं लक्षयति—सुखानुशायी रागः ॥ सुखानुशायी सुख-तत्-साधन-मात्र-विषयको यः क्लेशः स राग इत्य् अर्थः । मात्र-पदा अविद्यादि-व्यावृत्तिः जीवन्मुक्तेच्छाव्यक्ते राग एव न भवति संसाराहेतुत्वादिति न तस्याम् अतिव्यप्तिः ।
रागस्य कारणं वदन्न् इमम् एवार्थं भाष्य-कारोऽप्य् आह—सुखाभिज्ञस्यैति । सुखाभिज्ञस्य वा सुखानुस्मृति-पूर्वको वेत्य् अर्थः । तेन सुख-साक्षात्कारतः सुख-स्मृतितश् च रागो भवतीति रागस्य कारणम् उक्तम् । पर्यायै राग-शब्दार्थम् अवधारयति—गर्ध इत्य् आदिना ॥७॥
—o)0(o—
(२.८)
दुःखानुशयी द्वेषः ॥८॥
दुःखाभिज्ञस्य दुःखानुस्मृति-पूर्वो दुःखे तत्-साधने वा यः प्रतिघो मन्युर् जिघांसा क्रोधः, स द्वेषैति ॥८॥
तत्त्व-वैशारदी : दुःखानुशयी द्वेषः ॥ दुःखाभिज्ञस्यैति पूर्ववद् व्याख्येयम् । अनुशयि-पदार्थम् आह—यः प्रतिघैति । प्रतिहन्तीति प्रतिघः । एतद् एव पर्यायैर् विवृणोति—मन्युरिति ॥८॥
योग-वार्तिकम् : दुःखानुशयी द्वेषः ॥ दुःखाभिज्ञस्यैति । पूर्ववद् व्याख्येयम् । अनुशयि-पदार्थम् आह—यः प्रतिघैति । प्रतिहन्तीति प्रथिघः । एतद् एव पर्यायैर् विवृणोति—मन्युरिति ॥८॥
—o)0(o—
(२.९)
स्व-रस-वाही विदुषोऽपि तथारूढोऽभिनिवेशः ॥९॥
सर्वस्य प्राणिन इयम् आत्माशीर् नित्या भवति, "मा न भूवं भूयासमिति । न चाननुभूत-मरण-धर्मकस्य इषा भवत्य् आत्माशीः । एतया च पूर्व-जन्मानुभवः प्रतीयते, स चायम् अभिनिवेशः क्लेशः स्व-रस-वाही कृमेर् अपि जात-मात्रस्य प्रत्यक्षानुमानागमैर् असम्भावितोमरण-त्रास उच्छेद-दृष्ट्य्-आत्मकः पूर्व-जन्मानुभूतं मरण-दुःखम् अनुमापयति ।
यथा चायम् अत्यन्त-मूढेषु दृश्यते क्लेशः, तथा विदुषोऽपि विज्ञात-पूर्वापरान्तस्य रूढः । कस्मात्? समाना हि तयोः कुशलाकुशलयोर् मरण-दुःखानुभवाद् इयं वासनेति ॥९॥
तत्त्व-वैशारदी : स्व-रस-वाही विदुषोऽपि तथा रूढोऽभिनिवेशः ॥ अभिनिवेश-पदार्थं व्याचष्टे—सर्वस्य प्राणिनैति । इयम् आत्माशीर् आत्मनि प्रार्थना "मा न भूवं" माऽभावी११८भूवम् भूयासम् जीव्व्यासमिति । न चाननुभूत-मरण-धर्मकस्य अननुभूतो मरण-धर्मो येन जन्तुना न तस्य एषा भवत्य् आत्माशीः । अभिनिवेशोमरण-भयम् ।
प्रसङ्गतो जन्मान्तरं प्रत्याचक्षाणं नास्तिकं निराकरोति—एतया चैति । प्रत्युदितस्य शरीरस्य प्रियमाणत्वात्११९पूर्व-जन्मानुभवःप्रतीयते, निकाय-विशिष्टाभिर् अपूर्वाभिर् देहेन्द्रिय-बुद्धि-वेदनाभिर् अभिसम्बन्धो१२० जन्म, तस्यानुभवः प्राप्तिः, सा प्रतीयते । कथम् ? इत्य् आह—स चायम् अभिनिवेशः । अर्धोक्ताव् एवास्य क्लेशत्वम् आह—क्लेशैति । अयम् अहित-कर्मादिना जन्तून् क्लिश्नाति दुःखाकरोतीति क्लेशः ।
वक्तुम् उपक्रान्तं परिसमापयति—स्व-रस-वाहीइति । स्वभावेन वासना-रूपेण वहन-शीलो न पुनर् आगन्तुकः । कृमेर् अपि जात-मात्रस्य दुःख-बहुलस्य निकृष्टतम-चैतन्यस्य । अनागन्तुकत्वे हेतुम् आह—प्रत्यक्ष- इति । प्रत्यक्षानुमानागमैः प्रत्युदिते जन्मन्य् असम्भावितोऽसम्पादितो मरण-त्रास उच्छेद-दृष्ट्य्-आत्मकः पूर्व-जन्मानुभूतं मरण-दुःखम् अनुमापयति ।
अयम् अभिसन्धिः—जात-मात्र एव हि बालको मारक-वस्तु-दर्शनाद् वेपमानः कम्पा-विशेषाद् अनुमित-मरण-प्रत्यासत्तिस् ततो बिभ्यद् उपलभ्यते । दुःखादुःख-हेतोश् च भयं दृष्टम् । न चास्मिन् जन्मन्य् अनेन मरणम् अनुभूतम् अनुमितं श्रुतं वा, प्राग् एवास्य दुःखत्वं तद्-धेतुत्वं वावगम्यते । तस्मात् तस्य तथा-भूतस्य स्मृतिः परिशिष्यते । न चेयं संस्काराद् ऋते । न चायं संस्कारोऽनुभवं विना । न चास्मिन् जन्मन्य् अनुभवैति प्राग्-भवीयः परिशिष्यत इत्य् आसीत् पूर्व-जन्म-सम्बन्धैति ।
तथा-पदं यथा-पदम् आकाङ्क्षत इत्य् अर्थ-प्राप्ते यथा-पदे सति यादृशो वाक्यार्थो भवति तादृशं दर्शयति—यथा चायमिति । अत्यन्त-मूढेषु मन्दतम-चैतन्येषु । विद्वत्तां दर्शयति—विज्ञात-पूर्वापरान्तस्य । अन्तः कोटिः । पुरुषस्य हि पूर्वा कोटिः संसार उत्तरा च कैवल्यम् । सैव विज्ञाता श्रुतानुमानाभ्यां येन स तथोक्तः । सोऽयं मरण-त्रास आ-कृमेर् आ च विदुषो रूढः प्रसिद्धैति।
नन्व् अविदुषो भवतु मरण-त्रासो विदुषस् तु न सम्भवति, विद्ययोन्मूलितत्वात्, अनुन्मूलने वा मरण-त्रासस्य स्याद् अत्यन्त-सत्त्वम् इत्य् आशयवान् पृच्छति—कस्मातिति । न सप्रज्ञातवान् विद्वान् अपि तु श्रुतानुमित-विवेकैति भावः ॥९॥
योग-वार्तिकम् : द्वेष-मूलकतया द्वेषस्य प्रश्चाद् अभिनिवेशं लक्षयति—स्व-रस-वाही विदुषोऽपि तथा रूढोऽभिनिवेशः ॥ स्व-रसेन संस्कार-मात्रेण वहतीति स्व-रस-वाही । अपि-शब्द-समुच्चितम् अविद्वांसं तथेति तच्-छब्दः परामृशति । रूढः प्रसिद्धः । तथा च यथाविद्वज्-जनस्य , तथा विदुषोऽपि स्व-रस-वाहित्व-हेतुना यः क्लेशोऽस्ति प्रसिद्धः सोऽभिनिवेश इत्य् अर्थः । अविद्यादयस् तु विदुषि न सन्तीति न तेष्व् अतिव्याप्तिः ।
नन्व् एवं कथं पूर्वोक्तम् अविद्याव्याप्तत्वम् अभिनिवेशस्य घटतां, अविद्या-नाशेऽप्य् अभिनिवेश-सत्त्वादिति चेत् ? न, संस्कार-हेतुत्वं मरण-त्रासातिरिक्त-भयत्वेनैव फल-बलादिति । अयं च क्लेशो भयाख्यैति वक्ष्यति भाष्य-कारः । अभिन्विवेशस्यात्यन्त-दुरन्तत्व-प्रतिपादनाय विवद्-अपरिहार्यत्व-मुखेन लक्षणं कृतं भय-सामान्यम् एव तु अभिनिवेशो रागादिवद् इह विवक्षितैति ।
तत्रादौ भाष्य-कारोऽभिनिवेशस्य स्वरूपम् आह—सर्वस्यैति । सर्वस्य विदुषोऽविदुषश् चेयम् आत्मन्य् आशीः प्रार्थना इच्छा-विशेषः सदैव भवति । ताम् एवाह—मा न भूवमिति । माहम् अभावी भूवं भूयासम् जीव्यासम् इत्य् एवं-रूपेत्य् अर्थः । इयम् आशीर् एव त्रासो भयम् इत्य् उच्यतैति भावः ।
विदुषोऽप्य् अपरिहार्यत्वम् उपपादयितुं यथोक्तम् अभिनिवेशस्य कारणम् अवधारयति—न चैति । अननुभूतो मरणस्य धर्मो दुःखातिशयो येन तस्येयम् आशीर् न सम्भवति धनादि-नाश-जन्य-दुःखज्ञस्यैव धनादिषु तादृशाशीर्-दर्शनात्—धनं मे मा नश्यतु, सदैव भूयादिति । अत एव तथाशिषा पूर्व-जन्मनि मरण-दुःखानुभवस् तत्-कारणतया प्रतीयतेऽनुमीयत इत्य् अर्थः । एतेन जीवस्यानादित्वम् अपि प्रसङ्गात् साधितम् । जन्म तु कूटस्थ-चिन्मात्रस्य तैस् तैर् देहेन्द्रिय-बुद्धि-वेदनादिभिर् आद्यः सम्बन्धैति । यत् तु न जायते न म्रियते[गीता २.१७] इत्य् आदि-वाक्यं तद् आत्मन उत्पत्ति-विनाशाव् एतद्-देहादेर् इव प्रतिषेधतीति बोध्यम् ।
नन्व् इह जन्मन्य् एवानुमानादिना मरण-दुःखानुभवेनाभिनिवेशाख्यं भयं भवतु, किम्-अर्थं पूर्व-जन्मानुभवः कल्प्यत् इत्य् आशङ्काम् अपाकरोति—स चायमिति । स चायम् उक्ताशी-रूपोऽभिनिवेशःस्वरसवाही स्वाभाविकोऽत्यन्त-मूढस्य कृमेर् अपि मरण-दुःख-प्रत्यक्षादिभिर् असम्भाव्यो मरण-त्रास उच्छेद-दृष्ट्य्-आत्मक उच्छेद-दृष्टि-कार्यः पूर्व-जन्मानुभूतं मरण-दुःखम् अनुमापयति पूर्व-जन्मनि मरण-दुःखानुभवम् अनुमापयति, यद्-अनुभवोत्थेन मरण-त्रासेन जनितया वासनयेह जन्म-मरण-त्रासो भवतीति शेषः । मरण-भयस्य द्वेष-रूपस्यापि संस्कार-जनकत्वं विरोधस्येवागत्या कल्पयतिति ।
अभिनिवेशं तत्-कारणं च व्याख्याय सूत्रावयवार्थं व्याचष्टे—यथा च इत्य्-आदिना, रूढ इत्य् अन्तेन । विज्ञात- इति । विज्ञातः सम्प्रज्ञात-योगेन साक्षात्-कृतः प्रपञ्चस्य पूर्वान्तोऽपरान्तश् चाद्य्-अन्तौ येन स तथा तस्य तत्त्व-ज्ञस्येत्य् अर्थः । कुशलाकुशलयोरिति वक्ष्यमाणत्वातिति । एतेनाद्य्-अन्तयोर् अवशिष्यमाणम् एव वस्तु प्रपञ्चस्य तत्त्वं तच् च परं ब्रह्म विकारस् तु मध्ये वाचारम्भण-मात्रम् इत्य् अस्माकम् अपि सिद्धान्तैति सिद्धम् । तथा चोक्तं मोक्ष-धर्मेऽपि—
अन्तेषु रेमिरे धीरा न ते मध्येषु रेमिरे ।
अन्त-प्राप्ति-सुखाम् आहुर् दुःखम् अन्तरम् एतयोः ॥[म.भा. १२.१७४.३४]इति ।
सुखाम् आहुर् इत्य् आर्धं, सुखायाहुरिति पाठस् तु साधुः ।
ननु तत्त्वज्ञस्याविद्यास्मिताद्य्-अभावात् कथं यथोक्ताशीर् इत्य् आशयेनाशङ्कते—कस्मादिति । संस्कार-मात्र-जन्यत्वेन परिहरति—समानाइति । इयं वासना एतद्-आशीर्-हेतु-वासनेत्य् अर्थः । इयं च बलवत्तरा वासना चित्तेन सह नश्यत्य् एव ज्ञानेन न दह्यत इत्य् एतद् अविद्यादि-संस्कारेब्यो विशेषः ।
ननु कुशलस्यात्म-नित्यत्व-निश्चयात् कथं मा न भूवं भूयासम् इतीच्छा स्यात्, सिद्धत्व-ज्ञानस्य प्रतिबन्धकत्वादिति चेत् ? न, विशेष-दर्शने सत्य् अपीदृग्-इच्छा-दृष्ट्या फल-बलेन तादृश-संस्कारस्योत्तेजकत्वात् । एतेन यद् आधुनिक-वेदान्ति-ब्रुवा आहुर् आत्मा सुख-स्वरूपो निरुपधियथोक्तेच्छा-विषयत्वाद् बाह्य-सुखवद् इत्य् अनुमानेनात्मनः सुख-रूपता सिद्ध्यतीति, तद् अप्य् अपास्तम्, पूर्व-पूर्व-जन्मसु यस् त्रासो जातस् तेन तदा जातायास् तद्-वासनातो निरुपधीच्छा-सम्भवात्, अन्यथाप्य् आत्मत्वेनैव प्रियत्व-कल्पनौचित्याच् चेति ॥९॥
—o)0(o—
(२.१०)
ते प्रतिप्रसव-हेयाः सूक्ष्माः ॥१०॥
ते पञ्च-क्लेशा दग्ध-बीज-कल्पा योगिनश् चरिताधिकारे चेतसि प्रलीने सह तेनैवास्तं गच्छन्ति ॥१०॥
तत्त्व-वैशारदी : तद् एवं क्लेशा लक्षिताः । तेषां च हेयानां प्रसुप्त-तनु-विच्छिन्नोदार-रूपतया चतस्रोऽवस्था दर्शिताः । कस्मात् पुनः पञ्चमी क्लेशावस्था दग्ध-बीज-भावतया सूक्ष्मा न सूत्र-कारेण कथितेत्य् अत आह—ते प्रतिप्रसव-हेयाः सूक्ष्माः ॥ यत् किल पुरुष-प्रयत्न-गोचरस् तद् उपदिश्यते । न च सूक्ष्मावस्था-हानं प्रयत्न-गोचरः । किं तु प्रतिप्रसवेन कार्यस्य चित्तस्यास्मिता-लक्षण-कारण-भावापत्त्या हातव्येति ।
व्याचष्ट—तैति । सुगमम् ॥१०॥
योग-वार्तिकम् : कृतः क्लेश-तनू-करणार्थ इत्य् उक्तम् । तत्र क्लेश-तनू-करणस्य फलं वक्तुम् आह—ते प्रतिप्रसव-हेयाः सूक्ष्माः ॥ प्रसवाद् विरुद्धः प्रतिप्रसवः प्रलयः । तथा च प्रतिप्रसवेन चित्तस्य प्रलयेन सूक्ष्मा दग्ध-बीज-भावाः क्लेशा हेया इत्य् अर्थः ।
तद् एव भाष्य-कार आह—ते पञ्च- इति । पञ्च-मध्येऽभिनिवेशो मरणातिरिक्त एव योगिनो दग्ध-बीज-कल्पो भवतीत्य् उक्तम् एव ।
ननु तनूकरणं दग्ध-बीज-भावः प्रलयश् चेत्य् एव क्रमः, अतो दग्ध-बीज-भाव-प्रतिपादकम् उत्तर-सूत्रम् एवादौ उचितमिति चेन्, न, मुख-फलतया प्रलयस्यात्रादौ निर्वचनात्, तत्र द्वाराकाङ्क्षया च दग्ध-बीज-भावस्य पश्चाद् वक्ष्यमाणत्वादिति ।
ननु क्लेश-तद्-वासनयोर् वक्ष्यमाण-प्रसङ्ख्यानेनैव नाशोऽस्तु किम्-अर्थं तत्र चित्त-नाशोऽपेक्ष्यतैति चेन्, न, ज्ञान-दग्धस् तथा क्लेशैर् इत्य् आदि शास्त्र-प्रामाण्येन ज्ञानाग्नि-दाहस्यैव१२१ सिद्धेर् न तु तन्-नाशस्य । युक्तिश् चात्र प्राग् एवोक्ताः, कारणेषु कार्य-शक्तेर् यावद् द्व्य्-अभावित्व-दर्शनमिति । तथा च योगाग्निना व्युत्थान-संस्कार-दाहवत् ज्ञानाग्निनापि क्लेश-संस्कारयोर् दाह एव भवति, न तु तन्-नाशः१२२ ।
नन्व् एवम् अपि क्लेश-संस्कार-दाहेन च संसारात्यन्तोच्छेद-सम्भवे संस्कार-सहित-चित्त-नाशः किमिति मोक्षायापेक्ष्यतैति चेत् ? मैवं, योगि-सङ्कल्पेन दृष्ट-बीजादिवद् दग्ध-बीज-शक्तिकाद् अपि कदाचित् पुनर् अङ्कुरोत्पत्त्य्-आपत्तेरिति ॥१०॥
—o)0(o—
(२.११)
स्थितानां तु बीज-भावोपगतानां—
ध्यान-हेयास् तद्-वृत्तयः ॥११॥
क्लेशानां या वृत्तयः स्थूलाः, ताः क्रिया-योगेन तनूकृताः सत्यः प्रसङ्ख्यानेन ध्यानेन हातव्या यावत्-सूक्ष्मीकृता यावद्-दग्ध-बीज-कल्पाइति । यथा च वस्त्राणां स्थूलो मलः पूर्वं निर्धूयते, पश्चात् सूक्ष्मो यत्नेनोपायेन चापनीयते, तथा स्वल्प-प्रतिपक्षाः स्थूला वृत्तयः क्लेशानां, सूक्ष्मास् तु महा-प्रतिपक्षाइति॥११॥
तत्त्व-वैशारदी : अथ क्रिया-योग-तनूकृतानां क्लेशानां क्ं-विषयात् पुरुष-प्रयत्नाद् धानम् इत्य् अत आह—स्थितानां तु बीज-भावोपगतानामिति । अनेन बन्ध्येभ्यो व्यवच्छिनत्ति । सूत्रं पठति—ध्यान-हेयास् तद्-वृत्तयः ॥
व्याचष्टे—क्लेशानामिति । क्रिया-योग-तनूकृता अपि हि प्रतिप्रसव-हेतु-भावेन कार्यतः स्वरूपतश् च शक्या उच्छेत्तुमिति स्थूला उक्ताः । पुरुष-प्रयत्नस्य प्रसङ्ख्यानागोचरस्यावधिम् आह—यावदिति । सूक्ष्मीकृताइति विवृणोति—दग्ध- इति । अत्रैव दृष्टान्तम् आह—यथा च वस्त्राणामिति । यत्नेन क्षालनादिना । उपायेन क्षार-संयोगेनादिना । स्थूल-सूक्ष्मता-मात्रतया दृष्टान्त-दार्ष्टान्तिकयोः साम्यं, न पुनः प्रयत्नापनेयतया । प्रत्प्रसव-हेयेषु तद्-असम्भवात् । स्वल्पः प्रतिपक्ष उच्छेद-हेतुर् यासां तास् तथोक्ताः । महान् प्रतिपक्ष उच्छेद-हेतुर् यासां तास् तथोक्ताः । प्रतिप्रसवस्य चाधस्तात् क्लेशोच्छेद-साधकं स्यात्, प्रसङ्ख्यानम् इत्य् अवरतया स्वल्पत्वम् उक्तम् ॥११॥
योग-वार्तिकम् : तनूकरणस्य द्वारं दग्ध-बीज-भावं प्रतिपादयन् सूत्रं पूरयित्वा पठति—स्थितानामिति । तद्-वृत्तयैति । सामासान्तर्गत-तच्-छब्दस्यार्थैः क्लेशैः हान्वयः । स्थितानाम् इत्य् अस्य विवरणं बीज-भावोपगतानामिति । एतच् च सूत्रेण हि व्याख्यास्यामः । ध्यान-हेयास् तद्-वृत्तयः ॥
क्लेशानामिति । स्थितानां बीज-भावोपगतानां क्लेशानां या वृत्तयःस्थूला अभिव्यक्तावस्थाः, ताः प्रथमं क्रिया-योगेन अल्पीकृताः सत्यःप्रसङ्ख्यानेन समाधिज-प्रज्ञा-रूपेण ध्यानेन ध्यान-कार्येण हातव्याः प्रतिबद्धोत्पत्तिकाः कर्तव्याः । यावत्-सूक्ष्मीकृताः,अस्यैव विवरणं यावद्-दग्ध-बीज-कल्पा भवन्तीत्य् अर्थः । तच् च प्रतिप्रसव-हेया [२.१०]इति पूर्व-सूत्रेणैवोक्तमिति ।
तनूकरणादिषु त्रिषु सुकरआर्रय-दुष्करत्व-रूपं विशेषं दृष्टान्तेनाह—यथा च वस्त्राणामिति । निर्धूयते वाताहत्या निराक्रियते, यत्नेन पाषाणे प्रहारादिना, उपायेन क्षार-संयोगादिना । अत्रेदं दृष्टान्ते साधन-त्रयं दार्ष्टान्तिकेऽपि साधन-त्रित्वाभिप्रायेणोक्तम् ।
स्वल्प- इति । स्वल्पः क्रिया-योगः प्रतिपक्षस् तनुता-हेतुर् यासां स्थूलानाम् अतनूकृतानां तास् तथा । महान् अतिदुष्करः प्रसङ्ख्यानाग्निर् असम्प्रज्ञात-योग-साध्य-चित्त-नाशश् च प्रतिपक्षौ दाहक-नाशकौ यासामितिमहा-प्रतिपक्षा इत्य् अर्थः । अनेन सूत्रेण जीवन्मुक्तानां वृत्ति-रूपोऽप्य् अविद्या-लेशस् तिष्ठतीत्य् अभ्युपगम आधुनिकानां वेदान्ति-ब्रुवाणाम् अपसिद्धान्तैति निर्णेयम्, तथा सति स्थूलानाम् अपि प्रतिप्रसव-हेयत्वापत्तेरिति ॥११॥
—o)0(o—
(२.१२)
क्लेश-मूलः कर्माशयो दृष्टादृष्ट-जन्म-वेदनीयः ॥
तत्र पुण्यापुण्य-कर्माशयः काम-लोभ-मोह-क्रोध-प्रसवः । स दृष्ट-जन्म-वेदनीयश् चादृष्ट-जन्म-वेदनीयश् च । तत्र तीव्र-संवेगेन मन्त्र-तपः-समाधिभिर् निर्वर्तित ईश्वर-देवता-महर्षि-महानुभावानाम् आराधनाद् वा यः परिनिष्पन्नः स सद्यः परिपच्यते पुण्य-कर्माशयैति । तथा तीव्र-क्लेशेन भीत-व्याधित-कृपणेषु विश्वासोपगतेषु वा महानुभावेषु वा तपस्विषु कृतः पुनः पुनर् उपकारः स चापि पाप-कर्माशयः सद्य एव परिपच्यते । यथा नन्दीश्वरः कुमारो मनुष्य-परिणामं हित्वा देवत्वेन परिणतः, तथा नहुषोऽपि देवानाम् इन्द्रः स्वकं परिणामं हित्वा तिर्यक्त्वेन परिणतैति । तत्र नारकाणां नास्ति दृष्ट-जन्म-वेदनीयः कर्माशयः । क्षीण-क्लेशानाम् अपि नास्त्य् अदृष्ट-जन्म-वेदनीयः कर्माशयैति ॥१२॥
तत्त्व-वैशारदी : स्याद् एतत्, जात्य्-आयुर्-भोग-हेतवः पुरुषं क्लिश्नन्तः क्लेशाः । कर्माशयश् च तथा, न त्व् अविद्यादयः । तत् कथम् अविद्यादयः क्लेशा इत्य् अत आह—क्लेश-मूलः कर्माशयो दृष्टादृष्ट-जन्म-वेदनीयः ॥ क्लेशा मूलं यस्योत्पादे च कार्य-करणे च स तथोक्तः । एतद् उक्तं भवति—अविद्यादि-मूलो हि कर्माशयो जात्य्-आयुर्-भोग-हेतुर् इत्य् अविद्यादयोऽपि तद्-धेतवोऽतः क्लेशाइति ।
व्याचष्टे—तत्रैति । आशेरते सांसारिकाः पुरुषा अस्मिन्न् इत्य् आशयः । कर्मणाम् आशयो धर्माधर्मौ । कामात् काम्य१२३-कर्म-प्रवृत्तौ स्वर्गादि-हेतुर् धर्मो भवति । एवं लोभात् पर-द्रव्यापहारादाव् अधर्मः । मोहाद् अधर्मे हिंसादौ धर्म-बुद्धेः प्रवर्तमानस्याधर्म एव । न त्व् अस्ति मोहजो धर्मः । अस्ति क्रोधात् तज्-जिगीषयाहितत्वेन कर्माशयेन पुण्येनान्तरिक्ष-लोक-वासिनाम् उपरि स्थानम् । अधर्मस् तु क्रोधजो ब्रह्म-वधादि-जन्मा प्रसिद्ध एव भूतानाम् ।
अस्य द्वैविध्यम् आह—स दृष्ट-जन्म- इति । दृष्ट-जन्म-वेदनीयम् आह—तीव्र-संवेगेनैति । यथा-साङ्ख्यं दृष्टान्तव् आह—यथा नन्दीश्वरःिति । तत्र नारकाणामिति । येन कर्माशयेन कुम्भीपाकादयो नरक-भेदाः१२४ प्राप्यन्ते, तत्-कारिणो नारकाः । तेषां नास्ति दृष्ट-जन्म-वेदनीयः कर्माशयः । न हि मनुष्य-शरीरेण तत्-परिणाम-भेदेन वा सा तादृशी वत्सर-सहस्रादि-निरन्तरोपभोग्या वेदना सम्भवतीति । शेषं सुगमम् ॥१२॥
योग-वार्तिकम् : इदानीं क्लेशाः किम्-अर्थं हेया इत्य् आकाङ्क्सायां क्लेशानां परम्परया दुःख-निदानत्वं सूत्र-त्रयेण वक्तव्यम् । तत्रादौ क्लेशानां दुःखोत्पादने साक्षाद् द्वारम् आह—क्लेश-मूलः कर्माशयो दृष्टादृष्ट-जन्म-वेदनीयः ॥ दृष्टादृष्ट-जन्मनी वर्तमान-भविष्यती । वेदनं भोगः कर्माशयो धर्माधर्मौ तौ च दृष्ट-जन्म-भोग्यौ बोभयथैक-क्लेश-मूलकौ, क्लेशे सत्य् एव भवत इत्य् अर्थः ।
यस्य नाहंकृतो भावो बुद्धिर् यस्य न लिप्यते ।
हत्वापि स इमान् लोकान् न हन्ति न निबध्यते ॥[गीता १८.१७]
इत्य्-आदि-वाक्य-शतेभ्यैति भावः । यथा वाधिकारि-विशेषतया क्लेशानां धर्मादि-जनकत्वं शौचादिवत् एवं तज्-जनक-कर्मादिषु रागादि-रूपैः प्रवर्तनाद् अपीत्य् अपि बोध्यम् ।
क्लेश-मूलकत्वं विवृणोति—तत्रैति । तत्र चित्ते लोभादि-रूप-दोष-त्रय-सत्त्व एव पुण्य-पाप-रूपौ कर्माशयौ भवत इत्य् अर्थः । राग-द्वेष-मोहाख्यानां च दोषाणाम् अदृष्ट-नियामकत्वं कौर्मे दर्शितम्—
राग-द्वेषादयो दोषाः सर्वे भ्रान्ति-निबन्धनाः ।
कार्यो ह्य् अस्य भवेद् दोषः पुण्यापुण्यमिति श्रुतिः ।
तद्-वशाद् एव सर्वेषां सर्व-देह-समुद्भवः ॥िति ।
दृष्ट-जन्म-वेदनीयम् उदाहरति—तत्र तीव्र- इति । सद्यःिति । इह जन्मनीत्य् अर्थः । परिपच्यते कालेन परमेश्वरेण वा फलोपहितीक्रियते । दृष्ट-जन्म-वेदनीयम् पुण्यम् उदाहृत्य दृष्ट-जन्म-वेदनीयम् पापम् उदाहरति—तथाइति । य इत्य् अनुषज्यते । यथा-क्रमम् उक्तयोः पुण्य-पापयोर् दृष्टान्ताव् आह—यथा नन्दीश्वरःिति । अदृष्ट-जन्म-वेदनीयम् च कर्म प्रसिद्धत्वान् नोदाहृतम् । प्रसङ्गतो व्यतिरेकाव् अप्य् उदाहरति—तत्र नारकाणामिति । नारकि-पुरुषाणां धर्माद्य्-अनुत्पत्तेः ।
ननु स्वर्गिणाम् अपि कर्म नोत्पद्यतैति कथं नारकि-वचन-मात्रमिति चेत् ? न, स्वर्गिणां भारतवर्षम् आगत्य लीला मानुष-विग्रहेण प्रयागादौ कर्मानुष्ठानस्य च तत्-फलस्य च श्रवणादिति । शेषं सुगमम् ॥१२॥
—o)0(o—
(२.१३)
सति मूले तद्-विपाको जात्य्-आयुर्-भोगाः ॥
सत्सु क्लेशेषु कर्माशयो विपाकारम्भी भवति नोच्छिन्न-क्लेश-मूलः । यथा तुषावनद्धाः शालि-तुण्डला अदग्ध-बीज-भावाः प्ररोह-समर्था भवन्ति, नापनीत-तुषा दग्ध-बीज-भावा वा, तथा क्लेशावनद्धः कर्माशयो विपाक-प्ररोही भवति, नापनीत-क्लेशो न प्रसङ्ख्यानदग्ध-क्लेश-बीज-भावो वेति । स च विपाकस् त्रिविधो जातिर् आयुर् भोगैति ।
तत्रेदं विचार्यते—किम् एकं कर्मैकस्य जन्मनः कारणम्, अथैकं कर्मानेकं जन्माक्षिपतीति ? द्वितीया विचारणा—किम् अनेकं कर्मानेकं जन्म निर्वर्तयत्य् अथानेकं कर्मैकं जन्म निर्वर्तयतीति ?
न तावद् एकं कर्मैकस्य जन्मनः कारणम् । कस्मात् ? अनादि-काल-प्रचितस्यासङ्ख्येयस्यावशिष्टस्य कर्मणः साम्प्रतिकस्य च फल-क्रमानियमाद् अनाश्वासो लोकस्य प्रसक्तः । स चानिष्टैति ।
न चैकं कर्मानेकस्य जन्मनः कारणम् । कस्मात् ? अनेकेषु कर्मस्व् एकैकम् एव कर्मानेकस्य जन्मनः कारणम् इत्य् अवशिष्टस्य विपाक-कालाभावः प्रसक्तः च चाप्य् अनिष्टैति ।
न चानेकं कर्मानेकस्य जन्मनः कारणम् । कस्मात् ? तद् अनेकं जन्म युगपन् न सम्भवतीति क्रमेणैव वाच्यम् । तथा च पूर्व-दोषानुषङ्गः ।
तस्माज् जन्म-प्रायणान्तरे कृतः पुण्यापुण्य-कर्माशय-प्रचयो विचित्रः प्रधानोपसर्जन-भावेनावस्थितः प्रायणाभिव्यक्त एक-प्रघट्टकेन मिलित्वा मरणं प्रसाध्य सम्मूर्च्छित एकम् एव जन्म करोति । तच् च जन्म तेनैव कर्मणा लब्धायुष्कं भवति । तस्मिन्न् आयुषि तेनैव कर्मणा भोगः सम्पद्यतैति । असौ कर्माशयो जन्मायुर् भोग-हेतुत्वात् त्रिविध-पाकोऽभिधीयतैति । अत एक-भविक कर्माशय उक्तैति ।
दृष्ट-जन्म-वेदनीयस् त्व् एक-विपाकारम्भी भोग-हेतुत्वात्, द्वि-पाकारम्भी वा भोगायुर्-हेतुत्वान् नन्दीश्वरवन् नहुषवद् वेति । क्लेश-कर्म-विपाकानुभव-निर्वर्तिताभिस् तु वासनाभिर् अनादि-काल-सम्मूर्च्छितम् इदं चित्तं चित्रीकृतम् इव सर्वतो मत्स्य-जालं ग्रन्थिभिर् इवाततम् इत्य् एता अनेक-भव-पूर्विका वासनाः । यस् त्व् अयं कर्माशय एष एवैकभविक उक्तैति । ये संस्काराः स्मृति-हेतवस् ता वासनास् ताश् चानादि-कालीनाइति ।
यस् त्व् असाव् एक-भविकः कर्माशय स नियत-विपाकश् चानियत-विपाकश् च । तत्रादृष्ट-जन्म-वेदनीयस्य नियत-विपाकस्य इवायं नियमो न त्व् अदृष्ट-जन्म-वेदनीयस्यानियत-विपाकस्य । कस्मात् ? यो ह्य् अदृष्ट-जन्म-वेदनीयोऽनियत-विपाकस् तस्य त्रयी गतिः—कृतस्याविपक्वस्य नाशः प्रधान-कर्मण्याव् आपगमनं वा, नियत-विपाकप्रधान-कर्मणाभिभूतस्य वा चिरम् अवस्थानमिति ।
तत्र कृतस्याविपक्वस्य नाशो यथा शुक्ल-कर्मोदयाद् इहैव नाशः कृष्णस्य । यत्रेदम् उक्तम्—
द्वे द्वे ह वै कर्मणी वेदितव्ये
पापकस्यैको राशिः पुण्य-कृतोऽपहन्ति ।
तद् इच्छस्व कर्माणि सुकृतानि कर्तुं
इहैव ते कर्म कवयो वेदयन्ते ॥[?]
प्रधान-कर्मण्य् आवापगमनम् । यत्रेदम् उक्तम्—स्यात् स्वल्पः सङ्करः स-परिहारः स-प्रत्यवमर्षः कुशलस्य नापकर्षायालम् । कस्मात्? कुशलं हि मे बह्व् अन्यद् अस्ति यत्रायम् आवापं गतः स्वर्गेऽप्य् अपकर्षम् अल्पं करिष्यति[पञ्च-शिखा]इति ।
नियत-विपाक-प्रधान-कर्मणाभिभूतस्य वा चिरम् अवस्थानम् । कथमिति ? अदृष्ट-जन्म-वेदनीयस्यैव नियत-विपाकस्य कर्मणः समानं मरणम् अभिव्यक्ति-कारणम् उक्तम्, न त्व् अदृष्ट-जन्म-वेदनीयानियत-विपाकस्य । यत् त्व् अदृष्ट-जन्म-वेदनीयं कर्मानियत-विपाकं तन् नश्येद् आवापं वा गच्छेद् अभिभूतं वा चित्रम् अप्य् उपासीत, यावत् समानं कर्माभिव्यञ्जकं निमित्तम् अस्य न विपाकाभिभूतं करोतीति तद्-विपाकस्यैव देश-काल-निमित्तानवधारणाद् इयं कर्म-गतिश् चित्रा दुर्विज्ञाता चेति । न चोत्सर्गस्यापवादान् निवृत्तिर् इत्य् एक-भविकः कर्माशयोऽनुज्ञायतैति ॥१३॥
तत्त्व-वैशारदी : स्याद् एतत् । अविद्या-मूलत्वे कर्माशयस्य विद्योत्पादे सत्य् अविद्या-विनाशान् मा कर्माशयान्तरं चैषीत्,१२५ प्राचां तु कर्माशयानाम् अन्दादि-भव-.परं ब्रह्म-सञ्चितानाम् असंख्यातानाम् अनियत-विपाक-कालानां भोगेन क्षपयितुम् अशक्यत्वाद् अशक्योच्छेदः संसारः स्याद् इत्य् अत आह—सति मूले तद्-विपाको जात्य्-आयुर्-भोगाइति ।
एतद् उक्तं भवति—सुख-दुःख-फलो हि कर्माशयस् तादर्थ्येन तन् नान्तरीयकतया जन्मायुषी अपि प्रसूते । सुख-दुःखे च राग-द्वेषानुषक्ते तद्-अविच्निर्भाग-वर्तिनी तद्-अभावे न भवतः । न चास्ति सम्भवो न च तत्र यस् तुष्यति वोद्विजते वा तच् च तस्य सुखं वा दुःखं वेति । तद् इयम् आत्म-भूमिः क्लेश-सलिलावसिक्ता कर्म-फल-प्रसव-क्षेरम् इत्य् अस्ति क्लेशानां फलोपल्जननेऽपि कर्माशय-सहकारितेति क्लेश-समुच्छेदे सहकारि-वैकल्पात् सन्न् अप्य् अनन्तोऽप्य् अनियत-विपाक-कालोऽपि प्रसङ्ख्यानदग्ध-बीज-भावो न फलाय कल्पतैति ।
उक्तम् अर्थं भाष्यम् एव द्योतयति—सत्सुइति । अत्रैव दर्शनम् आह—यथा तुषेति । ननु न क्लेशाः शक्या अपनेतुम् । न हि सताम् अपनय इत्य् अत आह—नप्रसङ्ख्यानदग्ध-बीज-भावैति । विपाकस्य त्रैविध्यम् आह—स चैति । विपच्यते साध्यते कर्मभिरिति विपाकः ।
कर्मैकत्वं ध्रुवं कृत्वा जन्मैकत्वानेकत्व-गोचरा प्रथमा विचारणा । द्वितीया तु कर्मानेकत्वं ध्रुवं कृत्वा जन्मैकत्वानेकत्वागोचरा । तद् एवं चत्वारो विकल्पाः ।
तत्र प्रथमं विकल्पम् अपाकरोति—न तावद् एकं कर्मैकस्य जन्मनः कारणमिति । पृच्छति—कस्मात् ?इति । उत्तरम् आह—अनादि-काल-एकैक-जन्म-चितस्यात् अत एव असङ्ख्येयस्य एक-जन्म-क्षपिताद् एकैकस्मात् कर्मणोऽवशिष्टस्य कर्मणः । साम्प्रतिकस्य चफल-क्रमानियमाद् अनाश्वासो लोकस्य प्रसक्तःिति ।
एतद् उक्तं भवति—कर्म-क्षयस्य विरलत्वात् तद्-उत्पत्ति-बाहुल्याच् चान्योऽन्य-सम्पीडिताः कर्माशया निरन्तरोत्पत्तयो निरुच्छ्वासाः स्व-विपाकं प्रतीति न फल-क्रमः शक्योऽवधारयितुं प्रेक्षावतेत्य् अनाश्वासः पुण्यानुष्त्ठानं प्रति प्रसक्तैति ।
द्वितीयं विकल्पं निराकरोति—न चैकं कर्मानेकस्य जन्मनः कारणम् । पृच्छति—कस्मात् ?इति । उत्तरम् आह—अनेकेषुइति । अनेकस्मिन् जन्मन्य् आहितम् एकैकम् एव कर्मानेकस्य जन्म-लक्षणस्य विपाकस्य निमित्तम् इत्य् अवशिष्टस्य विपाक-कालाभावः प्रसक्तः च चाप्य् अनिष्टः । कर्म-वैकल्प्येन तद्-अननुष्ठान-प्रसङ्गात् । यदैक-जन्म-समुच्छेद्यं कर्मण्य् एकस्मिन् फल-क्रमानियमाद् अनाश्वासस् तदा कैव कथा बहु-जन्म-समुच्छेद्ये कर्मण्य् एकस्मिन् । तत्र ह्य् अवसराभावाद् विपाक-कालाभाव एव साम्प्रतिकस्येति भावः ।
तृतीयं विकल्पं निराकरोति—न चानेकं कर्मानेकस्य जन्मनः कारणम् । तत्र हेतुम् आह—तदिति । तद् अनेकं जन्म युगपन् न सम्भवति अयोगिनैतिक्रमेणैव वाच्यम् । यदि हि कर्म-सहस्रं युगपज् जन्म-सहस्रं प्रसुवीत, तत एव कर्म-सहस्र-प्रक्षयाद् अवशिष्टस्य विपाक-कालः फल-क्रम-नियमश् च स्याताम् । न त्व् अस्ति जन्मनां यौगपद्यम् । एवम् एअ प्रथम-पक्ष एवोक्तं दूषणम् इत्य् अर्थः ।
तद् एवं पक्ष-त्रये निराकृते पारिशेष्याद् अनेकं कर्मैकस्य जन्मनः कारणमिति पक्षो व्यवतिष्ठत इत्य् आह—तस्माज् जन्म- इति । जन्म च प्रायणं च जन्म-प्रायणे । तयोर् अन्तरं मध्यं तस्मिन् । विचित्र-सुख-दुःख-फलोपहारेण विचित्रः । यद् अत्यन्तम् उद्भूतम् अनन्तरम् एव फलं दास्यति तत्-प्रधानम् । यत् तु किञ्चिद् विलम्बेन तद् उपसर्जनम् । प्रायणं मरणम् । तेनाभिव्यक्तः स्व-कार्यारम्भणाभिमुखम् उपनीत एक-प्रघट्टकेन युगपत् सम्मूर्छितो जन्मादि-लक्षणे कार्ये कर्तव्य एक-लोली-भावम् आपन्न एकम् एव जन्म करोति, नानेकम् । तच् च जन्म मनुष्यादि-भावस् तेनैव कर्मणा लब्धायुष्कं काल-भेदान् नियत-जीवितं भवति । तस्मिन्न् आयुषि तेनैव कर्मणा भोगः सुख-दुःख-साक्षात्कारः स्व-संबन्धितया सम्पद्यतैति । तस्माद् असौ कर्माशयो जात्य्-आयुर्-भोग-हेतुत्वात् त्रिविपाकोऽभिधीयते ।
औत्सर्गिकम् उपसंहरति—अत एक-भविक कर्माशय उक्तैति । एक-भवोऽस्यास्तीति मत्व्-अर्थीयष् टन् । क्वचित् पाठ ऐकभविकैति । तत्रैकभव-शब्दाद् भवार्थे उक्-प्रत्ययः । एक-जन्मावच्छिन्नम् अस्य भवनम् इत्य् अर्थः ।
तद् एवम् औत्सर्गिकस्य इक-भविकस्य त्रिविपाकत्वम् उक्त्वा दृष्ट-जन्म-वेदनीयस्य इहिकस्य कर्मणस् त्रिविपाकत्वं व्यवच्छिनत्ति—दृष्ट- इति । नन्दीश्वरस्य खल्व् अष्ट-वर्षावच्छिनायुषो मनुष्य-जन्मनस् तीव्र-संवेगाधिमात्रोपाय-जन्या पुण्यम् एव आयुर्-भोग-हेतुत्वाद् द्वि-विपाकः । नहूषस्य तु पार्ष्णि-प्रहार-विरोधिनागस्त्यस्येन्द्र-पद-प्राप्ति-हेतुनैव कर्मणायुषो विहितत्वाद् अपुण्य-भेदो भोग-मात्र-हेतुः ।
ननु यथैक-भविकः कर्माशयस् तथा किं क्लेश-वासना भोगानुकूलाश् च कर्म-विपाकानुभव-वासनाः । तथा च मनुष्य-तिर्यग्-योनिम् आपन्नो न तज्-जातीयोचितं भुञ्जीतेत्य् अत आह—क्लेशेति । संमूर्छितम् एक-लोली-भावम् आपन्नम् ।
धर्माधर्माभ्यां व्यवच्छेत्तुं वासनायाः स्वरूपम् आह—ये संस्काराःिति । तत्र प्रथमां विभजते—तत्र कृतस्यैति । संन्यासि-कर्मभ्योऽशुक्लाकृष्णेभ्योऽन्यानि त्रीण्य् एव कर्माणि कृष्ण-कृष्णशुक्ल-शुक्लानि । तद् इह तपः-स्वाध्यायादि-साध्यः शुक्लः कर्माशय उदित एवादत्त-फलस्य कृष्णस्य नाशकोऽविशेषाश् च शवलस्यापि कृष्ण-भाग-योगादिति मन्तव्यम् ।
अत्रैव भगवान् आम्नायम् उदाहरति—यत्रेदम् उक्तमिति । द्वे द्वे ह वै कर्मणी कृष्ण-कृष्णशुक्ले अपहन्तिइति सम्बन्धः । वीप्सया भूयिष्ठता सूचिता । कस्य ? इत्य् अत आह—पापकस्यैति । पापकस्य पुंस इत्य् अर्थः । कोऽसाव् अपहन्ति ? इत्य् अत आह—एको राशिः पुण्य-कृतःिति । समूहस्य समूहि-साधत्वात् । तद् अनेन शुक्लः कर्माशयान् भूयसोऽप्य् अपहन्ति ।
एतद् उक्तं भवति—ईदृशो नामायं पर-पीडादि-रहित-साधन-साध्यः शुक्लः कर्माशयो यद् एकोऽपि सन् कृष्णान् कृष्ण-शुक्लांश् चात्यन्त-विरोधिनः कर्माशयान् भूयसोऽप्य् अपहन्ति । तत् तस्मात् इच्छस्वैति छान्दसत्वात् आत्मनेपदम् । शेषं सुगमम् ।
अत्र च शुक्ल-कर्मोदयस्यैव स कोऽपि महिमा यत इतरेषाम् अभावो न तु स्वाध्यायादि-जन्मनो दुःखात् । न हि दुःख-मात्र-विरोध्य्-अधर्मोऽपि तु स्व-कार्य-दुःख-विरोधी । न च स्वाध्यायादि-जन्यं दुःखं तस्य कार्यं, तत्-कार्यत्वे स्वाध्यायादि-विधानानर्थक्यात् तद्-बलाद् एव तद्-उत्पत्तेः । अनुत्पत्तौ वा कुम्भीपादाद्य् अपि विधीयते । अविधाने च तद्-अनुत्पत्तेरिति सर्वं चतुरस्रम् ।
द्वितीयां गतिं विभजते—प्रधाने कर्मणि ज्योतिष्टोमादिके तद्-अङ्गस्य पशु-हिंसादेर् आवापगमनम् । द्वे खलु हिंसादेः कार्ये, प्रधानाङ्गत्वेन विधानात् तद्-उपकारः, न हिंस्यात् सर्वा भूतानिइति हिंसायाः प्रतिषिद्धत्वाद् अनर्थश् च । तत्र प्रधानाङ्गत्वेनानुष्ठानाद् अप्रधानतैवेत्य् अतो न द्राग् इत्य् एव प्रधान-निरपेक्षा सती स्व-फलम् अनर्थं प्रसोतुम् अर्हति । किं त्व् आरब्ध-विपाके प्रधाने साहायकम् आचरन्ती यवतिष्ठते । प्रधान-साहायकम् आचरन्त्याश् च स्व-कार्ये बीज-मात्रतयावस्थानं प्रधाने कर्मण्य् आवापगमनम् ।
यत्रेदम् उक्तम् पञ्चशिखेन—स्वल्पः सङ्करो ज्योतिष्टोमादि-जन्मनः प्रधान-पूर्वस्य पशु-हिंसादि-जन्मनानर्थ-हेतुनापूर्वेण, स-परिहारः शक्यो हि कियता प्रायश्चित्तेन परिहर्तुम् । अथ प्रमादतः प्रायश्चित्तम् अपि नाचरितं प्रधान-कर्म-विपाक-समये स विपच्येत, तथापि यावन्तम् असाव् अनर्थं प्रसूते तावान् स-प्रत्यवमर्षः । मृष्यन्ते हि पुण्य-सम्भारोपनीत-सुख-सुधा-महा-ह्रदावगाहिनः कुशलाःपाप-मात्रोपपादितां दुःख-वह्नि-कणिकाम् । अतः कुशलस्य सुमहतः पुण्यस्य नापकर्षाय प्रक्षयाय पर्याप्तः ।
पृच्छति—कस्मात्?इति । उत्तरं—कुशलंहि मे पुण्यवतो बह्व् अन्यद् अस्ति, प्रधान-कर्म-विपाकतया व्यवस्थितं दीक्षणीयादि-दक्षिणान्तम् । यत्रायम् सङ्करः स्वल्पः स्वर्गेऽप्यस्य फले सङ्कीर्ण-पुण्य-लब्ध-जन्मनः स्वर्गात् सर्वथा दुःखेनापरामृष्टाद् अपकर्षम् अल्प-दुःख-सम्भेदं करिष्यतिइति ।
तृतीयां गतिं विभजते—नियत- इति । बलीयस् त्व् अनेनेह प्राधान्यम् अभिमतं न त्व् अङ्गितया । बलीयस्त्वं च नियत-विपाकत्वेन अनल्पदानवकाशत्वात् । अनियत-विपाकस्य तु दुर्बलत्वम् अन्यदा सावकाशत्वात् । चिरम् अवस्थानम् बीज-भाव-मात्रेण न पुनः प्रधानोपकारितया, तस्य स्वतन्त्रत्वात् ।
ननु प्रायणे नैकदैव कर्माशयोऽभिव्यज्यत इत्य् उक्तम् । इदानीं च चिरावस्थानम् उच्यते । तत् कथम् परं पूर्वेण न विरुध्यत इत्य् आशयवान् पृच्छति—कथमिति ? उत्तरं—अदृष्ट- इति । जात्य्-अभिप्रायम् एक-वचनम् । तद् इतरस्य गतिम् उक्ताम् अवधारयति—यत् त्व् अदृष्ट- इति । शेषं सुगमम् ॥१३॥
योग-वार्तिकम् : न केवलं कर्माशयेष्व् एव क्लेशः कारणम् अपि तु तत्-फलेष्व् अप्य् अतस् तान्य् अपि दुःखोत्पादने क्लेशानां साक्षात् परम्परया द्वाराणीत्य् आह—सति मूले तद्-विपाको जात्य्-आयुर्-भोगाः ॥
क्लेश-रूपे कर्माशयस्य मूले सत्य् एव कर्माशयस्य विपाकः फलं भवति क्लेशाश् च वासना-रूपा एव जन्मादि-विपाक-कारणम् । विपाकस्य स्वरूपम् आह—जात्य्-आयुर्-भोगाःिति । जातिर् जन्म, आयुर् जीवन-कालः, भोगः सुख-दुःखात्मक-शब्दादि-वृत्तिर् इत्य् अर्थः । न तु सुखादि-साक्षात्कार एवात्र भोगः, ते ह्लाद-परिताप-फला इत्य् उत्तर-सूत्रे तस्य विपाक-जन्यता-वचनादिति ।
स्याद् एतत्, क्लेशानां कर्म-सहकारित्वे प्रमाणं नास्ति—ज्ञानाग्निः सर्व-कर्माणि भस्मसात् कुरुतेऽर्जुन[गीता ४.३८] इत्य् आदि-वाक्येभ्यो हि ज्ञानस्य क्लेश-क्षय-हेतुत्वात्, तत एव विपाकाभावः स्यादिति ? अत्रोच्यते—विविध-योग्नि-हेतु-शुभाशुभ-कर्मसु सत्सु यत्र रागादिर् अन्त-काल उद्बुद्धस् तिष्ठति मरणोत्तरं ताम् एव योनिं जीवः प्राप्नोति नेतरम् इत्य् अन्वय-व्यतिरेकाभ्यां कर्मवद् रागादि-दोषोऽपि विपाक-हेतुः । तथा च श्रुतिः—तद् एव सक्तः सह कर्मण इति लिङ्गं मनो यत्र निषिक्तम् अस्य[बृ.आ.उ. ४.४.६]इति । तं विद्या-कर्मणी समवारभेते पूर्व-प्रज्ञा च[बृ.आ.उ. ४.४.२]इति च । तथा गीतापि—
पुरुषः प्रकृति-स्थो हि भुङ्क्ते प्रकृतिजान् गुणान् ।
कारणं गुण-सङ्गोऽस्य सद्-असद्-योनि-जन्मसु ॥[गीता १३.२१]इति ।
न्याय-सूत्रं च—वीत-राग-जन्मादर्शनात्[न्या.सू. ३.१.२४] । नरकादिष्व् अपि रागाद्य्-अनुसारेणैव विपाको भवति, निषिद्ध-स्त्र्य्-आदि-सक्तानाम् एव सप्त-लोह-मय-नारी-समालिङ्गनादि-फल-श्रवणात् । अतः क्लेशोऽपि स्वातन्त्र्येण विपाकारम्भे हेतुः । ज्ञानोत्तरं चारम्भ-विपाकः समाप्यत एव न त्व् आरम्भतैति न तत्र क्लेशापेक्षेति । अपि चात्रैव सूत्रे भाष्यकृता कर्माशयस्यापि प्रसङ्ख्यान-दग्ध-बीज-भावस्य वक्तव्यतया कर्माशयस्य दाह एव ज्ञानेन क्रियते, न तु नाश इत्य् अवधार्यते । स च क्लेशाख्य-सहकार्य्-उच्छेद एव । ज्ञानस्य हि व्यापार-द्वयं क्लेशाख्य-हेतूच्छेदेन कर्मानुत्पादः प्राचीन-कर्मणा दाहश् च, न तु कर्म-नाशः, प्रारब्ध-कर्मणोऽपिनाश-प्रसङ्गात् । न च प्रारब्धातिरिक्त-कर्मत्वेन ज्ञान-नाश्यता कल्प्येति वाच्यम्, लाघवेन क्लेशस्यैव विपाकारम्भ-हेतुत्व-कल्पनौचित्यात् । प्रारब्ध-फलकस्य कर्मणो बीज-शक्ति-नाशेऽपि फलं समाप्यत एव बीज-दाहेऽप्य् उत्पन्नाङ्कुरवदिति ।
अत एव—ज्ञानाग्नि-दग्ध-कर्माणं तम् आहुः पण्डितं बुधाः[गीता ४.१९], योगाग्नि-दग्ध-कर्म-चयोऽचिरात्[वि.पु. ६.७.३५]इति गीता-विष्णु-पुराणयोर् ज्ञान-योगाभ्यां कर्मणो दाह एव श्रूयते, न तु नाशैति । तद्-एक-वाक्यतया च क्षीयन्ते चास्य कर्माणि[मु.उ. २.२.८] इत्य् आदि-वाक्यान्य् अपि दाह—पराण्य् एव, तथा तद्-अधिगम उत्तर-पूर्वाघयोरश्लेष-विनाशौ[वे.सू. ४.१.१३]इति ब्रह्म-सूत्रेऽपि विनाश-शब्दो निष्फललतार्थक एव मन्तव्यः । कर्माशय-नाशस् तु ज्ञान-वासना-नाशवच् चित्त-नाशाद् एव भवति, धर्मि-नाशस्य धर्म-नाश-हेतुतायाः सामान्यत एव कॢप्तत्वादिति । तस्माज् ज्ञानेन क्लेशाख्य-हेतु-दाहात् कर्मानुत्पादवत् प्राचीन-कर्म-विपाकानारम्भोऽपि भवति, क्लेशाख्य-दृष्ट-सहकार्य-भावात् । अतो ज्ञानात् क्लेशाख्य-सहकार्य्-उच्छेद एव कर्म-दाहैति सर्वं सुस्थम् ।
तद् एतत् सर्वम् अभिप्रेत्य भाष्य-कारः सूत्रम् इदं व्याचष्टे—सत्सु क्लेशेषुइति । विपाकारम्भीइति । आरम्भ-शब्दाज् जीवन्मुक्तस्यारब्ध-विपाकेषु न क्लेशाः कारणम् इत्य् उक्तं, तस्य ह्य् आरब्ध एव विपाकः कर्मणा समाप्यतैति । एतेन जीवन्मुक्तस्य भोगार्थम् अविद्या-लेश-कल्पनम् अज्ञानम् उपेक्षणीयम्, आरब्ध-विपाक-क्लेशानाम् अहेतुत्वादिति ।
क्लेशानां कर्माशय-सहकारित्वं ज्ञानादग्ध-कर्माशयस्यैव विपाकारम्भ-हेतुत्वं च दृष्टान्तेन प्रतिपादयति—यथा तुषा- इति । क्लेशावनद्धाःिति । ज्ञानादग्ध-बीज-भाव इत्य् अपि बोध्यम् । दृष्टान्तानुसारात् न प्रसङ्ख्यान-दग्ध-बीज-भावो वेत्य् उत्तर-वाक्याच् च । नापनीत-क्लेशैति । स विपाक-गोचर-क्लेश-शून्य इत्य् अर्थः । अतो न प्रसङ्ख्यानदग्ध-बीज-भावोवेतिअस्य क्लेश-सामान्याभाव-कालीनः कर्माशयोऽसङ्कीर्णोदाहाहरणमिति । जात्य्-आयुर्-भोगाइति व्याचष्टे—विपाकैति ।
कर्मणो जन्म-कारणत्वे कञ्चन विशेषम् अवधारयितुम् आह—तत्रेदं विचार्यतेइति । तत्र जन्म-लक्षण-विपाके । अस्य विचारस्य प्रयोजनं स्वयम् एव वक्ष्यति । तत्र चत्वारो विकल्पाः—कर्मैकत्व-पक्षं ध्रुवं कृत्वा जन्माइकत्वानेकत्व-रूपं प्रथमं विकल्प-द्वयम्, कर्मानेकत्वं च ध्रुवं कृत्वा जन्मानेकत्वैकत्व-रूपम् अपरं विकल्प-द्वयमिति ।
आक्षिपतीति । फल-दानार्थम् उत्पादयतीत्य् अर्थः । किम् अनेकमिति । अनेकं कर्म मिलित्वानेकं जन्म करोतीत्य् अर्थः ।
आद्य-विकल्पे तु न मिलनम् उक्तमिति ततो विशेषः । तत्राद्यं विकल्पम् अपाकरोति—न तावद् एकमिति । पृच्छति—कस्मात् ?इति । उत्तरं—अनादि- इति । प्रचितस्य सञ्चितस्य । अवशिष्टस्य अमुक्तस्य । अविशिष्टस्यैति पाठे अन्योन्य-भुक्तत्वेनाविशिष्टस्येत्य् अर्थः । साम्प्रतिकस्य इहिकस्य फल-क्रमानियमाद् अनाश्वासैति यथोक्तानाम् अनन्त-कर्मणां मध्ये किं कर्म प्रथमं फलं दास्यति, किं वा पश्चादिति फल-क्रमे नियमो नास्ति । अतो लोकानां पुण्यानुष्ठाने फलानाश्वासः स्यात् । भाव्य्-अनन्त-काल-मध्ये भावि-पाप-दिनानुष्ठीयमान-कर्मणोविनाश-सम्भवात्, झटिति भोग-कामनयैव कर्मानुष्ठानाच् चेत्य् अर्थः ।
द्वितीयं विकल्पं निराकरोति—न चैकमिति । अनेक-जन्मसु किञ्चित् कृत्वा फल-दानायानेक-जन्मनः कारणम् एकैकं कर्मेत्य् अपि न भवतीत्य् अर्थः । अत्र हेतुं पृच्छति—कस्मात् ?इति । उत्तरं—अनेकेष्विति । अनेकेषु जन्मसु क्रियमाणं कर्मैकैकं प्रत्येकम् एवानेकस्यासङ्ख्य-जन्मनः कारणम् । अतोऽवशिष्टस्य तद्-इतरस्य तद्-विरुद्ध-फलस्य कर्मणैति यावदिति ।
तृतीयं विकल्पं निराकरोति—न चानेकं कर्मैति । पृच्छति—कस्मात् ?इति । उत्तरं—तद् अनेकमिति । तथा चैति । प्रथम-पक्षोक्त-दोषस्यानाश्वासस्य प्रसङ्ग इत्य् अर्थः ।
तद् एवं पक्ष-त्रये दूषिते चतुर्थ-पक्षं सिद्धान्तयति—तस्मादिति । तस्माज् जन्मारभ्यामरण-पर्यन्त-कालं विहित-निषिद्धैर् यो धर्माधर्म-समूहो गुण-प्रधान-भावापन्न उत्पादितः, स मरण-काल आरब्ध-कर्म-भोग-समाप्त्या लब्धावसरः सन्न् एक-प्रयत्नेन मिलित्वा स्व-फल-दानार्थं मरणम् प्रसाध्य संमूर्च्छितः प्रवृद्ध-वेग एकम् एव जन्म गुण-प्रधान-भावापन्नः स्व-फल-योग्यं करोति नानेकम् इत्य् अर्थः । मरणं च लिङ्ग-देहस्य स्थूल-देहाद् उत्क्रमणं, न तु नाशो गमन-श्रुतेः, नाशस्य भोगाहेतुतया कर्माजन्यत्व-स्वाभाविकत्वयोर् भाष्ये वक्ष्यमाणत्वाच् च ।
ननु केवल-जन्मना किं प्रयोजनम् ? तत्राह—तच् च जन्मैति । आयुषोऽपि न स्वतः पुरुषार्थत्वम् अत आह—तस्मिन्न् आयुषिइति । असौइति । जन्म-हेतुर् इत्य् अर्थः । अन्यो हि व्य्-एक-मात्र-विपाको भवतीति वक्ष्यति । औत्सर्गिकम् उपसंहरति—अतैति । एको भवोऽस्मिन् कार्यतयास्तीत्य् एक-भविकः कर्माशय-समूहः पूर्वाचार्यैर् उक्त इत्य् अर्थः । ऐकभविकैति पाठे त्व् एक-भविकं कर्म तज्-जन्यादृष्टं चैकभविकम् इत्य् अर्थः ।
नन्व् एवं स्वर्गि-नारकिणां कर्म पुनर् जन्मादि स्यात्, स्वार्गादि-शरीरे धर्माद्य्-अनुत्पत्तेः प्राचीन-सर्व-कर्मणां च तत्रैव समापनादिति चेत् ? न, स्वर्गादि-जनक-कर्मणाम् एव ब्राह्मण-स्थावरादि-योनि-लाभ-पर्यन्त-फल-श्रवणात् शास्त्रानुक्त-काल-विशेषस्यैव फलस्य इक-भविकत्व-नियमादिति ।
त्रि-विपाकं कर्मोक्त्वा, एक-द्वि-विपाके कर्मणी प्राह—दृष्ट-जन्म- इति । नन्दीश्वरवन् नहुषवच् चेति दृष्टान्त-द्वयं पूर्वोपन्यास-क्रमेणोक्तम् । अत्र तु व्युत्क्रमेण योजनीयं प्रतिज्ञा-क्रमेणोदाहरणौचित्यात् । नन्दीश्वरस्य ह्य् अष्ट-वर्षायुर्-मनुष्य-जन्मनः पुण्य-विशेषेणायुर्-भोग-रूपं विपाक-द्वयम् देव-सम्बन्ध्य् उत्पन्नं, नहुषस्य चेन्द्रत्व-सम्पादक-कर्मणैव दीर्घायुष्ट्वस्य लाभात् पाप-विशेषेण केवलं सर्प-भोग-रूप एक एव विपाक उत्पन्नैति । तत्र च नन्दीश्वर-नहुषयोर् मनुष्य-शरीरस्यैव वार्धकादिवद् देव-सर्प-रूप-परिणामान्तरात् न जन्मान्तरम् अपूर्व-देहानुत्पादादिति ।
नन्व् एवं कर्माशयवज् ज्ञान-वासनाप्य् ऐकभविक्य् एव स्यात् । तथा च तासाम् अनादित्वं चशिषो नित्यत्वात्[४.१०] इत्य् आगामि-सूत्रे वासनानाम् अनादित्व-वचनं नोपपद्येतेत्य् आशङ्कां परिहरति—क्लेश-कर्म- इति । क्लेश-कर्मणोर् विपाकस्य योऽनुभवश् चित्त-वृत्ति-निवहो ज्ञान-रूपस् तन्-निष्पादिताभिर् ज्ञान-रूप-वासनाभिर् अनादि-कालेषु संमूर्च्छितम् उपचितं पुष्टमिति यावत् । अत एव विविध-रूपाभिस् ताभिः पटवत् सर्वतश् चित्रितम् इव चित्तं ग्रन्थिभिर् आयतं मत्स्य-जालम् इव वर्तत इत्य् अत एता वासना अनेक-भव-पूर्विकाः स्वीक्रिय्यन्ते । अन्यथा मनुष्ययोन्य्-अनन्तरं देव-तिर्यग्-योनि-भोगानुपपत्तेः मनुष्य-जन्मनि तद्-वासनानुपपत्तेः । एवं भव-वासनानां च मनुष्य-जन्मनैव क्षयाद् इत्य् अर्थः । अत्र वासनानां जीव-मत्स्य-बन्धक-चित्त-जाल-ग्रथितत्वेन रूपणात्—भिद्यते हृदय-ग्रन्थिश् छिद्यन्ते सर्व-संशयाः[मु.उ. २.२.८] इत्य् आदि-श्रुताव् अपि हृदय-ग्रन्थिर् वासनैव न त्व् आधुनिक-कल्पिताहङ्कारादिरिति सिद्धम् । कर्माशयाख्याद् धर्माधर्म-रूपात् संस्काराद् वासनानां वैलक्षण्यम् आह—ये संस्काराइति । ताश् चानादि-कालीना इत्य् उपसंहारः ।
औत्सर्गिकम् एक-भविकत्वं क्वचिद् अपवदितुं भूमिकां रचयति—यस् त्व् असाविति । नियतः स्वाभाविको विघ्न-शून्यः तादृशो विपाको यस्य स तथा । स चाबन्ध्योऽनान्य-शेषः कर्मान्तराभिभूतश् च कर्माशयस् तद्-विपरीतश् चानियत-विपाक इत्य् अर्थः ।
अयं चार्थः—अनियत-विपाक-त्रैविध्यं भाष्ये व्यक्तीभविष्यति । तत्रादृष्ट-जन्म-वेदनीयस्य नियत-विपाकस्य इवायं नियमैति । एक-भविकत्व-नियम इत्य् अर्थः । न त्व् अदृष्ट-जन्म-वेदनीयस्यानियत-विपाकस्य चेति सुगमम् ।
दृष्ट-जन्म-वेदनीयस्य भवाहेतुत्वेनैक-भविकत्वाभावः स्पष्ट एवेत्य् अतोऽनियत-विपाकस्यैवैक-भविकत्व-नियमाभावे हेतुं पृच्छति—कस्मात् ?इति । उत्तरं—यो ह्य् अदृष्टेति । दृष्ट-जन्म-वेदनीयस्य इक-भवित्व-शङ्का नास्तीत्य् आशयेनाह—अदृष्ट-जन्म-वेदनीयस्यैति । स्वरूपाख्यान-मात्रं न तु दृष्ट-जन्म-वेदनीयस्यानियत-विपाकत्वं नास्तीत्य्-आदिः कश्चिद् आशयः सम्भवति, प्रयोजनाभावात् । यो ह्य् अदृष्ट-जन्म-वेदन-योग्यो नियत-विपाक-भिन्नः, स त्रिविध इत्य् अर्थः । यथा श्रुते वक्ष्यमाणस्याविपक्व-नष्टस्य सङ्ग्रहानुपपत्तेः ।
तिसृष्व् एकां गतिम् आह—कृतस्यैति । अपरिपक्वस्यादत्त-फलकस्य विआश इत्य् अर्थः । तथा च तस्य नास्त्य् एक-भविकत्वम् इत्य् आशयः । द्वितीयाम् आह—प्रधान- इति । प्रधान-कर्मणा यागादिना सहैव तद्-अङ्गानां पशु-हिंसादीनां स्व-फल-दानाय च फल-प्राप्तिः न स्वातन्त्र्येण तद्वत् परोपसर्जनतयानुष्ठितत्वात् न स्वातन्त्र्येण फल-दानमिति । तथा प्रधान-कर्म्॒तिशयस्य यदा बलवत्तर-कर्मान्तरेणाभिभवः, तदा तद्-उपसर्जनस्यापि नैक-भविकत्वम् इत्य् आशयः ।
तृतीयां गतिम् आह—नियत-विपाक- इति । तत्र प्रधानं नाङ्गि किं तु बलवत्तरम् । नियत-विपाकेन प्रधान-कर्मणास्व-विरुद्ध-फलदेनाभिभूतस्य प्रतिबद्धस्य चिरम् अवस्थानं द्वि-त्रि-चतुर्-आदि-जन्मसु प्रसुप्ततयावस्थानम् इत्य् अर्थः । तथा च तस्य नैक-भविकत्वम् इत्य् आशयः ।
एतास्व् आद्यम् उदाहरति—तत्र कृतस्यैति । शुक्लः कर्माशयः धर्मः, कृष्णश् चाधर्मः, तयोर् आद्येनोत्तरस्य नाशे श्रुतिम् उदाहरति—यत्रेदमिति । पुण्य-पाप-रूपे द्वे कर्मणी पुरुषैर् वेदितव्ये अवधारयितव्ये । द्वे द्वेइति वीप्सा पुरुष-भेदात् कर्म-भेदम् अभिप्रेत्योक्ता, यतः पुण्य-कृतः पुण्य-निमित्त एको मुख्यो राशिः समूहस्य समूहि-कार्यत्वात् पापकस्य पाप-राशेर् अपहन्ति, चोरस्य निहन्तीतिवत् कर्मणि षष्ठी , तस्मात् सुकृतानि कर्माणि कर्तुम् इच्छस्व, तच् च कर्म इह लोक एव ते तुभ्यं वेदयन्ते प्रतिपादयन्ते, न तु लोकान्तरैति श्रुत्य्-अर्थः । इच्छस्वेति छान्दसत्वाद् आत्मनेपदम् ।
द्वितीयां गतिम् उदाहरति—प्रधान- इति । यत्र यस्मिन् विषये पञ्चशिखाचार्येणेदं वक्ष्यमाणम् उक्तं, तद् एव प्रधान-कर्मण्य् आवापो गमनम् इत्य् अन्वयः । स्यात् स्वल्पः इत्य् आदि-वाक्यस्यायम् अर्थः—हिंसादि-जन्य-पापेन यागाद्य्-अपूर्वस्य स्वल्प एव सङ्करः स्यात्, सोऽपि स-परिहारः स्वल्पेनैव प्रायश्चित्तेन परिहर्तुं शक्यते । यदि च प्रमादतः प्रायश्चित्तं न क्रियते स-प्रत्यवमर्षः, बहु-सुख-मध्ये अन्यद् दुःख-मर्षणायोग्यं भोजन-नान्तरीयक-दुःखवत्, अतः कुशलस्य कर्मणोऽपकर्षाय हेयत्वाय नालम् न पर्याप्तम् । सङ्करैति । शेषं करिष्यतीत्य् अन्तं पञ्चशिख-वाक्यं सुगमम् ।
तृतीयां गतिम् उदाहरति—नियत- इति । उत्कटत्व-रूपं बलवत्त्वम् एव प्रधानत्वम् । नन्व् एवं कर्म-विशेषस्य चिरम् अवस्थाने सति पूर्वोक्त-सर्व-कर्मणाम् एकदैव प्रायणाद् अभिव्यक्तिः कथम् उपपद्यत इत्य् आशयेन शङ्कते—कथम् ?इति । सिद्धान्तम् आह—अदृष्ट- इति । कर्मणः कर्म-सामान्यस्य । समानम् एकम् । न त्व् अदृष्टेति । अदृष्ट-जन्म-वेदनीयस्यैति प्रसङ्गाद् उक्तम् । अत्रानियत-विपाकस्य वेति वा-शब्दः क्वचित् तिष्ठति, स वा-शब्दोऽप्य्-अर्थः ।
गति-त्रयम् उपसंहरति—यत् त्विति । उपासीत प्रतीक्षेत । विपाकं विपाकारम्भकं स्वाविरुद्ध-कर्मान्तरमिति शेषः । उपासनस्यावधिम् आह—यावदिति । अस्य समानम् अविरुद्धं कर्माभिव्यक्तौ निमित्तं यावन् नैतत्-फलोन्मुखीकरोतीत्य् अर्थः ।
यद् यज् जन्म-कृतं पापं मया सप्तसु जन्मसु ।
तन् मे रोगं च शोकं च माकरी हन्ति सप्तमी ॥१२६
इत्य् आदि-वाक्यानि तथा कर्म-गतेर् दुर्विज्ञानत्व-वचनानि चैतादृश-कर्म-विषयाण्य् एवेत्य् आह—तद् विपाकस्यैति । अभिभूत-कर्म-विपाकस्यैव कुत्र कदा केन निमित्त-विशेषेण भविष्यतीत्य् अवधारयितुम् अशक्यत्वाद् इयम् अभिभूत-कर्म-गतिश् चित्रा अद्भुत-रूपा दुर्विज्ञाना चेत्य् अर्थः ।
नन्व् एवम् एक-भवित्वं क्षतम् इत्य् आशङ्क्याह—न चोत्सर्गस्येति । निवृत्तिः क्षतिर् इत्य् अर्थः । क्वचिद् अपवादेऽप्य् एक-भविकत्वम् औत्सर्गिकम् एवानुमन्यतेऽस्माभिर् इत्य् अर्थः । न चैवम् अप्य् अपवादाशङ्कयानाश्वाषतादवस्थ्यम्, अपवादस्य स्वानुष्ठान-मान्द्य-निमित्तकतया तद् धित्वैव शक्य-परिहारत्वादिति । यच् चाधुनिक-वेदान्तिभिर् एक-भविक-मतं व्यभिचारेण दूषितं तद् अज्ञानाद् एव, औत्सर्गिकता-मात्रस्य भाष्य-कृतोक्तत्वादिति सर्वं सुस्थम् ॥१३॥
—o)0(o—
(२.१४)
ते ह्लाद-परिताप-फलाः पुण्यापुण्य-हेतुत्वात् ॥१४॥
ते जन्मायुर्-भोगाः पुण्य-हेतुकाः सुख-फला, अपुण्य-हेतुकाः दुःख-फलाइति । यथा चेदं दुःखं प्रतिकूलात्मकम्, एवं विशेष-सुख-कालेऽपि दुःखम् अस्त्य् एव प्रतिकूलात्मकं योगिनः ॥१४॥
तत्त्व-वैशारदी : उक्तं क्लेश-मूलत्वं कर्मणाम् । कर्म-मूलत्वं च विपाकानाम् । अथ विपाकाः कस्य मूलं येनामी त्यक्तव्या इत्य् अत आह—ते ह्लाद-परिताप-फलाः पुण्यापुण्य-हेतुत्वात् ॥िति ।
सूत्रं व्याचष्टे—ते जन्मायुर्-भोगाःिति । यद्यपि जन्मायुयोर् एव ह्लाद-परिताप-पूर्व-परिभावित्तया तत्-फलत्वं न तु भोगस्य ह्लाद-परितापोदयान्तर-भाविनस् तद्-अनुभवात्मनः, तथाप्य् अनुभाव्यतया भोग्यतया भोग-कर्मता-मात्रेण भोग-फलत्वमिति मन्तव्यम् ।
नन्व् अपुण्य-हेतुका जात्य्-आयुर्-भोगाः परिताप-फला भवन्तु हेयाः, प्रतिकूल-वेदनीयत्वात् । कस्मात् पुनः पुण्य-हेतवस् त्यज्यन्ते सुख-फला अनुकूल-वेदनीयत्वात् ? न चैषां प्रत्यात्म-वेदनीयानुकूलता शक्या सहस्रेणाप्य् अनुमानागमैर् अपाकर्तुम् । न च ह्लाद-परितापौ परस्पराविना-भूतौ यतो ह्लाद उपादीय-माले परितापोऽप्य् अवर्जनीयतयापतेत्, तयोर् भिन्न-हेतुकत्वाद् भिन्न-रूपत्वाच् चेत्य् अत आह—यथा चेदमिति ॥१४॥
योग-वार्तिकम् : इदानीम् उक्ताभ्यां कर्म-तद्-विपाकाभ्यां क्लेशानां मुख्य-फलम् आह—ते ह्लाद-परिताप-फलाः पुण्यापुण्य-हेतुत्वात् ॥ ते विपाकाः सर्व एव समुच्चित-सुख-दुःख-फलकाः समुच्चित-पुण्य-पाप-हेतुकत्वाद् इत्य् अर्थः ।
अथ सुखावच्छेदेन पुण्य-हेतुकाः दुःखावच्छेदेन पाप-हेतुकाइति विभज्य प्रतिपादयति—ते जन्मायुर्-इत्य् आदिना । सुख-दुःखयोश् च फलत्वं भोग्यतयेति प्राग् एव व्याख्यातम् । विपाकान्तर-गत-भोगश् च शब्दाद्य्-आकार-वृत्तिर् एवेति तस्यापि सुख-दुःख-हेतुत्वम् उपपन्नम् । तद् एवम् अनेक-सूत्रैः प्रोक्तम् अविद्याया दुःख-निदानत्वं न्यायाचार्यैः एक-सूत्रेणैवार्थाद् उक्तम्—दुःख-जन्म-प्रवृत्ति-दोष-मिथ्या-ज्ञानानाम् उत्तरोत्तरापाये तद्-अनन्तराभावाद् अवर्गः[न्या.सू. १.१.२]इति । कारण-नाशाद् एव हि कार्यानुत्पादैति । तद् एवं दुःख-निदानतया क्लेशानां हेतुत्वम् उक्तम् ।
ननु सर्वे विपाकाः कथं सुख-दुःख-फलकाः ? ब्रह्म-लोकादौ दुःखासम्भिन्न-सुख-सत्त्वाद् इत्य् आशङ्कां परिहरति—यथा चेदमिति । यथा चेदं परिदृश्यमानं रोगादि-दुःखं प्रतिकूलात्मक-द्वेष्य-स्वभावम् भवति, एवं सर्वत्रैव विषय-सुख-कालेऽपि दुःखम् योगिनां प्रतिकूलात्मकं तिष्ठतीत्य् अर्थः ।
दुःख-तत्-साधनयोर् एक-रूपेण ग्रहणाय प्रतिकूलात्मकम् इत्य् उक्तम् । मूढानां दुःख-समुद्र-मग्नानां सुखेनान्तरीयक-सूक्ष्म-दुःखेषु दृष्टिर् नास्तीति योगिन इत्य् उक्तम् । तथा च लौकिक-दुःखम् इव विषय-सुखम् अपि दुःख-शवलतया दुःखत्वेन हेयम् एवेति भावः । यद्यपि स्वर्गादौ सुखम् अधिकं तथाप्य् अल्पम् अपि दुःखं बलवद्-द्वेष-विषयो भवति । बलवत्त्वं च सुखाभिलाषाभिभावकत्वम् ।
तथा च साङ्ख्य-सूत्रम्—यथा दुःखं द्वेषः पुरुषस्य न तथा सुखाद् अभिलाषः[सां.सू. ६.६]इति । अस्मिन् सूत्रे सुख-दुःखयोर् एव कर्म-विपाक-फलत्व-वचनात् जीवन्मुक्तानाम् अपि प्रारब्ध-पाकेषु सुख-दुःखे शरीरे भवत एव, अभिमानिके तु न भवतः । तत्-कारण-क्लेशाभावादिति सिद्धान्तः । तथा च श्रुतिः—न ह वै स-शरीरस्य प्रियाप्रिययोर् अपहतिर् अस्ति[छा.उ. ८.१२.१]इति ।
आत्मानं चेद् विजानीयाद् अयम् अस्मीति पूरुषः ।
किम् इच्छन् कस्य कामाय शरीरम् अनुसञ्चरेत् ॥[बृ.आ.उ. ४.४.१२]इति च ।
स्मृतिश् च—
वीत-राग-भय-क्रोधः स्थित-धीर् मुनिर् उच्यते[गीता २.५६]इति ॥१४॥
—o)0(o—
(२.१५)
परिणाम-ताप-संस्कार-दुःखैर् गुण-वृत्ति-विरोधाच् च
दुःखम् एव सर्वं विवेकिनः ॥१५॥
सर्वस्यायं रागानुविद्धश् चेतनाचेतन-साधनाधीनः सुखानुभव इति । तत्रास्ति रागजः कर्माशयः । तथा च द्वेष्टि दुःख-साधनानि मुह्यति चेति । द्वेष-मोह-कृतोऽप्य् अस्ति कर्माशयः । तथा चोक्तम्—नानुपहत्य भूतान्य् उपभोगः सम्भवतीति हिंसा-कृतोऽप्य् अस्ति शारीरः कर्माशयैति । विषय-सुखं चाविद्येत्य् उक्तम् ।
या भोगेष्व् इन्द्रियाणां तृप्तेर् उपशान्तिः, तत् सुखम् । या लौल्याद् अनुपशान्तिः, तद् दुःखम् । न चेन्द्रियाणां भोगाभ्यासेन वैतृष्ण्यं कर्तुं शक्यम् । कस्मात् ? यतो भोगाभ्यासम् अनुविवर्धन्ते रागाः, कौशलानि चेन्द्रियाणाम् इति । तस्माद् अनुपायः सुखस्य भोगाभ्यास इति । स खल्व् अयं वृश्चिक-विष-भीत इवाशी-विषेण दष्टो यः सुखार्थी विषयानुवासितो महति दुःख-पङ्के निमग्नैति । एषा परिणाम-दुःखता नाम प्रतिकूला सुखावस्थायाम् अपि योगिनम् एव क्लिश्नाति ।
अथ का ताप-दुःखता ? सर्वस्य द्वेषानुविद्धश् चेतनाचेतन-साधनाधीनस् तापानुभवैति । तत्रास्ति द्वेषजः कर्माशयः । सुख-साधनानि च प्रार्थयामानः कायेन वाचा मनसा च परिस्पन्दते । ततः परम् अनुगृह्णात्य् उपहन्ति चेति परानुग्रह-पीडाभ्यां धर्माधर्माव् उपचिनोति । स कर्माशयो लोभान् मोहाच् च भवतीत्य् एषा ताप-दुःखतोच्यते ।
का पुनः संस्कार-दुःखता ? सुखानुभवात् सुख-संस्काराशयो दुःखानुभवाद् अपि दुःख-संस्काराशयैति।ेवं कर्मभ्यो विपाकेऽनुभूयमाने सुखे दुःखे वा पुनः कर्माशय-प्रचय इति ।
एवम् इदम् अनादि-दुःख-स्रोतो विप्रसृतं योगिनम् एव प्रतिकूलात्मकत्वाद् उद्वेजयति । कस्मात् ? अक्षि-पात्र-कल्पो हि विद्वान् इति । यथोर्णा-तन्तुर् अक्षि-पात्रे न्यस्तः स्पर्शेन दुःखयति न चान्येषु गात्रावयवेषु, एवम् एतानि दुःखान्य् अक्षि-पात्र-कल्पं योगिनम् एव क्लिश्नन्ति, नेतरं प्रतिपत्तारम् । इतरं तु स्व-कर्मोपहृतं दुःखम् उपात्तम् उपात्तं त्यजन्तं, त्यक्तं त्यक्तम् उपाददानम्, अनादि-वासना-विचित्रया चित्त-वृत्त्या समन्ततोऽनुविद्धम् इवाविद्यया हातव्य एवाहङ्कार-ममकारानुपातिनं, जातं जातं बाह्याध्यात्मिकोभय-निमित्तास् त्रि-पर्वाणस् तापा अनुप्लवन्ते । तद् एवम् अनादिना दुःख-स्रोतसा व्यूह्यमानम् आत्मानं भूत-ग्रामं च दृष्ट्वा, योगी सर्व-दुःख-क्षय-कारणं सम्यग्-दर्शनं शरणं प्रपद्यतैति ।
गुण-वृत्त्य्-अविरोधाच् च दुःखम् एव सर्वं विवेकिनः [२.१५] । प्रख्या-प्रवृत्ति-स्थ इति-रूपा बुद्धि-गुणाः परस्परानुग्रह-तन्त्री-भूय शान्तं घोरं मूढं वा प्रत्ययं त्रिगुणम् एवारम्भन्ते । चलं च गुण-वृत्तमिति क्षिप्र-परिणामि चित्तम् उक्तम् । "रूपातिशया वृत्त्य्-अतिशयाश् च परस्परेण विरुद्ध्यन्ते । सामान्यानि त्व् अतिशयैः सह प्रवर्तन्ते ।"एवम् एते गुणा इतरेतराश्रयेणोपार्जित-सुख-दुःख-मोह-प्रत्ययाइति सर्वे सर्व-रूपा भवति । गुण-प्रधान-भाव-कृतस् त्व् एषां विशेषैति । तस्माद् दुःखम् एव सर्व-विवेकिनैति ।
तद् अस्य महतो दुःख-समुदायस्य प्रभव-बीजम् अविद्या । तस्याश् च सम्यग्-दर्शनम् अभाव-हेतुः ।
यथा चिकित्सा-शास्त्रं चतुर्-व्यूहं—रोगो रोग-हेतुर् आरोग्यं भैषज्यम् इति । एवम् इदम् अपि शास्त्रं चतुर्-व्यूहम् एव । तद् यथा—संसारः संसार-हेतुर् मोक्षो मोक्षोपाय इति । तत्र दुःख-बहुलः संसारो हेयः । प्रधान-पुरुषयोः संयोगो हेय-हेतुः । संयोगस्यात्यन्तिकी निवृत्तिर् हानम् । हानोपायः सम्यग्-दर्शनम् ।
तत्र हातुः स्वरूपम् उपादेयं वा हेयं वा न भवितुम् अर्हति । हाने तस्योच्छेद-वाद-प्रसङ्गः, उपादाने च हेतु-वादः । उभय-प्रत्याख्याने च शाश्वत-वाद इत्य् एतत् सम्यग्-दर्शनम् ॥१५॥
तत्त्व-वैशारदी : यद्यपिन पृथग्-जनैः प्रतिकूलात्मतया विषय-सुख-काले संवेद्यते दुःखं, तथापि तत् संवेद्यते योगिभिरिति प्रश्न-पूर्वकं तद्-उपपादनाय सूत्रम् अवतारयति—कथं तद् उपपद्यते ?इति । परिणाम-इत्य् आदि सूत्रम् ।
परिणाम-दुःखतया विषय-सुखस्य दुःखताम् आह—सर्वस्यायमिति । न खलु सुखं रागानुवेधम् अन्तरेण सम्भवति । न ह्य् अस्ति सम्भवो न तत्र तुष्यति, तच् च तस्य सुखमिति । रागस्य च प्रवृत्ति-हेतुत्वात् प्रवृत्तेश् च पुण्यापुण्योपचय-कारित्वात् तत्रास्ति रागजः कर्माशयः, असतोऽनुपजननात् । तथा च सुखं भुञ्जानस् तत्र सक्तोऽपि विच्छिन्नावस्थेन द्वेषेण द्वेष्टि दुःख-साधनानि । तानि परिहर्तुम् अशक्तो मुह्यति चैति द्वेष-मोह-कृतोऽप्य् अस्ति कर्माशयः । द्वेषवन् मोहस्यापि विपर्ययापर-नाम्नः कर्माशय-हेतुत्वम् अविरुद्धम् ।
ननु कथं रक्ता द्वेष्टि मुह्यति वा, राग-समये द्वेष-मोहयोर् अदर्शनात् ? इत्य् अत आह—तथा चोक्तमिति । विच्छिन्नावस्थान् क्लेशान् उपपादयद्भिर् अस्माभिः । तद् अनेन वाङ्-मनस-प्रवृत्ति-जन्मनी पुण्यापुण्ये दर्शिते । रागादि-जन्मनः कर्तव्यम् इदमिति मानसस्य सङ्कल्पस्य साभिलाषत्वेन वाचनिकत्वस्याप्य् अविशेषात् । यथाहुः—साभिलाषश् च सङ्कल्पो वाच्यार्थान् नातिरिच्यते[?]इति ।
शारीरम् अपि कर्माशयं दर्शयति—नानुपहत्यैति । अत एव धर्म-शास्त्र-काराः पञ्चसूना गृहस्थस्य[मनु ३.६८] इत्य् आहुः । स्याद् एतत्, न प्रत्यात्म-वेदनीयस्य विषय-सुखस्य प्रयाख्यानम् उचितं योगिनाम् अनुभव-विरोधाद् इत्य् अत आह—विषय-सुखंचाविद्येत्य् उक्तम् । चतुर्विध-विपर्यास-लक्षणाम् अविद्यां दर्शयद्भिरिति । नापात-मात्रम् आद्रियन्ते वृद्धाः । अस्ति खल्व् आपाततो मधु-विश-सम्पृक्तान्नोपभोगेऽपि सुखानुभवः प्रत्यात्म-वेदनीयः । किं त्व् आयत्याम् असुखम् । इयं च दर्शिता भगवतैव—
विषयेन्द्रिय-संयोगाद् यत् तद्-अग्रेऽमृतोपमम् ।
परिणामे विषम् इव तत् सुखं राजसं स्मृतम् ॥[गीता १८.३८]इति ।
चोदयति—या भोगेष्विति । न वयं विषय-ह्लादं सुखम् आतिष्ठामहे, किं त्व् अतृप्यतां पुंसां तत्-तद्-विषय-प्रार्थना-परिक्लिष्ट-चेतसां तृष्णैव महद् दुःखम् । न चेयम् उपभोगम् अन्तरेण शाम्यति । न चास्याः प्रशमो रागाद्य्-अनुविद्धैति नास्य परिणाम-दुःखतेति भावः । तृप्तेस् तृष्णा-क्ष्याद् धेतोर् इन्द्रियाणाम् उपशान्तिर् अप्रवर्तनं विषयेष्व् इत्य् अर्थः । एतद् एव व्यतिरेक-मुखेन स्पष्टयति—या लौल्यादिति ।
परिहरति—न चेन्द्रियाणामिति । हेताव् अनोः प्रयोगः । सत्यं तृष्णा-क्षयः सुखम् अनवद्यम् । तस्य तु न भोगाभ्यासो हेतुः, अपि तु तृष्ण्॑या एव तद्-विरोधिन्याः । यथाहुः—
न जातु कामः कामानाम् उपभोगेन शाम्यति ।
हविषा कृष्ण-वर्त्म् एव भूय एवाभिवर्धते ॥[वि.पु. ४.१०.२३]इति ।
शेषम् अतिरोहितम् ।
ताप-दुःखतां पृच्छति—अथ काइति । उत्तरं—सर्वस्यैति । सर्व-जन-प्रसिद्धत्वेन तत्-स्वरूप-प्रपञ्चम् अकृत्वा ताप-दुःखतापि परिणाम-दुःखता-समतया प्रपञ्चितेति ।
संस्कार-दुःखतां पृच्छति—काइति । उत्तरं—सुखेति । सुखानुभवो हि संस्कारम् आधत्ते, स च सुख-स्मरणं, तच् च रागं, स च मनः-काय-वचन-चेष्टां, सा च पुण्यापुण्ये, ततो विपाकानुभवः, ततो वासना इत्य् एवम् अनादितेति । अत्र च सुख-दुःख-संस्कारातिशयात् तत्-स्मरणं, तस्माच् च राग-द्वेषौ, ताभ्यां कर्माणि, कर्मभ्यो विपाकैति योजना ।
तद् एवम् दुःख-स्रोतः प्रसूतं योगिनम् एव क्लिश्नाति नेतरं पृथग्-जनम् इत्य् आह—एवम् इदम् अनादि- इति । इतरं तु... त्रि-पर्वाणस् तापा अनुप्लवन्तैति सम्बन्धः । आधिभौतिकाधिदैविकयोस् तापयोर् बाह्यत्वेनैकत्वं विवक्षितम् । चित्ते वृत्तिर् अस्या इत्य् अविद्या चित्त-वृत्तिस् तया हातव्य एव बुद्धीन्द्रिय-शरीरादौ दारापत्यादौ चाहङ्कार-ममकारानुपातिनमिति । तद् अत्र न सम्यग्-दर्शनाद् अन्यत् परित्राणम् अस्तीत्य् आह—तद् एवमिति ।
तद् एवम् औपाधिकं विषय-सुखस्य परिणामतः संस्कारस् ताप-संयोगाच् च दुःखत्वम् अभिधाय स्वाभाविकम् आदर्शयति—गुण-वृत्त्य्-अविरोधाच् चैति । व्याचष्टे—प्रख्या- इति । प्रख्या-प्रवृत्ति-स्थिति-रूपाबुद्धि-रूपेण परिणता गुणाः सत्त्व-रजस्-तमांसि परस्परानुग्रह-तन्त्राःशान्तं सुखात्मकं घोरं दुःखात्मकं, मूढं विषादात्मकम् एव प्रत्ययं सुखओपभोग-रूपम् अपि त्रिगुणम् आरम्भन्ते । न च सोऽपि तादृश-प्रत्यय-रूपोऽस्य परिणामः स्थिर इत्य् आह—चलं च गुण-वृत्तमिति क्षिप्र-परिणामि चित्तम् उक्तमिति ।
नन्व् एकः प्रत्ययः कथं परस्पर-विरुद्ध-शान्त-घोर-मूढत्वान्य् एकदा प्रतिपद्यते ? इत्य् अत आह—रूपातिशया वृत्त्य्-अतिशयाश् च परस्परेण विरुध्यन्तेइति । रूपाण्य् अष्टौ भावा धर्मादयः, वृत्तयः सुखाद्याः । तद् इह धर्मेण विपच्यमानेनाधर्मस् तादृशो विरुध्यन्ते । सामान्यानि त्व् असमुदाचरद्-रूपाण्य् अतिशयैः समुदाचरद्भिः सह अविरोधात् प्रवर्तन्तेइति ।
ननु गृह्णीम एतत् । उपादानाभेदाद् उपादानात्मकत्वाच् चोपादेयस्याप्य् अभेद इत्य् अर्थः । तत् किम् इदानीम् आत्यन्तिकम् एव तादात्म्यम् । तथा च बुद्धि-व्यपदेश-भेदौ न कल्प्येते इत्य् अत आह—गुण-प्रधान- इति । सामान्यात्मना गुण-भावोऽतिशयात्मना च प्राधान्यम् । तस्माद् उपाधितः स्वभावतश् च दुःखम् एव सर्व-विवेकिनैति ।
दुःखं च हेयं प्रज्ञावताम् । न च तन्-निदान-हानम् अन्तरेण तद् धेयं भवितुम् अर्हति । न चापरिज्ञातं निदानं शक्यं हातुमिति मूल-निदानम् अस्य दर्शयति—तद् अस्यैति । दुःख-समुदायस्य प्रभव उत्पत्तिर् यतस् तद् बीजम् इत्य् अर्थः । तद्-उच्छेद-हेतुं दर्शयति—तस्याश् चैति ।
इदानीम् अस्य शास्त्रस्य सर्वानुग्रहार्थं प्रवृत्तस्य तद्-विधेनैव शास्त्रेण सादृश्यं दर्शयति—यथाइति । चत्वारो व्यूहाः सङ्क्षिप्तावयव-रचना यस्य तत् तथोक्तम् ।
ननु दुःखं हेयम् उक्त्वा संसारं हेयम् अभिदधतः कुतो न विरोध इत्य् अत आह—तत्र दुःख-बहुलः । यत् कृत्वाऽविद्या संसारं करोति तद् अस्या अवान्तर-व्यापारं संसार-हेतुम् आह—प्रधान-पुरुषयोरिति । मोक्ष-स्वरूपम् आह—संयोगस्यैति । मोक्षोपायम् आह—हानोपायैति । केचित् पश्यन्ति हातुः स्वरूपोच्छेअ एव मोक्षः । यथाह—प्रदीपस्यैव निर्वाणं विमोक्षस् तस्य चेतसः[?]इति ।
अन्ये तु स-वासन-क्लेशम् उच्छेदाद् विशुद्ध-विज्ञानोत्पाद एव मोक्ष इत्य् आचक्षते । तान् प्रत्य् आह—तत्रैति । तत्र हानं तावद् दूषयति—हाने तस्यैति । न हि प्रेक्षावान् कश्चिद् आत्मोच्छेदाय यतते । ननु दृश्यन्ते तीव्र-मदोन्मीलित-सकल-सुखा दुःखमयीम् इव मूर्तिम् उद्वहन्तः स्वोच्छेदाय यतमानाः ? सत्यम्, केचिद् एव ते । न त्व् एवं संसारिणो विविध-विचित्र-देवाद्य्-आनन्द-भोग्-भागिनः । तेऽपि च मोक्षमाणा दृश्यन्ते । तस्माद् अपुरुषार्थ-प्रसक्तेर् न हातुह् स्वरूपोच्छेदो मोक्षोऽभुपेयः । अस्तु तर्हि हातुः स्वरूपम् उपादेयम् इत्य् अत आह—उपादानेच हेतु-वादःिति । उपादाने हि कार्यत्वेनानित्यत्वे सति मोक्षत्वाद् एव च्यवेत् । अमृतत्वं हि मोक्षः । नापि विशुद्धो विज्ञान-सन्तानो भवत्य् अमृतः, सन्तानिभ्यो व्यतिरिक्तस्य सन्तानस्य वस्तु-सतोऽभावात् । सन्तानिनां चानित्यत्वात् । तस्मात् तथा यतितव्यं यथा शाश्वत-वादो भवति । तथा च पुरुषार्थतापवर्गस्येत्य् आह—उभय-प्रत्याख्यानेइति । तस्मात् स्वरूपावस्थानम् एवात्मनो मोक्ष इत्य् एतद् एव सम्यग्-दर्शनम् ॥१५॥
योग-वार्तिकम् : सूत्रान्तरम् अवतारयितुं सुखस्यापि ज्ञानि-दृष्ट्या दुःखत्वेन हेतुं पृच्छति—कथमिति । तद्-उपपादकतयोत्तर-सूत्रम् अवतारयति—तद् उपपद्यतैति ।
परिणाम-ताप-संस्कार-दुःखैर् गुण-वृत्त्य्-अविरोधाच् च दुःखम् एव सर्वं विवेकिनः ॥ परिणामश् च तापश् च संस्कारश् च तज्-जानि दुःखानि तैः सम्बन्धात् तत्-कारणत्वातिति यावत् । तथा गुण-वृत्त्य्-अविरोधाच् चार्थतो दुःख-सम्भिन्नत्वाच् च प्रकृति-तत्-कार्य-सुखादिकं सर्वम् दुःखम् एव विवेकिनः सुख-दुःख-तत्त्व-साक्षात्कारिणो मतमिति वाक्यार्थः । प्रतिपदं च व्याख्या भाष्ये भविष्यति । एव-कारेण चानुकूलात्मक-सुख-रूपतया व्यच्छिन्ना । यद्यप्य् अयोगिनोऽपि दुःखम् एव सर्वं, तथापि स मूढत्वात् सुख-काले दुःखतया न जानाति, योगी तु सुख-कालेऽपि तस्य दुःखात्मकत्वं पश्यतीति प्रतिपादयितुं विवेकिन इत्य् उक्तम् ।
ननु सुख-साधनतया सुख-सम्भिन्नतया च सुखम् एव कथं सर्वं न भवतीति चेत् ? न, दुःखेषु बलवद्-द्वेषस्योक्तत्वात्, सामान्यतो बाहुल्यस्याप्य् अत्र नियमाकत्वाच वैशेष्यात् तद्-वाद[वे.सू. २.४.२२]इति न्यायात् । तद् उक्तं विष्णु-पुराणे—
कलत्र-पुत्र-मित्रार्थ-गृह-क्षेत्र-धनादिकैः ।
क्रियेत न तथा भूरि सुखं पुंसां यथाऽसुखम् ॥[वि.पु. ६.५.५६]इति ।
संसारे च सुखापेक्षया दुःख-बाहुल्यं जेगीष-व्यावट्य-संवादे व्यक्तीभविष्यतीति ।
तत्र परिणाम-दुःख-हेतुतया सुखस्यापि दुःखतां प्रतिपादयति—सर्वस्यायमिति । उत्सर्गतः सर्व-लोकस्य सुखानुभव-काले तत्र सुखे रागो जायते, रागाच् च सुखम् इदं मे स्थिरं भवतु परमेश्वर ! मा नश्यत्व् इत्य् आदि सङ्कल्पात्मको मान्सः कर्माशयो धर्माधर्म-रूपी भवति, कर्माशयाच् च जन्मादि-दुःखमिति प्राग् एवोक्तम् इत्य् अर्थः ।सुख-भोग-काले रागज-कर्माशयवत् द्वेष-मोहजोऽपि कर्माशयः परिणाम-दुःख-हेतुर् अस्तीत्य् आह—तथा च द्वेष्टिइति । तथा च सुख-भोग-काले तद्-विरोधितया दुःख-साधनानि द्वेष्टि सुख-भ्रंशे दुःखं मे मा भूत् शत्रुश् च मे नाश्यत्व् इत्य् आदि-रूपेण । तथा दुःख-साधनानि परिहर्तुम् अशक्ता मुह्यति चेत्य् अतो द्वेष-मोह-कृतोऽप्य् अस्ति कर्माशयः इत्य् अर्थः ।
तथा चोक्तमिति—सुखस्य रागानुविद्धत्वं च मयैवोक्तं सुखानुशायी रागः[२.७]इति सूत्रे, सुखाभिज्ञस्य[तत्रैव] इत्य् आदि-भाष्येणेत्य् अर्थः ।
मानस-कर्माशय-द्वारा सुखस्य परिणाम-दुःखत्वं प्रतिपाद्य शरीर-कर्माशय-द्वारापि त आह—नानुपहत्यैति । शारीरः कर्माशयैति । सुख-भोग-कालैति शेषः । एताभ्यां च मानस-शारीराभ्यां कर्माशयाभ्यां वाचनिकोऽपि कर्माशयः शापाशीर्वादज उपल-क्षणीयः । सुखस्यापि परिणाम-दुःख-सम्बन्धेन दुःखत्वेऽविद्या-सूत्रं प्रमाणीकृत्योपपादयति—विषय-सुखंच इत्य् आदिना ।
ननु सर्व-दुःखान्त एवेदं वक्तुम् उचितमिति चेत् ? न, सुखस्याविद्यात्वोपपादन-काल एव दृष्ट-द्वारापि परिणाम-दुःखम् उपदेष्टुम् आदाव् एव विषय-सुखस्याविद्यात्व-प्रतिपादनात् । अत्र च वक्ष्यमाण-पारमार्थिक-सुख-व्यावर्तनाय विषयेत्य् उक्तम् । अविद्या-विषय-पदार्थानां बुद्धि-मात्रतया सुखम् अविद्येत्य् अभेद-निर्देशः ।
भोगेन सुखं भवतीत्य् एवं-रूपा भोगज-दुःखे सुख-बुद्धिर् अविद्या, सा चाविद्या न तत्-सूत्रे विवेचिता । अतोऽत्र ताम् अविद्यां प्रतिपादयन्न् एव प्रकारान्तरेण परिणाम-दुःखं दर्शयति—या भोगेष्विति । तत्रादौ परमार्थिके सुख-दुःखे कथयति—तद् दुःखम् इत्य् अन्तेन ।
अयं भावः—विषय-सुखं पारमार्थिक-सुखं न भवति, दुःख-बहुलत्वेन दुःख-सम्भिन्नत्वेन च विवेकिनां निरुपधि-प्रियत्वाभावात् । सुखानुशायी रागैति सूत्रानुसारेण निरुपधि-प्रियत्वस्यैव सुख-लक्षणत्वादिति । अतः शान्तिश् चित्तस्य व्यापारोपरमस् तन्-निमित्तिका दुःख-निवृत्तिरिति यावत् । सैव पारमार्थिकं सुखं, सुखं दुःख-सुखात्यय[भा.पु. ११.१९.४१]इति स्मरणात् । तृष्णादि-दुःखासम्भिन्नतया विशेष-दर्शिनाम् अपि निरुपधि-प्रियत्वाच् च । तस्य च साधनं भोगेष्व् इन्द्रियाणां तृप्तिर् इच्छा-विच्छेद एव । तथा च श्रुतिः— इति । स्मृतिश् च—स एको ब्रह्मण आनन्दः श्रोत्रियस्य चाकाम-हतस्य[तै.उ. २.८]इति । स्मृतिश् च—न चाभावयतः शान्तिर् अशान्तस्य कुतः सुखम्[गीता २.६६]इति ।
अत्र विषय-सुख-शब्देन चित्तस्य शान्ति-निमित्तिकाह्लादोऽपि गृहीतः, तस्यापि दुःख-सम्भिन्नत्वेन दुःखत्वस्याविद्या-लक्षणे विवक्षितत्वादिति ।
या लौल्यादिति । या चेन्द्रियाणां लौल्याद् भोग-तृष्णातश् चित्तस्यानुपशान्तिर् वृत्ति-चाञ्चल्यं तद् दुःखम् दुःख-बाहुल्यतो विवेकिभिर् हेयत्वाद् इत्य् अर्थः । सुख-दुःखयोस् तत्-साधनयोश् चैवं निर्णये सति विषय-सुखस्य तत्-साधन-भोगस्याविद्यकम् एव सुखत्वं तत्-साधनत्वं च लब्धम् । अतश् च विषय-सुखस्य परिणाम-दुःखत्वम् इत्य् एतत्-प्रघट्टकेनाह—न चेन्द्रियाणाम् इत्य् आदिना, मग्न इत्य् अन्तेन ।
भोगाभ्यासम् अनुइति ।
न जातु कामः कामानाम् उपभोगेन शाम्यति ।
हविषा कृष्ण-वर्त्म् एव भूय एवाभिवर्धते ॥[वि.पु. ४.१०.२३]इति ।
वृश्चिक- इति । वृश्चिक-विष-भीतः कामादि-क्षुद्र-दुःख-भीतस् तन्-निवृत्त्याख्य-सुखार्थी स्त्री-पुत्रादि-मय-महा-दुःख-सर्पैर् दष्टैति दृष्टान्तार्थः । विषयानुवासितैति परिणाम-दुःख-पङ्क-मग्नतायां हेतुर् उक्तः । विषय-संस्कार-संस्कृत इत्य् अर्थः । परिणाम-दुःखम् उपसंहरन्न् एव विवेकिनैति विशेषण-व्यावर्त्यम् आह—एषा परिणाम- इति । दुःखता दुःख-समूहो जनतेतिवत्१२७ । प्रतिकूला द्वेष्या,, सुख-कालेऽपि योगिनम् एव क्लिश्नाति दुःखाकरोतीत्य् अर्थः । भूते पश्यन्ति वर्वराः१२८ इति न्यायेनायोगिनं परिणाम-काल एव विषय-सुखं दुःखाकरोति, योगिनं तु स्व-काल एवानर्थ-हेतुता-दर्शनेन दुःखाकरोतीति भावः ।
क्रम-प्राप्तं ताप-दुःखं व्याख्यातुं पृच्छति—अथ काइति । तापो दुःखम् किं ताप-जन्य-दुःख-सामान्यम् इत्य् अर्थः । उत्तरं—सर्वस्यैति । पूर्ववद् व्याख्येयम् । पूर्वं सुखानुभवो रागानुविद्ध उक्त इदानीं च दुःखानुभवो द्वेषानुविद्ध उच्यते इत्य् एव विशेषैति ।
स कर्माशयैति । सन्ताप-कालीनः कर्माशयो द्वेषेणेव राग-मोहाभ्याम् अपि पूर्ववन् मानसो भवतीत्य् अर्थः । मानसं परिस्पन्दनं यद् उक्तं तत् कायिक-हिंसार्थम् एव, न तु स्वातन्त्र्येण मानस-कर्माशय-हेतुर् अतो न पौनरुक्त्यम् । यद्यपि ताप-दुःखतायाम् अपि परिणाम-दुःखतैवात्र प्रदर्श्यते, तथापि पूर्व-काल उत्तर-काले च सर्वदैव दुःखत्वात् तापज-दुःखस्य परिणाम-दुःखात् पृथङ्-निर्देशः । अतः परिणामाद् दुःखमिति बोध्यम् ।
क्रम-प्राप्तं संस्कार-दुःखं व्याख्यातुं पृच्छति—का पुनःिति । सुख-दुःख-संस्कार-जन्य-दुःख-सामान्यम् इत्य् अर्थः । सुखानुभवातिति । अत्रेयं प्रक्रिया—आदौ सुख-दुःखानुभैस् तत्-संस्काराशयोऽनुद्बुद्ध-संस्कारः, ततः कालादि-विशेषैस् तद्-उद्बोधः, ततः स्मृतिः, ततो राग-द्वेषौ, तयोश् च प्रवृत्तिः, ततश् च पुनर् दुःखमिति । ज्ञान-संस्काराद् दुःखं प्रतिपाद्य धर्माधर्म-रूपात् कर्म-संस्काराद् अपि दुःखं प्रतिपादयति—एवं कर्मभ्यैति । सुख-दुःख-रूपे विपाक इत्य् अन्वयः ।
नन्व् इयम् अपि परिणाम-दुःखतैवेति चेत् ? सत्यं, तथापि संस्कार-परम्पराया अनन्त-दुःख-प्रतिपादनाय गो-बलीवर्द-न्यायेन१२९अस्य दुःखस्य पृथग्-उपन्यासो बोध्यः ।
विवेकिन इति विशेषणस्याभिप्रायं विस्तरतः सकल-दुःख-साधारणम् आह—एवम् इदमिति । स्वाभाविकतयाऽनन्तत्व-लाभायानादीत्य् उक्तं स्रोतसो विशेषणं विप्रसृतम् इति। विस्तीर्णम् इत्य् अर्थः ।
अक्ष्णः पात्रेणाधारेण गोलकेन तुल्यो विद्वान् इत्य् उक्तं विवृणोति—यथोर्णा- इति । एतानि भावि-दुःखानीतरम् अयोगिनं प्रतिपत्तारं शब्दादिना परिणाम-दुःख-ज्ञातारम् अप्य् अविद्वांसम् इत्य् अर्थः । इतरं तु वर्तमान-काल एव क्लिश्नन्तीत्य् आह—इतरं त्विति । इतरं तु योगिनं त्रि-पर्वाणस् तापा अनु स्वोत्पत्त्य्-अनन्तरम् एव प्लवन्ते व्याप्नुवन्तीत्य् अन्वयः, न तु पूर्वमिति शेषः । आधिभौतिकाधिदैविकाध्यात्मिक-रूपाणि पर्वाणि येषां तापानां ते तथा । त्रि-पर्वत्वं हेतु-गर्भ-विशेषणम् । बाह्य- इति । बाह्य-शब्देनाधिभौतिकाधिदैविकयोर् ग्रहणं, इतरस्य विशेषणान्तरम् अनादीत्य्-आदि । अनुपातिनम् इत्य् अन्तम् । अनादि-वासनाभिर् विचित्रया नाना-रूपया चित्त-वृत्त्या चित्त-निष्ठयाविद्ययानुविद्धं लिप्तम् इव, अत एव हातव्येऽपि देहेन्द्रियादाव् अहङ्कार-ममकारवन्तम् इवेत्य् अर्थः । आत्मनोऽविद्यास्मिताद्य्-अभाव-प्रतिपादनाय इवेत्य्-आद्य्-उक्तम् । शेषम् अतिरोहितम् । परिणामादि-दुःख-त्रयस्य साचिनो ज्ञानेन यत् फलं तद् अपि प्रसङ्गाद् आह—तद् एवमिति । सुगमम् ।
गुण-वृत्त्य्-अविरोधाच् चेति हेतुं व्याख्यातु-कामो योजयति—गुणेति । गुणानां सत्त्वादीनां ये वृत्त्य्-अतिशयास् तेषाम् एव विरोध एकदानवस्थानं न तु न्यूनाधिक-भावेन वृत्तीनां विरोधोऽस्ति, अतः प्राधान्येन सत्त्व-परिणामे सुखात्मक-चित्त-वृत्ताव् अपि तद्-उपसर्जनतया रजोऽंश-परिणाम-भूतंदुःखम् अप्य् अल्पम् अस्त्य् एवेति दुःख-सम्भिन्नत्वात् सर्वं सुखाद्य् अपि दुःखम् एव विवेक-दृष्ट्येति तस्य दलस्यार्थः ।
गुण-वृत्ति-विरोधादिति प्रामाणिक-पात्ःे तु गुण-वृत्त्य्-अतिशयस्यैव विरोधाद् इत्य् अर्थः । तद् एतद् व्याचष्टे—प्रख्या-प्रवृत्ति- इति । प्रख्या प्रकाशः । प्रवृत्तिः क्रिया । स्थितिः स्तम्भः । धर्म-धर्म्य्-अभेदात् तद्-रूपा सत्त्वादयो बुद्धि-रूपेण परिणता गुणाःपरस्पर-साहाय्याः सन्तः शान्त्य्-आदि-रूपं प्रत्ययं वृत्तिं त्रिगुणम् सुख-दुःख-मोहवन्तम् एवारभन्ते, सुखादीनां सत्त्वादि-कार्यत्वात् यः कश्चन प्रत्ययह् शान्तो वा घोरो मूढो वा भवति, स सर्वोऽपि त्रिगुण एव नैकैक-मात्र-गुण इत्य् अर्थः । शान्तादि-परिभाषा-त्रयं च सुख-दुःख-मोहाधिक्य-मात्रेणेति । तथा च सुखवत्य् अपि प्रत्यये दुःखम् अस्त्य् एव । अत एक-प्रत्ययोपादानत्वेन सुखेऽपि दुःखस्याविभाग-लक्षणाभेओ हरीतक्याम् इव षण्णां रसानामिति । प्रत्ययश् च बुद्धेर् वृत्तिः प्रदीप-शिखावत् बुद्धेः शिखा द्रव्य-रूपा, भाग-गुणाभ्यां तत्त्वान्तरं वृत्तिः सम्बन्धार्थं सर्पति[सा.सू. ५.१०७] इति साङ्ख्य-सूत्रात्, अतः प्रत्ययस्य सुखादि-गुणवत्ता घटतैति ।
ननु सुख-काले सूक्ष्मो दुःखात्मको रजः-परिणामो नियमेन भवतीत्य् अत्र किं मानम् ? तत्राह—चलं चैति । प्रदीपावयवानाम् इव बुद्ध्य्-अवयवानां गुणानां क्रिया चञ्चला प्रतिक्षणम् अन्यान्या भवति, न तु निर्व्यापारा गुणास् तिष्ठन्ति, अतस् तान्त्रिकैश् चित्तं क्षिप्र-परिणाम्य् उक्तम् इत्य् अर्थः । यद्यपि सर्वं जड-वस्तु पर्तिक्षण-परिणामि, तथापि स्पष्टत्वाभिप्रायेण चित्तमिति विशेष-वचनम् । तथा च चित्त-गतस्य सत्त्वस्य वृत्ति-काले रजसो वृत्तिर् आवश्यकीति भावः ।
नन्व् एक एव प्रत्ययः कथं विरुद्ध-सुखादि-त्रयात्मकः स्यात् ? तत्राह—रूपातिशयाइति । बुद्धे रूपाण्य् अष्टौ भावा धर्मादयो धर्म-ज्ञान-वैराग्यैश्वर्याधर्माज्ञानावैराग्यानैश्वर्याणि, वृत्तयश् च द्रव्य-रूपाः शान्तादि-नामकाः परिणामास् तेषाम् अतिशया उतर्षा एव परस्परं विरुध्यन्ते । यदा धर्म उत्कृष्यते, तदा नाधर्म उत्कृष्यते, एवं यदा ज्ञानादि तदा नाज्ञानादि, तथा शान्ताद्य्-उत्कर्ष-काले घोराद्य्-उत्कर्षश् च विरुध्यते, सामान्यानि त्व् अपकृष्टान्य् अतिशयैः सह प्रवर्तन्त एवेत्य् अर्थः ।
ननु भवतु चित्तस्य सुखात्मक-प्रत्यये दुःखत्वं सुखात्मकेषु शब्दादि-विषयेषु कुतो दुःखत्वं येन सर्वं दुःखं स्याद् इत्य् अत आह—एवम् एतेइति । यथा चित्तस्य प्रत्यया एवम् एव सर्वे पदार्थाः सर्व-रूपाः सुख-दुःख-मोह-धर्मका भवन्ति,अत एते गुणाः सत्त्वादयो घटादि-रूपेणापि परिणताः परस्पर-साहित्येनोत्पादित-सुख-दुःख-मोहात्मक-प्रत्यया इत्य् अर्थः । न हि विषय-गत-विशेषं विना विषय-सम्बन्ध-मात्रेण सुखाद्य्-आत्मक-चित्त-वृत्तिर् उदेतुम् अर्हति, अव्यवस्थापत्तेः । विषय-गत-विशेषस्य चित्त-गत-स्खादि-नियामकत्वे विशेषः सुखादि-रूप एव विषयेषु कल्प्यते, कार्यानुरूपस्यैव कारणस्य उचित्यात् । अतो विषयेऽपि सुखादि-धर्मान्तरं सुखादिवत् सिध्यतीति भावः ।
ननु सुख-दुःखे रूपादिवद् विषय-धर्मौ स्यातां मोक्षस् तु ज्ञान-रूपः कथं विषय-धर्मः स्यादिति चेत् ? न, अतस्मस् तद्-आकारता-मात्रस्यैव मोह-शब्दार्थत्वात् । तद् उक्तं मोक्ष-धर्मे—जगन्-मोहात्मकं विद्धि अव्यक्तं व्यक्त-संज्ञकम्[म.भा. १२.३०२.३६]इति ।
अपि च सर्व-कार्याणां सौभाग्य्-आत-त्रिगुणात्मक-महत्-तत्त्वस्य परिणामत्वाद् अपि मोहवत्त्वमिति ।
ननु सर्वे यदि सर्व-रूपास् तर्हि सर्वं सुखात्मकम् अपि स्यादिति न दुःखस्यापि हेयत्वं स्याद् इत्य् आशङ्कायाम् आह—गुण-प्रधान- इति । तथा च दुःख-बहुलतया दुःख-प्राधान्याद् दुःखम् एव सर्वम् इदं सुखं वैशेष्यत् तु तद्-वाद[वे.सू. २.४.२२]इति न्यायेनेति भावः ।
उपसंहरति—तस्मादिति । तस्मात् परिणामेत्य्-आदि सौत्र-हेतु-ज्ञानाद् इत्य् अर्थः । तद् एवम् अत्र ध्यानादेर् व्युत्थित-चित्तस्य योग-साधनं क्रिया-योगम् उक्त्वा तत्-फल-प्रसङ्गेन क्लेशास् तद्-धानोपायाश् च तेषां देयत्वाय दुःख-निदानत्वं दुःखं च प्रतिपादितम् ।
इदानीं सङ्क्षेपेणोक्तं समग्र-शास्त्रार्थं विस्तरेण सूत्रकारः पुनर् वदति सूत्र-जातैः शास्त्र-समाप्ति-पर्यन्तैः । तान्य् अवतारयितुं तेषां विषय-जातम् आदौ सामान्यतः सङ्कलय्य दर्शयति—तद् अस्यैति । तत् तस्माद् अस्य दृश्य-सामान्य-रूपस्य दुःख-समूहस्योत्पत्तेर् बीजं मुख्य-निमित्त-कारणम् अविद्या प्रथम-क्लेशः, तस्याश् चाविद्याया अत्यन्तोच्छेद-हेतुस् तत्त्व-ज्ञानम् ।
अतश् चिकित्सा-शास्त्रवद् इदं योग-शास्त्रं चतुर्-व्यूहं चत्वारो व्यूहा हेयादीनां राशयः प्रतिपाद्या अस्मिन्निति चतुर्-व्यूहम् इत्य् अर्थः । रोगादि-तुल्यत्वं प्रतिपादयन्न् एव तेषां व्यूहानां स्वरूपाण्य् आह—तत्र दुःख- इति । संसरत्य् अस्मिन्नितिसंसारोऽत्र प्रपञ्चः ।
ननु दुःखम् एव हेयमिति वक्ष्यति । तत् कथं संसारो हेय उच्यते ? तत्राह—दुःख-बहुलःिति । दुःख-बहुलत्वात् संसार एव दुःखम् इत्य् अर्थः ।
प्रधान- इति । नन्व् अविद्या दुःख-हेतुर् इत्य् उक्त्वात्र संयोगः कथं दुःख-हेतुः साध्यतैति चेत् ? व्यापार-कथनायेत्य् एव हि । अविद्या हि बुद्धि-पुरुष-संयोगाख्य-जन्म-द्वारैव दुःख-हेतुः, कार्य-कारणाभेदेन च सैव बुद्धिर् अत्र प्रधान-शब्दार्थः । द्रष्टृ-दृश्ययोः संयोगो हेय-हेतुर् [२.१७] इत्य्-आगामि-सूत्रादिति ।
संयोगस्यैति । उक्त-संयोगस्य आत्यन्तिकी निवृत्तिर् एव हानम् दुःख-हानमिति यावत्, तच्-चरम-कारणत्वाद् इत्य् अर्थः । हानोपायःिति । सम्यग्-दर्शनमिति । प्रकृति-पुरुष-विवेक-साक्षात्कारो दुःख-हानोपाय इत्य् अर्थः । असम्प्रज्ञात-योगस् त्व् आशुतर-मोक्षार्थम् एवापेक्ष्यत इत्य् आशयः । तेनायं योगो हानोपायतयात्र नोक्तः ।
ये तु नास्तिका मन्यन्ते—संयोग-हानं न मोक्षः, किन्तु चित्त-रूपस्यात्मनस् त्याग एव मोक्षः । किं चासंसारि-विज्ञान-सन्तानोच्छेदेन जीवन्मुक्त-विज्ञान-सन्तान-लाभ एव मोक्षैति तन्-मत-निरसन-पूर्वकं स्व-शास्त्रस्यैव सम्यग्-दर्शनत्वम् अवधारयति—तत्र हातुःिति । तत्र चतुर्व्यूह-मध्य आत्मनो हानम् उपादानं वा न पुरुषार्थ इत्य् अर्थः ।िति-शब्दस्य हेतु-वाद इत्य् अनन्तरम् अन्वयः ।
उक्तार्थे हेतुम् आह—हाने तस्यैति । तस्य हाने स्व-त्यागे हि त्वोच्छेद-वचनं प्रसज्येत मुख्य-त्यागस्य भेद१३० तन्त्रत्वेनात्मन्य् असम्भवात् । तच् चायुक्तं स्व-नाशस्य लोके पुरुषार्थत्वाद् इत्य् अर्थः । स्वयं मिर्यमाणोऽपि दुःख-हानार्थम् एवाग्नि-प्रवेशादौ प्रवर्तते, न तु स्व-नाशार्थम् इत्य् अर्थः । हेतु-वादःिति । हेतुः स्वरूपस्य स कारणता-वादः स्यात्, तथा च भाव-कार्यत्वेन विनाशित्व-प्रसङ्ग इत्य् अर्थः । उभय- इति । इत्य् अतो हानोपादानोभय-निषेधे स्वयं नित्यता-वाद एव परिशेषात् सिध्यतीति, अत एतद् एव यथोक्त-चतुर्व्यूह-शास्त्रं सम्यग् दृश्यतेऽनेनेति व्युत्पत्त्येत्य् अर्थः ॥१५॥
—o)0(o—
(२.१६)
तद् एतच् छास्त्रं चतुर्-व्यूहम् इत्य् अभिधीयते—
हेयं दुःखम् अनागतम् ॥१६॥
दुःखम् अतीतम् उपभोगेनातिवाहितं न हेय-पक्षे वर्तते । वर्तमानं च स्व-क्षणे भोगारूढमिति न तत्-क्षणान्तरे हेयताम् आपद्यते । तस्माद् यद् एवानागतं दुःखं तद् एवाक्षि-पात्र-कल्पं योगिनं क्लिश्नाति, नेतरं प्रतिपत्तारम् । तद् एव हेयताम् आपद्यते ॥१६॥
तत्त्व-वैशारदी :तद् एतच् छास्त्रं चतुर्व्यूहम् इत्य् अभिधीयते—हेयं दुःखम् अनागतम् ॥ अनागतम् इत्य् अतीत-वर्तमाने व्यवच्छिन्ने । तत्रोपपत्तिम् आह—दुःखम् अतीतमिति ।
ननु वर्तमानम् उपभुज्यमानं न भोगेनातिवाहितमिति कस्मान् न हेयम् इत्य् अत आह—वर्तमानं चेति । सुगमम् ॥१६॥
योग-वार्तिकम् : इदानीं वक्ष्यमाण-सूत्र-गणम् अवतारयति—तद् एतदिति । तद् एतच् छास्त्रं चतुर्व्यूहमिति क्रमेण अभिधीयते प्रतिपाद्यते सूत्रकारेणेत्य् अर्थः—हेयं दुःखम् अनागतम् ॥
अनागतमिति विशेषणस्य फलम् आह—दुःखम् अतीतम् इत्य् आदिना । अतिवाहितम् अतिक्रान्तम् अतः सिद्धतया तद्-धानं न पुरुषार्थः । तथा वर्तमानम् अपि स्व-सत्ता-काले भुज्यत एवेति त्वया वक्तुं न शक्यते, स्वोत्तरोत्पन्न-गुणेन च तृतीय-क्षणे स्वयम् एव नङ्क्ष्यतीति तद्-धानार्थः प्रयासो विफल इत्य् अर्थः ।
नन्व् एवम् अनागतस्यापि हेयत्वं न घटते, पर-चित्त-दुःखस्य स्व-चित्ते स्वत एवाभावात्, स्व-चित्त-वृत्तेश् चानागत-दुःखस्यावश्यं-भावित्वात् । अन्यथा सत्त्व-प्रमाणाभावादिति चेत् ? न, स्व-चित्तस्य इवानागत-दुःखस्य कारणोच्छेदेनानुत्पत्त्या हेयत्वाद् वर्तमान-लक्षणम् अप्राप्तस्याप्य् अनागत-दुःखस्य चित्त-नाशेन नाशात् कदाचिद् वर्तमानोऽपि चानागत-धर्मोऽनुमानात् सिध्यति सर्वं सर्वात्मकमितिभाष्य-कारेण तृतीय-पादे सर्वत्रैव परिणामि-वस्तुनि विकार-जनन-शक्तेः कार्यानागतावस्था-रूपाया जल-भूम्य्-आदि-दृष्टान्तैः शान्तोदिताव्यपदेश्य- [३.१४] इत्य्-आदि-सूत्रेऽनुमेयत्वादिति । शेषं पूर्व-सूत्रे व्याख्यात-प्रायम् ।
अस्माच् च सूत्राद् आत्यन्तिकी दुःख-निवृत्तिर् एव मोक्षैति सिद्धम् । अस्मिन् सूत्रे दुःखं मुख्यम् एव ग्राह्यं, मुख्य् अस्यैव स्वतो हेयत्वात्, तद्-धानं च समवाय-सम्बन्धेन१३१ । यद्यपि पुरुषे नित्य-सिद्धं, तथापि भोग्यतारूप-स्वत्व-सम्बन्धेन धनादीनाम् इव तद्-धानं न नित्य-सिद्धमिति तेन सम्बन्धेन तद्-धानं पुरुषार्थ इत्य् आशयः । तथा हि वक्ष्यति—तस्मिन् निवृत्ते पुरुषः पुनर् इदं ताप-त्रयं न भुङ्क्तेइति । तद् एतद् उतं साङ्ख्य-न्याययोः—त्रिविध-दुःखात्यन्त-निवृत्तिर् अत्यन्त-पुरुषार्थ[सां.सू. १.१]इति ।दुःखात्यन्त-विमोक्षोऽपवर्गः[न्या.सू. १.१.२२]इति च ।
यत् तु, आनन्दं ब्रह्मणो रूपं तच् च मोक्षे प्रतिष्ठितम्[?] इत्य् एवं-विध-वाक्य-जातं तद् दुःख-निवृत्त्य्-आख्य-सुख-परम् एव, तदानीम् अभोग्य-सुखस्यापुरुषार्थत्वात्, सुखं दुःख-सुखात्ययैति परिभाषया रूढि-बाधनाच् च१३२ ॥१६॥
—o)0(o—
(२.१७)
तस्माद् यद् एव हेयम् इत्य् उच्यते, तस्यैवकारणं प्रतिनिर्दिश्यते—
द्रष्टृ-दृश्ययोः संयोगो हेय-हेतुः ॥१७॥
द्रष्टा बुद्धेः प्रतिसंवेदी पुरुषः । दृश्या बुद्धि-सत्त्वोपारूढाः सर्वे धर्माः । तद् एतद् दृश्यम् अयस्कान्त-मणि-कल्पं, सन्निधि-मात्रोपकारि । दृश्यत्वेन स्वं भवति पुरुषस्य ,दृशि-रूपस्य स्वामिनः । अनुभव-कर्म-विषयताम् आपन्नम् अन्य-स्वरूपेण प्रतिलब्धात्मकम् । स्वतन्त्रम् अपि परार्थत्वात् परतन्त्रम् । तयोर् दृग्-दर्शन-शक्त्योर् अनादिर् अर्थ-कृतः संयोगो हेय-हेतुर् दुःखस्य कारणम् इत्य् अर्थः ।
तथा चोक्तम्—तत्-संयोग-हेतु-वर्जनात् स्याद् अयम् आत्यन्तिको दुःख-प्रतीकारः१३३ ।
कस्मात् ? दुःख-हेतोः परिहार्यस्य प्रतीकार-दर्शनात् । तद् यथा पाद-तलस्य भेद्यता, कण्टकस्य भेत्तृत्वं, परिहारःकण्टकस्य पादानधिष्ठानं पाद-त्राण-व्यवहितेन वाधिष्ठानम् । एतत् त्रयं यो वेद लोके, स तत्र प्रतीकारम् आरभमाणो भेदजं दुःखं नाप्नोति । कस्मात् ? त्रित्वोपलब्धि-सामर्थ्यादिति ।
अत्रापि तापकस्य रजसः सत्त्वम् एव तप्यम् । कथम् ?तपि-क्रियायाःकर्मस्थत्वात्, सत्त्वे कर्मणि तपि-क्रिया नापरिणामिनि निष्क्रिये क्षेत्रज्ञे । दर्शित-विषयत्वात् सत्त्वे तु तप्यमाने तद्-आकारानुरोधी पुरुषोऽनुतप्यतैति ॥१७॥
तत्त्व-वैशारदी : हेयम् उक्तम् । तस्य निदानम् उच्यते, द्रष्टृ-दृश्ययोः संयोगो हेय-हेतुः ॥
द्रष्टुः स्वरूपम् आह—द्रष्टाइति । चिति-च्छायापत्तिर् एव बुद्धेर् बुद्धि-प्रतिसंवेदित्वम् उदासीनस्यापि पुंसह् । नन्व् एतावतापि बुद्धिर् एवानेन दृश्येत, न दृश्येर् अञ्-छब्दादयोऽत्यन्त-व्यवहिता इत्य् अत आह—दृश्या बुद्धि-सत्त्व- इति । इन्द्रिय-प्रणालिकया बुद्धौ शब्दाद्य्-आकारेण परिणतायां दृश्यानां भवन्ति शब्दादयोऽपि धर्मा दृश्या इत्य् अर्थः ।
ननु तद्-आकारापत्त्या बुद्धिः शब्दाद्य्-आकारा भवतु । पुंसस् तु बुद्धि-सम्बन्धेऽभ्युप-गम्यमाने परिणामित्वम् । असम्बन्धे वा कथं तेषां बुद्धि-सत्त्वोपारूढानाम् अपि शब्दादीनां दृश्यत्वम् ? न हि दृशिनासंस्पृष्टं दृश्यं दृष्टम् इत्य् अत आह—तद् एतद् दृश्यम् इति ।
प्रपञ्चितम् इदम् अस्माभिः प्रथम-पाद एव, यथा चित्यासं पृक्तम् अपि बुद्धि-सत्त्वम् अत्यन्त-स्वच्छतया चिति-बिम्बोद्ग्राहितया समापन्न-चैतन्यम् इव शब्दाद्य् अनुभवतीति । अत एव च शब्दाद्य्-आकार-परिणत-बुद्धि-सत्त्वोपनीतान् सुखादीन् भुञ्जानः स्वामी भवति द्रष्टा, तादृशं चास्य बुद्धि-सत्त्वं स्वं भवति । तद् एतद् बुद्धि-सत्त्वं शब्दाद्य्-आकारवद् दृश्यम् अयस्कान्त-मणि-कल्पं पुरुषस्य स्वं भवति दृशि-रूपस्य स्वामिनः । कस्मात् ? अनुभव-कर्म-विषयताम् आपन्नम् यतः । अनुभवो भोगः, पुरुषस्य कर्म क्रिया, तद्-विषयतां भुज्यमानताम् आपन्नं यस्माद् अतः स्वं भवति ।
ननु स्वयं-प्रकाशं बुद्धि-सत्त्वं कथम् अनुभव-विषयः ? इत्य् अत आह—अन्य-स्वरूपेणैति । यदि हि चैतन्य-रूपं तेन प्रतिलब्धात्मकम् तस्मात् तद्-अनुभव-विषयः ।
ननु यस्य हि यत्र किञ्चिद् आयतते तत् तद्-अधीनम् । न च बुद्धि-सत्त्वस्य पुरुषम् उदासीनं प्रति किञ्चिद् आयततैति कथं तत् तन्त्रम् । तथा च न तस्य कर्मेत्य् अत आह—स्वतन्त्रम् अपि परार्थत्वात् परतन्त्रम् पुरुष-तन्त्रम् ।
नन्व् अयं दृग्-दर्शन-शक्त्योः सम्बन्धः स्वाभाविको वा स्यान् नैमित्तिको वा ? स्वाभाविकत्वे सम्बन्धिनोर् नित्यत्वाद् अशक्योच्छेदः सम्बन्धः । तथा च संसार-नित्यत्वम् । नैमित्तिकत्वे तु क्लेश-कर्म-तद्-वासनानाम् अन्तः-करण-वृत्तितया सत्य् अन्तः-करणं भावाद् अन्तः-करणस्य च तन्-निमित्तत्वे परस्पराश्रय-प्रसङ्गद् अनादित्वस्य च सर्गादाव् असम्भवाद् अनुत्पाद एव संसारस्य स्यात् । यथोक्तम्—
पुमान् अकर्ता येषां तु तेषाम् अपि गुणैः क्रिया ।
कथम् आदौ भवेत् तत्र कर्म तावन् न विद्यते ॥
मिथ्या-ज्ञानं न तत्रास्ति राग-द्वेषादयोऽपि वा ।
मनो-वृत्तिर् हि सर्वेषां न चोत्पन्नं मनस् तदा ॥
इति शङ्काम् अपनयति—तयोर् दृग्-दर्शन-शक्त्योर् अनादिर् अर्थ-कृतः संयोगो हेय-हेतुरिति । सत्यम् । न स्वाभाविकः सम्बन्धो, नैमित्तिकस् तु । न चैवम् आदिमान् । अनादि-निमित्त-प्रभवतया तस्याप्य् अनादित्वात् । क्लेश-कर्म-तद्-वासना-सन्तानश् चायम् अनादिः प्रतिसर्गावस्थायां च सहान्तः-करणेन प्रधान-साम्यम् उपगतोऽपि सर्गादौ पुनस् तादृग् एव प्रादुर्भवति, वर्षापाय इवोद्भिज्ज-भेदो मृद्-भावम् उपगतोऽपि पुनर् वर्षासु पूर्व-रूप इत्य् असकृद् आवेदितं प्राक्[१.१९] । भाविततया संयोगस्याविद्या कारणम्, स्थिति-हेतुतया पुरुषार्थः कारणम् । तद्-वशेन तस्य स्थितेः । तद् इदम् उक्तम् अर्थ-कृतैति ।
तथा चोक्तमिति पञ्च-शिखेन । तत्-संयोगो बुद्धि-संयोगः ।स एव हेतुर् दुःखस्य । तस्य विवर्जनात्स्याद् अयम् आत्यन्तिको दुःख-प्रतीकारः । अर्थात् तद्-अपरिवर्जने दुःखम् इत्य् उक्तं भवति ।
तत्रैवात्यन्त-प्रसिद्धं निदर्शनम् आह—तद् यथाइति । पाद-त्राणम् उपानत् ।
स्याद् एतत् । गुण-संयोगस् ताप-हेतुर् इत्य् उच्यमाने गुणानां तापकत्वम् अभ्युपेयम् । न च तपि-क्रियाया अस्त्य् आदेर् इव कर्तृ-स्थो१३४ भावो येन तप्यम् अन्यन् नापेक्षेत । न चास्यास् तप्यतया पुरुषः कर्म । तस्यापरिणामितया क्रिया-जनित-फल-शालित्वायोगात् । तस्मात् तपेस् तप्य-व्याप्तस्य तन्-निवृत्तौ निवृत्तिम् अवगच्छामो ज्वलन-विरहेणेव धूमाभावम् इत्य् अत आह—तत्रापि तापकस्यैति । गुणानाम् एव तप्य-तापक-भावः । तत्र मृदुत्वात् पादतलवत् सत्त्वं तप्यम् । रजस् तु तीव्रतया तापकमिति भावः ।
पृच्छति—कस्मादिति । सत्त्वम् एव तप्यम्, न तु पुरुषः । उत्तरं—तपि-क्रियायाःिति । तत् किम् इदानीं पुरुषो न तप्यते ? तथा चाचेतनस्यास् तु सत्त्वस्य तापः, किं नश् छिन्नम् इत्य् अत आह—दर्शित-विषयत्वात् सत्त्वे तु तप्यमाने तद्-आकारानुरोधी पुरुषोऽनुतप्यतैति । दर्शित-विषयत्वम् अनुताप-हेतुः । तच् च प्राग् व्याख्यातम् ॥१७॥
योग-वार्तिकम् : हेयस्य सूत्रं व्याख्याय क्रम-प्राप्त-हेय हेतु-प्रतिपादकं सूत्रम् अवतारयति—तस्माद् यद् एव हेयमिति । द्रष्टृ-दृश्ययोः संयोगो हेय-हेतुः ॥
द्रष्टृ-पदार्थम् आह—द्रष्टाइति । बुद्धेः प्रतिसंवेदनं, संवेदनस्य बुद्धि-वृत्तेः प्रतिबिम्बः । प्रतिध्वनिवद् इयं प्रयोगः । सोऽस्यास्तीति फलितार्थः । दृश्य-पदार्थम् आह—दृश्या बुद्धि-सत्त्व- इति । बुद्धि-सत्त्वस्यापि दृश्यत्वेनात्र विशेषणं विवक्षितम् । धर्माइति च बुद्ध्य्-आरूढत्वेन बुद्धि-धर्मत्वम् अभिप्रेत्योक्तं, न तु बुद्धि-कार्यत्वाभिप्रायेण, प्रधानादेर् अपि दृश्यत्वेन तत्-त्यागानौचित्यात् । उत्तर-सूत्रे प्रधानस्यैव मुख्यतो दृश्यत्व-वचनाच् च ।
यद्यपि बुद्ध्यारूढो भवन् पुरुषोऽपि दृश्यः, तथापि तस्य निर्दुःखतया तद्-दर्शनं न हेय-हेतुर् इत्य् आशयेनात्र दृश्य-मध्ये पुरुषं न गणयिष्यतीति । तथा च सुख-दुःख-मोहात्मक-दृश्यवत्या बुद्ध्या सह द्रष्टुः साक्षिणः काष्थाग्निवत् सम्बन्धो बन्धाख्यः पुरुषस्य दुःख-हेतुरिति सूत्रार्थः । न तु बुद्ध्य्-आरूढैर् दृश्यैर् द्रष्टुर् ज्ञान-रूपः संयोगो हेय-हेतुर् अत्र विवक्षितः । स्व-स्वामि-शक्त्योः स्वरूपोपलब्धि-हेतुः संयोगः [२.२३] इत्य् आगामि-सूत्रेणास्य संयोगस्य ज्ञान-हेतुत्वेनैव लक्षणीयत्वात्, न तु ज्ञान-रूपत्वेनेति । अस्माच् च सूत्राद् बुद्ध्यात्म-संयोगवत् घटाद्य्-आत्म-संयोगोऽपि भोग-हेतुर् बोध्यः । भोक्तृ-भोग्य-संयोगस्यैव सामान्यतो भोग-हेतुतया लाघवेनौचित्यात्, विषय-भोगे च बुद्ध्य्-अवच्छेदेन विषय-संयोगस्य हेतुत्वान् नातिप्रसङ्गैति ।
अस्य च संयोगस्य पुरुषार्थो हेतुरिति वक्त्रं सकल-पुरुषार्थवत्त्व-रूपं स्वत्वं बुद्धौ पुरुषस्य प्रतिपादयति—तद् एतदिति । न च तस्य हेतुर् अविद्येत्य् आगामि-सूत्रेणैव संयोगस्य कारणं वक्ष्यतैति नास्ति संयोग-कारणापेक्षेति वाच्यम्, अविद्याया अपि पुरुषार्थासमाप्ति-द्वारैव बन्ध-हेतुताया वक्ष्यमाणत्वातिति ।
तद् एतद् इत्य् आदेर् अयम् अर्थः—तद् बुद्धि-सत्त्वम् एतज्-जगद्-दृश्यं यत्रास्तीत्य् एतद् दृश्यम्, अतोऽयस्कान्तवत् संनिधि-मात्रेणोपकारितया स्वयं दृश्यतया च ज्ञान-मात्र-स्वरूपस्य स्वामिनः पुरुषस्य स्वम् आत्मीयं भवतीति ।
ननु बुद्धेः कथम् अन्यः स्वामी स्वीक्रियते, सैवापरतन्त्रा स्वयं द्रष्ट्री स्वार्थैव भवतु ? तत्राह—अनुभव-कर्म-इत्य् आदि । यतः कर्म-कर्तृ-विरोधेन स्व-दृश्यत्वानुपपत्त्यानुभवाख्यं यत् पुरुषस्य कर्म तद्-विषयताम् आपन्नं सद् एवान्य-रूपेण पुरुष-चैतन्येन प्रतिलब्धात्मकं सिद्ध-सत्ताकं, अन्य-रूपेणान्य-प्रयोजनेन लभ-स्थितिकं वातः स्वतन्त्रं पुरुषानाश्रितम् अपि परार्थत्वात् परतन्त्रं परस्य स्वम् इत्य् अर्थः ।
तद् एवं दृश्याख्य-भोग्यात्मकाखिल-पुरुषार्थस्य बुद्धि-निष्ठत्वे सिद्धे स एव पुरुषार्थोऽनागतावस्थो बुद्धि-पुरुषयोः संयोगे हेतुरिति वदन् सूत्र-वाक्यार्थम् आह—तयोरिति । तयोः स्व-स्वामिनोः । दृश्यतेऽनयेति दर्शनं बुद्धिः, अनादिश् चात्र प्रवाह—रूपेण पुरुषार्थ-कृतत्व-वचनात् ।
ननु पुरुषार्थ-संयोगाङ्गीकारे सत्य् अपरिणामित्व-भङ्गैति चेन् ? न, सामान्य-गुणातिरिक्त-धर्मोत्पत्तेर् एव व्यवहारानुसारेण परिणाम-शब्दार्थत्व्वधारणात्, घटाद्य्-असंयोगाद्यैर् आकाशस्य द्वितादिभिश् च पुरुषस्य परिणाम-व्यवहाराभावात्, पद्म-पत्र-स्थ-तोयेन पद्म-पत्र-स्थापरिणामासंयोगादि-श्रवणाच् च । संयोग-विभाग-सङ्ख्यादयस् तु द्रव्य-सामान्य-गुणा१३५इति । अपि च श्रुति-स्मृत्योः सुखादि-रूपाः परिणामा एव पुरुषे नाभ्युपगम्यन्ते, मनोऽन्वय-व्यतिरेकेण मनस्य् एव लाघवतस् तत्-कल्पनात् मनसोऽवच्छेदकत्वं परिकल्प्यान्यत्र तत्-कल्पने गौरवात् । संयोगादिकं प्रति तु द्रव्यत्वेनैव हेतुतया पुरुषस्यापि तत्-सम्भवात्, पुरुषस्य द्रव्यत्वं चानाश्रितत्वतः१३६ परिमाणतश् च सिद्धमिति । यद्यपि कारणावस्थ-बुद्धिः पुरुषस्य विभुः, तथापि तयोः संयोगः परिच्छिन्न-गुणान्तरावच्छेदेन सम्भवत्य् एव, महद्-आद्य्-अखिल-परिमाणानां त्रिगुण-संयोगं विनानुत्पत्तेः, स च संयोगजः संयोगः, न तु कर्मजः, अवयव-संयोगाद् अवयवि-संयोगवद् अवच्छेदकी-भूत-गुण-संयोगाद् एव विभुनोः संयोगोत्पत्तेः, भूतलस्य घट-संयोगेनघटावच्छिन्नाकाश-संयोगोत्पत्तिवत् ।
वैशेषिक-शास्त्रे विभुनोः संयोगश् च साक्षाद् एव निषिद्धः,१३७ न तु संयोगजः संयोगैति । यदि चात्मनः संयोग एव नास्तीति स्वीक्रियते, तर्हि प्रकृति-पुरुष-संयोगात् सृष्टिस् तद्-वियोगतश् च प्रलयैति श्रुति-स्मृति-सूत्राणि नोपपद्येरन् ।
न च भोक्तृ-भोग्य-योग्यतैवोपचारिकोऽत्र संयोगो वक्तव्यः, तस्याः स्व-स्वामि-भाव-रूपत्वेनानादितया कार्यत्वस्याञ्जसानुपपत्तेः । किं च तस्या अविनाशित्वे ज्ञान-नाश्यत्व-वचन-विरोधः, नाशित्वे परिणामः पुरुषस्य स्यादिति ।
ननु संयोग-स्वीकारे पुरुषस्यासंगताक्षतिरिति चेत्? न, पुष्कर-पत्रे पुरुष-दृष्टान्ते संयोग-सत्त्वेऽपि असङ्गताऽभ्युपगमात्, स्वाश्रय-विकार-हेतु-संयोगस्यैव सङ्गत्वात् । पुरुषे च तादृश-संयोगास्वीकारादिति । तस्मात् पुरुषार्थ-निमित्तको बुद्धि-पुरुषयोः संयोगो भवति, स एव च जन्म-रूपतया दुःख-हेतुरिति सिद्धम् । स च संयोग-विशेषः परमेश्वरस्य योगमाया योगीन्द्रैर् अप्य् अचिन्त्या श्रुति-स्मृति-गम्या न विशेषतस् तर्क-गोचरो भवति, यथा खलु नित्य-मुक्त असङ्गम् अविद्यादि-रहितं विभु-चिन्मात्रम् आत्मानं जीवजातम् ईश्वरो निबध्नाति । तथा चोक्तम्—
अचिन्त्याः खलु ये भावा न तांस् तर्केण योजयेत् ॥[म.भा. ६.६.११] इति ।
सेयं भगवतो माया यन् नयेन विरुध्यते ।
ईश्वरस्य विमुक्तस्य कार्पण्यम् उत बन्धनम् ॥[भा.पु. ३.७.९]इति ।
संयोगस्य दुःख-हेतुत्वे पञ्चशिखाचार्यस्य संवादम् आह—यथा चोक्तम् इत्य् आदिना, प्रतीकार इत्य् अन्तेन । तयोर् बुद्धि-पुरुषयोः संयोगो दुःख-हेतुस् तस्य परिवर्जनाद् अत्यन्तोच्छेदाद् दुःखस्यात्यन्तिकः प्रतीकार उच्छेदः स्याद् इत्य् अर्थः ।
नन्व् अनादि-काल-प्रवृत्तस्य दुःख-हेतु-संयोगस्योच्छेदो न शक्य-सम्भावन इत्य् आशयेन पृच्छति प्रसङ्गात् तच्-छक्यत्वम् अवधारयितुं—कस्मादिति । उत्तरम्—दुःख-हेतोःिति । परिहार्यस्य इत्य् अनेन प्रकृत्यादि-नित्य-व्यावृत्तिः । तथा च दुःख-हेतुत्व-नित्यत्व-लिङ्गेन संयोगस्य शक्योच्छेदकत्वम् अनुमेयम् इत्य् आशयः । दुःख-हेतोः प्रतीकार्यत्वे लौकिकम् उदाहरणम् आह—तद् यथाइति । भेद्यत्वं भेदज-दुःख-भागित्वं भेत्तृत्वं च भेद-द्वारा दुःख-हेतुत्वं पादानधिष्ठानं पादेनानारोहणं, पाद-त्राणम् उपानत्, तद्-व्यवहितेन वा पदा कण्टकस्यारोहणम् इत्य् अर्थः । एतत् त्रयं दुःखाश्रय-दुःख-हेतुअ-तत्परीहारोपाय-रूपम् इत्य् अर्थः । यो व्देत्य् अनेनैतत्-त्रय-ज्ञानस्य प्रतीकार-हेतुत्वं वदन्न् एतत् त्रयं मुमुक्षुभिर् ज्ञेयम् इत्य् अपि सूचितवान् ।
ननु तापो दुःखमिति पर्यायः, तथा च दृष्टान्ते यथा भेद्य-भेत्तृ-प्रतीकार-रूपं त्रितयम् अस्ति नैवं दार्ष्टान्तिके, तत्रैकस्य बुद्धेर् एव तप्यतापकोभय-रूपताभ्युपगमात् पुरुषस्य निर्दुःखत्वाद् इत्य् आक्षिपति—कस्मादिति । सिद्धान्तम् आह—त्रित्वोपलब्धीति । बाह्य-दुःख-स्थल उक्त-त्रयोपलब्धि-बलाद् अन्तर्-दुःख-स्थानेऽपि त्रय-सिद्धिरिति भावः ।
तस्य प्रकारम् आह—अत्रापिइति । अत्रापि दार्ष्टान्तिकेऽपि । अयं भावः—बुद्धेर् एकत्वेऽपि त्रिगुणात्मकत्वाद् अंश-त्रयम् अस्ति, तत्र रजोऽंशस् तापकः, सत्त्वांशस् तप्यो, बुद्धि-पुरुषयोर् वियोगश् च दुःख-प्रतीकारैति त्रयम् उपपन्नमिति ।
ननु पुरुष एव कथं न तप्यो भवतीत्य् आशयेन पृच्छति—कस्मादिति । सिद्धान्तम् आह—अत्रापीत्य्-आदिना क्षेत्रज्ञ इत्य् अन्तेन । कर्मस्थत्वात् कर्म-तन्त्रत्वात्, सकर्मकत्वादिति यावत् । कर्मत्वं च क्रिया-व्याप्यत्वं दुःख-व्याप्यत्वं वा परिणामिनि न सम्भवतीत्य् अर्थः । वृत्ति-व्याप्यत्वं तु विषयता-रूपम् अपरिणामिन्य् अपि सम्भवतीत्य् अतो ज्ञान-क्रिया-कर्मत्वं पुरुषस्योपपद्यतैति विशेषः । यच् च पुरुषस्य स्वज्ञेयत्वं तद् अपि स्व-प्रतिबिम्बित-बुद्धि-वृत्ति-व्याप्यत्वम् एवेति न तत्रापि परिणामापेक्षेति ।
नन्व् एवं कथं दुःख-निवृत्तिः पुरुषार्थः, पर-दुःखस्याहेयत्वात्, न च पुरुष-निष्ठत्व-भ्रमाद् दुःखं हेयं स्यादिति वाच्यम् ? विदुषाम् अपि दुःख-हानार्थम् असम्प्रज्ञातार्थितायाः स्वीकाराद् इत्य् आशङ्का समाधत्ते— दर्शित-विषयत्वात् इत्य् आदिना । पुरुषो यतो दर्शित-विषयो बुद्धि-सत्त्वेन निवेदित-विषयोऽतः सत्त्वे तप्यमाने प्रतिबिम्ब-रूपेण बुद्धि-सत्त्व-समानाकारो भवेन् न तु तपतैति मूढैर् दृश्यते अनुतप्यत इवेत्य् अर्थः । न हि स्वाकार-प्रतिबिम्बनातिरिक्त-विषय-निवेदनम् अपरिणामिनि सम्भवति, प्रतिपादितं चैतद् वृत्ति-सारूप्यम् इतरत्र[१.४]इति सूत्रे । तथा च प्रतिबिम्ब-रूपेण भोगाख्य-सम्बन्धेन विदुषाम् अपि दुःखस्य हेयत्वान् न पुरुषार्थासम्भव-दोषैति भावः । ये तु पुरुषस्य भोक्तृत्वम् अपि नेच्छन्ति, तेषाम् एवाधुनिक-वेदान्ति-ब्रुवाणाम् अयं दोषः ॥१७॥
—o)0(o—
(२.१८)
दृश्य-स्वरूपम् उच्यते—
प्रकाश-क्रिया-स्थिति-शीलं भूतेन्द्रियात्मकं
भोगापवर्गार्थं दृश्यम् ॥१८॥
प्रकाश-शीलं सत्त्वम् । क्रिया-शीलं रजः । स्थिति-शीलं तम इति । एते गुणाः परस्परोपरक्त-प्रविभागाः संयोग-विभाग-धर्माण इतरेतरोपाश्रयेणोपार्जित-मूर्तयः परस्पराङ्गाङ्गित्वेऽप्य् असम्भिन्न-शक्ति-प्रविभागाः, तुल्य-जातीयातुल्य-जातीय-शक्ति-भेदानुपातिनः । प्रधान-वेलायाम् उपदर्शित-सन्निधाना गुणत्वेऽपि च व्यापार-मात्रेण प्रधानान्तर्नीतानुमितास्तिताः पुरुषार्थ-कर्तव्यतया प्रयुक्त-सामर्थ्याः सन्निधि-मात्रोपकारिणोऽयस्कान्त-मणि-कल्पाः । प्रत्ययम् अन्तरेणैकतमस्य वृत्तिम् अनुवर्तमानाः प्रधान-शब्द-वाच्या भवन्ति । एतद् दृश्यम् इत्य् उच्यते ।
तद् एतद् भूतेन्द्रियात्मकं भूत-भावेन पृथिव्य्-आदिना सूक्ष्म-स्थूलेन परिणमते, तथेन्द्रिय-भावेन श्रोत्रादिना सूक्ष्म-स्थूलेन परिणमतैति । तत् तु नाप्रयोजनम्, अपि तु प्रयोजनम् उररीकृत्य प्रवर्ततैति भोगापवर्गार्थं हि तद् दृश्यं पुरुषस्येति । तत्रेष्टानिष्ट-गुण-स्वरूपावधारणम् अविभागापन्नं भोगः, भोक्तुः स्वरूपावधारणम् अपवर्गैति । द्वयोर् अतिरिक्तम् अन्यद् दर्शनं नास्ति ।
तथा चोक्तं—अयं तु खलु त्रिषु गुणेषु कर्तृष्व् अकर्तरि च पुरुषे तुल्यातुल्य-जातीये चतुर्थे तत्-क्रिया-साक्षिण्य् उपनीयमानान् सर्व-भावानुपपन्नान् अनुपश्यन्त दर्शनम् अन्यच् छङ्कतैति ।
ताव् एतौ भोगापवर्गौ बुद्धि-कृतौ बुद्धाव् एव वर्तमानौ कथं पुरुषे व्यपदिश्येतेइति ? यथा च जयः पराजयो वा योद्धृषु वर्तमानः स्वामिनि व्यपदिश्यते, स हि तत्-फलस्य भोक्तेति । एवं बन्ध-मोक्षौ बुद्धाव् एव वर्तमानौ पुरुषे व्यपदिश्येते, स हि तत्-फलस्य भोक्तेति । बुद्धेर् एव पुरुषार्थापरिसमाप्तिर् बन्धस् तद्-अर्थावसायो मोक्ष इति । एतेन ग्रहण-धारणोहापोह-तत्त्व-ज्ञानाभिनिवेशा बुद्धौ वर्तमानाः पुरुषेऽध्यारोपित-सद्भावाः, स हि तत्-फलस्य भोक्तेति ॥१८॥
तत्त्व-वैशारदी : प्रकाश-क्रिया-स्थिति-शीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम् ॥
व्याचष्टे—प्रकाशेति । सत्त्वस्य हि भागः प्रकाशस् तामसेन भागेन दैन्येन वा राजसेन वा दुःखेनानुरज्यते । एवं राजसादिष्व् अपि द्रष्टव्यम् । तद् इदम् उक्तम्—परस्परोपरक्त-प्रविभागाःिति । पुरुषेण सह संयोग-विभाग-धर्माणः । यथाम्नायते—
अजाम् एकां लोहित-शुक्ल-कृष्णां
बह्वीः प्रजाः सृजमानां स-रूपाः ।
अजो ह्य् एको जुषमाणोऽनुशेते
जहात्य् एनां भुक्त-भोगाम् अजोऽन्यः ॥[श्वे.उ. ४.५]
इतरेतरोपाश्रयेणोपार्जिता मूर्तिः पृथिव्य्-आदि-रूपा यैस् ते तथोक्ताः । स्याद् एतत्—सत्त्वेन शान्त-प्रत्यये जनयितव्ये रजस्-तमसोर् अपि सत्त्वाङ्गत्वेन तत्र हेतु-भावाद् अस्ति सामर्थ्यमिति। यदापि च रजस्-तमसोर् अङ्गित्वं तदापि शान्त एव प्रत्यय उदीयेत न घोरो मूढो वा सत्त्व-प्रधान इवेत्य् आह—परस्पराङ्गाङ्गित्वेऽप्य् असम्भिन्न-शक्ति-प्रविभागाः । भवतु शान्ते प्रत्यये जनयितव्ये रजस्-तमसोर् अङ्ग-भावः । तथापि नैषां शक्तयः सङ्कीर्यन्ते । कार्यासङ्करोन्नेयो हि शक्तीनाम् असङ्करः । असङ्कीर्णेन च समुदाचरता रूपेण शान्त-घोर-मूढ-रूपाणि कार्याणि दृश्यन्तैति सिद्धं शक्तीनांसम्भेदैति ।
स्याद् एतत्, असम्भेदश् चेच् छक्तीनां न सम्भूय-कारित्वं गुणानाम् । न जातु भिन्न-शक्तीनां सम्भूयकारित्वं दृष्टम् । न हि तन्तु-मृत्-पिण्ड-वीरणादीनि घटादीन् सम्भूअ कुर्वन्ति इत्य् अत आह—तुल्य-जातीयातुल्य-जातीय-शक्ति-भेदानुपातिनः । यद्यपि तुल्य-जातीय उपादान-शक्तिर् नान्यत्र, सहकारि-शक्तिस् त्व् अतुल्य-जातीये, घटे तु जनयितव्ये न वीरणानाम् अस्ति सहकारि-शक्तिर् अपीति न तैस् तन्तूनां सम्भूयकारितेति भावः । तुल्य-जातीयातुल्य-जातीयेषु शक्येषु ये शक्ति-भेआस् तान् अनुपतितुं शीलं येषां ते तथोक्ताः ।
प्रधान-वेलायामिति । दिव्य-शरीरे जनयितव्ये सत्त्वं गुणः प्रधानम् । अङ्गे रजस्-तमसी । एवं तिर्यक्-शरीरे जनयितव्ये तमः प्रधानम् अङ्गे सत्त्व-रजसी । तेनैते गुणाः प्रधानत्व-वेलायाम् उपदर्शित-सन्निधानाः कार्योपजननं प्रत्युद्भूत-वृत्तय इत्य् अर्थः । प्रधान-शब्दश् च भाव-प्रधानः । यथा द्व्य्-एकयोर् द्वि-वचनैक-वचने[पा. १.४.२२] इत्य् अत्र द्वित्वैकत्वयोरिति । अन्यथा द्व्य्-एकेष्विति स्यात्१३८ ।
ननु तदा प्रधानम् उद्भूततया शक्यम् अस्तीति वक्तुम् । अनुद्भूतानां तु तद्-अङ्गानां सद्-भावे किं प्रमाणम् इत्य् अत आह—गुणत्वेऽपि चैति । यद्यपि नोद्भूतास् तथापि गुणानाम् अविवेकित्वात् सम्भूय-कारित्वाच् च व्यापार-मात्रेण सहकारितया प्रधानेऽन्तर्णीतं सद्-अनुमितम् अस्तित्वं येषां ते तथोक्ताः ।
ननु सन्तु गुणाः सम्भूय-कारिणः समर्थाः । कस्मात् तत् पुनः कुर्वन्ति ? न हि समर्थम् इत्य् एव कार्यं जनयति, मा भूद् अस्य कार्योपजननं प्रति विराम इत्य् अत आह—पुरुषार्थ-कर्तव्यतयाइति । ततो निर्वर्तित-निखिल-पुरुषार्थानां गुणानाम् उपरमः कार्यानारम्भणम् इत्य् उक्तं भवति ।
ननु पुरुषस्यानुपकुर्वतः कथं पुरुषार्थेन प्रयुज्यत इत्य् अत आह—सन्निधि-मात्र- इति ।
ननु धर्माधर्म-लक्षणम् एव निमित्तं प्रयोजकं गुणानां, तत् किम् उच्यते पुरुषार्थ-प्रयुक्ता इत्य् अत आह— प्रत्ययम् अन्तरेणैति । एकतमस्य सत्त्वस्य रजस्-तमसो वा प्रधानस्य स्व-कार्ये प्रवृत्तस्य वृत्तिम् इतरे प्रत्ययं निमित्तं धर्मादिकं विनैवानुवर्तमानाः । यथा च वक्ष्यति—निमित्त-प्रयोजकं प्रकृतीनां वरण-भेदस् तु ततः क्षेत्रिकवत्[४.३]इति । एते गुणाः प्रधान-शब्द-वाच्या भवन्तीति सम्बन्धः । प्रधीयत आधीयते विश्वं कार्यम् एभिरिति व्युत्पत्तैतद् दृश्यम् उच्यते ।
तद् एवं गुणानां शीलम् अभिधाय तस्य कार्यम् आह—तद् एतदिति । सत्कार्य-वाद-सिद्धौ यद्-यद्-आत्मकं तत् तेन रूपेण परिणमतैति भूतेन्द्रियात्मकत्वं दीपयति—भूत-भावेन इत्य् आदिना । भोगापवर्त्गार्थमिति सूत्रावयवम् अवतारयति—तत् तु नाप्रयोजनम्, अपि तु प्रयोजनम् उररीकृत्य प्रवर्ततैति ।
भोगं विवृणोति—तत्रैति । सुख-दुःखे हि त्रिगुणाया बुद्धेः स्वरूपे तस्यास् तथात्वेन परिणामात् । तथापि गुण-गततयावधारणे न भोग इत्य् अत आह—अविभागापन्नमिति । एतच् चासकृद् विवेचितम् । अपवर्गं विवृणोति—भोक्तुःिति । अपवृज्यतेऽनेनेत्य् अपवर्गः । प्रयोजनान्तरस्याभावम् आह—द्वयोरिति ।
तथा चोक्तं पञ्चशिखेन—अयं तु खलुइति ।
ननु वस्तुतो भोगापवर्गौ बुद्धि-कृतौ बुद्धि-वर्तिनौ च कथं तद्-अकारणे तद्-अनधिकरणे च पुरुषे व्यपदिश्येते१३९ इत्य् अत आह—ताव् एताविति । भोक्तृत्वं च पुरुषस्योपपादितं, अग्रे च वक्ष्यते । परमार्थतस् तु बुद्धेर् एव पुरुषार्थापरिसमाप्तिर् बन्धैति । एतेन भोगापवर्गयोः पुरुष-सम्बन्धित्व-कथन-मार्गेण ग्रहणादयोऽपि पुरुष-सम्बन्धिनो वेदितव्याः । तत्र स्वरूप-मात्रेणार्थ-ज्ञानं ग्रहणम् । तत्र स्मृतिर् धारणम् । तद्-गतानां विशेषाणाम् ऊहनम् ऊहः । समारोपितानां च युक्त्यापनयोऽपोहः । ताभ्याम् एवोहापोहाभ्यां तद्-अवधारणं तत्त्व-ज्ञानम् । तत्त्वावधारण-पूर्वं हानोपादान-ज्ञानाभिनिवेशः ॥१८॥
योग-वार्तिकम् : इदानीं द्रष्टृ-दृश्य-संयोगानां त्रयाणाम् एव स्वरूपम् सूत्रकारो वक्ष्यति । तत्र दृश्य-रूप-प्रतिपादकं सूत्रम् अवतारयति—दृश्य-स्वरूपम् उच्यतेइति । अत्र पाठ-क्रम-वैपरीत्येनादौ दृश्य-कथनस्येदं बीजं दृशि-मात्र [२.२०] इत्य् आगामि-सूत्रे मात्र-शब्देनाखिल-दृश्य-भेदतो द्रष्टा प्रतिपादनीयः । तत्र च प्रतियोगिनां१४० दृश्यानां ज्ञानम् आदाव् अपेक्ष्यतैति । पूर्व-सूत्रे च प्राधान्याद् आदौ द्रष्टुर् उपन्यासैति बोध्यम् ।
प्रकाश-क्रिया-स्थिति-शीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम् ॥ प्रलये प्रकाशादि-कार्याभावाच् छील-पदोपादानम् । प्रकाशो सौभाग्य्-आदि-वृत्ति-रूपालोको भौतिकालोकश् च । क्रियायत्नश् चलनं च । स्थितिः प्रकाश-क्रियाभ्यां यथोक्ताभ्यां शून्यत्वं, तयोः प्रतिबन्धैति यावत् । तच्-छीलं गुण-त्रयमिति विशेष्य-पदम् अत्रोत्तर-सूत्रे गुण-पर्वाणीति विभाग-वचनाल् लभ्यते, अत एव भाष्य-कारैर् एते गुणाइति व्याख्यास्यन्ते।
तादृशेषु गुणेषु प्रमाणम् आह—भूतेति । भूतेन्द्रियात्मकं स्थूल-सूक्ष्म-रूपाणां भूतानां स्थूल-सूक्ष्म-रूपाणां चेन्द्रियानां कारणं तेन महद्-आद्य्-अखिल-कार्य-कारणत्वम् एव लब्धम् । तच् च गुणेषु । तेषां प्रकाशादि-रूपतायां च प्रमाणं त्रिगुणात्मकानां च जड-कार्याणां त्रिगुणात्मक-जड-कारणम् आह—भोगापवर्गार्थमिति । भोगापवर्ग-प्रयोजनवदिति सूत्रार्थः ।
नन्व् एवं गुण-त्रयस्यैव दृश्यत्वं प्राप्तं, न तु विकाराणामिति चेत् ? न, गुण-पर्वतयोत्तर-सूत्रेण तेषाम् अपि संग्राह्यत्वादिति ।
तद् एतत् सूत्रं व्याचष्टे—प्रकाश-शीलमिति । ननु सत्त्वादि-गुणा एव चेत् प्रकाशादि-शीला दृश्यत्वेनात्रोक्तास् तर्हि प्रकृत्य्-अवचनात् सूत्रकारस्य न्यूनता, तथा सत्त्वादि-गुणानाम् एव भूतेन्द्रियात्मकत्व-स्वीकारात् प्रकृति-सिद्धान्त-क्षतिर् वैयर्थ्याद् इत्य् आशङ्क्य गुणा एव प्रकृति-शब्द-वाच्याः, न तु तद्-अतिरिक्ता प्रकृतिर् अस्तीत्य् अवधारयति—एते गुणाःिति । सत्त्वादयो गुणा एते प्रकृति-शब्द-वाच्या भवन्ति, प्रधीयतेऽस्मिन् कार्य-जातम् इत्य् आदि व्युत्पत्त्या प्रधान-प्रकृत्य्-आदि-शब्दैर् उच्यन्त इत्य् अन्वयः ।
तथा च साङ्ख्य-सूत्रं—सत्त्वादीनाम् अतद्-धर्मत्वं तद्-रूपत्वात्[सां.सू. ६.३९]इति । सत्त्वादिषु गुणस्य ं च पुरुषोपकरणत्वात् तद्-बन्धकत्वाच् च, न तु प्रकाश-क्रियादिवत् पर-समवेतत्वाद्१४१इति भावः । प्रधान-शब्द-वाच्यत्वोपपादनाय गुणानाम् एव जगत्-कारणत्वानित्यत्वादिकं हेतु-गर्भ-विशेषणंैर् उपपादयति—परस्पर- इति । सत्त्वस्य प्रविभागोऽधिक-भागः स्वल्पाभ्यां च रजस्-तमोभ्याम् उपरक्तः संसृष्टः, एवं रजसस् तमस इत्य् एवं परस्परोपरक्त-प्रविभागाः, तथा संयोग-विभाग-धर्माणः परस्परं संयोग-विभागस्य भावाः । एतेन गुणानां द्रव्यत्वं सिद्धम्१४२ । तथा इतरेतर-साहाय्येनोत्पादितावयविनः कार्य-कारणाभेदेन चारम्भ-वादाद् विशेषः ।
ननु यदीतर-साहाय्येन सर्वे गुणाः सर्व-कार्य-कारणानि, तर्हि सत्त्वादेर् अपि क्रियादि-हेतुत्वेन स-क्रियत्वाद्य्-आपत्त्या प्रकाशादि-शक्ति-साङ्कर्यमिति ? तत्राह—परस्पराङ्गाङ्गित्वेऽपिइति । अन्योन्याङ्गाङ्गि-भावेनोत्पादितेऽपि द्रव्ये प्रकाश-गुणः सत्त्वस्यैव क्रिया-गुणो रजस एव स्थिति-गुणस् तमस एवेत्य् अतो न प्रकाश्॒दि-शक्ति-विभागस्य सम्भेदः संमिश्रणम् इत्य् अर्थः । तथा तुल्य-जातीयातुल्य-जातीय-शक्ति-भेदानुपातिनः सत्त्वादि-जात्या सजातीया विजातीयाश् च ये सहकारि-शक्ति-विशेषाः, तद्-अनुपातिनस् तेषाम् अविशेषेणोपष्टम्भक-स्वभावा इत्य् अर्थः । एतेन सत्त्वादीनि व्यक्ति-रूपेणानन्तानि, त्रिगुणत्वादि-व्यवहारस् तु सत्त्वत्वादि-जाति-मात्रेण वैशेषिकाणां नव-द्रव्य-व्यवहारवदिति सिद्धम् । अत एव लघुत्वादि-धर्मैर् अन्योन्यं साधर्म्यं वैधर्म्यं च गुणानां[सां.सू. १.१३८]इति साङ्ख्य-सूत्रेण सत्त्वादीनां साधर्म्य-वैधर्म्ये लघुत्वादि-रूपए प्रदर्शितेइति । तथा प्रधान-वेलायां स्व-स्व-प्राधान्य-कालेऽभिव्यक्त-सांनिध्या विकारेषु भवन्ति, तथा गुणत्वेऽपीतरोपसर्जनता-दशायाम् अपि व्यापार-मात्रेण तथा विषय-विधयायस्कान्त-मणिवच् चित्तस्याकर्षकाः । वक्ष्यति हि—अयस्कान्त-मणि-कल्पा विषया अयः-सधर्मकं चित्तम्[४.१७ भाष्य]इति ।
तथा प्रत्ययम् अन्तरेणाभिव्यक्तिं विना स्वानभिव्यक्ति-कालैति यावत् । तदानीम् एकतमस्य यस्य कस्य चिद् गुणान्तरस्य वृत्तिम् अनु सूक्ष्म-वृत्तिमन्तः, वृत्त्य्-अतिशयानाम् एव विरोधस्योक्तत्वादिति विशेषण-वर्गार्थः । एतद् दृशयतिअम् इत्य् उच्यतेइति । एतद्-गुण-त्रयम् एव कार्य-कारण-भावापन्नं दृश्यम् उच्यते, नास्ति ततोऽतिरिक्तं दृशयतिआन्तरम् इत्य् अर्थः । एत एव च गुणा न्याय-वैशेषिकाभ्यां द्रव्याष्टक-रूपेण विभज्यन्ते, वेदान्तिभिस् तु मायेत्य् उच्यन्ते, मायां तु प्रकृतिं विद्याद्[श्वे.उ. ४.१०]इति श्रुतेः ।
तद् उक्तं बृहद्-वासिष्ठे –
नाम-रूप-विनिर्मुक्तं यस्मिन् संतिष्ठते जगत् ।
तम् आहुः प्रकृतिं केचित् मायाम् अन्ये परे त्व् अणून् ॥िति ।
स्याद् एतत्, यदि त्रिगुणातिरिक्ता प्रकृतिर् नास्ति, तदा, अजाम् एकां लोहित-शुक्ल-कृष्णां[श्वे.उ. ४.५] इत्य् आदि श्रुत्य्-उक्तं प्रकृतेर् एकत्वादिकं व्याहन्येत । तथा—
हेतुमद् अनित्यम् अव्यापि सक्रियम् अनेकम् आश्रितं लिङ्गम् ।
सावयवं परतन्त्रं व्यक्तं विपरीतम् अव्यक्तम् ॥[सां.का. १०]
इत्य् आदिनोक्तो व्यापकत्वाक्रियत्व-निरवयवत्वादि-रूपश् च साङ्ख्यादि-सिद्धान्तो व्याहन्येत । तथा—एते प्रधानस्य गुणास् त्रयः स्युर् अनपायिनः[म.भा.१२.३१४.१] इत्य् आदि-स्मृति-शत-परम्परासु प्रधानस्य गुणानां चाधाराधेय-भाव-हेतु-हेतुमद्-भावयोर् वचनं नोपपद्येत । तथा—सत्त्वं रजस् तमैति गुणाः प्रकृति-संभवाः[गीता १४.५]इति गीतादि-वाक्योक्तं सत्त्वादेः प्रकृति-कार्यत्वं चानुपपन्नम् । तथाष्टाविंशति-तत्त्व-पक्षोऽपि नोपपद्येतैति ? अत्रोच्यते—पुरुष-भेदेन सर्ग-भेदेन च भेदाभाव एव प्रकृतेर् एकत्वम् अजादि-वाक्यैस् तन्-मूलक-साङ्ख्यादिभिश् च प्रतिपाद्यते । अजा-वाक्येन तथा तात्पर्यावधारणात् । भोग्य-भोक्त्रोर् हि मध्ये भोग्या गुणा भोग्यत्वाभोग्यत्वाभ्यां सर्ग-भेदेन न भिद्यन्ते, एते भोगार्हा एते च नेति, मुक्त-पुरुषोपकरणानाम् अप्य् अन्य-पुरुष-भोग्यत्वात् । भोक्तारस् तु पुरुषाः, भोक्तृत्वाभोक्तृत्वाभ्यां सर्ग-भेदेन भिद्यन्ते पूर्व-सर्ग-मुक्ता नोत्तर-सर्गे भोक्तारः, किं त्व् अन्य एवेति । अतः प्रकृतिर् एका पुरुषस् त्व् अनेक इत्य् उच्यन्ते ।
तथा त एव गुणाः सर्व-सर्गेषु स्रष्टारो भवन्ति । महद्-आदि-विकाराणां तु सर्ग-भेदेन भिन्नत्वं स्पष्टम् एव, अतीत-व्यक्तेः पुनर् अनुदयस्य वक्ष्यमाणत्वादिति । यदि तु प्रकृतिक्र् एकैव व्यक्तिः स्यात्, तदा निमित्तम् अप्रयोजकं प्रकृतीनां[४.३]इति प्रकृति-बहुत्व-सूत्र-विरोधः, इन्द्रो मायाभिः पुरु-रूप ईयत[ऋ.वे. ६.४७.१८] इत्य् आदि-श्रुति-विरोधश् चेति ।
व्यापकत्वं च प्रकृतेः कारणत्व-सामान्येनैव बोध्यं, कारण-शून्य-प्रदेशाभावाद् गन्धादेः पृथिव्य्-आदि-व्यापकत्ववत् । महद्-आदिकं तु सामान्येनापि न व्यापकमिति । अत एवांश-भेदेन प्रकृतेर् व्यापकत्व-प्रकृत्यापूरो घटतैति । प्रकृतेर् अक्रियत्वं चाध्यवसायाभिमानादि-रूप-प्रतिनियत-कार्य-शून्यत्वम् एव, न तु चलनादि-कर्म-शून्यत्वं—
प्रधानात् क्षोभ्यमाणाच् च तथा पुंसः पुरातनात् ।
प्रादुरासीन् महद् बीजं प्रधान-पुरुषात्मकम् ॥[कू.पु. ४.६१]
इत्य् आदि-स्मृतिषु प्रकृतेर् अपि चलनापर-नामक-क्षोभावगमात्,
प्रकृतेर् गुण-साम्यस्य निर्विशेषस्य मानवि ।
चेष्टा यतः स भगवान् काल इत्य् उपलक्षितः ॥[भा.पु. ३.२६.१७]
इति स्पष्टं क्रिया-स्मरणाच् च । यत् तु क्वचित् पुरुषस्यापि क्षोभः श्रूयते स स्ंयोगोन्मुखत्वेन गौणः । प्रकृति-कर्मणैव संयोगोत्पत्तेरिति । प्रकृतेर् निरवयवत्व-वाक्यानि चारम्भकावयव-निषेधकानि, न तु वनांश-वृक्ष-तुल्याणाम् अंशानां निषेधकानि । एतेन एते प्रधानस्य गुणा इत्य् आदि-वाक्यान्य् अप्य् उपपादितानि वन-तुल्यस्य प्रधानस्यांशिनः पनसाम्र-दाडिमादि-तुल्यस्य गुण-द्रव्यस्यांशत्वाभुपगमादिति ।
यच् च सत्त्वादीनां प्रकृति-कार्यत्व-वचनं तद्-व्यवहाराभिप्रायेण प्रकाशादि-फलोपहिततयैव हि सत्त्वादि-व्यवहारो दृश्यतैति । अन्यथा गुण-नित्यत्व-सिद्धान्त-व्याघाताद् अखण्डैक-प्रकृतेर् विचित्र-परिणामासम्भवाच् च । सम्भवे वा महद्-आदि-कार्यान्तराणाम् अपि केवल-प्रकृतेर् एव सम्भवाद् गुण-कल्पना-वैयर्थ्यम् । किं च, गुण-रूपावच्छेद-भेदाद् एव तत्-सम्भवः?इति चेत्, न, तथा सति गुणेभ्य एव सर्व-कार्योपपत्त्या तद्-अतिरिक्त-प्रकृति-वैयर्थ्यम् ।
किं च, यदि गुण-त्रयातिरिक्ता प्रकृतिः स्यात्, तदा—
गुण-साम्यम् अनुद्रिक्तम् अन्यूनं च महा-मुने ।
प्रोच्यते प्रकृतिर् हेतुः प्रधानं कारणं परम् ॥[वि.पु. ६.४.३४]
इत्य् आदि-स्मृतिषु सत्त्व-रजस्-तमसां साम्यावस्था प्रकृतिः[सां.सू. १.६१]इति साङ्ख्य-सूत्रे च साम्यावस्थ-गुणानां प्रकृतित्व-वचनम् आञ्जस्येन नोपपद्येत, नोपपद्येत च विशेषाविशेष-लिङ्ग-मात्रालिङ्गानि गुण-पर्वाणि, ते व्यक्त-सूक्ष्मा गुणात्मनः, परिणाम-क्रम-समाप्तिर् गुणानां [४.३२] इत्य् आदि सूत्रेषु भाष्ये च गुणानाम् एव मूल-कारणत्व-वचनम् इत्य् आदि-दूषणं स्यादिति । साम्यावस्था च न प्रकृति-लक्षणे विषयणम् अपि तु यदा कदाचित् सम्बन्धेनोपलक्षणम्, काकवन्तो देवदत्तस्य गृहाइतिवत् । सा च न्यूनाधिक-भावेनासंहननावस्था अकार्यावस्थेति यावत् । तद्-उपलक्षित-गुणत्वं च प्रकृति-लक्षणं महद्-आदि-व्यावृत्तम् । तेन सर्ग-कालेऽपि गुणानां प्रकृतित्वोपपत्त्या न प्रकृति-नित्यता-क्षतिः, नापीश्वरस्य तदैक-रूप्येण साम्यावस्था-शून्यत्वेऽपि तत्र प्रकृति-लक्षणातिव्याप्तिरिति दिक् ।
गुणेषु प्रमाणोपदर्शकं भूतेन्द्रियात्मकमिति विशेषणं व्याचष्टे—तद् एतद् भूत- इति । भूत-भावेन इत्य् अस्य विवरणं पृथिव्य्-आदिनाइति । तत्राप्य् अवान्तर-विशेषम् आह—सूक्ष्म-स्थूलेनैति । तन्मात्राणि सूक्ष्माणि पृथिव्य्-आदीनि महाभूतानि स्थूल-पृथिव्य्-आदीनि । इन्द्रिय-भावेन इत्य् अस्य विवरणं श्रोत्रादिनाइति । तत्राप्य् अवान्तर-विशेषम् आह—सूक्ष्म-स्थूलेनैति । महद्-अहङ्कारौ सूक्ष्मेन्द्रियम् एकादश च स्थूलेन्द्रियाणि, इन्द्रियस्य संघात ईश्वरस्य कारणत्वाद् इत्य् अर्थः ।
भोगापवर्गार्थमिति गुणस्य इवापरं विशेषणं मोक्षोपपादकं व्याचष्टे—तत् तु नाप्रयोजनम् इत्य् आदिना । तद् गुण-त्रयं न प्रयोजन-शून्यं सद् भूतेन्द्रिय-रूपेण प्रवर्तते, अपि तुप्रयोजनम् स्वीकृत्यैव प्रवर्तत इत्य् अतस् तादृशं गुण-त्रयं पुरुषस्य भोगापवर्गार्थं हि भोगापवर्ग-फलकम् एवेत्य् अर्थः ।
भोगापवर्गौ व्याचष्टे—तत्रेष्टानिष्ट- इति । इष्टानिष्ट-गुणाः सुख-दुःखात्मकाः शब्दादयः, तत्-स्वरूपावधारणं तद्-आकारा बुद्धि-वृत्तिः, न तु पुरुष-निष्ठः साक्षात्कारः, बुद्धि-निष्ठायाः वक्ष्यमाणत्वात्, स हि तत्-फलस्य भोक्तेत्य् अनेन पुरुष-निष्ठस्य भोगान्तरस्य वक्ष्यमाणत्वात् पुरुष-निष्ठ-भोगस्य चित्-स्वरूपतया नित्यत्वेन न फलत्वम् अञ्जसास्तीति भावः । शब्दादि-वृत्ति-काले विवेक-ख्याति-सत्त्वे वक्ष्यमाणापवर्ग एवेति तादृक्-शब्दादि-व्यावृत्त्य्-अर्थम् अविभागापन्नमिति विशेषणं पुरुषेण सहाविविक्तम् । अहङ्कारेण ममेत्य् आत्म-निष्ठतयाभिमन्यमानमिति यावत् । जीवन्मुक्तस्य भोगाभास एव, अहं शृणोमीत्य्-आद्य्-अभिमन्यमान-गर्भेष्व् एव शब्दादि-वृत्तेर् गुणेषु भोग-व्यवहारात् । भोक्तुरिति । भोक्तुः पुरुषस्य यत् स्वरूपम् उपाधि-विविक्त-चैतन्यं तद्-आकारा बुद्धिर् अपवर्गः ।
आद्यस् तु मोक्षो ज्ञानेन द्वितीयो राग-सङ्क्षयात् ।
कृच्छ्र-क्षयात् तृतीयस् तु व्याख्यातं मोक्ष-लक्षणम् ॥
इति पञ्चशिख-वाक्यात् । अपवृज्यतेऽनेनेति व्युत्पत्तेर् वेत्य् अर्थः ।
ननु भोगापवर्गातिरिक्तार्थम् अपि दृश्यं कथं न भवतीत्य् आकाङ्क्षायाम् आह—द्वयोरिति । दर्शनं बुद्धि-वृत्तिः । अविभागापन्न्तायां पञ्चशिखाचार्य-संवादम् आह—तथा चोक्तमिति । अयं लोकेषु गुणेषु सर्व-कर्तृषु सत्सु गुण-त्रयापेक्षया चतुर्थे तुरीये पुरुषे गुण-व्यापाराणां जाग्रद्-आदीनां साक्षि-मात्रे कर्तर्य् उपनीयमानान् बुद्ध्या समर्प्यमाणान् गुण-परिणामान् तत्रैव पुरुषे उपपन्नान् युक्ति-सिद्धान् इव पश्यन् मूढो न गुणेभ्योऽन्यद्-दर्शनं चैतन्यं शङ्कते सम्भावयत्य् अपीत्य् अर्थः ।
अत्र विवेक-ग्रहणे भिन्नत्वे च हेतुस् तुल्यातुल्य-जातीयैति पुरुष-विशेषणं, बुद्धि-पुरुषयोर् द्वयोर् अपि स्वच्छत्व-सूक्ष्मत्वादिना साम्ब्यात् गुण-पुरुषयोस् तुल्य-जातीयत्वं जडत्वाजडत्व-परिणामित्वापरिणामित्वादिभिश् च ऐजात्यम् इत्य् आशयः ।
अत्र भाष्ये गुण-त्रयापेक्षया पुरुषस्य चतुर्थत्व-वचनाद् अन्यान्य अपि तुरीय-वाक्यानि जाग्रद्-आद्य्-अवस्थ-सत्त्वादि-गुण-त्रयापेक्षया साक्षित्वम् एव पुरुषस्य तुरीयावस्थां वदतीति सिद्धम् । तथा च स्मर्यते—
सत्त्वाज् जागरणं विद्याद् रजसा स्वप्नम् आदिशेत् ।
प्रस्वापं तमसा जन्तोस् तुरीयं त्रिषु सन्ततम् ॥[भा.पु. ११.२५.२०]
ननूक्तयोर् भोगापवर्गयोर् गुण-कार्यतया गुण-निष्ठत्वेन कथं पुरुषस्य भोगापवर्गार्थं दृश्यम् इत्य् उक्तम् इत्य् आशङ्कते—ताव् एतौइति । यतो बुद्धि-कृतान्वय-व्यतिरेकाभ्यां बुद्धि-कार्यवतो लाघवेन बुद्धाव् एववर्तमानौ, न तु पुरुष-निष्ठाव् इत्य् आदिर् अर्थः । दृष्टान्त-प्रदर्शन-पूर्वकं परिहरति—यथा इत्य् आदिना । पुरुषे स्वामित्वाज् जयादिवत् तौ व्यपदिश्येतेइति वाक्यार्थः । बन्ध-मोक्षौ यथोक्त-भोगापवर्गौ । स हि तत्-फलस्यैति । बुद्धि-गतयोर् विषयावधारण-पुरुषावधारणयोः फलस्य सुखादि-रूपस्य भोक्ता स्व-प्रतिबिम्बितस्य साक्षी, अतस् तयोः स्वामीत्य् अर्थः । अत्र पुरुषस्यापि स्वातन्त्र्येण भोगस्योक्तत्वात् स्वरूप-प्रतिष्ठा वा चिति-शक्तिर् [४.३४] इति शास्त्र-प्रन्त-सूत्रे पुरुषस्य स्वतोऽपि मोक्षस्य वक्ष्यमाणत्वाच् च पुरुषस्य भोगापवर्गौ च निराक्रियेते, बुद्धि-गत-भोगापवर्गयोः स्वतोऽपुरुषार्थत्वाच् च, करण-व्यापारस्य पुरुषार्थता-सिद्धान्ताच् च । अपि तु परिणाम-रूपौ यथोक्त-भोगापवर्गाव् एव पुरुषस्य निराक्रियेते । अत एव ताव् एताव् इत्य् अनेन भोगापवर्गौ विशेषितौ भाष्य-कारेणेति । पुरुषाणां च संसारिणां मुख्य एव भोगो बुद्धि-वृत्त्य्-अविविक्तः सुखादि-साक्षात्कारः, जीवन्मुक्तेश्वरयोस् तु गौणो भोगः सुखादि-साक्षात्कार-मात्र-रूप इतीश्वर-लक्षण-सूत्रे प्रतिपादितम् अस्माभिरिति ।
यदि च पुरुषे पृथग्-भोग-मोक्षौ न स्वीक्रियेते, तदा—
कार्य-कारण-कर्तृत्वे हेतुः प्रकृतिर् उच्यते ।
पुरुषः सुख-दुःखानां भोक्तृत्वे हेतुर् उच्यते ॥[गीता १३.२०]
मुक्तिर् हित्वान्यथा-रूपं स्वरूपेण व्यवस्थितिः[भा.पु. २.१०.६]
इत्य् आदि-वाक्यानि नोपपद्येरन्निति दिक् । बुद्धेर् एव परमौ बन्ध-मोक्षाव् अपि दर्शयति—बुद्धेर् एवैति । बुद्धि-रूपेण परिणतानां गुणानाम् एवेत्य् अर्थः । तद्-अर्थावसायो विवेक-ख्यात्या पुरुषार्थ-समाप्तिः । तथा च यथोक्त-भोगावर्ग-रूपैः पुरुषार्थैः सम्बन्धो बुद्धेर् बन्धो वियोगश् च मुक्तिरिति भावः । एतौ च बुद्धेः परम-बन्ध-परम-मुक्ती । पूर्वोक्तौ तु भोगापवर्गाव् अपर-बन्ध-जीवन्मुक्ती इत्य् अविरोधः । एतेनेति । एएन शब्दाद्-विषय-भोग-विवेक-ख्यात्योः पुरुषेष्व् औपचारिकत्वेन ग्रहणादयोऽपि पुरुषेषूपचरित-सत्ताका वेदितव्याइति शेषः । ग्रहणं स्वरूप-मात्रेणार्थ-ज्ञानं, धारणा चिन्तनं, ऊहोऽर्थ-गत-विशेषाणां वितर्कणं, अपोहो वितर्कित-मध्ये विचारतः कियतां निराकरणं, तत्त्व-ज्ञानं वितर्कित-मध्य एकं विचारतः कियद् विशेषावधारणं, अभिनिवेशस् तद्-आकारतापत्तिरिति । प्रकृतस्य योगस्य भूमिकाख्यतयैव चित्त-परिणामा अत्र गणिताः, एतैश् चान्येऽपीच्छाकृत्य्-आदयः उपलक्षणीयाइति ॥१८॥
—o)0(o—
()
दृश्यानां तु गुणानांस्वरूप-भेदावधारणार्थम् इदम् आरभ्यते—
विशेषाविशेष-लिङ्ग-मात्रालिङ्गानि गुण-पर्वाणि ॥१९॥
तत्राकाश-वाय्व्-अग्न्य्-उदक-भूमयो भूतानि शब्द-स्पर्श-रूप-रस-गन्ध-तन्मात्राणाम् अविशेषाणांविशेषाः । तथा श्रोत्र-त्वक्-चक्षुर्-जिह्वा-घ्राणानि बुद्धीन्द्रियाणि । वाक्-पाणि-पाद-पायूपस्थानि कर्मेन्द्रियाणि । एकादशं मनः सर्वार्थम् । इत्य् एतान्य् अस्मिता-लक्षणस्याविशेषस्य विशेषाः । गुणानाम् एष षोडशको विशेष-परिणामः ।
षड् अविशेषाः । तद् यथा—शब्द-तन्मात्रं, स्पर्श-तन्मात्रं, रूप-तन्मात्रं, रस-तन्मात्रं, गन्ध-तन्मात्रं चेत्य् एक-द्वि-त्रि-चतुष्-पञ्च-लक्षणाः शब्दादयः पञ्चाविशेषाः । षष्ठश् चाविशेषोऽस्मिता-मात्रैति । एते सत्ता-मात्रस्यात्मनो महतः षड्-अविशेष-परिणामाः ।
यत् तत् परम् अविशेषेभ्यो लिङ्ग-मात्रं महत्-तत्त्वं, तस्मिन्न् एते सत्ता-मात्रे महत्य् आत्मन्य् अवस्थाय विवृद्धि-काष्ठाम् अनुभवन्ति । प्रतिसंमृज्यमानाश् च तस्मिन्न् एव सत्ता-मात्रे महत्य् आत्मन्य् अवस्थाय यत्, तन् निःसत्ता-सत्तं निःसदसन्-निरसद्-अव्यक्तम् अलिङ्गं प्रधानं तत् प्रतियन्तीति । एष तेषांलिङ्ग-मात्रः परिणामः । निःसत्ताऽसत्तं चालिङ्ग-परिणामैति ।
अलिङ्गावस्थायां न पुरुषार्थो हेतुः । नालिङ्गावस्थायाम् आदौ पुरुषार्थता कारणंभवतीति न तस्याः पुरुषार्थता कारणं भवति । नासौ पुरुषार्थ-कृतेति नित्याख्यायते । त्रयाणां त्व् अवस्था-विशेषाणाम् आदौ पुरुषार्थता कारणं भवति । स चार्थो हेतुर् निमित्तं कारणं भवतीत्य् अनित्याख्यायते । गुणास् तु सर्व-धर्मानुपातिनो न प्रत्यस्तमयन्ते नोपजायन्ते । व्यक्तिभिर् एवातीतान् आगत-व्ययागमवतीभिर् गुणान्वयिनीभिर् उपजननापाय-धर्मका इव प्रत्यवभासन्ते । यथा देवदत्तो दरिद्राति ।
कस्मात् ? यतोऽस्य म्रियन्ते गावैति । गवाम् एव मरणात् तस्य दरिद्रता, न स्वरूप-हानादिति समः समाधिः । लिङ्ग-मात्रम् अलिङ्गस्य प्रत्यासन्नं, तत्र तत्-संसृष्टं विविच्यते क्रमानतिवृत्तेः । तथा षड् अविशेषा लिङ्ग-मात्रे संसृष्टा विविच्यन्ते, परिणाम-क्रम-नियमात् । तथा तेष्व् अविशेषेषु भूतेन्द्रियाणि संसृष्टानि विविच्यन्ते । तथा चोक्तं पुरस्तात् । न विशेषेभ्यः परं तत्त्वान्तरम् अस्तीति, विशेषाणां नास्ति तत्त्वान्तर-परिणामः । तेषां तु धर्म-लक्षणावस्था-परिणामा व्याख्यायिष्यन्ते ॥१९॥
तत्त्व-वैशारदी : दृश्यानां गुणानां स्वरूप-भेदावधारणार्थम् इदम् आरभ्यते—विशेषाविशेष-लिङ्ग-मात्रालिङ्गानि गुण-पर्वाणि ॥येषां अविशेषाणां शान्त-घोर-मूढ-लक्षण-विशेष-रहितानां ये विशेषा विकार एव, न तु तत्त्वान्तर-प्रकृतयस् तेषां तान् आह—तत्राकाश- इति । उत्पाद-क्रमानुरूप एवोपन्यास-क्रमः । अस्मिता-लक्षणस्याविशेषस्य सत्त्व-प्रधानस्य बुद्धीन्द्रियानि विशेषाः । रजः-प्रधानस्य कर्मेन्द्रियाणि । मनस् तूभयात्मकम् उभय-प्रधानस्येति मन्तव्यम् ।
अत्र च पञ्च तन्मात्राणि बुद्धि-कारणकान्य् अविशेषत्वाद् अस्मितावदिति । विकार-हेतुत्वं चाविशेषत्वं तन्मात्रेषु चास्मितायां चाविशेष-शरीरम् । संकलय्य विशेषान् परिगणयति—गुणानां एषैति ।
अविशेषान् गणयति—षडिति । सङ्कलय्योदाहरति—तद् यथाइति । विशेष्शरीरं ह्य् अपूर्वात्म परेणेति गन्ध आत्मना पञ्च-लक्षणो, रस आत्मना चतुर्-लक्षणो, रूपम् आत्मना त्रि-लक्षणं, स्पर्शं आत्मना द्वि-लक्षणः, शब्दः शब्द-लक्षण एवेति ।
कस्य पुनर् अमी षड् अविशेषाः कार्यम् इत्य् अत आह—एते सत्ता-मात्रस्यात्मनैति । पुरुषार्थ्-कृत्रूपाक्षमं सत् । तस्य भावः सत्ता । तन्मात्रं तन् महत्-तत्त्वम् । यावती काचित् पुरुषार्थ-कृत्रूपा शब्दादि-भोग-लक्षणा सत्त्व-पुरुषान्यता-ख्याति-लक्षणा वास्ति, सा सर्वा महति बुद्धौ समाप्यत इत्य् अर्थः । आत्मनैति स्वरूपोपदर्शनेन तुच्छत्वं निषेधति । प्रकृतेर् अयम् आद्यः परिणामो वास्तवो न तु तद्-विवर्तैति यावत् ।
यत् तत्-परं विप्रकृष्ट-कालम् अविशेषेभ्यस् तद् अपेक्षया संनिकृष्टा-कालेभ्यो लिङ्ग-मात्रं महत्-तत्त्वं तस्मिन् ईती षड् अविशेषाः सत्ता-मात्रेमहत्य् आत्मन्य् अवस्थाय सत्-कार्य-सिद्धेर् विवृद्धि-काष्ठाम् अनुभवन्ति प्राप्नुवन्ति ।ये पुनर् अविशेषाणां विशेष-परिणामास् तेषां च धर्म-लक्षणावस्थाः परिणामाइति । सेयम् एषां विवृद्धि-काष्ठा परिणाम-काष्ठेति ।
तद् एवम् उत्पत्ति-क्रमम् अभिधाय प्रलय-क्रमम् आह—प्रतिसंमृज्यमानाइति ।प्रतिसंमृज्यमानाः प्रलीयमानाः स्वात्मनि लीन-विशेषा अविशेषास् तस्मिन्न् एव सत्ता-मात्रे महत्य् आत्मन्य् अवस्थाय विलीय सहैव महता तेऽविशेषा अव्यक्तम् अन्यत्र लयं न गच्छतीत्य् अलिङ्गं प्रतियन्ति । तस्यैव विशेषणं निःसत्ता-सत्तंिति । सत्ता पुरुषार्थ-कृत्रूपा-क्षमत्वम् । असत्ता तुच्छता । निष्क्रान्तं सत्ताया असत्तायाश् च यत् तत् तथोक्तम् । एतद् उक्तं भवति—सत्त्व-रजस्-तमसां साम्यावस्था न क्वचित् पुरुषार्थ उपयुज्यतैति न सती । नापि गगन-कमलिनीव तुच्छ-स्वभावा । तेन नासत्य् अपीति ।
स्याद् एतत् । अव्यक्तावस्थायां अप्य् अस्ति महद्-आदि तद्-आत्मना, न हि सतो विनाशो, विनाशो वा न पुनर् उत्पादो न ह्य् असत उत्पादैति महद्-आदि-सद्-भावात् पुरुषार्थ-कृत्रूपा प्रवर्तते । तत् कथं निःसत्त्वम् अव्यक्तम् ? इत्य् अत आह—निःसदसदिति । निष्क्रान्तं कारणं सतः कार्यात् । यद्यपि कारणावस्थायां सद् एव शक्त्य्-आत्मना कार्यं, तथापि स्वोचिताम् अर्थ-कृत्रूपाम् अकुर्वद् असद् इत्य् उक्तम् ।
न चैतत् कारणं शश-विषाणायमान-कार्यम् इत्य् आह—निरसदिति । निष्क्रान्तम् असतस् तुच्छ-रूपात् कार्यात् । तथा हि सति व्योमारविन्दम् इवास्मान् न कार्यम् उत्पद्येतेति भावः ।
प्रतिसर्गम् उक्तम् उपसंहरति—एष तेषांिति । एष इत्य् अननतरोक्तात् पूर्वस्य परामर्शः । लिङ्ग-मात्रावस्थाः पुरुषार्थ-कृतत्वाद् अनित्याः, अलिङ्गावस्था तु पुरुषार्थेनाकृतत्वान् नित्येत्य् अत्र हेतुम् आह—अलिङ्गावस्थायांिति । कस्मात् पुनर् न पुरुषार्थो हेतुर् ? इत्य् अत आह—नालिङ्गावस्थायामिति । भवतिना विषयेण विषयि-ज्ञानम् उपलक्षयति । एतद् उक्तं भवति—एवं हि पुरुषार्थता कारणं अलिङ्गावस्थायां ज्ञायेत यद्य् अलिङ्गावस्थाशब्दाद्य्-उपभोगं वा सत्त्व-पुरुषान्यता-ख्यातिं वा पुरुषार्थं निर्वर्तयेत् तन् निर्वर्तते हि न साम्यावस्था स्यात् । तस्मात् पुरुषार्थ-कारणत्वम् अस्यां न ज्ञायतैति नास्याः पुरुषार्था हेतुः ।
उपसंहरति—नासौइति ।ितिस् तस्माद्-अर्थे । अनित्याम् अवस्थाम् आह—त्रयाणांिति । त्रयाणांलिङ्ग-मात्राविशेष-विशेषाणामित्य् अर्थः ।
पर्व-स्वरूपं दर्शयित्वा गुण-स्वरूपम् आह—गुणास् तुइति । निदर्शनम् आह—यथा देवदत्तैति । यत्रात्यन्त-भिन्नानां गवाम् उपचयापचयौ देवदत्तोपचयापचय-हेतू, तत्र कैव कृतथा गुणेभ्यो भिन्नाभिन्नानां व्यक्तीनां उपजयापाययोर् इत्य् अर्थः ।
ननु सर्ग-क्रमः क्म् अनियतः ? नेत्य् आह—लिङ्ग-मात्रमिति । न खलु न्यग्रोधधाना अह्नायैव न्यग्रोध-शाखिनं सान्द्रं शाद्वल-दल-जटिलं शाखा-काण्ड-निपीत-मार्तण्ड-चण्डातप-मण्डलम् आरभन्ते, किं तु क्ष् इति-सलिल-तेजः-सम्पर्कात् परम्परोपजायमानाङ्कुर-पत्र-काण्ड-तालादि-क्रमेण । एवम् इहापि युक्त्य्-आगम-सिद्धः क्रमश् चास्थेयैति ।
कथं भूतेन्द्रियाण्य् अविशेष-संसृष्टानीत्य् अत आह—तथा चोक्तं पुरस्तातिति । इदम् एव सूत्रं १मं व्याचक्षाणैः । अथ विशेषाणां कस्मान् न तत्त्वान्तर-परिणाम उक्त इत्य् अत आह—न विशेषेभ्यःिति । तत् किम् इदानीं अपरिणामित एव विशेषाः, तथा च नित्याः प्रसज्येरन्न् इत्य् अत आह—तेषां तुइति॥१९॥
योग-वार्तिकम् : नन्व् अनेन सूत्रेण गुणानां एव दृश्यत्वं प्रोक्तं, न तु विकाराणांिति न्यूनता-निरासाय प्रवर्तमानं सूत्रान्तरम् अवतारयति—दृश्यानां तुइति । स्वरूप-भेदावधारणार्थम् अवान्तर-भेद-.पूर्व्दृशनार्थम् इत्य् अर्थः ।
विशेषाविशेष-लिङ्ग-मात्रालिङ्गानि गुण-पर्वाणि ॥ गुणात्मको वंशस् तस्यालिङ्गादि-विशेषान्तं पर्व-चतुष्टयं बीजाङ्कुरवद् अवस्था-भेदा नात्यन्तं भिन्नाः, अतो गुणेष्व् एव सर्व-दृश्यानां अन्तर्-भावैति सूत्रकारस्याशयः । कार्यैः कारणान्य् अनुमीयन्त इत्य् आशयेन विशेषादि-क्रमेण पर्व-गणनम् ।
तत्र यस्य यस्याविशेषस्य यो यो विशेषस् तम् आह—तत्राकाश- इति । आकाशादीनि भूतानि शब्दादि-तन्मात्राणां शान्तादि-विशेष-शून्य-शब्दादि-धर्मक-सूक्ष्म-द्रव्याणां अत एवाविशेष-संज्ञकानां विशेषा अभिव्यक्त-शान्तादि-विशेषकाः परिणामाः । यथा क्रममिति शेषः ।
तथाइति विशेषाः इत्य् आगमिनान्वयः । मनस इन्द्रिय-मध्य-प्रवेशेहेतु-गर्भ-विशेषणं सर्वार्थमिति । सर्वेषां दशेन्द्रियाणां अर्था यस्येति मध्यम-पद-लोपी समासः, मनः-सहकारेणैव श्रोत्रादीनां शब्दादि-ग्राहकत्वादिति । अहङ्कारस्याविशेषत्वे हेतु-गर्भ-विशेषणं—अस्मिता-लक्षणस्यैति । अभिमान-मात्र-धर्मकस्य श्रवण-स्पर्शनादि-रूप-विशेष-रहिताहङ्कारस्येति शेषः ।
पिण्डीकृत्य विशेष-पर्वोपसंहरति—गुणानामिति । एवं पञ्च-भूतैकादशेन्द्रिय-गणः षोडश-सङ्ख्याको गुणानां विशेषाख्यः परिणाम इत्य् अर्थः ।
नन्व् इन्द्रियवत् तन्मात्राण्य् अहङ्कारस्य विशेषाः कथं नोक्ताः शब्द-स्पर्शादि-विशेषवत्त्वात्?इति चेत्, न, विशेष-मात्रस्यैवात्र विशेष-परिभाषणात् तन्मात्राणि तु भूतानां अविशेषा अपि भवन्तीति ।
अविशेष-पर्व व्याचष्टे—षड् अविशेषाःिति । षड् गणयति—शब्द-तन्मात्रं इत्य्-आदिना, अस्मिता-मात्र इत्य् अन्तेन । एक-द्वि-त्री- इति । लक्ष्यतेऽनेनेति लक्षणं धर्मः तन्मात्राणां द्रव्यत्व-लाभाय लक्षण-पदम् । तथा चोत्तरोत्तर-तन्मात्रेषु पूर्व-पूर्व-तन्मात्राणां हेतुत्वाच् छब्द-तन्मात्रं शब्द-मात्र-धर्मकं तत्-कार्यतया स्पर्श-तन्मात्रं शब्द-स्पर्शोभय-धर्मकं, एवं क्रमेणैकैक-लक्षण-धर्म-वृद्धिर् इत्य् अर्थः । एतेषु च मात्र-शब्दैः शान्तादि-विशेषस्यैव व्यावृत्तिर् न तु गुणान्तर-संपर्कस्य, एक-द्वि-त्र्य्-आदि-लक्षणत्व-वचनात् ।
तन्मात्राण्य् अविशेषाणि अविशेषास् ततो हि ते ।
न शान्ता नापि घोरास् ते न मूढाश् चाविशेषिणः ॥िति विष्णु-पुराणाच् चेति[१.२.४५] ।
ननु तन्मात्रेषु परस्परं कार्य-कारण-भावे सिद्ध एव कारण-गुण-कर्मेणोत्तरोत्तरं गुण-वृद्धिः सेत्स्यति , तत्रैव तु किं प्रमाणं श्रुति-स्मृत्योः स्थूल-भूतेष्व् एवाकाशादि-क्रमेण कारणता-सिद्धेरिति चेत् ? आकाशाडि-स्थूल-भूतेभ्यो वाय्व्-आद्य्-उत्पत्ति-दर्शनेन सूक्ष्मायांऽ भूते तथा कार्य-कारण-भाव-कल्पनस्यौचित्यमिति । एतानि च तन्मात्राणि तामसाहंकाराच् छब्दादि-क्रमेणोत्पद्यन्तैति बोध्यम् । अस्मिता-मात्रोऽभिमान-वृत्तिकः, तेनेन्द्रिय-भावापन्नाहंकार-व्यावृत्तिः ।
एते सत्ता-मात्रस्येति । सत्ता विद्यमानता व्यक्ततेति यावत् । व्यक्तता-मात्रं महत्-तत्त्वम् आद्य-कार्यत्वात्, प्रलये हि सर्वं विकार-द्रव्यम् अतीतानागत-रूपाभ्याम् एव तिष्ठति, न तु विद्यमानतया, अत आद्य-विकारोऽङ्कुरवद् यो महा सर्गादौ सत्तां लभते, स सत्ता-मात्रम् उच्यते । स च सत्-सामान्यतया सत्ता-मात्रम् उच्यते, सद्-विशेषाणाम् अहङ्कारादीनां तदानीम् अभावात् । अत एव यास्क-मुनिना जन्मादि-षड्-भाव-विकार-मध्ये जन्मोत्तरम् अस्तितैव विकार उक्तः । तथा च संसार-वृक्षस्यास्तिता-मात्र-परिणामो महत्-तत्त्वं वृद्धि-परिणामस् त्व् अहंकारादिरिति । एवं-भूतस्य सर्व-विकाराणाम् आत्मनः स्वरूपस्य महतो महत्-तत्त्वस्य बुद्ध्य्-आख्यस्य परिणामः षड् अविशेष-संज्ञका इत्य् अर्थः । अविशेषत्वं च सामान्यत्वम् । यद्यपि षोडश-विशेषाणां सामान्यत्वं महत्-तत्त्व-प्रकृत्योर् अप्य् अस्ति तथाप्य् अविशेष-शब्दः पङ्कजादि-शब्दवद् योग-रूढः षट्स्व् एवेति । अत्र षण्-मध्ये तन्मात्राणां बुद्धि-परिणामित्वम् अहंकार-द्वारैव मन्तव्यं सूक्ष्म-विषयत्वं चालिङ्ग-पर्यवसानम्[१.४५]इति सूत्रे भाष्येण तथा व्याख्यातत्वादिति ।
लिङ्ग-मात्र-पर्व व्याचष्टे— यत् तत् परमिति । अविशेषेभ्यो यत्-परं पूर्वोत्पन्नं वंशस्योद्भित्-पर्ववज् जगद्-अङ्कुरो महत्-तत्त्वं, तल्-लिङ्ग-मात्रम् इत्य् अर्थः । लिङ्गम् अखिल-वस्तूनां व्यञ्जकं तन्मात्रं महत्-तत्त्वं, महत्-तत्त्वं हि स्वयंभोर् आदि-पुंसः कार्य-ब्रह्मण उपाधि-भूतं सर्गादौ सर्वं जगद्-भासयद् एवोदेति सुप्तोत्थित-चित्तवत्, ज्ञानादिरिक्तस् तु व्यापारः पश्चाद् एवाहङ्काराद् उत्पन्नो भवत्य् अतो लिङ्ग-मात्रम् इत्य् उच्यते । तथा च स्मृतिः—
ततोऽभवन् महत्-तत्त्वम् अव्यक्तात् काल-चोदितात् ।
विज्ञानात्मात्म-देहस्थं विश्वं व्यञ्जंस् तमोनुदः ॥
कश्चित् तु लयं गच्छतीति लिङ्ग-पदस्यार्थम् आह—तत् तु प्रमाणादर्शनाद् उपेक्षितं, अहङ्कारादेर् अपि लय-गमनेन महत्-तत्त्व-मात्रे लिङ्ग-मात्र-प्रयोगानौचित्याच् च, तथा लिङ्ग-मात्रमिति मात्र-शब्दार्थानुपपत्तेश् चेति । तस्मिंस् तत्त्वे महच्-छब्द-प्रयोग-बीजम् अहङ्काराद्य्-अखिल-विकाराधारत्वम् आह—तस्मिन्निति । तस्मिन् सूक्ष्म-रूपे ते पूर्वोक्ता अविशेष-विशेषाः पदार्थाः अवस्थयानागतावस्थया स्थित्वोत्तरोत्तर-वंश-पर्वाणीव विवृद्धि-काष्ठां स्थावर-जङ्गमानं प्राप्नुवन्ति ।
महान् प्रादुरभूद् ब्रह्मा कूटस्थो जगद्-अङ्कुरः ॥िति स्मृतेः।
तथा प्रतिसंमृज्यमानाः प्रलीयमानाश् च ते तस्मिन्न् एवावस्थयातीतावस्थयानुगता भूत्वा तेनैव सह यत्-तत्-प्रसिद्ध-साम्यावस्थ-गुण-त्रय-रूपम् अलिङ्गं तत् प्रधानाख्य-मूल-कारणं प्रतियन्ति प्रकृतौ लीयन्त इत्य् अन्वयः । एतेन महत्-तत्त्वोपाधिकस्य कार्य-ब्रह्मणोऽपि जगत्-सृष्टि-स्थिति-लय-हेतुत्वं प्रसङ्गाद् व्याख्यातम् ।
प्रधानस्यासङ्गत्वोपपादनायाव्यक्तमिति विशेष्.आणां, स्वयम् अवय्क्ततया न परस्पर-व्यञ्जकम् इत्य् अलिङ्गम् इत्य् आशयः पुरुषात् पराभिमत-शशशृङ्गादिभ्यश् च व्यावर्तनाय निःसत्तासत्तं विशेषणम् । निर्गते पारमार्थिके सत्तासत्ते यस्मादिति विग्रहः कूटस्थ-नित्यादि पारमार्थिकं सत् ।
सतोऽस्तित्वे च नासत्ता नास्तित्वे सत्यता कुतः ।
तस्मान् न विज्ञान-मृतेऽस्ति किञ्चित्
क्वचित् कदाचिद् द्विज वस्तु-जातम् ।
यच् चान्यथात्वं द्विज याति भूयो
न तत् तथा तत्र कुतो हि सत्त्वम् ॥१४३[वि.पु. २.१२.४१,४३]
इति गारुड-वैष्णवादि-वाक्येभ्यः असत्ता-सामान्याभावस्यैव पारमार्थिक-सत्तात्व-सिद्धेः । तच् च सत्त्वं प्रधाने नास्ति, महद्-आद्य्-अखिल-विकार-रूपैः प्रलयेष्व् असत्त्वात्, सूक्ष्म-दृष्ट्या तु परिणामितया प्रतिक्षणं तत्-तद्-धर्म-रूपेणापायाच् च । तथा च श्रुति-स्मृतयः चैतन्यं चिन्मात्रं सत्—
क्षणं न सन्तिष्ठति जीव-लोकः
क्षयोदयाभ्यां परिवर्तमाणः ॥
इत्य्-आद्याइति । यथा च सत्तया वर्जितम् एवम् एवासत्तयापि पारमार्थिक्या वर्जित-सत्ता-सामान्याभावस्यैव पारमार्थिकासत्त्वात् । तच् च प्रधाने नास्ति, नित्यत्वाद् अर्थ-क्रियतेआ-कारित्वात् श्रुत्-स्मृत्य्-अनुमानाद् असिद्धत्वाच् च । इत्थम् एव च सद्-असद्भ्याम् अनिर्वचनीयं त्रिगुणात्मकं मायाख्यं प्रधानमिति वेदान्त-सिद्धान्तोऽप्य् अवधारणीयः ।
नासद्-रूपा न सद्-रूपा माया नैवोभयात्मिका ।
सद्-असद्भ्याम् अनिर्वाच्या मिथ्या-भूता सनातनी ॥
इत्य् आदित्य-पुराणादिषु मायाख्य-प्रकृतेः पारमार्थिक-सत्त्वादि-रूपेणानिरूप्यत्व-वचनाच् च ।
न तु प्रपञ्चस्यात्यन्त-तुच्छता,, अत्यन्त-विनाशिता वा वेदान्त-सिद्धान्तः, नाभाव उपलब्धेः[वे.सू. २.२.२८], भावे चोपलब्धेः[वे.सू. २.१.१५]इति वेदान्त-सूत्राभ्याम् एवात्यन्त-तुच्छताया निराकरणात्, सत्त्वाच् चावरस्य[वे.सू. २.१.१६] असद्-व्यपदेशादिति चेन् न धर्मान्तरेण वाक्य-शेषात्[वे.सू. २.१.१७], वैधर्म्याच् च न स्वप्नादिवद्[वे.सू. २.२.२९] इत्य्-आदि यथा-श्रुत-वेदान्त-सूत्रेभ्यः प्रपञ्चस्य सद्-असद्-रूपताया एव सिद्धेश् च धर्मान्तरेणातीतागत-धर्मेण, शास्त्रेषु स्वप्नादि-दृष्टान्ताश् च क्षण-भङ्गुरत्व-पारमार्थिकासत्त्वांशेनैवेति बोध्यम् ।
न हि स्वप्न-गन्धर्व-नगरादयोऽप्य् अत्यन्तासन्तः, स्वप्नादाव् अपि साक्षि-भास्य-मानस-पदार्थाभ्युपगमात् । अन्यथा सन्ध्ये सृष्टिर् आह हि[वे.सू. ३.२.१]इति वेदान्त-सूत्रेणैव स्वप्ने सृष्ट्य्-अवधारणं विरुध्येत । वैधर्म्याच् च न स्वप्नादिवद्[वे.सू. २.२.२९]इति वेदान्त-सूत्रे च जाग्रत्-प्रपञ्चस्य केवल-मानसत्वम् एव निराकरोति । एतेन स्वप्नादि-दृष्टान्तैः प्रपञ्चस्य मनो-मात्रत्वाभ्युपगमः नवीन-वेदान्तिनाम् अपसिद्धान्त एव, वेदान्त-सूत्रेणापि स्वप्न-तुल्यत्वाभाव-निर्णयात् । तस्माद् यथोक्तम् एव प्रपञ्चस्यासत्त्वं ब्रह्म-मीमांसाया अपि सिद्धान्तः । समान-तन्त्र-सिद्धत्वाच् चेति दिक् ।
कश्चित् त्व् अत्रोत्तर-विशेषणे चार्थ-क्रियतेआ-कारित्वम् एव सत्त्वं विवक्षितं तच् च प्रलये प्रकृति-तद्-विकारयोर् नास्तीत्य् आह, तन् न, ईश्वरान्य-पुरुषस्याप्य् एवम् असत्तया तद्-व्यावृत्त्य्-असम्भवात्, जीवेष्व् अपि हि विषय-प्रकाशन-व्यापारोपरम एवासत्ता लयः स्वापः प्रलयेऽस्तीश्वर-प्रकरणे श्रुति-स्मृतिषु प्रसिद्धैति ।
प्रधानस्य पारमार्थिक-सद्-असत्त्वाभावोपपत्तये तद्-विकाराणाम् अपि पारमार्थिक्यौ सद्-असत्ते न स्तैति .पदार्थ्.अयति प्रधान्स्य विशेषणान्तरं निःसद्-असदिति । निर्गते सद्-असती यस्मादिति विग्रहः । निःसन्निरसदिति पाठेऽप्य् अयम् एवार्थः । प्रधान-वृत्ति हि यद् विकार-जातं तत्-पारमार्थिक-सन् न भवति, परिणामित्वेन स्व-धर्मैः प्रतिक्षण-विनाशाद्, आद्य्-अन्तयोर् व्यक्त्य्-अवस्थयाप्य् असत्त्वाच् च । वाचारम्भणं विकारो नाम-धेयं मृत्तिकेत्य् एव सत्यम्[छा.उ. ६.१.१]
अव्यक्तादीनि भूतानि व्यक्त-मध्यानि भारत ।
अव्यक्त-निधनान्य् एव तत्र का परिदेवना ॥[गीता २.२८]
इत्य् आदि-श्रुति-स्मृतयश् च विकाराणां नित्यता-रूपं सत्त्वं निराकुर्वन्ति । अत्र च श्रुतौ विकाराणाम् आद्य्-अन्तयोर् नाम-मात्रावशेषत्वास्थिरतयैव तद्-अपेक्षया स्थिरत्व-रूपं सत्यत्वं कारणस्य विवक्षितं, नित्यो नित्यानां सत्यस्य सत्यमिति श्रुत्य्-अन्तरे तादृशार्थ-सिद्धेः, न पुनर् विकाराणाम् अत्यन्त-तुच्छतया, मृद्-विकारस्य ब्रह्म-विकार-.दर्शनत्वानुपपत्तेः । न हि लोके मृद्-विकारस्यात्यन्त-तुच्छत्वं सिद्धम् अस्ति येन ब्रह्म-कार्य-प्रपञ्च-तुच्छत्वे .दर्शनता तस्य स्यादिति । यथा प्रधान-वृत्ति-कार्य-जातम् अत्यन्त-सन् न भवति, एवम् अत्यन्तासद् अपि न भवति, अतीतानागतादि-रूपैः सदा सत्त्वात्, तद् धेदं तर्ह्य् अव्याकृतम् आसीत्,
आसीद् इदं तमो-भूतम् अप्रज्ञातम् अलक्षणम् ।
अप्रतर्क्यम् अविज्ञेयं प्रसुप्तम् इव सर्वतः ॥ इत्य् आदि-श्रुति-स्मृतिभ्यैति ।
नन्व् एवं स-विकारस्य प्रधानस्य सद्-असत्त्व-प्रतिषेधे सति प्रकृतेः सद्-असद्-आत्मकता-प्रतिपादक-श्रुति-स्मृति-शत-व्याकोपः, सद्-असत्-ख्याति-बाधाबाधाभ्यामिति साङ्ख्य-सूत्र-विरोधश् चेति ? मैवम् । तथा-विध-वाक्यानां व्यक्ताव्यक्त-रूप-व्यावहारिक-सद्-असत्ता-परत्वात् । साङ्ख्य-सूत्रे च बाधाबाधौ रूप-भेदेन सार्वकालिकाविति । तद् उक्तम्—
जगन्-मयी भ्रान्तिर् इयं न कदापि न विद्यते ।
विद्यते न कदाचिच् च जल-बुद्बुदवत् स्थितम् ॥[सा.सू. ५.५६]इति ।
भ्रान्तिरिति पारमार्थिक-भ्रमम् आश्रित्य ज्ञान-ज्ञेययोर् अभेद-विवक्षयोक्तम् । अत एव गौतम-सूत्रम्—तत्त्व-प्रधान-भेदाच् च मिथ्या-बुद्धेर् द्वैविध्योपपत्तिर्[गौ.सू. ४.२.३७]इति । तात्त्विक-मिथ्या-बुद्धिर् अनित्य-पदार्थ-ज्ञानं च प्रधानं मिथ्या-ज्ञानं प्रसिद्ध-मिथ्या-ज्ञानं शुक्ति-रजतादि-ज्ञानमिति । पारमार्थिक-भ्रम-लक्षणं च तद्-अभाववति तत्-प्रकारत्वम् असद्-विषयकता वा, तद् उभयम् अपि परिणामि-नित्य-पदार्थ-बुद्धिष्व् अप्य् अस्तीति । व्यावहारिक-पारमार्थिक-भेदेन सत्तादि-द्वैविध्यं च विष्णु-पुराणादिषु प्रसिद्धम् । यथा—
सद्-भाव एषो भवते मयोक्तो
ज्ञानं यथा सत्यम् असत्यम् अन्यत् ।
एतच् च यत् संव्यवहार-भूतं
तथापि चोक्तं भुवनाश्रितं तत् ॥[वि.पु. २.१२.४५]इति ।
तृतीया च लोक-सिद्धा प्रातिभासिक्य् अपि सत्ता शुक्ति-रजत-स्वाप्न-पदार्थानां मनो-मात्र-परिणामानामिति । यत् तु परमात्मा-चैतन्यस्यैव सत्त्वं न तु जीव-चैत्नयानाम् अपीति वेदान्त-रहस्यं नान्योऽतोऽस्ति द्रष्टा श्रोता मन्ता बोद्धा इत्य्-आदि-श्रुति-सिद्धं, तत् तु लय-शून्यत्व-रूपामति-पारमार्थिक-सत्ताम् अभिप्रेत्यैव बोध्यम् । प्रलये हि परमात्मनि प्रकृति-पुरुषयोर् व्यापारोपरम-रूपो लयो भवति—
प्रकृतिः पुरुषश् चोभौ लीयेते परमात्मनि ॥
इत्य्-आदि-वाक्येभ्यः । परमात्मा च सदा जाग्रत्-स्वरूपतया लय-शून्यैति । स एव परमात्म-सन् न प्रकृति-पुरुषाविति वेदान्त-महा-वाक्य-मर्यादा । एतेन सद्-असत्त्वयोर् विरोधाद् एकत्रासम्भव इत्य् अप्य् अपास्तम् । व्यवहार-परमार्थ-भेदेन काल-भेदेनावच्छेद-भेदेन स्वरूप-भेदेन प्रकार-भेदेन च तयोर् अविरोधादिति । तद् एवं श्रुति-न्याय-सिद्धं सत्यत्व-मिथ्यात्व-विभागम् अविदुषाम् आधुनिक-वेदान्ति-ब्रुवाणां प्रपञ्चात्यन्तासत्यत्वादि-रूपा अपसिद्धान्ता नास्तिक-मतानुसारिणो मुमुक्षुभिर् दूरतः परिहरणीयाः, समान-न्यायेनान्यत्र सिद्धान्तानाम् एव ब्रह्म-मीमांसा-सिद्धान्तत्वादिति सर्वं समञ्जसम् । लिङ्ग-मात्र-परिणामम् उपसंहरति—एष तेषामिति । तेषां गुणानां इत्य् अर्थः ।
अलिङ्गं पर्व व्याचष्टे—निःसत्ता-सत्तं चैति । निःसत्ताऽसत्तम् इत्य् उक्ते यः पदार्थः सोऽलिङ्ग-नामा गुणानां परिणामः, स च साम्यावस्थानात्मको गुणेभ्योऽतिरिक्तैति तस्य गुण-परिणामत्वम् उपपप्यते, तस्यां च साम्यावस्थायां प्रधान-वाचि-शब्दो धर्म-धर्म्य-भेदेन महद्-आदि-व्यावृत्त्य्-अर्थम् एवात्र श्रुति-स्मृत्योश् च प्रयुज्यते, परमार्थतस् तु गुणा एव तद्-उपलक्षिताः प्रधानम्, भाष्ये गुणानाम् एव प्रधानत्वस्योक्तत्वादिति ।
इदानीं पर्वणां गुणानां च परस्पर-वैधर्म्यैर् भेदो व्युत्पादनीयः, तत्रादाव् अलिङ्गावस्था-रूपस्य पर्वणः पर्व-त्रयाद् गुणेभ्यश् च वैधर्म्यं प्रतिपादयति—अलिङ्गावस्थायामिति । पुरुषार्थो विषय-भोग-विवेक-ख्याती तत्-कार्यौ सुख-दुःखाभावौ च स पुरुषार्थो नालिङ्गावस्थां प्रति हेतुः यतोऽलिङ्गावस्थायाम् आदौ सृष्टेः प्राक् पुरुषार्थता पुरुषार्थ-समूहः कारणं कारणत्वाभिमतो नोत्पद्यत इत्य् अर्थः । दुःख-निवृत्ति-व्यावर्तनाय कारणम् इत्य् उक्तम् । प्रलय-काले दुःख-निवृत्तेः कर्म-क्षयाद् एवोपपत्तेः प्रलयाप्रयोजनतया दुःख-निवृत्तिः प्रलय-कारणं न भवतीत्य् आशयः ।
उपसंहरति—न तस्याइति । एतद् उक्तम् भवति—व्यक्तावस्थायां गुणेभ्यः शब्दाद्य्-उपभोगादि-रूपः पुरुषार्थो जायतेऽतः स तस्याम् अनागतावस्थः कारणं भवतु साम्यावस्थायां तु न तज्-जन्यः कश्चन पुरुषार्थोऽस्तीत्य् अतो नास्याः पुरुषार्थः कारणमिति । एतावता किम् इत्य् अत आह—नासौ पुरुषार्थ-कृतेति । नित्याख्यायतैति । शास्त्रेष्विति शेषः । नित्या स्वाभाविकी अनैमित्तिकत्वेन पर्व-त्रयापेक्षया स्थिरा, स्वाभाविकत्वेऽपि धर्मादिभिः प्रतिबन्धोऽत्र गुणानां साम्य-रूपः परिणामैति भावः । अव्यक्तावस्थायाश् च स्वाभाविकत्वं न व्यक्तावस्थापेक्षया । बहु-कालावस्थायित्वम् एव नित्यत्वं सत्यत्वापर-नामकं व्यवहारे सिद्धम् । धर्मो नित्यः सुख-दुःखे त्व् अनित्ये इत्य् आदि-भारतादि-व्यवहारात् । ईदृश-नित्यत्वं च गीतादिषूक्तम्—
अव्यक्तादीनि भूतानि व्यक्त-मध्यानि भारत ।
अव्यक्त-निधनान्य् एव तत्र का परिदेवना ॥[गीता २.२८] इत्य्-आदिभिरिति ।
अथ वा सर्वदा सत्त्व-रूपं नित्यत्वम् एवात्राप्य् अर्थोऽस्तु, सर्गेऽपि गुण-साम्यस्यात्यन्ततो ऽनुच्छेदात्, अंशत एव वैषम्येणावरण-रूपस्य गुण-साम्यस्य सर्वदा सत्त्वात्, अन्यथा साम्यावस्थाया अत्यन्तोच्छेदे पर्वत्वानुपपत्तेश् च । अनेन हि सूत्रेण ऊर्ध्व-मूलम् अधः शाखं[गीता १५.१]इत्य् आदि-गीताम् अव्यक्त-मूल-प्रभव इत्य्-आदि-मोक्ष-धर्मादिकं चानुसृत्य संसार-रूपो गुण-वृक्ष एव चतुष्पर्वतया निरूपितः । तस्य च वंश-तुल्यस्य गुण-वृक्षस्यावरणानां पूर्व-पूर्व-तत्त्वानाम् अंशत एवोत्तर-तत्त्व-रूपेण परिणामो भवति, समुद्रस्यांशत फेनादि-रूपतावत् न तु दध्ना दुग्धस्येव पूर्व-पूर्व-तत्त्वस्य सर्वांशेन परिणामः । उत्पन्न-कार्यस्य कारणेन पुनर् आपूरानार्थं तु कारणानां स्वकार्यावरकतयावस्थानं सिध्यति । तस्मात् सर्ग-कालेऽपि बहिर् अलिङ्गावस्थावस्थानात् तस्या नित्यत्वमिति ।
ननु प्रकृतिम् आदायाष्टाव् एवावरणानि ब्रह्माण्डस्य श्रूयन्ते न तु तन्मात्राण्य् अपीति चेत् ? न, सूक्ष्म-स्थूलयोर् एकत्व-विवक्षयाष्टधावरण-वचनात् । अत एव भागवत-द्वितीय-स्कन्धे पर-ब्रह्म-गतौ पञ्च-भूतानां बहिस् तन्मात्रावरणे गतिर् उक्ता । इन्द्रियाणि चाकारणत्वान् नावरणानि, तेषाम् उत्पत्तिस् तु तन्मात्र-समान-देशा यथा तिल-समान-देशा सूक्ष्मतैलोत्पत्तिरिति दिक् ।
इतरस्मिन्न् अवस्था-त्रये त्व् अनित्यत्व-रूपं वैधर्म्यम् आह—त्रयाणामिति । आदौ उत्पत्तौ उपादान-कारणत्व-व्यवच्छेदार्थम् आह—स चार्थैति । अनित्या त्रिधा अवस्थेति शेषः । शेषं सुगमम् ।
पर्वसु नित्यानित्यत्व-रूपं वैधर्म्यम् उक्त्वा पर्विणां गुणानां पर्वभ्यो वैधर्म्यम् आह—गुणास् तुइति । गुणास् तु सत्त्वादयः सर्व-विकारेष्व् अनुगता अत उत्पत्ति-विनाश-शून्या अनुपचरित-नित्या इत्य् अर्थः । अलिङ्गावस्थापि हि नैवं नित्येति ।
ननु त्रिगुणात्मक-प्रकृतेर् नित्यत्वे—
प्रकृतिं पुरुषं चैव प्रविश्यात्मेच्छया हरिः ।
क्षोभयामास सम्प्राप्ते सर्ग-काले व्ययाव्ययौ ।[वि.पु. १.२.२९]
तस्माद् अव्यक्तम् उत्पन्नं त्रिगुणं द्विज-सत्तम ॥ इत्य् आदि
स्मृतिषु प्रकृतेर् व्ययोत्पत्ति-वचनं कथम् उपपद्येत ? तत्राह—व्यक्तिभिर् एवैति । गुणान्वयिनीभिर् गुण-धर्मैः कार्य-व्यक्तिभिर् एवातीताद्य्-उपचयान्त-परिणामवतीभिर् हेतुभिर् जन्म-विनाशवन्त इव ते गुणाः प्रतीयन्ते, कार्य-कारण-विभागात्, न तु तेषां स्वतो जन्म-विनाशौ स्त इत्य् अर्थः । तथा च स्वानुगतानां व्ययादिनैव गुणात्मक-प्रकृतेर् व्ययादि-व्यवहार इत्य् आशयः । परिणामस् तु प्रकृतेः ।
पारमार्थिकत्वे सति व्याप्यानाम् उत्पत्ति-विनाशयोः व्यापकेषु व्यवहारे .दर्शनम् आह—यथेति ।
दरिद्राति क्षीणो भवतिइति । समः समाधिःिति । इदं समाधानं दार्ष्टान्तिकेऽपि समानम् इत्य् अर्थः ।
ननु तथापि प्रकृतेर् नित्यत्वं नोपपद्यते, भूयश् चान्ते विश्व-माया-निवृत्तिः, प्रकृतिः पुरुषश् चोभौ लीयेते परमात्मनि[श्वे.उ. १.१०] इत्य् आदि-वाक्येभ्यःिति चेत् ? दत्तोत्तरत्वात्, कार्य-विनाशेन तत्रापि तन्-निवृत्ति-वचनात्, व्यापारोपरमाख्य-लयस्यैव पुरुष-साहचर्येण तत्रावधारणाच् च—
वियोजयत्य् अथान्योन्यं प्रधान-पुरुषाव् उभौ ।
प्रधान-पुंसोर् अनयोर् एष संहार ईरितः ॥िति कौर्म-वाक्याच्[१.४४.२०] च ।
अन्यथा न्यायानुग्रहणे बलवतीभिः प्रकृति-नित्यता-श्रुतिभिर् विरोधाच् च । एवम् एव प्रकृति-पुरुषयोः पुराणेषु श्रूयमाणोत्पत्तिर् अन्योन्य-संयोगेनाभिव्यक्तिर् एव बोध्या—संयोग-लक्षणोत्पत्तिः कथ्यते कर्मजा तयोः[मोक्ष-धर्म २१.७.११]इति स्मृतेः ।
तथा चोक्तम्—
न घटत उद्भवः प्रकृति-पुरुषयोर् अजयोर्
उभय-युजा भवन्त्य् असु-भृतो जल-बुद्बुद-वत् ।
त्वयि त इमे ततो विविध-नाम-गुणैः परमे
सरित इवार्णवे मधुनि लिल्युर् अशेष-रसाः ॥[भा.पु. १०.८७.३१]इति ।
इदानीं प्रकृत्य्-आदीन् स्व-स्व-कार्यैर् अनुमापयितुं पर्व-शब्द-सूचितम् अलिङ्गादीनाम् अविरल-क्रमं दर्शयति—लिङ्ग-मात्रमिति । प्रत्यासन्नम् अव्यवहित-कार्यम् । तत्रैति । तद् धि लिङ्ग-मात्रं तत्रालिङ्गेऽलिङ्गावस्थ-प्रधानेऽव्यक्त-रूपेणाविभक्तम् इत्य् अतस् ततो विविच्यते विभक्तं भवति । तत्र हेतुः—क्रमेति । क्रमस्य पौर्वापरस्य कदाप्य् अनतिक्रमाद् इत्य् अर्थः । यदि हि कारणे ह्य् अनागतावस्थाभिरसताम् अप्य् उत्पत्तिः स्यात्, तर्हि अविशेषात् सर्वं सर्वत्रोत्पद्येत, तथापीतम् अप्य् उत्पद्येत, न च प्राग्-अभावः कारणम्, अभावस्यासिद्धेः । किं चाभावस्य निमित्त-कारणत्वाभ्युपगमे तस्यैवोपादान-कारणत्वम् अपि स्यात्, तथा च जितं शून्य-वादिभिः । अथाभावस्योपादानत्वं न दृष्टमिति चेत् ? तुल्यं निमित्तत्वेऽपि । अत उपादानतावन् निमित्तत्वम् अपि नाभावस्य । तस्मात् कार्य-जनन-शक्तिर् एवानागतावस्था-रूपिणी कार्य-रूपेण परिणमतैति । तद् अनेन भाष्येण सत्-कार्य-वादः प्रसाधितः । तथेत्य् आद्य् अप्य् एवं व्याख्येयम् । महद्-आदिभिः प्रकृत्य्-आद्य्-अनुमान-प्रकारश् च साङ्ख्य-सूत्रैर् उक्तोऽस्माभिर् अपि तद्-भाष्ये प्रपञ्चितो विस्तर-भयात् तु नेह प्रस्तूयतैति । तथा चोक्तं पुरस्तादिति । यथाविशेषेभ्योऽवान्तर-भेद-भिन्ना विशेषा जायन्ते, तथा पुरस्ताद् अस्यैव सूत्रस्यादाव् उक्तम् इत्य् अर्थः ।
ननु कथं गुण-पर्वणां चतुर्धा विभागः सूत्रकारेण कृतः ? ब्रह्माण्ड-स्थावर-जङ्गम-रूपैः पर्वणाम् आनन्त्यम् आशङ्क्य ब्रह्माण्डादीनां सर्वेषां विशेष-कार्याणां विशेषेष्व् एवान्तर्भावम् आह—न विशेषेभ्यैति ।परम् उत्तर-भावि तत्त्वान्तरं तत्त्व-भेदो नास्ति, अतो विशेषाणां तत्त्वान्तर-परिणामो नास्तीत्य् अर्थः । अतो ब्रह्माण्डादिकं सर्वं गृहीतमिति भावः । तत् तत्त्वं च द्रव्यत्वं तत्त्वान्तरत्वं च स्वावृत्ति-द्रव्यत्व-साक्षाद्-व्याप्य-जातिमत्त्वम् । पञ्चविंशति-तत्त्वेषु पञ्चविंशति-जात्य्-अनङ्गीकारे च तत्त्वान्तरत्वं स्वावृत्ति-द्रव्य-विभाजकोपाधिमत्त्वमिति ।
नन्व् एवं तत्त्व-भेदात् कथम् अन्तःकरणस्यैकत्वं तत्र तत्रोक्तं घटेतेति । उच्यते—यथा विशेषाख्य-पञ्च-तत्त्वात्मिकैकेव पृथिवी प्राग् उत्पद्यते, ततः तस्याः खनन-मन्थनादिना पार्थिवे जल-तेजसी अभिव्यक्त-मात्रे भवतः, एवं तत्त्व-त्रयात्मक एवादौ महान् जायते, पश्चाच् च तस्याहङ्कारादिर् वृत्ति-भेदैति । तर्हि किं विशेषाणां परिणामा एव न सन्ति । नेत्य् आह—तेषां तुइति । व्याख्यास्यन्तैति । सूत्रकारेणोत्तर-पाद इनांशास्त्र् ।
स्याद् एतत्—महद्-आदि-क्रमेणोक्तः सृष्टि-प्रकार आकाशादि-क्रम-बोधक-श्रुति-विरोधाद् धेयः, श्रुतौ तन्मात्राद्यश्रवणेन ते पदार्थाश् च कल्पिताः, मन्वादि-स्मृतयश् च साङ्ख्य-कल्पनानुवादेन धर्मादि-परा एव न प्रकृत्य्-आदि-पराइति न स्मृतिभिर् अपि प्रकृत्य्-आदि-सिद्धिरिति ? अत्रोच्यते—गुण-त्रयात्मिका प्रकृतिस् तावत् मूल-कारणतया मैत्रेयोपनिषदि श्रूयते, यथा—
तमो वा इदम् एकमास तत्-परं स्यात् तत्-परेणेरितं विषमत्वं प्रयाति एतद् वै रजसो रूपं तद्-रजः खल्व् ईरितं विषमत्वं प्रयाति एतद् वै सत्त्वस्य रूपं तत् सत्त्वम् एवेरितं तमसः सम्प्रासवत् तत् सांशोऽयंयश् चेतितामात्रः प्रतिपुरुषं क्षेत्रज्ञः सङ्कल्पाध्यवसाय-लिङ्गः प्रजापतिस् तस्य प्रोक्ता अस्यास् तनवो ब्रह्मा रुद्रो विष्णुर् इत्य् आदि,
यथा गर्भोपनिषदि चतुर्विंशति-तत्त्वान्य् अनेन क्रमेणोक्तानि, यथा—
अष्टौ प्रकृतयः, षोडश विकाराः, शरीरं तस्यैवैति ।
तथा प्रश्नोपनिषदि च—
एवं ह वैतत् सर्वं परे आत्मनि सम्प्रतिष्ठते देहिनाम् पृथिवी च पृथिवी-मात्रा चापश्चापोमात्राश् च तेजश् च तेजो-मात्रा च वायुश् च वायु-मात्रा चाकाशश् चाकाश-मात्रा चेत्य्-आदिना परमात्मनि सर्वं त्रयोविंशति-तत्त्वं तिष्ठति समुद्रे नद-नदीवद् इत्य् उक्तम् ।
अतश् चतुर्विंशति-तत्त्वानि प्रत्यक्ष-श्रुत्या स्मृत्य्-अनुमेय-श्रुत्या च सिद्धानि । अद्वैत-श्रुतिस् तु न तासां बाधिका, व्यवहार-परमार्थ-भेदेन विषय-भेदात्, व्यावहारिकाद्वैत-श्रुतीनां चाविभाग-लक्षणाभेद-परताया एव नदी-समुद्रादि-.दर्शनैर् अवगमादिति । तेषां च महद्-आदीनां सृष्टि-क्रमोऽपि श्रुतौ पाठ-क्रमाद् अवधार्यते ।
एतस्माज् जायते प्राणो मनः सर्वेन्द्रियाणि च ।
खं वायुर् ज्योतिर् आपः पृथिवी विश्वस्य धारिणी ॥ इत्य् आदिषु ।
यच् च तैत्तिरीयके वियद्-आदि-सृष्टिः श्रूयते, तत्र वियतः प्राग्-बुद्ध्य्-आदि-सृष्टिः । पूरणीया स्मृत्य्-उन्नेय-श्रुत्य्-एक-वाक्यतया छान्दोग्ये वियद्-वायु-पुराणवदिति ।
किं च, साङ्ख्योक्त-सृष्टि-क्रमे स्पष्टैव श्रुतिर् अस्ति, यथा गोपाल-तपनीये—एकम् एवाद्वितीयं ब्रह्मासीत् तस्माद् अव्यक्तम् एवाक्षरं तस्माद् अक्षरान् महत् महतो वै अहङ्कारस् तस्माद् एवाहङ्कारात् पञ्च तन्मात्राणि तेभ्यो भूतादीनीति । वेदान्त-सूत्रैर् अपि बुद्ध्य्-आदि-क्रमेणैव सृष्टिर् उक्ता तत्र नवीनानां कुव्याख्या चास्माभिस् तद् भाष्य एवापास्तेति । तद् एवं साङ्ख्य-शास्त्रे प्रपञ्चितानि चतुर्विंशति-तत्त्वानि अत्र सङ्क्षेपतः सूत्र-द्वयेनोक्तानि । एतेषां च स्वरूपादिकं तत्रैव प्रदर्शितं सङ्क्षेपतस् त्व् अत्राप्य् उच्यते—पञ्च भूतान्य् एकादशेन्द्रियाणि च प्रसिद्धान्य् एव, तन्मात्राणि भूतानां साक्षात् कारणानि, शब्दादिमत् सूक्ष्म-द्रव्याणि अतस् तानि सूक्ष्म-भूतान्य् अपि क्वचिद् उच्यन्ते, महद्-अहङ्कारौ च मोक्ष-धर्मे लक्षितौ, यथा—
हिरण्यगर्भो भगवान् एष बुद्धिरिति स्मृतः ।
महानिति च योगेषु विरिञ्चिरिति चाप्य् उत ॥
धृतं चैकात्मकं येन कृत्स्नं त्रैलोक्यम् आत्मना ।
तथैव बिम्ब-रूपत्वाद् विश्वरूपैति श्रुतः ।
एष वै विक्रियापन्नः सृजत्य् आत्मानम् आत्मना ।
अहङ्कारं महा-तेजाः प्रजापतिम् अहङ्कृतम् ॥ इत्य् आदि ।
अत्र चोपासनार्थं शक्ति-शक्तिमद् अभेदेनोपाध्योर् नामादिकम् उपाधिमत्त्वेन तयोर् उक्तेर् मनुष्य-पश्व्-आदि-नाम-रूपादिवत् । स्मृत्य्-अन्तरेषु साङ्ख्य-योगयोश् चाविवेकतो जड-वस्तुन्य् एव तद्-व्यवहारः, ज्ञानाचार्ययतिआदि-रूप-महत्-तत्त्वस्याभिमान-रूपाहङ्कारस्य चान्तःकरण-धर्मत्वादिति । प्रकृतिस् तु त्रयोविंशति-तत्त्व-कारणानि सत्त्वादि-नामक-सूक्ष्म-द्रव्याणि असङ्ख्यातानि । गुण-शब्दश् च तेषु पुरुषोपकरणत्वात् । पुरुष-बन्धकत्वाच् च प्रयुज्यते । तच् च गुण-त्रयं सुख-दुःख-मोह-धर्मकत्वात् सुख-दुःख-मोहात्मकम् उच्यते, पुरुषाणां सर्वार्थ-साधकत्वाद् राजामात्यवत् प्रधानम् उच्यते, जगद्-उपादानत्वात् प्रकृतिर् जगन्-मोहकत्वाच् च मायेत्य् उच्यते, वैशेषिकादिभिश् च स्व-स्व-परिभाषया परमाण्व्-अज्ञानादि-शब्दैश् चोच्यतेइति ।
तद् उक्तम् वासिष्ठे—
नाम-रूप-विनिर्मुक्तं यस्मिन् सन्तिष्ठते जगत् ।
तम् आहुः प्रकृतिं केचिन् मायाम् एके परे त्व् अणून् ॥ इत्य् आदिनेति ।
एषु च त्रयोविंशति-तत्त्वानि सर्गादौ स्थूल-सूक्ष्म-शरीर-द्वय-रूपेण परिणमन्ते । तत्र स्थूलं पञ्च-भूतेभ्यः सूक्ष्मं च शेषेभ्यः । तयोश् च सूक्ष्मं काष्ठवच् चैतन्याभिव्यञ्जकत्वात् पुरुषस्य लिङ्ग-शरीरम् इत्य् उच्यते, तच् चाहङ्कारस्य बुद्धौ प्रवेशात् सप्तदशावयवकं साङ्ख्य-शास्त्रे प्रोक्तं सप्तदशैकं लिङ्गमिति । अत्र एकत्वं समष्ट्य्-अभिप्रायेणोक्तं, व्यक्ति-भेदः कर्म-विशेषाद् इत्य् उत्तर-सूत्रेण व्यक्ति-रूप एकस्यैव लिङ्ग-शरीरस्य व्यक्ति-भेद-वचनात् । अयं च व्यष्टि-समष्टि-भावो न वन-वृक्षवत् किं तु पिता-पुत्रवद् एव—
तच् छरीर-समुत्पन्नैः कार्यैस् तैः करणैः सह ।
क्षेत्रज्ञाः समजायन्त गात्रेभ्यस् तस्य धीमतः ॥
इति मन्व्-आदि-वाक्यैर् हिरण्यगर्भस्य शरीर-द्वयांशैर् एवाखिल-पुंसां शरीर-द्वयोत्पत्तिरिति सिद्धेः, वन-वृक्षयोस् तु नैवं कार्य-कारण-भावोऽस्तीति दिक् ॥१९॥
—o)0(o—
(२.२०)
व्याख्यातं दृश्यम् । अथ द्रष्टुः स्वरूपावधारणार्थम् इदम् आरभ्यते—
द्रष्टा दृशि-मात्रः शुद्धोऽपि प्रत्ययानुपश्यः ॥२०॥
दृशि-मात्रैति दृक्-शक्तिर् एव विशेषणापरामृष्टेत्य् अर्थः । स पुरुषो बुद्धेः प्रतिसंवेदी । स बुद्धेर् न सरूपो नात्यन्तं विरूपैति । न तावत् सरूपः । कस्मात् ? ज्ञाताज्ञात-विषयत्वात् परिणामिनी हि बुद्धिः । तस्याश् च विषयो गवादिर् घटादिर् वा ज्ञातश् चाज्ञातश् चेति परिणामित्वं दर्शयति । सदा-ज्ञात-विषयत्वं तु पुरुषस्यापरिणामित्वं परिदीपयति ।
कस्मात् ? न हि बुद्धिश् च नाम पुरुष-विषयश् च स्याद् गृहीता चागृहीता चेति सिद्धं पुरुषस्य सदाज्ञात-विषयत्वं ततश् चापरिणामित्वमिति । किं च, परार्था बुद्धिः संहत्य-कारित्वात् । स्वार्थः पुरुषैति । तथासर्वार्थाध्यवसायकत्वात् त्रिगुणा बुद्धिस् त्रिगुणत्वाद् अचेतनेति । गुणानां तूपद्रष्टा पुरुषैति । अतो न सरूपः । अस्तु तर्हि विरूपैति । नात्यन्तं विरूपः ।
कस्मात् ?शुद्धोऽप्य् असौ प्रत्ययानुपश्यः । यतः प्रत्ययं बौद्धम् अनुपश्यति । तम् अनुपश्यन्न् अतदात्मापि तद्-आत्मक इव प्रत्यवभासते । तथा चोक्तं—अपरिणामिनी हि भोक्तृ-शक्तिर् अप्रतिसङ्क्रमा च परिणामिन्य् अर्थे प्रतिसङ्क्रान्तेव तद् वृत्तम् अनुपतति । तस्याश् च प्राप्त-चैतन्योपग्रह-रूपाया बुद्धि-वृत्तेर् अनुकार-मात्रतया बुद्धि-वृत्त्य्-अविशिष्टा हि ज्ञान-वृत्तिरित्य् आख्यायते ॥२०॥
तत्त्व-वैशारदी : व्याख्यातं दृश्यम् । द्रष्टुः स्वरूपावधारणार्थम् आरभ्यते—द्रष्टा दृशि-मात्रः शुद्धोऽपि प्रत्ययानुपश्यः ॥
व्याचष्टे—दृशि-मात्रैति। विशेषानि धर्मास् तैर् अपरामृष्टा । तद् अनेन मात्र-ग्रहणस्य तात्पर्यं दर्शितम् । स्याद् एतत् । यदि सर्व-विशेषण-रहिता दृक्-शक्तिर् न तर्हि शब्दादयो दृश्येरन्, न हि दृशिनासंस्पृष्टं दृश्यं भवतीत्य् अत आह—स पुरुषैति । बुद्धि-दर्पणे पुरुष-प्रतिबिम्ब-संक्रान्तिर् एव बुद्धि-प्रतिसंविदित्वं पुंसः । तथा च दृशि-च्छायापन्नया बुद्ध्या संसृष्टाः शब्दादयो भवन्ति दृश्या इत्य् अर्थः।
स्याद् एतत् । पारमार्थिकम् एव बुद्धि-चैतन्ययोः कस्माद् ऐक्यं नोपेयते, किम् अनया तच्-छायापत्त्यत आह—स बुद्धेर् न सरूपैति । तदासरूपस्य तच्-छायापत्तिर् अपि दुर्घटेत्य् अत आह—नात्यन्तं विरूपैति ।
तत्र सारूप्यं निषेधति—न तावतिति । हेतुं पृच्छति—कस्मात् ?इति । सहेतुकं वैरूप्ये हेतुम् आह—ज्ञाताज्ञात- इति । परिणामिनी बुद्धिर् यस्मात् तस्माद् विरूपा । यदा खल्व् इयं शब्दाद्य्-आकारा भवति, तदा ज्ञातोऽस्याः शब्दादि-लक्षणो भवति विषयः । तद्-अनाकारत्वे त्व् अज्ञातः । तथा च कदाचिद् एव तद्-आकारतां दधती परिणामिनीति । प्रयोगश् च भवति—बुद्धिः परिणामिनी, ज्ञाताज्ञात-विषयत्वाच् छ्रोत्रादिवदिति ।
तद् वैधर्म्यं पुरुषस्य तद्-विपरीताद् धेतोः सिध्यतीत्य् आह—सदा-ज्ञात- इति । स्याद् एतत्—सदा ज्ञात-विषयश् चेत् पुरुषो न तर्हि केवली स्याद् इत्य् आशयवान् पृच्छति—कस्मात् ?इति । उत्तरम्—न हि बुद्धिश् चनामैति । बुद्ध्य्-अग्रहणयोर् अस्ति सह सम्भवो निरोधावस्थायाम् अत उक्तं विरोध-सूचनाय—पुरुष-विषयश् चैति । तेनाद्यश् च-कारो बुद्धिं विषयत्वेन समुच्चिनोति । परिशिष्टौ तु विरोध-द्योतकौ च-काराविति ।
प्रयोगस् तु पुरुष्ऽपरिणामी, सदा सम्प्रज्ञात-व्युत्थानावस्थयोर् ज्ञात-विषयत्वात् । यस् तु परिणामी नासौ सदा ज्ञात-विषयो भवति, यथा श्रोत्रादिरिति व्यतिरेकी हेतुः ।
अपरम् अपि वैधर्म्यम् आह—किं च परार्थाइति । बुद्धिः खलु क्लेश-कर्म-वासनादिभिर् विषयेन्द्रियादिभिश् च संहत्य पुरुषार्थम् अभिनिर्वर्तयन्ती परार्था । प्रयोगश् च परार्था बुद्धिः संहत्य-कारित्वाच् छयनासनाभ्यङ्गवदिति । पुरुषस् तु न तथेत्य् आह—स्वार्थः पुरुषैति । सर्वं पुरुषाय कल्पते । पुरुषस् तु न कस्मैचिद् इत्य् अर्थः।
वैधर्म्यान्तरम् आह—तथा सर्वार्थेति । सर्वानर्थाच् छान्त-घोर-मूढांस् तद्-आकार-परिणता बुद्धिर् अध्यवस्यति, सत्त्व-रजस्-तमसां चैते परिणामाइति सिद्धा त्रिगुणाबुद्धिरिति । न चैवं पुरुष इत्य् आह—गुणानां तूपद्रष्टा पुरुषैति । तत्-प्रतिबिम्बितः पश्यति, न तु तद्-आकार-परिणत इत्य् अर्थः । उपसंहरति—अतैति ।
अस्तु तर्हि विरूपैति । नात्यन्तं विरूपः । कस्मात् ? यतः शुद्धोऽपि प्रत्ययानुपश्यः । यथा चैतत् तथोक्तं वृत्ति-सारूप्यम् इतरत्र इत्य् अत्र । तथा चोक्तं पञ्चशिखेन—अपरिणामिनी हि भोक्तृ-शक्तिर् आत्मा । अत एव बुद्धाव् अप्रतिसङ्क्रमा च, परिणामिनि बुद्धि-रूपेऽर्थेसङ्क्रान्तेव तद्-वृत्तिम् बुद्धि-वृत्तिम् अनुपतति ।
नन्व् असंक्रान्ता कथं संक्रान्तेव कथं वा वृत्तिं विनानुपततीत्य् अत आह—तस्याश् चैति । प्राप्तश् चैतन्योपग्रह उपरागो येन रूपेण तत् तथा प्राप्त-चैतन्योपग्रहं रूपं यस्याः सा तथोक्ता । एतद् उक्तम् भवति—यथा निर्मले जलेऽसंक्रान्तोऽपि चन्द्रमाः संक्रान्त-प्रतिबिम्बतया संक्रान्त इव, एवम् अत्राप्य् असंक्रान्तापि संक्रान्त-प्रतिबिम्बा चिति-शक्तिः संक्रान्तेव, तेन बुद्ध्य्-आत्मत्वम् आपन्ना बुद्धि-वृत्तिम् अनुपततीति । तद् अनेनानुपश्यैति व्याख्यातम्, ताम् अनुकारेण पश्यतीत्य् अनुपश्यैति ॥२०॥
योग-वार्तिकम् :सूत्रान्तरम् अवतारयति—व्याख्यातमिति । द्रष्टा दृशि-मात्रः शुद्धोऽपि प्रत्ययानुपश्यः ॥ दृशिर् अत्र न गुणः, किं तु प्रकाश-स्वरूपं द्रव्यं—
ज्ञानं नैवात्मनो धर्मो न गुणो वा कथञ्चन ।
ज्ञान-स्वरूप एवात्मा नित्यः सर्व-गतः शिवः ॥ इत्य् आदि-स्मृतेः ।
अग्न्य्-औष्ण्यादिषु च भेदाभेदाव् एव, औष्ण्याग्रहणेऽपि चक्षुषाग्नि-ग्रहणात् । पुरुषस् तु ज्ञान-ग्रहणं विना न गृह्यतैति । मात्र-शब्देन पूर्व-सूत्रोक्त-प्रकाश-क्रियतेआदिगुण-व्यावृत्तिः, तेष्व् एव च सर्वेषां शेष-गुणानाम् अन्तर्-भावः, शुद्ध-शब्देन च भूतेन्द्रियात्मकत्व-व्यावृत्तिः, शुद्धेऽपि .भाव्य्-अभेद-भ्रमोपपादनाय शेष-विशेषणम् । अत्र च परिणामित्व-पारार्थ्याचेतनत्वादीनि .भावेर् अशुद्धिः, तद्-राहित्यं च पुरुषस्य शुद्धिरिति भाष्ये व्यक्तीभविष्यति । प्रत्ययानुपश्यः प्रत्यय-समानाकारतापन्न इव सन् .भावि-वृत्ति-साक्षीत्य् अर्थः । अनेन विशेषणेन द्रष्टरि प्रमाणं चोक्तमिति । शुद्धोऽपीत्य् आदि-भाष्यस्य फलान्तरं च भाष्यकारो व्याख्यास्यति ।
दृशि-मात्र-शब्दार्थम् आह—दृक्-शक्तिर् एवैति । प्रलय-मोक्षादौ जीवानां दर्शनाख्य-चैतन्य-फलोपधानं नास्तीति शक्ति-पदोपादानम् । एव-शब्दार्थम् आह—विशेषणापरामृष्टेति । विशिष्यते व्यावर्त्यते द्रव्यान्तराद् एभिरिति विशेषणानि विशेष-गुणाः वैशेषिक-शास्त्रोक्ताः । तैः काल-त्रयेऽप्य् असम्बद्धा इत्य् अर्थः । तेन संयोग-सङ्ख्या-परिमाणादि-सत्त्वेऽप्य् अक्षतिः ।
द्रष्टेति लक्ष्य-पदं बुद्धि-व्यावृत्ततया व्याचष्टे—स पुरुषैति । संवेदिन्या बुद्धेः प्रतिसंवेदी पुरुषः, संवेदनम् अर्थाकार-वृत्तिः, तस्याः प्रतिसंवेदनं प्रतिध्वनिवत् प्रतिबिम्बं यत्र स पुरुष इत्य् अर्थः । बुद्धेः साक्षीति तु पर्यवसितोऽर्थः । एतेन प्रतिबिम्ब-रूपयारोपित-क्रियया कल्पितं दर्शन-कर्तृत्वं द्रष्टृत्वम् इत्य् अपि सूचितम् । आत्मनो ज्ञान-स्वरूपत्वं च—
यथा दीपः प्रकाशात्मा स्वल्पो वा यदि वा महान् ।
ज्ञानात्मानं तथा विद्याद् आत्मानं सर्व-जन्तुषु ॥
इत्य् आदि-वाक्य-शतानुग्रहेण लाघव-तर्कानुग्रहेण चात्मत्वादि-रूप-व्यतिरेक्यादि-लिङ्गैर् अनुमेयं ज्ञानाश्रयत्व-कल्पने धर्म-धर्मि-भावापन्न-वस्तु-द्वय-कल्पना-गौरवात् । अहं जानामीति प्रत्ययस् तु अहं गौरैति भ्रम-शतान्तः-पातितयाऽप्रामाण्य-शङ्कास्कन्दितत्वेन यथोक्तानुमानापेक्षया दुर्बलैति दिक् ।
बुद्धि-पुरुषयोर् विवेक-प्रतिपादनाय तयोर् अभेद-भ्रमोपपादनाय च तयोर् वैरूप्य-सारूप्य-प्रतिपादकतया क्रमेण शुद्धोऽपीत्य्-आदि-विशेषण-द्वयं व्याचष्टे—स न बुद्धेः सरूपो नात्यन्तं विरूपैति । पारमार्थिक-सारूप्याभावः शुद्धोऽपीत्य्-आद्य्-अदलार्थः । प्रतिबिम्ब-रूपापारमार्थिक-सारूप्यं च शेष-दलार्थः । तथा च परिणामित्वादि-रूप-बुद्धि-सारूप्याभाव एव शुद्धिः, बुद्धि-वृत्ति-सारूप्यम् एव च प्रत्ययानुपश्यत्वम् इत्य् आयातम् ।
सारूप्याभाव-सारूप्ये क्रमेण प्रतिपादयति—न तावत् इत्य्-आदिना । कस्मात् ? इत्य् अस्योत्तरम् । परिणामिनी हि बुद्धिःिति । परिणामित्वे हेतुर् ज्ञाताज्ञात-विषयत्वादिति । ज्ञानेत्य्-आद्य्-उक्तं विवृणोति—तस्याश् चैति । तस्या बुद्धेः । चो हेतौ । गवादिरिति । गो-शब्दः शब्द-वाची, अतो गवादि-घटादि-पदाभ्यां धर्म-धर्मि-सामान्य-परतया धर्म-धर्मि-रूपाणाम् अशेषाणां बुद्धि-विशेषाणां ग्रहणम् । ज्ञातो वृत्ति-व्याप्यस् तद्-अन्यश् चाज्ञातः । दर्शयति अनुमापयति इत्य् अर्थः । अयं भावः यदा बुद्धिः परिणामिनी स्यात्, तदैव कदाचिद् बुद्धिः शब्दाद्याकारा भवति, कदाचिच् च नेत्य् उपपद्यते । न च पुरुष इव बुद्धाव् अपरिणामित्वेऽपि विषयस्य प्रतिबिम्बनम् एव विषयाकारतास्तु, ततश् च प्रतिबिम्ब-कादाचित्कत्वेन ज्ञाताज्ञात-विषयत्वम् उपपद्येतेति वाच्यम्, स्वप्न-ध्यानादौ विषयासान्निध्येन तत्-प्रतिबिम्बासम्भवात्, शास्त्रेषु बुद्धौ विषय-प्रतिबिम्ब-वचनं तु तत्-समानाकार-परिणाम-मात्रेणातो बुद्धेर् अर्थ-ग्रहणस्यानित्यतया तस्या अर्थाकार-परिणामोऽनुमीयतैति ।
बुद्धेः परिणामित्वं दर्शयित्वा तद्-अभावं पुरुषे दर्शयति—सदा ज्ञातेति । सदा ज्ञातो विषयो बुद्धि-वृत्ति-रूपो येन तस्य भावः सदाज्ञात-विषयत्वम् । परिदीपयति अनुमापयति । यदि हि पुरुषः परिणामी स्यात्, तदा जाड्य-परिणामेन कदाचित् पुरुषस्य विषयो बुद्धि-वृत्तिर् अज्ञातोऽपि तिष्ठेत् । ततश् च वर्तमानाया अपि घटादि-वृत्तेर् अज्ञान-सम्भवात् घटादिकं निश्चिनोमि न वेत्य्-आदि संशयः स्यात्, तथा योग्यानुपलब्ध्या घटादि-ज्ञानाभाव-निश्चयश् च न स्यात्, अज्ञात-वृत्ति-सत्ता-सम्भवादिति भावः ।
नन्व् एतावता भोक्तुर् ज्ञानं परिणामो मास्तु सुखादि-परिणामाभावस् तु कथं तेनानुमाप्यतैति चेत् ? उच्यते—शब्दाद्-निश्चय-रूपस्य परिणामस्य बुद्धौ सिद्ध्यैव तत्-कार्याणाम् इच्छाकृति-सुख-दुःखादृष्ट-संस्कारादीनां बुद्धि-धर्मत्वेनैव सिद्धेः, सामानाधिकरण्य-प्रत्यासत्त्या कार्य-कारण-भावे लाघवादिति ।
ननु न पुरुषस्यापि सदाज्ञात-विषयत्वं प्रलयादौ स्व-विषयस्य बुद्धि-वृत्तेर् अदर्शनाद् इत्य् आक्षिपति—कस्मादिति । समाधत्ते—न हीति । न हि पुरुष-विषयो बुद्धि-वृत्तिर् अपि शब्दादिवत् स्याच् च तिष्ठेच् च, अथ वा अगृहीता गृहीता च काल-भेदेन भवतीत्य् अर्थः । तथा च स्मर्यते—
न चिद् अप्रतिचित्रास्ति दृश्याभावाद् ऋते किल ।
क्वचिन् नाप्रतिबिम्बेन किलादर्शोऽवतिष्ठते ॥
तथा च प्रलयादौ वृत्त्य्-आख्य-विषयाभावाद् एव तां न पश्यतीति भावः । उपसंहरति— इति सिद्धमिति ।
परिणामित्ववद् एव परार्थत्वापरार्थत्व-रूपम् अपि वैधर्म्यं बुद्धि-पुरुषयोर् दर्शयति—किं चेति । बुद्धिः परार्था स्वाभिन्नस्य भोगादि-साधनं संहत्य-कारित्वात् सहकारि-सापेक्ष-व्यापारकत्वात्, शय्यासन-शरीरादिवत् । पुरुषश् च स्वार्थः, स्वस्य च भोगादि-साधनम् उक्त-हेत्व्-अभावाद् यन् नैवं तन् नैवं, यथा स एव दृष्टान्त इत्य् अर्थः । बुद्धेर् हि व्यापारो विषय-ग्रहणादिर् इन्द्रियादि-सापेक्षः शय्यादीनाम् अपि शयनादि-कार्यं भूम्य्-आदि-सापेक्षं, पुरुषस्य सुखादि-प्रकाशनं च व्यापार एव न भवति, स्वरूपतो नित्यत्वात् । नापि सुखादि-सत्त्वे तत्-प्रकाशार्थंपुरुषः सहकारिणम् अपेक्षतैति भावः । बुद्ध्य्-आदेः परार्थत्वे च श्रुतिः—न वा अरे सर्वस्य कामाय सर्वं प्रियं भवत्य् आत्मनस् तु कामाय सर्वं प्रियं भवति[बृ.आ.उ. २.४.५] इत्य्-आदि ।
अत्र कश्चित्—स्वार्थैति साध्यस्य न परार्थ इत्य् अर्थम् आह, तन् न । भृत्य-चेतनस्यापि स्वामि-चेतनार्थत्व-दर्शनात् । परार्थत्वम् एव तु पर-मात्रार्थत्वमिति चेत् ? न अचेन्तत्व-रूपं वैधर्म्यान्तरम् आह—तथा सर्वार्थेति । सुख-दुःख-मोहात्मकांस् त्रिगुणान् सर्वार्थान् बुद्धिर् अपि तद्-आकारतया त्रिगुणा सत्त्वादि-गुण-त्रयमयीत्य् अनुमीयते, त्रिगुणत्वाच् च पृथिव्य्-आदिवद् अचेतनेति सिद्धम् । गुणानां तूपद्रष्टा पुरुषो द्रष्टा बुद्धि-सान्निध्येन बुद्धि-वृत्ति-प्रतिबिम्ब-मात्रतो गुण-द्रष्टा न गुणाकार-परिणामेन बुद्धिवदिति । अतो न स त्रिगुणः, ततश् चेतनैति शेषः । उपसंहरति—अतैति । अतो वैधर्म्य-त्रयान् न बुद्धि-सरूपः पुरुष इत्य् अर्थः । एतावता शुद्धैति व्याख्यातम् ।
ननु सर्वाभिमान-निवृत्त्य्-अर्थं सामान्यत एव दृग्-दृश्य-विवेकः प्रतिपादनीयः । तत् किमिति बुद्धि-पुरुषयोर् एव वैषम्यं प्रतिपाद्यतैति चेत् ? न, बुद्धिर् एव पुरुषस्य साक्षाद् दृश्या बुद्ध्य्-आरूढतयैवान्येषां दृशत्वात् । तस्याम् एव साक्षाद् अभिमानः, तत्-सम्बन्धाद् एवान्यत्राभिमानात् । मृत-देहे सुषुप्त्य्-अवस्थ-प्राणे च चैतन्याभावस्य स्पष्टत्वात्, एकैकेन्द्रिय-घातेऽपि चैतन्योपलब्धेः इन्द्रियाणाम् अप्य् अचैतन्यस्य स्पष्टत्वात् । अतो बुद्धि-विवेकाद् एव सर्वाभिमान-निवृत्तिर् इत्य् आशयेन बुद्धि-वैधर्म्यम् एव पुरुषेषु प्रायशः प्रतिपाद्यते । किं च, बुद्ध्य्-अतिरिक्तेभ्य आत्म-विवेकस्य न्याय-वैशेषिकाभ्याम् एव सिद्धत्वेन बुद्धितो विवेक एव साङ्ख्य-योगयोर् असाधारणं कृत्यमिति ।
अत्यन्त-वैरूप्यं निराकर्तुम् उत्थापयति—अस्तु तर्हीति । यत इत्य् अस्य पूर्वेणान्वयः । प्रत्ययानुपश्य इत्य् एतद् व्याचष्टे—प्रत्ययं बौद्धमिति । बुद्धि-वृत्तिम् अनुपश्यतीत्य् अर्थः ।
ननु बुद्धि-द्रष्टृत्वेऽपि कथं नात्यन्तं बुद्धि-वैरूप्यम् ? तत्राह—तम् अनुपश्यन्निति । यतस् तम् अनुपश्यन्न् अतः पुरुषोऽतदात्मापि परमार्थतो बुद्ध्य्-असरूपोऽपि तत्-सरूप इव प्रकाशत, तद्-अनुकारी भवति, स्फटिक इव जपा-सरूप इत्य् अर्थः । अर्थाकारत्व-स्वैवार्थ-ग्रहण-रूपतायाः बुद्धि-स्थले सिद्धत्वाद् इत्य् अर्थः । प्रतिबिम्ब-रूपेण च मिथ्या-सारूप्येण न पारमार्थिकासारूप्य-विरोधः ।
यथोक्तयोः सारूप्य-वैरूप्ययोः पञ्चशिखाचार्य-वाक्यं प्रमाणयति—तथा चोक्तमिति । भोक्तृ-शक्तिर् बुद्धिवत् परिणामिणी न भवति, तथा बुद्धिवत् स्व-विषये संक्रान्ता उपरक्तापि न भवति, विकार-हेतु-संयोगस्यैवोपरागत्वात् बुद्धि-विकार-प्रतिबिम्बेनैवोपपत्तौ पुरुषस्य विकार-कल्पना-वैयर्थ्यात् । आभ्यां विषयणाभ्यां वैरूप्यं दर्शितम् ।
इदानीं सारूप्यं दर्शयितुम् आदौ बुद्धेश् चिद्-रूपत्वम् उपपादयति—परिणामिन्य् अर्थैति । परिणामिनि स्व-स्वार्थे विषये बुद्धौ प्रतिबिम्ब-रूपेण संक्रान्तेवोपरक्तेव सती तद्-वृत्तिं विषयाद्य्-आकाराम् अनुपतति चेतनाम् इव करोति, यथा सूर्यो जलेऽनुपतन् जलं सूर्यम् इव करोति तद्वत् । अनेन बुद्धेः रूपं दर्शयित्वा पुरुषस्य बुद्धि-सारूप्यं दर्शयति—तस्याश् चैति । हि-शब्दोऽवधारणे । तस्या अपि भोक्तृ-शक्तेर् ज्ञान-वृत्तिर् ज्ञान-रूपा वृत्तिर् बुद्धि-वृत्त्य्-अविशिष्टैवेत्य् आख्यायत इत्य् अन्वयः । अत्र हेतुः—प्राप्त- इति । उपग्रह उपरागः । उक्त-रीत्या प्राप्त-चैतन्योपराग-कल्पाया बुद्धि-वृत्तेर् अनुकारिणी प्रतिबिम्बोद्ग्राहिणी । तन्मात्रतयेति ज्ञान-वृत्तेर् विशेषणम् । तथा च परस्पर-प्रतिबिम्बात् द्वयोर् अपि चेतनत्व-सुखादि-परिणामकत्वं रूपं सारूप्यम् इत्य् अर्थः । आख्यायत इत्य् अनन्तरमिति शब्दः पूरणीयः ।
तद् अनेन सूत्रेण जीवेश्वर-साधारण्येन चिन्मात्रत्वम् उक्तम् । तथा च श्रुति-स्मृती—
चेता-मात्रः प्रतिपुरुषं क्षेत्रज्ञः ।
ज्ञानम् एव परं ब्रह्म ज्ञानं बन्धाय चेष्यते ।
ज्ञानात्मकम् इदं विश्वं न ज्ञानाद् विद्यते परम् ॥िति ।
ये तु वैशेषिकादयो ज्ञानाश्रयम् आत्मानं मन्यन्ते ते श्रुति-स्मृति-विरोधेनोपेक्षणीयाः । किं च, लाघवात् प्रतिपुरुषम् एकैक-मात्र-व्यक्ति-नित्य-ज्ञान-सिद्धौ तस्याश्रयो गौरवात्, न कल्प्येते, जानामीति प्रत्ययस्य संयोग-सम्बन्धेनैवोपपत्तेः । यथा हीन्धनं तेजस्वीति प्रत्ययः प्रमैव । लोकानाम् अहमिति प्रत्यये चावश्यं बुद्धिर् अपि भासते अनादि-मिथ्या-ज्ञान-वासनाख्य-दोषस्य प्रतिबन्धे मानाभावात् । अतोऽहं जानामीत्य् अविदुषां प्रत्ययोऽहम् अंशे भ्रमो ज्ञानतत्त्वांशे प्रमेत्य् आवयोः समानम् एव । विदुषां तु जानामीति प्रत्ययोऽसिद्ध एव, पश्यस्य सर्वज्ञत्वादि-व्यवहारस् तु लोक-व्यवहारादिति । अधिकं तु साङ्ख्य-भाष्यादौ प्रोक्तमिति दिक् ॥२०॥
—o)0(o—
(२.२१)
तद्-अर्थ एव दृश्यस्यात्मा ॥२१॥
दृशि-रूपस्य पुरुषस्य कर्म-रूपताम् आपन्नं दृश्यमितितद्-अर्थ एव दृश्यस्यात्मा भवति । तत्-स्वरूपं तु पर-रूपेण प्रतिलब्धात्मकं भोगापवर्गार्थतायांकृतायांपुरुषेण न दृश्यतैति । स्वरूप-हानाद् अस्य नाशः प्राप्तः । न तु विनश्यति ॥२१॥
तत्त्व-वैशारदी : द्रष्टृ-दृश्ययोः स्वरूपम् उक्त्वा स्व-स्वामि-लक्षण-सम्बन्धाङ्गं दृश्यस्य द्रष्ट्र्-अर्थत्वम् आह—तद्-अर्थ एव दृश्यस्यात्मेति । व्याचष्टे—दृशि-रूपस्य पुरुषस्य भोत्कुः कर्म-रूपतां भोग्यताम् आपन्नं दृश्यमिति । तस्मात् तद्-अर्थ एव द्रष्ट्र्-अर्थ एव दृश्यस्यात्माभवति, न तु दृश्यार्थः ।
ननु नात्मात्मार्थम् ? इत्य् अत आह—स्वरूपंभवतीति । एतद् उक्तंभवति—सुख-दुःखात्मकंदृश्यं भोग्यम् ।सुख-दुःखे चानुकूलयितृ-प्रतिकूलयितृणी तत्त्वेन तद्-अर्थ एव व्यवतिष्ठेते । विषया अपि हि शब्दादयस् तादात्म्याद् एव चानुकूलयितारः प्रतिकूलयितारश् च । न चात्मैवैषाम् अनुकूलनीयः प्रतिकूलनीयश् च, स्वात्मनि वृत्ति-विरोधात् । अतः पारिशेष्याच् चिति-शक्तिर् एवानुकूलनीया च प्रतिकूलनीया च । तस्मात् तद्-अर्थम् एव दृश्यं न तु दृश्यार्थम् ।
अतश् च तद्-अर्थ एव दृश्यस्यात्मा न दृश्यार्थः । यत् स्वरूपम् अस्य यावत् पुरुषार्थम् अनुवर्तते, निर्वर्तिते च पुरुषार्थे निवर्तते इत्य् आह—तत्-स्वरूपमिति । स्वरूपं तु दृश्यस्य जडं पर-रूपेणात्म-रूपेण चैतन्येन प्रतिलब्धात्मकम् अनुभूत-स्वरूपं भोगापवर्गार्थतायां कृतायां पुरुषेण न दृश्यते । भोगः सुखाद्य्-आकारः शब्दाद्य्-अनुभवः । अपवर्गः सत्त्व-पुरुषान्यतानुभवः । तच् चैतद् उभयम् अप्य् अजानतो जडाया बुद्धेः पुरुष-च्छायापत्त्येति पुरुषस्यैव । तथा च पुरुष-भोगापवर्गयोः कृतयोर् दृश्यस्य भोगापवर्गार्थता समाप्यतैति भोगापवर्गार्थतायां कृतायाम् इत्य् उक्तम् । अत्रान्तरे चोदयति—स्वरूप-हानादिति । परिहरति—न तु विनश्यतीति ॥२१॥
योग-वार्तिकम् : बुद्ध्य्-अतिरिक्ते द्रष्टरि प्रमाणम् आह सूत्रकारः—तद्-अर्थ एव दृश्यस्यात्मा । तस्य पुरुषस्यार्थः प्रयोजने भोगापवर्गाव् एवार्थः प्रयोजनं यस्य स तथेति । मध्यम-पद-लोपी समासः । पुरुषस्य भोगापवर्ग-प्रयोजनकम् एव दृश्यस्य स्वरूपं कार्य-कारणात्मकं गुण-त्रयं न स्वार्थम् इत्य् अर्थः । तथा च गुणाः परार्थाः संहत्य्-कारित्वात् शय्यादिवद् इत्य् अनुमानेन बुद्ध्य्-आद्य्-अतिरिक्तस्य पुरुषाख्यस्य परस्य सिद्धिरिति भावः । इदं चानुमानं पूर्व-सूत्रे व्याख्यातम् ।
तद्-अर्थम् एव दृश्यम् इत्य् एतावन्-मात्रेणैव निर्वाहेऽप्य् आत्म-पदं धात्व्-अर्थे दर्शने तद्-अर्थत्वान्वय-भ्रम-निरासाय प्रयुक्तमिति ।
तद्-अर्थत्वे युक्तिं वदन् सूत्रं व्याचष्टे—दृशि-रूपस्येति । यतो दृशि-रूपस्य पुरुषस्य यत् कर्मैव कर्म दर्शनं तद्-विषयतां गतम् एव वस्तु दृश्यं भवति, दर्शनंच सर्व-वस्तूनां प्रयोजनमिति सर्व-संमतम् अतस् तद्-अर्थम् एव दृश्यस्य गुणादेः स्वरूपं भवति तिष्ठतीत्य् अर्थः । न हि पर-प्रयोजनकं वस्तु पर-प्रयोजनं विना क्षणम् अपि स्थातुं क्षमते, नित्यम् अनित्यं वा प्रयोजनं विना कस्यापि परार्थस्यावस्थानादर्शनेन पुरुषार्थस्य तत्-स्थिति-हेतुत्व्-असिद्धेरिति भावः । अनेन च सूत्रेण चैतन्याधीना सत्ता दृश्यस्य न तु स्वतैति सिद्धम् ॥२१॥
—o)0(o—
(२.२२)
कस्मात् ?
कृतार्थं प्रति नष्टम् अप्य् अनष्टं तद् अन्य-साधारणत्वात् ॥२२॥
कृतार्थम् एकं पुरुषंप्रति दृश्यं नष्टम् अपि नाशं प्राप्तम् अप्य् अनष्टं तद् अन्य-पुरुष-साधारणत्वात् । कुशलं पुरुषं प्रति नाशं प्राप्तम् अप्य् अकुशलान् पुरुषान् प्रति न कृतार्थमिति तेषांदृशेः कर्म-विषयताम् आपन्नं, लभत एव पर-रूपेणात्म-रूपमिति । अतश् च दृग्-दृश-शक्त्योर् नित्यत्वाद् अनादिः संयोगो व्याख्यातैति । तथा चोक्तं—धर्मिणाम् अनादि-संयोगाद् धर्म-मात्राणाम् अप्य् अनादिः संयोगःिति॥२२॥
तत्त्व-वैशारदी : नन्व् अत्यन्तानुपलभ्यं कथं न विनश्यतीत्य् आशयवान् पृच्छति—कस्मादिति । सूत्रेणोत्तरम् आह—कृतार्थं प्रति नष्टम् अप्य् अनष्टं तद् अन्य-साधारणत्वात् ॥ कृतार्थोऽर्थो यस्य पुरुषस्य स तथा । नष्टम् अप्य् अनष्टं तद् दृश्यम् । कुतः ? सर्वान् पुरुषान् कुशलान् अकुशलान् प्रति साधारणत्वात् ।
व्याचष्टे—कृतार्थम् एकमिति । नाशोऽदर्शनम् । अनष्टं तु दृश्यम् । अन्य-पुरुष-साधारणत्वात् । तस्माद् दृश्यात् परस्यात्मनश् चैतन्यं रूपं, तेन । तद् इह श्रुति-स्मृतीतिहास-पुराण-प्रसिद्धम् अव्यक्तम् अनवयवम् एकम् अनाश्रयं व्यापि नित्यं विश्व-कार्य-शक्तिमत् यद्यपि कुशलेन तं प्रति कृत-कार्यं न दृश्यते, तथाप्य् अकुशलेन दृश्यमानं न नास्ति । न हि रूपम् अन्धेन न दृश्यतैति चक्षुष्मतापि दृश्यमानम् अभाव-प्राप्तम् भवति । न च प्रधानवद् एक एव पुरुषः, तन् नानात्वस्य जन्म-मरण-सुख-दुःखोपभोग-मुक्ति-संसार-व्यवस्थया सिद्धेः । एकत्व-श्रुतीनां च प्रमाणान्तर-विरोधात् कथञ्चिद् देश-काल-विभागाभावेन भक्त्याप्य् उपपत्तेः । प्रकृत्य्-एकत्व-पुरुष-नानात्वयोश् च श्रुत्यैव साक्षात्-प्रतिपादनात् ।
अजाम् एकां लोहित-शुक्ल-कृष्णां
बह्वीः प्रजाः सृजमानां स-रूपाः ।
अजो ह्य् एको जुषमाणोऽनुशेते
जहात्य् एनां भुक्त-भोगाम् अजोऽन्यः ॥[श्वे.उ. ४.५]इति श्रुतिः ।
अस्या एव श्रुतेश् चानेन सूत्रेणार्थोऽनूदितैति । यतो दृश्यं नष्टम् अप्य् अनष्टं पुरुषान्तरं प्रत्यस्ति । अतो दृग्-दर्शन-शक्त्योर् नित्यत्वाद् अनादिः संयोगो व्याख्यातः । अत्रैवागमिनाम् अनुमतिम् आह—तथा चोक्तमिति । धर्मिणं गुणानाम् आत्ममभिर् अनादि-संयोगाद् धर्म-मात्राणां महद्-आदीनाम् अप्य् अनादिः संयोगैति । एकैकस्य महद्-आदेः संयोगोऽनादिर् अप्य् अनित्य एव यद्यपि तथापि सर्वेषां महद्-आदीनां नित्यः, पुरुषान्तराणां साधारणत्वात् । अत उक्तम्—धर्म-मात्राणामिति । मात्र-ग्रहणेन व्याप्तिं गमयति । अत एतद् भवति—यद्यप्य् एकस्य महतः संयोगोऽतीतताम् आपन्नस् तथापि महद्-अन्तरस्य पुरुषाणां संयोगो नातीतैति नित्य उक्तः ॥२२॥
योग-वार्तिकम् : सूत्रान्तरम् अवतारयितुम् उपक्रमते—तत्-स्वरूपमिति । ननु दृश्य-स्वरूपं यदि परस्य पुरुषस्य रूपेण दर्शनेन निमित्तेन तद्-अर्थं प्रति लब्धात्मकं लब्ध-सत्ताकं तर्हि भोगापवर्गार्थतायां भोगापवर्ग-रूपे पुरुषस्यार्थ-समूहे कृते सति पुरुषेण न दृश्यतैति कृत्वा स्वरूप-त्यागान् नाशोऽत्यन्तोच्छेदोऽस्य गुणादेः प्रसक्त इत्य् अर्थः । प्रयोजन-समाप्त्या हि प्रयोजन-कारि नाश्यतैति दृश्हाधर्म-वासनाचित्तादि-स्थले दृष्टम् । तथा च प्रकृति-नित्यत्व-सृष्ट्य्-आदि-प्रवाहानुच्छेद-नित्यैश्वर्यादि-सिद्धान्त-हानिरिति पूर्वः पक्षः । अत्र सिद्धान्तम् आह—न तु विनश्यतीति ।
पृच्छति—कस्मात् ?इति । अत्र प्रत्युत्तरं सूत्रं पठति—कृतार्थं प्रति नष्टम् अप्य् अनष्टं तद् अन्य-साधारणत्वात् ॥
व्याचष्टे—कृतार्थमिति । बुद्ध्या कृतः समापितोऽर्थो यस्येति कृतार्थमेकं कंचिन् मुक्त-पुरुषंप्रति गुणादिकं नष्टम् प्रयोजनाकरणात् राज्ञो राज्यवन् नष्टम् अपि सामान्यतो न नष्टं तस्मिन्न् अकृतार्थ अन्य-पुरुषे च तस्य साधारणत्वाद् इत्य् अर्थः ।
योजितं सूत्रं तात्पर्यतो व्याचष्टे—कुशलम् इत्य् आदिना, रूपम् इतीत्य् अन्तेन । कुशलं कल्याणम् उक्तम् । अकृतोऽर्थो येनेत्य् अकृतार्थम् । शेषं व्याख्यात-प्रायम् । सोऽयं सूत्रार्थः श्रुत्याप्य् अनुगृहीतः, यथा—
अजाम् एकां लोहित-शुक्ल-कृष्णां
बह्वीः प्रजाः सृजमानां स-रूपाः ।
अजो ह्य् एको जुषमाणोऽनुशेते
जहात्य् एनां भुक्त-भोगाम् अजोऽन्यः ॥[श्वे.उ. ४.५]इति श्रुतिः ।
तद् अनेन सूत्रेण प्रकृति-नित्यत्वम् पुरुष-बहुत्वं च प्रतिपादितम्, तथा पुरुष-भेदात् प्रकृतेर् बहुत्वं नास्तीत्य् एवं-रूपं प्रकृतेर् एकत्वं च प्रतिपादितं विज्ञान-वादादि-निरासायेति ।
नन्व् एवं—
यथा घटी-कुम्भ-कमण्डलु-स्थम्
आकाशम् एकं बहुधा हि भिन्नम् ।
तथा सुबाहुः स च कापिशोऽहम्
अन्ये च देहेषु शरीर-भेदैः ॥[मार्क.पु. ३७.४२]
इत्य् एवं विध-श्रुति-स्मृति-शतोक्तं सर्वात्मनात्मैक्यं विरुद्धमिति चेत् ? न, तादृश-वाक्यैः प्रकरण-भेदेन क्वचिद् अवैधर्म्य-लक्षणाभेद-प्रतिपादनात्, सर्वात्मनाम् अवैधर्म्य-ज्ञानेनैवापरिणामितया बुद्ध्य्-आद्य्-अभिमान-निवृत्तितो मोक्ष-सिद्धेः, क्वचिच् चाविभाग-लक्षणाभेद-प्रतिपादात् । ततश् चैकस्यैव परमात्मनो मुख्यात्मता सिध्यतीति । एतच् च सर्वं ब्रह्म-मीमांसा-भाष्ये श्रुति-भाष्यादिषु च प्रपञ्चितम् अस्माभिः । न पुनस् तादृश-वाक्यानां जीवात्म-परमात्माखण्डता-परत्वं सम्भवति, बन्ध-मोक्षानुपपत्ति-रूप-सत्-तर्कानुग्रहेण बलवद्भिर् भेद-ग्राहक-श्रुति-स्मृति-शतैर् विरोधात् । अधिकं तु भेद-दर्शनात् । अंशो नाना-व्यपदेशादिति ब्रह्म-मीमांसाम् आरभ्य सर्व-दर्शन-सूत्रैर् अतिस्फुटम् आत्म-भेद-प्रतिपादनेन भेदस्यैव श्रुत्य्-अर्थत्वावधारणाच् च । अपि च सर्वात्मनात्मैक्य-मात्र-ज्ञानान् न संसाराभिमान-निवृत्तिः सम्भवति, एकस्मिन्न् एवाकाशेऽवच्छेद-भेदेन शब्द-तद्-अभाववद् एकस्मिन्न् एवात्मनि अवच्छेद-भेदेन संसारासंसारयोः सम्भवात् । विवेक-ज्ञानापेक्षणे च तत एवाभिमान-निवृत्तेर् ऐक्य-ज्ञानस्य न दृष्ट-द्वारा मोक्ष-हेतुत्वं स्यात् । नाप्य् आत्मैक्य-ज्ञानात् सर्वात्म-ब्रह्मोपासनं सम्भवति, साक्षात् कुक्कुरत्वादि-दृष्ट्यात्र ब्रह्मणो निन्दाया एव प्रसङ्गात्, जड-वर्गेष्व् अविभाग-लक्षणाभेदेनोपासनाया अवश्यकल्प्यत्वेन चेतन-वर्गेष्व् अपि तथैवोचित्याच् च । तस्मात् प्रयोजनाभावात् नात्म-खण्डता-प्रतिपादने श्रुति-स्मृत्योस् तात्पर्यम् । अधिकं तु ब्रह्म-मीमांसायाम् अस्माभिर् आधुनिक-वेदान्ति-ब्रुव-मत-खण्डावसरे प्रतिपादितमिति दिक् ।
तद् एवं विशेषाविशेषेत्य्-आदि-सूत्र-गणेन द्रष्टुः पुरुषस्य स्वत एव दर्शन-शक्तेश् च बुद्धेः कारण-रूपेण नित्यत्वे सिद्धे, तयोः संयोगः प्रवाह-रूपेणानादिरिति शास्त्रेषु व्याख्यानम् उपपन्नम् इत्य् आह—अतश् चेति । विनाशित्वेऽपि भाव-रूपाणां गुणानाम् अनादित्वं न घटेत । ततश् च बुद्धि-पुरुषस्य संयोगस्येति भावः । बुद्धि-पुरुष-संयोगस्य प्रवाह-रूपेणानादित्वे पञ्चशिखाचार्य-संवादम् आह—तथा चोक्तमिति । धर्मिणाम् गुणानां पुरुषैः सहानादि-संयोगादिति तु गुण-नित्यत्वं विना धर्म-सामान्यानां बुद्ध्य्-आदीनां संयोगानादित्वं न घटतैति प्रतिपादनाय प्रदर्शितम् । तद् एवं प्रकाश-प्रवृत्तीत्य्-आदि-सूत्रैः पञ्चविंशति-तत्त्वान्य् अत्र संक्षेपतो विवेकेनोक्तानि । विस्तरस् तु साङ्ख्य-दर्शने द्रष्टव्यः । प्रकृति-पुरुष-विवेकस्यैव मुख्यतस् तत्र प्रतिपादनात् अत्र योगस्यैवेति ॥२२॥
—o)0(o—
(२.२३)
संयोग-स्वरूपाभिधित्सयेदं सूत्रं प्रववृते—
स्व-स्वामि-शक्त्योः स्वरूपोपलब्धि-हेतुः संयोगः ॥२३॥
पुरुषः स्वामी दृश्येन स्वेन दर्शनार्थं संयुक्तः । तस्माद् दृश्यस्योपलब्धिर् या स भोगः । या तु द्रष्टुः स्वरूपोपलब्धिः सोऽपवर्गः । दर्शन-कार्यावसानः संयोगैतिदर्शनं वियोगस्य कारणम् उक्तम् ।दर्शनम् अदर्शनस्य प्रतिद्वन्द्वीत्य् अदर्शनं संयोग-निमित्तम् उक्तम् । नात्र दर्शनं मोक्ष-कारणम् । अदर्शनाभावाद् एव बन्धाभावः, स मोक्षैति । दर्शनस्य भावे बन्ध-कृतस्यादर्शनस्य नाश इत्य् अतो दर्शन-ज्ञानं कैवल्य-कारणम् उक्तम् ।
किं चेदम् अदर्शनं नाम ?
१. किं गुणानाम् अधिकारः ?
२. आहो स्विद् दृशि-रूपस्य स्वामिनो दर्शित-विषयस्य प्रधान-चित्तस्यानुत्पादः, स्वस्मिन्दृश्ये विद्यमाने दर्शनाभावः ?
३. किम्-अर्थवत्ता गुणानाम् ?
४. अथाविद्या स्व-चित्तेन सह निरुद्धा स्व-चित्तस्योत्पत्ति-बीजम् ?
५. किं स्थिति-संस्कार-क्षये गति-संस्काराभिव्यक्तिः ? यत्रेदम् उक्तं—प्रधानं स्थित्यैव वर्तमानं विकाराकरणाद् अप्रधानं स्यात् । तथा गत्यैव वर्तमानं विकार-इत्यत्वाद् अप्रधानं स्यात् । उभयथा चास्य प्रवृत्तिः प्रधान-व्यवहारं लभतेनान्यथा । कारणान्तरेष्व् अपि कल्पितेष्व् एव समानश् चर्चः ।
६. दर्शन-शक्तिर् एवादर्शनम् इत्य् एके । प्रधानस्यात्म-ख्यापनार्था प्रवृत्तिरितिश्रुतेः । सर्व-बोध्य-बोध-समर्थः प्राक् प्रवृत्तेः पुरुषो न पश्यति । सर्व-कार्य-करण-समर्थं दृश्यं तदा न दृश्यत इति ।
७. उभयस्याप्य् अदर्शनंधर्म इत्य् एके । तत्रेदं दृश्यस्य स्वात्म-भूतम् अपि पुरुष-प्रत्ययापेक्षं दर्शनं दृश्य-धर्मत्वेन भवति, तथा पुरुषस्यानात्म-भूतम् अपि दृश्य-प्रत्ययापेक्षं पुरुष-धर्मत्वेनेव दर्शनम् अवभासते ।१४४
८. दर्शन-ज्ञानम् एवादर्शनम् इति केचिद् अभिदधति ।
इत्य् एते शास्त्र-गता विकल्पाः । तत्र विकल्प-बहुत्वम् एतत् सर्व-पुरुषाणांगुणानां संयोगे साधारण-विषयम् ॥२३॥
तत्त्व-वैशारदी : तद् एवं तादर्थ्यं संयोग-कारणे उक्ते प्रासङ्गिके प्रधान-नित्यत्वे संयोग-सामान्य-नित्यत्वे हेतौ चोक्ते संयोगस्य यत् स्वरूपम् असाधारणो विशेषैति यावत् तद्-अभिधित्सयेदं सूत्रं प्रववृते—स्व-स्वामि-शक्त्योः स्वरूपोपलब्धि-हेतुः संयोगः ॥िति । यतो दृश्यं तद्-अर्थम् अतस् तज्-जनितम् उपकारं भजमानः पुरुषस् तस्य स्वामी भवति । भवति च तद् दृश्यम् अस्य स्वम् । स चानयोः संयोगः शक्ति-मात्रेण व्यवस्थितस् तत्-स्वरूपोपलब्धि-हेतुः । तद् एतद् भाष्यम् अवद्योतयति—पुरुषैति । पुरुषः स्वामी योग्यता-मात्रेण दृश्येनस्वेन योग्यतयैव दर्शनार्थं संयुक्तः । शेषं सुगमम् ।
स्याद् एतत् । द्रष्टुः स्वरूपोपलब्धिर् अपवृज्यतेऽनेनेत्य् अपवर्ग उक्तः । न च मोक्षः साधनवान्, तथा सत्य् अयं मोक्षत्वाद् एव च्यवेतेत्य् अत आह—दर्शन-कार्यावसानैति । दर्शन-कार्यावसानोबुद्धि-विशेषेण सह पुरुष-विशेषस्य संयोगैति दर्शनंवियोग-कारणम् उक्तम् । कथं पुनर् दर्शन-कार्यावसानत्वंसंयोगस्येत्य् अत आह—दर्शनमिति । ततः किम् ? इत्य् अत आह—अदर्शनमिति । अदर्शनम् अविद्या संयोग-निमित्तम् इत्य् उक्तम् । उक्तम् अर्थं स्पष्टयति—नात्रैति ।
ननु दर्शनम् अदर्शनं विरोधि विनिवर्तयतु, बन्धस्य तु कुतो निवृत्तिः ? इत्य् अत आह—दर्शनस्यैति । बुद्ध्य्-आदि-विविक्तस्यात्मनः सर्वावस्थानं मोक्ष उक्तः । न तस्य साधनं दर्शनम् अपि त्व् अदर्शन-निवृत्तिर् .हेतु ।
असाधारणं संयोग-हेतुम् अदर्शन-विशेषं ग्रहीतुम् अदर्शन-मात्रं विकल्पयति—किं चेदमिति । पर्युदासं गृहीत्वाह—किं गुणानाम् अधिकारः ?इति । अधिकारः कार्यारम्भण-सामर्थ्यम् । ततो हि संयोगः संसार-हेतुर् उपजायते ।
प्रसज्य-प्रतिषेधं गृहीत्वा द्वितीयं विकल्पम् आह—आहो स्विदिति । दर्शितो विषयः शब्दादिः सत्त्व-पुरुषान्यता च येन चित्तेन तस्य तद्-विषयस्यानुत्पादः । एतद् एव स्फोरयति—स्वस्मिन्निति । स्वस्मिन् दृश्ये शब्दादौ सत्त्व-पुरुषान्यतायां चेति । तावद् एव प्रधानं विचेष्टते न यावद् द्विविधं दर्शनम् अभिनिर्वर्तयति । निष्पादितोभय-दर्शनं तु विनिवर्ततैति ।
पर्युदास एव चतुर्थं विकल्पम् आह—अथाविद्याइति । प्रतिसर्ग-काले स्व-चित्तेन सह निरुद्धा प्रधान-साम्यम् आगता वासना-रूपेण स्व-चित्तोत्पत्ति-बीजम्,तेनदर्शनाद् अन्याविद्या-वासनैवादर्शनम् उक्ता ।
पर्युदास एव पञ्चमं विकल्पम् आह—किं स्थिति- इति । किं स्थिति-संस्कारस्य प्रधान-वर्तिनः साम्य-परिणाम-परम्परा-वाहिनः क्षयेगतिर् महद्-आदि-विकारारम्भस् तद्-धेतुः संस्कारः प्रधानस्य गति-संस्कारस् तस्याभिव्यक्तिः कार्योन्मुखत्वम् । तद्-उभय-संस्कार-सद्-भावे मतान्तरानुमतिम् आह—यत्रेदम् उक्तमिति । ऐकान्तिकत्वं व्यासेधद्भिः । प्रधीयते जन्यते विकार-जातम् अनेनेति प्रधानम् । तच् चेत् स्थित्यैव वर्तते न कदाचिद् गत्व्या ततो विकाराकरणान् न प्रधीयते तेन किञ्चिद् इत्य् अप्रधानं स्यात् । अथ गत्यैव वर्तेत न कदाचिद् अपि स्थित्या, तत्राह—तथा गत्यैवैति । क्वचित् पाठः स्थित्यै गत्यैइति । तादर्थ्ये चतुर्थी, एव-कारश् च द्रष्टव्यः ।
स्थित्यै चेन् न वर्तेत न क्वचिद् विकारो विनश्येत् । तथा च भावस्य सतोऽविनाशिनो नोत्पत्तिर् अपीति विकारत्वाद् एव च्यवेत । एवं च प्रधीयतेऽत्र किञ्चिद् इत्य् अप्रधानं स्यात् । तद् उभयथा स्थित्या गत्या चास्य प्रवृत्तिःप्रधान-व्यवहारं लभते नान्यथा एकान्ताभ्युपगमे । न केवलं प्रधाने, कारणान्तरेष्व् अपि पर-ब्रह्म-तन्माया-परमाण्व्-आदिषु कल्पितेषु समानश् चर्चो विचारः । तान्य् अपि हि स्थित्यैव वर्तमानानि विकाराकरणाद् अकारणानि स्युः । गत्यैव वर्तमानानि विकार-नित्यत्वाद् अकारणानि स्युरिति च ।
पर्युदास एव षष्ठं विकल्पम् आह—दर्शन-शक्तिर् एवैति । यथा प्रजापति-व्रते नेक्षेतोद्यन्तम् आदित्यम् इत्य् अनीक्षण-प्रत्यासन्नः सङ्कल्पो गृह्यत एवम् इहापि दर्शन-निषेधे तत्-प्रत्यासन्ना तन्-मूला शक्तिर् उच्यते । सा च दर्शनं भोगादि-लक्षणं प्रसोतुं द्रष्टारं दृश्येन योजयतीति । अत्रैव श्रुतिम् आह—प्रधानस्यैति ।
स्याद् एतत् । आत्म-ख्यापनार्थं प्रधानं प्रवर्ततैति श्रुतिर् आह, न त्व् आत्म-दर्शन-शक्तिः प्रवर्तत इत्य् अत आह—सर्व-बोध्य-बोध-समर्थःिति । प्राक् प्रवृत्तेः प्रधानस्य नात्म-ख्यापन-मात्रं प्रवृत्तौ प्रयोजकं, असामर्थ्ये तद्-अयोगात् । तस्मात् सामर्थ्यं प्रवृत्तेः प्रयोजकमिति श्रुत्यार्थाद् उक्तम् इत्य् अर्थः । दर्शन-शक्तिः प्रधानाश्रयेत्य् अङ्गीकृत्य षष्ठः कल्पः ।
इमाम् एवोभयाश्रयाम् आस्थाय सप्तमं विकल्पम् आह—उभयस्याप्य् अदर्शनमिति । उभयस्य पुरुषस्य च दृश्यस्य चादर्शनं दर्शन-शक्तिर् धर्म इत्य् एके ।
स्याद् एतत् । मृष्यामहे दृश्यस्येति । तस्य सर्व-शक्त्याश्रयत्वात् । न द्रष्टुरिति पुनर् मृष्यामः, न हि तद्-आधारा ज्ञान-शक्तिः, तत्र ज्ञानस्यासमवायात् । अन्यथा परिणामापत्तिर् इत्य् अत आह—तत्रेदमिति । भवतु दृश्यात्मकं, तथापि तस्य जडत्वेन तद्-गत-शक्ति-कार्यं दर्शनम् अपि जडमिति न शक्यं तद्-धर्मत्वेन विज्ञातुं, जडस्य स्वयम् अप्रकाशत्वात् ।
अतो दृशेर् आत्मनः प्रत्ययं चैतन्य-च्छायापत्तिम् अपेक्ष्य दर्शनं तद्-धर्मत्वेन भवति विज्ञायते, विशेषित्य् आह—विषयिण उपलक्षणात् ।
नन्व् एतावतापि दृश्य-धर्मत्वम् अस्य ज्ञानस्य भवति, न तु पुरुष-धर्मत्वम् अपीत्य् अत आह—तथा पुरुषस्यैति । सत्य पुरुषस्यानात्म-भूतम् एव, तथापि दृश्य-बुद्धि-सत्त्वस्य यः प्रत्ययश् चैतन्य-च्छायापत्तिस् तम् अपेक्ष्य पुरुष-धर्मत्वेनैव, न तु पुरुष-धर्मत्वेन । एतद् उक्तम् भवति—चैतन्य-बिम्बोद्ग्राहितया बुद्धि-चैतन्ययोर् अभेदाद् बुद्धि-धर्माश् चैतन्य-धर्मा इव चकासतीति ।
अष्टमं विकल्पम् आह—दर्शन-ज्ञानमिति । ज्ञानम् एव शब्दादीनाम् अदर्शनं न तु सत्त्व-पुरुषान्यतायाइति केचित् । यथा चक्षू रूपे प्रमाणम् अपि रसादाव् अप्रमाणम् उच्यते । एतद् उक्तम् भवति—सुखाद्य्-आकार-शब्दादि-ज्ञानानि स्व-सिद्ध्य्-अनुगुणतया द्रष्टृ-दृश्य-संयोगम् आक्षिपन्तीति ।
तद् एवं विकल्प्य चतुर्थं विकल्पं स्वीकर्तुम् इतरेषां विकल्पानां साङ्ख्य-शास्त्र-गतानां सर्व-पुरुष-साधारण्येन भोग-वैचित्र्याभाव-प्रसङ्गेन दूषयति—इत्य् एते शास्त्र-गताइति ॥२३॥
योग-वार्तिकम् :द्रष्टृ-दृष्टयोः स्वरूपम् उक्तम् । इदानीं तत्-संयोगस्य स्वरूप-प्रदर्शकं सूत्रम् उत्थापयति—संयोग-स्वरूपेति । द्रष्टृ-दृश्ययोः संयोग-सामान्यं न हेय-हेतुः । प्रलय-मोक्षादि-साधारण्यात् । अतः संयोग-गत-विशेषावधारणायेदं सूत्रं प्रववृत इत्य् अर्थः । स्व-स्वामि-शक्त्योः स्वरूपोपलब्धि-हेतुः संयोगः ॥
स्व-शक्तिर् दृश्यं भोग्यतायोग्यत्वात्, स्वामि-शक्तिर् द्रष्टा भोक्तृ-योग्यत्वात् । तयोः स्वरूपोपलब्धौ हेतुर् यः संयोग-विशेषः स एव द्रष्टृ-दृश्य-संयोग्ऽत्र हेय-हेतुर् उक्त इत्य् अर्थः । विभुनो द्रष्टृ-दृश्य-संयोग-सामान्यस्य सार्वकालिकत्वेन हेयाहेतुत्वादिति भावः । स च संयोग-विशेषो बुद्धि-द्वारकः दृश्य-बुद्धि-सत्त्वोपाधि-रूपः सर्व धर्माइति पूर्व-भाष्यात् । अतो दृश्यवत्या बुद्ध्या संयोग एवात्र संयोग-विशेषः ।
आत्मेन्द्रिय-मनो-युक्तं भोक्तेत्य् आहुर् मनीषिणः ।
इत्य् एवं-विध-श्रुत्य्-आदिभ्यो लिङ्ग-देहात्म-संयोगाद् एवात्मनो विषय-दर्शनावगमादिति ।
एतेन भोक्तृ-भोग्य-योग्यतैव द्रष्टृ-दृश्ययोर् अनादिः सम्बन्धः । संयोगाङ्गीकारे पुरुषस्य परिणामित्वात्तेरिति कस्यचित् प्रलापः सूत्र-स्वरसाद् धेयः । तथा सति स्व-स्वामि-भावः संयोग इत्य् एव सूत्रौचित्यात्, संयोगस्यानाद्य्-एक-व्यक्तित्वे सत्यागामि-सूत्राभ्याम् उत्पत्ति-विनाश-वचनानुपपत्तेश् च । चेतनत्वाचेतनत्वातिरिक्तस्य प्रतिनियतस्य योग्यत्वस्य ज्ञानावच्छेदकस्यानिरूपणाच् च । तयोश् च मोक्ष-काल-साधारण्येन हेयाहेतुत्वात् ।
यदि च स्व-भुक्त-वृत्ति-वासनावत्त्वं प्रवाह-रूपेण च वासनाया अनादित्वं तद् एव च संयोग इत्य् उच्यते, तथापि तादृश-संयोगस्य भाष्य-वक्ष्यमाणम् अविद्या-वासना-जन्यत्वादिकं न घटेतैव यथाश्रुत-संयोग-त्यागानौचित्यादिकं चेति । यच् चोक्तं संयोगेन परिणामित्वमिति । तत्-परिणाम-लक्षणाज्ञानात् । संयोग-विभाग-मात्रेणाकाशादौ परिणाम-व्यवहाराभावेन सामान्य-गुणातिरिक्त-धर्मोत्पत्तिर् एव परिणाम इत्य् उक्तत्वात् । अन्यथा प्रतिसर्गं प्रकृति-पुरुषयोः संयोग-विभागौ श्रुति-स्मृत्योः श्रूयमाणौ विरुधेताम् । न हि प्रतिसर्गं योग्यतोत्पाद-विनाशौ घटेतां पुरुषस्य परिणाम-प्रसङ्गात्, यथा-श्रुत-संयोग-विभागयोर् एवोत्पादादि-क्रमौचित्याच् चेति दिक् ।
सूत्रार्थं विवृणोति—पुरुष इत्य् आदिना, सोऽपवर्ग इत्य् अन्तेन । संयुक्तैति । भवतिइति शेषः । सूत्रे स्वरूप-पदं च विवेक-ख्याति-पर्यन्तस्य दर्शन-सामान्यस्य संयोग-जन्यत्व-प्रतिपादनायेति । इदानीं विवेक-ख्यातिर् अविप्लवा हानोपायैति तस्य हेतुर् अविद्येति चागामि-सूत्र-द्वयार्थोऽनेनैव सूत्रेणोपपादित इत्य् एतत्-क्रमेण प्रतिपादयति—दर्शन-कार्य-इत्य् आदिना । कृतकृत्यस्य प्रयोजनाभावेनावस्थानासम्भवेन दर्शन-रूप-कार्यावसानः संयोगैति । अतो दर्शनं द्रष्टृ-स्वरूपोपलब्धिर् वियोग-कारणम् अर्थाद् अनेन सूत्रेणोक्तम् उपपादितम्, तथा दर्शनम् अदर्शनस्यप्रतिद्वन्द्वी विरोधीत्य् अतोऽदर्शनंसंयोग-हेतुर् इत्य् अप्य् अर्थाद् उक्तम् उपपादितम् । दर्शनादर्शनयोर् विरोधेन विरुद्धयोर् एव वियोग-संयोगयोस् तद्-उभय-कार्यत्वौचित्याद् इत्य् अर्थः ।
ननु अदर्शनं यदि संयोग-कारणं तर्हि अदर्शनाभावाद् एव संयोग-विनिवृत्त्य्-आत्मको मोक्षो भविष्यति कथं दर्शनम् अपि मोक्ष-हेतुर् उच्यते ? इत्य् आशङ्कायाम् आह—नात्र दर्शनमिति । अस्मच्-छास्त्रे दर्शनं तत्त्व-ज्ञानं न मोक्ष-कारणं गौरवात्, निरोधादिभिर् व्यवधानेन मोक्षाव्यवहित-प्राक्-काले ज्ञाने नियमासम्भवात् । किं तु अदर्शनस्य वक्ष्यमाण-रूपस्याभावाद् एव द्रष्टुर् दृश्य-संयोगाभावः । स एव मोक्ष इत्य् अर्थः । एतेन मोक्षस्यानिमित्तिकतया स्वाभाविकत्व-रूपं नित्यत्वं लब्धम् ।
नन्व् एवं विवेक-ख्यातिर् अविप्लवा हानोपाय[२.२६]इत्य् अग्रिम-सूत्र-विरोधो दर्शनं वियोगस्य कारणमिति स्वोक्ति-विरोधश् च । तत्राह—दर्शनस्य भावैति । सुगमम् ।ुक्तं शास्त्रे । तथा च तत्त्व-ज्ञानं मोक्षे प्रयोजक-मात्रमिति ।
उत्तर-सूत्रेणासाधारणं संयोग-हेतुम् अदर्शनम् अवधारयितुम् उक्तादर्शनं विकल्प्य पृच्छति—किं चेदमिति । किं पुनः संयोग-कारणत्वेनोक्तम् अदर्शनम् इत्य् अर्थः । नामेति वाक्यालङ्कारे । यद्यपि संयोगो दर्शन-कारणमिति सूत्रेणादर्शनस्यानुत्पाद एव स्ंयोग-हेतुतयात्र प्रसक्तो नान्यः, तथापि तत्-समनियततया अन्येषाम् अपि संशय-कोटित्वं बोध्यम् ।
तत्र प्रथमो विकल्पः—किं गुणानामिति । गुणानां सत्त्वादीनाम् अधिकारः कार्यारम्भण-सामर्थ्यम् । ज्ञानाग्न्य्-अदग्धा कार्य-विशेष-जनन-शक्तिर् इत्य् अर्थः । ततोऽपि हि संसार-हेतु-संयोग-विशेषो जायतैति । द्वितीयं विकल्पं परित्यज्य सर्व-विकल्पेषु बन्धकत्व-गुण-योगेनादर्शन-शब्दो गौणः ।
द्वितीयं विकल्पम् आह—आहो स्विदिति । अदर्शनम् इत्य् अत्र दर्शन-शब्दस्य करण-साधनत्व-प्रतिपादनाय दृशि-रूपस्यस्वामिनो दर्शित-विषयस्यैति चित्त-विशेषणं दृशि-स्वरूपाय स्वामिने दर्शितो विषयो येन तस्येत्य् अर्थः । उक्तम् एव विवृणोति—स्वस्मिन्निति । स्वस्मिंश् चित्ते पुरुषार्थ-रूपेण दृश्ये शब्दादि-वृत्तौ च सति यो दर्शनाभावश् चित्त-वृत्त्य्-अभाव इत्य् अर्थः । मोक्ष-कालीनं दर्शनाभावं व्यवर्तयितुं सत्यन्तम् । संयोगाहेतुतया तु तादृशम् अदर्शनं नात्र विचारणीयं चित्ते हि पुरुषार्थ-सत्तायाम् एवादर्शनं संयोग-हेतुर् भवतिइति भावः ।
व्यर्थतया द्वितीय-विकल्पस्य विशेष्य-भाग-परित्याग-मात्रेण तृतीयं विकल्पम् आह—किम्-अर्थवत्ता गुणानामिति । सत्-कार्य-सिद्धेर् भावि-भोगापवर्गयोर् व्यपदेश्ययोः स्व-कारणेषु गुणेषु अवस्थानम् इत्य् अर्थः ।
चतुर्थं विकल्पम् आह—अथाविद्याइति । पञ्च-पर्वा अविद्या प्रलय-काले स्व-चित्तेन सह गुणेषु लीना वासना-रूपेण स्वाश्रय-चित्तस्योत्पत्ति-बीजम् इत्य् अर्थः । तथा चाविद्या-वासनैवादर्शनमिति । अयम् एव पक्षः सिद्धान्तो भविष्यति ।
पञ्चमं विकल्पम् आह—किं स्थिति- इति । प्रधान-निष्ठस्य साम्य-परिणाम-हेतोः स्थिति-संस्कारस्य क्षये सति गति-संस्कारस्य महद्-आदि-रूप-विसदृश-परिणाम-हेतोर् अभिव्यक्तिर् इत्य् अर्थः ? तयैव हि प्रकृति-क्षोभ-द्वारा पुं-प्रकृत्योः संयोगो जन्यतेइति । तद् उभय-संस्कार-सद्-भावे मतान्तरं प्रमाणयति—यत्रेदमिति । स्थित्यै गत्यैइति तादर्थेय् चतुर्थ्यौ, एव-कारौ च तयोः पश्चाद् अध्याहार्यौ । स्थित्यैवेति पाठे तु विशेषणे तृतीयाइति । तथा च प्रधानं चेत् स्थिति-मात्रेण वर्तेत तदा विकाराजनकत्वान् न प्रधानं स्यात्, मूल-कारणत्वं हि प्रधानत्वमिति । तथा गति-मात्रेण चेद् वर्तेत तदा महद्-आदीनाम् अपि प्रकृतिवद् एव नित्यत्वापत्त्या किं तस्य मूलं स्यादिति न व्यवहारः सम्भवत्य् अत उभयथा स्थिति-गतिभ्याम् एव प्रधानस्यावस्थानं प्रधान-व्यवहारं लभते कार्यतया न पुनर् अन्यथेत्य् अर्थः । न केवलं मूल-कारण एवायं स्थिति-गत्योः काल-भेदेन निर्णायको विचारः, किं तु कल्पितेषु विकार-रूपेषु कारण-भेदेषु अपि महद्-आदिष्व् एष चर्चो विचारः समानैति प्रसङ्गाद् अवधारयति । नास्तिकानां कुर्वद्-रूपतावादम् अपाकर्तुं कारणान्तरेष्व् अपीति । स च चर्चो यथा मृदादिकं यदि स्थित्यैव निवृत्त्यैव वर्तेत, तर्हि कदापि घटान् उत्पादनेन कारणत्व-हानिः, यदि गत्यैव प्रवृत्त्यैव वर्तेत, तदा मृद्-घटयोर् द्वयोर् एव तुल्य-कालतया कार्य-कारण-व्यवस्थानुपपत्तिर् अतो विकार—रूप-कारणम् अपि स्थिति-गत्य्-उभयवद् एवेति ।
षष्ठं विकल्पम् आह—दर्शन-शक्तिरेवैति । पुरुषायात्मानं दर्शयितुं या क्षमता सा दर्शन-शक्तिः । सैव चादर्शनम् इत्य् अर्थः । इयं च शक्तिर् विवेक-ख्यात्य्-अनुत्पाद-रूपा संयोग-हेतुः । तथा चोक्तं साङ्ख्य-कारिकया—
दृष्टाहम् इत्य् उपरमत्य् अन्या[६६]इति ।
पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्य ।
पङ्ग्व्-अन्धवद् उभयोर् अपि संयोगस् तत्-कृतः सर्गः ॥[११]इति ।
तृतीय-विकल्पस्थस्य शब्दादि-वृत्त्य्-अनुत्पादस्य त्यागाद् अस्य ततो भेदः । प्रधानस्य दर्शन-शक्तौ श्रुतिं प्रमाणयति—प्रधानस्यैति । काल-लुप्त-शाखा-स्थेयं श्रुतिः ।
सप्तमं विकल्पम् आह—सर्व-बोध्य-इत्य् आदिना अवभासते इत्य् अन्तेन । सर्व-बोधे समर्थोऽपि पुरुषः प्रधान-प्रवृत्तेः प्राक् न पश्यति इत्य् एकम् अदर्शनं पुरुष-निष्ठम् अपरं च सर्व-कार्याणां करण उत्पादने समर्थं स्वरूप-योग्यम् अपि दृश्यं प्रधानं तदा प्राक् प्रधान-प्रवृत्तेः पुरुषेण न दृश्यतैति दृश्य-निष्ठम् अदर्शनम् इत्य् एवम् उभयस्याप्य् अदर्शनं धर्म इत्य् एक आहुर् इत्य् अर्थः । एतद् एवात्रादर्शनमिति शेषः ।
ननु जडानाम् अदर्शनात्मकत्वात् कथं तेषाम् अदर्शनं धर्मः स्यात्, अभावस्याधिकरण-स्वरूपत्वाद् अव्यभिचारेण लाघवाद् एकत्व-सिद्धेश् च । कथं वा दृशि-स्वरूपस्य पुरुषस्यादर्शनं घटते, प्रकाश-रूपस्याप्रकाश-रूपत्वासम्भवाद् इत्य् आशङ्क्य समाधत्ते—तत्रेदमिति । तत्रादर्शन-द्वय-मध्य इदमे एकम् अदर्शनं दृश्य-स्वरूप-भूतम् अपि दृश्य-धर्मत्वेन विशिष्टं भवति । तत्र हेतुः—पुरुष-प्रत्ययापेक्षमिति । पुरुष-प्रत्ययं बोधम् अपेक्ष्य तद्-अविषयतयेति यावत् । तथेति । तथा पुरुषस्य निर्धर्मत्वात् सदा प्रकाश-रूपत्वाच् चानात्म-भूतम् अप्य् अदर्शनं पुरुष-धर्मत्वेनैव लौकिक-बुद्ध्यावभासते । तत्र हेतुः—दृश्य-प्रत्ययापेक्षमिति । दृश्य-प्रत्ययम् अपेक्ष्य दृश्य्-अगोचर-प्रत्ययाभावेनेति यावत् ।
अष्टमं विकल्पम् आह—दर्शन-ज्ञानमिति । ज्ञानं वासना-रूपं तस्यापि दृश्य-संयोग-हेतुत्वात्, न तु भोगापवर्ग-रूपम् अनागतावस्थं दर्शनम् अत्रोक्तम् । अर्थवत्तया पौनरुक्त्यादिति ।
उपसंहरति—इत्य् एतैति । शास्त्रेष्व् एतेऽज्ञान-भेदास् तान्त्रिकैर् उच्यन्त इत्य् अर्थः ॥२३॥
—o)0(o—
(२.२४)
यस् तु प्रत्यक्-चेतनस्य स्व-बुद्धि-संयोगः—
तस्य हेतुर् अविद्या ॥२४॥
विपर्यय-ज्ञान-वासनेत्य् अर्थः । विपर्यय-ज्ञान-वासना-वासिता च न कार्य-निष्ठां पुरुष-ख्यातिं बुद्धिः प्राप्नोति । साधिकारा पुनर् आवर्तते । सा तु पुरुष-ख्याति-पर्यवसानांकार्य-निष्ठां प्राप्नोति । चरिताधिकारा निवृत्तादर्शना बन्ध-करणाभावान् न पुनर् आवर्तते ।
अत्र कश्चित् षण्डकोपाख्यानेनोद्घाटयति—मुग्धया भार्ययाभिधीयते षण्डकः—आर्य-पुत्र ! अपत्यवती मे भगिनी किम्-अर्थं नाहमिति ? स ताम् आह—मृतस् तेऽहम् अपत्यम् उत्पादयिष्यामीति । तथेदं विद्यमानं ज्ञानं चित्त-निवृत्तिं न करोति विनष्टं करिष्यतीति का प्रत्याशा ? तत्राचार्य-देशीयो वक्ति—ननु बुद्धि-निवृत्तिर् एव मोक्षः । अदर्शन-कारणाभावाद् बुद्धि-निवृत्तिः । तच् चादर्शनं बन्ध-कारणं दर्शनान् निवर्तते । तत्र चित्त-निवृत्तिर् एव मोक्षः । किम्-अर्थम् अस्थान एवास्य मति-विभ्रमः ? ॥२४॥
तत्त्व-वैशारदी : चतुर्थं विकल्पं निर्धारयितुं सूत्रम् अवतारयति—यस् तु प्रत्यक्-चेतनस्य स्व-बुद्धि-संयोगःिति । प्रतीपम् अञ्चति प्राप्नोति प्रत्यक् असाधारणस् तु संयोग एकैकस्यपुरुषस्यैकैकया बुद्ध्या वैचित्र्य-हेतुः । सूत्रं पठति—तस्येति ।
नन्व् अविद्या विपर्यय-ज्ञानं, तस्य भोगापवर्गयोर् इव स्व-बुद्धि-संयोगो हेतुः । असंयुक्तायां बुद्धौ तद्-अनुत्पत्तेः । तत् कथम् अविद्या संयोग-भेदस्य हेतुर् इत्य् अत आह—विपर्यय-ज्ञान-वासनाइति । सर्गान्तरीयाया अविद्यायाः स्व-चित्तेन सह निरुद्धाया अपि प्रधानेऽस्ति वासना । तद्-वासना-वासितं च प्रधानं तत्-तत्-पुरुष-संयोगिनीं तादृशीम् एव बुद्धिं सृजति ।
एवं पूर्व-पूर्व-सर्गेष्व् इत्य् अनादित्वाद् अदोषः । अत एव प्रतिसर्गावस्थायां न पुरुषो मुच्यत इत्य् आह—विपर्यय-ज्ञान- इति । यदा पुरुष-ख्यातिं कार्य-निष्ठां प्राप्ता तदा विपर्यय-ज्ञान-वासनाया बन्ध-कारणस्याभावान् न पुनर् आवर्तत इत्य् आह—सा त्विति ।
अत्र कश्चिन् नास्तिकः कैवल्यं षण्डकोपाख्यानेनोपहसति । षण्डाकोपाख्यानम् आह—मुग्धयाइति । किम्-अर्थंित्य् अर्थ-शब्दो निमित्तम् उपलक्षयति, प्रयोजनस्यापि निमित्तत्वात् । षण्डाकोपाख्यानेन साम्यम् आपादयति—तथेदमिति । इदं विद्यमानं गुण-पुरुषान्यताख्याति-ज्ञानंचित्त-निवृत्तिंन करोति, पर-वैराग्येण ज्ञान-प्रसाद-मात्रेण स-संस्कारं निरुद्धं विनष्टं करिष्यतीतिका प्रत्याशा ? यस्मिन् सत्य् एव यद् भवति तत् तस्य कार्यं, न तु यस्मिन्न् असतीति भावः ।
अत्रैक-देशि-मतेन परिहारम् आह—तत्राचार्य-देशीयैति । आचार्यस् तु वायु-प्रोक्ते कृत-लक्षणः—
आचिनोति च शास्त्रार्थम् आचारे स्थापयत्य् अपि ।
स्वयम् आचरते यस्माद् आचार्यस् तेन चोच्यते ॥[वायु.पु. ५९.३०]इति ।
भोग-विवेक-ख्याति-रूप-परिणत-बुद्धि-निवृत्तिर् एव एव मोक्षः । न तु बुद्धि-स्वरूप-निवृत्तिः । सा च धर्ममेघान-विवेक-ख्याति-प्रतिष्ठाया अनन्तरम् एव भवति सत्य् अपि बुद्धि-स्वरूप-मात्रावस्थान इत्य् अर्थः । एतद् एव स्फोरयति—अदर्शन- इति । अदर्शनस्य बन्ध-कारणस्याभावाद् बुद्धि-निवृत्तिः । तच् चादर्शनं बन्ध-कारणं दर्शनान् निवर्तते । दर्शन-निवृत्तिस् तु पर-वैराग्य-साध्या, सत्य् अपि बुद्धि-स्वरूपावस्थाने मोक्षैति भावः ।
एक-देशि-मतम् उपन्यस्य स्व-मतम् आह—तत्र चित्त-निवृत्तिर् एव मोक्षःिति। ननूक्तं दर्शने निवृत्तेऽचिराच् चित्त-स्वरूप-निवृत्तिर् भवतीति कथं दर्शन-कार्येत्य् अत आह—किम्-अर्थम् अस्थान एवास्य मति-विभ्रमः ?इति । अयम् अभिसन्धिः—यदि दर्शनस्य साक्षाच् चित्त-निवृत्तौ कारण-भावम् अङ्गीकुर्वीमहि, तत एवम् उपालभ्येमहि, किं तु विवेक-दर्शनं प्रकर्ष-काष्ठां प्राप्तं निरोध-समाधि-भावना-प्रकर्ष-क्रमेण चित्त-निवृत्तिमत् पुरुष-स्वरूपावस्थानोपयोगीत्य् आतिष्ठामहे, तत् कथम् उपालभ्येमहीति ॥२४॥
योग-वार्तिकम् :संयोग-भेदेन सर्व् एवादर्शनानां हेतुत्वं सिद्धान्तयन्न् एव संयोग-विशेष-हेत्व्-अदर्शन-विशेष-परतयोत्तर-सूत्रम् अवतारयति—तत्र विकल्पेति । तत्रादर्शने विकल्प-बहुत्वं भेद-बाहुल्यम् एतत्-पुरुष-सामान्यस्य गुण-सामान्यस्य च पुरुषार्थ-हेतु-संयोग-सामान्यं प्रति कारणतायां बोध्यम् ।
यस् तु प्रत्येक-चेतनस्य तत्-तच्-चेतनस्य स्व-बुद्धि-संयोगो हेय-हेतुः स्व-स्वामी[२.२३] इत्य्-आदि-प्रकृत-सूत्रेणोक्तः, तस्य हेतुर् अविद्या ॥ चतुर्थ-विकल्प-रूपम् अदर्शनम् एवेति सूत्रेण सहान्वयः । प्रत्यक्-चेतनस्यैति पाठे स्व-स्व-बुद्ध्य्-अनुगम-शील-चेतनस्येत्य् अर्थः । अयं भावः—अविद्या-क्षयोत्तरम् अपि जीवन्मुक्तस्य भोगार्थं विषय-रूपेण परिणतैर् गुणैः सह संयोग उत्पद्यतेऽतो नाविद्या गुण-पुरुष-संयोग-सामान्ये हेतुः, किं तु यथोक्तो गुणाधिआरादिर् एव, स्व-बुद्धि-संयोगस् तु जन्मापरनामाविद्यां विना न भवतीति बुद्धि-पुरुष-संयोग एवासाधारण्येनाविद्या-हेतुर् भवति । सैव च बुद्धिः संयोग-द्वारा द्रष्टृ-दृश्य-संयोग-हेतुर् विद्योच्छेद्या च भवतीत्य् आशयेन सैवोत्तर-सूत्रेण सूच्यते, न गुणाधिकारादिः । तस्य ज्ञानानुच्छेद्यत्वात् । एकस्य पुंसो मुक्ताव् अपि पुरुषान्तरार्थं गुणाधिकारादि-तादवस्थ्यात् । यद् एव च पुरुषेणोच्छेत्तुं शक्यते, तद् एव हेय-निदानम् अत्र प्रतिपादनीयम् । अन्यथा काल-कर्मेश्वरादीनाम् अपि हेय-हेतु-संयोग-कारणतया तेषाम् अप्य् अत्र प्रतिपाद्यतापत्तेरिति ।
तस्य हेतुर् अविद्या ॥ तस्य द्रष्टृ-दृश्य-संयोगस्य बुद्धि-पुरुष-संयोग-द्वारा हेतुर् अविद्येत्य् अर्थः ।
भाष्य-कारेण च सूत्र-कार-तात्पर्याभिप्रायेणैव तस्येत्य् अस्य बुद्धि-संयोगस्येत्य् अर्थ उक्तः । न तु साक्षाद् एव द्रष्टुर् दृश्य-सामान्य-संयोगस्यैव पूर्व-सूत्रे प्रकृतत्वात् । बुद्धि-संयोगस्येति । अविद्या चात्र नानातम्न्य् आत्म-बुद्धि-मात्रम् । तस्य बुद्धि-संयोगाहेतुत्वात् । अनित्यादौ नित्यादि-बुद्धि-रूपाणाम् अविद्यानां वक्ष्यमाण-विवेक-ख्याति-नाश्यत्वानुपपत्तेश् च । सा चाविद्या बुद्धि-संयोग-जन्यतया तद्-अव्यवहित-प्राक्-काले न सम्भवतीत्य् अत आह भाष्यकारः—विपर्ययेति । सर्गान्तरीयाविद्यायाः स्व-चित्तेन सह निरुद्धायाः प्रधाने या वासना स्थिता तया वासितं प्रधानं तत्-पुरुष-संयोगिनीं तादृशीम् एव बुद्धिं सृजतीत्य् अनादित्वान् न दोषः ।
अविद्या-वासनायां बुद्धि-पुरुष-संयोग-हेतुत्वे युक्तिम् आह—विपर्यय- इति । विपर्यय-ज्ञान-वासना-बलात् पुरुष-ख्याति-रूपां कार्य-निष्ठां स्व-कर्तव्य-चरम् आवधिं न प्राप्नोति बुद्धिर् अतः स्वाधिकारतया पुनर् आवर्तते पुरुषेण संयुज्यते, सा तु बुद्धिः पुरुष्णयता-ख्याति-पर्यन्ता सती कार्य-समाप्तिं प्राप्नोति पर-वैराग्योत्पादात् । ततश् च चरिताधिकारा निष्पदित-कार्या निवृत्ताविद्या सती संयोगाख्य-बन्धस्य कारणाभावात्, न पुनः पुरुषेण संयुज्यत इत्य् अर्थः । तथा चान्वय-व्यतिरेकाभ्यां विपर्यय-वासना-बुद्धिः पुरुष-संयोग-हेतुरिति भावः ।
पुरुष-ख्यात्या चित्तस्य निवृत्तिरिति यद् उक्तं, तत्र नास्तिकाक्षेपं निराचिकीर्षुस् तं प्रदर्शयति—अत्र कश्चितिति । षण्डकोपाख्यानेन दृष्टान्तेनोद्घाटयति, आक्षिपतीत्य् अर्थः । नपुंसकाख्यानम् एवाह—मुग्धया इत्य् आदिना, उत्पादयिष्यतीत्य् अन्तेन । स षण्डकः तां भार्याम् । विनष्टमिति । विनष्टं पर-वैराग्येण निरुद्धं ज्ञानं चित्त-निवृत्ति-रूपं मोक्षं करिष्यतीति नास्ति प्रत्याशेत्य् अर्थः ।
उपेक्षा-सूचनाय पूर्वाचार्य-मुखेनात्र सिद्धान्तम् आह—तत्रेति । ईषद् असमाप्त आचार्य् आचार्य-देशीयः । उपेक्षणीये प्रत्युत्तर-दान-मात्रेणाचार्य-देशीयत्वम् । आचार्यश् च वायौ प्रोक्तः—
आचिनोति च शास्त्रार्थम् आचारे स्थापयत्य् अपि ।
स्वयम् आचरते यस्माद् आचार्यस् तेन चोच्यते ॥[वायु.पु. ५९.३०]इति ।
नन्विति सम्बोधने । एतद् उक्तं भवति—ज्ञानं न साक्षान् मोक्ष-हेतुर् अस्माभिर् इष्यते, किं त्व् अविद्याख्यादर्शन-निवृत्ति-तत्-कार्य-निरोध-योग-द्वारा, तथा च विनष्टम् अपि ज्ञानं बुद्धि-पुरुष-वियोग-रूप-मोक्ष-व्यापार-द्वारा कारणं सम्भवत्य् एवेति ।
ननु यद्य् अयम् आचार्य-देशीयः, तर्हि किं बुद्धि-चित्तादि-नामकान्तः-करण-निवृत्त-मोक्ष एव न भवतीत्य् आशङ्कायाम् आह—तत्र चित्तेति । चित्त-निवृत्तिर् मोक्षो भवत्य् एव, किं तु तत्र स्थान एवास्य नास्तिकस्य बुद्धि-व्यामोह व्यर्थ इत्य् अतोऽत्रोपेक्षणीये समाधातृत्वाद् एवाचार्य-देशीय उक्त इत्य् अर्थः ॥२४॥
—o)0(o—
(२.२५)
हेयं दुःखम् । हेय-कारणं च संयोगाख्यं स-निमित्तम् उक्तम् । अतः परं हानं वक्तव्यम्—
तद्-अभावात् संयोगाभावो हानम्, तद्-दृशेः कैवल्यम् ॥२५॥
तस्यादर्शनस्याभावाद् बुद्धि-पुरुष-संयोगाभाव आत्यन्तिको बन्धनोपरम इत्य् अर्थः । एतद्धानम् । तद्-दृशेः कैवल्यं पुरुषस्यामिश्रीभावः पुनर् असंयोगो गुणैर् इत्य् अर्थः । दुःख-कारण-निवृत्तौ दुःखोपरमो हानम् । तदा स्वरूप-प्रतिष्ठः पुरुष इत्य् उक्तम् ॥२५॥
तत्त्व-वैशारदी : तद् एवं व्यूह-द्वयम् उक्त्वा तृतीय-व्यूहाभिधानाय सूत्रम् अवतारयति—हेयं दुःखम् उक्तमिति । तद्-अभावात् संयोगाभावो हानम्, तद्-दृशेः कैवल्यम् ॥िति । सूत्रं व्याचष्टे—तस्यैति । अस्ति हि महा-प्रलयेऽपि संयोगाभावोऽत उक्तम् आत्यन्तिकैति । दुःखोपरमो हानमिति पुरुषार्थता दर्शिता । शेषम् अतिरोहितम् ॥२५॥
योग-वार्तिकम् :तद् एवं हेय-हेय-हेतु-रूपं व्यूह-द्वयं व्याख्याय तृतीय-व्यूहस्य सूत्रम् अवतारयति—हेयमिति । निमित्तम् अविद्या । तद्-अभावात् संयोगाभावो हानं तद् दृशेः कैवल्यम् । तस्या अविद्याया अभावाद् विनाशाद् बुद्धि-पुरुष-संयोग-निवृत्ति-द्वारा द्रष्टृ-दृश्य-संयोग-निवृत्तिः दुःख-हानम् इत्य् उच्यते, कार्य-कारणयोर् अभेदोपचारात् । तस्य पुरुषार्थत्वायोक्तं तद् दृशेः कैवल्यमिति । तद् एव च हानं पुरुषस्य कैवल्यम् इत्य् अप्य् उच्यते इत्य् अर्थः । इमम् एव सूत्रार्थं भाष्यकारः प्रकारान्तरेणाह—तस्येति ।
बुद्धि-पुरुष-संयोग-शब्देन कार्य-कारणाभेदात् द्रष्टृ-दृश्य-संयोगोऽपि ग्राह्यः । प्रलय-कालीन-वियोग-व्यावर्तनायात्यन्तिकैति विशेषणं बन्धनोपरमस्य ।
एतद्-धानमिति पूर्वेण सहान्वेति । तद्-दृशेः कैवल्यम् इत्य् एतद् व्याचष्टे—तद् दृशेरिति । तद्-धानं गुणैः बुद्धि-गुणैः दुःखादिभिः पुनर् असंयोगः प्रतिबिम्ब-रूपेणासम्बन्ध इत्य् अर्थः । स एव च दुःख-भोग-निवृत्ति-रूपः स्वतः पुरुषार्थ-रूपैति भावः । सूत्रस्य फलितार्थम् आह—दुःखेति हानम् इत्य् अन्तेन । व्याख्याते कैवल्य-शब्दार्थे तदा द्रष्टुः स्वरूपेऽवस्थानमिति गत-सूत्रं प्रमाणयति—तदेति । तदा दुःख-निवृत्तौ, अस्य च हान-व्यूहस्य चतुर्थ-पादे विस्तरो भविष्यतीत्य् अत्र दिङ्-मात्रेण स उक्तः ॥२५॥
—o)0(o—
(२.२६)
अथ हानस्य कः प्राप्त्य्-उपायः ?इति—
विवेक-ख्यातिर् अविप्लवा हानोपायः ॥२६॥
सत्त्व-पुरुषान्यता-प्रत्ययो विवेक-ख्यातिः । सा त्व् अनिवृत्त-मिथ्या-ज्ञाना प्लवते । यदा मिथ्या-ज्ञानं दग्ध-बीज-भावं बन्ध्य-प्रसवं सम्पद्यते, तदा विधूत-क्लेश-रजसः सत्त्वस्य परे वैशारद्ये परस्यां वशीकार-संज्ञायां वर्तमानस्य विवेक-प्रत्यय-प्रवाहो निर्मलो भवति । सा विवेक-ख्यातिर् अविप्लवा हानस्योपायः । ततो मिथ्या-ज्ञानस्य दग्ध-बीज-भावोपगमः । पुनश् चाप्रसव इत्य् एष मोक्षस्य मार्गो हानस्योपाय इति॥२६॥
तत्त्व-वैशारदी : हानोपाय-लक्षणं चतुर्थं व्यूहं आख्यातुं सूत्रं अवतारयति—अथैति ।
विवेक-ख्यातिर् अविप्लवा हानोपायः ॥ आगमानुमानाभ्याम् अपि विवेक-ख्यातिर् अस्ति । न चासौ व्युत्थानं तत्-संस्कारं वा निवर्तयति, तद्वतोऽपि तद्-अनुवृत्तेरिति तन्-निवृत्त्य्-अर्थम् अविप्लवेति । विप्लवो मिथ्या-ज्ञानं, तद्-रहिता । एतद् उक्तं भवति—श्रुतमयेन ज्ञानेन विवेकं गृहीत्वा, युक्तिमयेन च व्यवस्थाप्य, दीर्घ-काल-नैरन्तर्य-सत्कारासेविताया भावनायाः प्रकर्ष-पर्यन्तं समधिगता साक्षात्-कारवती विवेक-ख्यातिर् निवर्तित-सवासन-मिथ्या-ज्ञाना निर्विप्लवा हानोपाय इति । शेषं भाष्यं सुगमम्॥२६॥
योग-वार्तिकम् :तः परं हानोपाय-व्यूहश् चतुर्थ-पादस्यापि कियत्-पर्यन्तं वाच्यः । तत्र चतुर्थ-व्यूह-प्रतिपादन-सूत्रम् अवतारयति—अथैति । बुद्धि-संयोग-निवृत्तिर् एव साक्षाद् दुःख-हाने कारणं विवेक-ख्यातिस् तु बुद्धि-संयोग-हेत्व्-अविद्या-निवर्तकत्वेन परम्परयेति प्राप्ति-शब्देन सूचितम् । विवेक-ख्यातिर् अविप्लवा हानोपायः ॥ साक्षात्कार-निष्ठा-रूपत्व-लाभायाविप्लवेति विशेषणम् ।
तत्राविप्लव-शब्दात् कथम् एत लभ्यत इत्य् आकाङ्क्षायाम् आह—प्लवते । मिथ्या-ज्ञान-संस्कार-वशात्मिथ्या-ज्ञानेनान्तराभिभूयत इत्य् अर्थः । यदेति । यदा तु साक्षात्कार-दशायां सूक्ष्म-मिथ्या-ज्ञानम् अनागतावस्थं दग्ध-बीज-तुल्यावस्थं तस्य विवरणं बन्ध्य-प्रसवं बन्ध्य-प्रसव-सामर्थ्यं भवति, तदा विधूत-क्लेशाख्य-धूलेर् बुद्धि-सत्त्वस्यात एव पर-वैशारद्ये वैलक्षण्ये । अस्यैव विवरणं परस्यां वशीकार-संज्ञायां, परमाणु-परम-महत्त्वान्तोऽस्य वशीकारः[१.४०]इति सूत्रोक्तायाम् इच्छा-प्रतिघात-रूपायां वर्तमानस्य विवेक-ख्याति-प्रवाहो निर्मलो मिथ्या-ज्ञानाकलुषितो भवति । अतः सा विवेक-ख्यातिर् अविप्लवोच्यते, सा परम-साक्षात्कार-रूपिणी हानोपाय इत्य् अर्थः ।
केन द्वारेण हानोपाय इत्य् आकाङ्क्षायाम् आह—ततैति । ततो विवेक-ख्यातेः कारणात् मिथ्या-ज्ञानस्य सूक्ष्म-रूपस्य दग्ध-बीजता-प्राप्तिः । ततश् च पुनर् अप्रसवैति कृत्वा एष विवेक-ख्याति-रूपश् चित्त-निवृत्त्य्-आदि-रूप-मोक्षस्य पन्थाः । अस्य विवरणं हानोपाय इत्य् अर्थः ।
नन्व् एवं ज्ञानाद् एव दुःख-हानाख्य-मोक्ष-वचनाद् असम्प्रज्ञात-योगस्य किं प्रयोजनमिति चेत् ? न, पर-वैराग्यजासम्प्रज्ञात-योगस्याप्य् अत्र ज्ञान-द्वारतया मोक्ष-हेतुत्वाशयादिति ॥२६॥
—o)0(o—
(२.२७)
तस्य सप्तधा प्रान्त-भूमिः प्रज्ञा ॥२७॥
तस्येति प्रत्युदित-ख्यातेः प्रत्याम्नायः । सप्तधेत्य् अशुद्ध्य्-आवरण-मलापगमाच् चित्तस्य प्रत्ययान्तरानुत्पादे सति सप्त-प्रकारैव प्रज्ञा विवेकिनो भवति । तद् यथा—
(१) परिज्ञातं हेयं, नास्य पुनः परिज्ञेयम् अस्ति ।
(२) क्षीणा हेय-हेतवो, न पुनर् एतेषां क्षेतव्यम् अस्ति ।
(३) साक्षात्कृतं निरोध-समाधिना हानम् ।
(४) भावितो विवेक-ख्याति-रूपो हानोपायैति ।
एषा चतुष्टयी कार्य-विमुक्तिः प्रज्ञायाः । चित्त-विमुक्तिस् तु त्रयी—
(५) चरिताधिकारा बुद्धिः ।
(६) गुणा गिरि-शिखर-कूट-च्युता इव ग्रावाणो निरवस्थानाः स्व-कारणे प्रलयाभिमुखाः सह तेनास्तं गच्छन्ति । न चैषां प्रविलीनानां पुनः सत्य् उत्पादः, प्रयोजनाभावादिति ।
(७) एतस्याम् अवस्थायांगुण-सम्बन्धातीतः स्वरूप-मात्र-ज्योतिर् अमलः केवली पुरुषैति ।
एतां सप्त-विधां प्रान्त-भूमि-प्रज्ञाम् अनुपश्यन् पुरुषः कुशल इत्य् आख्यायते । प्रतिप्रसवेऽपि चित्तस्य मुक्तः कुशल इत्य् एव भवति,गुणातीतत्वादिति ॥२७॥
तत्त्व-वैशारदी : विवेक-ख्याति-निष्ठायाः स्वरूपम् आह सूत्रेण—तस्य सप्तधा प्रान्त-भूमिः प्रज्ञा ॥ इत्य् अनेन । व्याचष्टे—तस्येति। प्रत्युदित-ख्यातेःवर्तमान-ख्यातेर् योगिनः प्रत्याम्नायःपरामर्शः । अशुद्धिर् एवाववरणं चित्त-सत्त्वस्य, तद् एव मलं तस्यापगमाच् चित्तस्य प्रत्ययान्तरानुत्पादेतामस-राजस-व्युत्थान-प्रत्ययानुत्पादे निर्विप्लव-विवेक-ख्याति-निष्ठाम् आपन्नस्य सप्त-प्रकारैव प्रज्ञा विवेकिनो भवति । विषय-भेदात् प्रज्ञा-भेदः । प्रकृष्टोऽन्तो यासां भूमीनाम् अवस्थानां तास् तथोक्ताः । यतः परं नास्ति स प्रकर्षः । प्रान्ता भूमयो यस्याः प्रज्ञाया विवेक-ख्यातेः सा तथोक्ता ।
ता एव सप्त-प्रकाराः प्रज्ञा-भूमीर् उदाहरति—तद् यथाइति ।
तत्र पुरुष-प्रयत्न-निष्पाद्यासु चतसृषु भूमिषु प्रथमाम् उदाहरति—परिज्ञातंहेयंिति । यावत् किल प्राधानिकं तत् सर्वं परिणाम-ताप-संस्कारैर् गुण-वृत्ति-विरोधाद् दुःखम् एवेति हेयम् । तत् परिज्ञातम् । प्रान्ततां दर्शयति—नास्य पुनःकिञ्चिद् अपरिज्ञेयम् अस्ति । इति ।
द्वितीयाम् आह—क्षीणाइति । प्रान्तताम् आह—न पुनरिति ।
तृतीयाम् आह—साक्षात्कृतंिति । प्रत्यक्षणे निश्चितं मया सम्प्रज्ञातावस्थायाम् एव निरोध-समाधि-साध्यं हानम् । न पुनर् अस्मात् परं निश्चेतव्यम् अस्तीति शेषः ।
चतुर्थीम् आह—भावितैति । भावितो निष्पादितोविवेक-ख्याति-रूपोहानोपायः, नास्याः परं भावनीयम् अस्तीति शेषः । एषा चतुष्टयी कार्या विमुक्तिः समाप्तिः । कार्यतया प्रयत्न-व्याप्यतादर्शिता । क्वचित् पाठः कार्य-विमुक्तिरिति । कार्यान्तरेण विमुक्तिः प्रज्ञाया इत्य् अर्थः ।
प्रयत्न-निष्पाद्यानुनिष्पादनीयाम् अप्रयत्न-साध्यां चित्त-विमुक्तिम् आह—चित्त-विमुक्तिस् तु त्रयीइति । प्रथमाम् आह—चरिताधिकारा बुद्धिःिति। कृत-भोगापवर्ग-कार्येत्य् अर्थः । द्वितीयाम् आह—गुणाइति । प्रान्तताम् आह—न चैषांिति ।
तृतीयाम् आह—एतस्याम् अवस्थायांिति । एतस्याम् अवस्थायां जीवन्न् एव पुरुषः कुशलो मुक्त इत्य् उच्यते, चरम-देहत्वाद् इत्य् आह—एतामिति । अनौपचारिकं मुक्तम् आह—प्रतिप्रसवैति । प्रधान-लयेऽपि चित्तस्य मुक्तः कुशल इत्य् एव भवति, गुणातीतत्वादिति ॥२७॥
योग-वार्तिकम् :तस्या विवेक-ख्यातेर् अविप्लवाख्य-निष्ठाया लक्षणम् आह—तस्य सप्तधा प्रान्त-भूमिः प्रज्ञा ॥ तस्य विवेक-ख्याति-रूप-हानोपायस्य प्रान्त-भूमिका-रूपिणी प्रज्ञा सप्तधेत्य् अर्थः ।
तद् एतद् व्याचष्टे—तस्येति । तच्-छब्दोक्त-हानोपायस्य स्वरूपाख्यानं प्रत्युदित-ख्यातेरिति, अन्यथा तस्येति पुंलिङ्गानुपपत्तेः । प्रत्याम्नायः परामर्शः । न चात्र प्रत्युत्पन्न-ख्यातेः पुरुषस्य परामर्श इत्य् अर्थः । सम्भवति पुरुषस्य पूर्व-सूत्रेष्व् अप्रस्तुतत्वात् ।
सप्तधेत्य् एतद् व्याख्यातुं गृह्णाति—सप्तधेतीति । अशुद्ध्येति । अशुद्धिर् विपर्ययाख्याविद्या तत्-कार्य-पापादिकं चोत्तर-सूत्र-भाष्यात्, सैवावरण-रूपो मलः, तद्-अपगमाच् चित्तस्य प्रत्ययान्तराणां विवेक-ख्यात्य्-अन्येषाम् अनुत्पादेसति पर-वैराग्यजान् निरोध-योगाद् उत्थान-दशायां सप्ताकारा प्रज्ञा विवेकिनो निष्पन्न-ज्ञानस्य लिङ्गं भवतीत्य् अर्थः । एकाकारोऽयोग-व्य्वच्छेदे । प्रकार-न्यूनता नास्तीत्य् अर्थः ।
एकस्या एव प्रज्ञायाः सप्त-प्रकारत्वम् उदाहरति—तद् यथा इत्य् आदिना । प्रथमं प्रकारम् आह—परिज्ञातमिति । परिज्ञातं साक्षात्-कृतं मुमुक्षुभिर् हेयं, नास्याम् अवशिष्टं पुनर् हेयम् अस्तीत्य् अर्थः ।
द्वितीयं प्रकारम् आह—क्षीणाइति । ततश् च हेय-हेतवोऽविद्या-काम-कर्मादयो विवेक-साक्षात्कारेण मम क्षीणा इत्य् आदिर् अर्थः ।
तृतीयं प्रकारम् आह—साक्षात्कृतमिति । ततश् चाविद्यादि-क्षयाद् उत्पन्नेन निरोध-समाधिना हेतुना व्युत्थान-काले दुःख-हान-रूपो भावि-मोक्षो मया साक्षात्-कृतः देह-पातानन्तरम् एतादृशो मे मोक्षो भवितेति सजातीय-साक्षात्कार एव सजातीयान्तर-साक्षात्कार-विनाशे परिचितः । असम्प्रज्ञात-योग-दृष्टान्तेन कैवल्यम् अपि दृष्ट-प्रायमिति फलितार्थः । यथाश्रुते निरोध-समाधौ हान-साक्षात्कारानुपपत्तिर् वृत्त्य्-अभावादिति । असम्प्रज्ञात-कालीनश् च दुःखाभावो योग्यानुपलब्ध्या व्युत्थाने स्मर्येतेति । अथवा निरोध-समाधिना निष्पाद्यं हानं मोक्षो हान-गोचर-सम्प्रज्ञातेन साक्षात्-कृतम् इत्य् अर्थः ।
चतुर्थं प्रकारम् आह—भावितैति । ततश् च फल-निष्पत्त्या विवेक-ख्याति-रूपो हानोपायो भावितो निष्पादितः फल-निष्पत्त्यैव साधनस्य सिद्धेरिति । वस्तुतस् तु भावित इत्य् आदि-प्रकारस्य द्वितीय-स्थल एव पाठः । आञ्जस्येन क्रमोपपत्तेः ।
एषाइति । एषा प्रान्त-भूमि-प्रज्ञाया विषयो हेय-ज्ञान-समाप्त्य्-आदि-रूपा चतुष्टयी प्रज्ञायाः प्रज्ञाख्य-तत्त्व-ज्ञान-निमित्तात् पुंसां कार्य-मुक्तिः कार्याद् विमुक्तिः कर्तव्य-समाप्तिः जीवन्-मुक्तिर् इत्य् अर्थः । इयं पर-वैराग्य-रूपा चित्त-नाशस्याद्य-भूमिका-रूपा ।
चित्तेति । चित्ताद् विमुक्तिः चित्त-विमुक्तिः परम-मुक्तिः । सापि प्रान्त-भूमि-प्रज्ञाया विषयः त्रिविधा भवति । चित्त-विमुक्तिस् तु स्वयम् एव भवति, न तत्र साधनापेक्षेत्य् आशयेन पृथग् उपन्यासः । तत्राद्यां चित्त-विमुक्तिम् आह—चरिताधिकारा बुद्धिःिति । समाप्त-भोगापवर्गो भवति बुद्धिर् इत्य् अर्थः । इयं पर-वैराग्य-रूपा चित्त-नाशस्याद्य-भूमिका-रूपा ।
द्वितीयं .आह—गुणाइति । बुद्धेर् गुणाः संसार-सुख-दुःखादयः स्व-कारणे सत्त्वादि-त्रिगुण-मय-प्रकृतौ लीयमानास् तेन चित्तेन सहात्यन्त-लयं गच्छन्ति । तत्र दृष्टान्तः—गिरीति । गिरिः शिखर-कूटाच् च्युताः शिला इवावस्थातुम् अक्षमा इत्य् अर्थः । एषा च लिङ्ग-शरीरस्य विनश्यद्-अवस्था द्वितीय-भूमिका ।
तृतीयम् आह—न चैषामिति । न चैषां संस्कार-सुखादीनां पुनर् उद्भवोऽस्ति, पुरुषार्थ-समाप्त्या प्रयोजनाभावाद् इत्य् अत एतस्याम् अवस्थायां पुरुषो बुद्ध्य्-आदि-गुण-सम्बन्ध-विशेष-शून्यः स्वरूप-मात्र-ज्योतिः निर्विषयक-चिज्-ज्योति-स्वरूपोऽमल औपाधिक-तमो-मालिन्य-रहितः केवली केवलेषु मुक्तेष्व् अविभागी भवतीत्य् अर्थः । इयं चात्यन्तिक-लय-निष्पत्ति-रूपा विदेह-कैवल्यस्य चरम-भूमिका ।
इमां त्रिविधां चित्त-भूमिं भाविनीम् एव जीवन्-मुक्त-दशायां विशुद्ध-चित्तो योगी साक्षात्कार्त् करोतीति बोध्यम् । तद् एवं सप्त-विषयत्वात् सप्त-प्रकारा प्रज्ञा व्याख्याता । इदानीं सूत्र-तात्पर्यार्थम् आह—एतां सप्त-विधामिति । प्रज्ञावान् इत्य् उक्त्वा प्रज्ञाम् अनुपश्यन्निति निरभिमानता-प्रतिपादनायोक्तम् । बुद्धि-वृत्तिं प्रज्ञां साक्षि-भावेनैव जीवन्मुक्तः पश्यति न त्व् अभिमन्यत इत्य् आशयः । कुशलः कल्याणोऽकल्यान-बुद्धि-पत्नी-परित्यागादिति । ज्ञानिनो जीवन्मुक्तस्य लक्षणं सूत्रेणोक्तं तत्-प्रसङ्गात् स्वयं परम-मुक्तस्य ततो विशेषम् आह—प्रतिप्रसवैति । चित्तस्यात्यन्तं लयेऽपि कुशल इत्य् एव भवति, दुःखादिभिः सत्त्वादिभिश् च कुशल-गुणैर् अत्यन्त-वियोगाद् इत्य् अर्थः । एव-कारेण जीवन्मुक्त-दशायाम् अपि बाधितम् अकुशलं तिष्ठतीत्य् उक्तम् । अत एव चाख्यायत इत्य् अनेन जीवन्मुक्तावस्थायां गौणं कुशलत्वं व्याख्यायात्र भवतीत्य् अनेन मुख्यं कुशलत्वम् उच्यतेइति । यत् तु गीतायां, सर्वारम्भ-परित्यागी गुणातीतः स उच्यते[गीता १४.२५]इति ज्ञानिनोऽपि गुणातीतत्वम् उक्तं तद्-गुणाभिमान-शून्यता-मात्रं परमेश्वरस्य निर्गुणत्ववदिति ॥२७॥
—o)0(o—
(२.२८)
सिद्धा भवति विवेक-ख्यातिर् हानोपायैति । न च सिद्धिर् अन्तरेण साधनम् इत्य् एतद् आरभ्यते—
योगाङ्गानुष्ठानाद् अशुद्धि-क्षये ज्ञान-दीप्तिर् आ विवेक-ख्यातेः ॥
योगाङ्गान्य् अष्टाव् अभिधायिष्यमानानि । तेषाम् उष्ठानात् पञ्च-पर्वणो विपर्यस्याशुद्धि-रूपस्य क्षयो नाशः । तत्-क्षये सम्यग् ज्ञानस्याभिव्यक्तिः । यथायथा च साधनान्य् अनुष्ठीयन्ते, तथातथा क्षय-क्रमानुरोधिनी ज्ञानस्यापि दीप्तिर् विवर्धते । सा खल्व् एषा विवृद्धिः प्रकर्षम् अनुभवत्य् आविवेक-ख्यातेः, आ गुण-पुरुष-स्वरूप-विज्ञानाद् इत्य् अर्थः । योगाङ्गानुष्ठानम् अशुद्धेर् वियोग-कारणम् ।यथा परशुश् छेद्यस्य । विवेक-ख्यातेस् तु प्राप्ति-कारणं यथा धर्मः सुखस्य, नान्यथाकारणम् ।
कति चैतानि कारणानि शास्त्रे भवन्ति ? नवैवेत्य् आह—
उत्पत्ति-स्थित्य्-अभिव्यक्ति-विकार-प्रत्ययात्ययः ।
वियोगान्यत्व-धृतयः कारणं नवधा स्मृतम् ॥िति ।
(१) तत्रोत्पत्ति-कारणं मनो भवति विज्ञानस्य ।
(२) स्थिति-कारणं मनसः पुरुषार्थता शरीरस्येवाहारैति ।
(३) अभिव्यक्ति-कारणं यथा रूपस्यालोकस् तथारूप-ज्ञानम् ।
(४) विकार-कारणं मनसो विषयान्तरम्, यथाग्निः पाक्यस्य ।
(५) प्रत्यय-कारणं धूम-ज्ञानम् अग्नि-ज्ञानस्य ।
(६) प्राप्ति-कारणं योगाङ्गानुष्ठानं विवेक-ख्यातेः ।
(७) वियोग-कारणं तद् एवाशुद्धेः ।
(८) अन्यत्व-कारणं, यथा सुवर्णस्य सुवर्ण-कारः । एवम् एकस्य स्त्री-प्रत्ययस्याविद्या मूढत्वे, द्वेषो दुःखत्वे, रागः सुखत्वे, तत्त्व-ज्ञानं माध्यस्थ्ये ।
(९) धृति-कारणं शरीरम् इन्द्रियाणाम् । तानि च तस्य । महा-भूतानि शरीराणाम् । तानि च परस्परं सर्वेषाम् । तैर्यग्यौन-मानुष-दैवतानि च परस्परार्थत्वादिति ।
एवं नव-कारणानि । तानि च यथा-सम्भवं पदार्थान्तरेष्व् अपि योज्यानि । योगाङ्गानुष्ठानं तु द्विधैव कारणत्वं लभतैति ॥२८॥
तत्त्व-वैशारदी : तद् एवं चतुरो व्यूहानुक्त्वा तन्-मध्य-पतितस्य हानोपायस्य विवेक-ख्यातेर् गोदोहनादिवत् प्राग्-असिद्धेर् असिद्धस्य चोपायत्वाभावात् सिद्ध्य्-उपायान् वक्तुम् आरभत इत्य् आह—सिद्धेति । तत्राभिधास्यमानानां साधनानां येन प्रकारेण विवेक-ख्यात्य्-उपायत्वं तद् दर्शयति सूत्रेण—योगाङ्गानुष्ठानाद् अशुद्धि-क्षये ज्ञान-दीप्तिर् आ विवेक-ख्यातेः ॥योगाङ्गानि हि यथा-योगं दृष्टादृष्ट-द्वारेणाशुद्धिं क्षिण्वन्ति ।
पञ्च-पर्वणो विपर्ययस्येत्य् उपलक्षणं पुण्यापुण्ययोर् अपिप् जात्यायुर्-भोग-हेतुवेनाशुद्धि-रूपत्वादिति । शेषं सुगमम् ।
नाना-विधस्य कारण-भावस्य दर्शनाद् योगाङ्गानुष्ठानस्य कीदृशं कारणत्वम् इत्य् अत आह—योगाङ्गानुष्ठानमिति । अशुद्ध्या वियोजयति बुद्धि-सत्त्वम् इत्य् अशुद्धेर् वियोग-कारणम् । दृष्टान्तम् आह—यथा परशुरिति । परशुश् छेद्यं वृक्षं मूलेन वियोजयति । अशुद्ध्या वियोजयद् बुद्धि-सत्त्वं विवेक-ख्यातिं प्रापयति । यथा धर्मः सुखम् । तथा योगाङ्गानुष्ठानं विवेक-ख्यातेः प्राप्ति-कारणं,नान्येन प्रकारेणेत्य् आह—विवेक-ख्यातेःिति ।
नान्यथेति प्रतिषेध-श्रवणात् पृच्छति—कति चैतानिइति । उत्तरं—नवैवेति ।तानि दर्शयति कारिकया—तद् यथा—उत्पत्तीति । अत्रोदाहरणान्य् आह—तत्रोत्पत्ति-कारणंिति । मनोहि विज्ञानम् अव्यपदेश्यावस्थातोऽपनीय वर्तमानावस्थाम् आपादयद् उत्पत्ति-कारणं विज्ञानस्य ।
स्थिति-कारणं मनसः पुरुषार्थता, अस्मिताया उत्पन्नं मनस् तावद् अवतिष्ठते न यावद् द्विविधं पुरुषार्थम् अभिनिवर्तयति । अथ निर्वर्तित-पुरुषार्थ-द्वयं स्थितेर् अप इति, तस्मात् स्व-कारणाद् उत्पन्नस्य मनसोऽनागत-पुरुषार्थता स्थिति-कारणम् । दृष्टान्तम् आह—शरीरस्येवाहारैति ।
प्रत्यक्ष-ज्ञानं निमित्तम् इन्द्रिय-द्वारा वा स्वतो वा विषयस्य संस्क्रियाभिव्यक्तिस् तस्याः कारणं यथारूपस्यालोकः ।
विकार-कारणं मनसो विषयान्तरम्, यथा हि मृकण्डोः समाहित-मनसो वल्लकी-विपञ्च्यमान-पञ्चम-स्वर-श्रवण-समनन्तरम् उन्मीलिताक्षस्य स्वरूप-लावण्य-यौवन-सम्पन्नाम् अप्सरसं प्रम्लोचाम् ईक्षमानस्य समाधिम् अपहाय तस्यां सक्तं मनो बभूवेति । अत्रैव निदर्शनम् आह—यथाग्निरिति। यथाग्निः पाकस्यतण्डुलादेः कठिनावयव-सन्निवेशस्य प्रशिथिलावयव-संयोग-लक्षणस्य विकारस्य कारणम् ।
सत एव विषयस्य प्रत्यय-कारणंग्नि-ज्ञानस्य। ज्ञायतैति ज्ञानम् । अग्निश् चासौ ज्ञानं चेत्य् अग्नि-ज्ञानं तस्य । एतद् उक्तं भवति—वर्तमानस्यैवाग्नेर् ज्ञेयस्य प्रत्यय-कारणतया कारणमिति ।
प्राप्ति-कारणंौत्सर्गिकी निरपेक्षाणां कारणानां कार्य-क्रिया प्राप्तिः । तस्याः कुतश्चिद् अपवादोऽप्राप्तिः । यथा निम्नोपसर्पण-स्वभावानाम् अपां प्रतिबन्धः सेतुना, तथेहापि बुद्धि-सत्त्वस्य सुख-प्रकाश-शीलस्य स्वाभाविकी सुख-विवेक-ख्याति-जनकता प्राप्तिः । सा कुतश्चिद् अधर्मात् तमसो वा तज्-जनकतया तद् आप्नोति । यथा वक्ष्यति—निमित्तम् अप्रयोजकं प्रकृतीनां वरण-भेदस् तु ततः क्षेत्रिकवद्[४.३]इति ।
तद् एवं विवेक-ख्याति-लक्षण-कार्यापेक्षया प्राप्ति-कारणम् उक्तम् । अवान्तर-कार्यापेक्षया तु तद् एव वियोग-कारणम् इत्य् आह—वियोग-कारणंिति ।
अन्यत्व कारणम् आह—अन्यत्व-कारणं, यथा सुवर्णस्य सुवर्ण-कारैति। कटक-कुण्डल-केयूरादिभ्यो भिन्नाभिन्नस्य भेद-विवक्षया कटकादिभिन्नस्याभेद-विवक्षया कटकाद्य्-अभिन्नस्य सुवर्णस्य कुण्डलाद् अन्यत्वम् । तथा च कटक-कारी सुवर्ण-कारः कुण्डलाद् अभिन्नात् सुवर्णाद् अन्यत् कुर्वन्न् अन्यत्व-कारणम् ।
अग्निर् अपि पाक्यस्यान्यत्व-कारणं यद्यपि, तथापि धर्मिणो धर्मयोः पुलाकत्व-तण्डुलत्वयोर् भेदाविवक्षया धर्मयोर् उपजनापायेऽपि धर्म्य् अनुवर्ततेइति न तस्यान्यत्वं शक्यं वक्तुमिति विकार-मात्र-कारणत्वम् उक्तैति न सङ्करः । न च संस्थान-भेदो धर्मिणोऽन्यत्व-कारणमिति व्याख्येयम् । सुवर्ण-कार इत्य् अस्यासङ्गतेः ।
बाह्यम् अन्यत्व-कारणम् उपन्यस्याध्यात्मिकम् उदाहरति—एवम् एकस्यैति । अविद्या कमनीयेयं कन्यकेत्य्-आदि ज्ञानम् । सम्मोह-योगात् स एव स्त्री-प्रत्ययो मूढो विषण्णो भवति चैत्रस्य,, मैत्रस्य पुण्यवतो बत कलत्र-रत्नम् एतन् न तु मम भाग्य-हीनस्येति । एवं सपत्नी-जनस्य तस्यां द्वेषः स्त्री-प्रत्ययस्य दुःखत्वे । एवं मैत्रस्य तस्या भर्तुः रागस् तस्यैव स्त्री-प्रत्ययस्य सुखत्वे । तत्त्व-ज्ञानं त्वङ्-मांस-भेदोऽस्थि-मज्जा-समूहः स्त्री-कायः स्थान-बीजादिभिर् अशुचिरिति विवेकिनां माध्यस्थ्ये वैराग्ये कारणमिति ।
एवं मांसादि-कायाङ्गानाम् अपि परस्परं विधार्य-विधारकत्वम् । एवं महा-भूतानि पृथिव्य्-आदीनि मनुष्य-वरुण-सूर्य-गन्धवह-शशि-लोक-निवासिनां शरीरिणाम् । तानि च परस्परम् । पृथिव्यां हि गन्ध-रस-रूप-स्पर्श-शब्द-गुणानां पञ्च महा-भूतानि परस्परं विधार्य-विधारक-भावेनावस्थितान्य् अप्सु चत्वारि तेजसि त्रीणि द्वे च मातरिश्वनीति । तैर्यग्यौन-मानुष-दैवतादीनि च विधार्य-विधारक-भावेनावस्थितानि ।
नन्व् आधाराधेय-भाव-रहितानां कुतस् तत्त्वम् इत्य् अत आह—परस्परार्थत्वादिति । मनुष्य-शरीरं हि पशु-पक्षि-मृग-सरीसृप-स्थावर-शरीरोपयोगेन ध्रियते । एवं व्याघ्रादि-शरीरम् अपि मनुष्य-पशु-मृगादि-शरीरोपयोगेन । एवं पशु-पक्षि-मृगादि-शरीरम् अपि स्थावराद्य्-उपयोगेन । एवं दैव-शरीरम् अपि मौष्योपहृत-च्छाग-मृग-कपिञ्जल-मांसाज्य-पुरोडाश-सहकार-शाखा-प्रस्तरादिभिर् अज्यमानं तद् उपयोगेन । एवं देवतापि वर-दान-वृष्ट्य्-आदिभिर् मनुष्यादीनि धारयतीत्य् अस्ति परस्परार्थत्वम् इत्य् अर्थः । शेषं सुगमम् ॥२८॥
योग-वार्तिकम् :तः परं शास्त्र-समाप्ति-पर्यन्तं हानोपाय-व्यूहस्याशेष-विशेषास् तत्-प्रसङ्गेनैव च हान-व्यूहस्य विशेषाश् च व्याख्येयाः, तत्रादौ विव्केअ-ख्यात्य्-उपाय-प्रतिपादकं सूत्र-जातम् अवतारयति—सिद्धेति । सिद्धा निष्पन्नाविप्लवेति यावत् । योगाङ्गानुष्ठानाद् अशुद्धि-क्षये ज्ञान-दीप्तिर् आविवेक-ख्यातेः । सामान्यतो ज्ञानं श्रवण-मननाभ्याम् अपि भवतीति दीप्ति-पदं, दीप्तिश् चात्राश्रुतामत-विशेष-ग्रहणम् ।
अत्र योगाङ्गानुष्ठानाद् इत्य् अनेन वक्ष्यमाण-यमादीनां योगाङ्गत्वम् अपि ज्ञानाङ्गतावद् एव विवक्षितम्, अन्यथा तद् अपि बहिरङ्गं निर्बीजस्य[३.६] इत्य् आगामि-सूत्रे योगाङ्गतायां विशेषस्याप्रकृताभिधानता-प्रसङ्गात् ।
ननु योगाङ्गानि योग-साधनानि, तानि च पूर्वोक्ततया पुनर् नाकाङ्क्ष्यन्तैति चेत् ? न, कथं व्युत्थित-चित्तोऽपि योग-युक्तः स्याद् इत्य् आदि भाष्येणैव दत्तोत्तर-प्रायत्वात् । पूर्व-पादे ह्य् उत्तमाधिकारिणाम् अभ्यास-वैराग्ये एव योगयोः साधनम् उक्तं, ततश् च मध्यमाधिकारिणां तपः-स्वाध्यायेश्वर-प्रणिधानान्य् अपि केवलानि साधनान्य् एतत्-पादस्यादाव् उक्तानि, अतः परं मन्दाधिकारिणां यमादीन्य् अपि योग-साधनानि वक्तव्यानि ज्ञान-साधन-प्रसङ्गेनेत्य् अपौनरुक्त्यम् ।
यद्यपि ज्ञानम् अप्य् असम्प्रज्ञात-योग-साधनतयास्मिन् शास्त्रे प्रतिपादितं, तथापि तद्-योग-सामान्येऽङ्गतयात्र यमादीन्य् अष्टाव् एव योगाङ्गतया प्रतिपादयिष्यन्तैति ।
सूत्रं व्याचष्टे—योगाङ्गानीति । विपर्ययस्येति । योगाङ्गतया विपर्यय-शब्देन तत्-कार्यं पापादिकम् अपि ग्राह्यम् तस्याप्य् अशुद्धि-रूपत्वात् ।
ज्ञानम् उत्पद्यते पुंसां क्षयात् पापस्य कर्मणः ।
यथादर्श-तले प्रख्ये पश्यन्त्य् आत्मानम् आत्मनि ॥[ग.पु. १.२२९.६]इति स्मृतेः ।
ननु नाना-विध-कार्य-कारण-भाव-दर्शनाद् योगाङ्गान्य् अशुद्धि-क्षयं प्रति ज्ञानं प्रति च कीदृशं कारणम् इत्य् आकाङ्क्षायाम् आह—योगाङ्गानुष्ठानम् अशुद्धेरिति । अशुद्धेः कारणं वियोग-रूपेणातिशयेनेत्य् अर्थः । अयं भावः—सत एव वस्तुनोऽतिशय-हेतुः कारणम् उच्यते । असद्-उत्पादस्यानभ्युपगमात् । तथा च सत्य् एवाशुद्धिर् वियोगाख्येनातीतावस्था-रूपेणातिशयेन योगाङ्गानां कार्येति । एवं दृष्टान्तेऽपि बोध्यम् । विवेक-ख्यातेस् तु प्राप्ति-कारणमिति । प्राप्ति-रूपातिशयाधायकतया विवेक-ख्यातेः कारणम् इत्य् अर्थः । प्राप्तिश् चोत्पत्तौ प्रतिबन्ध-निवर्तनम् । तत्र दृष्टान्तम् आह—यथेति । नान्यथा कारणमिति । न वैशेषिकाणाम् इवोत्पत्ति-कारणम् अस्मन्-मते धर्मादीनां निमित्त-कारणानां प्रतिबन्ध-निवृत्ति-कारणत्व-सिद्धान्ताद् इत्य् आशयः । निमित्तम् अप्रयोजकं प्रकृतीनां वरण-भेदस् तु ततः क्षेत्रिकवत्[४.३]इति सूत्रे चैतद् व्यक्तीभविष्यति । विवेक-ख्यातेर् उत्पत्तौ च चित्तम् एव कारणं स्वत एव सर्वार्थ-ग्रहण-सामर्थ्यादिति ।
पृच्छति—कति चैतानीति । उत्तरं—नवैवेत्य् आहेति । पूर्वाचार्य-गणैति शेषः । कारिकोक्तानि नव कारणानि यथोक्त-क्रमम् उदाहरति—तत्रेति । ज्ञानस्य वृत्ति-रूपस्योत्पत्ति-रूपातिशयेन मनः कारणं सम्भवति, उपादानत्वाद् इत्य् अर्थः । आप्ति-कारणं च नोत्पत्तौ साक्षात्कारणं, किं तु प्रतिबन्ध-निवृत्ति-द्वारेति । घटादिषु दण्डादीति च पूर्वोक्ताप्ति-कारण-मध्य एव प्रवेशनीयानि । उत्पत्ति-कारणत्वम् उपादान-करणत्वमिति ।
स्थितीति । भोगापवर्ग-रूपं पुरुषार्थ-सामान्यं मनसः स्थिति-रूपातिशयेन कारणं भवति, पुरुषार्थ-समाप्तौ मनसः स्वयम् एव लयाद् इत्य् अर्थः । अत्र प्राधान्येनैव मन-उदाहृतं पुरुषार्थस्य सर्व-भोग्यानाम् एव स्थिति-हेतुत्वादिति ।
अभिव्यक्ति- इति । आलोक-रूप-ज्ञानं च रूपस्याभिव्यक्ति-रूपातिशयेन कारणम् इत्य् अर्थः । अभिव्यक्तिश् च बुद्धि-वृत्ति-रूपमिति विभागः ।
विकार-कारणमिति । एकाग्रस्य मनसो विषयान्तरं स्व-गोचर-रागादि-विकार-रूपातिशयेन कारणं भवतीत्य् अर्थः ।
प्रत्यय-कारणमिति । प्रत्ययः सम्प्रत्ययः प्रामाण्य-निश्चयैति यावत् । तथा च पर्वते वह्निर् अस्तीति शब्दादिना यद् अग्नि-ज्ञानं तस्य सम्प्रत्यय-कारणं पर्वते धूम-दर्शनम् इत्य् अर्थः । यथा श्रुतेऽग्नि-ज्ञानस्येत्य् अत्र ज्ञान-शब्द-वैयर्थ्यात्, आनुमानिक-ज्ञानस्याप्य् अभिव्यक्ति-मध्य एव प्रवेशाच् च ।
प्राप्ति-कारणमिति । आप्तिः प्राप्तिर् एक एवार्थः । एतद् व्याख्यातम् ।
वियोग- इति । एतद् अपि व्याख्यातम् ।
ननु वियोग-कारणे कारण-व्यवहार एव नास्तीति चेत् ? न, मशकार्थोऽयं धूम इत्य् आदि-व्यवहारदर्शनात् । कर्म-कार्ययोर् एकार्थतयाशेष-धातु-कर्मणाम् एव कार्यत्वाच् चेति ।
अन्यत्व-कारणमिति । रूप-भेद-कारणम् इत्य् अर्थः । ननु विकार-कारणाद् अस्य को भेदैति चेत् ? उच्यते—सुवर्णादेः कटकादि-रूपता-त्यागेन कुण्डलादि-रूपतायां यत् कारणं तत् सुवर्णादेर् विकार-कारणम् उच्यते । तद् एव च कारणं कटकादेर् अन्यत्व-कारणम् उच्यते । कटकदि-विनाश-पूर्वकम् अन्येषां कुण्डलादीनाम् उत्पादनात् । अतः कार्य-भेदेनैकस्यैव वस्तुनो द्विधा कारणत्वमिति ।
सुवर्णस्येति । सुवर्ण-पिण्डादेर् इत्य् अर्थः । सुवर्णस्य सर्व-विकारानुगतत्वेन सुवर्णान्यत्वाकारणत्वात् । अतोऽस्य विकार-कारणात् भेदात् । सुवर्ण-पिण्डं कुण्डलं करोति इत्य् आदि-प्रत्ययश् चास्यां कारणतायां प्रमाणमिति । बाह्यम् अन्यत्व-कारणम् उदाहृत्यान्तरम् अप्य् अन्यत्व-कारणम् उदाहरति—एवम् एकस्यैति । स्त्री-प्रत्ययस्य आकार-परिणत-बुद्धि-द्रव्यस्य वृत्त्य्-आख्यस्यैक-जातीयस्य मूढत्वादि-धर्माणाम् अन्यत्वे भिन्नत्वेऽविद्यादि-चतुष्टयं कारणम् इत्य् अर्थः । तत्र मोहः कर्त्वयाकर्तव्य-शून्यता । दुःखत्व-सुखत्वे दुःखित्व-सुखित्वे, माध्यस्थ्यं राग-द्वेष-मोह-शून्यता ।
धृति-कारणमिति । शरीरम् इन्द्रियाणाम् आश्रय-विधया धारकम् । तानि चेन्द्रियाणि तस्य शरीरस्य योग-क्षेम-निर्वाहकत्वेन धारकाणि । एवं पृथिव्य्-आदीनि महा-भूतान्य् आधारतयैव शरीराणाम् धारकाणि, तानि च परस्परं सर्वेषामिति । तानि च महा-भूतान्य् अन्योन्यं सर्वेषां सर्वाणि धारकाणि, आकाशं वायोर् धारकं, चक्रवात्या च छिद्राकाशस्य धारिका । छिद्रस्य तत्-तन्त्रत्वात् तद्-आश्रितत्वाच् च । एवं वायुस् तेजो-धारकः तेजश् चावरणादि-रूप-मण्डलान्तर्-वर्ति-वायूनां धारकम् इत्य् आदि-रूपेण व्याख्येयम् । तथा तैर्यग्यौन-मानुष-दैवतानि च शरीराणि परस्परं धारकाणि । आश्रयाश्रयि-भावाभावेऽपि यज्ञ-वृष्ट्य्-आदिभिर् अन्योन्यम् उपकारकत्वात् । देवान् भावयतानेन ते देवा भावयन्तु वः[गीता ३.११]इत्य्-आदिभ्य इत्य् अर्थः ।
अथैवं स्थिति-कारणाद् धृति-कारणस्य कथं भेदैति ? उच्यते—कार्यानुप्रवेशाप्रवेशाभ्याम् अवान्तर-भेदात् ।स्थितिनां-हेतुर् हि पुरुषार्थाहारादिर् मतः शरीराद्य्-अविभक्तः सन्न् एव तानि स्थापयति, धृति-हेतुश् च शरीरादिर् इन्द्रियादीन् अननुप्रविश्यैव तानि धारयतीति महान् विशेषैति ।
उपसंहरति—इत्य् एवमिति । यथा-योग्यम् एभिर् एव कारणत्वैर् अविद्या-कर्म-जीवेश्वरादीनां सर्व-कारणत्व-प्रतिपादिकाः श्रुति-स्मृतयो व्याख्येया इत्य् आशयवान् आह—तानि च यथा-सम्भवमिति । आधुनिकास् तु उत्पद्य-विकार्याप्य् असंस्कार्य-रूपैश् चतुर्विधं कार्यम् आहुः । तैस् तु नवानाम् एव कार्याणां चतुर्धा विभागः कृतैति । प्रकृतम् उपसंहरति—योगाङ्गेति ॥२८॥
—o)0(o—
(२.२९)
अथ योगाङ्गान्य् अवधार्यन्ते—
यम-नियमासन-प्राणायाम-प्रत्याहार-
धारणा-ध्यान-समाधयोऽष्टाव् अङ्गानि ॥
यथा-क्रमम् एतेषाम् अनुष्ठानं स्वरूपं च वक्ष्यामः ॥२९॥
तत्त्व-वैशारदी : सम्प्रति न्यूनाधिक-सङ्ख्या-व्यवच्छेदार्थं योगाङ्गान्य् अवधारयति—तत्र योगाङ्गान्य् अवधार्यन्तैति। यम-नियमासन-प्राणायाम-प्रत्याहार-धारणा-ध्यान-समाधयोऽष्टाव् अङ्गानि ॥ अभ्यास-वैराग्य-श्रद्धा-वीर्यादयोऽपियथा-योगम् एतेष्व् एव स्वरूपतो नान्तरीयकतयान्तर्भावयितव्याः ॥२९॥
योग-वार्तिकम् : सूत्रान्तरम् अवतारयति—तत्रेति । यम-नियमासन-प्राणायाम-प्रत्याहार-धारणा-ध्यान-समाधयोऽष्टाव् अङ्गानि ॥ पूर्व-पादोक्तान्य् अन्तरङ्गानि अभ्यास-वैराग्य-श्रद्धा-प्राणायामादीन्य् अस्य पादस्यादाव् उक्तानि, मध्यम-साधनानि तपः-स्वाध्यायएश्वर-प्रणिधानानि अत्यन्त-बहिरङ्गैर् अनुक्त-साधनैः सह पिण्डीकृत्य योग-ज्ञानोभय-साधनतयात्रोच्यन्त इत्य् अपौनरुक्त्यम् । क्रिया-साधन-निरूपणं तूत्तम-मध्यमाधमाधिकारि-भेदात् । तत्रवैराग्यस्य सन्तोषे प्रवेशः, श्रद्धदीनां च तपश् चादिषु, परिकर्मणां च धारणादि-त्रिकैति । श्रवण-मननयोश् च प्रमाण-विधयैव ज्ञान-हेतुत्वं साक्षाद् अस्तीत्य् आशयेनाशुद्धि-क्षय-द्वारकेषु ज्ञान-साधनेषु न ते परिगणितेइति मन्तव्यम् । भाष्ये यथा-क्रमम् एतेषाम् अनुष्ठानमिति कर्तव्यमिति शेषः । अयं तूत्सर्ग एव, ईश्वर-प्रसादाज् जितोत्तर-भूमिकस्य नाधर-भूमिषु विनियोगैति भाष्ये वक्तव्यत्वात् । अन्यथा बहिरङ्गान्तरङ्ग-विभाग-प्रतिपादन-वैयर्थ्यापत्तेश् चेति ॥२९॥
—o)0(o—
(२.३०)
तत्र—
अहिंसा-सत्यास्तेय-ब्रह्मचर्यापरिग्रहा यमाः ॥३०॥
तत्राहिंसा सर्वथासर्वदा सर्व-भूतानाम् अनभिद्रोहः । उत्तरे च यम-नियमास् तन्-मूलास् तत्-सिद्धि-परतयैव तत्-प्रतिपादनाय प्रतिपाद्यन्ते, तद् अवदात-रूप-करणायैवोपादीयन्ते । तथा चोक्तं—न खल्व् अयं ब्राह्मणो यथायथा व्रतानि बहूनि समादित्सते, तथातथा प्रमाद-कृतेभ्यो हिंसा-निदानेभ्यो निवर्तमानस् ताम् एवावदात-रूपाम् अहिंसां करोति ।
सत्यं यथार्थे वाङ्-मनसे । यथा दृष्टं यथानुमितं यथा-श्रुतं, तथा वाङ् मनश् च । परत्र स्व-बोध-सङ्क्रान्तये वाग् उक्ता, सा यदि न वञ्चिता भ्रान्ता वा प्रतिपत्ति-बन्ध्या वा भवेदिति । एषा सर्व-भूतोपकारार्थं प्रवृत्ता न भूतोपघाताय । यदि चैवम् अप्य् अभिधीयमाना भूतोपघात-परैव स्यान् न सत्यं भवेत्, पापम् एव भवेत् । तेन पुण्याभासेन पुण्य-प्रतिरूपकेण कष्टतमं प्राप्नुयात्, तस्मात् परीक्ष्य सर्व-भूत-हितं सत्यं ब्रूयात् ।
स्तेयम् अशास्त्र-पूर्वकं द्रव्याणां परतः स्वीकरणम् । तत्-प्रतिषेधः पुनर् अस्प्र्ःा-रूपम् अस्तेयमिति ।
ब्रह्मचर्यं गुप्तेन्द्रियस्योपस्थस्य संयमः ।
विषयाणाम् अर्जन-रक्षण-क्षय-सङ्ग-हिंसा-दोष-दर्शनाद् अस्वीकरणम् अपरिग्रह इत्य् एते यमाः ॥३०॥
तत्त्व-वैशारदी : यम-नियमाद्य्-अङ्गानि उद्दिश्य यम-निर्देशकं सूत्रम् अवतारयति—तत्रेति । अहिंसा-सत्यास्तेय-ब्रह्मचर्यापरिग्रहा यमाः ॥ योगाङ्गम् अहिंसाम् आह—सर्वथाइति । ईदृशाम् अहिंसां स्तौति—उत्तरेचैति । तन्-मूलाइति । अहिंसाम् अपरिपाल्य कृता अप्य् अकृत-कल्पा, निष्फलत्वाद् इत्य् अर्थः । तत्-सिद्धि-परतयैवअनुष्ठानम् ।हिंसा चेन् मूलम् उत्तरेषां कथं तेऽहिंसा-सिद्धि-परा ? इत्य् अत आह—तत्-प्रतिपादनायैति । सिद्धिर् ज्ञानोत्पत्तिर् इत्य् अर्थः ।
स्याद् एतत् । अहिंसा ज्ञानार्था यद्य् उत्तरे, कृतं तैर् अन्यत एव तद्-अवगमाद् इत्य् अत आह—तद् अवदात- इति । यद्य् उत्तरे नानुष्ठीयेरन्न् अहिंसा मलिना स्याद् असत्यादिभिर् इत्य् अर्थः । अत्रैवागमिकानां संमतिम् आह—तथा चेति । सुगमम् ।
सत्य-लक्षणम् आह—यथार्थे वाङ्-मनसेइति । यथा-शब्दं साकाङ्क्षं पूरयति—यथा दृष्टंिति । प्रतिसम्बन्धितं तथा शब्दं प्रतिक्षिपति—तथा वाङ् मनश् चैति। विवक्षायां कर्तव्यायामिति । अन्यथा तु न सत्यम् । एतत् सोपपत्तिकम् आह—परत्रैति । परत्र पुरुषे स्व-बोध-संक्रान्तये स्व-बोध-सदृश-बोध-जननाय वाग् उक्ता उच्चारिता । अतः सा यदि न वञ्चितावञ्चिका, यथा द्रोणाचार्येण स्व-तनयाश्वत्थाम-मरणम् । आयुष्मन् सत्य-धन अश्वत्थामा हतःिति पृष्टस्य युधिष्ठिरस्य प्रतिवचनं हस्तिनम् अभिसन्धाय सत्यं हतोऽश्वत्थामेति । तद् इदं उक्तस्योत्तरं न युधिष्ठिरस्य स्व-बोधं संक्रामयति । स्व-बोधो ह्य् अस्य हस्ति-हनन-विषय इन्द्रिय-जन्मा । न चासौ संक्रान्तः किं त्व् अन्य एव तस्य तनय-वध-बोधो जातैति ।
भ्रान्ता वा भ्रान्तिजा । भ्रान्तिश् च विवक्षा-समये वा ज्ञेयार्थावधारण-समये वा । प्रतिपत्त्या बन्ध्या प्रतिपत्ति-बन्ध्या । यथार्थान् प्रति म्लेच्छ-भाषा प्रतिपत्ति-बन्ध्या, निष्प्रयोजना वा स्यादिति यथानपेक्षिताभिधाना वाक् । तत्र हिस् परत्र स्व-बोधस्य संक्रान्तिर् अप्य् असंक्रान्तिर् एव निष्प्रयोजनत्वादिति । एवं-लक्षणम् अपि सत्यं परापकार-फलं सत्याभासं न तु सत्यम् इत्य् आह—एषाइति । तद् यथा सत्य-तपसस् तस्करैः सार्थ-गमनं पृष्टस्य सार्थ-गमनाभिधानमिति । अभिधीयमाना उच्चार्यमाणा । शेषं सुगमम् ।
अभावस्य भावाधीन-निरूपणतया स्तेय-लक्षणम् आह—स्तेयम् अशास्त्र-पूर्वकमिति । विशेषेण सामान्यं लक्ष्यत इत्य् अर्थः । मानस-व्यापार-पूर्वकत्वाद् वाचनिक-कायिक-व्यापारयोः प्राधान्यान् मनो-व्यापार उक्तोऽस्पृहा-रूपमिति ।
ब्रह्मचर्य-स्वरूपम् आह—गुप्तेति । संयतोपस्थोऽपि हि स्त्री-प्रेक्षण-तद्-आलाप-कन्दर्पायतन-तद्-अङ्ग-स्पर्शन-सक्तो न ब्रह्मचर्यवानिति तन्-निरासायोक्तं गुप्तेन्द्रियस्येति । इन्द्रियान्तराण्य् अपि तत्र लोलुपानि रक्षणीयानीति ।
अपरिग्रह-स्वरूपं आह—विषयाणामिति । तत्र सङ्ग-दोष उक्तो भोगाभ्यासम् अनु विवर्धन्ते रागाः कौशलानि चेन्द्रियाणामिति । हिंसा-लक्षणश् च दोषो नानुपहत्य भूतान्य् उपभोगः सम्भवतीति । अशास्त्रीयाणाम् अयत्नोपनतानाम् अपि विषयाणां निन्दित-प्रतिग्रहादि-रूपार्जन-दोष-दर्शनाच् छास्त्रीयाणं अप्य् उपार्जितानां च रक्षणादि-दोष-दर्शनाद् अस्वीकरणम् अपरिग्रहः ॥३०॥
योग-वार्तिकम् :ुत्तर-सूत्र-जातम् अवतारयति—स्वरूपं चेति । स्वरूपं च यथा क्रमम् एषाम् अतः परं वक्ष्याम इत्य् अर्थः । तत्र अहिंसा-सत्यास्तेय-ब्रह्मचर्यापरिग्रहा यमाः ॥
योगाङ्ग-भूतां प्रकृष्टाम् अहिंसां लक्षयति—तत्राहिंसासर्वथाइति । आश्रम-विहित-नित्य-कर्माविरोधेनेति विशेषणीया । शौचादिषु क्षुद्र-जन्तु-हिंसाया अपरिहार्यत्वात् । अत एव योगिनां प्राणायामादिकं तत्-पाप-क्षालणाय नित्यतया शास्त्रे विहितमिति । अहिंसाया अविरोधेनैव सत्यादयो यम-नियमा अनुष्ठेयाइति प्रतिपादाय तस्याः श्रेष्ठत्वम् आह—उत्तरे चेति । तन्-मूलाइति । सैव मूलं प्रयोजनं येषामिति विग्रहः । अतोऽहिंसासिद्धि-परतयैव शास्त्रेषु इतर-यम-नियमाः प्रतिपाद्यन्तैति । तत्-सिद्धि-परतयैवेत्य् अस्य विवरणं—तत्-प्रतिपादनायैति । सत्यादिभिर् अहिंसा सिध्यतीति प्रतिपादायेति तस्यार्थः । तथा तद्-अवदात-रूप-करणायाहिंसा-निर्मलीकरणायैव योगिभिर् उपादीयन्तेऽनुष्ठीयन्ते प्रतिपाद्यन्ते, तद् अवदात-रूप-करणायैवोपादीयन्तेऽनुष्ठीयन्ते चेत्य् अर्थः । शौच-तप-आद्य्-अकरणे च नरकादिना हिंसाप्य् अन्ततोऽस्तीति मन्तव्यम् ।तथा चेत्य्-आदि सुगमम् । तथा मोक्ष-धर्मेऽप्य् उक्तम्—
यथा नागपदेऽन्यानि पदानि पद-गामिनाम् ।
सर्वाण्य् एवापिधीयन्ते पद-जातानि कौञ्जरे ॥
एवं सर्वम् अहिंसायां धर्मार्थम् अपिधीयते ।[म.भा. १२.२३७.१७-१८]
सत्यं लक्षयति—सत्यमिति । यथार्थत्वं व्याचष्टे—यथा दृष्टमिति । दर्शनादीनां प्रमात्वम् अपि विवक्षितम् । भ्रान्ता वेति वक्ष्यमाणत्वात् । अज्ञान-निमित्तक-पापान्तरवद् भ्रान्ति-निमित्तका सत्यस्यापि पापत्वौचित्यात् । मनश् चेति । मनश् च तथा तात्पर्य-युक्तम् इत्य् अर्थः । तेन सदा दृष्टादि-विपरीतार्थ-बोधने तात्पर्यं तदा यथार्था वाग् असत्यैव भवति, यथाश्वत्थामा हतैति युधिष्ठिर-वाक्यात् । तत्र हि गज-विषये वाक्यस्य सत्यत्वेऽपि मनसो न सत्यत्वं दृष्ट-विपरीत-द्रोण-पुत्र-हनने तात्पर्यादिति ।
सत्यस्योदाहरणं सामान्यत आह—परत्र इत्य् आदिना,इति इत्य्-अन्तेन ।िति-शब्दात् पूर्वं तदा सत्यमिति पूरणईयम् । स्व-विनोदाय गीताव्-वाक्यादीनां पर-प्रतिपत्ति-बन्ध्यत्वादाव् अपि नासत्यत्वम् इत्य् अतस् तद्-व्यावर्तनार्थं परत्र स्व-बोध-सङ्क्रान्तय इत्य् उक्तम् । वञ्चिता विपरीतार्थ-बोधनेच्छया प्रयुक्ता । भ्रान्ता भ्रमेण प्रयुक्ता । प्रतिपत्ति-बन्ध्या अप्रसिद्ध-पदादिभिर् न बोध-जनन-क्षमेत्य् अर्थः । यथोक्त-सत्य-लक्षणे लोक-हितत्वम् अपि विशेषणं देयम् इत्य् आह—एषाइति । एषा वाक् प्रवृत्ता ब्रह्मणा निर्मिता, अतो यदि च, एवम् अपि यथार्थापि, अभिधीयमानोच्चार्यमाणेत्य्-आदिर् अर्थः । सा च वाक् यथा दस्युभिः सार्थ-गमनं पृष्टस्य सार्थ-गमनाभिधानम् इत्य् आदि-रूपा, पुण्याभासेन पुण्यवत् प्रतीयमानेन । तत्र हेतुः—पुण्य-प्रतिरूपकेणैति । पुण्य-सदृशेनेत्य् अर्थः । कष्टं दुःखात्मकं तमो नरकम् इत्य् अर्थः । सत्यं यथार्थं ब्रूयाद् इत्य् अर्थः । अत्र चासत्य-निवृत्ति-मात्रं सत्य-शब्देन विवक्षितं, तस्यैव तत्त्व-सम्भवात्, अन्यथासत्यस्य वचनेऽपि यम-प्रसङ्गाच् चेति ।
अस्तेयम् लक्षयितुम् अभावस्य प्रतियोगि-निरूपणाधीन-निरूपणतयादौ स्तेयं लक्षयति—स्तेयमिति । प्रतिग्रह-व्यावर्तनायाशास्त्र-पूर्वकमिति । अत्र चौर्येणापि स्वत्वं ज्ञायत इत्य् अवगम्यते । अथवा स्वीकरणं ममेति बुद्धि-मात्रं भ्रम-साधारणमिति । तत्-प्रतिषेधस् तन्-निवृत्तिस् तथाप्य् अस्प्र्ःाम् उपलक्ष्याह—स-स्पृहा-रूपमिति ।
ब्रह्मचर्यं लक्षयति—गुप्तेति । गुप्तेन्द्रियस्येति स्वोक्तस्य विवरणम् उपस्थस्येति । संयम इत्य् अत्रोपसर्गेणान्येन्द्रिय-साहित्यम् उपस्थस्य ग्राह्यम् । तेनोपस्थस्य विषये सर्वेन्द्रिय-व्यापारोपरमैति लक्षणम् । तथा चोक्तं दक्ष-संहितायां—
ब्रह्मचर्यं सदा रक्षेद् अष्टधा-लक्षणं पृथक् ।
स्मरणं कीर्तनं केलिः प्रेक्षणं गुह्य-भाषणम् ।
संकल्पोऽध्यवसायश् च क्रिया-निवृत्तिर् एव च ।
एतन् मैथुनम् अष्टाङ्गं प्रवदन्ति मनीषिणः ॥िति ।
प्रकृष्टम् ईक्षणं प्रेक्षणं राग-पूर्वकं दर्शनम् इत्य् अर्थः ।
अपरिग्रहं लक्षयति—विषयाणामिति । परिग्रहे हिंसाद्या अपि दोषास् तेषां दर्शनादिति विशेषणं दम्भा-शक्त्यादि-निमित्तकास्वीकरणेऽतिव्याप्ति-निरासायेति । हिंसा चात्र दातृ-प्रभृतीनां बोध्या ॥३०॥
—o)0(o—
(२.३१)
ते तु—
जाति-देश-काल-समयानवच्छिन्नाः सार्वभौमा महा-व्रतम् ॥
तत्राहिंसा जात्य्-अवच्छिन्ना मत्स्य-बन्धकस्य मत्स्येष्व् एव नान्यत्र हिंसा । सैव देशावच्छिन्ना न तीर्थे हनिष्यामीति । सैव कालावच्छिन्ना न चतुर्दश्यां, न पुण्येऽहनि हनिष्यामीति । सैव त्रिभिर् उपरतस्य समयावच्छिन्ना देव-ब्राह्मणार्थे नान्यथा हनिष्यामीति । यथा च क्षत्रियाणां युद्ध एवहिंसा नान्यत्रेति । एभिर् जाति-देश-काल-समयैर् अनवच्छिन्ना अहिंसादयः सर्वथैव परिपालनीयाः । सर्व-भूमिषु सर्व-विषयेषु सर्वथैवाविदित-व्यभिचाराः सार्वभौमा महाव्रतम् इत्य् उच्यते ॥३१॥
तत्त्व-वैशारदी : सामान्यत उक्ताः । यादृशाः पुनर् योगिनाम् उपादेयास् तादृशान् वक्तुं सूत्रम् अवतारयति—ते त्विति । जाति-देश-काल-समयानवच्छिन्नाः सार्वभौमा महा-व्रतम् । सर्वासु जात्य्-आदि-लक्षणासु भूमिषु विदिताः सार्वभौमाः । अहिंसादयैति । अन्यत्राप्य् अवच्छेदे ऊहनीयः । सुगमं भाष्यम् ॥३१॥
योग-वार्तिकम् :ुक्तानां यमानां विशेष-प्रतिपादकं पूरयित्वा पठति—ते त्विति । जाति-देश-काल-समयानवच्छिन्नाः सार्वभौमा महा-व्रतम् ॥ समयः सङ्केतो वक्ष्यमाण-नियम-विशेषैति यावत् । जात्य्-आदिभिश् चतुर्भिर् अनवच्छिन्नास् ते यमाः । यतः सार्वभौमाः सर्वास्व् अवस्थासु अनुगता अतो महा-व्रतमिति संज्ञिता इत्य् अर्थः । अन्वर्थ-संज्ञायाः फलं च प्रकृष्ट-योगिभिर् एवम् अनुष्ठानमिति ।
मुख्यम् अहिंसाख्य-यमम् आश्रित्य जात्य्-अवच्छिन्नादीन् व्याचष्टे—तत्राहिंसाइति । जातिर् मत्स्यत्वादिः । तया परम्परया अवच्छिन्ना मत्स्याद्य्-अतिरिक्तस्याहिंसेत्य् अर्थः । एवम् उत्तरास्व् अपि परम्परयैवावच्छिन्नत्वं बोध्यम् । सैव देशेति । सैवाहिंसैव । एवम् उत्तरयोर् अपि । त्रिभिर् उपरतस्येति साङ्कर्य-निरासायोक्तम् । त्रिभिर् जात्य्-आद्य्-अवच्छेदैः परम्परया शून्यस्य पुरुषस्येत्य् अर्थः । समयावच्छिन्नस्योदाहरण-द्वयम् आह—देवेति । यथेति । यथा वेत्य् अर्थः । अहिंसाया इवान्येषाम् अपि यमानां जात्याद्य्-अवच्छिन्नत्वम् ऊहनीयम् इत्य् आशयः ।
सूत्र-तात्पर्यार्थम् आह—एभिरिति । सारभौम-शब्दस्यार्थम् आह—सर्व-भूमिषु इत्य् अस्य विवरणं सर्व-विषयेषुइति । विषया जात्य्-आदयो यथोक्ता अस्यापि विवरणम्—सर्वथैव इत्य् आदि ।
ननु कुशसमिदाहरणादि-वैध-हिंसानाम् अपि परित्यागे नित्य-कर्म-बाधेन प्रत्यवायापत्तिरिति ? मैवम्—
सर्वाणि भूतानि सुखे रमन्ते
सर्वाणि दुःखेषु तथोद्विजन्ति ।
तेषां भयोत्पादन-जात-खेदः
कुर्यान् न कर्माणि हि जात-वेदः ॥[म.भा. १२.२३७.२५]
इति मोक्ष-धर्मादि-वाक्यैर् जात-वेदस उत्पन्नात्म-ज्ञानस्य योगिनः कारुणिकस्य बाह्य-कर्म-त्यागानुज्ञयायोगिनाम् एव बाह्य-कर्माकरणे प्रत्यवायात् । योग-रूपस्यैव नित्य-कर्मणो मन्वादिभिर् विहितत्वा च । यथा मनौ—
एतान् एके महायज्ञान् यज्ञशास्त्रविदो जनाः ।
अनीहमानाः सततम् इन्द्रियेष्व् एव जुह्वति ॥[मनु ४.२२]
अत एव वशिष्ठेन बाह्याभ्यन्तर-कर्मणोर् विकल्प उक्तः—
बाह्याभ्यन्तरं चेति द्विविधं कर्म वैदिकम् ।
तयोर् अन्यतरत् कुर्यान् नित्यं कर्म यथा-विधि ॥िति ।
तयोश् चाभ्यन्तरं कर्म हिंसाद्य्-अभावाद् ऐकाग्र्य-रूपत्वाच् श्रेष्ठं गीतादिषूक्तम्—श्रेयान् द्रव्य-मयाद् यज्ञात् ज्ञान-यज्ञः परन्तप[गीता ४.३३] इत्य् आदिना । भाष्यकारश् च वैध-हिंसाया अपि पाप-हेतुत्वम् अग्रे प्रतिपादयिष्यति । शौचादिषु चापरिहार्या हिंसा चाश्रम-विहिता वेति न तया व्रत-लोपः । स्वाश्रम-धर्माविरोधित्वेन विशेषितत्वादिति ॥३१॥
—o)0(o—
(२.३२)
शौच-सन्तोष-तपः-स्वाध्यायेश्वर-प्रणिधानानि नियमाः ॥
तत्रशौचं मृज्-जलादि-जनितं मेध्याभ्यवहरणादि च बाह्यम्, आभ्यन्तरं चित्त-मलानाम् आक्षालनम् ।सन्तोषः सन्निहित-साधनाद् अधिकस्यानुपादित्सा । तपो द्वन्द्व-सहनम् । द्वन्द्वश् च जिघत्सा-पिपासे, शीतोष्णे, स्थानासने, काष्ठ-मौनाकार-मौने च । व्रतानि चैषां यथा-योगं कृच्छ्र-चान्द्रायण-सान्तापनादीनि । स्वाध्यायो मोक्ष-शास्त्राणाम् अध्ययनं प्रणव-जपो वा । ईश्वर-प्रणिधानंतस्मिन्परम-गुरौ सर्व-कर्मार्पणम् ।
शय्यासन-स्थोऽथ पथि व्रजन् वा
स्वस्थः परिक्षीण-वितर्क-जालः ।
संसार-बीज-क्षयम् ईक्षमाणः
स्यान् नित्य-मुक्तोऽमृत-भोग-भागी ॥
यत्रेदम् उक्तं—ततः प्रत्यक्-चेतनाधिगमोऽप्य् अन्तरायाभावश् च[१.२९]इति ॥३२॥
तत्त्व-वैशारदी : शौचादि-नियमान् आचष्टे—शौच-सन्तोष-तपः-स्वाध्यायेश्वर-प्रणिधानानि नियमाः ॥
व्याचष्टे—शौचमिति । आदि-शब्देन गोमयादयो गृह्यन्ते । गोमूत्र-यावकादि मेध्यम्, तस्याभ्यवहरणादि । आदि-शब्दाद् ग्रास-परिमाण-सङ्ख्या-नियमादयो ग्राह्याः । मेध्याभ्यवहरणादि-जनितमिति वक्तव्ये मेध्याभ्यवहरणादि चेत्य् उक्तं, कार्ये कारणोपचारात् । चित्त-मला मद-मानासूयादयः । तद्-अपनयो मनः-शौचम् । प्राण-यात्रा-मात्र-हेतोर् अभ्यधिकस्यानुपादित्सा सन्तोषः । प्राग् एव स्वीकरण-परित्यागादिति विशेषः । काष्ठ-मौनम् इङ्गितेनापि स्वाभिप्रायाप्रकाशनम् । अवचन-मात्रम् आकार-मौनम् ।
परिक्षीण-वितर्क-जालैति । वितर्के वक्ष्यमानः संशय-विपर्ययौ चेति । एतावता शुद्धोऽभिसन्धिर् उक्तः । एते च यम-नियमा विष्णु-पुराणे उक्ताः—
ब्रह्मचर्यम् अहिंसां च सत्यास्तेयापरिग्रहान् ।
सेवेत योगी निष्कामो योग्यतां स्व-मनो नयन् ॥
स्वाध्याय-शौच-सन्तोष-तपांसि नियतात्मवान् ।
कुर्वीत ब्रह्मणि तथा परस्मिन् प्रवणं मनः ॥
एते यमाः सनियमाः पञ्च पञ्च प्रकीर्तिताः ।
विशिष्ट-फलदाः काम्या निष्कामाणां विमुक्तिदाः ॥[वि.पु. ६.७.३६-३८]इति ॥
योग-वार्तिकम् : यमान् व्याख्याय नियमान् व्याचष्टे—शौच-सन्तोष-तपः-स्वाध्यायेश्वर-प्रणिधानानि नियमाः ॥
स्थूल-शरीरस्यैव बाह्यान्तर-रूपेणादौ द्विविधं बाह्य-शौचं दर्शयति—मृज्-जलेति । मेध्यंगोमूत्र-यवाग्व्-आदि, तेषां भक्षणं मेध्याभ्यवहरणम् । आदि-शब्दाद् उपवासादयो ग्राह्याः । मानसम् अपि शौचम् आह—आभ्यन्तरमिति। सत्त्व-स्वभावस्य चित्तस्य मला राग-द्वेषादयस् तेषां मैत्र्यादिना प्रक्षालणं प्रसादैति प्राग् उक्तम् इत्य् अर्थः ।
सन्तोषं व्याचष्टे—संनिहितेति । अत्यावश्यक-प्राण-यात्रा-निर्वाहक-विद्यमान-साधनाद् अतिरिक्तस्यालिप्सेत्य् अर्थः }
द्वन्द्व-सहिष्णुतेति । शा आर्रयार्रय्रीत्या निर्द्वेषं द्वन्द्व-सेवनम् इत्य् अर्थः । द्वन्द्वान्य् आह—जिघत्सेति । जिघित्सा बुभुक्षा । यद्यप् शीतोष्णादिवत् परस्पर-विरुद्धत्वं बुभुक्षा-पिपासयोर् नास्ति, तथापि मिथुनवद् एव पारिभाषिक-द्वन्द्वता । स्थानम् ऊर्ध्वावस्थानम् । आसनं चोपवेशनम् । काष्ठ-मौनम् स्वाभिप्रायाप्रकाशनम्,आकार-मौनम्त्व् अवचन-मात्रम् । एतानि शास्त्रोक्त-व्रतेनैव सोढव्यानि, न तु वृथेत्य् आशयेनाह—व्रतानि चैषामिति ।
स्वाध्याय-व्याख्या-सुकरा ।
तज्-जपस् तद्-अर्थ-भावनं[१.२८]इति प्रथम-पादोक्त-प्रणिधान-व्यावृत्त्य्-अर्थं द्वितीय-पादाद्य-सूत्र-वाक्यार्थम् एव प्रणिधान-शब्दार्थं स्मारयति—तस्मिन् परम-गुरौ सर्व-कर्मार्पणमिति । एतच् च तत्रैव व्याख्यातम् ।
नन्व् एवं तद्-अर्थ-भावन-रूपम् एव प्रणिधानम् अर्थो भवतु ? न, बहिरङ्गताया वक्ष्यमाणत्वात् । ईश्वर-भावनं हि ध्यान-रूपतया योगस्यान्तरङ्गम् एव अङ्गमितित्रयम् अन्तरङ्गं पूर्वेभ्यः[३.७]इतिवक्ष्यमाण-सूत्रात् सर्व-कर्मार्पणम् एव मुख्यतो ध्येयं न त्व् ईश्वर-तत्त्वं, कुर्यात् कर्म-सन्न्यास-चिन्तनमिति योगि-याज्ञवल्क्य-वाक्यात् ।
नाहं कर्ता सर्वम् एतन्-मनसा कुरुते तथा ।
एतद् ब्रह्मार्पणं प्रोक्तम् ऋषिभिस् तत्त्व-दर्शिभिः ॥िति कौर्माच् च ।
ईश्वरस् तु सामान्यतस् तद्-विशेषणता-मात्रेण कर्तृत्वारोपेण च ध्यय इत्य् अतो युक्ता तस्य योग-बहिरङ्गतेति । तद् एवं सूत्र-गणोत्का यम-नियमा विष्णु-पुराणादिष्व् अपि दर्शिता—
ब्रह्मचर्यम् अहिंसां च सत्यास्तेयापरिग्रहान् ।
सेवेत योगी निष्कामो योग्यतां स्व-मनो नयन् ॥
स्वाध्याय-शौच-सन्तोष-तपांसि नियतात्मवान् ।
कुर्वीत ब्रह्मणि तथा परस्मिन् प्रवणं मनः ॥[वि.पु. ६.७.३६-३७] इत्य्-आदिभिः ।
एतेषु दशसु मध्य ईश्वर-प्रणिधानस्य मुख्यतो योगाङ्गत्वमिति प्रतिपादनाय निर्विघ्न-परमात्म-योग-हेतुत्वं तस्याह श्लोकेन—शय्यासनेति ।ीश्वर-प्रणिधानी तद्-अनुग्रहात् सदैव योग-युक्तः स्यादिति श्लोकार्थः । स्वस्थःपरमात्म-निष्ठः, परमात्मार्पित-कर्मणां मुख्यतस् तद्-योगस्यैव कल्पनौचित्यात् । वितर्क-जालो यो वक्ष्यमाणः स वक्ष्यमाण-प्रतिपक्ष-भावनां[२.३३] विनापि परिक्षीणो यस्य स तथा । संसार-बीजानांसंस्कारादीनां क्षयम् अनुदिनम् उपलभमानः । तथा अमृत-भोग-भागी त्यागी चेन् मुक्ति-सुखानुभवितेत्य् एवंभूतो नित्य-मुक्तः स्याद् इत्य् अर्थः ।
न केवलम् ईश्वरेऽर्पित-कर्मण ऐश्वर-योग एव भवति, अपि त्व् ईश्वर-साक्षात्कारोऽपीत्य् उक्तम् एव स्मारयति—यत्रेदम् उक्तमिति । यत्रेश्वर-योगे ।
ननु यम-नियमयोर् मध्ये यज्ञ-दानावचनान् न्यूनतेति चेत् ? न,
देव-द्विज-गुरु-प्राज्ञ-पूजनं शौचम् आर्जवम् ।
ब्रह्मचर्यम् अहिंसा च शारीरं तप उच्यते ॥[गीता १७.१४]
इत्य् आदि-वाक्येभ्य्होऽत्रानुक्त-कर्मणां तपस्य् एवान्तर्भावात् । एवं योगिनाम् अन्तर्-यागाभय-दानादेर् अपि तपस्य् एवान्तर्भावः, देव-ब्राह्मणार्थ-हिंसाया अपि त्याज्यत्व-वचनेन च प्रकृष्ट-योगिनां बाह्य-कर्मणाम् अभाव-सिद्धिरिति । तद् एवं यमाः पञ्च नियमाश् च पञ्च सर्व-स्मृति-सिद्धाः प्रोक्ताः । तत्र यमानाम् अभाव-रूपतया कालाद्य्-अनवच्छिन्नत्व-सम्भवात् सार्वभौमत्वम् उक्तम् । नियमानां तु प्रतिनियत-कालावच्छिन्नतया न सार्वभौमत्वं सम्भवत्य् अतो नात्र महा-व्रत-रूपो विशेष उक्तैति । यथोक्तयोश् च यम-नियमयोर् मध्ये निवृत्ति-रूपतया शक्य-सम्पादनत्वेन यमा एव परमहंसानाम् आवश्यकाः, जडभरतादीनाम् अप्य् अहिंसा-पालनस्य विष्णु-पुराणादौ स्मरणात्, न तु नियमाः, प्रवृत्ति-रूपतया योगान्तरायत्वात् । तद् उक्तं भागवते—यमान् अभीक्ष्णं सेवेत नियमान् मत्-परः क्वचित्[भा.पु. ११.१०.५]इति ॥३२॥
—o)0(o—
(२.३३)
एतेषां यम-नियमानां—
वितर्क-बाधने प्रतिपक्ष-भावनम् ॥३३॥
यदास्य ब्राह्मणस्य हिंसादयो वितर्का जायेरन् हनिष्याम्य् अहम् अपकारिणम् अनृतम् अपि वक्ष्यामि, द्रव्यम् अप्य् अस्य स्वीकरिष्यामि, दारेषु चास्य व्य्वायी भविष्यामि, परिग्रहेषु चास्य स्वामी भविष्यामीति । एवम् उन्मार्ग-प्रवण-वितर्क-ज्वरेणातिदीप्तेन बाध्यमानस् तत्-प्रतिपक्षान् भवयेत् । घोरेषु संसाराङ्गारेषु पच्यमानेन मया शरणम् उपागतः सर्व-भूताभय-प्रदानेन योग-धर्मः । स खल्व् अहं त्यक्त्वा वितर्कान् पुनस् ताना ददानस् तुल्यः श्व-वृत्तेनेति भावयेत् । यथा श्वा वान्तावलेही तथा त्यक्तस्य पुनर् आददानैति। एवम् -आदि सूत्रान्तरेष्व् अपि योज्यम् ॥३३॥
तत्त्व-वैशारदी : श्रेयांसि बहु-विघ्नानीत्य् एषाम् अपवाद-सम्भवे तत्-प्रतीकारोपदेश-परं सूत्रम् अवतारयति—एतेषां यम-नियमानामिति । सूत्रं वितर्केति । भाष्ये नास्ति तिरोहितम् इव किं चन ॥३३॥
योग-वार्तिकम् : उक्तेषु यम-नियमेषु वक्ष्यमाण-विघ्नस्य निवृत्त्य्-उपाय-प्रतिपादकं सूत्रं पूरयित्वावतारयति—एतेषां यम-नियमानामिति । वितर्क-बाधने प्रतिपक्ष-भावनम् ॥ वक्ष्यमाण-वितर्कैर् यमादि-बाधने सति वक्ष्यमाणं प्रतिपक्ष-भावनं कुर्याद् इत्य् अर्थः । तद् एतद् व्याचष्टे—यदास्येति । विपरीतास् तर्का विचारा येष्विति वितर्क-संज्ञा हिंसादिषु तान्त्रिकी । तर्कश् चात्र विशेषणम् । तथा च वितर्क्यमाणो हिंसादिर् वितर्कः । तेन बाधने स्वाभिमुखीकरणे प्रतिपक्ष-भावनम् उत्तर-सूत्र-वक्ष्यमाणं कुर्याद् इत्य् अर्थः ।
विपरीत-तर्कस्याकारम् आह—हनिष्यामीत्य्-आदिना इतीत्य् अन्तेन । एवं नियम-पञ्चकेऽपि त्यक्ष्याम्य् अहं शौचम् इत्य् आदयो वितर्काः द्रष्टव्याः, युक्ति-साम्यात् । सूत्र-तात्पर्यार्थम् आह—एवमिति । एवम् उन्मार्गाभिमुखेन हिंसादि-गतेन वितर्क-ज्वरेण ज्वलितेन बाध्यमानो योगो वितर्क-विरोधि-ज्ञान-विषयतया वितर्क-प्रतिपक्षान् दुःखादि-फलकत्वादीन् भावयेत् चिन्तयेत् इत्य् अर्थः ।
प्रतिपक्ष-भावनं व्याचष्टे—घोरेष्व् इत्य्-आदिना भावयेद् इत्य् अन्तेन । वितर्कान् हिंसादीन् । अत्र दुःख-फलत्व-चिन्तनम् इत्य् एवम् आदिकं सूत्रान्तरेषु आसन-प्राणायाम-सूत्रेष्व् अपि योजनीयम् । आदि-शब्देनास्य सूत्रस्य व्याख्या । उत्तर-सूत्रं च ग्राह्यम् । आसनादिषु च वितर्का आसनादिकं त्यक्ष्य इत्य्-आदि-रूपाइति शेषः ॥३३॥
—o)0(o—
(२.३४)
वितर्का हिंसादयः कृत-कारितानुमोदिता लोभ-क्रोध-मोह-पूर्वका मृदु-मध्याधिमात्रा दुःखाज्ञानानन्त-फलाइति प्रतिपक्ष-भावनम् ॥३४॥
तत्र हिंसा तावत्—कृत-कारितानुमोदितेति त्रिधा । एकैका पुनस् त्रिधा—लोभेन मांस-चर्मार्थेन, कोर्धेनापकृतम् अनेनेति, मोहेन धर्मो मे भविष्यतीति । लोभ-क्रोध-मोहाः पुनस् त्रिविधा मृदु-मध्याधिमात्राइति । एवं सप्त-त्रिंशतिर् भेदा भवन्ति हिंसायाः । मृदु-मध्याधिमात्राः पुनस् त्रिविधाः—मृदु-मृदुर् मध्य-मृदुस् तीव्र-मृदुरिति । तथा मृदु-मध्यो मध्य-मध्यस् तीव्र-मध्यैति । तथा मृदु-तीव्रो मध्य-तीव्रोऽतिमात्र-तीव्रैति । एवम् एकाशीति-भेदा हिंसा भवति । सा पुनर् नियम-विकल्प-समुच्चय-भेदाद् असङ्ख्येया प्राण-भृद्-भेदस्यापरिसङ्ख्येयत्वादिति । एवम् अनृतादिष्व् अपि योज्यम् ।
ते खल्व् अमी वितर्काः—दुःखाज्ञानानन्त-फलाइति प्रतिपक्ष-भावनम् ।दुःखम् अज्ञानं चानन्तं फलं येषामिति प्रतिपक्ष-भावनम् । तथा च हिंसकस् तावत् प्रथमं बध्य् अस्य वीर्यम् आक्षिपति, ततश् च शस्त्रादि-निपातेन दुःखयति । ततो जीविताद् अपि मोचयति । ततो वीर्याक्षेपाद् अस्य चेतनाचेतनम् उपकरणं क्षीण-वीर्यं भवति । दुःखोत्पादान् नरक-तिर्यक्-प्रेतादिषु दुःखम् अनुभवति । जीवन्त-व्यपरोपणात् प्रतिक्षणं च जीवितात्यये वर्तमानो मरणम् इच्छन्न् अपि दुःख-विपाकस्य नियत-विपाक-वेदनीयत्वात्कथम्चिद् एवोच्छ्वस् इति । यदि च कथम्चित् पुण्यावापगता हिंसा भवेत्, तत्र सुख-प्राप्तौ भवेद् अल्पायुरिति । एवम् अनृतादिष्व् अपि योज्यं यथा-सम्भवम् । एवं वितर्काणां चामुम् एवानुगतं विपाकम् अनिष्टं भावयन् न वितर्केषु मनः प्रणिदधीत ॥३४॥
तत्त्व-वैशारदी : तत्र वितर्काणांस्वरूप-प्रकार-कारण-धर्म-फल-भेदान् प्रतिपक्ष-भावना-विषयान् प्रतिपक्ष-भावना-स्वरूपाभिधित्सया सूत्रेणाह—वितर्केति । व्याचष्टे—तत्र हिंसेति । प्राण-भृद्-भेदस्यापरिसङ्ख्येयत्वान् नियम-विकल्प-समुच्चयाः सम्भव्निओ हिंसादिषु । तत्राधर्मतस् तमः-समुद्रेके सति चतुर्विध-विपर्यय-लक्षणस्याज्ञानस्याप्य् उदय इत्य् अज्ञान-फलत्वम् अप्य् एतेषामिति ।
दुःखाज्ञानानन्त-फलत्वम् एव हि प्रतिपक्ष-भावनं तद्-वशाद् एभ्यो निवृत्तेरितितद् एव प्रतिपक्ष-भावनं स्फोरयति—वध्य् अस्य । पश्चाद् एवार्थं प्रयत्नं काय-व्यापार-हेतुं प्रथमम् आक्षिपति यूपनियोजनेन । तेन हि पशोर् अप्रागल्भ्यं भवति । शेषम् अतिस्फुटम् ॥३४॥
योग-वार्तिकम् :िदानीं ये वितर्काः, ये वा वितर्कस्य प्रतिपक्षाः, यादृशं वा तच्-चिन्तनं तत् त्रयम् आह—वितर्का हिंसादयः कृत-कारितानुमोदिता ॰ प्रतिपक्ष-भावनमिति ॥ हिंसादयैति वितर्काणां स्वरूप-कथनं विशेषण-त्रयेण । तत्-तद्-गत-विशेषाणां कथनं सर्वथैव हेयत्व-प्रतिपादाय । दुःखादि-फलकत्व-कथनं च प्रतिपक्ष-कथनम् ।
प्रतिपक्षान् भावयेदिति । पूर्व-सूत्रीय-भाष्यानुपपत्त्या प्रतिपक्ष-भावनम् इत्य् अन्त-कर्म-धारयासम्भवात् । शेषेण च भावन-कथनमिति । दुःख-ज्ञाने एवानन्ते फले येषामिति विग्रहः ।
विशेषण-त्रयोक्तान् विशेषान् विवृणोति—तत्र हिंसाइति । कृता वा कारिता वानुमोदिता वेत्य् अर्थः । तत्र कृता स्वयं निष्पादिता । कारिता कुर्व् इत्य् उक्ता । अनुमोदिता परैः क्रियमाणा साधु साध्व् इत्य् अङ्गीकृता । कृतादीनाम् अपि प्रत्येकं द्वितीय-विशेषणोक्तं त्रैविधं व्याचष्टे—एकैकाइति । लोभेनेत्य् अस्य व्याख्या—मांस-चर्मार्थेन मांस-चर्मादि-प्रयोजनेन तथापकृत-मननेत्य् एवं क्रोधेन तथा मोहेन यज्ञार्थ-हिंसया निर्दोषो धर्मो भविष्यतीत्य् एवं-रूपेणेत्य् अर्थः ।
यद्यपि मृदु-मध्याधिमात्राइति हिंसादि-विशेषणं सूत्रेऽस्ति, तथापि लोभादेर् मृदुत्वादिनैव हिंसादेर् मृदुत्वादिकम् अत्र विवक्षितम् अर्थ-सौष्ठवायेत्य् आशयेन लोभादि-विशेषणतया मृदुत्वादीन् व्याचष्टे—लोभ-क्रोध-मोहाःिति । लोभ-क्रोध-मोहा एकैकाः पुनस् त्रिधा मृदु-मध्याधिमात्रत्वाद् ततोऽपि विशेषैति पूर्व-पादीय-सूत्रानुसारेण यौक्तिकान् अपरान् विशेषान् स्वयम् आह—मृदु-मध्याधिमात्राः पुनस् त्रिधाइति । सर्वत्र तीव्रत्वम् अधिमात्रता । शेषं स्पष्टम् ।
सा पुनर् नियम- इति । मत्स्येष्व् एव हिंसेत्य्-आदिर् नियमः । एकस्मिन् दिवसे स्थावरस्य जङ्गमस्य वान्यतरस्यैव हिंसा नोभयोर् इत्य्-आदिर् विकल्पः । स्थावर-जङ्गमयोर् उभयोर् एवाव्यवस्थया हिंसेत्य्-आदिः समुच्चयः । इत्य् एवं नियम-विक्लप-समुच्चयानाम् आनन्त्याद् धिंसासंख्येय-भेदेत्य्-अर्थः । नियमाद्य्-आनन्त्ये हेतुः—प्राण-भृदिति । हिंसकानां हिंस्यानां वासङ्ख्यतया नियमादीनाम् अनन्त-प्रकारत्वम् इत्य् अर्थः । एवमिति । हिंसायाम् इवानृतादि-रूप-वितर्केष्व् अपि कृत-कारितेत्य्-आदि-विभागा योजनीया इत्य् अर्थः ।
अज्ञानं चेति । अज्ञानं सम्मोहः । हिंसातो दुःखाज्ञाने यथा भवतस् तद् आह—तथा चेति । तथा हीत्य् अर्थः । वीर्याक्षेपो बलान् नियमनम् । एवं त्रि-प्रकार-हिंसनात् त्रि-प्रकारम् एव दुःखं हन्ता प्राप्नोति कर्मानुरूप-फलोदयादिति प्रतिपादयति—ततो वीर्येति ।
परस्य वीर्याक्षेपात् तस्य हेतुर् अपि चेतनाचेतनम् उपकरणं स्त्री-पुत्र-धनादिकं क्षीनवीर्यं कार्याक्षमं भवति , तथा परस्य शस्त्रादिना दुःखोत्पादनाद् धन्तापि नरकादिषु याम्य-शस्त्रादिना दुःखम् अनुभवति, तथा परस्य जीवित-व्यापरोपणात् प्राण-वियोजनात् तत्-कर्तापि प्रतिक्षणं जीवितात्ययं रोगादिना मरणावस्थां सम्मोहमयीम् आपन्नो मरणम् इच्छन्न् अपि कथञ्चिद् एव जीवति ।
ननु तदानीम् एव कथं मरणं न भवति ? तत्राह—दुःख-विपाकस्यैति । दुःख-रूपस्य विपाकस्य प्रतिन्यत-जन्मादि-विपाकैरेव भोग्यत्वाद् इत्य् अर्थः । तद् एतद् धिंसाया अनन्त-दुःखाज्ञान-फलकत्वं गीतायाम् अप्य् उक्तम्—
माम् आत्म-पर-देहेषु प्रद्विषन्तोऽभ्यसूयकाः ।
तान् अहं द्विषतः क्रूरान् संसारेषु नराधमान् ।
क्षिपाम्य् अजस्रम् अशुभान् आसुरीष्व् एव योनिषु ॥[गीता १६.१८-१९]इति ।
पुत्रा ह्य् अग्नि-विस्फुलिङ्गवत् पितुर् अंशाः । आत्मा वै जायते पुत्रैति श्रुतेः । अत ईश्वरांश-जीवेषु द्वेष ईश्वर-द्वेष एव । किं च, जीवानाम् अप्य् आत्मा परमेश्वरः । अतः शरीर-द्वेषेण शरीरि-द्वेषवत् जीव-द्वेषेण परमेश्वरस्य द्वेषो भवतीति भावः
पुण्यावापगतेति । पुण्य-कर्म-रूपस्य सुख-बीजस्य चित्त-भूमाव् आवपने गता सहावापितेत्य् अर्थः । धान्य-बीज-वपने तृण-बीजानां वपनवदिति भावः । भवेद् अल्पायुरिति । ननु अहिंसन् सर्वाणि भूतान्य् अन्यत्र तीर्थेभ्यः, तस्माद् यज्ञे वधोऽवध इत्य् आदि-श्रुति-स्मृतिभिर् वैध-हिंसातिरिक्त-हिंसाया एव प्रतिषेधात् कथं वैध-हिंसाया अनिष्ट-साधनत्वम् उच्यते ?इति । अत्रोच्यते—कार्यत्वम् इष्ट-साधनत्वं वा विध्य्-अर्थो न पुनर् अनिष्टान् अनुबन्धित्वम् अपि । राजत्वादि-प्रापक-कर्मणां गर्भ-वास-जन्याद्य्-अनर्थ-हेतुतायाः सर्व-संमतत्वात् । न च बलवद् अनिष्टान् अनुबन्धित्वम् अपि विध्य्-अर्थो वक्तुं शक्यते, अनिष्टेषु पुरुषाणां बलवद् द्वेषस्याव्यवस्थितेः । दुःखम् एव सर्वं विवेकिन[२.१५]इत्य्-उक्तत्वात् । किं च, बलवद् अनिष्टाननुबन्धित्वस्य विध्य्-अर्थत्वेऽपि यज्ञादिनान्तरीयक-हिंसायाः सामान्यतोऽनिष्ट-जनकत्व-श्रुत्य्-अविरोधः । अपि चावैध-हिंसा-त्यागस्य स्वर्गादि-साधनता-बोधक-विधिभिर् वैध-हिंसायाः स्वर्गादि-साधनता-बोधक-विधिभिश् च सह हिंसाया मृत्य्व्-आद्य्-अनिष्ट-हेतुता-बोधक-श्रुति-स्मृतीनां नास्त्य् एव विरोधो येन तासु सङ्कोचः कल्प्येत । अतो युक्तम् उक्तं पुण्यावापगतानाम् अपि हिंसानाम् अनिष्ट-हेतुत्वम् । पुण्यावापगत्-हिंसास्व् अपि युधिष्ठिरादीनां प्रायश्चित्त-श्रवणाद् अप्य् अयम् एव सिद्धान्त उन्नीयते—
तस्माद् यास्याम्य् अहं तात दृष्ट्वेमं दुःख-सन्निधिम् ।
त्रयी-धर्मम् अधर्माढ्यं किं पाक-फल-सन्निभम् ॥
इति मार्कण्डेयादि-स्मृति-श्रुत्य्-आदिभ्यश् च । अत एव स्मर्यतेऽपि—
सर्वाणि भूतानि सुखे रमन्ते
सर्वाणि दुःखेषु तथोद्विजन्ति ।
तेषां भयोत्पादन-जात-खेदः
कुर्यान् न कर्माणि हि जात-वेदः ॥
इति मोक्ष-धर्मादिष्विति । वधोऽवध इत्य् आदि वाक्यं तु वधाभासता-परमिति दिक् । एवमिति । अनृतादिष्व् अप्य् एवं दुःखाज्ञान-फलकत्वं यथा-सम्भवं मरणादिकं विहाय योज्यम् इत्य् अर्थः । प्रतिपक्ष-भावनस्य प्रयोजनम् आह—एवं वितर्काणामिति । अनुगतं नियतम् एवम् अनिष्टं विपाकं वितर्काणां कार्यम् एव चिन्तयन् योगी न वितर्केषु मनः प्रणिधीत ददातीत्य् अर्थः ॥३४॥
—o)0(o—
(२.३५)
प्रतिपक्ष-भावना-हेतोर् हेया वितर्का यदास्य स्युर् अप्रसव-धर्माणः, तदा तत्-कृतम् ऐश्वर्यं योगिनः सिद्धि-सूचकं भवति । तद् यथा—
अहिंसा-प्रतिष्ठायां तत्-सन्निधौ वैर-त्यागः ॥३५॥
सर्व-प्राणिनां भवति ॥३५॥
तत्त्व-वैशारदी : उक्ता यम-नियमाः । तद् अपवादकानां च वितर्काणां प्रतिपक्ष-भावनातो हानिर् उक्ता । सम्प्रत्य् अप्रत्यूहं यम-नियमाभ्यासात् तत्-तत्-सिद्धि-परिज्ञान-सूचकानि चिह्नान्य् उपन्यस्यति यत् परिज्ञानाद् योगी तत्र तत्र कृतकृत्यः कर्तव्येषु प्रवर्तत इत्य् आह—यदेति । अहिंसा-प्रतिष्ठायां तत्-संनिधौ वैर-त्यागः । शाश्वतिक-विरोधा अप्य् अश्वमहिष-मूषक-मार्जाराहिनकुलादयोऽपि भगवतः प्रतिष्ठिताहिंसस्य संनिधानात् तच्-चित्तानुकारिणो वैरं परित्यजन्तीति ॥३५॥
योग-वार्तिकम् :यम-नियम-निष्पत्ति-सूचकानां सिद्धान्तानां प्रतिपादकानि सूत्राणि अवतारयति—प्रतिपक्षेति । हेया हातुम् अर्हा एवं-भूता वितर्का यदास्य योगिनः प्रतिपक्ष-भावनातो विषय-सान्निध्य-कालेऽप्य् अप्रसव-स्वभावा भवन्ति, तदा तत्-कृतं वितर्क-हानि-कृतम् ऐश्वर्यं यद्मादि-निष्पत्ति-सूचकं भवतीत्य् अर्थः । तन्-निष्पत्त्य्-अवधारणे च तत्-तद्-भूमिषु यत्नं विहाय भूमिकान्तरेषु योगी यत्नम् आतिष्ठेतेत्य् एतत् प्रतिपादयितुं सर्वेष्व् एव योगाङ्गेषु सिद्धि-कथनम् । तद् यथा, तद्-ऐश्वर्यं यथा—अहिंसा-प्रतिष्ठायां तत्-संनिधौ वैर-त्यागः । प्रतिष्ठायां स्थैर्ये उक्त-वितर्कैर् असंस्पर्शैति यावत् । तस्यां सत्यां तत्-संनिधि-स्थानां सर्व-प्राणिनां मार्जार-मूषकादीनां अन्योन्य-वैर-त्यागो भवतीत्य् अर्थः ॥३५॥
—o)0(o—
(२.३६)
सत्य-प्रतिष्ठायां क्रिया-फलाश्रयत्वम् ॥३६॥
धार्मिको भूयाइतिभवति धार्मिकः । स्वर्गं प्राप्नुहीति स्वर्गं प्राप्नोति । अमोघास्य वाग् भवति ॥३६॥
तत्त्व-वैशारदी : सत्य-प्रतिष्ठायां क्रिया-फलाश्रयत्वम् ॥क्रिया-साध्यौ धर्माधर्मौ क्रिया । तत्-फलं च स्वर्ग-नरकादिः । ते एवाश्रयतीत्याश्रयः । तस्य भावस् तत्त्वम् । तद् अस्य भगवतो वाचा भवतीति । क्रियाश्रयत्वम् आह—धार्मिकैति । फलाश्रयत्वम् आह—स्वर्गमिति । अमोघा अप्रतिहता ॥३६॥
योग-वार्तिकम् :सत्य-प्रतिष्ठायां क्रिया-फलाश्रयत्वम् ॥ सर्व-प्राणिनां भवतीत्य् अत्रापि शेषः । क्रिया धर्मः । तस्य फलं स्वर्गादिः । तयोर् आश्रयत्वं सर्व-प्राणिनां सत्य-प्रतिष्ठस्य वचनाद् भवतीत्य् अर्थः । तद् एतद् व्याचष्टे—धार्मिकैति । भूयाइति भवति धार्मिकः । स्वर्गं प्राप्नुहीति स्वर्गं प्राप्नोति । अमोघास्य वाग् भवति ॥३६॥
—o)0(o—
(२.३७)
अस्तेय-प्रतिष्ठायां सर्व-रत्नोपस्थानम् ॥
सर्व-दिक्-स्थान्य् अस्योपतिष्ठन्ते रत्नानि ॥३७॥
तत्त्व-वैशारदी : सुबोधम् ॥३७॥
योग-वार्तिकम् :सर्वाभ्यो दिग्भ्यो रत्नोपस्थानं सर्व-रत्नोपस्थानम् । तद् एतद् व्याचष्टे—सर्व-दिक्-स्थानीति ॥३७॥
—o)0(o—
(२.३८)
ब्रह्मचर्य-प्रतिष्ठायां वीर्य-लाभः ॥
यस्य लाभाद् अप्रतिघान् गुणान् उत्कर्षयति । सिद्धश् च विनेयेषु ज्ञानम् आधातुं समर्थो भवतीति ॥३८॥
तत्त्व-वैशारदी : वीर्यं सामर्थ्यं यस्य लाभाद् अप्रतिघात-प्रतीघातान् गुणान् अन्णिमादीन् उत्कर्षयत्य् उपचिनोति । सिद्धश् च तारादिभिर् अष्टाभिः सिद्धिभिर् ऊहाद्य्-अपर-नामभिर् उपेतो विनेयेषु शिष्येषु ज्ञानं योग-तद्-अङ्ग-विषयम् आधातुं समर्थो भवतीति ॥३८॥
योग-वार्तिकम् : वीर्यं शक्ति-विशेषं लक्षयति—यस्येति । यस्य वीर्यस्य लाभात् प्रतीघात-वर्जितान् गुणान् ज्ञान-क्रिया-शक्तीर् उत्कर्षयति, योगो वर्धयति, तथा सिद्धः स्वयं ज्ञानी भूत्वा शिष्येषु ज्ञानाधान-समर्थश् च भवतीत्य् अर्थः ॥३८॥
—o)0(o—
(२.३९)
अपरिग्रह-स्थैर्ये जन्म-कथन्ता-संबोधः ॥
अस्य भवति । कोऽहम् आसम् ?कथम् अहम् आसम् ? किं स्विद् इदम् ?कथं स्विद् इदम् ? के वा भविष्यामः ? कथं वा भविष्यामः ? इत्य् एवम् अस्य पूर्वान्त-परान्त-मध्येष्व् आत्म-भाव-जिज्ञासा स्वरूपेणोपावर्तते । एता यम-स्थैर्ये सिद्धयः ॥३९॥
तत्त्व-वैशारदी : अपरिग्रह-स्थैर्ये जन्म-कथंता-संबोधः ॥ निकाय-विशिष्टैर् देहेन्द्रियादिभिः सम्बन्धो जन्म । तस्य कथन्ता किं-प्रकारता । तस्याः सम्बन्धः साक्षात्कारः । स-प्रकारातीन्द्रय-शान्तोदिताव्यपदेश्य-जन्म-परिज्ञानमिति यावत् ।
अतीतं जिज्ञासते—कोऽहम् आसमिति । तस्यैव प्रकार-भेदम् उत्पादे स्थितौ च जिज्ञासते—कथम् अहम् आसमिति । वर्तमानस्य जन्मनः स्वरूपं जिज्ञासते—किं स्विदिति । शरीरं भौतिकं किं-भूतानां समूह-मात्र-मोहोस्वित्तेभ्योऽन्यदिति । अत्रापि कथं स्विद् इत्य् अनुषञ्जनीयम् । क्वचित् तु पठ्यत एव । अनागतं जिज्ञासते—के वा भविष्यामैति । अत्रापि कथं स्विद् इत्य् अनुषङ्गः । एवम् अस्येति । पूर्वान्तोऽतीतः कालः परान्तो भविष्यन्-मध्यो वर्तमानस् तेष्व् आत्मनो भावः शरीरादि-सम्बन्धस् तस्मिन् जिज्ञासा, ततश् च ज्ञानम् । यो हि यद् इच्छति स तत् करोतीति न्यायात् ॥३९॥
योग-वार्तिकम् : अपरिग्रह-स्थैर्ये जन्म-कथंता-संबोधः ॥ अपूर्वेण देहेन्द्रियादि-सङ्घातेन ज्ञान-हेतुः सम्बन्धो जन्म । तस्य कथन्ता किं-प्रकारता । तयोः सम्बन्धः साक्षात्कारो जन्म-कथन्ता-सम्बोधः । तथा च शान्तोदिताव्यपदेश्यानां जन्मनां स्वरूपतः प्रकारतश् च जिज्ञासा-मात्रेण साक्षात्कारोऽपरिग्रह-स्थैर्ये भवतीत्य् अर्थः ।
तद् एतद् व्याचष्टे—अस्य भवतीति । इदं सूत्रेण सहान्वेति । कोऽहम् आसं कथम् अहम् आसम् इत्य् अतीत-जन्मनः स्वरूप-प्रकारयोर् जिज्ञासा । किं स्विद् इत्य्-आदि-द्वयं वर्तमान-जन्मनः स्वरूप-प्रकार-जिज्ञासा । के वा भविष्याम इत्य्-आदि-द्वयं च भावि-जन्मनैति । पूर्वापरान्त-मध्याः भूत-भविष्यद्-वर्तमान-कालाः । तेष्व् अस्य योगिनः स्व-जन्म-जिज्ञासोत्पन्न-मात्रैव स्वरूपेण स्व-विशेषित्य् आह— ज्ञानेन उपावर्तते विशिष्टा भवति । नास्त्य् अत्रे साधनापेक्षेत्य् अर्थः । स्वतः सर्वार्थ-ग्रहण-योग्यस्यापि चेतसोऽतीतादीनां स्वावस्थानाम् अग्रहणं परिग्रह-व्यासङ्ग-दोषात् । अतो परिग्रह-स्थैरात् ताः क्षणं प्रणिधान-मात्रेणैव गृह्यन्तैति भावः ॥३९॥
—o)0(o—
(२.४०)
नियमेषु वक्ष्यामः—
शौचात् स्वाङ्ग-जुगुप्सा परैर् असंसर्गः ॥
स्वाङ्गे जुगुप्सायां शौचम् आरम्भमाणः कायावद्यदर्शी कायान् अभिष्वङ्गी यतिर् भवति । किं च, परिर् असंसर्गः काय-स्वभावावलोकी स्वम् अपि कायं जिहासुर् मृज्-जलादिभिर् आक्षालयन्न् अपि काय-शुद्धिम् अपश्यन् कथं पर-कायैर् अत्यन्तम् एवाप्रयतैः संसृज्येत ॥४०॥
तत्त्व-वैशारदी : अनेन बाह्य-शौच-सिद्धि-सूचकं कथितम् ॥४०॥
योग-वार्तिकम् : शौचात् शौच-स्थैर्यम् । अनेन सूत्रेण बाह्य-शौच-स्थैर्यस्य सिद्धिर् उच्यते । जुग्प्सा कुत्सा अशूचित्व-दोष-दर्शनं तस्याशेषतः साक्षाकःिति यावत् । शौचात् स्वाङ्ग-जुगुप्सायां युक्तिम् अप्य् आह—स्वाङ्गैति । यतः पूर्वम् अल्प-जुगुप्सया शौचम् अभ्यस्तम् अतोऽतिशयित-जुगुप्सा शौच-फलं युक्त्य्-आशयः । जुगुप्सां विवृणोति—कायेति । आवद्यं दोषः । तज्-ज्ञानस्य फलम् आह—कायानभिष्वङ्गीति । शेषं सुगमम् ॥४०॥
—o)0(o—
(२.४१)
किं च,
सत्त्व-शुद्धि-सौमनस्य इकाग्र्येन्द्रिय-जयात्म-दर्शन-योग्यत्वानिच ॥
भवन्तीति वाक्य-शेषः । शुचेः सत्त्व-शुद्धिः, ततः सौमनस्य ं, तत ऐकाग्र्यम्, तत इन्द्रिय-जयः, ततश् चात्म-दर्शन-योग्यत्वं, बुद्धि-सत्त्वस्य भवतीत्य् एतच् छौच-स्थैर्याद् अधिगम्यतैति ॥४१॥
तत्त्व-वैशारदी : अन्तर-शौच-सिद्धि-सूचकम् आह—किं चेति । सत्त्व-शुद्धि-सौमनस्य इकाग्र्येन्द्रिय-जयात्म-दर्शन-योग्यत्वानि च ॥ चित्त-मलानाम् आक्षालनं चित्त-सत्त्वम् अमलं प्रादुर्भवति । वैमल्यात् सौमनस्य ं स्वच्छता । स्वच्छं तद्-ऐकाग्र्यम् । ततो मनस्-तन्त्राणाम् इन्द्रियाणां तज्-जयाज् जयः । तत आत्म-दर्शन-योग्यत्वं बुद्धि-सत्त्वस्य भवतीति ॥४१॥
योग-वार्तिकम् : अत्यन्त-शौचस्य सिद्धि-सूचकं सूत्रम् अवतारयति—किं चेति । सत्त्व-शुद्धि-सौमनस्य इकाग्र्येन्द्रिय-जयात्म-दर्शन-योग्यत्वानि च ॥ एतेषु क्रमं दर्शयति—शुचेरिति । क्षालित-चित्त-मलस्य सत्त्व-शुद्धिः सत्त्वोद्रेको भवति । ततः सौमनस्य ं प्रीतिः,स्वत एवानन्दो जायते । ततश् च प्रीति-चित्तस्याविक्षेपाद् ऐकाग्र्यम् । तत इन्द्रिय-जयः, ततश् चात्म-दर्शन-योग्यत्वमिति । सूत्र-द्वयार्थम् उपसंहरति—एतदिति । एतत्-सूत्र-द्वयोक्तं शौच-सामान्यस्य स्थैर्यात् प्राप्यत इत्य् अर्थः॥४१॥
—o)0(o—
(२.४२)
सन्तोषाद् अनुत्तमः सुख-लाभः ॥
तथा चोक्तं—
यच् च काम-सुखं लोके यच् च दिव्यं महत् सुखम् ।
तृष्णा-क्षय-सुखस्य इते नार्हतः षोडशीं कलाम् ॥१४५इति ॥४२॥
तत्त्व-वैशारदी : सन्तोषाद् अनुत्तमः सुख-लाभः ॥ न विद्यतेऽस्माद् उत्तम इत्य् अनुत्तमः । यथा चोक्तं यतातिना पुरौ यौवनम् अर्पयता—
या दुस्त्यजा दुर्मतिभिर् या न जीर्यति जीर्यताम् ।
ता तृष्णां सन्त्यजन् प्राज्ञः सुखेनैवाभिपूर्यते ॥िति ।
तद् एतद् दर्शयति—यच् च काम-सुखम् लोक इत्य्-आदिना ॥४२॥
योग-वार्तिकम् :सन्तोषाद् अनुत्तमः सुख-लाभः ॥ नास्त्य् उत्तमं सुखं यस्मात् तादृश-सुखस्य लाभः सन्तोष-स्थैर्याद् भवतीत्य् अर्थः । तृष्णा-क्षयो हि सन्तोषः । तृष्णा-प्रतिबन्धापगमे च चित्तस्य स्वाभाविक-सत्त्वाधिक्य-निमित्तिका सुख-स्वभावतो स्वत एवाविर्भवति, न तत्-सुखे विषयापेक्षेति, तन् निर्विषयं शान्ति-सुखम् आत्म-सुखम् उच्यते । ते ये शतं प्रजापतेर् आनन्दाः स एको ब्रह्मण आनन्दः श्रोत्रियस्य चाकामहतस्य इत्य्-आदि-श्रुतेः । ईश्वरस्य पूर्ण-कामत्वात् श्रोत्रियस्य च ज्ञानेन काम-क्षयाद् उभयोर् एव वैतृष्णस्य तुल्यतया समानं सुखम् इत्य् आशयः । बुद्धेः सत्त्वात्मकतया सुख-स्वभावत्वेन जीवेऽपि नित्यं सुखम् इदम् एव गीयते । स्वाभाविकस्य यावद् द्रव्य-भावित्वात् । तमसा पिहितत्वेन च सदानभिव्यक्तत्वात् । न पुनश् चितिर् एव सुख-स्वरूपिणी, चिन्-मात्रत्व-श्रुति-स्मृति-सूत्र-विरोधादेर् उक्तत्वादिति ।
सन्तोषाद् अभिव्यक्त-सुखस्यानुत्तमत्वे स्मृतिम् उदाहरति—तथा चोक्तमिति । काम-सुखं लौकिक-विषयेभ्यः सुखं दिव्यं सङ्कल्प-मात्रोत्थ-विषयजं, सङ्कल्पाद् एवास्य पितरः समुत्तिष्ठन्ति इत्य्-आदि-श्रुतेः । तृष्णाक्षयाभिव्यक्त-सुखस्येत्य् अर्थः । विदेह-कैवल्ये तु सुख-वाक्यानि दुःख-निवृत्त्या गौणानीति ॥४२॥
—o)0(o—
(२.४३)
कायेन्द्रिय-सिद्धिर् अशुद्धि-क्षयात् तपसः ॥
निर्वर्त्यमानम् एव तपो हिनस्त्य् अशुद्ध्यावरण-फलम् । तद्-आवरण-मलापगमात् काय-सिद्धिर् अणिमाद्या, तथेन्द्रिय-सिद्धिर् दूराच् छ्रवण-दर्शनाद्येति ॥४३॥
तत्त्व-वैशारदी : तपः-सिद्धि-सूचकम् आह—कायेन्द्रिय-सिद्धिर् अशुद्ध-क्षयात् तपसः ॥ अशुद्ध्-लक्षणम् आवरणं तामसम् अधर्मादि । अणिमाद्या महिमा लघिमा प्राप्तिश् च । सुगमम् ॥४३॥
योग-वार्तिकम् :कायेन्द्रिय-सिद्धिर् अशुद्ध-क्षयात् तपसः ॥ व्याचष्टे—निर्वर्त्यमानमिति । अशुद्धिर् अधर्मस् तामसो गुणः, सैषाम् आदि-शक्तेर् आवरको मत इत्य् अर्थः । अणिमादि-सिद्धीर् विभूति-पादे व्याख्यास्यति । शेषं सुगमम् ॥४३॥
—o)0(o—
(२.४४)
स्वाध्यायाद् इष्ट-देवता-संप्रयोगः ॥४४॥
देवा ऋषयः सिद्धाश् च स्वाध्याय-शीलस्य दर्शनं गच्छन्ति, कार्ये चास्य वर्तन्तैति ॥४४॥
तत्त्व-वैशारदी :स्वाध्याय-सिद्धि-सूचकम् आह—स्वाध्यायाद् इष्ट-देवता-संप्रयोगः ॥ सुगमम् ॥४४॥
योग-वार्तिकम् :स्वाध्यायाद् इष्ट-देवता-संप्रयोगः ॥ संप्रयोगो दर्शनं, यां देवतां द्रष्टुम् इच्छति, सैव दृश्या भवतीत्य् अर्थः । सुगमं भाष्यम् ॥४४॥
—o)0(o—
(२.४५)
समाधि-सिद्धिर् ईश्वर-प्रणिधानात् ॥४५॥
ईश्वरार्पित-सर्व-भावस्य समाधि-सिद्धिर् यया सर्वम् ईप्सितम् अवितथं जानाति, देशान्तरे देहान्तरे कालान्तरे च । ततोऽस्य प्रज्ञा यथा-भूतं प्रजानातीति ॥४५॥
तत्त्व-वैशारदी :समाधि-सिद्धिर् ईश्वर-प्रणिधानात् ॥ न च वाच्यम् ईश्वर-प्रणिधानाद् एव चेत् सम्प्रज्ञातस्य समाधेर् अङ्गिनः सिद्धिः कृतं सप्तभिर् अङ्गैरिति ।ीश्वर-प्रणिधान-सिद्धौ दृष्टादृष्टावान्तर-व्यापारेण तेषाम् उपयोगात् । सम्प्रज्ञात-सिद्धौ च सम्प्रयोग-पृथक्त्वेन दद्न इव क्रत्व्-अर्थता पुरुषार्थता च । न चैवम् अनन्तरङ्गता, धारणा-ध्यान-समाधीनां सम्प्रज्ञात-सिद्धौ, सम्प्रज्ञात-समान-गोचरतयाङ्गान्तरेभ्योऽतद्-गोचरेभ्योऽस्थान्तरङ्गत्व-प्रतीतेः । ईश्वर-प्रणिधानम् अपि हीश्वर-गोचरं न सम्प्रज्ञेय-गोचरमिति बहिरङ्गमितिसर्वम् अवदातम् । प्रजानातीति प्रज्ञा-पद-व्युत्पत्तिर् दर्शिता ॥४५॥
योग-वार्तिकम् :समाधि-सिद्धिर् ईश्वर-प्रणिधानात् ॥व्याचष्टे—ईश्वरेऽर्पितः सर्व-भावःसर्व-व्यापारो येन तस्य समाधि-सिद्धेर् योग-निष्पत्तिर् यथायेन प्रकारेणेश्वरानुग्रहतो भवति, तद् उच्यते । आदौ तावद् देशाद्य्-अन्तरस्थम् अपि ध्येयं सर्वंश्रवण-मनन-काले यथार्थम् एव जानाति । गुरु-वाक्याद् आदाव् अविपर्यस्तं भवति । ततोऽस्य योगिनः प्रज्ञा समाधि-कालेऽपियथार्थम् एव साक्षात्-करोतीत्य् अर्थः । एवं सम्प्रज्ञात-सिद्धाव् असम्प्रज्ञात-समाधिः स्वयम् एव सिध्यतीति तत्र प्रदर्शितम् । न चेश्वर-प्रणिधानाद् एव योग-निष्पत्ताव् इतराङ्ग-वैयर्थ्यमिति वाच्यम् ।ीश्वर-प्रणिधानस्य मोह-मात्र-निवृत्ति-द्वारत्व-वचनात् । द्वारान्तरेण त्व् अङ्गान्तराणां समाधि-साधनत्व-सम्भवात् । अपि च, ईश्वर-प्रणिधानेनैव निर्विघ्नं सर्वाण्य् अङ्गानि सम्पाद्य समाधिं जनयतीति नान्याङ्ग-वैफल्यम् । अथ वा, अन्यान्य् अङ्गानीश्वर-प्रणिधान-द्वारा समाधिं निष्पादयन्ति, इतराङ्गानां च स्वतो नैतादृशी शक्तिर् अस्तीत्य् आशयेनेश्वर-प्रणिधानस्यैव तु मुख्यतः समाधि-साधकत्वं सूत्रितमिति । बहिरङ्गत्वं त्व् अस्य संयम-द्वारकतयानावश्यकतया च वक्ष्यतीति ॥४५॥
—o)0(o—
(२.४६)
उत्काः सह सिद्धिभिर् यम-नियमाः । आसनादीनि वक्ष्यामः । तत्र—
स्थिर-सुखम् आसनम् ॥
तद् यथा पद्मासनम्, वीरासनं, भद्रासनं, स्वस्तिकं, दण्डासनं, सोपाश्रयं, पर्यङ्कं, क्रौञ्च-निषदनं, हस्ति-निषदनम्, उष्ट्र-निषदनं, सम-संस्थानम्, स्थिर-सुखं यथा-सुखं चेत्य्-एवम् -आदीनि ॥४६॥
तत्त्व-वैशारदी :ुत्तर-सूत्रम् अवतारयति—उक्ताः सह सिद्धिभिर् यम-नियमाः । आसनादीनि वक्ष्यामः ।िति । तत्रस्थिर-सुखम् आसनम् । स्थिरं निश्चलं यत् सुखं सुखावहं तद् आसनमिति सूत्रार्थः । आस्यतेऽत्र आस्ते वानेनेत्य् आसनम् ।
तस्य प्रभेदान् आह—तद् यथेति । पद्मासनं प्रसिद्धम् । स्थितस्य इकतराः पादो भू-न्यस्त एकतरश् चाकुञ्चित-जानोर् उपरि न्यस्त इत्य् एतद् वीरासनम् । पाद-तले वृषण-समीपे सम्पुटीकृत्य तस्योपरि पाणि-कच्छपिकां कुर्यात् तद् भद्रासनम् । सव्यम् आकुञ्चितं चरणं दक्षिण-जङ्घोर् वन्तरे निक्षिपेत्, दक्षिणं चाकुञ्चितं चरणं वाम-जङ्घोर् वन्तरे निक्षिपेत्, एतत् स्वस्तिकम् । उपविश्य श्लिष्टाङ्गुलिकौ श्लिष्ट-गुल्फौ भूमि-श्लिष्ट-जङ्घोरु-पादौ प्रसार्य दण्डासनम् अभ्यसेत्। योग-पट्टक-योगात् सोपाश्रयम् । जानु-प्रसारित-बाहोः शयनं पर्यङ्कः । क्रौञ्च-निषदनादीनि क्रौञ्चादीनां निषण्णानां संस्थान-दर्शनात् प्रत्येतव्यानि । पार्ष्णि-पादाग्राभ्यां द्वयोर् आकुञ्चितयोर् अन्योन्य-सम्पीडनं सम-संस्थानम् । येन संस्थानेनावस्थितस्य स्थैर्यं सुखं च सिध्यति तद् आसनं स्थिर-सुखम् । तद् एतत् तव भगवतः सूत्रकारस्य संमतम् । तस्य विवरणं—यथा-सुखं चेति ॥४६॥
योग-वार्तिकम् : सूत्रान्तरम् अवतारयति—उक्ताइति । स्थिर-सुखम् आसनम् ॥ स्थिरं निश्चलं सुख-करं च यत् तद् आसनम् । आस्यतेऽनेन प्रकारेणेत्य् आसनम् इत्य् अर्थः । आसनस्य भेदान् आह—तद् यथेति । तत्र पद्मासन-चतुष्टयस्य लक्षणं वसिष्ठेनोक्तम्—
अङ्गुष्ठौ सन्निबध्नीयाद् हस्ताभ्यां व्युत्क्रमेण तु ।
ऊर्वोर् उपरि विप्रेन्द्र कृत्वा पाद-तले उभे ।
पद्मासनं भवेद् एतत् सर्वेषाम् एव पूजितम् ।
एक-पादम् अथैकस्मिन् विन्यस्योरौ च संस्थितः ।
इतरस्मस् तथा पादं वीरासनम् उदाहृतम् ॥[व.सं. १.७१-७२]
अस्य इवार्धम् अर्धासनम् अप्य् उच्यते, तथा—
गुल्फौ च वृषणस्याधः सीवन्याः पार्श्वयोः क्षिपेत् ।
पार्श्व-पादो च पाणिभ्यां दृढं बद्ध्वा सुनिश्चलः ।
भद्रासनं भवेद् एतत् सर्व-व्याधि-विषापहम् ॥[व.सं. १.७९]
जानूर्वोर् अन्तरे सम्यक् कृत्वा पाद-तले उभे ।
ऋजु-कायः सुखासीनः स्वस्तिकं तत् प्रचक्षते ॥[व.सं. १.६८]इति ॥
इतराण्य् आसनानि योग-प्रदीपाद्य्-उक्तानि । सङ्क्षेपात् कथ्यन्ते । दण्डासनं—उपविश्य श्लिष्टाङ्गुलिकौ श्लिष्ट-गुल्फौ भूमि-श्लिष्ट-जङ्घयोर् उपादौ प्रसार्य दण्डवच् छयनम् । सोपाश्रयं योगपट्ट-योगेनोपवेशनम् ।पर्यङ्कं च जानु-प्रसारित-बाहोः शयनम् । क्रौञ्च-निषदनादीनि क्रौञ्चादीनां निषण्णानां संस्थान-दर्शनात् प्रत्येतव्यानि । जानुनोर् उपरि हस्तौ कृत्वा काय-शिरो-ग्रीवस्यावक्र-भावेनावस्थानं समवस्थानम् । स्थिर-सुखं च सूत्रोपात्तम् । तस्य व्याख्यानं यथा-सुखमिति । आदि-शब्देन मायूराद्य्-आसनानि ग्राह्याणि । यावत्यो जीव-जातयस् तावन्त्य् एवासनानीति सङ्क्षेपः ॥४६॥
—o)0(o—
(२.४७)
प्रयत्न-शैथिल्यानन्त१४६-समापत्तिभ्याम् ॥४७॥
भवतीति वाक्य-शेषः । प्रयत्नोपरमात् सिध्यत्य् आसनं येन नाङ्गम्-एजयो भवति । अनन्ते वा समापन्नं चित्तम् आसनं निर्वर्तयतीति ॥४७॥
तत्त्व-वैशारदी : आसन-स्वरूपम् उक्त्वा तत्-साधनम् आह—प्रयत्न-शैथिल्यानन्त-समापत्तिभ्याम् ॥ स सांसिद्धिको हि प्रयत्नः शरीर-धारको न योगाङ्गस्योपदेष्टाव्यासनस्य कारणम् । तस्य तत्-कारणत्व उपदेश-वैयर्थ्यात् स्वरसत एव तत्-सिद्धेः । तस्माद् उपदेष्टव्यस्यासनस्यायम् असाधको विरोधी च स्वाभाविकः प्रयत्नः । तस्य च यादृच्छिकासन-हेतुतयासन-नियमोपहन्तृत्वात् । तस्माद् उपदिष्ट-नियमासनम् अभ्य् अस्य ता स्वाभाविक-प्रयत्न-शैथिल्यात्मा प्रयत्न आस्थेयो नान्यथोपदिष्टम् आसनं सिध्यतीति स्वाभाविक-प्रयत्न-शैथिल्यम् आसन-सिद्धि-हेतुः । अनन्ते वा नाग-नायके स्थिरतर-फणासहस्र-विधृत-विश्वंभरामण्डले समापन्नं चित्तम् आसनं निर्वर्तयतीति ॥४७॥
योग-वार्तिकम् : आसन-स्थैर्यस्योपायम् आह—प्रयत्न-शैथिल्यानन्त-समापत्तिभ्याम् ॥प्रयत्न-शैथिल्यस्य द्वारम् आह—येन नाङ्गेति । बहु-व्यापारानन्तरं चेद् आसंस्क्रियते तदाङ्ग-कम्पनाद् आसन-स्थैर्यं न भवतीत्य् आशयः । अनन्तेति—अथ वा प्रयत्न-शैथिल्यत्वेऽपिपृथिवी-धारिणि स्थिरतर-शेष-नागे समापन्नं तद्-धारणया तद्-आत्मनापन्नं चित्तम् आसनं निष्पादयतीत्य् अर्थः । तच् चानन्तानुग्रहाद् वा सजातीय-भावना-वशाद् वादृष्ट-विशेष-वशाद् वेत्य् अन्यद् एतत् ॥४७॥
—o)0(o—
(२.४८)
ततो द्वन्द्वानभिघातः ॥४८॥
शीतोष्णादिभिर् द्वन्द्वैर् आसन-जयान् नाभिभूयते ॥४८॥
तत्त्व-वैशारदी : आसन-विजय-सूचकम् आह—ततो द्वन्द्वानभिघातः । निगद-व्याख्यातं भाष्यम् । आसनम् अप्य् उक्ते विष्णु-पुराणे—एवं भद्रासनादीनां समास्थाय गुणैर् युतं[वि.पु. ६.७.३९]इति ॥४८॥
योग-वार्तिकम् :ासन-प्रतिष्ठायां सिद्धिम् आह—ततो द्वन्द्वानभिघातः । भाष्यं सुगमम् ॥४८॥
—o)0(o—
(२.४९)
तस्मिन् सति श्वास-प्रश्वासयोर् गति-विच्छेदः प्राणायामः ॥४९॥
सत्य् आसन-जये बाह्य् अस्य वायोर् आचमनं श्वासः । कौष्ठ्य् अस्य वायोर् निःसारणं प्रश्वासः । तयोर् गति-विच्छेद उभयाभावः प्राणायामः ॥४९॥
तत्त्व-विशारदी॒ आसनानन्तरं तत्-पूर्वकता प्राणायामस्य दर्शयंस् तल्-लक्षणम् आह—तस्मिन् सति श्वास-प्रश्वासयोर् गति-विच्छेदः प्राणायामः । रेचक-पूरक-कुम्भकेष्व् अस्ति श्वास-प्रश्वासयोर् गति-विच्छेदैति प्राणायाम-सामान्य-लक्षणम् एतदिति । तथा हि—यत्र बाह्यो वायुर् आचम्यान्तर् धार्यते पूरके तन् नास्ति श्वास-प्रश्वासयोर् गति-विच्छेदः । यत्रापि कौष्ठ्यो वायुर् विरेच्य बहिर् धार्यते रेचके तत्रास्ति श्वास-प्रश्वासयोर् गति-विच्छेदः । एवं कुम्भकेऽपीति । तद् एतद् भास्ञेणोच्यते—सत्य् आसन-जयैति ॥४९॥
योग-वार्तिकम् : क्रम-प्राप्तं प्राणायामम् आह—तस्मिन् सति श्वास-प्रश्वासयोर् गति-विच्छेदः प्राणायामः । वक्ष्यमाण-चतुर्विध-प्राणायामस्यैवं सामान्य-लक्षणं गति-विच्छेद शास्त्रोक्त-रीत्या स्वाभाविक-गतेः प्रतिषेध इत्य् अर्थः । स च रेचक-पूरक-कुम्भकेष्व् अनुगतः ।
नन्व् एवं प्रत्येकस्यापिप्राणायामत्वापत्त्या तिर्भिर् मिलित्वैक-प्राणायामैति—प्राणायामस् तु विज्ञेयो रेचक-पूरक-कुम्भकैः इत्य्-आदि-वाक्योक्तं व्याहन्येतेति चेत् ? न तु तादृश-वाक्येषु मिलितानाम् एव प्राणायामत्वं विवक्षितम् ।
रेचकं पूरकं त्यक्त्वा सुखं यद् वायु-चारणम् ।
प्राणायामोऽयम् इत्य् उक्तः स वै केवल-कुम्भकः ॥
इति वशिष्ठ-संहितादौ केवल-कुम्भकस्यापिप्राणायामत्व-वचनादिति ।
इदं सूत्रं व्याचष्टे—सत्य् आसनैति । यथा यम-नियमयोर् अन्य-काल-कृतयोर् योगाङ्गत्वं नैवम् आसनस्य , किं तु प्राणायामाद्य्-अङ्ग-पञ्चक-साहित्येनेत्य् एतत् प्रतिपादयितुं सत्य् आसनेइतिविशेषणम् । तथा च सत्य् आसनैतिसमाधि-सूत्र-पर्यन्तम् अनुवर्तनीयम् । गीतादाव् आसनोपरागेणैव ध्यानादि-स्मरणादिति । अत एव चासनादीनां षड्-अङ्गानां सहानुष्ठेयत्वेनाराद् उपकारकतयान्तरङ्गत्वम् इत्य् आशयेन स्मृत्य्-आदिषु क्वचित् षड्-अङ्गो योग उच्यते । यम-नियमयोः कालान्तरीयतयात्यन्त-बहिरङ्गत्वादिति ।
आचमनम् अन्तः प्रवेशः । नन्व् एवं प्रवेश-निर्गम-रूपयोः श्वास-प्रश्वासयोः गतिर् एव नास्तीत्य् आशयेनाह—उभयाभावैति । तथा च गति-शब्दार्थोऽत्र न विवक्षितः । स्वाभाविक-श्वास-प्रश्वासयोः प्रतिषेधः प्राणायाम इत्य् अर्थः ॥४९॥
—o)0(o—
(२.५०)
स तु—
बाह्याभ्यन्तर-स्तम्भ-वृत्तिर् देश-काल-संख्याभिः
परिदृष्टो दीर्घ-सूक्ष्मः ॥५०॥
यत्र प्रश्वास-पूर्वको गत्य्-अभावः स बाह्यः । यत्र श्वास-पूर्वको गत्य्-अभावः स आभ्यन्तरः । तृतीयः स्तम्भ-वृत्तिर् यत्रोभयाभावः सकृत् प्रयन्ताद् भवति । यथा तप्ते न्यस्तम् उपले जलं सर्वतः सङ्कोचम् आपद्यते, तथा द्वयोर् युगपद् भवत्य् अभावैति । त्रयोऽप्य् एते देशेन परिदृष्टाः—इयान् अस्य विषयो देशैति । कालेन परिदृष्टाः क्षणानाम् इयत्तावधारणेनावच्छिन्ना इत्य् अर्थः । सङ्ख्याभिः परिदृष्टाः—एतावद्भिः श्वास-प्रश्वासैः प्रथम उद्घातस् तद्वन् निगृहीतस्य इतावद्भिर् द्वितीय उद्घात एवं तृतीयः । एवं मृदुर् एवं मध्य एवं तीव्रैति सङ्ख्या-परिदृष्टः । स खल्व् अयम् एवम् अभ्यस्तो दीर्घ-सूक्ष्मः ॥५०॥
तत्त्व-वैशारदी : प्राणायाम-विशेष-त्रय-लक्षण-परं सूत्रम् अवतारयति—स त्विति । बाह्याभ्यन्तर-स्तम्भ-वृत्तिर् देश-काल-सङ्ख्याभिः परिदृष्टो दीर्घ-सूक्ष्मः । वृत्ति-शब्दः प्रत्येकं सम्बध्यते ।
रेचकम् आह—यत्र प्रश्वासेति । पूरकम् आह—यत्र श्वासेति । कुम्भकम् आह—तृतीयैति । तद् एव स्फुटयति—यत्रोभयोः श्वास-प्रश्वासयोः सकृद् एव विधारात् प्रयत्नाद् अभावो भवति, न पुनः पूर्ववद् आपूरण-प्रयत्नौघ-विधारक-प्रयत्नो नापि रेचक-प्रयत्नौघ-विधारक-प्रयत्नोऽपेक्ष्यते, किं तु यथा तत उपले निहितंजलं परिशुष्यत् सर्वतः सङ्कोचम् आपद्यत एवम् अयम् अपि मारुतो वहन-शीलो बलवद् विधारक-प्रयत्न-निरुद्ध-क्रियः शरीर एव सूक्ष्मीभूतोऽवतिष्ठते, न तु पूरयति येन पूरकः । न तु रेचयति येन रेचकैति ।
इयान् अस्य देशो विषयः प्रादेश-वितस्ति-हस्तादि-परिमितो निवात-प्रदेश ईषीका-तूलादि-क्रियानुमितो बाह्यः । एवम् आन्तरोऽप्य् आ-पाद-तलम् आ-मस्तकं पिपीलिका-स्पर्श-सदृशेनानुमितः स्पर्शेन । निमेष-क्रियावच् छिन्नस्य कालस्य चतुर्थो भागः क्षणः । तेषाम् इयत्तावधारणेनावच्छिन्नः । स्व-जानु-मण्डलं पाणिना त्रिः परामृश्यच्-छोटिकावच्छिन्नः कालो मात्रा । ताभिः षट्-त्रिंशन्-मात्राभिः परिमितः प्रथम उद्भातो मृदुः । स एव द्विगुणीकृतो द्वितीयो मध्यः । स एव त्रिगुणीकृतस् तृतीयस् तीव्रः ।
तम् इमं सङ्ख्या-परिदृष्टं प्राणायामम् आह—सङ्ख्याभिरिति । स्वस्थस्य हि पुंसः श्वास-प्रश्वास-क्रियावच्छिन्नेन कालेन यथोक्त-च्छोटिका-कालः समानः प्रथमाद्धात-कर्मतां नीत उद्धातो विजितो वशीकृतो निगृहीतः । क्षणानाम् इयत्ता-कालो विवक्षितः, श्वास-प्रश्वास-प्रचयोपपन्ना तु सङ्ख्येति कथञ्चिद् भेदः । स खल्व् अयं प्रत्यहम् अभ्यस्तो दिवस-पक्षम् आसादि-क्रमेण देश-काल-प्रचय-व्यापितया दीर्घः । परम-नैपुण्य-समधिगमनीयतया च सूक्ष्मो, न तु मन्दतया ॥५०॥
योग-वार्तिकम् : अवान्तर-भेद-प्रतिपादकम् उत्तर-सूत्रं पूरयित्वोत्थापयति—स त्विति । बाह्याभ्यन्तर-स्तम्भ-वृत्तिः देश-काल-संख्याभिः परिदृष्टो दीर्घ-सूक्ष्मः ॥
स तु प्राणायामो बाह्य-वृत्तिर् आभ्यान्तर-वृत्तिः स्तम्भ-वृत्तिरिति त्रिविधः रेचक-पूरक-कुम्भक-भेदात् । तद् उक्तंविष्णु-पुराणे—
परस्परेणाभिभवं प्राणापानौ यदानिलौ ।
कुरुतः स द्विधा तेन तृतीयः संयमात् तयोः ॥[वि.पु. ६.७.४१]इति ।
स च त्रिविधः प्राणायामो देश-काल-सङ्ख्याभिः परिदृष्टो निर्णीतो नियमितो भवति, तद्-अभ्यास-वशात् क्रमेण दीर्घ-सूक्ष्म-संज्ञको भवतीति सूत्रार्थः ।
तद् एतद् व्याचष्टे—यत्रेति । विशेषाणां सामान्य-निष्ठत्वाद् इयं सप्तमी । यत्र प्राणायामे गति-विच्छेदे प्रश्वास-पूर्वक-गत्य्-अभावः प्रश्वासेन रेचकेन गति-विच्छेदः स बाह्यो बाह्य-वृत्तिः प्राणायामो रेचक-नामेत्य् अर्थः । न च रेचनं बाह्य इत्य् एवास्त्विति वाच्यम्, प्राणस्यायामः प्राणायामैति योगादरेणायामाख्य-निरोधस्य विशेष्यीकरणादिति ।
यत्र श्वासेति । यत्र श्वासेन पूरकेण गत्य्-अभावः स आभ्यन्तरः आभ्यन्तर-वृत्तिः प्राणायामः पूरक-नामेत्य् अर्थः । स्तम्भ-वृत्तिरिति । यथोभयाभावः श्वास-प्रश्वासयोर् अभावः सकृत् प्रयत्नाद् एवाभ्यास-निरपेक्षाद् भवति, स स्तम्भ-वृत्तिः प्राणायामः कुम्भक-नामेत्य् अर्थः । वक्ष्यमाणस्य कुम्भक-भेदस्य चतुर्थ-प्राणायामस्य व्यावर्तनाय सकृत् प्रयत्नादिति विशेषणम् । स हि प्रयत्न-बाहुल्येनैव भवतीति तत्रैव प्रतिपादयिष्यति ।
एकदैव बाह्याभ्यन्तर-प्राण-विलापने दृष्टान्तम् आह—यथा तप्तैति । द्वयोर् बाह्याभ्यन्तर-देशयोः । देश-काल-सङ्ख्याभिः परिदृष्टैति । विशेषणस्यायम् अर्थः—एतावद् देशेन वा एतावत् कालेन वा एतावन्-मात्र-सङ्ख्याभिर् वावच्छिन्नो मया रेचकादिः कर्तव्य इत्य् एवम् अवधारितैति ।
तद् एतद् विभज्य व्याचष्टे—त्रयोऽप्य् एतैति । त्रयो रेचक-पूरक-कुम्भकाः । इयानिति । नासाग्रात् प्रादेश-द्वादशाङ्गुल-हस्तादि-परिमितो बाह्य-देशो रेचकस्य विषयः, स चेषीकातूलादि-क्रिया-निश्चेयः, पूरकस्य चापाद-तलम् आमस्तकम् आभ्यन्तरो विषयः, स च पिपीलिका-स्पर्श-सदृशेन स्पर्शेन निश्चेयः । कुम्भकस्य रेचक-पूरकयोः बाह्याभ्यन्तर-देशौ समुच्चिताव् एव विषयः । उभयत्रैव प्राणस्य विलयात्, स च तूलस्य क्रियाया उक्त-स्पर्शस्य चानुपलब्ध्या निश्चेयैति ।
कालेनेति चक्षुर्-निमेषावच्छिन्नस्य कालस्य चतुर्थ-भागः क्षणः । तेषाम् इयत्तावधारणेनावच्छिन्ना एतावत्-क्षणान् रेचकादिः कर्तव्यैति नियमिता इत्य् अर्थः । सङ्ख्याभिरिति । मात्राणां द्वादशादि-सङ्ख्याभिर् इत्य् अर्थः । यद्यपि सङ्ख्याभिर् अपि काल-नियम एव क्रियते, तथापि प्रकार-भेदाद् भेदैति । यत्र हि शङ्ख्य-ध्वन्य्-आदिनाकाल-नियमः क्रियते स कालेन परिदृष्टः, यत्र च वक्ष्यमाण-मात्रा-सङ्ख्याभिः काल-नियमः क्रियते स सङ्ख्याभिः परिदृष्टैति । सङ्ख्यार्थं मात्रा च मार्कण्डेय-प्रोक्ता—
निमेषोन्मेषणे मात्रा तालो लघ्व्-अक्षरं तथा ।
प्राणायामस्य सङ्ख्यार्थे स्मृतो द्वादश-मात्रकः ॥िति ।
निमेषादि-लघ्व्-अक्षरान्तं मात्रा-प्रमाणम् । तद् एव दर्शयत्य् उत्तरार्धेन—द्वादश-मात्रिको द्वादश-गुणितो यः कश्चन निमेषादिर् अयं पदार्थः प्राणायामस्य सङ्ख्यार्थे स्मृत इत्य् अर्थः । एवं प्रणवादयोऽपि मात्रा वसिष्ठ-याज्ञवल्क्यादिभिर् उक्ताः । पूरकादि-त्रय एव द्वादश-मात्रेत्य् अयम् अधमः कल्पः, यतः पूरकादिषु प्रत्येकं मात्रायाः सङ्ख्या-भेदो वसिष्ठ-संहितायाम् उक्तः—
एवं ज्ञात्वा विधानेन प्रणवेन समाहितः ।
प्राणायाम-त्रयं कुर्यात् पूर-कुम्भक-रेचकैः ॥
आकृष्य श्वसनं बाह्यात् पूरयेद् इडयोदरम् ।
शनैः षोडश-मात्राभिर् उ-कारं तत्र संस्मरन् ॥
म-कारं मूर्तिम् अत्रापि संस्मरन् प्रणवं जपेत् ।
धारयेत् पूरितं पश्चात् चतुः-षष्ट्या तु मात्रया ॥
यावद् वा शक्यते तावद् धारणं जप-संयुतम् ।
पूरितं रेचयेत् पश्चात् प्रणवं ह्य् अनिलान्वितम् ॥
शनैः पिङ्गलया पुत्र द्वात्रिंशन्-मात्रया पुनः ।
ध्यायन्न् आद्याक्षरं तत्र प्रणवस्य समाहितः ॥[व.सं.]इति ।
अ-कारो-कार-म-काराणां मूर्तयो ब्रह्म-विष्णु-रुद्र-शरीराणि । तम् एतं पुराण-प्रोक्तं मात्रा-भेदं सामान्यतो भाष्य-कार आह—एतावद्भिर् इत्य् आदिना । एतावद्भिः षोडशादिभिः मात्राख्यैः पदार्थैः निमेषोन्मेषणादिभिः श्वास-प्रवेशः पूरक प्रथम उद्घातः । वायोर् उद्धननं गति-निरोधैति यावत् । तथा निगृहीतस्य स्तम्भितस्य वायोर् एतावद्भिश् चतुःषष्ट्य्-आदिभिर् निमेषोन्मेषणादिभिः कुम्भको द्वितीय उद्घातः । एवं तृतीय उद्घातोऽरथाद् रेचकः । एतावद्भिर् द्वात्रिंशद्-आदिभिर् निमेषोन्मेषणादिभिर् इत्य् अर्थः । अत्र प्रथमादि-शब्दैः पूरकादि-त्रये क्रम-वचनात् सौत्रः पाठ-क्रमोऽनुष्ठाने नादर्तव्यः । तथा च पूरक-कुम्भक-रेचका इत्य् एवौत्सर्गिकोऽनुष्ठान-क्रमः । पुराणादिषु बाहुल्येन दर्शनाच् च । सृष्टौ महद्-आदि-क्रमवदिति ।
प्रकारान्तरेणापि सङ्ख्या-परिदृष्टत्वम् आह—एवं मृदुर् इत्य् आदिना । एवम् एतावद्भिर् मात्रा-प्रमाणैर् मृदुः प्राणायामः, एवम् एतावद्भिर् मध्यमः, एवम् एतावद्भिस् तीव्रः प्राणायाम इत्य् अपि सङ्ख्या-परिदृष्टो भवतीत्य् अर्थः । तद् उक्तं कौर्मे—
मात्रा-द्वादशको मन्दश् चतुर्विंशति-मात्रकः ।
मध्यमः प्राण-संरोधः षड्-त्रिंशन्-मात्रिकोऽन्तिमः ॥[कू.पु. ११.३२]इति ।
अत्र पूरकादि-विशेषावचनात् त्रिष्व् अपि प्राणायामेषु द्वादश-द्वादश-मात्रादि-रूपैकैव सङ्ख्या इत्य् एवं पृथक्-कल्पः । देश-काल-सङ्ख्याभिः परिदृष्ट इत्य् अत्र चेच्छा-विकल्प एव न तु समुच्चयः । उदाहृत-वसिष्ठ-वाक्यादौ केवल-मात्रा-सङ्ख्यायाम् अपि प्राणायाम-दर्शनात् । समुच्चयानुष्ठाने तु फल-भूमा भवत्य् एव, भूयसि भूयैति न्यायादिति ।
दीर्घ-सूक्ष्मैति दलं व्याचष्टे—स खल्विति । स बाह्याभ्यन्तर-स्तम्भ-वृत्तिस् त्रिविधः प्राणायामः, एवं देशाद्य्-अवधारणैर् अभ्यस्तः, स दीर्घ-सूक्ष्म-संज्ञको भवतीत्य् अर्थः । दीर्घश् चासौ सूक्ष्मश् चेति सान्वयेयं संज्ञा । देशाद्य्-अन्यतम-नियमेन हि प्रत्यहम् अभ्यस्यमानः क्रमेण काल-बुद्ध्या दीर्घ-काल-व्यापित्वेन दीर्घा भवति, वायु-सञ्चारस्यातिसूक्ष्मतया च सूक्ष्मैति । यद्यपि अभ्यस्तैति सूत्रे नास्ति तथापि दीर्घ-सूक्ष्म-संज्ञया अर्थाक्षिप्त एव भाष्य-कारेण व्याख्यातैति । तद् एवं प्राणायामस्य रेचक-कुम्भक-पूरकाख्य-विशेष-त्रयम् अभ्यासाख्य-गुण-योगेन तेषां दीर्घ-सूक्ष्मत्वं चोक्तम् ॥५०॥
—o)0(o—
(२.५१)
बाह्याभ्यन्तर-विषयाक्षेपी चतुर्थः ॥
देश-काल-सङ्ख्याभिर् बाह्य-विषयः परिदृष्ट आक्षिप्तः, तथाभ्यन्तर-विषयाक्षः परिदृष्ट आक्षिप्तः, उभयथा दीर्घ-सूक्ष्मः । तत्-पूर्वको भूमि-जयात् क्रमेणोभयोर् गत्य्-अभावश् चतुर्थः प्राणायामः । तृतीयस् तु विषयानालोचितो गत्य्-अभावः सकृद् आरब्ध एव देश-काल-सङ्ख्याभिः परिदृष्टो दीर्घ-सूक्ष्मः । चतुर्थस् तु श्वास-प्रश्वासयोर् विषयावधारणात् क्रमेण भूमि-जयाद् उभयाक्षेप-पूर्वको गत्य्-अभावश् चतुर्थः प्राणायाम इत्य् अयं विशेषः ॥५१॥
तत्त्व-वैशारदी : एवं त्रयो विशेषा लक्षिताः । चतुर्थं लक्षयति—बाह्याभ्यन्तर-विषयाक्षेपी चतुर्थः ॥व्याचष्टे—देश-काल-सङ्ख्याभिरिति । आक्षिप्तोऽभ्यास-वशीकृताद् रूपाद् अवरोपितः । सोऽपि दीर्घ-सूक्ष्मः । एवं तत्-पूर्वकोबाह्याभ्यन्तर-विषय-प्राणायामो देश-काल-सङ्ख्या-दर्शन-पूर्वकः । न चासौ चतुर्थस् तृतीय इव सकृत् प्रयत्नाद् अह्नाय जायते, किं त्व् अभ्यस्यमानस् तां ताम् अवस्थाम् आपन्नस् तत्-तद्-अवस्था-विजयानुक्रमेण भवतीत्य् आह—भूमि-जयादिति ।
ननु उभयोर् गत्य्-अभावः स्तम्भ-वृत्ताव् अप्य् अस्तीति कोऽस्माद् अस्य विशेष इत्य् अत आह—तृतीयैति । अनालोचन-पूर्वः सकृत् प्रयत्न-निर्वर्तितस् तृतीयः । चतुर्थस् त्व् आलोचन-पूर्वो बहु-प्रयत्न-निर्वर्तनीयैति विशेषः । तयोः पूरक-रेचकयोर् विषयोऽनालोचितोऽयं तु देश-काल-सङ्ख्याभिर् आलोचित इत्य् अर्थः ॥५१॥
योग-वार्तिकम् :िदानीं केवल-कुम्भक-रूपं प्राणायामस्य चतुर्थं विशेषम् आह—बाह्याभ्यन्तर-विषयाक्षेपी चतुर्थः । बाह्याभ्यन्तर-विषयकौ बाह्याभ्यन्तर-वृत्ती पूर्व-सूत्रोक्तौ रेचक-पूरकौ, तयोर् आक्षेपी अतिक्रमी, ताव् अतिक्रम्य त्यक्त्वा स्वयम् एव केवलो वर्ततेइति यावत्, एवं-भूतो यः प्राणायामः स चतुर्थ इत्य् अर्थः । अस्य च केवल-कुम्भकैति संज्ञा वसिष्ठ-वाक्याद् व्यक्तीभविष्यति । पूर्व-सूत्रोक्त-स्तम्भ-वृत्तिस् तु नियमेन रेचक-पूरकयोर् अन्तराल एव वर्ततैति न तद्-अतिक्रमी । रेचक-पूरक-विषयातिक्रमस्यापि लाभाय विषय-घटितं लक्षणम् उक्तम् । न तु रेचक-पूरकातिक्रमीत्य् एवं सूत्रितम् । अयं च कुम्भको न रेचक-पूरक-देशेन परिच्छिन्नः । व्यापकत्वात् । नापि काल-सङ्ख्याभ्यां परिच्छिन्नः । स्वेच्छया मास-संवत्सरादि-काल-स्थायित्वात् । स च प्राणायामो ध्रुवस्य विष्णु-पुराणे श्रूयते । तस्य हि तपसि प्राण-निरोधेन सर्व-जीव-प्राण-निरोधोऽभवदिति तत्रोक्तम् । अतस् तस्य केवल-कुम्भक आसीदिति ।
अयं चतुर्थः प्राणायामः सोपायो वसिष्ठ-संहितायाम् उक्तः, यथा—
प्रस्वेदं जनयेद् यस् तु प्राणायामो हि सोऽधमः ।
मध्यमः कम्पनात् प्रोक्त उत्थानं चोत्तमे भवेत् ॥
पूर्वं पूर्वं प्रकुर्वीत यावद् उत्तम-सम्भवः ।
निश्वासोच्छ्वासकौ देहे स्वाभाविक-गुणाव् उभौ ॥
तथापि नाच्यतस् तेन प्राणायामोत्तमेन हि ।
तयोर् नाशे समर्थः स्यात् कर्तुं केवल-कुम्भकम् ॥
रेचकं पूरकं त्यक्त्वा मुख्यं यद् वायु-धारणम् ।
प्राणायामोऽयम् इत्य् उक्तः स वै केवल-कुम्भकः ॥
सहितं केवलं वापि कुम्भकं नित्यम् अभ्यसेत् ।
यावत् केवल-सिद्धिः स्यात् तावत् सहितम् अभ्यसेत् ॥
केवले कुम्भके सिद्धे रेचक-पूरक-वर्जिते ।
न तस्य दुर्लभं किञ्चित् त्रिषु लोकेषु विद्यते ॥िति ।
आकाश-गमनादि-शक्त्याविर्भावेन काम-गत्य्-आदिकं स्याद् इत्य् अर्थः ।
चतुर्थस्योत्पत्ति-क्रमं कथयति—देश-कालेति । बाह्य-विषयो रेचको देश-काल-सङ्ख्याभिर् आदौ परिदृष्टः । पश्चाच् च देशादिभिः सहैवाक्षिप्तोऽतिक्रामितो भीति शेषः । अतश् च सूत्रे देश-वाचको विषय-शब्दः काल-सङ्ख्ययोर् अप्य् उपलक्षणम् इत्य् आशयः । तथाभ्यन्तर-विषयः पूरकोऽपि देशादिभिर् आदौ परिदृष्टः, पश्चाद् देशादिभिः सहैव सोऽप्य् आक्षिप्तो भवति । तच् चाक्षिप्तम् उभयथा दीर्घ-सूक्ष्मो द्विविधो दीर्घ-सूक्ष्मश् चिर-कालं देशादिभिर् अभ्यस्तौ रेचक-पूरकाविति यावत् । तत्-पूर्वकः तद्-उभयाक्षेप-पूर्वकस् तद्-उभयम् आक्षिपन्निति यावत् । अवान्तर-कालिक-भूम्का-जयात् काल-क्रमेण न तु शीघ्रम् उत्पद्यमानः, एवं-भूत उभयोः श्वास-प्रश्वासयोः गति-विच्छेदश् चतुर्थः प्राणायाम इत्य् अर्थः ।
स्तम्भ-वृत्त्य्-आख्य-तृतीय-प्राणायामात् मिश्र-कुम्भकाद् अस्य वैलक्षण्यम् आह—तृतीयस् त्विति । तृतीयस् तु गत्य्-अभावः स्तम्भ-वृत्तिर् विषयेण देशेन तद्-उपलक्षित-काल-सङ्ख्याभ्यां चानालोचितोऽनवधारितः सकृद्-आरब्धोऽभ्यास-बाहुल्यं विनवोत्पद्यमानश् च भवति, तथा स एव तृतीयो देश-काल-सङ्ख्याभिः परिदृष्टो दीर्घ-सूक्ष्मश् च भवतीति सामान्य-विशेषाभ्यां तृतीयस्य रूप-द्वयम् उक्तम् ।
चतुर्थस्य तद्-विपरीतताम् आह—चतुर्थस् त्विति । चतुर्थस् तु श्वास-प्रश्वासयो रेचक-पूरकयोर् देशाख्य-विषयाद्य्-अवधारणानन्तरं क्रमिक-भूमि-जयाद् धेतोः पूरक-रेचकाक्षेप-पूर्वको गत्य्-अभाव इत्य् अयं चतुर्थ-प्राणायामे तृतीयाद् विशेष इत्य् अर्थः । प्राणायामस्य चापरे स-गर्भागर्भादयो विशेषाः पुराणादिषु द्रष्टव्याः—जप-ध्यान-युतो गर्भी त्व् अगर्भस् तद्-विवर्जितः[ग.पु. १.२२७.१९]इत्य्-आदि-वाक्यैरिति दिक् ॥५१॥
—o)0(o—
(२.५२)
ततः क्षीयते प्रकाशावरणम् ॥५२॥
प्राणायामान् अभ्यस्य तोऽस्य योगिनः क्षीयते विवेक-ज्ञानावरणीयं कर्म, यत् तद् आचक्षते—महा-मोह-मयेनेन्द्र-जालेन प्रकाश-शीलं सत्त्वम् आवृत्य तद् एवाकार्ये नियुङ्क्तेइति । तद् अस्य प्रकाशावरणं कर्म संसार-निबन्धनं प्राणायामाभ्यासाद् दुर्बलं भवति, प्रतिक्षणं च क्षीयते । तथा चोक्तम्—तपो न परं प्राणायामात् ततो विशुद्धिर् मलानां दीप्तिश् च ज्ञानस्यैति॥५२॥
तत्त्व-वैशारदी : प्राणायामस्यावान्तर-प्रयोजनम् आह—ततः क्षीयते प्रकाशावरणम् ॥ आव्रियतेऽनेन बुद्धि-सत्त्व-प्रकाश इत्य् आवरणं क्लेशः पाप्मा च । व्याचष्टे—प्राणायामानिति ।ज्ञायतेऽनेनेति ज्ञानं बुद्धि-सत्त्व-प्रकाशः । विवेकस्य ज्ञानं विवेक-ज्ञानम् । स हि विवेक-ज्ञानम् आवृणोतीति विवेक-ज्ञानावरणीयम् । भव्य-गेय-प्रवचनीयादीनां कर्तरि निपातनस्य प्रदर्शनार्थत्वात् कोपनीय-रञ्जनीयवद् अत्रापि कर्तरि कृत्य-प्रत्ययः । कर्म-शब्देन तज्-जन्यम् अपुण्यं तत्-कारणं च क्लेशं लक्षयति ।
अत्रैवागमिनाम् अनुमतिम् आह—यत् तद् आचक्षतैति । महा-मोहो रागः । तद् अविनिर्भाग-वर्तिन्य् अविद्यापि तद्-ग्रहणेन गृह्यते । अकार्यम् अधर्मः ।
ननु प्राणायाम एव चेत् पाप्मानं क्षिणोति कृतं तर्हि तपसेत्य् अत आह—दुर्बलं भवतिइति । न तु सर्वथा क्षीयते । अतस् तत्-प्रक्षयाय तपोऽपेक्ष्यतैति । अत्राप्य् आगमिनाम् अनुमतिम् आह—तथा चोक्तमिति । मनुर् अप्य् आह—प्राणायामैर् दहेद् दोषानिति । प्राणायामस्य योगाङ्गता विष्णु-पुराणे उक्ता—
प्राणाख्यमनिलंवश्यमभ्यासात्कुरुतेतुयत्।
प्राणायामःसविज्ञेयःसबीजोऽबीजएवच॥
परस्परेणाभिभवंप्राणापानौयथानिलौ।
कुरुतः सद्-विधानेन तृतीयः संयमात् तयोः ॥[वि.पु. ६.७.४०-४१] ॥५२॥
योग-वार्तिकम् :योगे जनयितव्ये प्राणायामस्य व्यापारं तत्-सिद्धि-सूचकम् आह—ततः क्षीयते प्रकाशावरणम् ॥ ततः प्राणायामात् ।
सूत्रं व्याचष्टे—प्राणायामानिति । विवेक-ज्ञानावरणीयं विवेक-ज्ञानावरकम् । अथवा कोपनीयेत्य्-आदिवत् अत्रापि कर्तरि कृत्य-प्रत्ययः अः भव्य-गेय-प्रवचनीयादीनां कर्तरि निपातनस्य दिङ्मात्र-प्रदर्शन-परत्वात् । कर्मेति । कर्माधर्मः, तस्य ज्ञान-प्रतिबन्धकत्वम् एव ज्ञानावरकत्वम् । एतादृशं कर्म क्षीयते इत्य् अर्थः ।
कर्मणो ज्ञानावरकत्वे पूर्वाचार्य-वाक्यं प्रमाणयति—यत् तद् आचक्षतैति । यत् तत् कर्म एवम् आचक्षते—महा-मोहो रागस् तन्-मयेन तत्-प्रचुरेणेन्द्र-जाल-तुल्येन शब्दादि-विशेषित्य् आह— द्वारेण प्रकाश-शीलम् अपि बुद्धि-सत्त्वम् आवृत्य, तद् एव कर्मैवाकार्ये संसार-हेतु-व्यापारे एव नियुङ्क्ते इत्य् अर्थः । दुर्बलं प्रकाशावरण-क्षमं भवति, तथा प्रतिक्षणं क्षीयतेऽपचीयते चेत्य् अर्थः । तद् उक्तं मनुना—
दह्यन्ते ध्मायमानानां धातूनां हि यथा मलाः ।
तथेन्द्रियाणां दह्यन्ते दोषाः प्राणस्य निग्रहात् ॥[मनु ६.७१]इति ।
दोषाः पापानि तत्-कार्ये तमो-मल-विपर्ययौ च, तपः पाप-नाशकं कर्म । पाप-क्षये सति यद् भवति तद् आह—ततैति । ततः पापाख्य-कारणाभावान् मलानां तमसां तत्-कार्य-विपर्ययाणां चापगमे ज्ञान-दीप्तिश् चेत्य् अर्थः ।
ननु तपसैव पाप-क्षय इत्य् उक्तं, तर्हि किं प्राणायामेनेति चेत् ? न, ज्ञानावरक-पाप-क्षये प्राणायामस्यश्रेष्ठोपायत्वात् । अत एवपूर्व-पादे प्रकृष्टाधिकारिणः प्राणायाम एव साधनम् उक्तं, विक्षेपकतया तपोऽन्तराभावेऽपि तेनैव योग-निष्पत्ति-सम्भवादिति ॥५२॥
—o)0(o—
(२.५३)
किं च,
धारणासु च योग्यता मनसः ॥५३॥
प्राणायामाभ्यासाद् एव प्रच्छर्दन-विधारणाभ्यां वा प्राणस्य[यो.सू. १.३५]इति वचनात् ॥५३॥
तत्त्व-वैशारदी : किं च, धारणासु च योग्यता मनसः ॥ प्राणायामो मनः स्थिरीकुर्वन् धारणासु योग्यं करोति ॥५३॥
योग-वार्तिकम् : अन्यच् च भवतीत्य् आह—धारणासु च योग्यता मनसः । प्राणायामाभ्यासाद् एवेति सूत्रेण सहान्वयः । प्रच्छरनेत्य्-आदि प्रथम-पादीय-सूत्रेण प्राणायामस्य धारणा-योग्यता-रूप-स्थिति-हेतुता धारणा-योग्यता-रूप-स्थिति-हेतुता-वचनाद् इत्य् अर्थः । एतेन तस्मिन्न् अपि सूत्रे पूरकादि-त्रयात्मकः प्राणायाम एवोक्त इत्य् अवधारणीयम् ॥५३॥
—o)0(o—
(२.५४)
स्व-स्व-विषयासंप्रयोगे चित्तस्य
स्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः ॥५४॥
स्व-विषय-संप्रयोगाभावे चित्त-स्वरूपानुकार इवेति चित्त-निरोधे चित्तवन् निरुद्धानीन्द्रियाणि नेतरेन्द्रिय-जयवद् उपायान्तरम् अपेक्षन्ते । यथा मधुकर-राजं मक्षिका उत्पतन्तम् अनूत्पतन्ति, निविशमानम् अनुनिविशन्ते, तथेन्द्रियाणि चित्त-निरोधे निरुद्धानीत्य् एष प्रत्याहारः ॥५४॥
तत्त्व-वैशारदी :तद् एवं यमादिभिः संस्कृतः संयमाय प्रत्याहारम् आरभते । तस्य लक्षण-सूत्रम् अवतारयितुं पृच्छति—अथेति । स्व-स्व-विषयासंप्रयोगे चित्तस्य स्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः ॥ चित्तम् अपि हि मोहनीय-रञ्जनीय-कोपनीयैः शब्दादिभिर् विषयैर् न सम्प्रयुज्यते, तद् असम्प्रयोगाच् चक्षुर्-आदीन्य् अपि न सम्प्रयुज्यन्तैति सोऽयं इन्द्रियाणां चित्त-स्वरूपानुकारः । यत् पुनस् तत्त्वं चित्तम् अभिनिविशते न तद् इन्द्रियाणां बाह्य-विषयानां अनुकारोऽपि । अत उक्तम् अनुकार इवेति ।
स्व-विषय-संप्रयोगस्य साधारणस्य धर्मस्य चित्तानुकार-निमित्तत्वं सप्तम्या दर्शयति—स्वेति । अनुकारं विवृणोति—चित्त-निरोधेइति । द्वयोर् निरोध-हेतुश् च प्रयत्न-तुल्यैति सादृश्यम् । अत्रैव दृष्टान्तम् आह—यथा मधुकर-राजंिति । दार्ष्टान्तिके योजयति—तथेति । अत्रापि विष्णु-पुराण-वाक्यम्—
शब्दादिष्वनुरक्तानिनिगृह्याक्षाणियोगवित्।
कुर्याच् चित्तानुकारीणि प्रत्याहार-परायणः ॥[वि.पु. ६.७.४३]
तस्यप्रयोजनंतत्रैवदर्शितम्—
वश्यतापरमातेनजायतेऽतिचलात्मनाम्।
इन्द्रियाणामवश्यैस्तैर्नयोगीयोग-साधकः॥[वि.पु. ६.७.४४]इति ॥५४॥
योग-वार्तिकम् :प्रत्याहार-सूत्रम् अवतारयति—अथ कैति । स्व-विषयासम्प्रयोगे चित्तस्य स्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः ॥ इन्द्रिय-विषयासम्प्रयोग-काल इन्द्रियाणां चित्त-स्वरूपानुकारितेव या भवति, सा इन्द्रियाणां प्रत्याहार इत्य् अर्थः । जितेन्द्रियस्य हि ध्यान-काले चक्षुर्-आदीन्य् अपि ध्येय-वस्त्व्-आकारेण चित्तेन तुल्याकाराणीव भवन्ति न स्वातन्त्र्येण विषयान्तरं मनसैकीभूय सङ्कल्पयन्ति, यथा चित्ते निरोधोन्मुखे सति प्रत्य्नान्तरं विनैव निरुद्धानि भवन्ति, अतस् तसेन्द्रियाणि चित्तानुकारीणीत्य् उच्यन्ते । अजितेन्द्रियस्य तु चक्षुर्-आदीनि तदानीम् अपि रूपादिषु मनसैव धावन्ति, अतश् चित्तम् एवेन्द्रियानुकारि भवति—
इन्द्रियाणां तु सर्वेषां यद्य् एकं क्षरतीन्द्रियम् ।
तेनास्य क्षरति प्रज्ञा दृतेः पादाद् इवोदकम् ॥[मनु २.९९]इति स्मृतेर् इत्य् आशयः ।
अजितेन्द्रियस्यापि इन्द्रियाणि विषय-भोग-काले चित्तानुकारीणि भवन्त्य् एवेति तद्-व्यावर्तनाय स्व-विषयासम्प्रयोगे इत्य् उक्तम् । ध्यान-काले च चाक्षुषादि-तुल्या वृत्तिश् चित्तस्यैव भवति, न तु चक्षुर्-आदीनाम् । तेषां तु तद्-अतिरिक्त-वृत्त्य्-अभाव-मात्रमतोऽनुकार इवेत्य् उक्तम् । अत एव—
पिबन्न् इव च चक्षुर्भ्यां पादौ संवाहयन्न् इव ।
चित्तेन्द्रियैक्यतो ध्यायेत् तन्-मूर्तिं विजितेन्द्रियः ॥
इत्य् आदि-स्मृतिष्व् अपीव-शब्द एव प्रयुक्तैति ।
तद् एतद् व्याचष्टे—स्व-विषयेति । इवेतीत्य् अन्तस्य । एष प्रत्याहार इत्य् आगामिनान्वयः । अनुकार्यस्य कार्य-रूपं लक्षणम् आह—चित्त-निरोध इत्य् आदिना अपेक्षन्त इत्य् अन्तेन । चित्तस्य वृत्ति-निरोध-काले यत् स्वयम् एवेन्द्रिय-वृत्ति-निरोधो भवति, इदम् एव परमं वश्यत्वं प्रत्याहार-कार्यत्वात् तल्-लक्षणम् इत्य् आशयः । निरुद्धानि भवन्तिइति शेषः । नेतरेन्द्रिय-जयवदिति । इतरे उक्त-परम-वश्यत्वाद् अतिरिक्ता द्वितीय-सूत्र-वक्ष्यमाणा इन्द्रिय-जयाः, तेषु सत्स्व् अपि स्व-निरोधार्थं यथेन्द्रियाणि प्रत्याहारादिकम् अपेक्षन्ते नैवं यथोक्त-प्रत्याहारे सति स्व-निरोधार्थं चित्त-निरोधातिरिक्तम् अपेक्षन्त इत्य् अर्थः । इन्द्रियाणां चित्तानुकारं दृष्टान्तेन प्रतिपादयति—यथा मध्व् इत्य् आदिना निरुद्धानीत्य् अन्तेन ।दार्ष्टान्तिके दृष्टान्तोक्तोत्पतन-तुल्यो निरोधः, तेन च निवेशन-तुल्यं ध्यानम् अप्य् उपलक्षणीयम्, अन्यथा दृष्टान्त-दार्ष्टान्तिकयोः साधर्म्यादि-प्रदर्शने न्यूनतापत्तेः । एष प्रत्याहारैति । पुरैव व्याख्यातम् ।
सोऽयं प्रत्याहारः स-प्रयोजनो विष्णु-पुराणे प्रोक्तः—
शब्दादिष्व् अनुरक्तानि निगृह्याक्षाणि योगवित् ।
कुर्याच् चित्तानुकारीणि प्रत्याहार-परायणः ॥
वश्यता परमा तेन जायतेऽतिचलात्मनाम् ।
इन्द्रियाणाम् अवश्यैस् तैर् न योगी योग-साधकः ॥[वि.पु. ६.७.४३-४४]
अतश् च प्रत्याहार इन्द्रिय-धर्मैति ॥५४॥
—o)0(o—
(२.५५)
ततः परमा वश्यतेन्द्रियाणाम् ॥५५॥
शब्दादिष्व् अव्यसनम् इन्द्रिय-जयैति केचित् । सक्तिर् व्यसनं व्यस्यत्य् एनं श्रेयसैति अविरुद्धा प्रतिपत्तिर् न्याय्या । शब्दादि-सम्प्रयोगः स्वेच्छयेत्य् अन्ये । राग-द्वेषाभावे सुख-दुःख-शून्यं शब्दादि-ज्ञानम् इन्द्रिय-जयैति केचित् । चित्तैकाग्र्याद् अप्रतिपत्तिर् एवेति जैगीषव्यः । ततश् च परमा त्व् इयं वश्यता यच् चित्त-निरोधे निरुद्धानीन्द्रियाणि नेतरेन्द्रिय-जयवत् प्रयत्न-कृतम् उपायान्तरम् अपेक्षन्ते योगिनैति ॥५५॥
इति पतञ्जलि-विरचिते योग-सूत्रे द्वितीयः साधन-पादः ।
तत्त्व-वैशारदी : अस्यानुवादकं सूत्रं—ततः परमा वश्यतेन्द्रियाणाम् ॥
ननु सन्ति किम् अन्या अपरमा इन्द्रियाणां वश्यता या अपेक्ष्य परमेयम् उच्यते ? अद्धा । तां दर्शयति—शब्दादिष्विति । एतद् एव विवृणोति—सक्तिरिति । सक्ती रागो व्यसनम् । कया व्युत्पत्त्या ? व्यस्यतिइति ।व्यस्यति क्षिपति निरस्यत्य् एनं श्रेयसैति। तद्-अभावोऽव्यसनं वश्यता ।
अपराम् अपि वश्यताम् आह—अविरुद्धाइति । श्रुत्य्-आद्य्-अविरुद्ध-शब्दादि-सेवनं तद्-विरुद्धेष्व् अप्रवृत्तिः । सैव न्याय्या, न्यायाद् अनपेता यतः ।
अपराम् अपि वश्यताम् आह—शब्दादि-सम्प्रयोगैति । शब्दादिषु इन्द्रियाणां सम्प्रयोगः स्वेच्छया, भोग्येषु खल्व् अयं स्वतन्त्रो न भोग्य-तन्त्र इत्य् अर्थः ।
अपराम् अपि वश्यताम् आह—राग-द्वेषाभावेइति । राग-द्वेषाभावे सुख-दुःख-शून्यंमाध्यस्थ्येन शब्दादि-ज्ञानम् इत्य् एके ।
सूत्रकाराभिमतां वश्यतां परमर्षि-संमताम् आह—चित्तैकाग्र्य चित्तस्यैकाग्र्यात् सहेन्द्रियैर् अप्रवृत्तिर् एव शब्दादिषितिजैगीषव्यः । अस्याः परमताम् आह—परमा त्विति । तु-शब्दो वश्यतान्तरेभ्यो विशिनष्टि ।
वश्यतान्तराणि हि विषयाशीर्-विष-सम्प्रयोग-शालितया क्लेश-विष-सम्पर्क-शङ्कां नापक्रामन्ति । न हि विष-विद्यावित् प्रकृष्टोऽपि वशीकृत-भुजङ्गमो भुजङ्गमम् अङ्के निधाय स्वप् इति विश्रब्धः । इयं तु वश्यता विदूरीकृत-निखिल-विषय-व्यतिषङ्गा निराशङ्गतया परमेत्य् उच्यते । नेतरेन्द्रिय-जयवतिति । यथा यतमान-संज्ञायाम् एकेन्द्रिय-जयेऽपीन्द्रियान्तर-जयाय प्रयत्नान्तरम् अपेक्ष्यते, न चैवं चित्त-निरोधे बाह्येन्द्रिय-निरोधाय प्रयत्नान्तरापेक्षेत्य् अर्थः ॥५५॥
क्रिया-योगं जगौ क्लेशान् विपाकान् कर्मणाम् इह ।
तद् दुःखत्वं तथा व्यूहान् पादे योगस्य पञ्चकम् ॥िति ।
इति श्री-वाचस्पति-मिश्र-विरचितायां पातञ्जल-योग-सूत्र-भाष्य-व्याख्यायां
तत्त्व-वैशारद्यां द्वितीयः साधन-पादः ॥२॥
योग-वार्तिकम् : योगे प्रत्याहारस्यआवान्तर-व्यापार-भूतं तत्-सिद्धि-सूचकम् आह—ततः परमा वश्यतेन्द्रियाणाम् ॥ततः प्रत्याहाराद् इन्द्रियाणां परमो जयो भवतीत्य् अर्थः । तत्र परम-जय-प्रतिपादनार्थं बहु-विधान् पक्षान् आह—शब्दादिष्वित्य् आदिना ।
व्यसन-शब्दार्थं आह—सक्तिरिति । सक्तिः साग्गो येन शास्त्र-विरुद्धेऽपि विषय-भोग इन्द्रियाणि प्रवर्तन्ते । व्यस्यति क्षिपति निरस्यत्य् एनं श्रेयसैति व्युत्पत्त्येति शेषः । एवं च सति शास्त्राविरुद्धा प्रतिपत्तिर् एव भोगः ।न्याय्याएवेति पूर्वोक्तेन केचिद् इत्य् अनेनान्वयः ।
मतान्तरम् आह—शब्दादि- इति । इन्द्रिय-विषययोः सम्प्रयोगेतद्-अपारतन्त्र्यम् इत्य् अर्थः । तेनाभिमानिक-सुख-दुःख-शून्यत्वं लब्धम्, कायिक-सुख-दुःखानां योगावस्थां विना परिहारासम्भवैति भावः ।
एतेषु त्रिषूत्तरोत्तरम् उत्कर्षेऽपि नैते परमा इन्द्रिय-जयाः, एतावन् मात्रम् इन्द्रिय-वृत्त्य्-अनिरोधात् । अतः सूत्रकार-सम्मतं परमम् आह—चित्तैकाग्र्यादिति । चित्तैकाग्र्याद् धेतोर् इन्द्रियाणां या अप्रतिपत्तिर्वृत्ति-निरोधस् तद्-योग्यता स एव जयैतिजैगीषव्य इत्य् अर्थः । ततैति । इयं च वश्यता ततो हेतोः परमा वश्यता,यद्यतः चित्त-निरोधेइत्य्-आदिर् अर्थः । कालादि-व्यावर्तनाय प्रयत्न-कृतमिति । तथा च पूर्व-सूत्रोक्त-चित्तानुकारस्य फलं लक्षणं च, या समाधौ चित्तेन सहेन्द्रियाणां वृत्ति-निरोध-योग्यता सैव परम-वश्यताख्यो जयोऽनेन सूत्रेणोक्तैति एतादृश-वश्यतयाभावेनैव सौभरि-प्रभृतीनां योग-भ्रंशाद् इयं वश्यतापि योग-निष्पत्ति-हेतुः । अत एव गीता—
यततोह्यपिकौन्तेयपुरुषस्यविपश्चितः।
इन्द्रियाणिप्रमाथीनिहरन्तिप्रसभंमनः॥
तानिसर्वाणिसंयम्ययुक्तआसीतमत्-परः।
वशेहियस्येन्द्रियाणितस्यप्रज्ञाप्रतिष्ठिता॥[गीता २.६०-६१]
तद् एवं ज्ञान-साधन-मुखेन योगस्यापि बहिरङ्गाणि यमादि-प्रत्याहारान्तानि स-सिद्धीन्य् अत्र पादे प्रोक्तानि । धारणादि-त्रयस्य सिद्धि-बाहुल्यात् तु सिद्धिभिः सह तत्-प्रतिपादनार्थम् एव समग्रस् तृतीय-पादो भविष्यति ॥५५॥
इतिश्री-पातञ्जल-भाष्य-वार्तिके विज्ञान-भिक्षु-निर्मिते साधन-निर्देशो नाम द्वितीयः पादः ॥२॥
—o)0(o—