पातञ्जलयोगदर्शनम् व्यासभाष्य-तत्त्ववैशारदी-योगवार्तिक-समेतम्/समाधिपादः

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
पातञ्जल-योग-दर्शनम्
(१)
प्रथमः समाधि-पादः
योगेन चित्तस्य पदेन वाचां
मलं शरीरस्य च वैद्यकेन
योऽपाकरोत् तं प्रवरं मुनीनां
पतञ्जलिं प्राञ्जलिर् आनतोऽस्मि ॥१
(१.१)
अथ योगानुशासनम् ॥
यस् त्यक्त्वा रूपम् आद्यं प्रभवति जगतोऽनेकधानुग्रहाय
प्रक्षीण-क्लेश-राशिर् विषम-विषधरोऽनेक-वक्त्रः सुभोगी ।
सर्व-ज्ञान-प्रसूतिर् भुजग-परिकरः प्रीतये यस्य नित्यं
देवोऽहीशः स वोऽव्यात् सित-विमल-तनुर् योगदो योग-युक्तः ॥२
अथेत्य् अयम् अधिकारार्थः । योगानुशासनं शास्त्रम् अधिकृतं वेदितव्यम् । योगः समाधिः । स च सार्वभौमश् चित्तस्य धर्मः । क्षिप्तं, मूढं, विक्षिप्तम्, एकाग्रं, निरुद्धम् इति चित्त-भूमयः । तत्र विक्षिप्ते चेतसि विक्षेपोपसर्जनी-भूतः समाधिर् न योग-पक्षे वर्तते । यस् त्व् एकाग्रे चेतसि सद्-भूतम् अर्थं प्रद्योतयति, क्षिणोति च क्लेशान्, कर्म-बन्धनानि श्लथयति, निरोधम् अभिमुखं करोति, स सम्प्रज्ञातो योग इत्य् आख्यायते । स च वितर्कानुगतः, विचारानुगतः, आनन्दानुगतोऽस्मितानुगत इत्य् उपरिष्ठात् प्रवेदयिष्यामः । सर्व-वृत्ति-निरोधे त्व् असम्प्रज्ञातः समाधिः ॥१॥
तत्त्व-विशारदी॒
नमामि जगद्-उत्पत्ति-हेतवे वृषकेतवे ।
क्लेश-कर्म-विपाकादि-रहिताय हिताय च ॥
नत्वा पतञ्जलिम् ऋषिं वेद-व्यासेन भाषिते ।
सङ्क्षिप्त-स्पष्ट-बह्वर्थां भाष्ये व्याख्या विधीयते ॥
इह हि भगवान् पतञ्जलिः पारिप्सितस्य शास्त्रस्य सङ्क्षेपतस् तात्पर्यार्थं प्रेक्षावत् तत्-प्रवृत्त्य्-अङ्गं श्रोतुश् च सुखावबोधार्थम् आचिख्यासुर् आदाव् इदं सूत्रं रचयाञ्चकार—अत्र योगानुशासनम् । तत्रप्रथमावयवम् अथ-शब्दं व्याचष्ट—अथेत्य् अयम् अधिकारार्थः । अथैष ज्योतिर् इतिवत्, न त्व् आनन्तर्यार्थः । अनुशासनम् इति हि शास्त्रम् आह—अनुशिष्यत्ऽनेनेति व्युत्पत्त्या । न चास्य शुभदम् आद्य्-अनन् तरं प्रवृत्तिः, अपि तु तत्त्व-ज्ञान-चिख्यापयिषानन्तरम् ।जिज्ञासाज्ञानयोस् तु स्यात् । यथाम्नायते—तस्मात् शान्तो दान्त उपरतः तितिक्षुः समाहितो भूत्वात्मन्य् एवात्मानं पश्येत् इति । शिष्य-प्रश्न-तपश्चरण-रसायनाद्य्-उपयोगानन्तर्यस्य च सम्भवेऽपि नाभिधानं शिष्य-प्रतीति-प्रवृत्त्योर् अनुपयोगात् प्रामाणिकत्वे योगानुशासनस्य तद्-अभावेऽप्य् उपेयत्वाद् अप्रामाणिकत्वे च तद्-भावेऽपि हेयत्वात् । एतेन तत्त्व-ज्ञान-चिख्यापयिषयोर् आनन्तर्याभिधानं परास्तम् । अधिकार्थत्वे तु शास्त्रेणाधिक्रियमाणस्य प्रस्तूयमानस्य योगस्याभिधानात् सफल-शास्त्र-तात्पर्यार्थ-व्याख्यानेन शिष्यः सुखेनैव बोधितश् च प्रवर्तितश् च भवतीति । निःश्रेयसस्य हेतुः समाधिर् इति हि श्रुति-स्मृतीतिहास-पुराणेषु प्रसिद्धम् ।
ननु किं सर्व-सन्दर्भ-गतोऽथ-शब्दोऽधिकारार्थः ? तथा सति अथातो ब्रह्म-जिज्ञासा इत्य् आदाव् अपि प्रसङ्ग इत्य् अत आह अयम् इति । ननु हिरण्यगर्भो योगस्य वक्ता नान्यः पुरातनः किति योगि-याज्ञवल्क्य-स्मृतेः कथं पतञ्जलेर् योग-शास्त्र-कर्तृत्वम् इत्य् आशङ्क्य सूत्र-कारेणानुशासनम् इत्य् उक्तम् । शिष्टस्यानुशासनं न तु शासनम् इत्य् अर्थः । यदायम् अथ-शब्दोऽधिकारार्थस् तदैष वाक्यार्थः सम्पद्यत इत्य् आह—योगानुशासनं शास्त्रम् अधिकृतम् इति ।
ननु व्युत्पाद्यमानतया योगोऽत्राधिकृतो न तु शास्त्रम् इत्य् अत आह—वेदितव्यम् इति । सत्यं व्युत्पाद्यमानतया योगः प्रस्तुतः । स तु तद्-विषयेणशास्त्रेणकरणेन व्युत्पाद्यः । करण-गोचरश् च व्युत्पादकस्य व्यापारो न कर्म-गोचर इति कर्तृ-व्यापार-विवक्षया योग-विषयस्य शास्त्रस्याधिकृतत्वं वेदितव्यम् । शास्त्र-व्यापार-गोचरतया तु योग एवाधिकृत इति भावः । अधिकारार्थस्य चाथ-शब्दस्यान्यार्थ-नीयमानोद-कुम्भ-दर्शनम् इव३श्रवणं मङ्गलायापि कल्पत इति मन्तव्यम् ॥
शब्द-सन्देह-निमित्तम् अर्थ-सन्देहम् अपनयति—योगः समाधिर् इति । युज् समाधौ इत्य् अस्माद् व्युत्पन्नः समाद्य्-अर्थो न तु युजिर् योगे इत्य् अस्मात् संयोगार्थ इत्य् अर्थः । ननु समाधिर् अपि वक्ष्यमाणस्याङ्गिनो योगस्याङ्गं, न चाङ्गम् एवाङ्गीत्य् अत आह—स च सार्वभौमः । चस् त्व्-अर्थोऽङ्गाद् अङ्गिनं भिनत्ति४ । भूमयोऽवस्था वक्ष्यमाणा मधुमती-मधुप्रतीका-विशोका-संस्कार-शेषास् ताश् चित्तस्य । तासु सर्वासु विदितः सार्वभौमश् चित्त-वृत्ति-निरोध-लक्षणो योगः । तद्-अङ्गं तु समाधिर् नैवं-भूतः । व्युत्पत्ति-निमित्त-मात्राभिधानं चैतद् योगः समाधिर् इति अङ्गाङ्गिनोर् अभेद-विवक्षा-मात्रेण । प्रवृत्ति-निमित्तं तु योग-शब्दस्य चित्त-वृत्ति-निरोध एवेति परमार्थः ।
वृत्तयो ज्ञानान्यात्माश्रयाणि, अतस् तन्-निरोधोऽप्य् आत्माश्रय एवेति ये पश्यन्ति, तन्-निरासायाह—चित्तस्य धर्म इति । चित्त-शब्देनान्तः-करणं बुद्धिम् उपलक्षयति । न हि कूटस्थ-नित्या चिति-शक्तिर् अपरिणामिनी ज्ञान-धर्मा भवितुम् अर्हति । बुद्धिस् तु भवेद् इति भावः ।५
स्याद् एतत्—सार्वभौमश् चेद् योगो हन्त भोः क्षिप्त-मूढ-विक्षिप्ता अपि चित्त-भूमयः६ । अस्ति च परस्परापेक्षया वृत्ति-निरोधोऽप्य् आस्व् इति तत्रापि योगत्व-प्रसङ्ग इत्य् आशङ्क्य हेयोपादेअ-भूमीर् उपन्यस्य ति—क्षिप्तम् इत्य्-आदि। क्षिप्तं सदैव रजसा तेषु तेषु विषयेषु क्षिप्यमाणम् अत्यन्तम् अस्थिरम् ।मूढं तु तमः-समुद्रेकान् निद्रा-वृत्तिमत् । क्षिप्ताद् विशिष्टं विक्षिप्तम् । विशेषोऽस्थेम-बहुलस्य कादाचित्कः स्थेमा । सा चास्यास्थेम-बहुलता सांसिद्धिको वा वक्ष्यमाण-व्याधि-स्त्यानाद्य्-अन्तराय-जनिता वा (१.३०) । एकाग्रम् एक-तानम् । निरुद्ध-सकल-वृत्तिकं संस्कार-मात्र-शेषं चित्तं निरुद्धम् ।
तत्र क्षिप्त-मूढयोः सत्य् अपि परस्परापेक्षया वृत्ति-निरोधे पारम्पर्येणापि निःश्रेयस-हेतु-भावाभावात् तद्-रूप-घातकत्वम् इति न तयोर् योगत्वं निषिद्धम् । विक्षिप्तस्य तु कादाचित्क-सद्-भूत-विषय-स्थेम-शालिनः सम्भाव्येत योगत्वम् इति निषेधति—तत्र इति । विक्षिप्ते चेतसि समाधिः कादाचित्कः स-भूत-विषयश् चित्तस्य स्थेमा न योग-पक्षे वर्तते । कस्मात् ? यतस् तद्-विपक्ष-विक्षेपोपसर्जनी-भूतः । विपक्ष-वर्गान्तर्गतस्य हि स्वरूपम् एव दुर्लभम् । प्राग् एव कार्य-करणम् । न खलु दहनान्तर्गतं बीजं त्रि-चतुर-क्षणावस्थितम् उप्तम् अप्य् अङ्कुराय कल्पत इति भावः ।
यदि विक्षेपोपसर्जनीभूतः समाधिर् न योगः कस् तर्हि ? इत्य् अत आह—यस् त्व् एकाग्रं चेतसीति । भूतम् इति समारोपितम् अर्थं निवर्तयति । निद्रा-वृत्तिर् अपि स्वालम्बने तमसि भूते भवत्य् एकाग्रेत्य् अत उक्तं—सद् इति ।७शोभनं नितान्ताविर्भूतस् तत्त्वम् । तमः-समुद्रस् त्व् अशोभनस् तस्य क्लेश-हेतुत्वाद् इति ।
द्योतनं हि तत्त्व-ज्ञानागमाद् आनुमानाद् वा भवद् अपि परोक्ष-रूपतया न साक्षात्कारवतीम् अविद्याम् उच्छिनत्ति, द्वि-चन्द्र दङमोहादिष्व् अनुच्छदकत्वाद् अत आह—प्रेति । प्र-शब्दो हि प्रकर्षं द्योतयन् साक्षात्कारं सूचयति । अविद्या-मूलत्वाद् अस्मितादीनां क्लेशानां विद्यायाश् चाविद्याच्छद-रूपत्वाद् विद्योदये चाविद्यादि-क्लेश-समुच्छेदो विरोधित्वात् कारणावनाशाच् चेत्य् आह—क्षिणोति चेति । स चेति । अत एवकर्म-रूपाणि बन्धनानि श्लथयति । कर्म चात्रापूर्वम् अभिमतम्, कार्ये कारणोपचारात् । श्लथयति स्व-कार्याद् अवसादयति । वक्ष्यति हि—सति मूले तद्-विपाकः[२.१३] इति ।
किं च, निरोधम् अभिमुखं करोत्य् अभिमुखीकरोति । स च सम्प्रज्ञातश् चतुष्-प्रकार इत्य् आह—स चेति । असम्प्रज्ञातम् आह—सर्व-वृत्तीति । रजस्-तमो-मयी किल प्रमाणादि-वृत्तिः सात्त्विकीं वृत्तिम् उपादाय सम्प्रज्ञाते निरुद्धा । असम्प्रज्ञाते तु सर्वासाम् एव निरोध इत्य् अर्थः । तद् इह भूमि-द्वये समाप्ता या मधुमत्य्-आदयो भूमयस् ताः सर्वास् तासु विदितः सार्वभौम इति सिद्धम् ॥१॥
योग-वार्तिकम् :
यश् चिन्मात्र-रसोऽपिनित्य-विमलोपाधेर् गुणैर् ईश्वरो
हेयैः क्लेश-मुखैर् गुणैर् विरहितो मुक्तः सदा निर्गुणः ।
सोऽस्मान् बुद्धि-गुणैः स्वयं निगडितान् स्वांशान् कृपा-सागरो
दीनान् मोचयतु प्रभुर् गुण-मयं पाश-दहल्-लीलया ॥
श्री-पातञ्जल-भाष्य-दुग्ध-जलधिर् विज्ञान-रत्नाकरो
वेदव्यास-मुनीन्द्र-बुद्धि-खनितो योगीन्द्र-पेयामृतः ।
भूदेवैर् अमृतं तद् अत्र मथितुं विज्ञान-विज्ञैर् इह
श्रीमद्-वार्तिक-मन्दरो गुरुतरो मन्थान-दण्डोऽर्प्यते ॥
सर्व-वेदार्थ-सारोऽत्र वेदव्यासेन भाषितः ।
योग-भाष्य-मिषेणातो मुमुक्षूणाम् इदं गतिः ॥
गङ्गाद्याः सरितो यद्वद् अब्धेर् अंशेषु संस्थिताः ।
साङ्ख्यादि-दर्शनान्य् एवम् अस्य इवांशेषु कृत्स्नशः ॥
निर्विघ्न-समाप्तये योग-प्रवर्तकम् अनन्तम् ईश्वरं स्मरन् शिष्याणांशास्त्र-ग्रहणानुष्ठानादाव् अप्य् अप्रतिबन्धं तत एवप्रार्थयते—यस् त्यक्त्वेति । यः स्वस्याद्य-रूपं शेषाख्यं त्यक्त्वा स्वांशैस् ततो विभक्तो भूत्वा लोकानुग्रहार्थं बलरामादि-रूपेणाविर्भवति स वो युष्मान् शिष्यान् पालयेत् शास्त्रार्थ-ग्रहणादि-प्रतिबन्धं निवारयत्व् इत्य् अर्थः । शेषं सुगमम् ।
अध्यात्म-योगाधिगमेन देवं मत्वा घोरो हर्ष-शोकौ जहाति,
यतो निर्विषयस्यास्य मनसो मुक्तिर् इष्यते ।
अतो निर्विषयं नित्यं मनः कार्यं मुमुक्षुणा ॥
तावद् एव निरोद्धव्यं यावद् धृदि गतं क्षयम् ।
एतज् ज्ञानं च ध्यानं च शेषोऽन्यो ग्रन्थ-विस्तरः ॥ इत्य्-आदि-श्रुतिषु,
मुक्तिर् योगात् तथा योगः सम्यग् ज्ञानान् महीयते ।
तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः । इत्य्-आदि-स्मृतिषु च
योगो मोक्ष-हेतुतया विहितः । तत्र योगः किं-स्वरूपः, किम्-उपायः, केन वा द्वारेण ज्ञान-मोक्षयोः कारणम् इत्य्-आदिकं मुमुक्षूणां विविदिषितं भवति ? ब्रह्म-मीमांसा-साङ्ख्यादिषु च ज्ञानम् एव विचारितं बाहुल्येन, ज्ञान-साधन-मात्रस् तु योगः सङ्क्षेपतः, ज्ञान-जन्य-योगस् तु सङ्क्षेपतोऽपि तेषु नोक्तोऽतोऽतिविस्तरेण द्विविधं योगं प्रतिपिपादयिषुर् भगवान् पतञ्जलिः शिष्यावधानायादौ योगानुशासनं शास्त्रम् आरभ्यतया प्रतिज्ञातवान्—अथ योगानुशासनम् ।
तावद् इदं सूत्रम् आरभ्य समग्रं शास्त्रं सर्व-लोक-हिताय भगवान् बादरायणो व्याचष्टे—अथेत्य् अयम् अधिकारार्थः इत्य्-आदिना। अधिकार-शब्दो योग-रूढतया आरम्भण एव मुख्य इति शास्त्रस्याधिकार्यत्वं मुख्यम् एवास्ति । यत्र चाथस्याभिकार्यत्वम् उच्यते, यथा अथैष ज्योतिः इत्य्-आदौ, तथाधिकार्य-शास्त्र-विषयतया गौणं तावत्य् आशयः । एतेन शास्त्रस्यानधिकार्यत्वम् अनिरूप्यत्वाद् इत्य् अपास्तं प्रकृत-भाष्य-निरोधाद् इति । प्रश्नाद्य्-अर्थकत्वम् अथ-शब्दस्य किं कुत्रापि नास्तीत्य् आशङ्का-निरासायोक्तम् अयम् इति । अधिकारार्थोऽधिकार-वाचक इत्य् अर्थः । अथ-शब्दस्य चोच्चारण-मात्रेण मङ्गलत्वम् अपि बोध्यम् ।
शिष्टस्य शासनम् अनुशासनं, तेन शास्त्रस्य गुरु-मूलकतया सूत्र-कारेण प्रामाण्यं दर्शितम् । हिरण्यगर्भो योगस्य वक्ता नान्यः पुरातनः इति योगि-याज्ञवल्क्येन हिरण्यगर्भस्यादि-गुरुत्व-बोधनाद् इति ।
सूत्र-वाक्यार्थम् उपसंहरति—योगस्यानुशासनं शास्त्रम् अधिकृतं वेदितव्यम् इति । शिष्यैर् इति शेषः । वेदितव्यम् इति पूरणेन सूत्रस्य शिष्यावधानार्थकत्वं सूचितम् । योगस्य च फलं सूत्र-भाष्ययोः स्थाने स्थाने वक्ष्यमाणं मयोत्तर-सूत्रावतारिकायाम् अपि सङ्क्षेपाद् वक्ष्यते । योग-लक्षण-परतया द्वितीय-सूत्रम् अवतारयिष्यति ।
तत्र युज् समाधाव् इति योग-लक्षणस्य प्रसिद्धत्व्ल् लक्षणान्तराकाङ्क्षैव नास्तीत्य् आशङ्कां तस्यातिव्याप्तत्वेनादाव् अपाकरोति—योगः समाधिः । स च सार्वभौमश् चित्तस्य धर्मैति । युज् समाधाव् इत्य् अनुशासनतः प्रसिद्धो योगः समाधिः चित्त-वृत्ति-निरोधः । स च सार्वभौमः सर्वासु वक्ष्यमाणासु क्षिप्ताद्य्-अवस्थासु साधारणश् चित्तस्य धर्मः स्वाभाविकिको जलस्य द्रवत्ववत् । क्षिप्ताद्य्-अवस्थायाम् अपि हि यत् किञ्चिद् वृत्ति-निरोधोऽस्त्य् एवेति । तथा चालक्ष्यास्ववस्थासु तल्-लक्षणम् अतिव्याप्तम् इति शेषः ।
कास् ताः सर्वाः चित्त-भूमयः ? इत्य् आकाङ्क्षायाम् आह—क्षिप्तम् इत्य्-आदि । क्षिप्तं रजसा विषयेष्व् एव वृत्तिमत्, मूढं तमसा निद्रादि-वृत्तिमत्, क्षिप्ताद् विशिष्टं विक्षिप्तं सत्त्वाधिक्येन-समादधद् अपि चित्तं रजो-मात्रयान्तरान्तरा विषयान्तर-वृत्तिमत्, एकस्मिन्न् एव विषयेऽग्रं शिखा यस्य चित्त-दीपस्येत्य् एकाग्रं विशुद्ध-सत्त्वयैकस्मिन्न् एव विषये वक्ष्यमाणावधी-कृत-काल-पर्यन्तम् अचञ्चलं निवात-स्थ-दीपवत् । तथा च क्षिप्तादि-त्रयेऽपि किञ्चिद् ऐकाग्र्य-सत्त्वेऽपि तत्र नातिप्रसङ्गः । निरुद्धं च निरुद्ध-सकल-वृत्तिकं संस्कार-मात्र-शेषम् इत्य् अर्थः ।
रजो-धर्मस्य रागादेः प्रतिघाताद् एव लोकानां तमो-धर्मे विषादादिर् दृश्यते इति क्षिप्तात् पूर्वत्र मूढस्योपन्यासः ।
उक्तातिव्याप्ति प्रतिपादयितुम् उक्त-भूमिषु लक्ष्यालक्ष्य-विभागं करोति—तत्र विक्षिप्त इत्य्-आदिना । तत्र तासु पञ्चसु मध्ये । विक्षिप्ते चेतसि वर्तमानः समाधिर् अल्पो बहुल-विक्षेप-शेषीभूतत्वान् न योग-पक्षे योग-मध्ये प्रविशति, क्लेश-हान्यहेतुत्वात् । सुतरां तु क्षिप्त-मूढयोश् चित्तयोर् वर्तमानौ समाध्य्-अभ्यासाव् इत्य् आशयः । अतो न क्षिप्त-मूढ-भूम्योर् अलक्ष्यत्वाप्रतिपादनेन न्यूनतेति ।
विक्षिप्त-मुखेनाद्य-भूमि-त्रयस्यालक्ष्यत्वम् उक्त्वान्त्य-भूमि-द्वयम् एव लक्ष्यम् इत्य् आह—यस् त्व् एकाग्रैति । यस् तु समाधिर् एकाग्रे चेतसि वर्तमानोऽर्थं ध्येयं वस्तु सद्-भूतं परमार्थ-भूतं प्रकर्षेण द्योतयति साक्षात्कारयति, ततश् च क्लेशान् अविद्यादीन् पञ्च क्षिणोति । ततोऽपि च कारणोच्छेदाद् धर्माधर्म-रूपाणि बन्धनानि बुद्धि-पुरुषयोर् बन्ध-कारणानि श्लथयति, अदृष्टोत्पादनाक्षमाणि करोति । तथा निरोधम् असम्प्रज्ञात-योगम् अभिमुखं प्रत्यान्नं करोति, पर-वैराग्य-जनेनेति शेषः, स समाधिः संप्रज्ञातो योग इति कथ्यत इत्य् अर्थः । सम्यक् प्रज्ञायते साक्षात्-क्रियते ध्येयम् अस्मिन् निरोध-विशेष-रूपे योग इति सम्प्रज्ञातो योगः । यद्यपि समाधि-शब्देनैकाग्रतातिशय-रूपं निरोध-द्वय-रूप-योग-द्वयस्याङ्गम् एव परिभाषिष्यते, तथापि योग-द्वयम् अङ्गाङ्गिनोर् अभेद-विवक्षयैव समाधि-शब्देनोक्तम् एवम् उत्तरोत्तर-सूत्रेऽपि बोध्यम् ।
स च सम्प्रज्ञातश् चतुर्-विध इत्य् आह—स च इति । न च वितर्कानुगतादि-त्रिके साक्षात्कार-जनकत्वादिकं साक्षान् नास्त्य् अविद्या-लेश-सम्पर्काद् इति बोध्यम् । स-वितर्कादि-क्रमेणैव साक्षात्कार-वृद्ध्या चरम-भूमिकायाम् ऋतम्भर-प्रज्ञोदयेन भूमिका-चतुष्टय एव साक्षा-सम्बन्धाद् इति ।
निरुद्ध-भूमेर् अपि लक्ष्यत्वम् आह—सर्व-वृत्तीति । सम्प्रज्ञात-कालीना साक्षात्कार-रूपिणी या वृत्तिः, तस्या अपि वक्ष्यमाण-पर-वैराग्येण निरोधे जायमाने त्व् असम्प्रज्ञात-योग इत्य् अर्थः । वृत्ति-निरोधश् च चित्तस्य वृत्ति-संस्कार-शेषावस्था, अभावस्याधिकरणावस्था-विशेष-मात्र-रूपत्वात् । निरुध्यन्तेऽस्याम् अवस्थायाम् इति व्युत्पत्तेर् वा, सा चावस्था संस्कार-मात्रैः परिणाम-धारा निरोध-काले संस्कार-तारतम्य-रूपस्यैव चित्त-परिणामस्य सूत्र-भाष्याभ्यां वक्ष्यमाणत्वाद् इति ।
ननु वृत्ति-निरोधो वृत्त्य्-अभाव-मात्रम् एकाग्रता-विशेषो वा ? निरोधस्याभाव-मात्रत्वे वक्ष्यमाण-संस्कार-जनकत्वानुपपत्तेर् एकाग्रता-मात्र-रूपत्वे समाधि-रूपाद् अङ्गात् सम्प्रज्ञाताच् च भेदानुपपत्तेः ।
उल्का-हस्तो यथा कश्चिद् द्रव्यम् आलोक्य तां त्यजेत् ।
बोधेन ज्ञानम् आलोक्य तथा बोधं परित्यजेत् ॥
इत्य्-आदि-स्मृतिषु यावद् धृदि गतं क्षयम् इतिपूर्वोक्त-श्रुतौ चासम्प्रज्ञातस्य सकल-वृत्ति-शून्यत्व-श्रवणाच् च ।
ननु सम्प्रज्ञातासम्प्रज्ञातयोर् योगयोर् निरोध-रूपयोः किं प्रयोजनं योगान्नुष्ठानाद् अशुद्धि-क्षये ज्ञान-दीप्तिर् आविवेक-ख्यातिः [२.२८]इति सूत्रेण योगाङ्गस्यैव ज्ञान-हेतुतया वक्ष्यमाणत्वात्सम्प्रज्ञात-योग-काले ज्ञानस्योत्पत्तेर् एव शास्त्रेष्व् अवगमात्, न तु तद्-धेतुतायाः, एक-कालकत्वेनहेतु-हेतुमद्-भावासम्भवाच् च । अस्तु वा विषयान्तर-सञ्चाराख्य-प्रतिबन्ध-निवृत्ति-रूपतया ज्ञान-हेतुत्वं सम्प्रज्ञात-योगस्य ,८क्षीण-वृत्तेर् अभिजातस्येव मणेर् ग्रहीतृ-ग्रहण-ग्राह्येषु तत्-स्थ-तद्-अञ्जनता समापत्तिः [१.४१] इत्य् आगामि-सूत्राच् च । न त्व् असम्प्रज्ञात-योगस्यापि, तस्य ज्ञान-जन्यत्वात् । न च ज्ञानोत्पत्त्य्-अनन्तरं मोक्षायान्यत्-साधनम् अपेक्षणीयम्, तस्य तावद् एव चिरं यावन् न विमोक्ष्येऽथ सम्पत्स्ये [छा.उ. ६.१४.२] इत्य्-आदि-श्रुतिभिर् अनिरपेक्ष-ज्ञानस्य मोक्ष-हेतुत्व-सिद्धेर् अविद्या-काम-कर्मादि-निवृत्तौ हत्व्-अभावेन पुनः संसारानुपपत्तेश् च ।
अत्रोच्यते—ज्ञाने जातेऽपि प्रारब्ध-कर्मणा देह-धारणस्यावश्यकत्वेन तदानीम् अपि बाह्याभ्यन्तर-वृत्तिभिर् यद् दुःखं न जायत एतद् अप्य् अन्ततो योग-द्वयस्य फलम् अस्ति, तथा हि वक्ष्यति भाष्य-कारः—सर्वाश् चैता वृत्तयः सुख-दुःख-मोहात्मिकाः॰[अत] एताः सर्वाः वृत्तयो निरोद्धव्याः[१.११] इति ।
किं च, ज्ञानस्य यथाकर्म-क्षय-हेतुत्वम् अस्ति, तथा योगस्यापि ।
विनिष्पन्न-समाधिस् तुमुक्तिं तत्रैव जन्मनि ।
प्राप्नोति योगी योगाग्नि-दग्ध-कर्म-चयोऽचिरात् ॥[वि.पु. ६.७.३५]
इत्य्-आदि-वाक्य-शतेभ्यः, तथा च कर्म-क्षय-द्वारा ज्ञानस्येवासम्प्रज्ञात-योगस्यापि मोक्ष-हेतुत्वं सिद्धम् । तत्र चासम्प्रज्ञात-योगेनाखिल-संस्कार-दाहकेन प्रारब्ध-कर्माप्य् अतिक्रम्यत इति ज्ञानाद् विशेषः । ज्ञानस्य हि प्रारब्ध-नाशकत्वे बाधिकास्ति—तस्य तावद् एव चिरं[छा.उ. ६.१४.२] इत्य्-आदि-श्रुतिर् जीवन्-मुक्ति-श्रुति-स्मृतयश् च, योगस्य प्रारब्ध-नाशकत्वे बाधकं नास्ति, प्रत्युत दग्ध-कर्म-चयोऽचिरात् [वि.पु. ६.७.३५] इति स्मर्यते । अतः प्रारब्धम् अपि कर्म कर्म-विपाकोक्त-प्रायश्चित्तादिवद् एवातिक्रम्य झटिति मोचनम् एव योगस्य फलं, अन्यच् च योग-द्वयेनाखिल-संस्कार-क्षये भोग-संस्काराख्य-सहकार्य-भावात् प्रारब्धं कर्मापि यत् फलाक्षमं भवति, इदम् अपि योग-फलं, तद् उक्तं मोक्ष-धर्मे—नास्ति साङ्ख्य-समं ज्ञानं, नास्ति योग-समं बलं[म.भा. १२.३०४.२] इति ।
बलं प्रारब्धस्याप्य् अतिक्रमेण स्वेच्छया शीघ्र-मोक्ष-हेतुः, अपि च वृत्ति-निरोधात्मको योग एव दुःख-निवृत्त्य्-आत्मक-मोक्षे साक्षाद्-धेतुः पुरुषे दुःखस्य चित्त-वृत्त्य्-औपाधिकत्वात्, उपाधि-निवृत्तिश् चौपाधिक-निवृत्तौ चरम-कारणम् अतो ज्ञानेन न योगस्यान्यथा-सिद्धिः । ज्ञान-वैराग्य-कर्म-क्षयादीनां वृत्ति-निरोधाख्य-चरम-कारण-द्वारैव दुःखात्यन्तोच्छेद-हेतुत्वा, वृत्त्य्-अत्यन्त-निरोधस् तु चरमासम्प्रज्ञाते भवति, यत्र संस्कारस्यात्यन्त-क्षयेण चित्तस्य विलयान् मोक्षो भवति, तथा च द्वार-द्वारि-भावेनापि ज्ञानस्येव सम्प्रज्ञात-योगस्यापि मोक्ष-हेतुत्वं सिद्धम्, असम्प्रज्ञात-योगस्य च साक्षान् मोक्ष-हेतुत्वं, तदा द्रष्टुः स्वरूपेऽवस्थानं[१.३] इति सूत्र-कारः स्वयं वक्ष्यति, मुक्तिर् हित्वान्यथा रूपं स्व-रूपेण व्यवस्थितिः [भा.पु.२.१०.६] इत्य्-आदि-वाक्यैर् आत्यन्तिकस्य स्वरूपावस्थानस्यैव मोक्षत्वाद् इति दिक् ॥१॥
—o)0(o—
(१.२)
तस्य लक्षणाभिधित्सयेदं सूत्रं प्रववृते९—
योगश् चित्त-वृत्ति-निरोधः ॥
सर्व-शब्दाग्रहणात् सम्प्रज्ञातोऽपि योग इत्य् आख्यायते । चित्तं हि प्रख्या-प्रवृत्ति-स्थिति-शीलत्वात् त्रिगुणम् । प्रख्या-रूपं हि चित्त-सत्त्वं रजस्-तमोभ्यां संसृष्टम् ऐश्वर्य-विषय-प्रियं भवति । तद् एव तमसानुविद्धम् अधर्माज्ञानावैराग्यानैश्वर्योपगं भवति । तद् एव प्रक्षीण-मोहावरणं सर्वतः प्रद्योतमानम् अनुविद्धं रजो-मात्रया धर्म-ज्ञान-वैराग्यैश्वर्योपगं भवति । तद् एव रजो-लेशम् आलेपनं स्वरूप-प्रतिष्ठं सत्त्व-पुरुषान्यता-ख्याति-मात्रं धर्म-मेघ-ध्यानोपगं भवति । तत्-परं प्रसङ्ख्यानम् इत्य् आचक्षते ध्यायिनः ।
चिति-शक्तिर् अपरिणामिन्य् अप्रतिसङ्क्रमा दर्शित-विषया शुद्धा चानन्ता च । सत्त्व-गुणात्मिका चेयम्, अतो विपरीता विवेक-ख्यातिर् इति । अतस् तस्यां विरक्तं चित्तं ताम् अपि ख्यातिं निरुणद्धि । तद्-अवस्थं चित्तं संस्कारोपगं भवति । स निर्बीजः समाधिः । न तत्र किञ्चित् सम्प्रज्ञायत इत्य् असम्प्रज्ञातः । द्विविधः स योगश् चित्त-वृत्ति-निरोध इति ॥२॥
तत्त्व-वैशारदी : द्वितीयं सूत्रम् अवतारयति—तस्य लक्षणेति । तस्येति पूर्व-सूत्रोपात्तं द्विविधं योगं परामृशति—योगश् चित्त-वृत्ति-निरोधः । निरुध्यन्ते यस्मिन् प्रमाणादि-वृत्तयोऽवस्था-विशेषे चित्तस्य सोऽवस्था-विशेषो योगः ।
ननु सम्प्रज्ञातस्य योगस्याव्यापकत्वाद् अलक्षणम् इदम् ? अनिरुद्धा हि तत्र सात्त्विकी चित्त-वृत्तिः ? इत्य् अत आह—सर्व-शब्दाग्रहणाद् इति । यदि सर्व-चित्त-वृत्ति-निरोध इत्य् उच्येत, भवेद् व्यापकं सम्प्रज्ञातस्य । क्लेश-कर्म-विपाकाशय-परिपन्था चित्त-वृत्ति-निरोधस् तु तम् अपि१० संगृह्णाति, तत्रापि राजस-तामस-चित्त-वृत्ति-निरोधात् तस्य च तद्-भावाद् इत्य् अर्थः ।
कुतः ? पुनर् एकस्य चित्तस्य क्षिप्तादि-भूमि-सम्बन्धः ।
किम्-अर्थं चैवम् अवस्थस्य चित्तस्य वृत्तयो निरोद्धव्याः ? इत्य् आशङ्क्य प्रथमं तावद् अवस्था-सम्बन्ध-हेतुम् उपन्यस्य ति—चित्तं हीति । प्रख्या-शीलत्वात् सत्त्व-गुणम् । प्रवृत्ति-शीलत्वाद् रजो-गुणम् । स्थिति-शीलत्वात् तमो-गुणम् । प्रख्या-ग्रहणम् उपलक्षणार्थम् । तेनान्येऽपि सात्त्विकाः प्रसाद-लाघव-प्रीत्य्-आदयः सूच्यन्ते । प्रवृत्त्या च परिताप-शोकादयो राजसाः, प्रवृत्ति-विरोधो तमो-वृत्ति-धर्मः स्थितिः । स्थिति-ग्रहणाद् गौरवावरण-दैन्यादय उपलक्षयन्ति ।
एतद् उक्तं भवति—एकम् अपि चित्तं त्रिगुण-निर्मिततया गुणानां च वैषम्येण परस्पर-विमर्द-वैचित्र्याद् विचित्र-परिणामं सद् अनेकावस्थम् उपपद्यत इति ।
क्षिप्ताद्या एव चित्तस्य भूमीर् यथा-सम्भवम् अवान्तरावस्था-भेदवतीर् आदर्शयति—प्रख्या-रूपं हीति । चित्त-रूपेण परिणतं सत्त्वं चित्त-सत्त्वम् । तद् एवं प्रख्या-रूपतया सत्त्व-प्राधान्यं चित्तस्य दर्शितम् । तत्र चित्तं सत्त्वात् किञ्चिद् ऊने रजस्-तमसी यदा मिथः समे च भवतस् तद् ऐश्वर्यं च विषयाश् च शब्दादयस् तान्य् एव प्रियाणि यस्य , तत् तथोक्तम् ।
सत्त्व-प्राधान्यात् खलु चित्तं तत्त्वे प्रणिधित्सद् अपि तत्त्वस्य तमसा पिहितत्वाद् अणिमादिकम् ऐश्वर्यम् एव तत्त्वम् अभिमन्यमानं तत् प्रणिधित्सति, प्रणिधत्ते च क्षणम् । अथ रजसा क्षिप्यमाणं तत्राप्य् अलब्ध-स्थिति-विशेषात् तत्-प्रिय-मात्रं भवति । शब्दादिषु पुनर् अस्य स्वरस-वाही प्रेमा निरूढ एव । तद् अनेन विक्षिप्तं चित्तम् उक्तम् ।
क्षिप्तं चित्तं दर्शयन् मूढं सूचयति—तद् एव तमसेति । यदा हि तमो रजो विजित्य प्रसूतं, तदा चित्त-सत्त्वावरक-तमः-समुत्सारणेऽशक्तत्वाद् रजसस् तमः-स्थगितं चित्तम् अधर्माद्य् उपगच्छति । अज्ञानं च विपर्यय-ज्ञानम् अभाव-प्रत्ययालम्बनं च निद्रा-ज्ञानम् उक्तम् । ततश् च मूढावस्थापि सूचितेति । अनैश्वर्यं सर्वत्रेच्छा-प्रतीघातः । अधर्मादि-व्याप्तं चित्तं भवतीत्य् अर्थः ।
यदा तु तद् एव चित्त-सत्त्वम् आविर्भूत-सत्त्वम् अपगत-तमः-पटलं सरजस्कं भवति, तदा धर्म-ज्ञान-वैराग्यैश्वर्याण्य् उपगच्छतीत्य् आह—प्रक्षीणेत्य् आदि । मोहस् तमस् तद् एव चावरणं प्रकर्षेण क्षीणं यस्य तत् तथोक्तम् । अत एव सर्वतो विशेषाविशेष-लिङ-मात्रालिङ्ग-पुरुषेषु प्रद्योतमानम् । तथापि न धर्मायैश्वर्याय च कल्पते, प्रवृत्त्य्-अभावाद् इत्य् अत आह—अनुविद्धं रजो-मात्रया । रजसः प्रवर्तकत्वाद् अस्ति धर्मादि-प्रवृत्तिर् इत्य् अर्थः । तद् अनेन सम्प्रज्ञात-समाधि-सम्पन्नयोर् मधु-भूमिक-प्रज्ञा-ज्योतिषो-मध्यमयोर् योगिनीश् चित्त-सत्त्वं संगृहीतम् ।
सम्प्रत्यतिक्रान्त-भावनीयस्य ध्यायिनश् चतुर्थस्य चित्तावस्थाम् आह—तद् एव । चित्तं रजो-लेशान् मलाद् अपेतम् अत एव स्वरूप-प्रतिष्ठम् । अभ्यास-वैराग्य-पुट-पाक-प्रबन्ध-विधूत-रजस्-तमो-मलस्य हि बुद्धि-सत्त्व-तपनीयस्य स्वरूप-प्रतिष्ठस्य विषयेन्द्रिय-प्रत्याहृतस्यानवसिताधिकारतया च कार्य-कारिणा विवेक-ख्यातिः परं कार्यम् अवशिष्यत इत्य् आह—सत्त्व-पुरुषान्यताख्याति-मात्रं चित्तं धर्म-मेघ-ध्यानोपगं भवति । धर्ममेघश् च वक्ष्यते ।
अत्रैव योगि-जन-प्रसिद्धिम् आह—तदिति । सत्त्व-पुरुषान्यताख्याति-मात्रं चित्तं धर्म-मेघ-पर्यन्तं परं प्रसङ्ख्यानम् इत्य् आचक्षते ध्यायिनः । चित्त-सामानाधिकरण्यं च धर्म-धर्मिणोर् अभेद-विवक्षया११ द्रष्टव्यम् ।
विवेख-ख्यातेर् हान-हेतुं चिति-शक्तेश् चोपादान-हेतुं निरोध-समाधिम् अवतारयितुं चिति-शक्तेः साधुताम् असाधुतां च विवेक-ख्यातेर् दर्शयति—चिति-शक्तिर् इत्य् आदि । सुख-दुःख-मोहात्मकत्वम् अशुद्धिः । सुख-मोहाव् अपि हि विवेकिन दुःखाकुरुतः । अतो दुःखवद् धेयौ । तथातिसुन्दरम् अप्य् अन्तवद् दुनोति । तेन तद् अपि हेयम् एव विवेकिनः । सेयम् अशुद्धिर् अन्तश् च चिति-शक्तौ पुरुषे न स्त इत्य् उक्तम्—शुद्धा चानन्ता चैति ।
ननु सुख-दुःख-मोहात्मक-शब्दादीन् इयं चेतयमाना तद्-आकारापन्ना कथं विशुद्धा, तदाकार-परिग्रह-परिवर्जने च कुर्वती कथम् अनन्तेत्य् अत उक्तम्—दर्शित-विषयाइति । दर्शितो विषयः शब्दादिर् यस्य इ सा तथोक्ता । भवेद् एतद् एव यदि बुद्धिवच् चिति-शक्तिर् विषयाकारताम् आपद्येत, किं तु बुद्धिर् एव विषयाकारेण परिणता सती अतद्-आकारायै चिति-शक्त्यै विषयम् आदर्शयति । ततः पुरुषश् चेतयत इत्य् उच्यते ।
ननु विषयाकारां बुद्धि-धमनारूढायाश् चिति-शक्तेः कथं विषय-वेदनम् ? विषयारोहे वा कथं न तद्-आकारापत्तिः ? इत्य् अत उक्तम्—अप्रतिसंक्रमाइति । प्रतिसंक्रमः सञ्चारः । स चितेर् नास्तीत्य् अर्थः ।
स एव कुतोऽस्या नास्ति ? इत्य् अत उक्तम्—अपरिणामिनीइति । न चितेस् त्रिविधोऽपि धर्म-लक्षणावस्था-लक्षणः परिणामोऽस्ति, येन क्रिया-रूपेण परिणता सती बुद्धि-धर्म-योगेन परिणमेत चिति-शक्तिः । असङ्क्रान्ताया अपि विषय-संवेदनम् उपपादयिष्यते१२ ।
तत् सिद्धं चिति-शक्तिः शोभनेति । विवेक-ख्यातिस् तु बुद्धि-सत्त्वात्मिक्ऽशोभनेत्य् उक्तम्—अतश् चिति-शक्तेर् विपरीतेति । यदा च विवेक-ख्यातिर् अपि हेया, तदा कैव कथा वृत्त्य्-अन्तराणां दोष-बहुलानाम् इति भावः ।
ततस् तद्-धेतोर् निरोध-समाधेर् अवतारो युज्यत इत्य् आह—अतस् तस्याम् इति । ज्ञान-प्रसाद-मात्रेण हि परेण वैराग्येन विवेक-ख्यातिम् अपि निरुणद्धीत्य् अर्थः ।
अथ निरुद्धाशेष-वृत्तिं चित्तं कीदृशम् ? इत्य् अत आह—तद्-अवस्थम् इत्य् आदि । स निरोधोऽवस्था यस्य तत् तथोक्तम् । निरोधस्य स्वरूपम् आह—स निर्बीज इति । क्लेश-सहितः कर्माशयो जात्य्-आयुर्-भोग-बीजम् । तस्मान् निर्गत इति निर्बीजः । अस्यैव योगि-जन-प्रसिद्धाम् अन्वर्थ-संज्ञाम् आदर्शयति—न तत्रेति । उपसंहरति—द्विविधः स योगश् चित्त-वृत्ति-निरोध इति ॥२॥
योग-वार्तिकम् : तद् एवं चित्त-भूमिषु लक्ष्यालक्ष्य-विवेक-पूर्वकं प्रसिद्धस्य योग-लक्षणस्यातिव्याप्ति-प्रदर्श्य योग-लक्षणाकाङ्क्षोपपादिता । अतः परं लक्षण-परयोत्तम-सूत्रम् अवतारयति—तस्य लक्षणाभिधित्सयेति । तस्य द्विविधस्य योगस्य । उक्तातिव्याप्ति-निराकरणान्यथानुपपत्त्या सूत्र-द्वयेनैव लक्षण-समाप्तिर् भविष्यतीति सूचयितुम् अभिधित्सयेत्य् उक्तम् । अन्यथा हि तस्य लक्षण-सूत्रं प्रववृत इत्य् एतावन्-मात्रम् उच्येत ।
योगश् चित्त-वृत्ति-निरोधः । चितम् अन्तः-करण-सामान्यम् एकस्य इवान्तः-करणस्य वृत्ति-भेद-मात्रेण चतुर्थोऽत्र दर्शने विभागात्, तस्य यावल्-लक्ष्यमाणा वृत्तयस् तासां निरोधस् तासां लयाख्योऽधिकरणस्य इवावस्था-विशेषः । अभावस्यास्मन्-मतेऽधिकरण-विशेष-रूपत्वात्, स योग इत्य् अर्थः ।
नन्व् इदं लक्षणं सम्प्रज्ञातस्याव्यापकं तत्र ध्येयाकार-वृत्ति-सत्त्वाद् इत्य् आशङ्क्य भाष्य-कार आह—सर्व-शब्देति । सर्व-वृत्ति-निरोध इत्य् अवचनाद् इत्य् अर्थः ।
नन्व् एवं पूर्वोक्तातिव्याप्तिः, क्षिप्तादिष् अपि यत् किञ्चिद् वृत्ति-निरोधाद् इति चेत् ? न, तदा द्रष्टुः स्वरूपेऽवस्थानम् इति वक्ष्यमाण-सूत्र-साहित्येनैवास्य लक्षणत्वात् । तथा च द्रष्टृ-स्वरूपावस्थिति-हेतुश् चित्त-वृत्ति-निरोधः क्षिप्ताद्य्-अवस्थासु नास्तीति नातिव्याप्तिः, सम्प्रज्ञातस्य १३ च स्वरूपावस्स्थिति-हेतुत्वम् असम्प्रज्ञात-द्वारास्त्य् एवेति ।
परे१४ तु क्षिणोति च क्लेशान् इति पूर्व-भाष्यानुसारेण क्लेश-कर्मादि-परिपन्थित्वं निरोध-विशेषस्य पूरणीयम् । तथा च क्लेश-कर्मादि-परिपन्थित्वे सति चित्त-वृत्ति-निरोधत्वं योग-द्वय-साधारणं लक्षणम् इत्य् आहुः ।
अस्य च लक्षणस्य क्षिप्तादि-भूमि-त्रयेऽतिव्याप्तिर् नास्तीत्य् अत्र हेतु-क्रमेण प्रतिपादयति—चित्तं हीत्य् आदिना । प्रख्या तत्त्व-ज्ञानम् । अनेन सर्वे सात्त्विका गुणा उपलक्षिताः । प्रवृत्तिः कर्म, अनेन सर्वे राजसा गुणा ग्राह्याः । स्थितिः, वृत्त्य्-आख्य-गति-शून्यता, निद्रेति यावत्, अनेन सर्वे तामसा गुणा ग्राह्याः । एते क्रमात् सत्त्व-रजस्-तम-आख्यानां द्रव्याणां धर्माः पराश्रितत्वाद् रूपादिवद् गुणा इत्य् उच्यन्ते । तद्-आश्रयाणि तु सत्त्वादि-द्रव्याणिरज्ज्व्-आरम्भक-तन्तुवद् एव गुणा इत्य् उच्यन्ते । तथा च प्रख्यादि-स्वभावकत्वात् चित्तं त्रिगुणं सत्त्वादि-गुण-त्रय-निर्मितं रज्जुवद् इत्य् अर्थः ।
ततः किम् ? इत्य् अत आह—प्रख्या-रूपं हीति । हि-शब्दो वाक्यालङ्कारेऽवधारणे वा । चित्त-सत्त्वम् इति चित्तस्य सत्त्व-प्रधान्य-प्रतिपादनाय पुनर् उक्तम् । प्रख्या-रूपम् इति च तेजः-सत्त्व-व्यावर्तनायोक्तम् ।
तथा च प्रख्या-स्वभावं चित्त-रूपं सत्त्वं स्वोपसर्जन-भूताभ्यां रजस्-तमोभ्यां संसर्गेण क्षिप्तावस्थायाम् अणिमाद्य्-ऐश्वर्ये शब्दादि-विषये चानुरक्तं भवतीत्य् अर्थः । अतः क्षिप्तावस्थस्य वृत्ति-निरोधस्य स्वरूपावस्थानाहेतुत्वाद् रागादि-क्लेशापरिपन्थित्वाद् वा न तत्रातिव्याप्तिर् इति भावः ।
क्षिप्तावस्थायाम् अतिव्याप्तिं परिहृत्य मूढावस्थायाम् अपि तां परिहरति—तद् एव तमसेति । उपगम् उन्मुखं तत्-प्रियम् इत्य् अर्थः । भावस् तु पूर्ववत् ।
विक्षिप्तावस्थायाम् अतिव्याप्तिं परिहरति—तद् एव प्रक्षीणेति । मोहस् तमो-द्रव्यं कार्य-कारणाभेदात् । तद् एव दर्पणस्य मलवाच् चित्त-सत्त्वस्यावरणं प्रक्षीणं यत्र तत्-प्रक्षीण-मोहावरणं, सर्वतः प्रद्योतमान-सर्व-विषयाकार-वृत्तिमत्, एवं-भूतं हिरण्यगर्भादीनां चित्तं रजो-लेशेन सम्भेदाद् विक्षिप्तं सद् धर्मादि-चतुष्टय-प्रियं भवतीत्य् अर्थः । अत्रापि भावः पूर्ववद् बोध्यः ।
अवस्था-त्रयेऽतिव्याप्तिं परिहृत्यैकाग्र-निरुद्धावस्थयोर् लक्षणं क्रमेण योजयति—तद् एव रजो-लेशेनेत्य्-आदिना । विक्षेप-हेतुना रजो-लेशेनापि मलेनापेतम् अत एव स्वरूप-प्रतिष्ठं स्वाभाविकेन रूपेण प्रसादादिना सम्यग्-अवस्थितम्, निर्मल-दर्पणवत् । अतश् च सत्त्व-पुरुषयोर् बुद्ध्य्-आत्मनोर् विवेक-ख्याति-मात्रं तन्-मात्र-वृत्तिकं सद् धर्ममेघ-ध्यान-मात्र-प्रियं भवति, न तु क्लेश-प्रियम् ऐश्वर्य-प्रियम् इत्य् अर्थः ।
तथा चेयम् एकाग्रता सत्त्व-पुरुषान्यता-ख्याति-रूपिणी द्रष्टृ-स्वरूपावस्थाने हेतुः, क्लेश-कर्मादि-परिपन्थिनी चेति योग-लक्षणाक्रान्तेति भावः । धर्ममेघ-समाधिश् च सूत्र-कारेणैव वक्ष्यते । यद्यप्य् अस्मितानुगत एव सम्प्रज्ञात-योगे सत्त्व-पुरुषान्यता-ख्यातिर् अस्ति न वितर्कानुगतादौ तथाप्य् अनेनैव तेऽप्य् उपलक्षणीयाः, एतद् अङ्ग-भूतत्वात् तेषाम् इति ।
निरुद्धावस्थायाम् अपि लक्षणं योजयन्न् एव स-कारणस्य निरोधस्य स्वरूपम् आह—चिति-शक्तिर् इत्य् आदिना । सम्प्रज्ञात-काले संसार-हेतुत्वादि-दोष-दर्शनाद् एवेतर-वृत्ति-निरोधो जातस् तस्माच् च सिद्धायां विवेक-ख्याति-निष्ठाया विवेक-ख्यातेर् अप्य् अनात्मत्व-साक्षात्करणात् तत्-फल-सिद्धेश् च तत्रापि वैराग्यं भवति, ततः सर्व-वृत्ति-निरोध इति प्रक्रिया । तत्र यादृशी विवेक-ख्याति-निष्ठा विवेक-ख्याति-वैराग्ये हेतुस् तामादौ दर्शयति—ख्यातिर् अतीत्य् अन्तेन ।
चिति-शक्तिः पुरुषाख्या न परिणामनी पूर्व-धर्मापाये धर्मान्तरोत्पत्तिः परिणामस् तद्-रहिता, कूटस्थ-नित्या, परमार्थ-सत्येति यावत् । लोकेऽर्थ-प्रकाशन-रूपे फल एव चैतन्य-शब्दः प्रयुज्यते । चैतन्य-फलोपधानं च न सर्वदा सर्व-पुरुषेऽस्तीत्य् आशयेन शक्ति-पदोपादानम् । तथा च शक्ति-रूपेणावस्थिता चितिर् इत्य् अर्थः । चितिश् च न गुणः, किं तु प्रकाश-स्वरूपं द्रव्यम् इतिद्रष्टा दृशि-मात्र[२.२०] इति सूत्रे विस्तरतः प्रतिपादयिष्यामः । यतोऽपरिणामिनी, अत एव चिति-शक्तिर् अप्रतिसङ्क्रमाऽसञ्चारा । यथा बुद्धिर् विषयं गच्छति तद्-ग्रहणार्थं, नैवं चितिर् अक्रियत्वात् । अथ वा, नास्ति प्रतिसङ्क्रमः सङ्गो विषयेषु यस्या इत्य् अप्रतिसङ्क्रमा, निर्लेपेति यावत् ।
नन्व् अपरिणामित्वे चात्मनो विषयाकारत्वाभावात् कथं विषय-स्फुरणम् ? तत्राह—दर्शित-विषया । दर्शितो बुद्ध्या निवेदितो विषयो यस्या इति विग्रहः । विषयैः सह बुद्धि-वृत्तिश्च् चितौ प्रतिबिम्बिता सती भासत इति भावः । वृत्ति-सारूप्यम् इतरत्र[१.४] इति सूत्रे चैतद् व्यक्तं भविष्यति ।
यतोऽपरिणामिनी, अत एव शुद्धानन्ता च सुख-दुःख-मोहाद्य्-आत्मकाशुद्धि-रहिता पूर्णा च । उक्ताशुद्धेः परिणाम-रूपत्वात् सक्रियस्यैव परिच्छिन्नत्वाच् चेति । इयं विवेक-ख्यातिः, धर्म-धर्म्य्-अभेदात् तद्वती वृत्तिः, सत्त्व-गुणात्मिका सत्त्व-गुणस्य कार्या, अतश् चिति-शक्तितो विपरीता परिणामिनी स्वयम् एव विवेकाकारिणी प्रतिसङ्क्रमवती दीप-शिखावत् विषयेषु सर्पणात् तथा जडा तथा सुख-दुःखाद्य्-अशुद्धिमती परिच्छिना चेत्य् अतोऽनात्मत्वादि-दोष-दर्शनात् तत्-फल-सिद्धेश् च विवेक-ख्यात्यां विरक्तं प्रत्युत्पन्नालं-प्रत्ययं चित्तं ता अपि ख्यातिं निरुणद्धि आवृणोति विलापयतीति यावत् । पर-वैराग्येण हेतुना चित्तस्य सा वृत्तिः स्वयम् एव विलीयते, यथा निद्रा-दोषेण सुषुप्तौ जाग्रद्-आदि-वृत्तिर् इति। शर्करास्वादेनैव गुड-दोषा अभिव्यज्यन्त इत्य् अतो विवेक-ख्यातेर् दोष-दर्शने पुरुष-गुण-दर्शनम् उपयुज्यत इति भावः । तथा यावद् वृत्ति-दोषालिप्तत्वेन वृत्ति-वैधर्म्येण वृत्ति-भेदत आत्मा न दृश्यते,१५ तावद् दोष-दर्शनेऽप्य् आत्मत्व-भ्रमाद् वृत्ति-वैराग्यं न घटते । आत्मत्वेनैव परम-प्रियत्वात् । अत आत्म-वृत्त्योर् उभयोर् एव गुण-दोषाभ्यां विविच्य दर्शनं वृत्ति-वैराग्ये हेतुर् इत्य् आशयः । तद्-अवस्थं निरोधावस्थं चित्तं संस्कारोपगं सकार-मात्रानुसारि संस्कार-मात्र-रूपेण प्रशान्त-वाहि भवति । सेयं प्रशान्त-वाहिता स पूर्वोक्तो निर्बीजः समाधिः निरोध-योगः, न किञ्चित् तत्र योगे ज्ञायत इति विग्रहेणासम्प्रज्ञात-नामा चेति वाक्यथार्थः । असम्प्रज्ञात-योगे चित्त-बीजस्य संस्कारस्य तत्त्व-ज्ञान-पर्यन्तस्याशेषतो दाहान् निर्बीज-संज्ञा तस्येति भावः । बीज-दाहाद् एव चास्य निरोधस्य स्वरूपावस्थिति-हेतुतया क्लेश-कर्मादि-परिपन्थितया च लक्षण-सङ्गतिर् इत्य् आशयः । सुषुप्तौ च निद्राख्य-चित्त-वृत्ति-सत्त्वान् न सम्प्रज्ञात-लक्षणातिव्याप्तिस् तत्-कालीन-निरोधस्य क्लेशादि-परिपन्थित्वाभावाच् च ।
एतेन यद् आधुनिक-वेदान्ति-ब्रुवा असम्प्रज्ञातेऽपि निर्विकल्पम् आत्म-ज्ञानं सर्व-सद्-बुद्धि-वृत्ति-रूपं तिष्ठतीति वेदान्तिः तद् अप्रामाणिकत्वेनैतद् भाष्य-विरोधेन चोपलक्षणीयम्—
युञ्जीत योगी निर्जित्य त्रीन् गुणान् परमात्मनि ।
तन्-मयश् चात्मना भूत्वा चिद्-वृत्तिम् अपि संत्यजेत् ॥
इति मार्कण्डेय-पुराणादाव् ऐश्वर-योगेऽपि वृत्ति-शून्यत्वावगमाच् च । निर्विकल्पत्वात् आत्म-ज्ञानं स्मरण्जीव-काल एव भवति, शब्दार्थ-ज्ञान-विकल्प-शून्यस्य सम्प्रज्ञात-कालीन-ज्ञानस्यैव निर्विकल्पकस्य लयस्य मानत्वात् । योग-द्वयम् उपसंहरति—दिविध इति ॥२॥
—o)0(o—
(१.३)
तद्-अवस्थे चेतसि विषयाभावाद् बुद्धि-बोधात्मा१६ पुरुषः किं-स्वभावः ? इति—
तदा द्रष्टुः स्वरूपेऽवस्थानम् ॥३॥
स्वरूप-प्रतिष्ठा तदानीं चिति-शक्तिर् यथा कैवल्ये१७ । व्युत्थान-चित्ते तु सति तथापि भवन्ती न तथा१८ ॥३॥
तत्त्व-वैशारदी : सम्प्रत्य् उत्तर-सूत्रम् अवतारयितुं चोदयति—तद्-अवस्थे चेतसीति । किम् आक्षेपे । तत्-तद्-आकार-परिणत-बोधात्मा खल्व् अयं पुरुषः सदानुभूयते, न तु बुद्धि-बोध-रहितः । अतोऽस्य पुरुषस्य बुद्धि-बोधः स्वभावः सवितुर् इव प्रकाशः । न च संस्कार-शेषे चेतसि सोऽस्ति । न च स्वभावम् अपहाय भावो वर्तितुम् अर्हतीति भावः । स्याद् एतत् ? संस्कार-शेषाम् अपि बुद्धिः कस्मात् पुरुषो न बुध्यते ? इत्य् अत आह—विषयाभावाद् इति । न बुद्धि-मात्रं पुरुषस्य विषयः, अपि तु पुरुषार्थवती बुद्धिः । विवेक-ख्याति-विषय-भोगौ च पुरुषार्थौ । तौ च निरुद्धावस्थायां न स्त इति सिद्धे विषयाभाव इत्य् अर्थः ।
सूत्रेण परिहरति—तदा द्रष्टुः स्वरूपेऽवस्थानम् । स्वरूप इत्य् आरोपितं शान्त-घोर-मूढ-स्वरूपं निवर्तयति । पुरुषस्य हि चैतन्यं स्वरूपम् अनौपाधिकं, न तु बुद्धि-बोधः शान्तादि-रूपः । औपाधिको हि सः, स्फटिकस्येव स्वभाव-स्वच्छ-धवलस्य जपा-कुसुम-संनिधानोपाधिर् अरुणिमा । न चोपाधि-निवृत्ताव् उपहित-निवृत्तिः, अतिप्रसङ्गाद् इति भावः । स्वरूपस्य १९ चाभेदेऽपि भेदं विकल्प्याधिकरण-भाव उक्त इति ।
अयम् एवार्थो भाष्य-कृता द्योत्यते—स्वरूप-प्रतिष्ठितेति । तदानीं—निरोधावस्थायां न व्युत्थानावस्थायाम् इति भावः । स्याद् एतत् ? व्युत्थानावस्थायाम् अप्रतिष्ठिता स्वरूपे चिति-शक्तिर् निरोधावस्थायां प्रतितिष्ठन्ती परिणामिनीं वा स्यात् । व्युत्थाने२० वा स्वरूप-प्रतिष्ठाने व्युत्थान-निरोधयोर् अविशेष इत्य् अत आह—व्युत्थान-चित्ते त्व् इति । न जातु कूटस्थ-नित्या चिति-शक्तिः स्वरूपाच् च्यवते । तेन यथा निरोधे तथैव व्युत्थानेऽपि । न खलु शक्तिकायाः प्रमाण-विपर्यय-ज्ञान-गोचरत्वेऽपि स्वरूपोदय-व्ययौ भवतः । प्रतिपत्ता तु तथा-भूतम् अप्य् अतथात्वेनाभिमन्यते । निरोध-समाधिम् अपेक्ष्य सम्प्रज्ञातोऽपि व्युत्थानम् एवेति ॥३॥
योग-वार्तिकम् : ननु चित्त-वृत्ति-निरोधे कः पुरुषार्थः ? इत्य् आकाङ्क्षया योग-लक्षण-पूरणाय च प्रवर्तमानं योगस्य फल-प्रतिपादकं सूत्रम् अधिक-प्रश्न-मुखेनोत्थापयति प्रसङ्गाद् आत्मनः कौटस्थ्य-मतिं प्रतिपादयितुम्—तद्-अवस्थ इति ।
नन्व् असम्प्रज्ञातावस्थे चेतसि सति बुद्धि-बोधात्मा बुद्धि-विषयय-बोध-स्वरूपो बुद्धि-साक्षी पुरुषः किं-स्वभावः, केन रूपेण तिष्ठति ? किं व्युत्थान इव तदानीम् अपि प्रकाश-रूप एव तिष्ठति, वृत्त्य्-आख्य-दृश्याभावाद् एव तु न पश्यति ? अथवा, काष्ठवद् अप्रकाश-रूप एव आत्मा तदा तिष्ठति, व्युत्थान-काले तु निमित्त-विशेषात् प्रकाश-रूपेण परिणमते ? किं वा, दशा-क्षये दीपवन् नश्यतीत्य् अर्थः ? एतेष्व् आद्य-पक्षं सूत्रेण सिद्धान्तयति—तदा द्रष्टुः स्वरूपेऽवस्थानम् ।
तदासम्प्रज्ञात-योग-काले द्रष्टुः चिति-शक्तेः पुरुषस्य स्वरूपे निर्विषय-चैतन्य-मात्रेऽवस्थानम् इत्य् अर्थः । यथा जपापाये स्फटिकस्यालोहिते स्व-स्वरूपेऽवस्थानं तथा वृत्त्य्-अपाये पुरुषस्य वृत्ति-प्रतिबिम्ब-शून्ये स्व-स्वरूपेऽवस्थानम् इति भावः । यथा च तदा संस्कार-शेष-बुद्धेर् भानं न भवति, तथोत्तर-सूत्रे वक्ष्यामः । तथा च कूटस्थ एव पुरुषो व्युत्थान इव तदानीम् अपि प्रकाश-स्वरूप एव तिष्ठति, योग-लक्षणम् अप्य् एतद् धेतु-निरोधत्वम् एव, तत्र च वृत्त्य्-आत्मक-दुःखाभावः पुरुषार्थ इति भावः । सोऽयं पुरुषार्थो भाष्य-कारेण सूचितः, यथा कैवल्य इत्य् अनेन । कैवल्ये हि दुःख-निवृत्तिर् एव पुरुषार्थ इति वक्ष्यति—हेयं दुःखम् अनागतम् इति सूत्रेणेति । क्रमेण चरमासम्प्रज्ञातेऽशेष-संस्कार-क्षयात् चित्तेन सह वृत्तीनाम् आत्यन्तिक-निरोधे सत्य् आत्यन्तिकं स्वरूपावस्थानं मोक्षाख्यम् इति ।
ननु तदानीं दुःखाभावेऽन्यदा दुःखम् अस्तीत्य् आयातम्, तथा चापरिणामित्वानुपपत्तिर् इत्य् आशङ्कां परिहरति भाष्य-कारः—व्युत्थानेति । व्युत्थान-चित्त-दशायां तु चितिस् तथापि स्वरूपेण तिष्ठन्ती, न तथा नासम्प्रज्ञातस्य कैवल्यस्य च समान-रूपेत्य् अर्थः ॥३॥
—o)0(o—
(१.४)
कथं तर्हि ? दर्शित-विषयत्वात्—
वृत्ति-सारूप्यम् इतरत्र ॥
व्युत्थाने याश् चित्त-वृत्तयस् तद्-अविशिष्ट-वृत्तिः पुरुषः । तथा च सूत्रं—एकम् एव दर्शनं, ख्यातिर् एव दर्शनम् इति । चित्तम् अयस्कान्त-मणि-कल्पं सन्निधि-मात्रोपकारि दृश्यत्वेन स्वं भवति पुरुषस्य स्वामिनः । तस्माच् चित्त-वृत्ति-बोधे पुरुषस्यानादिः सम्बन्धो हेतुः२१ ॥४॥
तत्त्व-वैशारदी :सूत्रान्तरम् अवतारयितुं पृच्छति—कथं तर्हीति । यदि तथा भवन्तो न तथा, केन तर्हि प्रकारेण प्रकाशत इत्य् अर्थः । हेतु-पदम् अध्याहृत्य सूत्रं पठति—दर्शित-विषयत्वाद् वृत्ति-सारूप्यम् इतरत्र ॥ इतरत्र व्युत्थाने याश् चित्त-वृत्तयः शान्त-घोर-मूढास् ता एवाविशिष्टा अभिन्ना वृत्तयो यस्य पुरुषस्य , स तथोक्तः । सारूप्यम् इत्य् अत्र स-शब्द एक-पर्यायः ।
एतद् उक्तं भवति—जपा-कुसुम-स्फटिकयोर् इव बुद्धि-पुरुषयोः संनिधानाद् अभेद-ग्रहे बुद्धि-वृत्तीः समारोप्य शान्तोऽस्मि, दुःखितोऽस्मि, मूढोऽस्मीत्य् अध्यवस्य ति । यथा मलिने दर्पण-तले प्रतिबिम्बितं मुखं मलिनम् आरोप्य शोचत्य् आत्मानं मलिनोऽस्मीति । यद्यपि पुरुष-समारोपोऽपि शब्दादि-विज्ञानवद् बुद्धि-वृत्तिः, यद्यपि च प्राकृतत्वेनाचिद्-रूपतयानुभाव्यः, तथापि बुद्धेः पुरुषत्वम् आपादयन् पुरुष-वृत्तिर् इवानुभव इवावभासते । तथा चायम् अविपर्ययोऽप्य् आत्मा विपर्ययवान् इव, अभोक्तापि भोक्तेव, विवेक-ख्याति-रहितोऽपि तत्-सहित इव विवेक-ख्यात्या प्रकाशते । एतच् च चितेर् अप्रतिसंक्रमायास् तद्-आकारापत्तौस्व-बुद्धि-संवेदनम्[४.२२] इत्य् अत्र सत्त्व-पुरुषयोर् अत्यन्तासङ्कीर्णयोः प्रत्ययाविशेषो भोगः [३.३५] इत्य् अत्र चोपपादयिष्यते ।
एतच् च मतान्तरेऽपि सिद्धम् इत्य् आह—तया चैति । पञ्चशिखाचार्यस्य सूत्रं—एकम् एव दर्शनं,ख्यातिर् एव दर्शनमिति ।
ननु कथम् एकं दर्शनं यावता बुद्धेः शब्दादि-विषया विवेक-विषया च वृत्तिः प्राकृततया जडत्वेनानुभाव्या, दर्शनं ततोऽन्यत् पुरुषस्य चैतन्यम् अनुभवो दर्शनम् इत्य् अत आह—ख्यातिर् एव दर्शनमिति । उदय-व्यय-धर्मिणीं वृत्तिं ख्यातिं लौकिकीम् अभिप्रेत्यैतद् उक्तं—एकम् एव इति । चैतन्यं तु पुरुषस्य स्वभावो न ख्यातेः । तत् तु न लोक-प्रत्यक्ष-गोचरः, अपि त्व् आगमानुमान-गोचर इत्य् अर्थः । तद् अनेन व्युत्थानावस्थायां मूल-कारणम् अविद्यां दर्शयता तद्-धेतुकः संयोगो भोग-हेतुः स्व-स्वामि-भावोऽपि सूचित इति । तद् उपपादयन्न् आह—चित्तं॰ स्वं भवति पुरुषस्य स्वामिन इति सम्बन्धः ।
ननु चित्त-जनितम् उपकारं भजमानो हि चेतनश् चित्तस्येशिता । न चास्य तज्-जनितोपकार-सम्बन्ध-सम्भवः, तद्-अनुपकार्यत्वात्, तत्-संयोग-तद्-उपकार-भागित्वे परिणाम-प्रसङ्गाद् इत्य् अत आह—अयस्कान्त-मणि-कल्पं संनिधि-मात्रोपकारि दृश्यत्वेन इति । न पुरुष-संयुक्तं चित्तं, अपि तु तत्-संनिहितम् । संनिधिश् च पुरुषस्य न देशतः कालतो वा, तद्-असंयोगात्, किन्तु योग्यता-लक्षणः । अस्ति च पुरुषस्य भोक्तृ-शक्तिः, चित्तस्य भोग्य-शक्तिः । तद् उक्तं—दृश्यत्वेनैति । शब्दाद्य्-आकार-परिणतस्य भोग्यत्वेनेत्य् अर्थः । भोगश् च यद्यपि शब्दाद्य्-आकारा वृत्तिश् चित्तस्य धर्मस् तथापि चित्त-चैतन्ययोर् अभेद-समारोपाद् वृत्ति-सारूप्यात् पुरुषस्यापरिणामिता चेति सिद्धम् ।
ननु स्व-स्वामि-सम्बन्धो भोग-हेतुर् अविद्या-निमित्तः, अविद्या तु किं-निमित्ता ? न खल्व् अनिमित्तं कार्यम् उत्पद्यते । यथाहुः—स्वप्नादिवद् अविद्यायाः प्रवृत्तिस् तस्य किं कृताइति शङ्काम् उपसंहार-व्याजेनोद्धरति—तस्माच् चित्त-वृत्ति-बोधे । शान्त-घोर-मूढाकार-चित्त-वृत्त्य्-उपभोगे अनाद्य्-अविद्या-निमित्तत्वाद् अनादिः संयोगो हेतुः, अविद्या-वासनयोश् च सन्तानो बीजाङ्कुर-सन्तानवद् अनादिर् इति भावः ॥४॥
योग-वार्तिकम् :सूत्रान्तरम् अवतारयितुं पृच्छति—कथं तर्हीति । कूटस्थापि चितिः केन प्रकारेण तर्हि व्युत्थाने तिष्ठतीत्य् अर्थः । असंप्रज्ञातापेक्षया सम्प्रज्ञातोऽप्य् अत्र व्युत्थानं बोध्यम् । अत्र प्रत्युत्तरं सूत्रं हेतु-पदम् अध्याहृत्य पठति— दर्शित-विषयत्वाद् इति ।
वृत्ति-सारूप्यम् इतरत्र ॥ इतरत्र व्युत्थाने चित्तेन सह द्रष्टुर् वृत्तौ सारूप्यम्२२ इत्य् अर्थः । तद् एतद् व्याचष्टे—व्युत्थानेति । इतरत्र व्युत्थाने याश् चित्तस्य वृत्तयो दीपस्य शिखा इव द्रव्य-रूपा भङ्गुरा अवस्था-परिणामाः मूषानिषिक्त-द्रुत-ताम्रवत् स्व-संयुक्तार्थाकारास् त्रिगुण-कार्यत्वात् सुख-दुःख-मोहाश्रयतया शान्त-घोर-मूढाख्याः भवन्ति, ताभिर् अविशिष्टा अविलक्षणा वृत्तयो यस्य पुरुषस्य , स तथा । वृत्तिश् च गुणो न भवति, भाग-गुणाभ्यां तत्त्वान्तरं वृत्तिः सम्बन्धार्थं सर्पतीति साङ्ख्य-सूत्रात् । भागो विभक्तांशोऽग्नि-विस्फुलिङ्गवद् इति ।
कुतः पुनर् अपरिणामिनो वृत्तिः ? तत्रोक्तम्—दर्शित-विषयत्वाद् इति । बुद्ध्या निवेदित-विषयत्वाद् इत्य् अर्थः । निवेदनं च स्वारूढ-विषयस्य प्रतिबिम्ब-रूपेण चित्य्-आधानम् ।
गृहीतान् इन्द्रियैर् अर्थान् आत्मने यः प्रयच्छति ।
अन्तः-करण-रूपाय तस्मै विश्वात्मने नमः ॥[वि.पु. १.१४.३५] इति विष्णु-पुराणादिभ्यः ।
एतद् उक्तं भवति—यद्यपि पुरुषश् चिन्मात्रोऽविकारी, तथापि बुद्धेर् विषयाकार-वृत्तीनां पुरुषे यानि प्रतिबिम्बानि, तान्य् एव पुरुषस्य वृत्तयः, न च ताभिर् अवस्तु-भूताभिः परिणामित्वं स्फटिकस्येवातत्त्वतोऽन्यथाभावाद् इति । तद् उक्तं साङ्ख्ये—जपा-स्फटिकयोर् इव नोपरागः किं त्व् अभिमान [सा.प्र.सू. ६.२८] इति । सूत्र-कारोऽपि वक्ष्यति—चितेर् अप्रतिसङ्क्रमायास् तद्-आकारापत्तौ स्व-बुद्धि-संवेदनम्[४.२२] इति ।
एतेन सुख-दुःख-मोह-गुणक-वृत्ति-सारूप्याद् व्युत्थाने चितिर् अपि दुःखादिमतीव यद् भवति, तद् एव चितेर् दुःख-भोगो दुःखाभ्यवहरण-रूपः, प्रतिबिम्ब-रूप-दुःख-हानम् एव चासम्प्रज्ञातस्य फलम् इति सूत्र-द्वयेन सिद्धम् ।
ये त्व् अहं सुखी दुःखीत्य्-आदि-प्रत्ययाद् आत्मन एव पारमार्थिकीं वृत्तिम् इच्छन्ति, त एवं प्रत्याख्येयाः—स्वत एव चेद् आत्मनः परिणामास् तर्हि सर्वावयवावच्छेदेन सर्वदा वृत्ति-प्रसङ्गाद् अनिर्मोक्षादि-प्रसङ्गः । यदि मनः-संयोगो निमित्तं, तर्हि लाघवाद् एकेन मनस्त्वेनैव हेतुतास्तु, आत्म-मनस् तत्-संयोगानां त्रयाणां हेतुत्वे गौरवाद्, अनुमानं चार्थाकार-परिणाम-सुखादिकम् अन्तः-करणोपादानकं बाधकाभावे सति तद्-अन्वय-व्यतिरेकानुविधायित्वात् मनः-संयोगवद् इति । भोगे२३ व्यभिचार-वारणा सत्य् अन्तम् । बुद्धेः स्व-भोक्तृत्वे च बाधकं कर्तृ-कर्म-विरोधं सूत्र-कारो वक्ष्यति । अहं कर्ता, सुखीत्य्-आदि-प्रत्ययास् तु, अहं गौर इत्य्-आदि-भ्रम-शतान्तःपातित्वेनाप्रामाण्य-ज्ञानास्कन्दिताः नोक्तानुमास्य बाधकाः, प्रत्युत—
प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः ।
यः पश्यति तथात्मानम् अकर्तारं स पश्यति ॥ {गीता १३.२९]
इत्य्-आदि स्मृत्य्-उपोद्वेलितेनोक्तानुमानेनैव बाध्यन्ते देश-भिन्नात्म-साधकैर् अनुमानैर् अहं गौर इत्य् आदि-प्रत्ययवद् इति दिक् ।
स्वोक्ते बुद्धि-पुरुषयोर् वृत्ति-सारूप्ये पञ्चशिखाचार्य-सूत्रं प्रमाणयति—तथा च सूत्रम् इति । ख्यातिर् बुद्धिर् दर्शनं पुरुषस्य इत्य् अन्तं२४ च सूत्रम् । तथा च ख्यातिर् एव दर्शनम् इत्य् एकाकारम् एव दर्शनं भ्रमो लोकानाम् इति सूत्रार्थः । इति शब्दश् चान्यो भाष्य-योजनार्थं पूरणीयः ।
ननु स-विषय-वृत्तेः स्फुरणं चेतन-संयोगाद् एव भवतु, यथा सजल-घटादि-प्रकाशः सूर्य-सम्बन्धात्, अतः किम्-अर्थं चैतन्ये वृत्ति-प्रतिबिम्बं वृत्तौ वा वक्ष्यमाण-चैतन्य-प्रतिबिम्बं कल्प्यते, सुख्य् अहं जानामीति बुद्धि-पुरुषयोर् एकता-भ्रमस् तु परस्पर-प्रतिबिम्बं विनापि दूरस्थ-वनस्पत्योर् इव दोष-वशाद् एव सम्भवति, तत् कथं बुद्धि-पुरुषयोर् वृत्ति-सारूप्य-सिद्धिर् इति ?
अत्रोच्यते—चेतने तावद् बुद्धि-प्रतिबिम्बम् अवश्यं स्वीकार्यं, अन्यथा कूटस्थ-नित्य-विभु-चैतन्यस्य सर्व-सम्बन्धात् सदैव सर्वैर् ज्ञायेत, न हि सूर्य-सम्बन्धे सति घटाद्य्-अप्रकाशो दृष्ट इति ।
न चाज्ञानाख्यं ज्ञान-प्रतिबन्धकं चैतन्ये कल्पनीयं, नित्य-ज्ञानस्य प्रतिबन्धासम्-भवात् ।२५दुःखाज्ञान-मया धर्माः प्रकृतेस् ते तु नात्मनः इत्य्-आदिभिर् आत्मन्य् अज्ञान-प्रतिषेधाच् च ।
अतोऽर्थ-भानस्य कादाचित्कत्वाद्य्-उपपत्तयेऽर्थाकारतैवार्थ-ग्रहणं वाच्यम्, बुद्धौ२६ तथा दृष्टत्वात् । बुद्धाव् अपि हि संयोग-मात्रस्य थार्थ-ग्रहणत्वेऽतीन्द्रियस्याप्य् अर्थस्य बुद्धि-ग्राह्यत्व-प्रसङ्गात् । सा चार्थाकारता बुद्धौ परिणाम-रूपा, स्वप्नादौ विषयाभावेन तत्-प्रतिबिम्बासम्भवात् । पुरुषे च प्रतिबिम्ब-रूपः, विद्यमान-वृत्ति-मात्र-ग्राहके पुंसि प्रतिबिम्बेनैवोपपत्तेर् इति न केवलं तर्काद् एव चिति बुद्धेः प्रतिबिम्बं कल्प्यते, किन्तु—
तस्मश् चिद्-दर्पणे स्फारे समस्ता वस्तु-दृष्टयः ।
इमास् ता प्रतिबिम्बन्ति सरसीव तट-द्रुमाः ॥
यथा संलक्ष्यते रक्तः केवलः स्फटिको जनैः ।
रञ्जकाद्य्-उपधानेन तद्वत् परम-पुरुषः ॥ इत्य् आदि-स्मृति-शतैर् अपीति ।
न चैवं संस्काराशेषा बुद्धिः पुरुषे प्रतिबिम्बिता भायाद् इत्य् असम्प्रज्ञात-योगानुपपत्तिर् इति वाच्यम्, परमाणोर् इव वृत्त्य्-अतिरिक्तानां प्रतिबिम्ब-समर्पणासामर्थ्य् अस्य फल-बलेन कल्पनात् । अनादि-स्व-स्वामि-भावस्यैव प्रतिबिम्ब-नियामकतयावक्ष्यमाणत्वात् तु न पर-बुद्धि-वृत्तेर् भानम् । अत एवपुरुषार्थ्वत्य् एव बुद्धिः पुरुषस्य विषय इति साङ्ख्य-संहितो विवेक-ख्याति-विषय-भोगौ च पुरुषार्थाव् इति । यथा च चितिबुद्धेः प्रतिबिमम् एवं बुद्धाव् अपि चित्-प्रतिबिम्बं स्वीकार्यम् अन्यथा चैतन्यस्य भानानुपपत्तेः, स्वयं साक्षात् स्व-दर्शने कर्म-कर्तृ-विरोधेन बुद्ध्य्-आरूढतयैवात्मनो२७ घटादिवज् ज्ञेयत्वाभ्युपगमात् ।
तथा च वक्ष्यति सूत्रकारः—द्रष्टृ-दृश्योपरक्तं चित्तं सर्वार्थम्[४.२३] इति। बुद्धाव् आत्म-प्रतिबिम्बम् एव च तान्त्रिका बुद्धेश् चिच्छायापत्तिर् इत्य् आत्माकारतेति प्राहुः ।
प्रतिबिम्बोपाधौ बिम्बाकारो बुद्धेः२८ परिणाम एव, स च साक्षिभास्य इति ।
एतेन नीरूपत्वाद् बुद्धि-पुरुषयोर् अन्योन्यं प्रतिबिम्बनं न सम्भवतीत्य् अपास्तम् । उभयत्रोभयाकार-बुद्धि-परिणामस्यैव प्रतिबिम्ब-शब्देनात्र विवक्षितत्वात्, जलादाव् अपि सूर्याद्य्-आकार-बुद्धि-परिणामस्यैव सूर्यादि-प्रतिबिम्बितत्वाच् च । तद् एवबुद्ध्य्-आत्मनोः परस्पर-प्रतिबिम्ब-रूपाद् दोषाद् एवैकता-भ्रमोऽहं कर्ता सुखी जानामीत्य्-आदि-रूप इति । तद् एतत् परस्परं प्रतिबिम्बं साङ्ख्य-कारिकायाम् अवशब्दाभ्याम् उक्तम्—
तस्मात् तत्-संयोगाद् अचेतनं चेतनावद् इव लिङ्गम् ।
गुण-कर्तृत्वे च तथा कर्तेव भवत्य् उदासीनः ॥िति दिक् ।
यच् चैतच् चैतन्ये बुद्धि-वृत्ति-सारूप्यम् उक्तं चैतन्यस्य बुद्ध्य्-आकारता-रूपम् इदम् एव चैतन्यस्यार्थोपरक्त-वृत्ति-भानं, तस्य चाकारोऽयं घट इत्य् आदि-रूप एव, अन्यथा वृत्ति-सारूप्यान्पत्तेः । न तु वृत्ति-बोधस्य पृथग्-आकारोऽस्ति । घटम् अहं जानामि दुःखितोऽहम् इत्य् आदिकंतु बुद्धेर् एवाकारान्तरम् । पुरुषस्यापरिणामित्वाद् अभ्रान्तत्वाच् चेति । तथा च सूत्रकारो वक्ष्यति—चितेर् अप्रतिसंक्रमायास् तद्-आकारापत्तौ स्व-बुद्धि-संवेदनम्[४.२२] इति ।
ननु वृत्तितब्दोधौ {?। यदि घटदापाव् इवात्यन्त-भिन्नौ न तु चिज्-जडात्मकम् अविभक्तम् एकं वस्तु मणि-कान्तिवत्, तर्हि तत्-तच्-चित्त-वृत्तीनां प्रतिनियत-तत्-तत्-पुरुष-मात्र-बोध्यत्वे किं नियामकम् इत्य् आकाङ्क्षायां प्रतिनियतयोर् एव चित्तात्मनोर् अनादिः स्व-स्वामि-भान-सम्बन्धस् तन्-नियामक इतिप्रतिपादयति—चित्तम् अयस्कान्त-इत्य् आदिना सम्बन्ध-हेतुर् इत्य् अन्तेन ।
तत्राप्य् आदाव् अनादिं स्व-स्वामि-भावं युक्त्योपपादयति—चित्तम् इति । यथायस्कान्त-मणिः स्वस्मिन्न् एवायः-संनिधीकरण२९-मात्रात् शल्य-निष्कर्षणाख्यम् उपकारं कुर्वन् स्वामिनः स्वं भवति भोग-साधनत्वात् । तथैव चित्तम् अप्य् अयः-सदृश-विषय-जातस्य स्वस्मिन् संनिधीकरण-मात्राद् दृश्यत्व-रूपम् उपकारं कुर्वत् पुरुषस्य स्वामिनः स्वं भवति, भोग-साधनत्वात् । अतश् चित्त-पुरुषयोर् अनादिः स्व-स्वामि-भावः सम्बन्ध इति शेषः ।
ततः किम् ? इत्य् अत आह—तस्मादिति । तस्मात् स्व-स्वामि-भावस्य सिद्धत्वात् स एवानादि-सम्बन्धः पुरुषस्य चित्त-वृत्ति-दर्शने हेतुर् इत्य् अर्थः । अतो न पर-चित्तेन परस्य वृत्ति-सारूप्यं भवति, कदापि तद्-वृत्त्य्-अबोधेन तयोः स्व-स्वामि-सम्बन्धाभावात् ।
ननु स्व-स्वामि-भावस्य कथम् अनादित्वम् ? स हि भोग्य-भोक्तृ-भाव-रूपतया प्रलये न तिष्ठतीति ? मैवम् । अभुज्यमान-धनेऽपि सुषुप्तस्य स्व-स्वामि-भावेन स्वत्व-स्वामित्वयोर् अतिरिक्त-पदार्थत्वात् । स्वरूप-सम्बन्ध-विशेषत्वाद् वा३० प्रतियोग्य्-अनुयोगि-भाववत् ।
अथवा स्व-मुक्त-वृत्ति-वासनावत्त्वम् एव बुद्धौ पुरुषस्य स्वत्वं, ईदृशो भोग्य-भोक्तृ-भाव एव च तान्त्रिकैर् भोग्य-भोक्तृ-योग्यतेत्य् उच्यते । चिद्-अवदानो भोगैति साङ्ख्य-सूत्रोक्तस्य सुख-दुःखानुभव-रूप-भोगस्य पुरुष-धर्मत्वाद् इति । स च स्व-स्वामि-भावश् चित्त-पुरुषयोर् अनादिर् एव स्वीक्रियते ।
न च महत्-तत्त्व-रूपस्य चित्तस्य कार्यतयाकथं तद्-धर्मस्यानादित्वम् ? इति वाच्यम् । अन्तः-करणस्य वृक्षवत् कार्यावस्थायाम् एव महत्-तत्त्व-परिभाषा-स्वीकारात् । बीजावस्था तु प्रकृत्य्-अंशत्व-रूपा नित्यैव । अन्यथाधर्माधर्म-संस्कारादीनाम् आश्रयं विना प्रलयेऽवस्थानानुपपत्तेः । प्रकृति-मात्रस्य तद्-आश्रयत्वे तत्-कार्य-भोग-स्मृत्यादेर् अपि तन्-निष्ठत्वस्यैवौचित्याद् अन्तः-करण-कल्पनानर्थक्यम्, अन्तः-करण-धर्मत्वंधर्मादीनाम् इति साङ्ख्य-सूत्रस्य यथा-श्रुतार्थानुपपत्तिश् चेति ।
अथैवं बुद्धि-तत्-कारणयोर् उभयोर् धर्मादि-कल्पने गौरवम् इति चेत् ? दृष्टानुसारितयास्य गौरवस्य प्रमाणिकत्वात् । यथा हि परमाणु-पर्यन्तम् एव घटे पाकेन रूपं३१ जायते तद्-घट-भङ्गे च तैर् अणुभिर् घटान्तरं तद्-रूपकं भवति, तथैव प्रकृति-पर्यन्तम् एव बुद्धौ धर्मादिकम् उत्पद्यते, तद्-बुद्धि-नाशे च तत्-प्रकृतिभिः तादृश-धर्मादिमद् एव बुद्ध्य्-अन्तरम् उत्पद्यतेकारण-गुण-प्रक्रमाद् इति दिक् ॥४॥
—o)0(o—
(१.५)
ताः पुनर् निरोद्धव्या बहुत्वे सति चित्तस्य —
वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः ॥५॥
क्लेश-हेतुकाः कर्माशय-प्रचय-क्षेत्री-भूताः क्लिष्टाः । ख्याति-विषया गुणाधिकार-विरोधिन्योऽक्लिष्टाः । क्लिष्ट-प्रवाह—पतिता अप्य् अक्लिष्टाः । क्लिष्ट-च्छिद्रेष्व् अप्य् अक्लिष्टा भवन्ति । अक्लिष्ट-च्छिद्रेषु क्लिष्टा इति । तथा-जातीयकाः संस्कारा वृत्तिभिर् एव क्रियन्ते, संस्कारैश् चैव वृत्तय इति । एवं वृत्ति-संस्कार-चक्रम् अनिशम् आवर्तते । तद् एवं-भूतं चित्तम् अवसिताधिकारम् आत्म-कल्पेन व्यवतिष्ठते प्रलयं वा गच्छतीति ॥५॥
तत्त्व-वैशारदी : स्याद् एतत् ? पुरुषो हि शक्य३२ उपदिश्यते । न च वृत्ति-निरोधो वृत्तीन् विज्ञाय शक्यः । न च सहस्रेणापि पुरुषायुषैर् अलम् इमाः कश्चित् परिगणयितुम् । असङ्ख्याताश् च३३कथं निरोद्धव्या इत्य् आशङ्क्य तासां३४ इयत्ता-स्वरूप-प्रतिपादन-परं सूत्रम् अवतारयति—ताः पुनर् निरोद्धव्या बहुत्वे सति चित्तस्य वृत्तयः पञ्चतय्यः क्लिष्टा अक्लिष्टाः ॥
वृत्ति-रूपोऽवयव्य् एकः । तस्य प्रमाणादयोऽवयवाः पञ्च । आर्रय् अवयवा पञ्चतयी पञ्चावयवा वृत्तिर् भवति । ताश् च वृत्तयश् चैत्र-मैत्रादि-चित्त-आर्रय् बह्व्य इति बहु-वचनम् उपपन्नम् । एतद् उक्तं भवति—चैत्रो वा मैत्रो वान्यो आर्रय् कश्चित् सर्वेषाम् एव तेषां वृत्तयः पञ्चतय्य एव नाधिका इति । चित्तस्येति चैक-वचनं जात्य्-अभिप्रायम् । चित्तानाम् इति तु द्रष्टव्यम् ।
तासाम् अवान्तर-विशेषम् अनुष्ठानोपयोगिनं दर्शयति—क्लिष्टाक्लिष्टा इति । अक्लिष्टा उपादाय क्लिष्टा निरोद्धव्याः । ता अपि परेणवैराग्येणेति । अस्य व्याख्यानम्—क्लेश-हेतुका इति । यद् वा,पुरुषार्थ-प्रधानस्य रजस्-तमो-मयीनां हि वृत्तीनां क्लेश-कारणत्वेन क्लेशायैव प्रवृत्तिः । क्लेशः क्लिष्टं तद् आसाम् अस्तीति क्लिष्टा इति । यत एव क्लेशोपार्जनार्थम् अमूषां प्रवृत्तिर् अत एवकर्माशय-प्रचय-क्षेत्री-भूताः । प्रमाणादिना खल्व् अयं प्रतिपत्ता अर्थम् अवसाय तत्र सक्तो द्विष्टो वा कर्माशयम् आचिनोतीति भवन्ति धर्माधर्म-प्रचय-प्रसव-भूमयो वृत्तयः क्लिष्टा इति ।
अक्लिष्टा व्याचष्टे—ख्याति-विषयाइति। विधूत-रजस्-तमसो बुद्धि-सत्त्वस्य प्रशान्त-वाहिनः प्रज्ञा-प्रसादः ख्यातिः, तयाविषयिण्या तद्-विषयं सत्त्व-पुरुष-विवेकम् उपलक्षयति । तेन सत्त्व-पुरुष-विवेक-विषया यतोऽत एव गुणाधिकार-विरोधिन्यः ।कार्यारम्भणं हि गुणानाम् अधिकारो विवेक-ख्याति-पर्यवसानं च तद् इति चरिताधिकाराणांगुणानाम् अधिकारं विरुधन्तीति । अतस् ता अक्लिष्टाः प्रमाण-प्रभृतयो वृत्तयः । स्याद् एतत्—वीत-राग-जन्मादर्शनात् क्लिष्ट-वृत्तय एव सर्वे प्राण-भृतः । न च क्लिष्ट-वृत्ति-प्रवाहे भवितुम् अर्हन्त्य् अक्लिष्टा वृत्तयः । न चामूषां भावेऽपिकार्य-कारिता, विरोधिम् अध्यपातित्वात् ।
तस्मात् क्लिष्टानाम् अक्लिष्टाभिर् निरोधः, तासां च वैराग्येण परेणेति मनोरथ-मात्रम् इत्य् अत आह—क्लिष्ट-प्रवाहेति । आगमानुमानाचार्योपदेश-परिशीलन-लब्ध-जन्मनी अभ्यास-वैराग्ये क्लिष्ट-च्छिद्रम् अन्तरा तत्र पतिताः स्वयम् अक्लिष्टा एव यद्यपि क्लिष्ट-प्रवाह—पतिताः । न खलु शालग्रामे किरात-शत-सङ्कीर्णे प्रतिवसन्न् अपि ब्राह्मणः किरातो भवति । अक्लिष्ट-च्छिद्रेष्विति निदर्शनम् । क्लिष्टान्तर-वर्तितया च क्लिष्टाभिर् अनभिभूता अक्लिष्टाः ।
संस्कार-परिपाक-क्रमेण क्लिष्टा एव तावद् अभिभवन्त्य् आह—तथाजातीयकाइति । अक्लिष्टाभिर् वृत्तिभिर् अक्लिष्टाः संस्कारा इत्य् अर्थः । तद् इदं वृत्ति-संस्कार-चक्रम् अनिशम् आवर्तते, आनिरोध-समाधेः । तद् एवं-भूतं चित्तम् निरोधावस्थं संस्कार-शेषं भूत्वात्म-कल्पेनावतिष्ठत इत्य् आपाततः,प्रलयं वा गच्छतीतिपरमार्थतः । पिण्डीकृत्य सूत्रार्थम् आह—ता इति । पञ्चधेत्य् अर्थ-कथन-मात्रम्, न तु शब्द-वृत्ति-व्याख्यानं, तयपः३५ प्रकारेऽस्मरणात् ॥५॥
योग-वार्तिकम् :कृत्यादि-लक्षणा अपि वृत्तयः सन्तीत्य् आगामि-सूत्रस्य न्यूनतां परिहर्तुं चित्तस्येत्य् अन्तं पूरयित्वोत्तर-सूत्रम् अवतारयति—ताः पुनरिति । चित्तस्य बहु-वृत्तिकत्वे सत्य् अपि ता निरोद्धव्या वृत्तयः क्लिष्टाक्लिष्ट-रूपा वक्ष्यमाणाः पञ्चतय्य एवेति सूत्रेण सहान्वयः । प्रमाणादि-रूप-वक्ष्यमाण-वृत्ति-पञ्चक-निरोधेनैव तत्-कार्याणाम् अन्य-वृत्तीनां निरोध-सिद्धिर् इति भावः ।
वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः ॥५॥ यैः प्रमाणादि-लक्षण-व्यापारैः चित्तं जीवति, ते तद्-वृत्तय उच्यन्ते, द्विजानां याजनादिवत् । क्लिष्टाश् चाक्लिष्टाश् च क्लिष्टाक्लिष्टाः ।निरोद्धव्या वृत्तयः क्लिष्टा वा अक्लिष्टा वा भवन्तु वक्ष्यमाणाः पञ्चतय्यः पञ्च-प्रकारा एवेति सूत्रार्थः ।
वृत्तीनाम् असङ्ख्य-व्यक्तितयवयवार्थकत्वानुपपत्त्या तयपो लक्षणयात्र प्रकार-वाचित्वं ता पञ्चधा वृत्तय इत्य् आगामि-भाष्याद् इति । क्लिष्टवद् अक्लिष्टाया अपि हेत्यत्व-प्रतिपादनाय क्लिष्टाक्लिष्टाविभाग-प्रदर्शनम् । तत्र चायं क्रमोऽक्लिष्टा उपादाय क्लिष्टा निरोद्धव्याः, ततस् ता अपि पर-वैराग्येणेति । सत्त्वेनान्यतमौ हन्यात् सत्त्वं सत्त्वेन चैव हि [भा.पु. ११.१३.१]इतिस्मरणात् ।
क्लिष्टा व्याचष्टे—क्लेश-हेतुकाः इति । त्रिगुणात्मकतयासर्वासाम् एव वृत्तीनां क्लेशवत्त्वेन क्लिष्टाक्लिष्टाविभागो नोपपद्यत इत्य् अतः क्लेश-सम्बन्ध-विशेष-परतयेत्थं व्याख्यायते । अत्र च हेतुः प्रयोजनम् । क्लेशश् चात्र मुख एव ग्राह्यो दुःखाख्यः । तथा च क्लेश-हेतुकाः दुःख-फलिका विषयाकार-वृत्तय इत्य् अर्थः ।
क्लेश-जनकत्वे हेतुः—कर्म-इत्य् आदि । कर्माशय-प्रचयानांधर्माधर्म-वासना-समूहानां क्षेत्री-भूता आलम्बनी-भूताः क्लिष्टाइत्य् अर्थः ।विषयाकार-वृत्ति-जन्य-तृष्णाद्य्-अभिहतस् तद्-धानार्थं यतमानः पर-पीडानुग्रहाभ्यांधर्माधर्माव् उपचिनोति, ततश् च दुःख-धारा भवतीति भावः ।
अक्लिष्टा व्याचष्टे—ख्याति- इति । अक्लिष्टा अक्लेश-फलिकाः । ताश् च गुणाधिकार-विरोधिन्यः, गुणानां सत्त्वादीनाम् अधिकारः कार्यारम्भणं तद्-विरोधिन्योऽविद्या-काम-कर्मादि-रूप-कारण-नाशकत्वात् । ख्याति-विषया विवेक-ख्याति-सम्बद्धा इत्य् अर्थः । ख्याति-साधनस्यापि सङ्ग्रहाय विषय-पदम् इति ।
ननु सूत्र-कारेण तामसीनां सात्त्विकीनां च द्विविधानाम् एव वृत्तीनां निरोद्धव्यत्वम् उक्तं, न तु राजसीनां क्लिष्टाक्लिष्ट-रूप-मिश्र-वृत्तीनाम् इति न्यूनतेत्य् आशङ्क्य मिश्र-वृत्तीनाम् उक्तास्व् एवान्तर्भावम् आह—क्लिष्ट-प्रवाह—इति । क्लिष्ट-शेषी-भूता अपि अक्लिष्ट-रूपास् तद्-अंशाः । यद्यपि क्लिष्ट-च्छिद्रेषु सन्ति, तथाप्य् अक्लिष्टा एवाक्लिष्ट-शब्देन गृहीता भवन्ति । एवम् अक्लिष्ट-च्छिद्रेषुअपि क्लिष्टा क्लिष्ट-शब्देन गृहीता इत्य् अर्थः । तथा च राजस्या मिश्र-वृत्तेर् अंशाभ्याम् अंशिन्योः प्रवेश इति न न्यूनता ।
इदानीं वृत्ति-निरोधस्य फलं वक्तुम् आदौ संसारानर्थ-बीजं संस्कारं दर्शयति—तथा-जातीयकाःिति । क्लिष्टाक्लिष्ट-जातीयकाः संस्काराइत्य् अर्थः । अस्य जीव-भ्रामकस्य वृत्ति-संस्कार-चक्रस्य स्तम्भने प्रलये च निरोध एवोपाय इत्य् आह—तद् एवं-भूतम् इति । तत् वृत्ति-संस्कार-चक्रात्मकं चित्तं, एवं-भूतं निरोधावस्थं, अवसिताधिकारम्क्रमेण समाप्यमानाधिकारं सदात्म-कल्पेन आत्मआविभागेन निर्दुःखतया तिष्ठति व्युत्थान-पर्यन्तम् ।
अथवाभ्यास-पाटवेनाखिल-संस्कार-क्षये सति प्रलयम् आत्यन्तिक-लयम् एव गच्छति । विदेह-कैवल्यं प्राप्नोतीत्य् अर्थः । निरोध-समाधेः पुनर् उत्थानम् एव योगिनां मुक्तिर् इति भावः ॥५॥
—o)0(o—
(१.६)
ताः क्लिष्टाश् चाक्लिष्टाश् च पञ्चधा वृत्तयः—
प्रमाण-विपर्यय-विकल्प-निद्रा-स्मृतयः ॥६॥
तत्त्व-वैशारदी : ताः स्व-संज्ञाभिर् उद्दिशति—प्रमाणेत्य्-आदि । निर्देशो यथा-वचनं विग्रहः३६ । चार्थे द्वन्द्वः समास इतरेतर-योगे । यथा अनित्याशुचि-दुःखानात्मसु नित्य-शुचि-सुखात्म-ख्यातिर् अविद्या इत्य् उक्तेऽपि न दिङ्-मोहालाल-चक्रादि-विभ्रमा व्युदस्य न्त एवम् इहापि प्रमाणाद्य्-अभिधाएऽपि वृत्यन्तर-सद्-भाव-शङ्का न व्युदस्येतेति तन्-निरासाय वक्तव्य पञ्चतय्य इति । एतावत्य एव वृत्तयो३७ नापराः सन्तीति दर्शितं भवति ॥६॥
योग-वार्तिकम् :पूर्व-सूत्रेण सह योजनार्थं ताः क्लिष्टाश् चाक्लिष्टाश् च पञ्चधा वृत्तय इति पूरयित्वोत्तरं सूत्रं पठति—प्रमाणेत्य्-आदि । सुगमं सूत्रम् ॥६॥
—o)0(o—
(१.७)
तत्र,
प्रत्यक्षानुमानागमाः प्रमाणानि ॥७॥
इन्द्रिय-प्रणालिकया चित्तस्य बाह्य-वस्तूपरागात् तद्-विषया सामान्य-विशेषात्मनोऽर्थस्य विशेषावधारण-प्रधाना वृत्तिः प्रत्यक्षं प्रमाणम् ।फलम् अविशिष्टः पौरुषेयश् चित्त-वृत्ति-बोधः । बुद्धेः प्रतिसंवेदी पुरुष इत्य् उपरिष्टाद् उपपादयिष्यामः ।
अनुमेयस्य तुल्य-जातीयेष्व् अनुवृत्तो भिन्न-जातीयेभ्यो व्यावृत्तः सम्बन्धो यस् तद्-विषया सामान्यावधारण-प्रधाना वृत्तिर् अनुमानम् । यथा देशान्तर-प्राप्तेर् गतिमच्-चन्द्र-तारकं चैत्रवत्, विन्ध्यश् चाप्राप्तिर् अगतिः ।
आप्तेन दृष्टोऽनुमितो वार्थः परत्र स्व-बोध-सङ्क्रान्तये शब्देनोपदिश्यते । शब्दात् तद्-अर्थ-विषया वृत्तिः श्रोतुर् आगमः । यस्याश्रद्धेयार्थो वक्ता न दृष्टानुमितार्थः स आगमः प्लवते । मूल-वक्तरि तु दृष्टानुमितार्थे निर्विप्लवः स्यात् ॥७॥
तत्त्व-वैशारदी : तत्र प्रमाण-वृत्तिं विभजन् सामान्य-लक्षणम् आह३८—तत्र प्रत्यक्षानुमानागमाः प्रमाणानि ॥ अनधिगत-तत्त्व-बोधः पौरुषेयो व्य्वहार-हेतुः प्रमा । तत्-करणं प्रमाणम् । विभाग-वचनं च न्यूनाधिक-सङ्ख्या-व्यवच्छेदार्थम् ।
तत्र सकल-प्रमाण-मूलत्वात्प्रथमतः प्रत्यक्षं लक्षयति—इन्द्रियेति । अर्थस्येति समारोपितत्वं निषेधति । तद्-विषया इति बाह्य-गोचरतया ज्ञानाकार-गोचरत्वं निवारयति । चित्त-वर्तिनो ज्ञानाकारस्य बाह्य-ज्ञेय-सम्बन्धं दर्शयति—बाह्य-वस्तूपरागातिति । व्यवहितस्य तद्-उपरागे हेतुम् आह—इन्द्रिय-प्रणालिकयाइति ।
सामान्य-मात्रम् अर्थम् इत्य् एके३९ । विशेष एवेत्य् अन्ये४० । सामान्य-विशेष-तद्वत्तेत्य् अपरे४१ वादिनः प्रतिपन्नाः तान् निरासायाह—सामान्य-विशेषात्मनैतिन तद्वत्ता, किं तु तादात्म्यम् अर्थस्य । एतच् च एकान्तानभ्युपगमात्, इत्य् अत्र प्रतिपादयिष्यते ।
अनुमानागम-विषयात् प्रत्यक्ष-विषयं व्यवच्छिनत्ति—विशेषावधारण-प्रधानाइति । यद्यपि सामान्यम् अपि प्रत्यक्षे प्रतिभासते, तथापिविशेषं प्रत्य्पसर्जनीभूतम् इत्य् अर्थः । एतच् च साक्षात्कारोपलक्षण-परम् । तथा च विवेक-ख्यातिर् अपि लक्षिता भवति । फल-विप्रतिपत्तिं निराकरोति—फलम् पौरुषेयश् चित्त-वृत्ति-बोधः इति।
ननु पुरुषवर्ती बोधः कथं चित्त-गताया वृत्तेः फलम्, न हि खदिर-गोचर-व्यापारेण परशुना पलाशे छिदा क्रियते इत्य् अत आह—अविशिष्टैति । न हि पुरुष-गतो बोधो जन्यते, अपि तु चैतन्यम् एव बुद्धि-वृत्त्यार्थाकारया तद्-आकारताम् आपद्यमानं फलम् । तच् च तथा-भूतं बुद्धेर् अविशिष्टं बुद्ध्य्-आत्मकम्, वृत्तिश् च बुद्ध्य्-आत्मिकेति सामानाधिकरण्याद्य्-उक्तः प्रमान-फल-भाव इत्य् अर्थः । एतच् चोपपादयिष्याम इत्य् आह—प्रतिसंवेदीइति ।
प्रत्यक्षानन्तरं प्रवृत्त्य्-आदि-लिङ्गक-श्रोतृ-बुद्ध्य्-अनुमान-प्रभव-संबन्ध४२-दर्शन-समुत्थतयागमस्यानुमानजत्वाद् अनुमितस्य चागमेनान्वाख्यानाद् आगमात् प्राग् अनुमानं लक्षयति—अनुमेयस्य इति । जिज्ञासित-धर्म-विशिष्टो धर्म्य्-अनुमेयः, तस्य तुल्य-जातीयाः साध्य-धर्म-सामान्येन समानार्थाः स-पक्षाः, तेष्व् अनुवृत्त इत्य् अनेन विरुद्धत्वम् असाधारणत्वं च साधन-धर्मस्य निराकरोति । भिन्न-जातीया असपक्षाः, ते च सपक्षाद् अन्ये, तद्-विरुद्धास् तद्-अभावश् च तेभ्यो व्यावृत्तः । तद् अनेन साधारणानैकान्तिकत्वम् अपाकरोति । सम्बन्ध्यत इतिसम्बन्धो लिङ्गम् । अनेन पक्ष-धर्मता दर्शयन्न् असिद्धतां निवारयति । तद्-विषया तन्-निबन्धना । षिञ् बन्धने इत्य् अस्माद् विषय-पद-व्युत्पत्तेः । सामान्यावधारण- इति प्रत्यक्ष-विषयाद् व्यवछिनत्ति । सम्बन्ध-संवेदनाधानजम् अनुमानं विशेषेषु सम्बन्ध-ग्रहणाभावेन सामान्यम् एव सुकर-सम्बन्ध-ग्रहं गोचरयतीति ।
उदाहरणम् आह—यथाइति । चो हेत्व्-अर्थः । विन्ध्योऽगतिर् यतस् तस्मात् तस्याप्राप्तिर् अतो गति-निवृत्तौ प्राप्तेर् निवृत्तेर् देशान्तर-प्राप्तेर्गतिमच् चन्द्र-तारकं चैत्रवदिति सिद्धम् ।
आगमस्य वृत्तेर् लक्षणम् आह—आप्तेन इति । तत्त्व-दर्शन-कारुण्य-करणपाटवाआर्रय्-सम्बन्ध आप्तिः । तया सह वर्तनम् इत्य् आप्तः । तेनदृष्टोऽनुमितो वार्थः ।श्रुतस्य पृथग् अनुपादानं तस्य दृष्टानुमित-मूलत्वेन ताभ्याम् एव चरितार्थत्वात् । आप्त-चित्त-वर्ति-ज्ञान-सदृशस्य ज्ञानस्य श्रोतृ-चित्ते समुत्पादः स्व-बोध-संक्रान्तिस् तस्य इ । अर्थ उपदिश्यते श्रोतृ-हिताहित-प्राप्ति-परिहारोपायतया प्रज्ञाप्यते । शेषं सुगमम् ।
यस्यागमस्य अश्रद्धेयार्थो वक्ता, यथा यान्य् एव दश दाडिमानि तानि षड् अनूपा भविष्यन्तीति,न दृष्टानुमितार्थः,यथा चैत्यं वन्देत स्वर्ग-कामः इतिस आगमः प्लवते ।
नन्व् एवं मन्वादीनाम् अप्य् आगमः प्लवते । न हि तेऽपिदृष्टानुमितार्थाः, यथाहुः—
यः कश्चित् कस्य चिद् धर्मो मनुना परिकीर्तितः ।
स सर्वोऽभिहितो वेदे सर्व-ज्ञान-मयो हि सः ॥िति ।
अत आह—मूल-वक्तरि त्विति । मूल-वक्ता हि तत्रेश्वरो दृष्टानुमितार्थ४३इत्य् अर्थः ॥७॥
योग-वार्तिकम् : तत्रेति पूरयित्वोत्तर-सूत्रम् अवतारयति—तत्र, तासु वृत्तिषु मध्ये, प्रत्यक्षानुमानागमाः प्रमाणानि ॥ जनाधिगत-तत्त्व-बोधः प्रमा, तत्-करणं प्रमाणम् इति प्रमाण-सामान्य-लक्षणं सुगमत्वाद् अकृत्वैव विभागः कृतः । परोक्तानि चेतराणि प्रमाणान्य् एष्व् एवान्तर्भाव्याणीत्य् आशय इति ।
प्रत्यक्षं व्याचष्टे—इन्द्रिय- इति । इन्द्रियाण्य् एव नाडी चित्त-सञ्चरण-मार्गः, तैः संयुज्य तद्-गोलक-द्वारा बाह्य-वस्तुषूपरक्तस्य चित्तस्येन्द्रिय४४-साहित्येनैवार्थाकारः परिणामो भवति, न केवलस्य चित्तस्य , शङ्ख-पैत्त्य्-आद्य्-आकारतायां नयनादि-गत-पित्ताद्य्-अन्वय-व्यतिरेकाभ्याम् । अतो रूपादि-वृत्तिषु चक्षुर्-आदीनाम् अपि कारणत्वंशास्त्रेषूच्यते । अत्रोपरागाद् इत्य् अन्तेन बाह्य-वृत्तेः कारण-मात्रं दर्शितं, न तु तल्-लक्षणे प्रवेशनीयम् । आत्मादि-प्रत्यक्षाव्यापनाद् ईश्वर-प्रत्यक्षाव्यापनाच् च, तस्याजन्यत्वात् ।
अर्थस्येत्य् अनेन समारोपितत्व-प्रतिषेधान् न विपर्ययेऽतिव्याप्तिः । विशेषावधारण-प्रधाना इति । विशेषणाद् अनुमानागमयोर् व्यावृत्तिः । स्मृति-व्यावर्तनाय—तद्-विषयेति । उपरक्त-वस्तु-विषयेत्य् अर्थः । सामान्य-विशेषाभ्याम् अत्यन्त-भिन्न एवार्थ इत्य् एतन् निरासायोक्तं सामान्य-विशेषात्मनैति । अनेन चावयवी न निराकृतः किं त्व् अवयविनि सामान्य-विशेषयोर् अविभाग-लक्षणं तादात्म्यम् उक्तं पश्चाद् अवयवि-व्यवस्थापनाद् इति ।
अनन्ता रश्मयस् तस्य दीपवद् यः स्थितो हृदि । [अज्ञात]
बहु-शाखा ह्य् अनन्ताश् च बुद्धयोऽव्यवसायिनाम् ॥[गीता २.४७]
इत्य्-आदि-स्मृतिभ्यो रश्मि-शाखादि-तुल्य-तालाभात् । वृत्तिः प्रभावद् द्रव्यम् एवेति प्राग् एवोक्तम् । सा वृत्तिर् एव दीप-प्रभावद् बाह्यथार्थम् उपसृत्य चक्षुर्-आद्य्-एकीभावेन घटाद्य्-आकारा भवति, स्वप्न-ध्यानादौ घटाद्याकारतया चित्त-वृत्तेर् अनुभूयमानत्वाद् बाह्येऽपि ज्ञानाकारः सिध्यति । अत्रांशे बौद्धानाम् अस्माकं चैक-वाक्यत्वेऽपि बाह्येऽपि, अस्माभिर् बाह्यथार्थस्यापि स्वाकाराद् इति ।
प्रत्यक्षस्य लक्षणं कृतम् इदानीं तस्य प्रमाकरणत्वेन प्रमाणत्वम् उपपादयति—फलम् इति । वृत्ति-रूपस्य करणस्य फलं पुरुष-निष्ठश् चित्त-वृत्ति-विषयको बोधः पुरुषार्थम् एव करणानां प्रवृत्तेः । अयं च बोधो विषय-देश एव भवति विभुत्वात् ।
नन्व् अयं घट इति वृत्तेर् बोधो घटम् अहं जानामीति रूपस् तस्य च पौरुषेयत्वे पुरुषस्य स्वतन्त्राकारेण परिणामित्वापत्तिर् इति । तत्राह—अविशिष्टैति । स च बोधश् चित्त-वृत्त्या सहाविशिष्ट इति वृत्ति-सारूप्य-सूत्र उपपादित इत्य् अर्थः । अयं घट इत्य् आकारा बिम्ब-रूपा वृत्तिः कारणम् । तस्या एव वृत्तिश् चैतन्ये प्रतिबिमनाच् चैतन्यम् अप्य् अयं घट इत्य् आकारम् इव सबोधाख्यं फलं भवतीति । नात्र विशेषः शब्देन वक्तुं शक्यते, विवेकिभिर् एवेक्षु-क्षीरादि-माधुर्यस्येव स्वयं विशेषोऽनुभूयते दृग्-दृश्यादि-वैधर्म्याद् इति भावः । पौरुषेयो बोध इत्य् आधाराधेय-भावश् च४५ गगने श्रोत्रम् इतिवद् विशिष्टाविशिष्ट-भेदेनोपपादनीयः । करण-लक्षणं चात्र फलायोग-व्यवच्छिन्न-कारणत्वम् इति ।
ननु रूपादिषु चक्षु-आदीनाम् एव करणत्वंश्रुति-स्मृत्योर् अवगम्यत इति चेत् ? सत्यं, किं तु बुद्धि-वृत्त्य्-आख्य-प्रमान्तरं प्रत्य् एव तेषां करणत्वं, न तु पौर्षेय-बोध-रूपां मुख्य-प्रमां प्रति । प्रमा-द्वयं च साङ्ख्ये सूत्रितं—द्वयोर् एकतरस्य वाप्य् असन्निकृष्टार्थ-परिच्छित्तिः प्रमा इति । चक्षुर्-आदीनां च वृत्तौ करणत्वं व्यापारवत् कारणत्व-रूपं कुठारादाव् इवेति शेषः ।
ननु विषयाकारतैव विषय-ग्रहणं चित्त-स्थले दृष्टं पुरुषस् तु कूटस्थो न वृत्त्य्-आकारतां भजते । अतः कथं पुरुषश् चित्त-वृत्ति-साक्षी स्यात्, कथं वाविशिष्टः पौरुषेयो बोध इत्य् आशङ्कायाम् आह—प्रतिसंवेदीइति । संवेदिन्या बुद्धेः प्रतिसंवेदी तत्-समानाकारः पुरुष इत्य् एतच् चतुर्थ-पादे चितेर् अप्रतिसंक्रमायास् तद्-आकारापत्तौ स्व-बुद्धि-संवेदनम्[४.२२] इति सूत्रेउपपादयिष्याम इत्य् अर्थः ।
यद्यपि चितेः स्वयम् आकारो नास्ति, तथापिप्रतिबिम्ब-वशाद् वृत्त्याकारापत्त्या वृत्ति-बोध इत्य् अस्माभिर् वृत्ति-सारूप्य-प्रसङ्गेन प्राग् एव व्याख्यातम् ।
कश्चित् तु वृत्त्य्-आख्य-कारण-सामान्यधिकरण्येन बुद्धाव् एव प्रमाख्यं फलं जायते, चैतन्यम् एव हि बुद्धि-दर्पण-प्रतिबिम्बितं बुद्धि-वृत्त्यथार्थाकारया तद्-आकारताम् आपाद्यमानं फलं, तच् च चिच्-छायाख्यं चित्-प्रतिबिम्बं बुद्धेर् एव धर्म इति वदति ।
तन् न, पौरुषेय-शब्दस्य यथा-श्रुत-त्यागापत्तेः । प्रतिबिम्बस्य तुच्छतयार्थ-भान-रूपत्वानुपपत्तेश् च । प्रतिबिम्बस्य प्रकाशाद्य्-अर्थ-क्रियाकारितायाः क्वाप्य् अदर्शनाच् च । प्रतिबिम्बं हि तत्-तद्-उपाधिषु बुद्धेर् बिम्बाकार-परिणाम-मात्रम् इति ।
किं च, परस्परं प्रतिबिम्बस्य श्रुति-स्मृति-सिद्धतया चितेर् एव वृत्ति-प्रतिबिम्बोपहितायाःफलत्वं युक्तं ज्ञान-शब्देनात्मन एव प्रतिपादनात्, सत्यं ज्ञानम् अनन्तं ब्रह्म, ज्ञानम् एव परं ब्रह्म, ज्ञानं बन्धाय चेष्यते इत्य्-आदि-श्रुति-स्मृतिष्व् इति । बुद्धेश् चित्च्-छायापत्तिश् चाहम् इत्य्-आदि-रूपैश् चितो भानार्थम् एवेष्यते, बुद्ध्यारोहं विना साक्षात् स्व-भाने कर्म-कर्तृ-विरोधाद् इत्य् उक्तम् एव ।
अपि च बुद्धेर् एव प्रमातृत्वे पुरुषो न सिध्येत् । वृत्ति-साक्षितयापुरुष-सिद्धिर् इति चेत् ? एवं सति वृत्ति-द्रष्टुर् एव वृत्त्यारूढार्थ-द्रष्टृत्व-कल्पनोचिता, न तु बिम्ब-प्रतिबिमयोर् उभयोर् एव द्रष्टृत्वम् अर्थ-भेदेन कल्पयितुं युक्तं गौरवाद् इति ।
किं च, जानामीत्य् एवं बुद्धि-वृत्तौ भासमानं प्रतिबिम्ब-चैतन्यं स्व-ज्ञेयं न सम्भवति, कर्म-कर्तृ-विरोधात्, अतो बिम्ब-चैतन्ये भानम् आवश्यकम् इति ।
अत्र प्रमात्रादि-विभागः—
प्रमाता चेतनः शुद्धः४६ प्रमाणं वृत्तिर् एव च ।
प्रमार्थाकार-वृत्तीनां चेतने प्रतिबिम्बनम् ॥
प्रतिबिम्बित-वृत्तीनांविषयो मेय उच्यते ।
वृत्तयः साक्षिभास्याः स्युः करणस्यानपेक्षणात्४७ ॥
साक्षाद्-दर्शन-रूपं न साक्षित्वं साङ्ख्य-सूत्रितम् ।
अविकारेण द्रष्टृत्वं साक्षित्वं चापरं जगुः ॥ इति दिक् ।
पुरुषे वृत्ति-बोध-रूपं च फलम् अनुमानादि-सकल-वृत्तिष्व् अपि बोध्यम् ।
अनुमानं लक्षयति अनुमेयस्येति । साध्य-विशिष्टः४८ पक्षोऽनुमेयः, तस्य साध्यवत्त्वेन तुल्य-जातीयेषु सपक्षेष्व् अनुवृत्तो विजातीयेभ्यो व्यावृत्तो यः सम्बन्धोऽर्थात्तत्रैवानुमेये पक्ष-वृत्तिर् इति यावत् । तद्-विषया तन्-निबन्धना, षिञ् बन्धने इत्य् अनुशासनात् । तद्-विषय-ज्ञान-जन्येति यावत् । एवं-भूता या सामान्यावधारण-प्रधाना वृत्तिः, सानुमानम् इत्य् अर्थः । सम्बन्ध इति पाठेऽपि सम्बन्धत इति सम्बन्धः । तथा च स एवार्थः । सामान्येत्य्-आदि प्रत्यक्ष-व्यावृत्त-स्वरूप-कथन-मात्रं, न तु लक्षणान्तर्गतं वैयर्थ्याद् इति ।
अनुमान-वृत्तेर् उदाहरणम् आह—यथा देशान्तर-प्राप्तेरिति । अत्रान्वय-व्याप्तौ दृष्टान्तश् चैत्रवद् इति । व्यतिरेक-व्याप्तौ च दृष्टान्तो विन्ध्यश् चाप्राप्तिर् अगतिर् इति । अप्राप्तेरितिपञ्चमी-पाठस् तु लेखक-प्रमादात्, प्रत्यक्ष-सिद्धेऽनुमिति-वैयर्थ्याद् इति ।
आगमाख्यां वृत्तिं लक्षयति—आप्तेन इति । भ्रम-प्रमाद-विप्रलिप्सा-करणापटवादि-दोष-रहितेनेत्य् अर्थः । मूल-वक्त्र्-अभिप्रायेण४९श्रुतो वेति नोक्तं, तद् अप्य् उपलक्षणीयम् । स्व-बोध-सङ्क्रान्तये स्व-बोध-सदृश-बोधोत्पत्त्य्-अर्थम् इत्य् अर्थः । श्रोतृ-वृत्तिर् इति व्युत्क्रमेणान्वयः । अत्राप्तोक्तार्थ-विषयिणी शब्द-जन्या इत्य् एवागम-प्रमाणस्य लक्षणम् । शेषं त्व् आगम-शब्द-व्युत्पत्ति-मात्रम् आप्ताद् आगच्छत् वृत्तिर् इत्य् आगम इत्य् आशयः । तद्-अर्थ-विषयेऽत्यन्त-विशेषण-व्यावृत्त्यात्र प्रमाणम् आगम-वृत्तिं दर्शयति—यस्य इति । दृष्टानुमितार्थकत्वाभावेनाश्रद्धेयथार्थ्ऽवेद-प्रतिपादको यस्यागमस्य वक्ता स आगमः शास्त्रं चैत्यं वन्देत स्वर्ग-काम इत्य् आदि-रूपं प्लवते । प्रमाण-वृत्ति-जननासमर्थ इत्य् अर्थः ।
नन्व् एवं दृष्टानुमितार्थ-वक्त्र-निर्मितस्य श्रुति-मूलस्याधुनिकागमस्यापिप्लवः स्याद् अत आह—मूल- इति॥७॥
—o)0(o—
(१.८)
विपर्ययो मिथ्या-ज्ञानम् अतद्-रूप-प्रतिष्ठम् ॥८॥
स कस्मान् न प्रमाणम् ? यतः प्रमाणेन बाध्यते, भूतार्थ-विषयत्वात् प्रमाणस्य । तत्र प्रमाणेन बाधनम् अप्रमाणस्य दृष्टम् । तद् यथा द्वि-चन्द्र-दर्शनं सद्-विषयेणैक-चन्द्र-दर्शनेन बाध्यत इति ।
सेयं पञ्च-पर्वा भवत्य् अविद्या—अविद्यास्मिता-राग-द्वेषाभिनिवेशाः क्लेशा इति । एत एव स्व-संज्ञाभिस् तमो मोहो महा-मोहस् तामिस्रोऽन्धतामिस्र इति । एते चित्त-मल-प्रसङ्गेनाभिधास्यन्ते ॥८॥
तत्त्व-वैशारदी : विपर्ययो मिथ्या-ज्ञानम् अतद्-रूप-प्रतिष्ठम् ॥ विपर्यय इति लक्ष्य-निर्देशः । मिथ्या-ज्ञानम् इत्य् आदिलक्षणम् । यज् ज्ञान-प्रतिभास-रूपम् तद्-रूपाप्रतिष्ठम् एवातद्-रूप-प्रतिष्ठम् । यथाश्राद्ध-भोजीति । अतः संशयोऽपि संगृहीतः । एतावांस् तु विशेषः—तत्र ज्ञानारूढैवाप्रतिष्ठितता, द्वि-चन्द्रादेस् तु बाध-ज्ञानेनैव ।
नन्व् एवं विकल्पोऽपि तद्-रूपाप्रतिष्ठानाद् विचारतो विपर्ययः प्रसज्येतेत्य् अत आह—मिथ्या-ज्ञानम् इति । अनेन हि सर्वजनीनानुभव-सिद्धा बाध उक्तः । स चास्ति विपर्यये न तु विकल्पे, तेन व्यवहारात् । पण्डित-रूपाणाम् एव तु विचारयतां तत्र बाध-बुद्धेर् इति ।
चोदयति—स कस्मान् न प्रमाणम् ? नोत्तरेणोपजात-विरोधिना ज्ञानेन पूर्वं बाधनीयम्, अपि तु पूर्वेणैव प्रथमम् उपजातेनानुपजात-विरोधिना परम् इति भावः । परिहरति—यतः प्रमाणेन इति । यत्र हि पूर्वापेक्षा परोत्पत्तिस् तत्रैवम् । इह तु स्व-स्व-कारणाद् अन्योन्यानपेक्षे ज्ञाने जायेते । तेनोत्तरस्य ५०पूर्वम् अनुपमृद्योदयमनासादयतस् तद्-अपबाधात्मैवोदयः, न तु पूर्व् स्योत्तर-बाधात्मा, तस्य तदानीम् अप्रसक्तेः । तस्माद् अनुपजात-विरोधिता बाध्यत्वे हेतुः । उपजात-विरोधिता च बाधकत्वे, तस्माद् भूतार्थ-विषयत्वात्प्रमाणेनाप्रमाणस्य बाधनम्सिद्धम् । उदाहरणम् आह—तत्र प्रमाणेनैति ।
अस्य कुत्सितत्वं हानाय दर्शयति—सेयं पञ्च- इति । अविद्या-सामान्यमविद्यास्मितादिषु पञ्चसु पर्वस्व् इत्य् अर्थः । अव्यक्त-महद्-अहङ्कार-पञ्च-तन्मात्रेष्व् अष्टस्व् अनात्म-स्वात्म-बुद्धिर् अविद्या तमः । एवं योगिनाम् अष्टस्व् अणिमादिकेष्व् ऐश्वर्येष्व् अश्रेयःसु श्रेयो-बुद्धिर् अष्ट-विधो मोहः पूर्वस्माज् जघन्यः स चास्मितोच्यते । तथा योगेनाष्ट-विधम् ऐश्वर्यम् उपादाय सिद्धो भूत्वा दृष्टानुश्रविकान् शब्दादीन् दश विषयान् भोक्ष्य इत्य् एवम् -आत्मिका प्रतिपत्तिर् महा-मोहो रागः । एवम् एतेनिवाभिसन्दिना प्रवर्तमानस्य केनचित् प्रतिबद्धत्वाद् अणिमादीनाम् उत्पत्तौ तन्-निबन्धनस्य दृष्टानुश्रविक-विषयोपभोगस्यासिद्धेः प्रतिबन्धक-विषयः क्रोधः स तामिस्राचार्यो द्वेषः । एवम् अणिमादि-गुण-सम्पत्तौ दृष्टानुश्रविक-विषय-प्रत्युपस्थाने च कल्पान्ते सर्वम् एतन् नङ्क्ष्यतीति यस् त्रासः सोऽभिनिवेशोऽन्ध-तामिस्रः ।
तद् उक्तं—
भेदस् तमोऽष्ट-विधो मोहस्य च दशविधो महा-मोहः ।
तामिस्रोऽष्टादश-विधो तथाभवत्य् अन्ध-तामिस्रः ॥ इति॥८॥
योग-वार्तिकम् :प्रमाणं लक्षयित्वा विपर्ययं लक्षयति—विपर्ययो मिथ्या-ज्ञानम् अतद्-रूप-प्रतिष्ठम् ॥ विपर्यय इति लक्ष्य-निर्देशः । मिथ्या-ज्ञानम् इति लक्षणम् । मिथ्येत्य् अस्य विवरणम् अतद्-रूप-प्रतिष्ठम् इति । न तद्-रूपो न स्व-समानाकारो यो विषायस् तत्-प्रतिष्ठं तद्-विशेष्यकम् इत्य् अर्थः । भ्रम-स्थले ज्ञानाकारस्यैवविषये समारोप इति भावः । संशयस्याप्य् अत्रैवान्तर्-भावः ।५१
अत्र च शास्त्रेऽन्यथा-ख्यातिः सिद्धान्तो न तु साङ्ख्यवद् अविवेक-मात्रम्, अनित्याशुचि-दुःखानात्मसु नित्य-शुचि-सुखात्म-ख्यातिर् अविद्येत्य् आगामि-सूत्रात् । वैशेषिकाच् चात्रायं विशेषो यद् बाह्य-रजतादेर् नारोपः किं त्व् आन्तरस्य इवेति । ज्ञानाकारम् अनुभव-सिद्धं शुक्त्य्-आदिकं सन्निकृष्टं विहाय दूरस्थ-रजतादि-विषयकत्व-कल्पने गौरवात् । स्वप्ने दृष्टम् इदानीं नास्तीति स्वरूपतो बाधानुपपत्तेश् च । तथा च ब्रह्म-सूत्र-द्वयम्—सन्ध्ये सृष्टिर् आह हि[वे.सू.३.२.१] इति ।पराभिध्यानात् तु तिरोहितं ततो ह्य् अस्य बन्ध-विपर्ययौ५२ [वे.सू.३.२.५] इति चेति ।
ननु प्रतीति-बलेनैव विषयः सिध्यतु, तथा च शुक्ति-रजतादि-स्थलेऽप्य् अतद्-रूप-प्रतिष्ठत्वम् असिद्धम् इत्य् आशयेन पृच्छति—स कस्मादिति । परिहरति—यतःिति । अबाधितानुभवेनैव विषय-सिद्धिर् इति भावः ।
ननु बाध्य-बाधक-भाव एव वैपरीत्येन कथं न भवति ? तत्राह—भूतार्थ- इति । सद्-अर्थ-विषयत्वेनप्रमाणस्य बलवत्त्वात् । तत्त्व-पक्षपातौ हि धियां स्वभाव इति । अत्रोदाहरणम् आह—तत्र प्रमाणेनैत्य् आदिना ।
विपर्यय-वृत्तेर् अतिहेयत्व-ख्यापनायाह—सेयम् इति । पञ्च-पर्वा या अविद्या, संसारानर्थ-बीजं सा । इयम् एव मिथ्या-ज्ञान-रूपः वृत्तिर् एव, एतद्-विशेष एवेति यावत् । अत इयम् अवश्यं निरोद्धव्येति भावः ।
पर्वाणि गणयति—अविद्यास्मिता- इति । क्लेशाः क्लेशाख्याः, क्लेशदत्वाद् इति भावः । रागादीनां मिथ्या-ज्ञानत्वाभावेऽप्य् अविद्ययानुगतत्वाद् अविद्या-पर्वत्वं विपर्ययत्वं च, यथाङ्कुरस्य बीज-पर्वत्वं बीजत्वं चेति बोध्यम् ।
नन्व् अविद्या विपर्ययो मोह इति पर्यायाः, एवं च सति मोह-वृत्त्योर् अभेदात् कथं शान्त-घोर-मूढत्वं वृत्तीनाम् इतिसिद्धान्तो घटेतेति चेत् ? न, धर्म-धर्म्य-भेदेनैवात्र वृत्तीनां विपर्ययादि-रूप-विभाग-करणात् ।
वस्तुतस् तु वृत्तयो विपरयादिमत्य एवेत्य् अत्यन्त-हेयत्व-प्रतिपादनायान्वर्थ-संज्ञा-पञ्चकं क्लेशानाम् आह—एत एवैति । स्व-संज्ञाभिः स्वानुरूप-संज्ञाभिः । तथा च विष्णु-पुराणं—
तमो मोहो महा-मोहस् तामिस्रो ह्य् अन्ध-संज्ञितः ।
अविद्या पञ्च-पर्वैषा प्रादुर्भूता महात्मनः ॥[वि.पु. १.५.५] इति ।
एतेषाम् एव च प्राधान्येनावान्तर-विभागः सर्व-भूत-कारिकायाम् उक्तः—
भेदस् तमोऽष्ट-विधो मोहस्य च दश-विध्हो महा-मोहः ।
तामिस्रोऽष्टादशधा तथाभवत्य् अन्ध-तामिस्रः ॥[] इति ।
अव्यक्त-महद्-अहङ्कार-पञ्च-तन्मात्रेष्व् अनात्मस्व् अष्टस्व् आत्म-बुद्धिर् अविद्या अष्ट-विधं तमः, ज्ञानावरकत्वात् । एतास्व् एव देहाद्-आत्म-बुद्धीनाम् अन्तर्-भावा देहादीनाम् एतद् अष्टक-कार्यत्वात् । शुक्ति-रजतादि-विपर्याणां तु संसाराहेतुतया नात्र गणना, विपर्ययाद् इष्यते बन्ध इतिपूर्व-कारिकया बन्ध-हेतु-विपर्ययस्यैवप्रकृतत्वाद् इति । मोहादिष्व् अप्य् एवं बोध्यम् । अष्टस्व् अणिमाद्य्-ऐश्वर्येष्व् अनात्मस्व् आत्मीय-बुद्धिर् अस्मिता, स्वत्वास्मितयोः पर्यायत्वात् । सैव चाष्ट-विषयकतयाष्ट-विधो मोहो मुख्यत उच्यते । शेषं पूर्ववत् ।
तथा दृष्टानुश्रविक-भेदेन दशसु शब्दादि-विषयेषु रागो दशविधो महा-मोहः । शेषं पूर्ववत् ।
तथैश्वर्याष्टकं विषय-दशकं च न नङ्क्ष्यतीति यस् त्रासः, सोऽष्टादशधाभिनिवेशोऽन्ध-तामिस्रः । शेषं पूर्ववत् ।
एत इति । अविद्यादय इत्य् अर्थः ॥८॥
—o)0(o—
(१.९)
शब्द-ज्ञानानुपाती वस्तु-शून्यो विकल्पः ॥९॥
स न प्रमाणोपारोही, न विपर्ययोपारोही च । वस्तु-शून्यत्वेऽपिशब्द-ज्ञान-माहात्म्य-निबन्धनो व्यवहारो दृश्यते । तद् यथा—चैतन्यं पुरुषस्य स्वरूपम् इति । यदा चितिर् एव पुरुषस् तदा किम् अत्र केन व्यपदिश्यते ? भवति च व्यपदेशे वृत्तिः, यथा चैत्रस्य गौर् इति । तथा प्रतिषिद्ध-वस्तु-धर्मा निष्क्रियः पुरुषः, तिष्ठति बाणः, स्थास्यति, स्थित इति गति-निवृत्तौ धात्व्-अर्थ-मात्रं गम्यते । तथानुत्पत्ति-धर्मा पुरुष इति उत्पत्ति-धर्मस्याभाव-मात्रम् अवगम्यते, न पुरुषान्वयी धर्मः । तस्माद् विकल्पितः स धर्मः,तेन चास्ति व्यवहार इति ॥९॥
तत्त्व-वैशारदी : शब्द-ज्ञानानुपाती वस्तु-शून्यो विकल्पः ॥ ननु शब्द-ज्ञानानुत्पाती चेद् आगम-प्रमाणान्तर्गतो विकल्पः प्रसज्यते । निर्वस्तुकत्वे वा विपर्ययः स्याद् इत्य् अत आह—स नैति ।
न प्रमाण-विपर्ययान्तर्गतः । कस्मात् ? यतो वस्तु-शून्यत्वेऽपिइतिप्रमाणान्तर्गतिं निषेधति । शब्द-ज्ञान-माहात्म्य-निबन्धन इति विपर्ययान्तर्गतिम् ।
एतद् उक्तं भवति—क्वचिद् अभेदे भदेम् आरोपयति, क्वचित् पुनर् भिन्नानाम् अभेदम् । ततो भेदस्याबेधस्य च वस्तुतोऽभावात् तद्-आभासो विकल्पो न प्रमाणम् । नापि विपर्ययः, ववहाराविसंवादाद् इति ।
शास्त्र-प्रसिद्धम् उदाहरणम्—तद् यथाइति । किं विशेष्यम् ?केन व्यपदिश्यते ? नाभेदे विशेष्य-विशेषण-भावः, न हि गवा गौर् विशेष्यते, किं तु भिन्नेन । तद् इदम् आह—भवति च व्यपदेशे वृत्तिः । व्यपदेश-व्यपदेश्ययोर् भावो व्यपदेशः, विशेषण-विशेष्य-भाव इति यावत् । तस्मिन्वृत्तिर् वाक्यस्य , यथा चैत्रस्य गौरिति ।
शास्त्रीयम् एवोदाहरणान्तरं समुच्चिनोति—तथा इति । प्रतिषिद्धो वस्तुनःपृथिव्य्-आदेर् धर्मः परिस्पन्दो यस्य स तथोक्तः । कोऽसौ ? निष्क्रियः पुरुषः । न खलु सर्व-भूतीये राद्धान्तेऽभावो नाम कश्चिद् अस्ति वस्तु-धर्मो येन पुरुषो विशेष्येत्य् अर्थः । क्वचित् पाठः प्रतिषिद्धा वस्तु-धर्मा इति ।
तस्य थार्थः—प्रतिषेध-व्याप्ताः प्रतिषिद्धाः । न वस्तु-धर्माणां तद्-व्याप्यता, भावाभावयोर् असम्बन्धात्, अथ च तथा प्रतीतिर् इति । लौकिकम् उदाहरणम् आह—तिष्ठति बाणःिति। यथा हि पचति, भिनत्तीत्य् अत्र पूर्वापरी-भूतः कर्म-क्षण-प्रचय एक-फलावच्छिन्नः प्रतीयत एवं तिष्टतीत्य् अत्रापि । पूर्वापरीभावम् एवाह—स्थास्यति इति ।
ननु भवतु पाकवत् पूर्वापरी-भूतयावस्थान-क्रियया बाणाद् भिन्नया बाणस्य व्यपदेश इत्य् अत आह—गति-निवृत्तौधात्व्-अर्थ-मात्रं गम्यते । गति-निवृत्तिर् एव तावत्-कल्पिता, तस्या अपि भाव-रूपत्वं, तत्रापि पूर्वापरी-भाव इत्य् अहो कल्पना-परम्परेत्य् अर्थः । अभावः कल्पितो भाव इव चानुगत इव च सर्व-पुरुषेषु गम्यते, न पुनः पुरुष-व्यतिरिक्तो धर्मः कश्चिद् इत्य् उदाहरणान्तरम् आह—तथानुत्पत्ति-धर्माइति ।
प्रमाण-विपर्याभ्याम् अन्या न विकल्प-वृत्तिर् इति वादिनो बहवः प्रतिपेदिरे । तत्-प्रतिबोधनाय उदाहरण-प्रपञ्च इति मन्तव्यम् ॥९॥
योग-वार्तिकम् :शब्द-ज्ञानानुपाती वस्तु-शून्यो विकल्पः ॥ शब्द-ज्ञानानुपाती वस्तु-शून्यः प्रत्ययो विकल्प इत्य् अर्थः । शब्दश् च शाब्द-ज्ञानं च, ते अनुपातिना यस्य स तथा । तथा च तद्-उभय-जनकः सर्वदैव बाधाबाध-कालाविशेषेणेत्य्-आद्य् अविशेषणार्थः ।
ननु विकल्पस्य सवस्तुकत्वे प्रमाणेऽन्तर्-भावः । निर्वस्तुकत्वे तु विपर्ययेऽन्तर्भावस् तृतीय-प्रकारासम्भवाद् इत्य् आशङ्कां परिहरन्न् एव विशेषणयोर् व्यावर्त्यम् आह—स नेति । उपारोहोऽन्तर्-भावः प्रमाण-कोट्य्-अनन्तर्भावः हेतुः—वस्तु-शून्यत्वेऽपि इति । विपर्यय-कोट्य्-अनन्तर्-भावे च हेतुः—शब्द-ज्ञान- इति । माहात्म्य-याथार्थ्यम् । तथा च यथा च यथार्थ-शब्देन यथा-ज्ञानेन च यादृशो व्यवहारो भवति शब्द-ज्ञान-रूपस् तादृश एव व्यवहारो विकल्पाद् अपि दृश्यते विवेकिनाम् अपीत्य् अर्थः । विपर्ययस् तु नैवं, बाधोत्तरम् इदं रजतम् इतिशब्द-प्रत्यययोर् अभावाद् इति । एतेन विपर्य-लक्षणे शब्द-ज्ञानानुपातित्वं विशेषणं देयम् इति भावः ।
विकल्पस्योदाहरणम् आह—तद् यथाइत्य् आदिना । किं विशेष्यं, केन विशेषणेन व्यपदिश्यते ? अत्यन्ताभेदान् नास्त्य् अत्र विकल्प-ज्ञाने विशेषण-विशेष्य-भाव-रूपोऽर्थ इत्य् अर्थः । वस्तु-शून्यत्वम् उपपाद्य शब्द-ज्ञानानुपातित्वम् उपपादयति—भवति च इति ।चैत्रस्य गौर् इति यथार्थ-शब्दवद् अत्रापि विशेष्य-विशेषण-भाव-व्यपदेशे सति तथा वृत्तिर् बोधो विवेकिनाम् अपि भवति चेत्य् अर्थः ।
अन्यान्य् अप्य् उदाहरणान्य् आह—तथाइत्य् आदिना । शास्त्रैःप्रतिषिद्धा वस्तु-भूताः सुखादयो धर्मा यत्रेति प्रतिषिद्ध-वस्तु-धर्मा पुरुषः । इयं वृत्तिर् एकम् उदाहरणम् । अभावस्याधिकरण-मात्र-रूपत्वेनाधाधेय-भाव-विरहाद् इति । निष्क्रियः पुरुषः इत्य् अन्यद् उदाहरणम् ।
लौकिकम् अप्य् उदाहरणं—तिष्ठति इति । तिष्ठति बाणः, स्थास्यति, स्थित इति गति-निवृत्तौगति-निवृत्ति-विषयक-विकल्पे वर्तमानत्वादि-विशिष्टं स्था-धात्व्-अर्थ-मात्रं पारमार्थिकतया प्रतीयते कर्तृत्वं कर्तृत्वस्य वर्तमानादिकं च, प्रत्ययथार्थ-त्रयस् तु विकल्पित इत्य् अर्थः । ब्ऽ’मे गति-निवृत्त्य्-अनुकूल-कृत्य-भावाद् इति ।
उदाहरणान्तरम् आह—तथानुत्पत्ति-इत्य् आदिना, व्यवहार इत्य् अन्तेन । अनुत्पत्तिर् धर्मो यस्येत्य् अनुत्पत्ति-धर्मापुरुषः। स धर्मोऽनुत्पत्ति-धर्मः । प्रमाण-विपर्ययातिरिक्तायां विकल्प-वृत्तौ बहु-वादि-विप्रतिपत्तेस् तन्-निरासाय बहून्य् उदाहरणानि । एवं खपुष्प-शशशृङ्ग-प्रत्यया अपि विकल्प-मध्ये प्रवेशनीयाः । खपुष्पं नास्तीति प्रत्ययानुरोधेन तादृश-प्रत्यय-सिद्धेः । विकल्प-प्रत्ययास् तु वैशेषिकैर् आहार्य५३-ज्ञान-विरोधतयैष्टव्या एव । विशेषस् तु तैर् मिथ्या-ज्ञान-मध्ये प्रवेश्यन्ते, अस्माभिस् तु स-विकल्प-निर्विकल्प-रूपाभ्यांश्रुति-सिद्ध-योग-विभागार्थं पृथङ् निर्दिश्यन्त इति॥९॥
—o)0(o—
(१.१०)
अभाव-प्रत्ययालम्बना वृत्तिर् निद्रा ॥
सा च५४ सम्प्रबोधे प्रत्यवमर्शात् प्रत्यय-विशेषः । कथम् ? सुखम् अहम् अस्वाप्सम्, प्रसन्नं मे मनः प्रज्ञां मे विशारदीकरोति । दुःखम् अहम् अस्वाप्सम्, स्त्यानं मे मनो भ्रमत्य् अनवस्थितम् । गाढं मूढोऽहम् अस्वाप्सम् । गुरूणि मे गात्राणि, क्लान्तं मे चित्तम् । अलसं मुषितम् इव तिष्ठतीति । स खल्व् अयं प्रबुद्धस्य प्रत्यवमर्शो न स्याद् असति प्रत्ययानुभवे । तदाश्रिताः स्मृतयश् च तद्-विषया न स्युः । तस्मात् प्रत्यय-विशेषो निद्रा । सा च समाधाव् इतर-प्रत्ययवन् निरोद्धव्येति ॥१०॥
तत्त्व-वैशारदी : अभाव-प्रत्ययालम्बना वृत्तिर् निद्रा ॥ अधिकृतं हि वृत्ति-पदम् अनुवादकम् । प्रमाण-विपर्यय-विकल्प-स्मृतीनां वृत्तित्वं प्रति परीक्षकाणाविप्रतिपत्तेः । अतस् तद् अनूद्यते विशेष-विधानाय । निद्रायास् तु वृत्तित्वे परीक्षकाणाम् अस्ति विप्रतिपत्तिर् इति वृत्तित्वं विधेयम् । न च प्रकृतम् अनुवादकं विधानाय कल्पत इति पुनर् वृत्ति-ग्रहणम् । जाग्रत्-स्वप्न-वृत्तीनाम् अभावः, तस्य प्रत्ययः कारणं बुद्धि-सत्त्वाच्छादकं तमः, तद् एवालम्बनं विषयो यस्यास् तथोक्ता वृत्तिर् निद्रा । बुद्धि-सत्त्वे हि त्रि-गुणे यदा सत्त्व-रजसी अभिभूय समस्त-करणावरकम् आविरस्ति तमस् तदा बुद्धेर् विषयाकार-पारिणामाभावाद् उद्भूततमो-मयीं बुद्धिम् अवबुध्यमानः पुरुषः सुषुप्तोऽन्तःसंज्ञम् इत्य् उच्यते ।
कस्मात् पुनर् निरुद्ध-कैवल्ययोर् इव वृत्त्य्-अभाव एव न निर्देत्य् अत आह—सा च सम्प्रबोधे प्रत्यवमर्शात् सोपपत्तिकात् स्मरणात् प्रत्यय-विशेषः । कथम् ? यदा हि सत्त्व-सचिवं तम आविरस्ति तदेदृशः प्रत्यवमर्शः सुप्तोत्थितस्य भवति—सुखम् अहम् अस्वाप्सं प्रसन्नं मे मनः प्रज्ञां मे विशारदीकरोति स्वच्छीकरोतीति । यदा तु रजः-सचिवं तम आविरस्ति तदेदृशः प्रत्यवमर्श इत्य् आह—दुःखम् अहम् अस्वाप्सम्स्त्यानम् अकर्मण्यं मे मनः । कस्मात् ? यतो भ्रमत्य् अनवस्थितम् । नितान्ताभिभूत-रजः-सत्त्वे तमः-समुल्लासे स्वापे प्रबुद्धस्य प्रत्यवमर्शम् आह—गाढं मूढोऽहम् अस्वाप्सम्, गुरूणि मे गात्राणि, क्लान्तं मे चित्तम् अलसं मुषितम् इव तिष्ठतीति ।
साध्य-व्यतिरेके हेतु-व्यतिरेकम् आह—स खल्व् अयम् इति । प्रबुद्धस्य प्रबुद्ध-मात्रस्य बोध-काले । प्रत्ययानुभवे वृत्त्य्-अभाव-कारणानुभवे तद्-आश्रिताः बोध-जन्याः । तद्-विषया वृत्त्य-अभाव-कारण-विषया इत्य् अर्थः ।
ननु प्रमाणादयो व्युत्थान-चित्ताधिकरणा निरुध्यन्तं समाधि-प्रतिपक्षत्वात् । निद्रायास् त्व् एकाग्र-वृत्ति-तुल्यायाः कथं समाधि-प्रतिपक्षतेत्य् अत आह—सा च समाधाव् इति । एकाग्र-तुल्यापि तामसत्वेन निद्रा स-बीज-निर्बीज-समाधि-प्रतिपक्षेति सापि निरोद्धव्येत्य् अर्थः ॥१०॥
योग-वार्तिकम् : अभाव-प्रत्ययालम्बना वृत्तिर् निद्रा ॥ निद्राया वृत्तित्व-स्फुटीकरणाय पुनर् वृत्ति-ग्रहणम् । जाग्रत्-स्वप्न-वृत्तीनाम् अभावस्य प्रत्ययः, प्रतिसङ्क्रम-स्थानं कारणम् इति यावत्, तच् च चित्त-सत्त्वाच्छादकं तमो-द्रव्यम् अन्धकारादिवत् । तद् एवालम्बनं विषयो यस्या, सातथातादृशी वृत्तिर् इत्य् अर्थः । बुद्धेर् हि त्रिगुणतया यदा सत्त्व-रजसी अभिभूय समस्त-करणावरकं तम आविर्भवति, तदा मलिनस्य चित्त-सत्त्वस्य तम-आकारैर् एव वृत्तिः, स्वपिमीत्य् आकारा जायते । स्वापश् चात्र जाग्रत्-स्वप्न-वृत्त्य्-अभावः । तां च निद्राख्यां वृत्तिम् अवबुध्यमानः पुरुषः सुषुप्त-स्थानोऽन्तः-प्रज्ञ इतिश्रुतिभिर् उच्यतेइति । न च चित्तेन चित्त-ग्रहणे कर्म-कर्तृ-विरोधः, वृत्त्या चित्तस्य ग्रहणेन कर्म-कर्तृओर् भेदात् । न चैवम् एकया वृत्त्या वृत्त्य्-अन्तरं ग्रहण-सम्भवे पुरुष-कल्पना-वैयर्थ्यम्, नियमेन वृत्ति-गोचर-वृत्ति-कल्पनेऽनवस्थायाः सूत्रेणवक्ष्यमाणत्वाद् इति ।
ननु निरोधे कैवल्यम् अलयादिष्व् इव वृत्त्य्-अभाव एव सर्वस्यां सुषुप्तौ कथं न स्वीक्रियते ? न तु तद् द्वितीयम् अस्ति, ततोऽन्यद् विभक्तं यत् पश्येद् इति सौषुप्त-श्रुताव् अपि तदानीं ज्ञानाभावस्य इवावगमाद् इत्य् आशङ्क्याह—सा तु सम्प्रबोधैति । सा तु निद्रा प्रत्यय-विशेष एव, जागरे स्मरणाद् इत्य् अर्थः । अत एव—
त्रिषु धामसु यद् भोग्यं भोक्ता भोगश् च यद् भवेत्
इत्य्-आदि-श्रुतयः सुषुप्त-स्थानेऽपि भोग्यम् अस्तीत्य् आहुः, न । चैवं श्रुत्योर् विरोध इति वाच्यम् । अर्ध-समग्र-भेदेन सुषुप्तेर् द्वैविध्यात्, मुग्धेऽर्ध-सम्पत्तिः[परिशेषात्][वे.सू.३.२.१०] इति सुषुप्ति-प्रकरणस्थ-वेदान्त-सूत्रात् । अन्यथाश्रुत्योर् विरोधस्यापरिहार्यत्वाच् च कदाचिद् गाढ-तमसा चित्त-सत्त्वस्य तमो-गोचर-वृत्ताव् अप्य् असामर्थ्यं च सम्भवत्य् एवेति ।
यत् त्व् अधुनिका वेदान्ति-ब्रुवा आहुः—सुषुप्तौ तमः साक्षिमास्यम् एव न तत्र वृत्तिर् अस्तीति, तन् न । वक्ष्यमाण-स्मरणानुपपत्तेः । साक्षिण्य् अपरिणामिनि संस्कार-स्मृत्योर् अनभ्युपगमात् । यच् च तद् एकदेशी सुषुप्तावज्ञानाख्य-प्रकृतेर् एव वृत्तिम् आह—न तु चित्तस्य । तद् अपि हेयम् । एवं सति जाग्रत्-स्वप्नयोर् अपि तस्या एव वृत्ति-सम्भवे चित्त-कल्पना-वैयर्थ्याद् इति । तस्माज् जाग्रत्-स्वप्नयोर् इव सुषुप्तेऽपि चित्तस्यैव वृत्तिः—जाग्रत्-स्वप्नः सुषुप्तं च गुणतो बुद्धि-वृत्तयः इतिस्मृतिभ्यश् च ।
तथा चित्तत्वेनैव वृत्ति-सामान्ये थे लाघवाच् चेति । स्मरणाकारं पृच्छति—कथमिति । यस्या सत्त्व-सचिवं तम आविर्भवति, तस्याः सात्त्विक्या निद्राया उत्थितस्य स्मरणाकारम् आह—सुखमिति । प्रसन्नं निर्मलं मनः स्वस्मिन् जायमानां प्रज्ञांयथार्थ-वृत्तिं विशारदीकरोति सूक्ष्मार्थ-प्रतिबिम्बोद्ग्राहिणीं करोतीत्य् अर्थः । विशारदां करोतीति पाठस् तु साधुः ।
यस्यां रजः-सचिवं तम आविर्भवति, तस्या राजस्या निद्राया उत्थितस्य स्मरणाकारम् आह—गाढमिति । अलम् अत्यैर् अपहृतम् इव तिष्ठतीत्य् अर्थः । अलमिति पाठे तु स्त्यानता चित्तस्यातिचाञ्चल्येन कर्माक्षमता । आलस्य ं तु तमो-धर्म-गुरुत्वेन कर्माक्षमता कर्मण्य् अनिच्छा वेति भेदः ।
ननु भवतु प्रत्यवमर्शः, तथापिकथं सुषुप्तौ प्रत्यय-सिद्धिः ? तत्राह—स खल्विति । प्रत्ययानुभवे सूत्रोक्तस्याभाव-प्रत्ययस्यानुभवे सति सोऽयं प्रत्यवमर्शः खलु न स्याद् इत्य् अर्थः । संस्कार-सम्भवाद् इति भावः ।
प्रत्यवमर्शात् प्रत्यय-विशेषः । कथम् ? सुखम् अहम् अस्वाप्सम्, प्रसन्नं मे मनः प्रज्ञां मे विशारदीकरोति । दुःखम् अहम् अस्वाप्सम्, स्त्यानं मे मनो भ्रमत्य् अनवस्थितम् । गाढं मूढोऽहम् अस्वाप्सम् । गुरूणि मे गात्राणि, क्लान्तं मे चित्तम् । अलसं मुषितम् इव तिष्ठतीति । स खल्व् अयं प्रबुद्धस्य प्रत्यवमर्शो न स्याद् असति प्रत्ययानुभवे । तदाश्रिताः स्मृतयश् च तद्-विषया न स्युः । तस्मात् प्रत्यय-विशेषो निद्रा । सा च समाधाव् इतर-प्रत्ययवन् निरोद्धव्येति ॥१०॥
ननु वृत्तिं विनापि सुखादिवत् सुषुप्तौ स्वापस्य साक्षि-भास्यत्वम् अभ्युपगम्य तत्-स्मरणम् उपपडनीयम् इत्य् आशङ्क्याह—तद्-आश्रिताइति । तद्-विषयाः प्रत्यय-विषयिकाः स्मृतयोऽपि तद्-आश्रिताश् चित्ताश्रिता न स्युर् अन्य-दृष्टस्यान्येनास्मरणाद् इत्य् अर्थः । न च स्मरणम् अपि साक्षिण्य् एवास्त्व् इति वाच्यम् । तत्र संस्कारासम्भवात् स्मृत्य्-आख्य-परिणामासम्भवाच् चेति ।
ननु निद्रा-वृत्तिर् अपि तमस्य् एकाग्रा विषय-दुःख-शून्या चेति सा किं-अर्थं निरोद्धव्येत्य् आशङ्क्याह—सा च इति । इतर-वृत्तिवत् सुख-दुःख-मोहात्मकत्वेन समाधि-प्रतिपक्षत्वेन च निद्रापि समाधौ निरोद्धव्येत्य् अर्थः ॥१०॥
—o)0(o—
(१.११)
अनुभूत-विषयासम्प्रमोषः स्मृतिः ॥११॥
किं प्रत्ययस्य चित्तं स्मरत्य् आहोस्विद् विषयस्येति ? ग्राह्योपरक्तः प्रत्ययो ग्राह्य-ग्रहणोभयाकार-निर्भासस् तथा-जातीयकं संस्कारम् आरभते । स संस्कारः स्व-व्यञ्जकाञ्जनस् तद्-आकाराम् एव ग्राह्य-ग्रहणोभयात्मिकां स्मृतिं जनयति ।
तत्र ग्रहणाकार-पूर्वा बुद्धिः, ग्राह्याकार-पूर्वा स्मृतिः । सा च द्वयी—भावित-स्मर्तव्या चाभावित-स्मर्तव्या च । स्वप्ने भावित-स्मर्तव्या, जाग्रत्-समये त्व् अभावित-स्मर्तव्येति । सर्वाश् चैताः स्मृतयः प्रमाण-विपर्यय-विकल्प-निद्रा-स्मृतीनाम् अनुभवात् प्रभवन्ति । सर्वाश् चैता वृत्तयः सुख-दुःख-मोहात्मिकाः । सुख-दुःख-मोहाश् च क्लेशेषु व्याख्येयाः । सुखानुशयी रागः, दुःखानुशयी द्वेषः, मोहः, पुनर् अविद्येति । एताः सर्वाः वृत्तयो निरोद्धव्याः । आसां निरोधे सम्प्रज्ञातो वा समाधिर् भवत्य् असम्प्रज्ञातो वा ॥११॥
तत्त्व-वैशारदी : अनुभूत-विषयासम्प्रमोषः स्मृतिः ॥ प्रमाणादिभिर् अनुभूते विषये योऽसम्प्रमोषोऽस्तेयं, सा स्मृतिः । संस्कार-मात्रजस्य हि ज्ञानस्य संस्कार-कारणानुभवावभासितो विषय आत्मीयः, तद्-अधिक-विषय-परिग्रहस् तु सम्प्रमोषः स्तेयम् । कस्मात् ? सादृश्यात्, मुष स्तेये इत्य् अस्मात् प्रमोष-पद-व्युत्पत्तेः । एतद् उक्तं भवति—सर्वे प्रमाणादयोऽनधिगतम् अर्थं सामान्यतः प्रकारतो५५ वाधिगमयन्ति । स्मृतिः पुनर् न पूर्वानुभव-मर्यादाम् अतिक्रामति । तद्-विषया तद्-ऊन-विषया५६ वा, न तु तद्-अधिक-विषया५७ । सोऽयं वृत्त्य्-अन्तराद् विशेषः स्मृतेर् इति ।
विमृशति—किं प्रत्ययस्य इति । ग्राह्य-प्रवणत्वाद् अनुभवस्य स्वानुभवाभावात् तज्जः संस्कारो ग्रह्यम् एव स्मारयतीति प्रतिभाति । अनुभव-मात्र-जनितत्वाच् चानुभवम् एव वेति । विमृश्य्पपत्तित उभय-स्मरणम् अवधारयति ग्राह्य-प्रवणतया—ग्राह्योपरक्तः । परमार्थतस् तु ग्राह्य-ग्रहणे एवोभयं तयोर् आकारंस्वरूपं निर्भासयतिप्रकाशयति । स्व-व्यञ्जन-कारणम् अञ्जनम् आकारो यस्य स तथोक्तः । स्व-करणाकार इत्य् अर्थः । स्व-कारणाकार-व्यञ्जकम् उद्बोधकं, तेनाञ्जनं फलाभिमुखीकरणं यस्येति वेत्य् अर्थः ।
ननु यदि कारण-विचारेणबुद्धि-स्मरणयोः सारूप्यं, कस् तर्हि भेदः ? इत्य् अत आह—तत्र ग्रहण- इति । ग्रहणम् उपादानम् । न च गृहीतस्योपात्तस्योपादानं संभवति । तद्-अनेनानधिगत-बोधनं बुद्धिर् इत्य् उक्तम् । ग्रहणाकारो ग्रहण-रूपं पूर्वं प्रधानं यस्याःसा तथोक्ता । विकल्पितश् चायम् अभेदेऽपिगुण-प्रधान-भाव इति । ग्राह्याकारः पूर्वःप्रथमो यस्याः सा तथोक्ता । इदम् एव च ग्राह्याकारस्य ग्राह्य् अस्य पूर्वत्वं यद् वृत्त्य्-अन्तर-विषयी-कृतत्वम् अर्थस्य । तद् अनेन वृत्त्य्-अन्तर-विषय्कृत-गोचरा स्मृतिर् इत्य् उक्तं भवति । सोऽयम् असम्प्रमोष इति ।
नन्व् अस्ति स्मृतेर् अपि सम्प्रमोषः । दर्शयति हि पित्रादेर् अतीतस्य देश-कालान्तरानुभूतस्याननुभूत-चर-देश-कालान्तर-सम्बन्धं स्वप्न इत्य् अत आह—सा च द्वयीइति । भावितः कल्पितः स्मर्तव्यो अयति३ सा तथोक्ता । अभावितोऽकल्पितः पारमार्थिका इति यावत् । नेयं स्मृतिः, अपि तु विपर्ययः, तल्-लक्षणोपपन्नत्वात् । स्मृत्याभासतया तु स्मृतिर् उक्ता प्रमाणाभासम् इव प्रमाणम् इति भावः ।
कस्मात् पुनर् अन्ते स्मृतेर् उपन्यासः ? इत्य् अत आह—सर्वाश् चैताः स्मृतयः इति । अनुभवः प्राप्तिः । प्राप्ति-पूर्वा वृत्तिः स्मृतिस् ततः स्मृतीनाम् उपजन इत्य् अर्थः ।
ननु ये पुरुषं क्लिश्यन्ति, ते निरोद्धव्याः प्रेक्षावता । क्लेशाश् च तथा, न च वृत्तयः । तत् किम्-अर्थम् आसां निरोधः ? इत्य् अत आह—सर्वाश् चैताः । सुगमम् ॥११॥
योग-वार्तिकम् :नुभूत-विषयासम्प्रमोषः स्मृतिः ॥ भाष्यानुसारेणास्य सूत्रस्यायम् अर्थः—एवम् अनुभूतौ यौ विषयौ वृत्ति-तद्-आरूढार्थौ तयोर् असम्प्रमोषोऽस्तेयम् अनपहरणंंधर्म-धर्म-भेदात् तद्वती तद्-उभय-विषयिणीति यावत्, एवं-भूता वृत्तिः स्मृतिर् इति । अत्र प्रत्यभिज्ञादि-व्यावृत्तये संस्कार-मात्र-जन्यत्वम् एव५८स्मृति-लक्षणम् । सूत्र-कारेण तु स्मृतेः प्रायिकं स्वरूपम् एवोक्तं, तेन न प्रमुष्ट-तत्ताक-स्मरणाव्याप्तिः ।
आथवा सूत्रोक्तम् एव लक्षणम्, तच् च संस्कार-मात्र-जन्यत्वेन विशेषणीयम् । प्रमुष्ट-तत्ताकं तु संस्कार-मात्र-जन्यम् पै ज्ञानम् अनुभव-मध्ये प्रवेशनीयम्, शब्द-जन्य-पदार्थोपस्थित्य्-आदौ स्मरामीति स्फुटं व्यवहारादर्शनात् । प्रमाणोत्थादि-वृत्ति-विभाग-सूत्रे तु संस्कार-मात्र-जन्यत्व-गुणेन तादृशं ज्ञानंस्मृति-शब्द-गृहीतम् अनेन च सूत्रेण मुख्य-स्मृतिर् लक्षितेति ।
स्मृतेर् वृत्ति-तद्-अर्थोभय-विषयकत्वं सूत्रोक्तम् अवधारयितुं भाष्य-कारो विमृशति—किं प्रत्ययस्य इति। स्मृत्य्-अर्थ-धातु-योगात् कर्मणि५९षष्ठी । चित्तं किं पूर्वानुभव-रूपं प्रत्ययम् अपि स्मरति, आहो स्विद्विषय-मात्रम् इत्य् अर्थः ।
तत्रस्मृतेर् उभय-विषयकत्व-रूपम् आद्यं पक्षं सिद्धान्तयितुम् आदाव् उभय-स्मरणे कारणम् उभय-गोचर-संस्कारम् उपपादयति—ग्राह्योपरक्तः इत्य् आदिना । यतो ग्राह्योपरक्तो ज्ञान-विशेषणतया घटादिभिर् अप्य् आकारितोऽतो ग्राह्य-ग्रहणोभयाकार-निर्भासस्तद्-उभयाकारतया प्रसिद्धो यः प्रत्ययो घट जानामीत्य् अनुव्यवसायः स तथा-जातीयकंग्राह्य-ग्रहणोभयाकारम् एव संस्कारम्जनयति, समानाकारत्वेनैव लाघवाद् अनुभव-संस्कार-स्मृतीनां कार्य-कारण-भावाद् इत्य् अर्थः ।
नन्व् अत्र व्यवसाय-रूप-वृत्तेः स्व-प्रकाशत्वम् एव निर्भासान्त-विशेषणार्थं कथं नेष्यत ? इति चेत्, न, कर्म-कर्तृ-विरोधेन वृत्तैः स्व-विषयकत्वस्य सूत्र-भाष्याभ्यांचतुर्थ-पादे निराकरिष्यमाणत्वात् ।
ननु किं व्यवसायस्य संस्कार-जनकत्वम् एव नास्ति ? न, नास्ति, किं तु तत्-संस्कार-जन्यं ज्ञानं स्मृतिर् न्ब भवति, प्रमुष्ट-तत्ताकस्य पराभिमतस्य स्मरणस्यास्माभिर् व्यवहारानुसारेणानुभव-मध्य एव प्रवेशनाद् इति ।
नन्व् अस्तूभय-विषयक-संस्कारः, ततः किम् ? इत्य् अत आह—स संस्कारैति । स चोभय-विषय-संस्कारो यदा स्वाभिव्यञ्जकेन कालादिनाभिव्यक्तो भवति, तदा तद्-आकाराम् स्व-समानाकारम् एवग्राह्य-ग्रहणोभयात्मिकां तद्-उभय-विषयिणीं स्मृतिं जनयतिइत्य् अर्थः ।
अनुभूत-विषयासम्प्रमोषं सूत्रोक्तं व्याख्यायानुव्यवसाय-तज्-जन्य-स्मरणयोर् विशेषम् अप्य् आह—तत्र ग्रहण- इति । पूर्वं मुख्यं विशेष्यम् इति यावत्, तयोः प्रत्यय-स्मरणयोर् अत्यन्तं समानाकारत्वं न मन्तव्यं यतस् तत्र तयोर् मध्ये बुद्धिर् अनुव्यवय्साय-रूपा[यथोक्त-प्रत्ययो] ग्रहणाकार-विशेष्यिका भवति घटम् अहं जानामीत्य् अनुव्यवसाये ज्ञानस्य घटांशे६०विशेष्यत्वात् । स्मृतिस् तु ग्राह्याकार-विशेष्यिका भवति, स घट इत्य् एव स्मरणात् । तत्ता च पूर्व-ज्ञान-स्वरूपा, अतः स्मृतौ ज्ञानस्य ग्राह्यं विशेष्यम् इति । अयं चाकार-भेदोऽनुभव-सिद्ध इति भावः ।
स्मृतेर् अवान्तर-भेदं दर्शयति—स्वप्नैति । स्वप्न-दर्शनम् एव हि भाव्य्-अर्थ-सूचकतयाशास्त्रे सिद्धं, न तु जाग्रत्-कालीना स्मृतिर् इति ।
ननु स्वप्ने पूर्व-दृष्टत्वास्मरणात् संस्कार-मात्र-जन्यत्वाभावाच् च कथंस्मृतित्वम् ? इति चेत्, न, अंशतस् तद्-उभय-रूपत्वस्य स्वप्न-ज्ञानेष्व् अपि सत्त्वात् तादृशस्य स्वप्नांशस्य इवात्रोपन्यासाद् इति । सर्व-वृत्त्य्-अन्ते स्मृति-वृत्तेर् उपन्यासस्य बीजम् आह—सर्वा इति । अनुभवात् अनुव्यवसायात् । अनुभावाद् इति पाठे प्रभावादि इत्य् अर्थः ।
यथोक्तानां वृत्तीनां निरोध्यत्वे बीजम् आह—सर्वाश् चैताः इति । एताः सर्वाः प्रमाणादि-वृत्तयो बुद्धि-द्रव्यस्य सुवर्णस्येव प्रतिमादिवद् विषयाकारा द्रव्य-रूपाः परिणामाः सुख-दुःख-मोह-गुणका इत्य् अर्थः । बुद्धि-वृत्तिर् हि रूपादिमती भार्येव सुखादि-मती पुरुषस्य भोग्येति । अतो दुःखवत्त्वेन वृत्तयो निरोद्धव्या इत्य् उपसंहरिष्यति ।
ननु सुखवत्त्वेनोपादेयत्वम् एव कुतो न भवेत् ? इत्य् अत आह—सुख-दुःख- इति । क्लेशेषु क्लेश-व्याख्यान-सूत्रेषु व्याख्येयाः । व्याख्यानम् एवाह—सुखानुशायी रागैत्य् आदि । सुख-दुःखानुशायी सुख-दुःख-विषयकः । तथा च राग-जनकतयादुःखवत् सुखम् अपि हेयम्, मोहस् त्व् अविद्या-रूपतया शोकाद्य्-अखिल-दुःख-निदानत्वेन हेय इत्य् आशयः ।
एता इति । अतो दुःखात्मकत्वाद् एताः सर्वा निरोद्धव्या इत्य् अर्थः । प्रकरणार्थम् उपसंहरति—आसाम् इति ॥११॥
—o)0(o—
(१.१२)
अथासां निरोधे क उपायः ? इति—
अभ्यास-वैराग्याभ्यां तन्-निरोधः ॥
चित्त-नदी नामोभयतो वाहिनी । वहति कल्याणाय, वहति पापाय च । या तु कैवल्य-प्राग्-भारा विवेक-विषय-निम्ना, सा कल्याण-वहा । संसार-प्राग्-भाराविवेक-विषय-निम्ना पाप-वहा । तत्र वैराग्येण विषय-स्रोतः खिलीक्रियते, विवेक-दर्शनाभ्यासेन विवेक-स्रोत उद्घाट्यत इत्य् उभयाधीनश् चित्त-वृत्ति-निरोधः ॥१२॥
तत्त्व-वैशारदी : निरोधोपायं पृच्छति—अथेति । सूत्रेणोत्तरम् आह—अभ्यासेति । अभ्यास-वैराग्ययोर् निरोधे जनयितव्येऽवान्तर-व्यापार-भेदेन समुच्चयः, न तु विकल्प इत्य् आह—चित्त-नदीति । प्राग्-भारः प्रबन्धः । निम्नता गम्भीरता, अगाधतेति यावत् ॥१२॥
योग-वार्तिकम् :तद् एवं सामान्यतो योगस्य लक्षणंकृतम् । इदानीं तस्योपायं प्रतिपादयिष्यति सूत्रकारः । तत्र सङ्क्षेपाद् उपाय-सार-सङ्ग्राहकं सूत्रम् अवतारयति—अथासामिति ।
अभ्यास-वैराग्याभ्यां तन्-निरोधः ॥ अभ्यास-वैराग्ये व्याख्यास्येते । अभ्यास-वैराग्ययोर् अवान्तर-व्यापार-भेदेन निरोध-जनने समुच्चय एव, न विकल्पः, इत्य् आह—चित्त-नदीति । तथा नदी कदाचित् समुद्राभिमुखी वहति, कदाचिच् च तद्-वैपरीत्येन पृथिव्य्-अभिमुखी वहति, अन्यथा समुद्र-गमन-मात्रेण शुष्येद् एव । एवं चित्त-नद्य् अप्य् उभयतो वाहिनी । उभयतो वहनस्य प्रयोजनम् आह—वहतीति । कल्याणं मोक्षः, तद्-अर्थम् । पापं संसारः, तत्-फलत्वात् तत्-कारणत्वाद् वा तद्-अर्थम् । तथा चोक्तम्—
प्राग्-दृशां विमोक्षाय निबन्धाय पराग्-दृशाम् ।
अपामार्ग-लतेवायं विरुद्ध-फलदो भवः ॥िति ।
प्रवाह-द्वयं विशिष्य दर्शयति—या त्विति । प्राग्-भारा अभिमुखी, विवेक-विषयो निम्नो गमन-मार्गो यस्या इत्य् अर्थः । जलस्य हि प्रवाहाभिमुखं वर्त्म नीचं भवतीति । तत्र चित्त-नद्यां वैराग्येणविषय-मार्गगं वृत्ति-स्रोतः खिलीक्रियते अल्पीक्रियते । विवेक-दर्शनस्याभ्यासेन च विवेक-मार्गगं वृत्ति-स्रोत उद्घाट्यते बलवत् क्रियते, येन निरोधाख्ये कैवल्य-सागरे विलीयत इति । अतोऽवान्तर-व्यापार-भेदेनोभयाधीनश् चित्त-वृत्ति-निरोध इत्य् अर्थः । तद् उक्तं गीतायां—
असंशयं महा-बाहो मनो दुर्णिग्रहं चलम् ।
अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥[गीता ६.३५] इति ।
अत्र विवेक-दर्शन-मात्रस्याभ्यासः प्राधान्येनोक्तः । आगामि-सूत्रे निरोध-साधनानुष्ठान-सामान्यस्य इवाभ्यासत्वाद् इति ॥१२॥
—o)0(o—
(१.१३)
तत्र स्थितौ यत्नोऽभ्यासः ॥
चित्तस्यावृत्तिकस्य प्रशान्त-वाहिता स्थितिः । तद्-अर्थः प्रयत्नो वीर्यम् उत्साहः । तत्-सम्पिपादयिषया तत्-साधनानुष्ठानम् अभ्यासः ॥१३॥
तत्त्व-वैशारदी : तत्राभ्यासस्य स्वरूप-प्रयोजनाभ्यांलक्षणम् आह—तत्रस्थितौ यत्नोऽभ्यासः ॥ तद् व्याचष्टे—चित्तस्यावृत्तिकस्य राजस-तामस-वृत्ति-रहितस्य , प्रशान्त-वाहिता विमलता सात्त्विक-वृत्ति-वाहितैकाग्रता स्थितिः । तद्-अर्थैतिस्थिताव् इति निमित्त-सप्तमी व्याख्याता,यथा चर्मणि द्वीपिनं हन्तीति । प्रयत्नम् एव पर्यायाभ्यां विशदयति—वीर्यम् उत्साहैति । तस्येच्छा-योनिताम् आह—तत्-सम्पादयिषया । तदितिस्थितिं परामृशति । प्रयत्नस्य विषयम् आह—तत्-साधनेति । स्थिति-साधनान्य् अन्तरङ्ग-बहिरङ्गानि यम-नियमादीनि । सयित्वाधन-गोचरः कर्तृ-व्यापारो न फल-गोचर इति ॥१३॥
योग-वार्तिकम् : अत्राभ्यास-वैराग्ये क्रमाल् लक्षयति सूत्र-जातेन—तत्र स्थितौ यत्नोऽभ्यासः । तत्राभ्यास-वैराग्ययोर् मध्ये । चित्तस्येति । अवृत्तिकस्य वृत्त्य्-अन्तर-शून्यस्य न तु वृत्ति-सामान्याभाववतः, स्थित्य्-अनन्तरं सम्प्रज्ञातस्य समापत्ति-सूत्रे भाष्य-कारैर् व्याख्येयत्वात् । प्रशान्त-वाहितेति । वृत्त्य्-अन्तराभावात् प्रशान्ता हर्ष-शोकादि-तरङ्ग-रहिता, एकाग्र-वृत्ति-धारेत्य् अर्थः । शान्तिश् च तन्त्रेषूक्ता—
श्रुत्वा स्पृष्ट्वा च दृष्ट्वा च भुक्त्वा घ्रात्वा शुभाशुभम् ।
न हृष्यति ग्लायति च स शान्त इति कथ्यते॥[महोपनिषद् ४.३२] इति ।
स्थिति-शब्दार्थं व्याख्याय सप्तम्य्-अर्थं व्याचष्टे—तद्-अर्थ इति । तथा च चर्मणि द्वीपिनं हन्तीतिवद् इयं निमित्त-सप्तमीति ।
यत्न-शब्दं व्याचष्टे—प्रयत्न इति । प्रयत्नम् अपि पर्यायाभ्यां विशदयति—वीर्यम् उत्साह इति । तथाप्य् अस्पष्टं मन्वानोऽतिविशेषत आह—तत् सम्पिपादयिषयेति । तत्-सम्पादनेच्छया श्रद्धा-वीर्य-स्मृति-समाधि-प्रज्ञादीनांवक्ष्यमाणानां साधनानाम् अनुष्ठानम् अभ्यास-लक्षणंकृतम् ॥१३॥
—o)0(o—
(१.१४)
स तु दीर्घ-काल-नैरन्तर्य-सत्कारासेवितो दृढ-भूमिः ॥१४॥
दीर्घ-कालासेवितो निरन्तरासेवितः सत्कारा-सेवितः६१ । तपसा ब्रह्मचर्येण विद्यया श्रद्धया च सम्पादितः सत्कारवान् दृढ-भूमिर् भवति । व्युत्थान-संस्कारेण द्राग् इत्य् एवानभिभूत-विषय इत्य् अर्थः ॥१४॥
तत्त्व-वैशारदी : ननु व्युत्थान-संस्कारेणानादिना परिपन्थिना प्रतिबद्धोऽभ्यासः कथं स्थित्यै कल्पत इत्य् आह—स त्व् इति । सोऽयम् अभ्यासो विशेषण-त्रय-सम्पन्नः सन्दृढावस्थो न सहसा व्युत्थान-संस्कारैर् अभिभूत-स्थिति-रूप-विषयो भवति । यदि पुनर् एवं-भूतम् अप्य् अभ्यासं कृत्वोपरमेत् ततः काल-परिवासेनाभिभूयेत । तस्मान् नोपरन्तव्यम् इति भावः ॥१४॥
योग-वार्तिकम् : ननु व्युत्थान-संस्कारेणानादिना प्रतिबन्धात् कथम् अभ्यासः स्थितिं सम्पादयित्वेत्य् आकाङ्क्षायाम् आह सूत्रकारः—स त्व् इति । सत्-कारासेवित इत्य् एतद् विवृणोति—तपसेत्य् आदिना सत्कारवान् इत्य् अन्तेन । दृढ-भूमिर् इत्य् एतद् विवृणोति—व्युत्थानेति । व्युत्थान-संस्कारेण द्राग् इत्य् एव सहसानभिभूतः स्थित-रूपो विषयो यस्य स भवतीत्य् अर्थः । अभ्यासं कृत्वोपरमे च काल-क्रमाद् अभिभवो भवत्य् एवेति प्रतिपादयितुं द्राग् इत्य् एवेत्य् उक्तम् ॥१४॥
—o)0(o—
(१.१५)
दृष्टानुश्रविक-विषय-वितृष्णस्य वशीकार-संज्ञा वैराग्यम् ॥
स्त्रियोऽन्नं पानम् ऐश्वर्यम् इति दृष्ट-विषये वितृष्णस्य , स्वर्ग-वैदेह्य-प्रकृति-लयत्व-प्राप्ताव् आनुश्रविक-विषये वितृष्णस्य , ६२दिव्यादिव्य-विषय-सम्प्रयोगेऽपि चित्तस्य विषय-दोष-दर्शिनः प्रसङ्ख्यान-बलाद् अनाभोगात्मिका हेयोपादेय-शून्या वशीकार-संज्ञा वैराग्यम् ॥१५॥
तत्त्व-वैशारदी : वैराग्यम् आह—दृष्टानुश्रविक-विषय-वितृष्णस्य वशीकार-संज्ञा वैराग्यम् । चेतनाचेतनासु दृष्ट-विषयेषु वितृष्णताम् आह—स्त्रियैति । ऐश्वर्यम् आधिपत्यम् । अनुश्रवा वेदः, ततोऽधिगता आनुश्रविकाः स्वर्गादयः । तत्रापि वैतृष्ण्यम् आह—स्वर्गेति । देह-रहिता विदेहाः कारणेषु लीनाः, तेषां भावो वैदेह्यम् । अन्ये तु प्रकृतिम् एवात्मानम् अभिमन्यमानाः प्रकृत्य्-उपासकाः प्रकृतौ साधिकारायाम् एव लीनाः, तेषां भावः प्रकृति-लयत्वं, तत्-प्राप्ति-विषये, आनुश्रविक-विषये वितृष्णस्य । आनुश्रविक-विषये वितृष्णो हि स्वर्गादि-प्राप्ति-विषये वितृष्ण उच्यते ।
ननु यदि वैतृष्ण्य-मात्रं वैराग्यं हन्त विषयाप्राप्ताव् अपि तद् अस्तीति वैराग्यं स्याद् इत्य् अत आह—दिव्यादिव्येति । न वैतृष्ण्य-मात्रं वैराग्यं, अपि तु दिव्यादिव्य-विषय-सम्प्रयोगेऽपि चित्तस्यानाभोगात्मिका । ताम् एव स्पष्टयति—हेयोपादेय-शून्या । आसङ्ग-द्वेष-रहितोपेक्षाबुद्धिर् वशीकार-संज्ञा ।
कुतः पुनर् इयम् ? इत्य् अत्राह—प्रसङ्ख्यान-बलादिति । ताप-त्रय-परीतता विषयाणां दोषः, तत्-परिभावनया तत्-साक्षात्कारः प्रसङ्ख्यानं, तद्-बलाद् इत्य् अर्थः । यतमान-संज्ञा, व्यतिरेक-संज्ञा, एकेन्द्रिय-संज्ञा, वशीकार-संज्ञा चेति चतस्रः संज्ञा इत्य् आगमिनः—
रागादयः खलु कषायाश् चित्त-वर्तिनः, तैर् इन्द्रियाणि यथा-स्वंविषयेषु प्रवर्तन्ते, तन् "मा प्रवर्तिषतेन्द्रियाणि तत्-तद्-विषयेषुइति तत्-परिपाचनायारम्भः प्रयत्नः, सा यतमान-संज्ञा ।६३
तद्-आरम्भे सति केचित् कषायाः पक्वाः, पच्यन्ते, पक्ष्यन्ते च केचित् । तत्र पक्ष्यमाणेभ्यः पक्वानां व्यतिरेकेणावधारणं व्यतिरेक-संज्ञा ।
इन्द्रिय-प्रवर्तनासमर्थतया पक्वानाम् औत्सुक्य-मात्रेण मनसि व्यवस्थानम् एकेन्द्रिय-संज्ञा ।
औत्सुक्य-मात्रस्यापि निवृत्तिर् उत्थितेष्व् अपि दिव्यादिव्य-विषयेषूपेक्षा-बुद्धिः संज्ञा-त्रयात् परा वशीकार-संज्ञा ।
एतयैव च पूर्वासां चरितार्थत्वान् न ताः पृथग् उक्ता इतिसर्वम् अवदातम् ॥१५॥
योग-वार्तिकम् :भ्यासं लक्षयित्वावैराग्यं लक्षयति—दृष्टानुश्रविक-विषय-वितृष्णस्य वशीकार-संज्ञा वैराग्यम् ॥ भाव-मात्रं दोष-दर्शन-जन्यो रागाभावो वा न निरोध-हेतुर् वैराग्यं रागादि-निमित्तकारुचितो योगानुदयाद् दोष-दर्शनज-वैराग्याद् अनन्तरम् अपि विषय-सान्निध्येन चित्त-क्षोभतः सौभर्य्-आदेर् योगानिष्पत्तेश् च । अतोऽत्र वैराग्यस्य वैतृष्ण्य-मात्रं न लक्षणं, किं तु यथोक्त-वितृष्णस्य वशीकार-संज्ञेति ।
तद् एतद् व्याचष्टे—स्त्रिय इति । दृष्ट-विषय-वितृष्णस्येति । व्याख्यायानुश्रविक-विषय-वितृष्णस्येति व्याचष्टे—स्वर्गेति । स्वर्गश् च वैदेह्यं च प्रकृति-लयत्वं च तेषां प्राप्तिर् एवानुश्रवाख्य-वेदोक्तो विषयस् तत्र च वितृष्णस्येत्य् अर्थः । स्थूल-देह-विरहेऽपि लिङ्ग-शरीरेणैव येषां देवानां भोगस् ते विदेहाः, तद्-रूपता च वैदेह्यम् । ये तु सावरण-ब्रह्माण्डाद् बहिर्-आवरणे प्रकृतौ लीनाः श्लिष्टाः, लिङ्ग-देहेन सह गता इति यावत्, तेषां भावः प्रकृति-लयत्वं, न तु प्रलय एवात्रोक्तः । करणं गतस्यैव श्रुति-स्मृत्योर् भोग-श्रवणात् । अन्यथा प्राकृत-प्रलयवद् अपुरुषार्थत्वाच् च । प्रकृति-लयानां च विदेहेभ्योऽयं भेदः—विदेहाः सावरण-ब्रह्माण्डान्तर्-गता एवाल्पम् ऐश्वर्यं मलिनं च विषयं भुञ्जते, प्रकृति-लयास् तु बहिर्-गमनेन विदेहान् प्रत्य् अपीशते स्व-सङ्कल्प-मात्रेण तत्रैव निर्मल-कारण-सत्त्व-निर्मितं विषयं च भुञ्जते त ईश्वर-कोटय उच्यन्ते इति ।
षष्ठ्य्-अन्त-हेतु-गर्भ-विशेषण-पदं व्याख्याय वशीकार-संज्ञेति विशेष्य-पदं व्याचष्टे—दिव्यादिव्येति । अयम् अर्थः—आदौ विषय-सान्निध्य-रूपेऽवसरे दोषावरकाभावाद् दोष-दर्शनेन वैतृष्ण्यं भवति, विरक्तिर् दोष-दर्शनादितिस्मृतेः । तच् च त्रिविधं यतमान-संज्ञा, व्यतिरेक-संज्ञा६४, एकेन्द्रिय-संज्ञेति । एताश् च पश्चाद् व्याख्यास्यामः । एतस्माच् च त्रिविध-वैतृष्ण्याद् अभ्य् अस्य मानाद् विषय-संयोग-कालेऽपि दोष-दर्शनम् अप्रतिबद्धम् उत्पद्यते, वैराग्याद् दोष-दर्शनम् इतिस्मृत्य्-अन्तरात् ।
कुतः पुनर् अप्रतिबन्धः ? तत्रोक्तं—प्रसङ्ख्यान-बलाद् दोष-साक्षात्कारस्य बलवत्त्वाद् इति । दोष-स्मरण्त्कार-रूप-बलाभावात् तु सौभर्य्-आदेः प्राग्-विरक्तस्यापिविषय-सन्निकर्षेण दोष-दर्शनं प्रतिबध्य पुना राग उत्पादित इति । एतस्माच् च दोष-दर्शनोत्कर्षाद् विषय-संयोग-कालेऽपि या चित्तस्यानाभोगात्मिकाभोग-रहिता । एतस्य विवरणम्—हेयोपादेय-शून्या । राग-द्वेष-शून्या वशीकार-संज्ञा या वितृष्णा सा वैराग्यम् अपरम् इति शेषः । उत्तर-सूत्रे तत्-परम् इति वचनाद् अस्यापरत्वम् । तथा च राग-द्वेष-शून्यस्य विषय-साक्षात्कारस्य योग्यता वशीकार-संज्ञाख्यं वैराग्यम् इति पर्यवसितम् । तेन सर्वदैतादृश-विषय-संयोगाभावेऽपि न निरोधासम्भवः ।
तद् एवम् अनेन सूत्रेणहेतु-हेतुमद्-भाव-रूपतस् तन्त्रान्तर-सिद्धं वैराग्य-चतुष्टयम् एवोक्तं—तत्रप्रथम-भूमिका यतमान-संज्ञा वितृष्णाज्ञान-पूर्वकं वैराग्य-साधनानुष्ठानम् ।द्वितीय-भूमिका व्यतिरेक-संज्ञा । सा च जितान्य् एतानीन्द्रियाणि, एतानि च जेतव्यानीति व्यतिरेकावधारण-योग्यता । तृतीय-भूमिका चैकेन्द्रिय-संज्ञा । सा च बाह्येन्द्रिय-विषयेषु रूपादिषु रागादि-क्षये सत्य् एकस्मिन्न् एव मनसि मानापमानादि-विषयक-राग-द्वेषादि-क्षयो राग-द्वेष-ज्ञान-पूर्वक इति । चतुर्थ-भूमिका तु वशीकार-संज्ञा स्पष्टम् उक्तैवेति ॥१५॥
—o)0(o—
(१.१६)
तत्-परं पुरुष-ख्यातेर् गुण-वैतृष्ण्यम् ॥
दृष्टानुश्रविक-विषय-दोष-दर्शी विरक्तः,पुरुष-दर्शनाभ्यासात् तच्-छुद्धि-प्रविवेकाप्यायित-बुद्धिर् गुणेभ्यो व्यक्ताव्यक्त-धर्मकेभ्यो विरक्त इति । तद् द्वयं वैराग्यम् । तत्र यद् उत्तरं, तज् ज्ञान-प्रसाद-मात्रं यस्योदये प्रत्युदित-ख्यातिर् एवं मन्यते—प्राप्तं प्रापनीयं, क्षीणाः क्षेतव्याः क्लेशाः, छिन्नः श्लिष्ट-पर्वा भव-सङ्क्रमः, यस्याविच्छेदाज् जनित्वा म्रियते, मृत्वा च जायते। इति ज्ञानस्यैव पराकाष्ठा वैराग्यम् । एतस्यैव हि नान्तरीयकं कैवल्यम् इति ॥१६॥
तत्त्व-वैशारदी : अपरं वैराग्यम् उक्त्वा परम् आह—तत्-परं पुरुष-ख्यातेर् गुण-वैतृष्ण्य ॥ अपर-वैराग्यस्य परं वैराग्यं प्रति कारणत्वम् ।
तत्र च द्वारम् आदर्शयति—दृष्टानुश्रविक-विषय-दोष-दर्शी विरक्तैति । अनेनापरं वैराग्यं दर्शितम् ।पुरुष-दर्शनाभ्यासात् आगमानुमानाचार्योपदेश-समधि-गतस्य पुरुषस्य दर्शनंतस्याभ्यासः पौनःपुन्येन निषेवणम्, तस्मात् । तस्य दर्शनस्य शुद्धीरजस्-तमः-परिहाण्या सत्त्वैकतानता, तया यो गुण-पुरुषयोः प्रकर्षेण विवेकः—पुरुषः शुद्धोऽनन्तस् तद्-विपरीता गुणा इति तेनाप्यायिता बुद्धिर् यस्य योगिनः, स तथोक्तः । तद् अनेन धर्म-मेघाख्यः समाधिर् उक्तः । स तथा-भूतो योगी गुणेभ्यो व्यक्ताव्यक्त-धर्मकेभ्यः, सर्वथाविरक्तः सत्व-पुरुषान्यता-ख्याताव् अपि गुणात्मिकायांयावद् विरक्त इति । तस्माद्द्वयं वैराग्यम् ।पूर्वं हि वैराग्यं सत्त्व-समुद्रेक-विधूत-तमसि रजः-कण-कलङ्क-सम्पृक्ते चित्त-सत्त्वे । तच् च तौष्टिकानाम् अपि समानम् । ते हि तेनैव प्रकृति-लया बभूवुः । यथोक्तं—वैराग्यात् प्रकृति-लय इति ।
तत्र तयोर् द्वयोर् मध्ये यद् उत्तरंतज् ज्ञान-प्रसाद-मात्रम् । मात्र-ग्रहणेन निर्विषयतां सूचयति । तद् एव हि तादृशं चित्त-सत्त्वं रजो-लेश-मलेनाप्य् अपरामृष्टम् अस्याश्रयः, अत एव ज्ञान-प्रसाद इत्य् उच्यते । चित्त-सत्त्वं हि प्रसाद-स्वभावम् अपि रजस्-तमः-सम्पर्कान् मलिनताम् अनुभवति । वैराग्याभ्यास-विमल-वारि-धारा-धौत-समस्त-रजस्-तमो-मलं त्व् अतिप्रसन्नं ज्ञान-प्रसाद-मात्र-परिशेषं भवति ।
तस्य गुणानुपादेयत्वाय दर्शयति—यस्योदये प्रत्युदित-ख्यातिः । ख्याति-विशेषे सति वर्तमान-ख्यातिमान् इत्य् अर्थः । प्रापणीयं कैवल्यं प्राप्तम् । यथा वक्ष्यति—जीवन्न् एव विद्वान् मुक्तो भवति [४.३०, व्यासः], संस्कार-मात्रस्य च्छिन्न-मूलस्य सिद्धत्वाद् इति भावः ।
कुतः प्राप्तम् ? यतः—क्षीणाः क्षेतव्याः क्लेशा अविद्यादयः स-वासनाः । नन्व् अस्ति धर्माधर्म-समूहो भवस्य जन्म-मरण-प्रबन्धस्य सङ्क्रमः प्राणिनाम् । तत् कुतः कैवल्यम् ? इत्य् अत आह—छिन्नैति । श्लिष्टानि निःसन्धीनि पर्वानि यस्य स तथोक्तः ।धर्माधर्म-समूहस्य समूहिनः पर्वाणि तानि श्लिष्टानि । न हि जातु जन्तुर् मरण-जन्म-प्रबन्धेन त्यक्ष्यते । सोऽयं भव-सङ्क्रमः क्लेश-क्षये छिन्नः । यथा वक्ष्यति—क्लेश-मूलः कर्माशयः, सति मूले तद्-विपाकः[२.१२-१३] इति ।
ननु प्रसङ्ख्यान-परिपाकं धर्ममेघं च निरोधम् अन्तरा किं तद् अस्ति यज् ज्ञान-प्रसाद-मात्रम् इत्य् अत आह—ज्ञानस्यैव इति । धर्ममेघ-भेद एव परं वैराग्यं, नान्यत् । यथावक्ष्यति—प्रसङ्ख्यानेऽप्य् अकुसीदस्य सर्वथा विवेक-ख्यातेर् धर्म-मेघः समाधिः [४.२९] । तदा सर्वावरण-मलापेतस्य ज्ञानस्यानन्त्याज् ज्ञेयम् अल्पम् इति च । तस्माद् एतस्य हि नान्तरीयकम् अविनाभाविकैवल्यमिति ॥१६॥
योग-वार्तिकम् :पर-वैराग्यम् उक्त्वा पर-वैराग्यम् आह—तत्-परं पुरुष-ख्यातेर् गुण-वैतृष्ण्यम् ॥तद् इतिवैराग्यं परामृश्यते । तथा चात्म-द्वयान्तर-साक्षात्काराभ्यासाद् धेतो उत्पद्यमानं सकल-गुणेषु वैतृष्ण्यं परंश्रेष्ठं वैराग्यम् इत्य् अर्थः ।
पूर्व-सूत्रोक्त-वैराग्याद् अस्य भेदं दर्शयति—दृष्ट-इत्य् आदिना । पूर्व-सूत्रे विषय-दोष-दर्शनाद्विषयेष्व् एव वैराग्यम् उक्तं, न तु ज्ञाने । तदानीं ज्ञानेऽपि विनाशित्वादि-दोष-दर्शन-साम्येऽपि नालं-बुद्धि-रूपं वैराग्यं सम्भवति । अविद्या-निवृत्त्य्-आख्य-प्रयोजनवत्त्वात् । अत्र तु सूत्रे ज्ञानेनाविद्या-निवृत्त्य्-आदौ सिद्धे तेनैव दोष-दर्शनेनानात्मत्व-दृष्ट्या च ज्ञान-साधारणेष्व् अखिल-कार्य-कारणेष्व् आत्म-तृप्तस्योपेक्षेति वैराग्ययोर् भेद इति वाक्यथार्थः ।
तच्-छुद्धि- इति । पुरुष-शुद्धि-प्रविवेकश्चिति-शक्तिर् अपरिणामिनीत्य् अर्थःना दर्शितस् तेन अप्यायिता तृप्ता समाप्त-पुरुषार्था बुद्धिर्यस्येति गुणायांः । व्यक्ताव्यक्त- इति । स्थूल-सूक्ष्मे कार्ये धर्माव् आश्रिते येषु सत्त्वादि-गुणेषु तेभ्यः, तैःकार्यैः सहितेभ्यस् तेभ्य इति यावत्।
तद् उभयम्६५इति । तत् तस्माद् उभयं परस्पर-भिन्नं वैराग्यम् इत्य् अर्थः । द्वितीय-वैराग्यस्य परत्वे हेतुम् आह—तत्र यद् उत्तरम् इति । ज्ञान-प्रसाद-मात्रं वैराग्यंित्य् आगामिनान्वयः । ज्ञानं प्रसादश् च स्वयं व्याख्यास्यते ।
ननु वैतृष्ण्यं तृष्णा-विरह-रूपं वैराग्यम् सूत्रकारेणोक्तं, तद् विहाय कथं भाष्य-कारेण ज्ञान-रूपं तद् उच्यते ? इति चेत्, न, शब्द-भेदेऽपि अर्थाभेदात् । न ह्य् अभावोऽस्मन्-मतेऽतिरिक्तोऽस्ति, अधिकरणस्यावस्था-विशेषस्य इवाभावत्वात् । तथा च चित्तस्यैवतादृशी ज्ञानावस्थैव तृष्णा-विरह इति । यदि च सुषुप्त्य्-आदौ तृष्णा-विरहोऽपेक्षितस् तदा ज्ञान-प्रसाद-योग्यतैव पर-वैराग्यम् उच्यताम् । योग्यता च निर्मल-सत्त्वतेति । अपि च भवतु वैतृष्ण्यम् एव वैराग्यंतथापि ज्ञान-प्रसादेनैव वैतृष्ण्य-गतो विशेषोऽनुमीयत इति लिङ्ग-लिङ्गिनोर् अभेदोपचारात् सूत्र-भाष्ययोर् न विरोधः । विराम-प्रत्ययाभ्यास-पूर्वः [१.१८] इत्य् आगामि-सूत्रेऽपिपर-वैराग्यस्य प्रत्ययत्व-लाभाच् चेति ।
ज्ञान-प्रसादस्य लक्षणम् आह—यस्योदये इति । यस्य ज्ञान-प्रसादस्योदये सति । एतस्यैव विवरणं—प्रत्युदित-ख्यातिर्निष्पन्नात्म-ज्ञानो योगीति । प्रापनीयं ज्ञानं प्राप्तं सिद्धं, यतः क्षीणा अविद्यादयः क्षेतव्याःक्लेशाः,अतश् च क्लिष्टानि६६ निःसन्धीनि पर्वाणि यस्य च क्लिष्ट-पर्वा भव-सङ्क्रमः, देहाद् देहान्तर-संचाराख्यः संसारश् छिन्नः । पुनर् न भवितेति यावत् । यस्य संसारस्य आविच्छेदाज् जन्म-मरण-प्रवाहोऽतिदुःखदो भवतीत्य् एवं मन्यत इत्य् अन्वयः ।
ज्ञान-प्रसाद-मात्रम् इत्य् उक्तंशब्दान्तरेण विवृणोति—ज्ञानस्यैव इति । ज्ञानस्य पराकाष्ठाच विवेक-ख्याताव् अलं-प्रत्ययो दुःखात्मिकेयम् अपि शाम्यत्व् इतिरूप इत्य् अर्थः । तस्य ज्ञान-काष्ठत्वे हेतुम् आह—एतस्यैव इति । एतस्यैवयतो ज्ञान-प्रसादस्य कैवल्यम् नान्तरीयकंनियतम्, एतस्मिन्न् एव सति कैवल्यम् आवश्यकं नान्यस्मिन् ज्ञाने यम-नियमादौ वैराग्ये वा तत्-सत्त्वेऽप्य् असम्प्रज्ञातानुदयेनाशेषतः प्राचीन-कर्म-क्षयानियमतः कषाय-सम्भवतश् च मोक्षे विलम्ब-सम्भवाद् इति ॥१६॥
—o)0(o—
(१.१७)
अथोपाय-द्वयेन निरुद्ध-चित्त-वृत्तेः कथम् उच्यते सम्प्रज्ञातः समाधिः ?इति—
वितर्क-विचारानन्दास्मिता-रूपानुगमात् संप्रज्ञातः ॥
वितर्कश् चित्तस्यालम्बने स्थूल आभोगः, सूक्ष्मो विचारः, आनन्दो ह्लादः, एकात्मिका संविद् अस्मिता । तत्रप्रथमश् चतुष्टयानुगतः समाधिः स-वितर्कः । द्वितीयो वितर्क-विकलः स-विचारः । तृतीयो विचार-विकलः सानन्दः । चतुर्थस् तद्-विकलोऽस्मिता-मात्र इति । सर्व एते सालम्बनाः समाधयः ॥१७॥
तत्त्व-वैशारदी : उपायम् अभिधाय स-प्रकारोपेय-कथनाय पृच्छति—अथोपाय-द्वयेनेति । वितर्क-विचारानन्दास्मिता-रूपानुगमात् संप्रज्ञातः ॥ सम्प्रज्ञात-पूर्वकत्वाद् असम्प्रज्ञातस्य प्रथमं सम्प्रज्ञातोपवर्णनम् । सम्प्रज्ञात-सामान्यं वितर्क-विचारानन्दास्मितानांरूपैःस्वरूपैर् अनुगमात् प्रतिपत्तव्यम् ।
वितर्कं विवृणोति—चित्तस्येति । स्वरूप-साक्षात्कारवती प्रज्ञा आभोगः । स च स्थूल-विषयत्वात्स्थूलः । यथा हि प्राथमिको धानुष्कः स्थूलम् एव लक्ष्यं विध्यति, अथ सूक्ष्मं, एवं प्राथमिको योगी स्थूलम् एव पाञ्चभौतिकं चतुर्भुजादि ध्येयं साक्षात्करोति।
अथ सूक्ष्मम् इति । एवं चित्तस्यालम्बने सूक्ष्म आभोगः स्थूल-कारण-भूत-सूक्ष्म-पञ्च-तन्मात्र-लिङ्गालिङ्ग६७-विषयो विचारः ।
तद् एव ग्राह्य-विषयं वशयित्वा ग्रहण-विषयं दर्शयति—आनन्द इति । इन्द्रिये स्थूलालम्बने चित्तस्याभोगो ह्लाद आनन्दः ।
प्रकाश-शीलतयाखलु सत्त्व-प्रधानाद् अहङ्काराद् इन्द्रियाण्य् उत्पन्नानि । सत्त्वं सुखम् इति तान्य् अपि सुखानीति तस्मिन्न् आभोगो ह्लाद६८ इति ।
ग्रहीतृ-विषयं सम्प्रज्ञातम् आह—एकात्मिका संविदिति । अस्मिता-प्रभवानीन्द्रियाणि । तेनैषाम् अस्मिता सूक्ष्मं रूपम् । सा चात्मना ग्रहीत्रा सह६९बुद्धिर् एकात्मिका संवित् । तस्यां च ग्रहीतुर् अन्तर्-भावाद् भवति । ग्रहीतृ-विषयः सम्प्रज्ञात इति ।
चतुर्णाम् अपरम् अप्य् अवान्तर-विशेषम् आह—तत्रप्रथम इति । कार्यं कारणानुप्रविष्टं न कारणं कार्येण । तद् अयं स्थूल आभोगः स्थूल-सूक्ष्मेन्द्रियास्मिता-कारण-चतुष्टयानुगतो भवति । उत्तरे तु त्रि-द्व्य्-एक-कारणकास् त्रि-द्व्य्-एक-रूपा भवन्ति । असम्प्रज्ञाताद् भिनत्ति—सर्व एतैति ॥१७॥
योग-वार्तिकम् :तद् एवं समान्वयतो योगस् तत्-साधनं चोक्तम् । इदानीं विशेषतो योग-तत्-साधने वक्तव्ये, तत्रादौ योग-गतम् अवान्तरं विभागं दर्शयिष्यति सूत्र-कारः । तत्-सूत्रावताराय पृच्छति—अथोपायेति । उपाय-द्वयेन अभ्यास-वैराग्याभ्यांनिरुद्ध-राजस-तामस-वृत्तेःपुरुषस्य कथं कैः प्रकार-भेदैःसम्प्रज्ञात-योगः शास्त्रेषु कथ्यत इत्य् अर्थः । अत्र प्रत्युत्तरं सूत्रम्—वितर्क-विचारानन्दास्मिता-रूपानुगमात् संप्रज्ञातः ॥
अस्यार्थः—साक्षात्कार-विशेष-रूपैर् वितर्कादिभिर् अनुगमाद् हेतोः सम्यक् प्रज्ञावत्त्वेन योगः सम्प्रज्ञात-नामा भवति । वितर्कादि-भूमि-भेदैश् चतुर्धा विभक्त इत्य् अर्थाद् इति । अत्र रूपानुगमाद् इति पाठः प्रामादिकत्वाद् उपक्षणीयः । भाष्ये वितर्क-विकलः स-विचार इत्य्-आदि-प्रयोगेषु रूप-पदाप्रयोगाद् आद्य-सूत्रेऽपि भाष्य-कृता वितर्कानुगतो विचारानुगत इत्य्-आदेर् एव प्रयोगाच् च । यच् च तत्र पाठे वितर्कादीनांरूपैर् अनुगमाद् इति कस्य चिद् व्याख्यानं तद् अपि वैयर्थ्याद् उपक्षणीयम् ।
वितर्कादि-चतुष्टयं व्याचष्टे—वितर्कश् चित्तस्य इत्य्-आदिना । योनिजं वा विराजं वा चतुर्भुजादिकं वा स्थूलं षड्विंशति-तत्त्व-सङ्घातम् आश्रित्य प्रथमं भावना प्रवर्तते, स आलम्बनम्, अदृष्ट-जातीयेषु चैतन्य-पर्यन्तेषु विवेकेन पूर्वं चिन्तनासम्भवात् । योग-बलाद् एव हि तानि पश्चात् साक्षात् क्रियतेइति न तान्य् आलम्बनानि । तथा चैकस्मिन्न् एवालम्बने क्रमेण चतुष्-प्रकारः सम्प्रज्ञातो भवति । तत्रालम्बने विराट्-शरीरादौ प्रथमं यश् चित्तस्य स्थूलाकारत्वात्स्थूल आभोगः परिपूर्णता, स्थूलयोर् भूतेन्द्रिययोर् अदृष्टाश्रुतामताशेष-विशेष-साक्षात्कारः स वितर्कैत्य् अर्थः । विशेषेण तर्कणम् अवधारणं वितर्कः, तेनानुगतो युक्तो निरोधो वितर्कानुगत-नामा योग इति भावः । स-वितर्क-निर्वितर्कौ चास्यावान्तर-भेदौ वक्ष्यति । तत्र च वितर्क-शब्दो विपरीत-तर्कणार्थकः । शब्दार्थ-ज्ञान-विकल्पस्यैवतस्मिन् सूत्रे विकल्प-शब्दार्थावगमात् ।
सूक्ष्मो विचार इति । तत्रैवालम्बने कारणत्वादिनानुगता ये प्रकृति-महद्-अहङ्कार-पञ्च-तन्मात्र-रूपा भूतेन्द्रिययोः सूक्ष्मा अर्थास् तद्-आकारत्वात् सूक्ष्मो यश् चित्तस्याभियोगः सूक्ष्म-गताश्लेष-विशेष-साक्षात्कारः स विचार इत्य् अर्थः । विशेषेणचरणं सूक्ष्म-वस्तु-पर्यन्तम् इति विचारस् तेनानुगतो युक्तो विरोधो विचारानुगत-नामा योग इति भावः । स-विचार-निर्विचारौ चास्य विचारस्यावान्तर-भेदौ वक्ष्यति । तत्र च विचार-शब्दो मन्द-चरणार्थकस् तान्त्रिक-परिभाषा वा, तद्-भाष्ये सूक्ष्म-विषयक-समाधेः कार्याद्य्-उपरागस्यैव विचार-शब्दार्थत्वावगमात् ।
आनन्दो ह्लादैति । अत्रैवालम्बने यश् चित्तस्य विचारानुगत-भूम्य्-आरोहात् सत्त्व-प्रकर्षेण जायमाने ह्लादाख्य-सुख-विशेष आभोगः साक्षात्कारो भवति । स आनन्द-विषयकत्वाद् आनन्द इत्य् अर्थः । तेनानुगता युक्ता निरोध आनन्दानुगत-नामा योग इति भावः । तदानीं चानन्द-गोचर एवाहं सुखीति चित्त-वृत्तिर् भवति, न सूक्ष्म-वस्तुष्व् अपीति विचारानुगताद् विशेषः । तथा च गीता—
सुखम् आत्यन्तिकं यत् तद् बुद्धि-ग्राह्यम् अतीन्द्रियम् ।
वेत्ति यत्र न चैवायं स्थितश् चलति तत्त्वतः ॥
तं विद्याद् दुःख-संयोग-वियोगं योग-संज्ञितम् । [गीता ६.२१-२२]इति ।
आनन्दस्य च सानन्द-निरानन्दत्वेन भेदो नास्ति, सूत्र-भाष्ययोर् अवक्ष्यमाणत्वाद् इति । अत्र कश्चित्—ह्लादो ह्लादवान् इन्द्रिय-वर्गः । तथा चेन्द्रियाकारत्वाद् इन्द्रिय-रूपो यश् चित्तस्याभोगः साक्षात्कारः स आनन्द इत्य् अर्थं वदति । तत्र एतादृश-लक्षणायां प्रमाणादर्शनात् । इन्द्रियस्यापि स्थूलतया तत्राभोगस्यापि वितर्क-मध्य एव प्रवेशाच् च । कारणत्वम् एव सूक्ष्मत्वम् इति भाष्ये वक्ष्यमाणत्वेन केवल-विकृतित्व-रूपस्यास्थूलत्वस्येन्द्रिय-साधारण्याद् इति । किं चेन्द्रिय-गोचर-सम्प्रज्ञातस्य आनन्दानुगतत्वे सति परोक्त-रीत्या तत्रापि वृत्त्य्-उपरागानुपरागाभ्यां सानन्द-निरानन्द-रूपावान्तर-विभाग-सम्भवात् तद्-अवचनेनागामि-सूत्र-भाष्ययोर् न्यूनता स्यात् । अस्मद्-व्याख्याने चावान्तर-विभागो न सम्भवतीति न तद्-अवचनान्यूनता ।
यत् तु ग्रहीतृ-ग्रहण-ग्राह्येषु तत्-स्थ-तद्-अञ्जनता समापत्तिः [१.४१] इति सूत्रे ग्राह्यात् पृथग् इन्द्रियेषु सम्प्रज्ञातो वाक्ष्यते, तत्-प्रकारान्तरेण सम्प्रज्ञातस्याखिल-विषय-सङ्कलनार्थम् एव, न तु वितर्कानुगत-विचारानुगताभ्याम् इन्द्रिय-समापत्तेर् आनन्दानुगत-रूप-भेदम् अभिप्रेत्य, तथा तात्पर्य-ग्राहक-लिङ्गाभावाद् इति दिक् ।
एकात्मिका संविद्-अस्मिता इति । एक-शब्दोऽत्र केवल-वाची, एकात्मिका । एक एवात्मास्यां विषयत्वेनास्तीत्य् एकात्मिका । [तथा चोक्तम्—] एकालम्बने या चित्तस्य केवल-पुरुषाकारा संवित् साक्षात्कारोऽस्मीत्य् एतावन्-मात्राकारत्वाद् अस्मितेत्य् अर्थः । सा च जीवात्म-विषया परमात्म-विषया चेति द्विधा वक्ष्यते । तेनानुगतो युक्तो निरोधोऽस्मितानुगत-नामा योग इति भावः ।
अस्या अस्मिताया अपि सास्मित-निरस्मित-रूपो विभागो नास्ति, सूत्र-भाष्ययोर् अवक्ष्यमाणत्वात् । केवल-पुरुष-ज्ञानस्य निर्विकल्पक-मात्र-रूपतया द्विधत्वासम्भवाच् च । देहेन्द्रियाद्य्-उपरागे तु सविकल्पानां योगानां वितर्कानुगतादि-भूमि-त्रय एवान्तर्-भावाद् इति । अत्र चास्मिता-शब्दो विविक्त-चेतनाकारता-मात्रोपलक्षाकः, तेनोदासीन-भावेन य ईश्वर-चेतनत्व-साक्षात्कारस् तस्यापि सङ्ग्रहः । सोपाधिकेश्वर-सम्प्रज्ञातस्य च विचारानुगते प्रवेशः । एताश् च सम्प्रज्ञात-भूमयः आनन्दानुगतं विचारानुगते प्रवेश्य मोक्ष-धर्म-वाक्येनोक्ताः—
वितर्कश् च विवेकश् च विचारश् चोपजायते ।
मुनेः समादधानस्य प्रथमं योगम् आदितः ॥[१२.१८८.१५]इति ।
प्रथमं योगं सम्प्रज्ञातं समादधानस्य कुर्वतः आदितः क्रमाज् जायत इत्य् अर्थः ।
योगारम्भे मूर्त-हरिम् अमूर्तम् अथ चिन्तयेत् ।
स्थूले विनिर्जितं चित्तं ततः सूक्ष्मे शनैर् नयेत् ॥
इतिस्मृति-द्वयं चास्मिन्न् औत्सर्गिक-क्रमे प्रमाणम् इति । इदानीं संवेद्य केवलं ध्यानं न कुर्याद्रघुनन्दनैत्य्-आदि-स्मृत्य्-अनुसारेणपूर्व-पूर्व-विषयस्य परित्यागं विदधाति, तत्रतत्र प्रथमश् चतुष्टयानुगतः इत्य्-आदिना । तत्रप्रथमः स-वितर्कानुगतः समाधिश् चतुष्टयानुगतो वितर्कादि-चतुष्टयेनानुगतो भवति, तप्तायः-पिण्डवद् एकीभावेन स्थूल-साक्षात्-कारे पुरुष-पर्यन्तानांसर्वेषाम् एव भानात् । अत्र च विचारादि-त्रय-विषय-ग्राहकता-मात्रणं विचारादि-त्रयानुगतत्वं विवक्षितम्, अन्यथा साङ्कर्यापत्तेः । वितर्कानुगते समाधौ केवलात्म-पर्यन्त-साक्षात्काराभावाच् च । एवम् उत्तरेष्व् अपि बोध्यम् ।
द्वितीयैति । द्वितीयो विचारानुगतो वितर्क-विकलःवितर्क-भूमि-जयात् तत्-परित्यागेन तद्-विषय-विकलः । तृतीय इति । तृतीय आनन्दानुगतो विचार-विषयेणापि विकलः । चतुर्थ इति । चतुर्थोऽस्मिता-मात्रोऽनुगतस् तद्-विकल आनन्देनापि विकला इत्य् अतोऽस्मिता-मात्र इत्य् अर्थः ।
असम्प्रज्ञातात् सम्प्रज्ञातस्य भेदम् आह—सर्व एते इति । सालम्बनाःसाधारणा एकाग्र-वृत्ति-युक्ता इति यावत् । समाधयो योगाः, कार्य-कारणयोर् अभेदाद् इति प्राग् एव व्याख्यातम् ॥१७॥
—o)0(o—
(१.१८)
असम्प्रज्ञातः समाधिः किम्-उपायः किं-स्वभावो वा ? इति—
विराम-प्रत्ययाभ्यास-पूर्वः संस्कार-शेषोऽन्यः ॥१८॥
सर्व-वृत्ति-प्रत्ययास्त-मये संस्कार-शेषो निरोधश् चित्तस्य समाधिर् असम्प्रज्ञातः । तस्य परं वैराग्यम् उपायः । सालम्बनो ह्य् अभ्यासस् तत्-साधनाय न कल्पत इति विराम-प्रत्ययो निर्वस्तुक आलम्बनीक्रियते । स चार्थ-शून्यः । तद्-अभ्यास-पूर्व-चित्तं निरालम्बनम् अभाव-प्राप्तम् इव भवतीत्य् एष निर्बीजः समाधिर् असम्प्रज्ञातः ॥१८॥
तत्त्व-वैशारदी :क्रम-प्राप्त-सम्प्रज्ञातम् अवतारयितुं पृच्छति—अथेति । विराम७०-प्रत्ययाभ्यास-पूर्वः संस्कार-शेषोऽन्यः ॥१८॥ पूर्व-पदेनोपाय-कथनम् उत्तराभ्यां च स्वरूप-कथनम् ।
मध्यमं पदं विवृणोति—सर्व-वृत्ति- इति । प्रथमं पदं व्याचष्टे—तस्य परम् इति । विरामः वृत्तीनाम् अभावः । तस्य प्रत्ययः कारणं, तस्य अभ्यासः, तद्-अनुष्ठान-पौनःपुन्यम् ।तद् एवपूर्वं यस्य स तथोक्तः ।
अथापरं वैराग्यंनिरोध-कारणं कस्मान् न भवति ? इत्य् आह—सालम्बनोहिइति । कार्य-सरूपं युज्यते, न विरूपम् । विरूपं चापरं वैराग्यं सालम्बनं निरालम्बन-समाधिना कार्येण । तस्मान् निरालम्बनाद् एव ज्ञान-प्रसाद-मात्रात् तस्योत्पत्तिर् युक्ता ।
धर्म-मेघ-समाधिर् एव हि नितान्त-विगलित-रजस्-तमो-मलाद् बुद्धि-सत्त्वाद् उपजातस् तद्-विषयातिक्रमेण प्रवर्तमानोऽनन्तो विषयावद्य-दर्शी समस्त-विषय-परित्यागाच् च स्वरूप-प्रतिष्ठः सन् निरालम्बनः संस्कार-मात्र-शेषस्य निरालम्बनस्य समाधेः कारणम् उपपद्यते ।
सारूप्यादिति । आलम्बनी-करणम् आश्रयणम् ।भाव-प्राप्तम् इव वृत्ति-रूप-कार्याकरणान् निर्बीजः निरालम्बनः । अथवा, बीजं क्लेश-कर्माशयाः, ते निष्क्रान्ता यस्मात् स तथा ॥१८॥
योग-वार्तिकम् :क्रम-प्राप्तम् असम्प्रज्ञातम् अवतारयितुं पृच्छति—अथैति । विराम-प्रत्ययाभ्यास-पूर्वः संस्कार-शेषोऽन्यः ॥ वृत्त्यापि विरम्यताम् इति प्रत्ययो विराम-प्रत्ययः । परं वैराग्यं ज्ञानेऽप्य् अलं-बुद्धिर् ज्ञानम् अपि शाम्यत्व् इत्य् एवं-रूपा, तस्या अभ्यासात् पौनःपुन्याज् जायत इत्य् आद्य् अविशेषणार्थः । तथा चाद्य-विशेषणेनोपाय-कथनं मध्येन लक्षण-कथनम् अन्त्येन लक्ष्य-कथनम् । अन्योऽसम्प्रज्ञात इत्य् अर्थः ।
अन्त्यं विशेषण-द्वयं व्याचष्टे—सर्व-इति । समाधिर् योगः । आद्य-विशेषणस्य पर्यवसितार्थम् आह—तस्य परं वैराग्यम् उपाय इति ।
नन्व् एकाग्रता-रूपोऽभ्यासोऽप्य् अत्र साक्षात्कारणं कथं न भवति सम्प्रज्ञात इवेत्य् आकाङ्क्षायाम् आह—सालम्बत इति । पुरुष-पर्यन्तं कस्मिन्न् अप्य् आलम्बने चित्तस्य इकाग्रता-रूपोऽभ्यासो नासम्प्रज्ञातस्य साक्षात्-साधको भवति । आलम्बन-वृत्त्य्-अविरोधित्वात् । अतः पुरुष-ख्याति-पर्यन्तास्व् अखिल-वृत्तिष्व् अलं-बुद्धि-रूपो विराम-प्रत्ययः पर-वैराग्याख्य एवासम्प्रज्ञातेन साधनतयालम्बनीक्रियते आश्रीयते । स यतो निर्वस्तुको नास्ति वस्तु चिन्तनीयं यत्रेत्य् अर्थः ।
ननु तस्य निर्वस्तुकत्वं कथं तद्-आश्रयणो हेतुः ? तत्राह—स चार्थ-शून्यैति । सोऽप्य् असम्प्रज्ञातो ध्येयथार्थ-शून्यः, अतोऽखिल-ध्येय-वैराग्यम् एव तत्रहेतुर् युक्त इत्य् अर्थः । सूत्रस्य फलितार्थम् आह—तद्-अभ्यास- इति । कृत-वैराग्याभ्यासं चित्तं निरालम्बनं निर्विषयम् अभाव-प्राप्तम् इव वृत्ति-रूप-कार्य-कारणाद् मृतकवद् भवतीत्य् एषोऽवस्था-विशेष इत्य् आदेर् अयम् अर्थः ।
निर्बीजैति । संस्कार-द्वारा जन्म-बीजं ज्ञान-कर्म तच्-छून्यावस्थेत्य् अर्थः । संस्काराख्य-संसार-बीजोन्मूलक इति वार्थः ॥१८॥
—o)0(o—
(१.१९)
स खल्व् अयं द्विविधः—उपाय-प्रत्ययो भव-प्रत्ययश् च । तत्रोपाय-प्रत्ययो योगिनां भवति ।
भव-प्रत्ययो विदेह-प्रकृति-लयानाम् ॥१९॥
विदेहानां देवानां भव-प्रत्ययः । ते हि स्व-संस्कार-मात्रोपयोगेन चित्तेन कैवल्य-पदम् इवानुभवन्तः स्व-संस्कार-विपाकं तथा-जातीयकम् अतिवाहयन्ति । तथाप्रकृति-लयाः साधिकारे चेतसि प्रकृति-लीने कैवल्य-पदम् इवानुभवन्ति, यावन् न पुनर् आवर्ततेऽधिकार-वशाच् चित्तम् इति ॥१९॥
तत्त्व-वैशारदी : निरोध-समाधेर् अवान्तर-भेदं हानोपादानाङ्गम् आदर्शयति—स खल्व् अयंनिरोध-समाधि द्विविधः—उपाय-प्रत्ययोभव-प्रत्ययश् च । उपायोवक्ष्यमाणः श्रद्धादिः प्रत्ययःकारणं यस्य निरोध-समाधेः स तथोक्तः । भवन्ति जाय्यन्तेऽस्यां जन्तव इति भवोऽविद्या, भूतेन्द्रियेषु वा विकारेषु प्रकृतिषु वाव्यक्त-महद्-अहङ्कार-पञ्च-तन्मात्रेष्व् अनात्मस्व् आत्म-ख्यातिस् तौष्टिकानांवैराग्य-सम्पन्नानाम् ।
स खल्व् अयं भवः—प्रत्ययः कारणं यस्य निरोध-समाधिः स भव-प्रत्ययः । तत्र तयोर् मध्ये, उपाय-प्रत्ययो योगिनां मोक्षमाणां भवति । विशेष-विधानेन शेषस्य मुमुक्षु-सम्बन्धं निषेधति । केषां तर्हि भव-प्रत्ययः ? इत्य् अत्र सूत्रेणोत्तरम् आह—भव-प्रत्ययः विदेह-प्रकृति-लयानाम् ॥ विदेहाश् च प्रकृति-लयाश् च तेषाम् इत्य् अर्थः ।
तद् व्याचष्टे—विदेहानां देवानां भव-प्रत्ययः । भूतेन्द्रियाणाम् अन्यतमम् आत्मत्वेन प्रतिपन्नास् तद्-उपासनया तद्-वासना-वासितान्तः-करणाः पिण्ड-पातानन्तरम् इन्द्रियेषु भूतेषु वा लीनाः संस्कार-मात्रावशेष-मनसः षाट्कौशिक७१-शरीर-रहिता विदेहाः । ते हि स्व-संस्कार-मात्रोपयोगेन चित्तेन कैवल्य-पदम् इवानुभवन्तः प्राप्नुवन्तो विदेहाः । अवृत्तिकत्वं च कैवल्येन सारूप्यं, साधिकार-संस्कार-शेषता च वैरूप्यम् ।
संस्कार-मात्रोपभोगेनेति क्वचित् पाठः । तस्य थार्थः—संस्कार-मात्रम् एवोपभोगो यस्य , न तु चित्त-वृत्तिर् इत्य् अर्थः । प्राप्तावधयः स्व-संस्कार-विपाकं तथा-जातीयकम् अतिवाहयन्ति अतिक्रामन्ति, पुनर् अपि संसारे विशन्ति । तथा च वायु-प्रोक्तम्—
दश मन्वन्तराणीह तिष्ठन्तीन्द्रिय-चिन्तकाः ।
भौतिकास् तु शतं पूर्णम् ॥िति ।
तथाप्रकृति-लयाश् चाव्यक्त-महद्-अहङ्कार-पञ्च-तन्मात्रेष्व् अन्यतमम् आत्मत्वेन प्रतिपन्नास् तद्-उपासनया तद्-वासनासितान्तःकरणाः पिण्ड-पातानन्तरम् अव्यक्तादीनाम् अन्यतमे लीनाः । साधिकारेऽचरितार्थे । एवं हि चरितार्थं चेतः स्याद् यदि विवेक-ख्यातिम् अपि जनयेद् अजनित-सत्त्व-पुरुषान्यता-ख्यातेस् तु चेतसोऽचरितार्थस्यास्ति साधिकारतेति ।
साधिकारे चेतसि प्रकृति-लीने कैवल्य-पदम् इवानुभवन्ति, यावन् न पुनर् आवर्ततेऽधिकार-वशाच् चित्तम् इति ।प्रकृति-साम्यम् उपगतम् अप्य् अवधिं प्राप्य पुनर् अपि प्रादुर्भवति ततो विविच्यते । यथा वर्षातिपाते मृद्-भावम् उपगतो मण्डूक-देहः पुनर् अम्भोद-वारि-धारावसेकान् मण्डूक-देह-भावम् अनुभवतीति । तथा च वायु-प्रोक्तं—
सहस्रं त्व् आभिमानिकाः ।
बौद्धा७२ दश सहस्राणि तिष्ठन्ति विगत-ज्वराः ।
पूर्णं शत-सहस्रं तु तिष्ठन्त्य् अव्यक्त-चिन्तकाः ।
पुरुषं निर्गुणं प्राप्य काल-सङ्ख्या न विद्यते ॥ इति ।
तद् अस्य पुनर्-भव-प्राप्ति-हेतुतया हेयत्वं सिद्धम् ॥१९॥
योग-वार्तिकम् :सम्प्रज्ञातस्यापि निमित्त-भेदाद् द्वैविध्यं सूत्राभ्यांसूत्र्को वक्ष्यति, तद् एव द्वैविध्यं युक्ति-सिद्धेन पूर्वाचार्योक्त-क्रमेण दर्शयति तयोः सूत्रयोरवतारणाय—स खल्व् अयं द्विविधः इति ।सोऽयम् असम्प्रज्ञातः, आगामि-सूत्रेऽस्य प्रज्ञा-पूर्वकत्व-दर्शनात् । उपाय-प्रत्ययोवक्ष्यमाण-श्रद्धाद्य्-उपाय-कारणको योगिनाम् इह लोके भवति, इह लोके योग-भ्रष्टानां च देवता-विशेषतापन्नानां देव-लोके भव-प्रत्ययो जन्म-मात्र-कारणक इति क्रमः । तत्रोपाय-प्रत्ययंविस्तरेण वदिष्यन्सूत्र-कारः सूची-कटाह—न्यायेनादौ भव-प्रत्ययं वदिष्यतीति सूत्र-भाष्ययोः क्रम-भेदो न दोषायेति मन्तव्यम् ।
उत्पत्ति-क्रमानुसारेण सौत्रं क्रमम् उल्लङ्घ्य पूरयित्वा सूत्रम् उत्थापयति—तत्रैति । तत्रोपाय-प्रत्ययो योगिनां प्रकृष्ट-योगानांभवति, स च पश्चाद् वक्ष्यत इति शेषः ।
भव-प्रत्ययो विदेह-प्रकृति-लयानाम् ॥ भवो जन्म तद् एव प्रत्यय-कारणं यस्येति विग्रहः । विदेह-प्रकृति-लयानाम् इति विभज्य व्याचष्टे—विदेहानाम् इति । शरीर-नैरपेक्ष्येण७३बुद्धि-वृत्तिमन्तो विदेहा इति विभूति-पादे[] स्पष्टीभविष्यति, ते च महद्-आदयो देवाः, तेषां साधनानुष्ठानं विनैवासम्प्रज्ञात-योगो जन्म-मात्र-निमित्तको भवति, योनि-साद्गुण्येनौत्पत्तिक-ज्ञानात् । ते हि दैननिद्न-प्रलये कदाचिच् च सर्ग-कालेऽपि स्व-संस्कार-मात्रोपगतेन चित्तेन संस्कार-शेषेणनिरोधावस्थेन चित्तेन, कीर्तन-पदम् इव प्राप्नुवन्तो व्युत्थान-काले च स्व-संस्कारस्य देव-भाव-प्रापक-संस्कारस्य विपाकं फलम् ऐश्वर्य-भोगं प्रारब्ध-कर्म-यन्त्रिता अतिवाहयन्ति अतिक्रामन्ति, ततो मुच्यन्त इति शेषः ।
तथा प्रकृति-लयाःिति ।ीश्वरोपासनया प्रकृति-देवतोपासनया वा ये ब्रह्माण्डं सावरणं त्यक्त्वा लिङ्ग-शरीरेणसह प्रकृत्य्-आवरणो गताः, तेऽत्र प्रकृति-लीनाः । तेऽपि चासमाप्त-कार्ये चेतसिस्वेच्छयैव प्रकृति-लीने संस्कार-शेषे सत्य-सम्प्रज्ञात-योगे कैवल्य-पदम् इव प्राप्नुवन्ति यावद् अधिकार-शेष-वशात् चित्तं पुनर् व्युत्थितं न भवति, तस्यापिभव-प्रत्यय इति शेषः७४ । अधिकार-समाप्तौ च तेऽपि मुच्यन्त इत्य् आशयः । केचित् तु भवत्य् अस्याम् इति भवोऽविद्या, तथा चेदं सूत्रम् इन्द्रियादि-प्रकृत् आर्रय् चिन्तकानाम् अविद्या-कारणकम् असम्प्रज्ञातं वदतीत्य् आहुः, तन् न—पर-वैराग्यस्य सम्प्रज्ञात-हेतुतयातस्याविदुष्य-सम्भवात् । यच् च वायु-पुराणे—
दश मन्वन्तराणीह तिष्ठन्तीन्द्रिय-चिन्तकाः ।
भौतिकास् तु शतं पूर्णम्सहस्रं त्व् आभिमानिकाः ।
बौद्धा दश सहस्राणि तिष्ठन्ति विगत-ज्वराः ।
पूर्णं शत-सहस्रं तु तिष्ठन्त्य् अव्यक्त-चिन्तकाः ।
पुरुषं निर्गुणं प्राप्य काल-सङ्ख्या न विद्यते ॥
इति वाक्यं तद् इन्द्रियाद्य्-उपासकानाम् अनुत्पन्न-ज्ञानानां कर्म-देवानां तत्-तत्-पदावस्थिति-कालम् एव परिच्छिनत्ति, न तु तेषाम् असम्प्रज्ञात-सिद्धान्ति-कालान् देहाद्य्-अभावेन वृत्त्य्-अभाव-कालान् वा, इन्द्रियादि-चिन्ता-मात्रेणासम्प्रज्ञातानुपपत्तेः, वृत्त्य्-अभावस्य कादाचित्कस्य प्रलय-मरणादि-तुल्यत्वेनापुरुषार्थत्वाच् च, इन्द्रियाद्य्-उपासकानाम् इन्द्रियाद्य्-अभिमानि-सूर्यादि-पद-प्राप्तेर् एवान्यत्रफलवत्त्व-चरणारविन्दाच् चेति ॥१९॥
—o)0(o—
(१.२०)
श्रद्धा-वीर्य-स्मृति-समाधि-प्रज्ञा-पूर्वक इतरेषाम् ॥२०॥
उपाय-प्रत्ययो योगिनांभवति । श्रद्धा चेतसः सम्प्रसादः । सा हि जननीव कल्याणी योगिनं पाति । तस्य हि श्रद्दधानस्य विवेकार्थिनो वीर्यम् उपजायते । समुपजात-वीर्यस्य स्मृतिर् उपतिष्ठते । स्मृत्य्-उपस्थाने चित्तम् अनाकुलं समाधीयते । समाहित-चित्तस्य प्रज्ञा-विवेक उपावर्तते । येन यथावद् वस्तु जानन्ति । तद्-अभ्यासात् तद्-विषयाच् च वैराग्याद् असम्प्रज्ञातः समाधिर् भवति ॥२०॥
तत्त्व-वैशारदी :योगिनां तु सिद्धान्तेर् उपाय-क्रमम् आह—श्रद्धा-वीर्य-स्मृति-समाधि-प्रज्ञा-पूर्वक इतरेषाम् ॥
नन्व् इन्द्रियादि-चिन्तका अपि श्रद्धावन्त एवेत्य् अत आह—श्रद्धा चेतसः सम्प्रसादः । स चागमानुमानाचार्योपदेश-सिद्धान्ति-गत-तत्त्व-विषयो भवति हि चेतसः सम्प्रसादोऽभिरुचि-रतीच्छा श्रद्धा । नेन्द्रियादिष्व् आत्माभिमानिनाम् अभिरुचिर् असम्प्रसादो हि सः,व्यामोह-मूलत्वाद् इत्य् अर्थः ।
कुतोऽसाव् एव श्रद्धा ? इत्य् अत आह—सा हि जननीव कल्याणी योगिनं पाति,विमार्ग-पात-जन्मनोऽनर्थात् । सोऽयम् इच्छा-विशेष इष्यमाण-विषयं प्रयत्नं प्रसूत इत्य् आह—तस्य हि श्रद्दधानस्य । तस्य विवरणं—विवेकार्थिनो वीर्यम् उपजायते ।
स्मृतिर् ध्यानम् । अनाकुलं विक्षिप्तम् । समाधीयतेयोगाङ्ग-सिद्धान्ति-युक्तं भवति । यम-नियमादिनान्तरीयक-समाध्य्-उपन्यासेन च यम-नियमादयोऽपिसूचिताः । तद् एवम् अखिल-योगाङ्ग-सम्पन्नस्य सम्प्रज्ञातो जायत इत्य् आह—समाहित-चित्तस्य इति । प्रज्ञायाविवेकः प्रकर्ष उपजायते ।
सम्प्रज्ञात-पूर्वम् असम्प्रज्ञातोत्पादम् आह—तद्-अभ्यासात्तत्रैव तत्-तद्-भूमि-प्राप्तौ तद्-विषयाच् च वैराग्याद् असम्प्रज्ञातः सिद्धान्तिर् भवति । स हि कैवल्य-हेतुः । सत्त्व-पुरुषान्यता-ख्याति-पूर्वो हि निरोधश् चित्तम् अखिल-कार्य-करणेन चरितार्थम् अधिकाराद् अवसादयति ॥२०॥
योग-वार्तिकम् :ुपाय-प्रत्ययम् असम्प्रज्ञातं तद्-अधिकारिणं चाह—श्रद्धा-वीर्य-स्मृति-समाधि-प्रज्ञा-पूर्वक इतरेषाम् ॥ितरेषां विदेह-प्रकृति-लयातिरिक्तानां देवानां वा मनुष्यादीनां वा न जन्म-मात्राद् असम्प्रज्ञातो भवति, किं तु श्रद्धादिभ्यः, प्रज्ञा-पर्यन्तेभ्य इत्य् अर्थः ।
संक्षेपतः सूत्र-वाक्यथार्थम् आह—उपाय-इति । उपायः श्रद्धादिः । श्रद्धादीन् पञ्च क्रमेण व्याचष्टे—श्रद्धा चेतसःित्य् आदिना । सम्प्रसादःप्रीतिः । योगो मे भूयाद् इत्य् अभिलाषः । सा च समर्था मातेव योगिनं पाति प्रतिबन्ध-सहस्राणि तिरस्कृत्य रक्षति । यथा योग-भङ्गो न भवतीत्य् अर्थः ।
श्रद्धातश् च वीर्यं भवतीत्य् आह—तस्य हिइति । श्रद्दधानस्य विवेकेजीवेश्वरान्यतर-पुरुष-तत्त्व-ज्ञाने योग-साधनेऽर्थितया वीर्यं प्रसन्नो धारण-रूपो भवतीत्य् अर्थः ।
समुपजात- इति । वीर्यतश् च स्मृतिर्ध्यानम् । ततश् च सिद्धान्तिर् योगस्य चरमाङ्गं भवति । तद् एवं श्रद्धा-मूलकाद् धारणाद्य्-अन्तरङ्ग-त्रयात् सम्प्रज्ञात-योगे जायमाने प्रज्ञा जीव-ब्रह्मान्यतरात्म-तत्त्व-साक्षात्कार-रूपो विवेक उपावर्ततेउपजायते, येन विवेकेन यथार्थंवस्तु जानन्ति । विषयीकरोति विद्वान् इत्य् अर्थः ।
तद् एवं श्रद्धादीन् व्याख्याय तत्-पूर्वकत्वम् असम्प्रज्ञातस्य व्याचष्टे—तद्-अभ्यासातिति । प्रज्ञाया अभ्यासात् तत्-सिद्धया तद्-विषयकादपि विराम-प्रत्यय-रूपाद् अलं-बुद्ध्य्-आख्याद् वैराग्याद् असम्प्रज्ञातोभवतिइति सूत्रार्थः ॥२०॥
—o)0(o—
(१.२१)
ते खलु नव-योगिनो मृदु-मध्याधिमात्रोपायो भवन्ति । तद् यथा—मृदूपायो मध्योपायोऽधिमात्रोपाय७५इति । तत्र मृदूपायस् त्रिविधः—मृदु-संवेगो मध्य-संवेगस् तीव्र-संवेग इति । तथा मध्योपायस् तथाधिमात्रोपाय इति । तत्राधिमात्रोपायानां—
तीव्र-संवेगानाम् आसन्नः७६ ॥२१॥
समाधि-लाभः समाधि-फलं च भवतीति ॥२१॥
तत्त्व-वैशारदी : ननु श्रद्धादयश् चेद् योगोपायास् तर्हि सर्वेषाम् अविषयेण समाधि-तत्-फले स्याताम् ।दृश्यते तु कस्यचित् सिद्धिः कस्यचिद् असिद्धिः कस्यचिच् चिरेण सिद्धिः कस्यचिच् चिरतरेण कस्यचित् क्षिप्रम् ? इत्य् अत आह—ते खलु नव योगिनैति । उपायः श्रद्धादयो मृदु-मध्याधिमात्राः प्राग्-भवीय-संस्कारादृष्ट-वशाद् येषां ते तथोक्ताः । संवेगो वैराग्यं तस्यापि मृदु-मध्य-तीव्रता प्राग्भवीय-वासनादृष्ट-वशाद् एवेति तेषु यादृशां क्षेपीयसी सिद्धिस् तान् दर्शयति सूत्रेण—तीव्र-संवेगानाम् आसन्नैति सूत्रम् । शेषं भाष्यम् । समाधेः सम्प्रज्ञातस्य फलम् असम्प्रज्ञातः, तस्यापि कैवल्यम् ॥२१॥
योग-वार्तिकम् :ासन्न-समाधि-सिद्धौ त्व् अतिशयेनोपायानुष्ठानं हेतुर् इति सूत्र-द्वयेन प्रतिपादनीयम्, तयोर् आदि-सूत्रम् अवतारयितुम् उपक्रमते—ते खल्व् इति । उपायः श्रद्धादिः । तस्य मृदुत्वम् अल्पता, मध्यत्वं प्रसिद्धम् एव, अधिमात्रत्वम् अतिप्रमाणता अतिशयितत्वम् इति यावत् । संवेगश् चोपायानुष्ठाने शैघ्र्यम् । कश्चित् तु संवेगो वैराग्यम् इति व्याचष्टे, तन् न । योगिनो नवधात्वानुपपत्तेः । उपाय-कार्यतया वैराग्योपाय-मृदुत्वादिकं विहाय स्वातन्त्र्येण मृदुत्वाद्य्-असम्भवात्, संवेग-शब्दस्य वैराग्य-वाचकत्वाभावाच् चेति । तथा मध्येति । मृदु-संवेगत्वादि-रूपैस् त्रिविध इत्य् अर्थः । तथाधिमात्रोपाय इति । अधिक-प्रमाणकोपायोऽपि मृदु-संवेगत्वादि-रूपैस् त्रिविध इत्य् अर्थः ।
तत्र तेषु नवसु मध्ये सूत्रेण सहान्वयः ।
अधिमात्रोपायानां तीव्र-संवेगानाम् आसन्नः । नव-योगि-मध्ये चरमाणाम् एवासन्नोऽसम्प्रज्ञातो भवतीत्य् अर्थः । समाधि-लाभः तन्-निष्पत्तिः । न केवलं समाधिर् आसन्नोऽपि तु मोक्षोऽपीत्य् आह—समाधि-फलं चेति । विनिष्पन्न-समाधिस् तु मुक्तिं तत्रैव जन्मनि [वि.पु. ६.७.३५] इत्य्-आदि-विष्णु-पुराणादिभ्य इति भावः । अत्र कश्चिद् अधिमात्रोपायानाम् इति सूत्र-मध्ये न प्रवेशयति, तन् न तथा सति संवेगस्य त्रिधा विभागेनैव सूत्रोपपत्तौ भाष्ये नवधा विभाग-प्रदर्शन-वैयर्थ्यापत्तेः ॥२१॥
—o)0(o—
(१.२२)
मृदु-मध्याधिमात्रत्वात् ततोऽपि विशेषः ॥२२॥
मृदु-तीव्रो मध्य-तीव्रोऽधिमात्र-तीव्र इति । ततोऽपिविशेषः, तद्-विशेषान् मृदु-तीव्र-संवेगस्यासन्नः, ततो मध्य-तीव्र-संवेगस्यासन्नतरः, तस्माद् अधिमात्र-तीव्र-संवेगस्याधिमात्रोपायस्याप्य् आसन्नतमः समाधि-लाभः समाधि-फलं चेति ॥२२॥
तत्त्व-वैशारदी : मृदु-मधाधिमात्रत्वात् ततोऽपिविशेषः ॥ निगद-व्याख्यातेन भाष्येण व्याख्यातम् इति ॥२२॥
योग-वार्तिकम् :मृदु-मधाधिमात्रत्वात् ततोऽपिविशेषः ॥ पूर्व-सूत्रोक्त-विशिष्टेऽन्तर्-गतस्य तीव्रत्वस्य मृदु-मध्याधिमात्रत्वेन त्रैविध्यात् ततोऽप्य् आसन्नाद् अपि विशेषस् तरतम-रूपो भवति पूर्व-सूत्रोक्तस्य नवम-योगिन इत्य् अर्थः । एतद् एव व्याचष्टे—ततोऽपिविशेष इत्य् अन्तेन भाष्येण । फलितार्थम् आह—तद्-विशेषाद् अपीति । तस्माद् विशेषाद् अपि नवमस्य त्रिविधस्यान्तिमानाम् आसन्नतम इत्य् अर्थः । अपि-शब्द आगामि-सूत्र-स्थ-साधनापेक्षया । अत्र तीव्राधिमात्र-संवेगस्येत्य् अपपाठः । अधिमात्र-तीव्र इत्य्-उक्त-भाष्यतोऽधिमात्र-तीव्र-संवेगस्येत्य् एव पाठाद् इति ॥२२॥
—o)0(o—
(१.२३)
किम् एतस्माद् एवासन्नतमः समाधिर् भवत्य् अथास्य लाभे भवत्य् अन्योऽपि कश्चिद् उपायः, न वेति ?
ईश्वर-प्रणिधानाद् वा ॥
प्रणिधानाद् भक्ति-विशेषाद् आवर्जित ईश्वरस् तम् अनुगृह्णात्य् अभिध्यान-मात्रेण । तद्-अभिध्यान-मात्राद् अपि योगिन आसन्नतमः समाधि-लाभः समाधि-फलं च भवतीति ॥२३॥
तत्त्व-वैशारदी : सूत्रान्तरं पातयितुं विमृशति—किम् एतस्माद् एवेति । न वा-शब्दः संशय-निवर्तकः । ईश्वर-प्रणिधानाद् वा । व्याचष्टे—प्रणिधानाद् भक्ति-विशेषान् मानसाद् वाचिकात् कायिकाद् वावर्जितोऽभिमुखीकृतस् तम् अनुगृह्णाति । अभिध्यानम् अनागतार्थेच्छा—इदम् अस्याभिमतम् अस्त्व् इति । तन्-मात्रेण न व्यापारान्तरेण । शेषं सुगमम् ॥२३॥
योग-वार्तिकम् : सूत्रान्तरम् अवतारयितुं पृच्छति—किम् एतस्माद् एवेति । किम् एतस्माद् एव तीर्व्र-संवेगस्याधि-मात्रत्वाद् एवासन्नतमः समाधिर् भवतीत्य्-आदिर् अर्थः । न वेति वैकल्पिकत्वार्थः । विकल्पम् एव सिद्धान्तयति सूत्रेण—ईश्वर-प्रणिधानाद् वा ।
विशेष इत्य् अनेनान्वयः । प्रणिधानम् अत्र न द्वितीय-पाद-वक्ष्यमाणं, किं त्व् असंप्रज्ञात-कारणीभूत-समाधिर् भावना-विशेष एव, तज्-जपस् तद्-अर्थ-भावनं [१.२८] इत्य् आगामि-सूत्रेणैवात्म-प्रणिधानस्यात्र लक्षणीयत्वात् ।
तथा च, सूत्र-द्वयस्यायम् अर्थः—प्रज्ञान्तो यो योगोपायो जीवात्म-परमात्म-साधारण-विषयक उक्तः,तत्रजीवात्म-प्रज्ञान्तस्योपायस्याधिमात्र-तीव्र-संवेगत्वे सत्य् एवासन्नतमोऽसम्प्रज्ञातो भवति, परमात्म-प्रज्ञान्तस्योपायस्य त्व् अधिमात्र-तीव्र-संवेगत्वाभावेऽप्य् आसन्नतमोऽसम्प्रज्ञातो भवतीति । एवं च सति, मुख्य-कल्पानुकल्प-भेदेन परमात्म-जीवात्म-प्रज्ञयोर् योग-मोक्ष-हेतुत्वं बोध्यम् । उभय-प्रज्ञयोर् एव देहाद्य्-अभिमान-निवर्तकत्वेन पर-वैराग्य-द्वारकत्व-साम्येऽप्य् अतितीव्राभ्यासं विनापि परमात्म-प्रज्ञाया आसन्नतम-योग-हेतुतया श्रैष्ठ्यात् । ततः प्रत्यक्-चेतनाधिगमोऽप्य् उत्तराया आर्रयार्रय्प्रेत्यागामि-सूत्रेणाधिक-द्वार-कीर्तनात् । अत एवश्रुति-स्मृतीतिहासादिषु प्रायशो ब्रह्म-ज्ञानम् एव मोक्ष-हेतुतयोपदिश्यते, कदाचिद् एव तु स्वातन्त्र्येणजीव-तत्त्व-ज्ञानम् इति । यदि चोभयोर् एव तुल्यवद् विकल्पः स्यात्, तर्हि
तम् एव विदित्वातिमृत्युम् एति
नान्यः पन्था विद्यतेऽयनाय [श्वे. उ.३.८],
तम् एवैकं जानथ आत्मानम् अन्या
वाचो विमुञ्चथामृतस्य इष सेतुः ॥[मु.उ. २.२.५]
इत्य्-आदि-श्रुतयो व्याकुप्येरन् । तथा—
स ईश्वरो व्यष्टि-समष्टि-रूपो
व्यक्त-स्वरूपोऽप्रकट-स्वरूपः ।
सर्वेश्वरः सर्व-विशेष-वेत्ता
समस्त-शक्तिः परमेश्वरात्मा ॥
प्रज्ञायते येन उदस्त-दोषं
शुद्धं परं निर्मलम् एक-रूपम् ।
सन्दृश्यते वाप्य् अवगम्यते वा
तज्-ज्ञान-प्रज्ञानम् अतोऽन्यद् उक्तम् ॥[वि.पु. ६.५.८६-८७]
इत्य्-आदि-स्मृतयोऽपि व्याकुप्येरन् । मुख्य-कल्पत्वे तु राज-मार्ग एव मम इति वाक्यवत् तादृश-वाक्यानां मुख्य-साधन-परतयोपपत्तिर् इति दिक् ।
ननु जीव-प्रज्ञासन्नतम-योगोत्पादनार्थम् अभ्यासस्यातितीव्रत्वम् अपेक्षते, ईश्वर-प्रज्ञा तु नापेक्षत इत्य् अत्र का युक्तिर् इत्य् आकाङ्क्षायाम् आह—प्राणिधानाद् इत्य्-आदि । ब्रह्मात्मना चिन्तन-रूपतया प्रेम-लक्षण-भक्ति-रूपाद् वक्ष्यमाणात् प्रणिधानाद् आवर्जितोऽभिमुखीकृत ईश्वरस् तं ध्यायिनम् अभिध्यान-मात्रेण अस्य समाधि-मोक्षावासन्नतमो भवेत्गाम् इतीच्छा-मात्रेण रोगाशक्त्य्-आदिभिर् उपायानुष्ठानम् आन्द्येऽप्य् अनुगृह्णात्य् आनुकूल्यं भक्तेः । अतस् तस्माद् अभिध्यानाद् अपि प्रणिधान-निष्पत्त्य्-आदि-द्वारा योगिनाम् आसन्नतमौ समाधि-मोक्षौ भवत इत्य् अर्थः ॥२३॥
—o)0(o—
(१.२४)
अथ प्रधान-पुरुष-व्यतिरिक्तः कोऽयम् ईश्वरो नामेति ?
क्लेश-कर्म-विपाकाशयैर् अपरामृष्टः पुरुष-विशेष ईश्वरः ॥
अविद्यादयः क्लेशाः । कुशलाकुशलानि कर्माणि । तत्-फलं विपाकः । तद्-अनुगुणा वासना आशयः । ते च मनसि वर्तमानाः पुरुषे व्यपदिश्यन्ते । स हि तत्-फलस्य भोक्तेति । यथा जयः पराजयो वा योद्धृषु वर्तमानः स्वामिनि व्यपदिश्यते । यो ह्य् अनेन भोगेनापरामृष्टः स पुरुष-विशेष ईश्वरः ।
कैवल्यं प्राप्तास् तर्हि सन्ति च बहवः केवलिनः । ते हि त्रीणि बन्धनानि छित्त्वा कैवल्यं प्राप्ताः । ईश्वरस्य च तत्-सम्बन्धो न भूतो न भावी । यथा मुक्तस्य पूर्वा बन्ध-कोटिः प्रज्ञायते, नैवम् ईश्वरस्य । यथा वा,प्रकृति-लीनस्योत्तरा बन्ध-कोटिः सम्भाव्यते, नैवम् ईश्वरस्य । स तु सदैव मुक्तः सदैवेश्वर इति ।
योऽसौ प्रकृष्ट-सत्त्वोपादानाद् ईश्वरस्य शाश्वतिक उत्कर्षः, स किं स-निमित्त आहोस्विन् निर्निमित्त इति ? तस्य शास्त्रं निमित्तम् ।
शास्त्रं पुनः किं-निमित्तम् ? प्रकृष्ट-सत्त्व-निमित्तम् ।
एतयोः शास्त्रोत्कर्षयोर् ईश्वर-सत्त्वे वर्तमानयोर् अनादिः सम्बन्धः । एतस्माद् एतद् भवति सदैवेश्वरः सदैव मुक्त इति । तच् च तस्य इश्वर्यं साम्यातिशय-विनिर्मुक्तम् । न तावद् ऐश्वर्यान्तरेण तद् अतिशय्यते । यद् एवातिशयि स्यात्,तद् एव तत् स्यात् । तस्माद् यत्र काष्ठा-प्राप्तिर् ऐश्वर्यस्य , स ईश्वरः । न च तत्-समानम् ऐश्वर्यम् अस्ति ।
कस्मात् ? द्वयोस् तुल्ययोर् एकस्मिन् युगपत् कामितेऽर्थे नवम् इदम् अस्तु,पुराणम् इदम् अस्त्व् इत्य् एकस्य ७७ सिद्धाव् इतरस्य प्राकाम्य-विधाताद् ऊनत्वं प्रसक्तम् । द्वयोश् च तुल्ययोर् युगपत् कामितार्थ-प्राप्तिर् नास्ति, अर्थस्य विरुद्धत्वात् । तस्माद् यस्य साम्यातिशयैर् विनिर्मुक्तम् ऐश्वर्यं स एवेश्वरः । स च पुरुष-विशेष इति॥२४॥
तत्त्व-वैशारदी :ननु चेतनाचतनाभ्याम् एव व्यूढं नान्येव विश्वम् । ईश्वरश् चेद् अचेतनस् तर्हि प्रधानं, प्रधान-विकाराणाम् अपि प्रधान-मध्य-पातात् । तथा च न तस्यावर्जनम्, अचेतनत्वात् । अथ चेतनस् तथापिचिति-शक्तेर् औदासीन्याद् असंसारितया चास्मितादि-विरहात् कुत आवर्जनं कुतश् शभिध्यानम् इत्य् आशयवान् आह—अथ प्रधान- इति । अत्र सूत्रेणोत्तरम् आह—क्लेश-कर्म-विपाकाशयैर् अपरामृष्टः पुरुष-विशेष ईश्वरः ॥
अविद्यादयः क्लेशाः । क्लिश्यन्ति खल्व् अमी पुरुषं सांसारिक-विविध-दुःख-प्रहारेणेति । कुशलाकुशलानि इतिधर्माधर्माः । तेषां च कर्मजत्वाद् उपचारात् कर्मत्वम् । विपाको जात्य्-आयुर्-भोगः । विपाकानुगुणावासनास्ता चित्त-भूमाव् आशेरत इत्य् आशयाः ।
न हि करभ-जाति-निर्वर्तकं कर्म प्राग्भवीय-करभ-भोग-भावितां भावनां न यावद् अभिव्यनक्ति तावत् करभोचिताय भोगाय कल्पते । तस्माद् भवति करभ-जात्य्-अनुभव-जन्मा भावना करभ-विपाकानुगुणेति ।
नन्व् अमी क्लेशादयो बुद्धि-धर्मा न कथञ्चिद् अपि पुरुषं परामृशन्ति । तस्मात् पुरुष-ग्रहणाद् एव तद्-अपरामर्श-सिद्धेः कृतं क्लेश-कर्मेत्य्-आदिनेत्य् अत आह—ते च मनसि वर्तमानाःसांसारिके पुरुषे व्यपदिश्यन्ते । कस्मात् ? स हि तत्-फलस्य भोक्ता चेतयितेति ।
तस्मात्पुरुषत्वाद् ईश्वरस्यापि तत्-सम्बन्धः प्राप्त इति तत्-प्रतिषेध उपपद्यत इत्य् आह—यो ह्य् अनेन बुद्धि-स्थेनापि पुरुष-मात्र-साधारणेन भोगेनापरामृष्टःस पुरुष-विशेषईश्वरः । विशिष्यत इतिविशेषः । पुरुषान्तराद् व्यवच्छिद्यते ।
विशेष-पदस्य व्यावर्त्यं दर्शयितु-कामः परिचोदना-पूर्वं परिहरति—कैवल्यं प्राप्तास् तर्हि इति । प्रकृति-लयानां प्राकृतो बन्धः । वैकारिको बन्धो विदेहानाम् । दक्षिणा-बन्धो दिव्यादिव्य-विषय-भोग-भाजाम् । तान्य् अमूनि त्रीणि बन्धनानिप्रकृति-भावना-संस्कृत-मनसो हि देह-पातानन्तरम् एव प्रकृति-लयताम् आपन्ना इति तेषां पूर्वाबन्ध-कोटिः प्रज्ञायते, तेनोत्तर-कोटि-विधान-मात्रम् । इह तु पूर्वापर-कोटि-निषेध इति । संक्षिप्य विशेषं दर्शयति—स तु सदैव मुक्तः सदैवेश्वरैति । ज्ञान-क्रिया-शक्ति-सम्पद् ऐश्वर्यम् ।
अत्र पृच्छति—योऽसौ इति । ज्ञान-क्रिये हि न चिच्-छक्तेर् अपरिणामिन्याः सम्भवत इति रजस्-तमो-रहित-विशुद्ध-चित्त-सत्त्वाश्रये वक्तव्ये । न चेश्वरस्य सदा-मुक्तस्याविद्या-प्रभव-चित्त-सत्त्वम् उक्तर्षेण सह स्व-स्वामि-भावः सम्बन्धः सम्भवतीत्य् अत उक्तम्—प्रकृष्ट-सत्त्वोपादानाद् इति। न ईश्वरस्य पृथग्-जनस्येवाविद्या-निबन्धनश् चित्त-सत्त्वेन स्व-स्वामि-भावः, किं तु ताप-त्रय-परीतान् प्रेत्य-भाव-महार्णवाज् जन्तून् उद्धरिष्यामि ज्ञान-धर्मोपदेशेन, न च ज्ञान-क्रिया-सामर्थ्यातिशय-सम्पत्तिम् अन्तरेण तद्-उपदेशः । न चेयम् अपहत-रजस्-तमो-मल-विशुद्ध-सत्त्वोपादानं विनेत्य् आलोच्य सत्त्व-प्रकर्षम् उपादत्ते भगवान् अपरामृष्टोऽप्य् अविद्यया । अविद्याभिमानी चाविद्यायास् तत्त्वम् अविद्वान् भवति, न पुनर् अविद्याम् अविद्यात्वेन सेवम् आनः । न खलु शैलूषो रामत्वम् आरोप्य तास् ताश् चेष्टा दर्शयन् भ्रान्तो भवति । तद् इदम् आहार्यम् अस्य रूपं न तात्त्विकम् इति ।
स्याद् एतत्, उद्दिधीर्षया भगवता सत्त्वम् उपादेयं तद्-उपादानेन च तद्-उद्धिधीर्षा, अस्या अपि प्राकृतत्वात् । तथा चान्योन्य-संश्रय इत्य् अत उक्तम्—शाश्वतिकैति । भवेद् एतद् एवं यदीदं-प्रथमता सर्गस्य भवेत् । अनादौ तु संसर्ग-संहार-प्रबन्धे सर्गान्तरम् अनुपन्न-संजिहीर्षावधि-समये पूर्णे मया सत्त्व-प्रकर्षे उपादेय इति प्रणिधानं कृत्वा भगवान् जगत् सञ्जहार । तदा चेश्वर-चित्त-सत्त्वं प्रणिधान-वासना-वशात् तथैवेश्वर-चित्त-सत्त्व-भावेन परिणमते । यथा चैत्रः श्वः प्रातर् एवोत्थातव्यं मयेति प्रणिधाय सुप्तस् तदैवोत्तिष्ठते प्रणिधान-संस्कारात् । तस्माद् अनादित्वाद् ईश्वर-प्रणिधान-सत्त्वोपादानयोः शाश्वतिकत्वेन नान्योन्य-संश्रयः । न चेश्वरस्य चित्त-सत्त्वं महा-प्रलयेऽपि न प्रकृति-साम्यम् उपैतीति वाच्यम् । यस्य हि न कदाचिद् अपि प्रधान-साम्यं न तत् प्राधानिकं नापिचिति-शक्तिर् अज्ञत्वाद् इत्य् अर्थान्तरम् अप्रामाणिकम् आपद्येत । तच् चायुक्तम्, प्रकृति-पुरुष-व्यतिरेकेणार्थान्तराभावात् ।
सोऽयम् ईदृश ईश्वरस्य शाश्वतिक उत्कर्षः किं स-निमित्तः स-प्रमाणक आहो स्विन् निर्निमित्तो निष्प्रमाणकैति ? उत्तरम्—तस्य शास्त्रं निमित्तम्। श्रुति-स्मृतीतिहास-पुराणानि७८शास्त्रम् ।
चोदयति—शास्त्रं पुनः किं-निमित्तम् ?प्रत्यक्षानुमान-पूर्वं हि शास्त्रं, न चेश्वरस्य सत्त्व-प्रकर्षे कस्य चित् प्रत्यक्षम् अनुमानं वास्ति । न चेश्वर-प्रत्यक्ष-प्रभवं शास्त्रम् इति युक्तम् । कल्पयित्वापि ह्य् अयं ब्रूयाद् आत्मैश्वर्य-प्रकाशनायेति भावः । परिहरति—प्रकृष्ट-सत्त्व-निमित्तम् । अयम् अभिसन्धिः—मन्त्रायुर् वेदेषु तावद् ईश्वर-प्रणीतेषु प्रवृत्ति-सामर्थ्याद् अर्थाव्यभिचार-निश्चयात् प्रामाण्यं सिद्धम् । न चौषधि-भेदानां तत्-संयोग-विशेषाणां च मन्त्राणां च तत्-तद्-वर्णावापोद्धारेण सहस्रेणापि पुरुषायुषैर् लौकिक-प्रमाण-व्यवहारी शक्तः कर्तुम् अन्वय-व्यतिरेकौ । न चागमाद् अन्वय-व्यतिरेकौ ताभ्यां चागमस् तत्-सन्तानयोर् अनादित्वाद् इति प्रतिपादयितुं युक्तम्, महा-प्रलये तत्-सन्तानयोर् विच्छेदात् । न च तद्-भावे प्रमाणाभावः । अभिन्नं प्रधान-विकारो जगद् इति हि प्रतिपादयिष्यतिए । सदृश-परिणामस्य च विसदृश-परिणामता दृष्टा । यथा क्षीरेक्षु-रसादेर् दधि-गुडादि-रूपा । विसदृश-परिणामस्य पूर्वं सदृश-परिणामता च दृष्टा । तद् इह प्रधानेनापि महद्-अहङ्कारादि-रूप-विसदृश-परिणामेन सता भाव्यं कदाचित् सदृश-परिणामेनापि । सदृश-परिणामश् चास्य साम्यावस्था । स च महा-प्रलयः । तस्मान् मन्त्रायुर् वेद-प्रणयनात् तावद् भगवतो विगलित-रजस्-तमो-मलावरणतया परितः प्रद्योतमानं बुद्धि-सत्त्व-प्रकर्षाद् एव भवितुम् अर्हति । न च सत्त्वोत्कर्षे रजस्-तमः-प्रभ्वौ विभ्रम-विप्रलम्भौ सम्भवतः । तत् सिद्धं प्रकृष्ट-सत्त्व-निमित्तं शास्त्रम् इति ।
स्याद् एतत्, प्रकर्ष-कार्यतया प्रकर्षं बोधयच् छास्त्रं शेषवद्७९ अनुमानं भवेन् न त्व् आगम इत्य् अत आह—एतयोरिति । न कार्यत्वेन बोधयत्य् अपि त्व् अनादि-वाच्य-वाचक-भाव-सम्बन्धेन बोधयतीत्य् अर्थः । ईश्वरस्य हि बुद्धि-सत्त्वे प्रकर्षो वर्तते, शास्त्रम् अपि तद्-वाचकत्वेनतत्र वर्तत इति ।
उपसंहरति—एतस्मादीश्वरस्य सत्त्व-प्रकर्ष-वाचकाच् छास्त्रात्, एतद् भवति ज्ञायते, विशेषित्य् आह—विषयिणी लक्षणात् सदैवेश्वरः सदैव मुक्तैति । तद् एवं पुरुषान्तराद् व्यवच्छिद्येश्वरान्तराद् अपि व्यवच्छिनत्ति—तच् च तस्य इति । अतिशय-विनिर्मुक्तिम् आह—न तावदिति । कुतः ? यद् एवैति । कस्मात्सर्वातिशय-विनिर्मुक्तिम् तवैश्वर्यम् इत्य् अत आह—तस्माद् यत्रैति । अतिशय-निष्ठाम् अप्राप्तानाम् औपचारिकम् ऐश्वर्यम् इत्य् अर्थः । साम्य-विनिर्मुक्तिम् आह—न च तत्-समानम् इति । प्राकाम्यम् अविहतेच्छता । तद्-विघाताद् ऊनत्वम् । अनूनत्वे वा द्वयोर् अपि प्राकाम्य-विघातः, कार्यानुत्पत्तेः । उत्पत्तौ वा विरुद्ध-धर्म-समालिङ्गितम् एकदा कार्यम् उपलभ्येतेत्य् आशयवान् आह—द्वयोश् चेति । अविरुद्धाभिप्रायत्वे च प्रत्येकम् ईश्वरत्वे कृतम् अन्यैर् एकेनैवेशनायाः कृतत्वात् । सम्भूयकारित्वे वा न कश्चिद् ईश्वरः परिषद्वत् । नित्येशनायोगिनां च पर्यायायोगात् कल्पनागौरव-प्रसङ्गाच् चेति द्रष्टव्यम् । तस्मात् सर्वम् अवदातम् ॥२४॥
योग-वार्तिकम् :ननु प्रधान-पुरुषातिरिक्तं तत्त्वं नास्तीति त्वयाप्य् अभ्युपगम्यते, तत्र चेश्वरो न प्रधानं चेतनत्वाद्य्-अभ्युपगमात् । नापि पुरुषः, सर्वेषां पुरुषाणां चिन्-मात्र-स्वरूपत्वेनेश्वरत्वानीश्वरत्वयोः स्वतोऽसम्भवात् । न हि वैशेषिकादिवत् नित्येच्छादिमान् स्वत एवआत्मत एवएश्वरस् त्वयाप्य् अभ्युपगम्यते । औपाधिकत्वे तूपाधि-मुक्त्यापुरुषाख्य-जीवानाम् एवैश्वर्यम् अस्तु तत्-परत्वेनैव श्रुति-स्मृत्य्-उपपत्तेः । अतः प्रधान-जीवातिरिक्त ईश्वरो नास्तीति साङ्ख्याक्षेप-निरासकतयोत्तर-सूत्रम् अवतारयति—अथ प्रधान- इति । क इत्य् आक्षेपे । आथवाप्रकृति-पुरुषातिरिक्तस्येश्वरस्य किं लक्षणम् इति प्रश्नेन लक्षण-सूत्रम् उत्थापयति—अथ प्रधान- इति ।
क्लेश-कर्म-विपाकाशयैर् अपरामृष्टः पुरुष-विशेष ईश्वरः ॥पुरुष-विशेष एवेश्वरः । तथाचेश्वरस्य पुरुषेऽन्तर्भावस् तद्-उपाधेः प्रधान इति भावः । यच् चोक्तं सिद्ध-जीवम् आदायेश्वर-प्रतिपादक-श्रुति-स्मृत्योर् उपपत्तिर् इति तन्-निराकरणार्थम् अपरामृष्ट इत्य् अन्तं विशेषणम् । क्लेशाद्य्-अपरामृष्टतयाश्रुति-स्मृत-गीत ईश्वरो न सिद्ध-जीवो भवितुम् अर्हति, कादाचित्क-क्लेशादि-सम्बन्धाद् इत्य् अर्थः ।
अपरामृष्टान्तं विशेषणं व्याचष्टे—अविद्यादयः इति । अविद्यास्मिता-राग-द्वेषाभिनिवेशाःक्लेशाः [२.३] इति वक्ष्यति । कुशलाकुशल-साधनत्वात् कुशलाकुशलानिधर्माधर्माः, तयोः क्लेश-कर्मणोःफलंविपाकः । स जात्य्-आयुर्-भोगः । भोगश् चात्र विषय-सत्त्वादिभिश् चित्त-पोषणंशब्दाद्य्-आकार-वृत्तिर् वा, न तु सुखाद्य्-अनुभवः । ते च मनसि वर्तमानाः इतिवक्ष्यमाणात् । स हि तत्-फलस्य भोक्तेत्य् अनेन विपाक-फलयोः सुख-दुःखयोर् भोगस्य पुरुषे वक्ष्यमाणत्वाच् चेति । चित्त-भूमौ शेरते इत्य् आशयावासनाः, ताश् च विपाकानुगुणास् तत्-कारणानि, यतस् तत्-तच्-छरीर-साध्य-भोग-वासनाम् उद्बोध्यैव कर्मणा विपाको दीयत इति ।
ननु क्लेशाद्य्-अपरामृष्टत्वंसर्व-पुरुष-साधारणम् इत्य् आशङ्क्याह—ते च मनसीति । एकस्य इवान्तःकरणस्य वृत्ति-भेदाच् चातुर्विध्यम् इत्य् आशयेन८०पूर्वं चेतस्य् उक्ताविद्यात्र मनस्य् उक्तेति बोध्यम् । यथा चायम् अर्थः—ये चाविद्यादयो यद्यपि मनस्य् एव सन्ति न कुत्रापि पुरुषे, तथापिपुरुषे सांसारिके व्यपदिश्यन्त इति ।
व्यपदेश-बीजं च स्वामित्वापर-नामकं भोक्तृत्वम् आह—स हिइति । हि यस्मात् । स पुरुषस् तस्य क्लेशादेः फलस्य सुख-दुःखयोः स्वस्मिन् प्रतिबिमितयोर् भोक्ता भवतीत्य् अर्थः । स्वामित्व-सम्बन्धेनाधारत्वे दृष्टान्तम् आह—यथाइति । तथा च राजा जयी पुरुषो धनीत्य्-आदिवद् एव पुरुषः क्लेशादिमान् सुखी दुःखी मूढ इत्य् आदि-विद्वद्-व्यवहार इति भावः । समवाय-सम्बन्धेन पुरुषे सुखादिमत्त्व-बुद्धिर् एवाविद्येति ।
एव च सत्त्वाख्येन क्लेश-सम्पर्केण शून्यता नान्य-पुरुषेऽस्ति किं त्व् ईश्वर एवेत्य् आह—यो ह्य् अनेनैति । अनेन भोगेन क्लेशादि-फल-भोगेन इत्य् अर्थः । अत्रानेनेति विशेषणाद् ईश्वरस्य भोगोऽस्तीत्य् अवधार्यते, सर्व-विवेक-ग्रहणे सत्य् एव स्वोपाधि-सुख-साक्षिता-मात्रं चिद्-अवसानो भोग इति साङ्ख्य-सूत्रात् । तथा—
उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः ।
परमात्मेति चाप्य् उक्तो देहेऽस्मिन् पुरुषः परः ॥[गीता १३.२२]
इति गीताद्य्-उक्त-परमेश्वरे भोग उपपद्यत इति । अत एवैश्वरस्यापि भोग-प्रतिपादिका ऋतं पिबन्ताव् इतिश्रुतिः यथाश्रुतैवोपपद्यते । अनश्नन्न् अन्यो अभिचाकशीतीति [श्वे.उ. ४.६]८१श्रुतिस् तु मुखम् एव भोगं प्रतिषेधति । मुख्य-भोगश् चाभिमान-पूर्वकः सुखाद्य्-अनुभवः, लोकैस् तत्रैव भोग-व्यवहारात् । सत्त्व-पुरुषयोर् अत्यन्तासङ्कीर्णयोःप्रययाविशेषो भोग[३.३५] इत्य् आदिगामि-सूत्रेण तस्यैव लक्षयितव्यत्वात् ।
आथवाजीव-भोग्य-दुःखादि-भोक्तृत्वम् एवानश्नन्न् इति वाक्येन प्रतिषिध्यते, एक-शरीरस्थत्वेन तद्-भोगस्यैव प्रसक्तत्वाद् इतिजीवन्मुक्तस्यापीश्वर-सदृश एव भोगो दुःख-भोग-मात्रम् ईश्वराद् विलक्षणम् इति ।
अपरामृष्टत्वं परामर्ष-शून्यता, तत्र परामर्ष-शब्द-फलं प्रतिपादयितुं शङ्कते—कैवल्यम् इति। यदि क्लेशादि-शून्य ईश्वरः श्रुति-स्मृतिभ्य एष्टव्यस् तर्हि कैवल्यं ज्ञानं प्राप्ता बहवो हिरण्यगर्भादयः केवलिनः केवलानांजीवन्मुक्तानाम् अध्यक्षाः क्लेशादि-शून्याः सन्ति, त एवेश्वरतयाश्रुत्य्-अर्थाः सन्त्व् इतिपूर्व-पक्षिणो भावः । तथा च साङ्ख्य-सूत्रम्—मुक्तात्मनः प्रशंसा सिद्धस्य वाइति ।
आद्यस् तु मोक्षो ज्ञानेन द्वितीयो राग-संक्षयात् ।
कृच्छ्र-क्षयात् तृतीयस् तु व्याख्यातं मोक्ष-लक्षणम् ॥
इति पञ्चशिखाचार्य-धृत-वाक्ये च ज्ञानस्यापिकैवल्य-मोक्षादि-शब्दार्थत्वात् हिरण्यगर्भादयोऽपिकैवल्य-मुक्त्य्-आदिमन्त उच्यन्ते । केवलिन इति पाठे केवलस्यायम् इति कैवलोऽत्र द्वितीय-मोक्षो रागादि-क्लेश-शून्यतेति । परिहरति—ते हिइति । ते हि हिरण्यगर्भादयः प्राकृतिकानि बन्धनानि पूर्व-स्थितानि छित्त्वैव मुक्ताः, न तु क्लेशादि-परामर्श-शून्याः, ईश्वरस् तु सर्वदैव क्लेशात्मक-बन्धन-त्रय-शून्यतयाश्रुत्य्-आदि-सिद्ध इत्य् अर्थः । ईश्वरस्य सदा क्लेशादि-शून्यत्वे मानम्—
तत्र यः परमात्मा स नित्यं निर्गुणः स्मृतः ।
कर्मात्मापुरुषो योऽसौ मोक्ष-बन्धैः स युज्यते ॥
इत्य् आदि-वाक्य-शतानि । निर्गुणः गुणाभिमान-शून्यः । गीतायांगुणाभिमान-शून्यतयैव गुणातीतत्व-वचनात् । परस् तु निर्गुणः प्रोक्तो ह्य् अहङ्कार-युतोऽपरः इति नारदीयादिष्व् अपि ईश्वर-जीवयोर् इच्छादि-साम्येऽपि तद्-अनभिमानाभिमानाभ्यां निर्गुण-सगुणत्व-सिद्धेश् च ।
बन्धन-त्रयं चोक्तं साङ्ख्ये—प्रकृति-लयानां प्राकृतिको बन्धः, विदेहानां वैकारिको बन्धः, दिव्यादिव्य-विषय-भाजां दक्षिणा-बन्ध इति । तत्राद्योऽष्ट-प्रकृतिष्व् अभिमान-रूपः, द्वितीयः शब्दादि-विषय-रागः, तृतीयो गृहस्थानां कर्म-दक्षिणा-दानाध्ययनादिष्व् अनुरागः । तथा चोक्तम्—
प्रकृतेर् बत बन्धेन तथा वैकारिकेण च ।
दक्षिणाभिस् तृतीयेन बद्धो जन्तुर् विवर्तते ॥िति ।
ईश्वरस्य क्षुदेश्वरेभ्यो वैलक्षण्यं बन्धापरामर्ष-रूपं विवृणोति—यथा मुक्तस्य इति । निरस्ताविद्यस्येत्य् अर्थः । प्रज्ञायते निश्चीयते सम्भाव्यत इति । प्रकृति-लीनस्याभिमान-सम्बन्धेन पश्चद्-बन्ध-सम्भावनेति भावः । सदैव मुक्तः इतिदुःख-शून्य इत्य् अर्थः । सदैवेश्वरैतिसदैवाप्रतिहतेच्छया युक्तः ।
अत्र केचित्—सदैवेश्वर ऐश्वर-शक्तिमान् इत्य् अर्थः । न हि वेदान्तिभिर् इव प्रलये योगैर् अपीश्वरस्य नित्यम् इच्छादिकम् अभ्युपगन्तुं शक्यते । प्रकृतेर् गुण-साम्य-रूपत्वाभ्युपगम-विरोधाद् इत्य् एक-देशिनः । तन् न, यतो नैवाहस् तस्य न निशा नित्यस्य परमात्मनः [वि.पु. ६.४.४९]इत्य् आदि-वाक्य-शतैर् ईश्वर-सत्त्वस्य नित्यम् एव ज्ञानेच्छादिकं यथा-श्रुत-भाष्यानुरोधाच् च विसदृश-परिणामाभाव-रूपाच् च साम्यावस्थानित्येच्छादिमन्-नित्य-सत्त्व-व्यक्ति-सत्त्वेऽप्य् उपपद्यत इति स्वाकार्य-करणम् एव च तस्य द्विपरार्धान्त लय इति । किं बहुना, आत्मा वा इदम् एक एवाग्र आसीन् नान्यत् किं चन मिषत् [ऐ.उ. १.१] इतिश्रुत्या प्राग्-लये परमात्मनोऽर्थ-द्रष्टृत्वं सिद्धम् । अत ईश्वरोपाधेर् ज्ञान-लय-क्षणा वृत्तिः प्रलयेऽप्य् अस्ति । न चोपाधि-वृत्तिं विनैश्वरस्य ज्ञातृत्वम् एष्टव्यम्, बाधकं विना दृष्टानुसार-त्यागानौचित्यात् ।
किं च, एतत् तमो वा इदम् एकम् आस तत्-परे स्यात् तत्-परेणेरितं विषयत्वं प्रयातिइत्य् आदि-श्रुतिष्व् एव परमेश्वर-प्रयत्नेनैव गुण-वैषम्यं श्रूयते । तथा—
प्रकृतिं पुरुषं चैव प्रविश्यात्मेच्छया हरिः ।
क्षोभयामास सम्प्राप्ते सर्ग-काले व्ययाव्ययौ ॥[वि.पु. १.२.२९]
इत्य् आदिना प्रकृतेर् वैषम्य-हेतुः क्षोभोऽपीश्वरेच्छात एव । स्मर्यते च—अतः साम्यावस्थायाम् अप्य् अगत्येश्वरोपाधेर् ज्ञानादि स्वीकार्यमिति । अपि च, एवं सति प्रलये स्व-संकल्पेन स्वोपाधिं स्वस्माद् वियोज्येश्वरः शेते, पूर्व-सर्गीय-सङ्कल्प-संस्काराभ्यां च सर्गादाव् उपाधिर् ईश्वरेण सह स्वयं संयुज्यत इत्य् अभ्युपेयम्, तच् चायुक्तम् । तस्य हेतुर् अविद्या इत्य् आगामि-सूत्रेणाविद्याया बुद्धि-पुरुष-संयोग-हेतुत्व-वचनेनेश्वरस्याप्य् अविद्वत्त्वापत्तेः । न चाहार्य-ज्ञान-रूपोऽविद्यया संयोगः स्यात् । सा चाविद्या मायेति च तस्याः क्लेशत्वम् इति वाच्यम् । संयोग-हेत्व्-अविद्याया विवेक-ख्याति-नाश्यत्व-बोधक-सूत्र-विरोधात् । किं च, सूत्रेण—
क्लेश-कर्म-विपाकाद्यैर् वासनाभिस् तथैव च ।
अपरामृष्टम् एवाह पुरुषं हीश्वरं श्रुतिः ॥
इति योगि-याज्ञवल्क्यादिभिश् चेश्वरोपाधौ संस्कारस्य प्रतिषिद्धित्वात् तद्-अभ्युपगमोऽपि तेषाम् अपसमाध एव । तथागामि-सूत्र-प्रतिषिद्धं कालावच्छिन्नत्वं चेशे स्यात् उपाधि-वृत्त्य्-अभावेनैव चेतनस्य कालानवच्छिन्नत्वात् इत्य् आदीन्य् अत्र दूषणानि सन्ति । तस्मात् प्रलये निरुद्धोऽप्य् उपाधिः पूर्व-सर्गीय-सङ्कल्प-वासनाभ्यां स्वयं व्युत्थितो भवतीति यच् छास्त्रं तद् दैनन्दिन-प्रलये योग-निद्रया शयानस्य स्वयंभुव उपाधि-परम् एव , न परमेश्वरोपाधि-परम् इति दिक् ।
शास्त्र-प्रामाण्य-सिद्धौ शास्त्राद् यथोक्तेश्वर-सिद्धिर् ईश्वर-सिद्धौ चैतत् प्रत्यक्ष-पूर्वकतयाशास्त्र-प्रामाण्य-सिद्धिर् इत्य् अन्योन्याश्रयं मन्वानो नास्तिक ईश्वरे प्रमाणम् अस्ति न वेति पृच्छति—योऽसौ इति । सर्व-पुरुषाणां स्वत एक-रूपतयैश्वर्यम् उपाधि-धर्म एवेति प्रतिपादयितुं प्रकृष्ट-सत्त्वोपादानाद् इत्य् उक्तं, प्रकृष्टा-सत्त्व-सम्बन्धात् तदौपाधिकः शाश्वतिकोनित्य उत्कर्षैश्वर्यम् इत्य् अर्थः । ईश्वरस्य चोपाधौ प्रमाणम्—
कार्योपाधिर् अयं जीवः कारणोपाधिर् ईश्वरःितिश्रुत्यादयः ।
तद् ऐक्षत [छा.उ. ६.२.३], सोऽकामयत [तै.उ. २.६.१], तद् आत्मानंस्वयम् अकुरुत, स एको ब्रह्मण आनन्दैतिश्रुत्य्-उक्तस्यानन्दान्तस्य ब्रह्मणि स्वतोऽनुपपत्तिश् च, साक्षी चेता केवलो निर्गुणश् च [श्वे.उ. ६.११] इत्य् आदि-श्रुतिभिर् ईश्वरस्य निर्गुणत्व-चिन्मात्रत्व-सिद्धेर् इति । सनिमितकः सप्रमाणकः ।
उत्तरं—तस्य शास्त्रं निमित्तम् इति । शास्त्रंश्रुति-स्मृतीतिहास-पुराणानि । पुनः पृच्छति—शास्त्रं पुनरिति । शास्त्रस्यैव प्रामाण्यं कुतः ? इत्य् अर्थः । ईश्वरस्योपाधिर् यत् प्रकृष्ट-तत्त्वं तत् प्रत्यक्ष-रूप-वाक्यथार्थ-ज्ञान-जन्यत्वाच् छास्त्रस्य प्रामाण्यम् इत्य् अर्थः ।
नन्व् एवम् अन्योन्याश्रयः, शास्त्र-प्रामाण्ये सिद्धे प्रकृष्ट-सत्त्व-सिद्धिः, तत्-सिद्धौ च तन्-मूलकतयाशास्त्र-प्रामाण्य-सिद्धिर् इति चेन्, न, मन्त्रायुर्-वेद-प्रामाण्यतः ईश्वर-सिद्धेः प्राग् एव शास्त्रस्य प्रामाण्य-सिद्धेः । प्रकृष्ट-सत्त्वस्य च शास्त्र-प्रामाण्य-निर्वाहकता-मात्रम् अत्रोक्तम् इति । तथा च न्याय-सूत्रं—मन्त्रायुर्वेद-प्रामाण्यवच् च तत्-प्रामाण्यम् इति ।
एतयोःिति। विषयत्वेन समवाय-सम्बन्धेन च परमेश्वर-सत्त्वे८२ वर्तमानयोर् एतयोः शास्त्रोत्कर्षयोर् अनादिर् निमित्त-नैमित्तिक-भावः सम्बन्धः, शास्त्रं नैमित्तिकं सत्त्वोत्कर्षश् च निमित्तं कारणत्वाद् इत्य् अर्थः ।
ततः किम् इत्य् आकाङ्क्षायाम् आह—तस्माद् इति। सदैवेश्वरःप्रलयेऽपि ज्ञानेच्छा-कृतिमान्, सदैव मुक्तोऽनादि-काले क्लेशादि-मुक्तश् चेत्य् अर्थः । ईश्वरस्याद्वितीयत्वम् अपि प्रतिपादयति—तच् च इति । नास्ति साम्यम् अतिशयश् च यस्मात्तादृशम् इत्य् अर्थः । अतिशय-निर्मुक्तौहेतुम् आह—न तावदिति । उक्ते हेतुम् आह—यद् एवैति । यस्माद् धेतोर् यद् एवातिशयि निरतिशयं तद् एव तद् ऐश्वर्यं स्याद् इति योजना । सातिशयत्वे सत्यैश्वर्यम् एव न भवति, अप्रतिहतेच्छत्वस्य इवाभावात् । अतो यद् एव निरतिशयि तद् एव मुख्यम् ऐश्वर्यम् इत्य् अर्थः ।
उपसंहरति—तस्माद् इति। ऐश्वर्येणयत्र काष्ठा प्राप्यते स ईश्वर इत्य् अर्थः । साम्य-निर्मुक्तौ हेतुम् आह—न चेति । द्वयोर् इति । नवम् अल्पकाल-स्थायि, पुराणं दीर्घ-काल-स्थायि एवम् अस्त्व् इत्य् एवं-रूपेणकस्मिन्न् अर्थे क्वचित् द्वाभ्यां तुल्याभिमताभ्यां कामिते सत्य् एकस्य सिद्धौ सण्कल्प-सिद्धाव् इतरस्येच्छा-विघाताद् ऊनत्वं न्यूनत्वं स्याद् अतो न समानानेकेश्वर-सम्भव इत्य् अर्थः ।
ननूभयोः सङ्कल्पान् नवत्वं पुरुषत्वं चोभयम् एव भवतु ? तत्राह—द्वयोश् चैति । तस्य पुरुष-विशेषत्वम् उपसंहरति—स च इति । स्याद् एतत्—यदि प्रकृष्ट-सत्त्वोपादानाद् एव शाश्वतिको जीवेभ्य उत्कर्षश् चेतन-विशेषस्य त्वयाप्य् अभ्युपगतस् तथाजीवानाम् अप्य् अपकर्षो मलिन-कार्य-सत्त्व-निमित्तिक इत्य् अर्थाद् आगतः । तथा च श्रुतिर् अपि—
कार्योपाधिर् अयं जीवः कारणोपाधिर् ईश्वरःिति ।
तर्हि किम्-अर्थं पुरुष-विशेष ईश्वरेवेत्य् उच्यते ? एकस्य इवात्मन आकाशस्येवोपाधि-भेदैर् जीवेश्वरादि-विभाग-सम्भवेन लाघवाद् ऐकात्म्य-कल्पनस्यैवौचित्यात्, तत् त्वम् असि, अहं ब्रह्मास्मि—
आकाशम् एकं हि यथा घटादिषु पृथग् भवेत् ।
तथात्मैको ह्य् अनेकश् च जलाधारेष्व् इवांशुमान्॥
इत्य् आदि-श्रुत्स्मृति-शतैर् आत्मैक्यस्यैवप्रतिपादितत्वाच् च । भेदाभेदोभय-श्रुति-स्मृति-मध्ये भेद-निन्दयाऽभेद-ज्ञानस्य मोक्ष-फल-फलत्व-कथनेन चाभेद-वाक्यानि एव स्वार्थ-पराणि, भेद-वाक्यानि त्व् अनुवाद-मात्राणीति८३ ।
अत्रोच्यते—जीवेश्वरयोर् अंशांशिनोस् तावद् व्याप्य-व्यापक-भाव-स्वीकारेणजीवोपाधिनावच्छेद्यस्यात्म-प्रदेशस्येश्वरोपाध्य्-अवच्छिन्नत्वं वक्तव्यम् । तथा च यथाब्रह्माण्डाकाशस्य गर्दभ-मुखावच्छेदेन दुःस्वरत्वं, यथा वा पाय्व्-अवच्छेदेनौपाधिकं दुर्गन्धत्वम् एवं कारण-सत्त्वावच्छिन्न-चिद्-आभाशस्यापीश्वरस्य जीवोपाध्य्-अवच्छेदेन संसारित्वं स्यात् । यदि च जीवेश्वरौ चैतन्यस्य इवांशौ न तु जीव ईश्वरस्य स्वीक्रियतां तदापीश्वरस्य जीवान्तर्यामित्वानुपपत्तिः, जीव-प्रदेशेऽपि८४ईश्वरासत्त्वाद् इति ।
एवम् एव सर्व-जीवानाम् अप्य् ऐक्यं न सम्भवति, एकस्यैव चिद्-आभासस्य इकान्तः-करणाद् विमुक्तेऽपि प्रदेशे संसार्य्-अन्तः-करणान्तर-सम्बन्धात् बन्ध-प्रसङ्गेन श्रुत्य्-उक्त-बन्ध-मोक्षादि-व्यवस्थानुपपत्तेः । न ह्य् आकाशस्य भग्न-घट-प्रदेशेष्व् अन्य-घट-सम्बन्धो न भवतीति नियमः सम्भवति, प्रत्यक्ष-विरोधात्, पर्यायैश् चैकस्मिन्न् एव८५देशेऽनेक-लिङ्ग-देह-सम्बन्धस्य समान-देशीय-भोगेनानुमानाच् च । तद् एतद् उक्तं कपिलाचार्यैः—जन्मादि-व्यवस्थातः पुरुष-बहुत्वं, उपाधि-भेदेऽप्य् एकस्य नाना-योगः आकाशस्येव घटादिभिः इत्य् आदि-सूत्रैर् इति ।
ननु उपाधि-विशिष्टयोर् एव जीवेश्वरत्वे वक्तव्ये ? इति चेत्, न, विकल्पासहत्वात् । विशिष्टानतिरेके जीवेश्वरत्व-बन्ध-मोक्षादि-साङ्कर्य-तादवस्थ्यात् । अतिरेके तु तद् अनित्यंनित्यं वा ? आद्ये विनाशितया तस्य बन्ध-मोक्षाद्य्-अनुपपत्तिः अन्त्ये वृश्चिक-भिया पलायमानस्याशी-विष-मुख-निपातः । यदि हि विशिष्टा अनेक आत्मानः कल्पनीयास् तर्ह्य् अस्मासूपन्यस्त-गौरवं भवताम् अप्य् आपातितम् । अधिकं तु सामान्यैकात्म-कल्पनम् इति ।
न चात्मद्वैत-श्रुत्य्-अनुरोधेन तद् अप्य् उचितम् इति वाच्यम्, विशिष्टात्मभ्यः सामान्यात्मनोऽत्यन्त-भेदे “तत् त्वम् अस्य्”-आद्य्-अभेद-वाक्यानुपपत्ति-तादवत्थ्यात्, अत्यन्तम् अभेदे च विशिष्टातिरिक्तता-विरोधात्, भेदाभेदे चास्मन्-मत-प्रवेशाद् इति । अस्माभिर् अपि हि सामान्य-रूपेणाभेदो वैधर्म्य्-अलक्षण-भेद-निरासायेष्यते, विशेषतस् तु भेद इति । तथा चोक्तं कपिलाचार्यैः—नाद्वैत-श्रुति-विरोधो जाति-परत्वातिति । एव तावद् अवच्छेद-वादो निरस्तः ।
प्रतिबिम्ब-वादस् त्व् अत्यन्तं विकल्पासहः । प्रतिबिमस्य तुच्छत्वे प्रतिबिम्ब-रूप-जीवस्य ब्रह्मणा सहाभेदानुपपत्तिः, सद्-असतोर् अभेदानुपपत्तेः, अतुच्छत्वे चात्मनात्वस्य शब्द-भेदेन स्वीकारापत्तिर् अद्वैताद्य्-अनुपपत्तिश् चेति । अत्र च मूढानाम् उपर्य् उपरि कक्षाः ब्रह्म-मीमांसा-भाष्येऽस्माभिर् निराकृताः । “तत् त्वम् असि”-आदि-वाक्यानि तत्र विस्तरेण व्याख्यातानि, संक्षेपतस् त्व् अत्रापि व्याख्यास्यामः ।
न्यायानुग्रहेण बलवद्भिर् अग्नि-विस्फुलिङ्गादिभिः सांश-दृष्टान्तैर् विरोधाद् आकाश-सूर्यादि-दृष्टान्ता अखण्डता-परा न भवन्ति, किं तु ब्रह्मणि सर्व-जीवानाम् अविभाग-लक्षणाभेदस्य सर्व-काल-स्थायितया पारमार्थिकत्वेऽपि यत् किञ्चिद् अवच्छेदेन फेन-बुद्बुदादिवद् अतिभङ्गुरस्य विभाग-लक्षण-भेदस्यापारमार्थिकस्य उपाधिकत्व-मात्रं प्रतिपादयन्तीति । एतेन भेद-निन्दा-वाक्यानि प्रकरण-भेदैर् विभाग-वैधर्म्यादि-भेद-पराण्य् एव । यच् चोक्तम् अभेद-ज्ञानान् मोक्षः श्रूयत इति । तत् परम्परयैव, न तु साक्षात्कार्त् । अथात आदेशो नेति नेति, न ह्य् एतस्माद् इति नेत्य् अन्यत् परं [वि.पु.२.३.६] अस्ति,
प्रधान-पुरुष-व्यक्त-कालानां परमं हि तत् ।
पश्यन्ति सूरयः शुद्धं तद् विष्णोः परमं पदम् ॥
इत्य्-आद्यैः श्रुति-स्मृति-वाक्यैर् विवेकाख्य-भेद-ज्ञानस्यैव मुख्यत्वात् ।
परमात्मात्मनोर् योगः परमोऽर्थ इतीष्यते ।
मिथ्यैतद् अन्यद् द्रव्यं हि न इति न द्रव्यतां यतः ॥[वि.पु. २.१४.२७]
इतिविष्णु-पुराणादिष्व् अन्योन्याभावाविभाग-रूपतयैव भेदाभेदयोर् व्याख्यातत्वेन भेद-वाक्याभेदवाक्ययोर् अर्थ-निर्णये नाधुनिक-कुतर्कापेक्षेति दिक् ॥२४॥
—o)0(o—
(१.२५)
किं च,
तत्र निरतिशयं सर्व-ज्ञ-बीजम् ॥२५॥
यद् इदम् अतीतान् आगत-प्रत्युत्पन्न-प्रत्येक-समुच्चयातीन्द्रिय-ग्रहणम् अल्पं बह्व् इतिसर्व-ज्ञ-बीजम् । एतद् धि वर्धमानं यत्र निरतिशयं स सर्व-ज्ञः । अस्ति काष्ठा-प्राप्तिः सर्व-ज्ञ-बीजस्य सातिशयत्वात् परिमाणवद् इति ।
यत्र काष्ठा-प्राप्तिर् ज्ञानस्य स सर्व-ज्ञः । स च पुरुष-विशेष इति । सामान्य-मात्रोपसंहारे च कृतोपक्षयम् अनुमानं न विशेष-प्रतिपत्तौ समर्थम् इति । यस्य संज्ञादि-विशेष-प्रतिपत्तिर् आगमतः पर्यन्वेष्या, तस्यात्मानुग्रहाभावेऽपिभूतानुग्रहः प्रयोजनं, ज्ञान-धर्मोपदेशेन कल्प-प्रलय-महा-प्रलयेषु संसारिणः पुरुषानुद्धरिष्यामीति ।
तथा चोक्तं—आदि-विद्वान् निर्माण-चित्तम् अधिष्ठाय कारुण्याद् भगवान् परमर्षिर् आसुरये जिज्ञासमानाय तन्त्रं प्रोवाचैति ॥२५॥
तत्त्व-वैशारदी : एकम् अस्य क्रिया-ज्ञान-शक्तौ शास्त्रं प्रमाणम् अभिधाय ज्ञान-शक्ताव् अनुमानं प्रमाणयति—किं चैति । तत्र निरतिशयं सर्व-ज्ञत्व-बीजम् ॥
व्याचष्टे—यद् इदमिति। बुद्धि-सत्त्वावरकतमोऽपगम-तारतम्येन यद् इदम् अतीतान् आगत-प्रत्युत्पन्नानां प्रत्येकं च समुच्चयेन च वर्तमानानाम् अतीन्द्रियाणां ग्रहणम् । तस्य विशेषणम् अल्पं बह्वितिसर्व-ज्ञ-बीजम्कारणम् । कश्चित् किञ्चिद् एवातीतादि गृह्णाति, कश्चिद् बहु, कश्चिद् बहुतरं, कश्चिद् बहुतमम् इति ग्राहापेक्षया ग्रहणस्याल्पत्वं बहुत्वं कृतम् ।
एतद् धि वर्धमानं यत्रनिष्क्रान्तम् अतिशयात् स सर्व-ज्ञ इति । तद् अनेन प्रमेय-मात्रं कथितम् । अत्र प्रमाणयति—अस्ति काष्ठा-प्राप्तिः सर्व-ज्ञ-बीजस्य इति साध्य-निर्देशः८६ । निरतिशयत्वं काष्ठा, यतः परम् अतिशयवत्ता नास्तीति । तेन नावधि-मात्रेण सिद्ध-साधनम् ।
सातिशयत्वादितिहेतुः । यद् यत् सातिशयं तत् तत् सर्वं निरतिशयं, यथा कुल्वलामलक-बिल्वेषु सातिशयं महत्त्वम् आत्मनि निरतिशयम् इति व्याप्ति दर्शयति—परिमाणवदिति । न च गरिमादिभिर् गुणैर् व्यभिचार इति साम्प्रतम् । न खल्व् अवयव-गरिमातिशयी गरिमावयविनः, किं त्व् आपरमाणुभ्य आन्त्यावयविभ्यो यावन्तः केचन तेषांसर्वेषां प्रत्येक-वर्तिनी गरिम्णः समाहृत्य गरिम-वर्धमानाभिमानः । ज्ञानं तु न प्रतिज्ञेयं समाप्यतैत्य् एक-द्वि-बहु-विषयतया युक्तं सातिशयम् इति न व्यभिचारः ।
उपसंहरति—यत्र काष्ठाइति । ननु सन्ति बहवस् तीर्थकरा बुद्धार्हत्-कपिल-र्षि-प्रभृतयः । तत् कस्मात् त एव सर्व-ज्ञा न भवन्त्य् अस्माद् अनुमानादि इत्य् अत आह—सामान्य- इति । कुतस् तर्हि तद्-विशेष-प्रतिपत्तिर् इत्य् अत आह—तस्य इति । बुद्धादि-प्रणीतश् चागमाभासो न त्व् आगमः, सर्व-प्रमाण-बाधित-क्षणिक-नैरात्म्यादि-मार्गोपदेशकत्वेन विप्रलम्भकत्वाद् इति भावः । तेन श्रुति-स्मृतीतिहास-पुराण-लक्षणाद् आगमत आगच्छति बुद्धिम् आरोहन्ति अस्माद् अभ्युदय-निःश्रेयसोपाया इत्य् आगमः ।
तस्मात् संज्ञादि-विशेष-प्रतिपत्तिः, संज्ञा-विशेषः शिवेश्वरादिः श्रुत्यादिषु प्रसिद्धः । आदि-पदेन षड्-अङ्ग-तादृशाव्ययते संगृहीते । यथोक्तं वायु-पुराणे—
सर्व-ज्ञता तृप्तिर् अनादि-बोधः
स्वतन्त्रता८७नित्यम् अलुप्त-शक्तिः८८ ।
अनन्त-शक्तिश् च विभोर् विधिज्ञाः
षड् आहुर् अङ्गानि महेश्वरस्य ॥[वा.पु. १२.३३]
तथा—
ज्ञानं वैराग्यम् ऐश्वर्यं तपः सत्यं क्षमा धृतिः ।
स्रष्टृत्वम् आत्म-सम्बोधो ह्य् अधिष्ठातृत्वम् एव च ।
अव्ययानि दशैतानि नित्यं तिष्ठन्ति शङ्करे ॥[वा.पु. १०.६५-६६]
स्याद् एतत्। नित्य-तृप्तस्य भगवतो वैराग्यातिशय-सम्पन्नस्य स्वार्थे तृष्णा-सम्भवात् कारुणिकस्य च सुखैकतान-जन-सर्जन-परस्य दुःख-बहुल-जीव-लोक-जननानुपपत्तेर्र् अप्रयोजनस्य च प्रेक्षावतः प्रवृत्त्य्-अनुपपत्तेः क्रिया-शक्ति-शालिनोऽपि न जगत्-क्रियेत्य् अत आह—तस्यात्मानुग्रहाभावेऽपि इति । भूतानां प्राणिनाम् अनुग्रहः प्रयोजनम् ।
शब्दाद्य्-उपभोग-विवेक-ख्याति-रूप-कार्य-करणात् किल चरितार्थं चित्तं निवर्तते । ततः पुरुषः केवली भवति । अतस् तत्-प्रयोजनाय कारुणिको विवेक-ख्यात्य्-उपायं कथयति । तेनाचरितार्थत्वाच् चित्तस्य जन्तून् ईश्वरः पुण्यापुण्य-सहायः सुख-दुःखे भावयन्न् अपि नाकारुणिकः ।
विवेक-ख्यात्य्-उपाय-कथने द्वारम् आह—ज्ञान-धर्मोपदेशेनैति । ज्ञानं च धर्मश् च ज्ञान-धर्मौ, तयोर् उपदेशेन ज्ञान-धर्म-समुच्चयाल् लब्ध-विवेक-ख्याति-परिपाकात् कल्प-प्रलयेब्रह्मणो दिवसावसाने यत्र सत्य-लोक-वर्जं जगद् अस्तम् एति । महा-प्रलये स-सत्यलोकस्य ब्रह्मणोऽपि निधने संसारिणःस्व-कारण-गामिनोऽतस् तदा मरण-दुःख-भाजः । कल्पेत्य् उपलक्षणम् अन्यदापि । स्वार्जित-कर्म-पाक-वशेन जन्म-मरणादि-भाजः ।
पुरुषान् उद्धरिष्यामीतिकैवल्यं प्राप्य पुरुषा उद्धृता भवन्तीत्य् अर्थः । एतच् च करुणा-प्रयुक्तस्य ज्ञान-धर्मोपदेशनं कापिलानाम् अपि सिद्धम् इत्य् आह—तथा चोक्तम् इति । पञ्चशिखाचार्येण इति शेषः । आदि-विद्वान्कपिल इति । आदि-विद्वान् इति पञ्चशिखाचार्य-वचनादि-मुक्त-स्व-सन्तानादि-गुरु-विषयं, न त्व् अनादि-मुक्त-परम-गुरु-विषयम् । आदि-मुक्तेषु कदाचिन् मुक्तेषु विद्वत्सु कपिलोऽस्माकम् आदि-विद्वान् मुक्तः स एव च गुरुर् इति । कपिलस्यापि जायमानस्य महेश्वरानुग्रहाद् एव ज्ञान-प्राप्तिः श्रूयत इति । कपिलो नाम विष्णोर् अवतार-विशेषः प्रसिद्धः । स एवेश्वर आदि-विद्वान् कपिलो विष्णुः स्वयम्भूर् इति भावः । स्वायम्भुवानां त्व् ईश्वर इति भावः ॥२५॥
योग-वार्तिकम् :पुरुषान्तरेभ्य ईश्वरस्य निरतिशय-सार्वज्ञ्य-रूप-विशेषान्तरं प्रतिपादयन् सूत्रम् अवतारयति—किं चेति । तत्र निरतिशयं सर्व-ज्ञ-बीजम् । बीजं लिङ्गम् । सर्व-ज्ञानुमापकंयत् सातिशय-जातीयं ज्ञानं तत् तत्रेश्वरे निरतिशयम् इत्य् अर्थः । सार्वज्ञ्य-बीजम् इति पाठेऽप्य् अयम् एवार्थः । यत् तु बीजं कारणं, तथा च सर्व-ज्ञत्व-कारणं सत्त्वम् इति तस्य थार्थ इति कश्चित्, तन् न । ज्ञानस्य बह्व्-अल्पतयोर् एव बीजतयात्रभाष्य-कारैर् व्याख्यास्यमानत्वाद् इति ।
व्याचष्टे—यद् इदमिति । यद् अतीतानागत-वर्तमानानां प्रत्येक-समुच्चिताम् अतीन्द्रियथार्थानाम् अल्पं बहु ग्रहणं ज्ञानम् इदं सर्व-ज्ञ-बीजम् इत्य् अर्थः । कथं बीजम् ? तदाह—एतदिति । एतत् सर्व-ज्ञ-बीजं सातिशय-ज्ञानं विवर्धमानंयत्र निरतिशयं भवति, ससर्व-ज्ञोऽन्यथाऽनवस्थानाद् इति युक्तिर् उक्ता ।
संयोगम् अप्य् आह—अस्ति इति । सर्व-ज्ञ-बीजं सातिशय-ज्ञानं क्वचित् प्राप्त-काष्ठं सातिशयत्वात् परिमाणवद् इत्य् अर्थः । अत्र बाधकाभावे सतीति हेतुर् विशेषणीयस् तेन गुरुत्व-संस्कार-रूपादिषु न व्यभिचारः । तेषां चैकत्र काष्ठा-प्राप्तौ कार्य-मात्रेऽतिशयित्वम् एव८९ बाधकं, सामग्र्यास् तारतम्याव्यवस्थित्या कार्य-तारतम्ये व्यवस्थानुपपत्तेः । ज्ञानेच्छा-परिमाणानां तु नित्यानाम् अपि सिद्धतया क्वचित् काष्ठा-प्राप्तौ नास्ति बाधकम् ।
वस्तुतस् तुयथा-श्रुत-भाष्याद् अनवस्थापत्तेश् च गुरुत्वादिष्व् अप्य् अतिशयानां क्वचित् काष्ठानुमीयते, सामग्री-तारतम्य-काष्ठाया अप्य् अनवस्थापत्त्यैवानुमान-साम्यात् । अतो न हेतौ विशेषणापेक्षेति । अस्मश् चानुमाने श्रुत्य्-आदिस् तर्क इति ।
सूत्र-तात्पर्यम् आह—यत्रैति । ननूक्तानुमानेन सामान्यतः सर्व-ज्ञ-पुरुष-सिद्धाव् अपि तस्य संज्ञा-विशेषः कथम् अवधार्यत इत्य् आकाङ्क्षायाम् आह—सामान्य- इति । सामान्य-मात्रेणोपसंहारे निश्चये कृत-पर्यवसानम् अनुमानं न संज्ञादि-विशेष-प्रतिपादन-क्षमम् इत्य् अत इत्य् आदिर् अर्थः । संज्ञा ब्रह्मान्तर्यामि-परमात्मादि-रूपा । आदि-शब्देन पूर्णानन्दत्व-परमकारुणिकत्व-पारमार्थिकात्मत्व-जगदाधार-कारणत्वादयो ग्राह्याः । हरि-हरादि-संज्ञा-मूर्तयस् तु शक्ति-शक्तिमद्-आद्य्-अभेदेनोपासनार्थम् एव परमेश्वरस्योच्यन्ते, न तु साक्षाद् एव,
ब्रह्म-विष्णु-शिवा ब्रह्मन् प्रधाना ब्रह्म-शक्तयः ।
ततो न्यूनाश् च मैत्रेय देवा दक्षादयस् ततः ।[वि.पु. १.२२.५८]
ब्रह्म-विष्णु-शिवादीनां यः परः स महेश्वरः ॥ इत्य् आदि-वाक्येभ्यः ।
आगमतः वेदान्ततः । यत् त्व् आधुनिकाः केचन परस्य साक्षाद् अपि लीला-विग्रहं कल्पयन्ति, तद् अप्रामाणिकं, विष्ण्व्-आदीनाम् एव लीलावतार-चरणारविन्दात् । विष्ण्व्-आदीनां च परमात्मन्य् एवाहं-भावात् तेषाम् अवतारा एव परमेश्वरावतारतयाश्रुति-स्मृतिषूच्यन्ते, तेन तु ते भ्रान्ताः, न तस्य कार्यं करणं च विद्यते [श्वे.उ. ६.८] इत्य् आदि-श्रुतिभ्यः परमेश्वरस्य कार्य-कारणाख्य-शरीर-द्वय-प्रतिषेधात् । अनादिमत् परं ब्रह्मसर्व-देह-विवर्जितम् इत्य् आदि-स्मृतिभ्यश् चेति दिक् ।
ननु नित्य-मुक्तश् चेद् ईश्वरस् तर्हि पुरुषार्थाभावात् तस्य प्रवृत्तिर् न घटते । तथा च साङ्ख्य-सूत्रम्—स्वोपकाराद् अधिष्ठानं लोकवतितिपूर्व-पक्षम्, तन् न, प्रवृत्त्य्-आदि-नित्यत्वात् । तत्र निमित्तापेक्षा नास्तीति मुख्य-समाधाने सत्य् अपि प्रौढ्या प्रकारान्तरेणापि समाधानम् आह—तस्यात्मा इति ।ात्मनुग्रहः स्वोपकाराह्, तस्येश्वरस्य स्वोपकाराभावेऽपिभक्तान् पुरुषान् उद्धरिष्यामीत्य् आशयेन ज्ञान-धर्मयोर् उपदेशतो भक्त-भूतानुग्रहः प्रयोजनम् ।
पुरुषाणां विशेषणं कल्प-इत्य्-आदि । कल्प-प्रलयेषुदैनन्दिन-प्रलयेषु, महा-प्रलयेषुप्राकृत-प्रलयेषु च संसारिणःस्व-कारण-गामिनोऽतस् तदा मरण-दुःख-भाज इत्य् अर्थः ।
ननु स्वेष्ट-साधनता-ज्ञानाभावे कथं व्यापारः स्यात् ? इति चेत्, न, तृणारणि-मणि-न्यायेन स्वेष्ट-साधनता-ज्ञान-पर-दुःख-ज्ञानयोर् विजातीयेच्छा-द्वयं प्रत्य् एव फल-बलेन हेतुतायाः कॢप्तत्वात् । तथा च ब्रह्म-सूत्रं—लोकवत् तु लीला-कैवल्यम्[वे.सू. २.१.३३] इति ।
ननु तथापिभक्तान् एवानुगृह्णाति नान्यान्, प्रत्युत तान् निगृह्णात्य् एव स्व-भक्तैश्वर्य-दानेनेत्य् अतो वैषम्यादिना नेश्वरस्य नित्य-मुक्तत्वं भवति ? इति चेत्, मैवम्, अग्नेर् औष्ण्य-स्वभाववत् विशुद्ध-सत्त्वे भक्त-वशता-स्वभावस्यापर्यनुयोज्यत्वात् । वैषम्यं च राग-द्वेषाभ्याम् एव भवति, न तु प्रवृत्ति-मात्रेणेति । अत एव गीता—
समोऽहं सर्व-भूतेषु न मे द्वेष्योऽस्ति न प्रियः ।
ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्य् अहम् ॥ [गीता ९.२९] इति ।
यच् च हिरण्यगर्भाद्य्-ऐश्वर्य-दानाद् अन्येषांदुःखं भवति, तत्रापि हिरण्यगर्भादीनाम् एव वैषम्यं बीजं, ईश्वरस्य तु पर-दुःख-प्रहाणेच्छा विद्यमानापि भक्त-वशतया कुण्ठिता स्व-कार्याय विलम्बत इतिसर्वं समञ्जसम् । यच् च सर्वेश्वरस्य कर्म-सापेक्षतया वैषम्यं नैर्घृण्यं९० च ब्रह्म-मीमांसा-सूत्रेणापाकृतम्, तत्राप्य् अयम् एवाशयः—लोकानां विहित-निषिद्ध-रूपाणि कर्माणि देवानांसुख-दुःख-साधनानि, अत ईश्वरेण स्व-भक्त-देवेष्व् अपराद्धाय यद् दुःखं दीयते, अनपराद्धाय सुखं, तद् भक्त-पारवश्य-निमित्तकम् इति ।
स्व-प्रयोजनाभावेऽपि विदुषां प्रवृत्तौ पञ्चशिखाचार्य-वाक्यं साङ्ख्य-स्थं प्रमाणयति—तथा चोक्तमिति। आदि-विद्वान्स्वयम्भूः सर्गादाव् आविर्भूतो विष्णुः । निर्माण-चित्तम्योग-बलेन स्व-निर्मितं चित्तम् अधिष्ठायस्वांशेन प्रविश्य कपिलाख्य-परमर्षिर्भूत्वा कारुण्याद्जिज्ञासवःासुरये तत्त्वं प्रोवाचैत्य् अर्थः ।
—o)0(o—
(१.२६)
स एषः—
पूर्वेषाम् अपि गुरुः कालेनानवच्छेदात् ॥२६॥
पूर्वं हि गुरवः कालेनावच्छिद्यन्ते । यत्रावच्छेदार्थेन कालो नोपावर्तते, स एष पूर्वेषाम् अपि गुरुः । यथास्य सर्गस्यादौ प्रकर्ष-गत्या सिद्धस् तथातिक्रान्त-सर्गादिष्व् अपि प्रत्येतव्यः ॥२६॥
तत्त्व-वैशारदी :सम्प्रति भगवतो ब्रह्मादिभ्यो विशेषम् आह—स एष इति । पातनिका—स एष इति । सूत्रं—पूर्वेषाम् अपि गुरुः कालेनानवच्छेदात् ॥
व्याचष्टे—पूर्वं हिइति । कालस् तु शत-वर्षादिः अवच्छेदार्थेनावच्छेदेन प्रयोजनेन, नोपावर्ततेन वर्तते प्रकर्षस्य गतिः प्राप्तिः । प्रत्येतव्य आगमात् । तद् अनेन प्रबन्धेन भगवानीश्वरो दर्शितः ॥२६॥
योग-वार्तिकम् :परमेश्वरस्यापरं विशेषं प्रतिपादयतिसूत्र-कारः—स एष पूर्वेषाम् अपि गुरुः कालेनानवच्छेदात् ॥
पूर्वेषां पूर्व-पूर्व-सर्गाद्य्-उत्पन्नानां ब्रह्म-विष्णु-महेश्वरादीनाम् अपि गुरुः पितान्तर्यामी विद्यया ज्ञान-चक्षुः-प्रदश् च । कुतः ? कालेनानवच्छेदात् । ब्रह्मादयो हि द्विपरार्धादि-कालेनावच्छिन्नं गुरुं विना म सम्भवन्तीत्य् अर्थः । यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश् च प्रहिणोति तस्मै[श्वे.उ. ६.१८]इत्य् आदि-श्रुतिभ्य इति भावः ।
न च प्रकृति-स्वातन्त्र्य-क्षितः, निमित्तम् अप्रयोजकं प्रकृतीनां [४.३] इत्य् आगामि-सूत्रात् निमित्त-कारणस्येश्वरादेस् तत्-स्वातन्त्र्याविघातकत्वात् । एतद् एव व्याचष्टे—पूर्वे हीति । अवच्छेद-शब्दार्थेनावच्छेद-प्रयोजनेन कालो नोपावर्तते न सम्बध्यते ।
तात्पर्यथार्थम् आह—यथास्यैति । अस्य वर्तमानस्य सर्गस्यादौपूर्वं प्रकर्ष-गत्याज्ञानोत्कर्ष-प्राप्त्या स्वतः-सिद्धैत्य् अर्थः। अत्रेश्वरस्य सर्व-जीव-पितृत्व-वचनात् श्रुत्य्-उक्ताग्नि-विस्फुलिङ्ग-दृष्टान्तानुसारेण च जीव-ब्रह्मणोर् अंशांशि-भावस् तयोर् अभेदश् च पितृ-पुत्रवद् एवेति भावः । तथा च स्मृतिः—
यथा दीप-सहस्राणि दीप एकः प्रसूयते ।
तथाजीव-सहस्राणि स एवैकः प्रसूयते ॥
सलिले करकाश्म् एव दीपोऽग्नाव् इव तन्मयः ।
जीवो मौढ्यात् प्र्ठग्-बुद्धो युक्तो ब्रह्मणि लीयते ॥ इत्य् आदिः ।९१
अयं चाभेदो नाखण्डता । अपि त्व् अविभाग एव, अविभागो वचनात् [वे.सू. ४.२.१६]इति वेदान्त-सूत्रेण जीवानां ब्रह्मण्य् अविभाग-लक्षणाभेदस्यैव वचनात् । तथातिक्रान्त-सर्गादिष्व् अपि प्रत्येतव्यः ॥२६॥
—o)0(o—
(१.२७)
तस्य वाचकः प्रणवः ॥२७॥
वाच्य ईश्वरः प्रणवस्य । किम् अस्य सङ्केत-कृतं वाच्य-वाचकत्वम्, अथ प्रदीप-प्रकाशवद् अवस्थितम् ? इति । स्थितोऽस्य वाच्यस्य वाचकेन सह सम्बन्धः । सङ्केतस् त्व् ईश्वरस्य स्थितम् एवार्थम् अभिनयति । यथावस्थितः पिता-पुत्रयोः सम्बन्धः सङ्केतेनावद्योत्यते, ‘अयम् अस्य पिता, अयम् अस्य पुत्रऽिति । सर्गान्तरेष्व् अपि वाच्य-वाचक-शक्त्य्-अपेक्षस् तथैव सङ्केतः क्रियते । सम्प्रतिपत्ति-नित्यतया नित्यः शब्दार्थ-सम्बन्ध इत्य् आगमिनः प्रतिजानते ॥२७॥
तत्त्व-वैशारदी :सम्प्रति तत्-प्रणिधानं दर्शयितुं तस्य वाचतम् आह—तस्य वाचकः प्रणवः । व्याचष्टे—वाच्यैति । तत्र परेषां मतं विमर्श-द्वारेणोपन्यस्य ति—किम् अस्य इति ।
वाचकत्वम् प्रतिपादकत्वम् इत्य् अर्थः । परे हि पश्यन्ति—यदि स्वाभाविकः शब्दार्थयोः सम्बन्धः सङ्केतेनास्माच्शब्दाद् अयम् अर्थः प्रत्येतव्य इत्य् एवम् आत्मकेनाभिव्यज्येत, ततो यत्र नास्ति स सम्बन्धस् तत्र सङ्केत-शतेनापि न व्यज्येत । न हि प्रदीप-व्यङ्ग्यो घटो यत्र नास्ति, तत्र प्रदीप-सहस्रेणापि शक्यो व्यक्तुम् । कृत-सङ्केतस् तु करभ-शब्दो वारणे वारण-प्रतिपादको दृष्टः ।
ततः सङ्केत-कृतम् एव वाचकत्वम् इति विमृश्याभिमतम् अवधारयति—स्थितोऽस्यैति । अयम् अभिप्रायः—सर्व एव शब्दाः सर्वाकारार्थाभिधान-समर्था इति स्थित एवैषां सर्वाकारैर् अर्थैः स्वाभाविकः सम्बन्धः । ईश्वर-सङ्केतस् तु प्रकाशकश् च नियामकश् च तस्य । ईश्वर-सङ्केतासङ्केत-कृतश् चास्य वाचकापभ्रंश-विभागः । तद् इदम् आह—सङ्केतस् त्व् ईश्वरस्य इति ।
निदर्शनम् आह—यथाइति । ननु शब्दस्य प्राधानिकस्य महा-प्रलय-समये प्रधान-भावम् उपगतस्य शक्तिर् अपि प्रलीना । ततो महद्-आदि-क्रमेणोत्पन्नस्यावाचकस्यैव माहेश्वरेण सङ्केतेन न शक्या वाचक-शक्तिर् अभिज्वलयितुं विनष्ट-शक्तित्वाद् इत्य् अत आह—सर्गान्तरेष्व् अपिइति । यद्यपि सह शक्त्या प्रधान-साम्यम् उपगता शब्दस् तथापि पुनर् आविर्भवंस् तच्-छक्ति-युक्त एवाविर्भवति वर्षातिपात-समधिगत-मृद्-भाव इवोद्भिजो मेघ-विसृष्ट-वारि-धारावसेकात् ।
तेन पूर्व-सम्बन्धानुसारेण सङ्केतःक्रियतेभगवतेति । तस्मात् सम्प्रतिपत्तेः सदृश-व्यवहार-परम्परायाःनित्यतया नित्यःशब्दार्थयोःसम्बन्धोन कूटस्थ-नित्य इत्य् आगमिकाः प्रतिजानते, न पुनर् आगम-निरपेक्षाः सर्गान्तरेष्व् अपि तादृश एव सङ्केत इति प्रतिपत्तुम् ईशत इति भावः ॥२७॥
वाच्य ईश्वरः प्रणवस्य । किम् अस्य सङ्केत-कृतं वाच्य-वाचकत्वम् अथ प्रदीप-प्रकाशवद् अवत्स्थितम् इति । स्थितोऽस्य वाच्यस्य वाचकेन सह सम्बन्धः । सङ्केतस् त्व् ईश्वरस्य स्थितम् एवार्थम् अभिनयति । यथावस्थितः पिता-पुत्रयोः सम्बन्धः सङ्केतेनावद्योत्यते, अयम् अस्य पिता, अयम् अस्य पुत्र इति । सर्गान्तरेष्व् अपि वाच्य-वाचक-शक्त्य्-अपेक्षस् तथैव सङ्केतः क्रियते । सम्प्रतिपत्ति-नित्यतया नित्यः शब्दार्थ-सम्बन्ध इत्य् आगमिनः प्रतिजानते ॥२७॥
योग-वार्तिकम् :ीश्वर-शब्दार्थो विस्तरेण व्याख्यातः । इदानीं तत्-प्रणिधानं व्याख्यातुम् आदौ प्रणिधानाङ्गं मन्त्रं दर्शयति—तस्य वाचकः प्रणवः ॥ तस्येश्वरस्य प्रणवो नामेत्य् अर्थः ।
अदृष्ट-विग्रहो देवो भाव-ग्राह्यो मनो-मयः ।
तस्योंकारः स्मृतो नाम तेनाहूतः प्रसीदति ॥
इति योग-याज्ञवल्क्यादि-वचनेभ्यः । अदृष्ट-विग्रहोऽद्भुत-शरीरो देवः परमात्मा भाव-ग्राह्यो भक्ति-मात्र-ग्राह्यो मनो-मयो मनस्-तुल्य-कारणोपाधि-शबलोऽयः-शबलाग्निवद् इत्य् आदिर् अर्थः ।
कर्तव्य-विचारोपयोगिनम् अर्थं पूरयति—वाच्य ईश्वरः इति । नित्य एव प्रणवेन सहेश्वरस्य वाच्य-वाचक-भाव इति । श्रद्धातिशयोत्पादनाय संशय-पूर्वकम् अवधारयति—किम् अस्य इति ।
ईश्वर-प्रणवयोर् वाच्य-वाचकता शक्तिः किम् अस्येश्वरस्य सङ्केतेनाहार्यान्योन्याध्यास-रूपेणकृतागन्तुकी, यथा पिण्ड-विशेषे देवदत्तादि-नाम-वाच्यता पितृ-सङ्केत-कृता, तद्वत् । अथवा प्रदीपस्य प्रकाशवत् स्वाभाविकी यावद् द्रव्य-भाविनीत्य् अर्थः । विमृष्य समाधम् आह—स्थितैति । अर्थ-सम्बन्धम् एवाभिनयति—प्रकाशयतिइत्य् अर्थः । स च शक्त्य्-आख्य-सम्बन्ध आधाराधेयवत् स्वरूप-सम्बन्धोऽतिरिक्त-पदार्थ एव वास्तु । घटादि-नाम्नाम् अप्य् एवं बोध्यम् । देवदत्तादि-नाम्नां तु नैवं, यतः पुरुष-सङ्केत-भेदेनार्थ-भेदा भवन्तीति ।
सङ्केतेन इति । अयम् अस्य पितेत्य् आद्य् एवं-रूपेणेत्य् अन्वयः ।
ननु शक्ति-नित्यत्वेऽपि कदाचित् सङ्केत-भेदाद् देवदत्तादि-शब्दवद् अर्थ-भेदोऽपि प्रणवस्य स्याद् इत्य् आशङ्कायाम् आह—सर्गान्तरेष्व् अपिइति । अर्थ-सङ्केतो लौकिको न भवति, अपि तु सर्व-ज्ञाश् चेतना-शक्तिं पूर्व-सिद्धाम् अनुसृत्यैव सङ्केतं कुर्वन्तीत्य् आशयः ।
सम्बन्ध-नित्यत्वे सम्प्रतिपत्त्य्-आख्य-कार्य-नित्यत्वं प्रमाणयति—सम्प्रतिपत्ति- इति । देवदत्तादि-शब्दवद् वाच्य-वाचक-भावस्यानित्यत्वे कदाचित् सङ्केत-वैपरीत्येन व्यवहार-वैपरीत्यम् अपि स्याद् इत्य् आशयः । तथा च सति सर्वत्रशब्दार्थेऽनाश्वासः स्याद् इत्य् आगमिनः प्रतिजानते अवधारयन्तीति समग्र-वाक्यथार्थेनान्वयः ॥२७॥
—o)0(o—
(१.२८)
विज्ञात-वाच्य-वाचकत्वस्य योगिनः—
तज्-जपस् तद्-अर्थ-भावनम् ॥२८॥
प्रणवस्य जपः प्रणवाभिधेयस्य चेश्वरस्य भावनम् । तद् अस्य योगिनः प्रणवं जपतः प्रणवार्थं च भावयतश् चित्तम् एकाग्रं सम्पद्यते । तथा चोक्तम्—
स्वाध्यायाद् योगम् आसीत योगात् स्वाध्यायम् आमनेत् ।
स्वाध्याय-योग-सम्पत्त्या परमात्माप्रकाशते ॥[वि.पु. ६.६.२]इति ॥२८॥
तत्त्व-वैशारदी : वाचकम् आख्याय प्रणिधानम् आह—तज्-जपस् तद्-अर्थ-भावनम् ॥ व्याचष्टे—प्रणवस्येति । भावनं पुनः पुनश् चित्ते निवेशनम् । ततः किं सिध्यतीत्य् अत आह—प्रणवम् इति । एकाग्रं सम्पद्यते एकस्मिन् भगवत्य् आरमति चित्तम् । अत्रैव वैयासिकीं गाथाम् उदाहरति—तथा चेति । ततः ईश्वरः सिद्धान्ति-तत्-फल-लाभेन तम् अनुगृह्णाति ॥२८॥
योग-वार्तिकम् :प्रणिधानाङ्ग-मन्त्रं प्रदर्श्य साङ्ग-प्रणिधानस्य स्वरूपं सूत्रकारो वक्ष्यति, तत्-सूत्रं पूरयित्वोत्थापयति—विज्ञातेति । सूत्रेण सहान्वयः ।
तज्-जपस् तद्-अर्थ-भावनम् ॥ सूत्रार्थं व्याचष्टे—प्रणवस्य इति । प्रणव-जपेन सह ब्रह्म-ध्यानं प्रणिधानम् । तच् च वाच्य-वाचक-भावं ज्ञात्वा कर्तव्यम् इति समुदायथार्थः ।
प्रणवेन परं ब्रह्म ध्यायीत नियतो यतिः ॥ इतिस्मरणाद् इति । प्रणवार्थश् चावान्तर-भेदैःश्रुत्य्-आदिषु बहुधोक्तः, संक्षेपात् तु गारुडोक्तोऽर्थोऽत्र कथ्यते, यथा गारुडे—
व्यक्ताव्यक्ते च पुरुषस् तिस्रो मात्राः प्रकीर्तिताः ।
अर्ध-मात्रा परं ब्रह्म ज्ञेयम् अध्यात्म-चिन्तकैः ॥िति ।
प्रणवार्थ-चिन्तनं च मुख्यतो द्विविधम्—तत्रैकम् अंशांशि-कार्य-कारण-शक्ति-शक्तिमद्-आद्य्-अभेदेन तप्तायः-पिण्डवद् अविभाग-लक्षणैकीभावाद् अहं ब्रह्म, सर्वं खलु ब्रह्मैत्य् आदि-रूपं भवति, तम् एतम् आत्मानम् ओम् इतिब्रह्मणैकीकृत्य ब्रह्म चात्मनोम् इत्य् एकीकृत्यैत्य् आदिश्रुतेः, सर्वं खल्व् इदं ब्रह्म तज्जलानिति शन्त उपासीत इत्य् आदिश्रुतेश् च ।
एकः समस्तं यद् इहास्ति किञ्चित्
तद् अच्युतो नास्ति परं ततोऽन्यत् ।
सोऽहं स च त्वं स च सर्वम्
एतद् आत्म-स्वरूपं त्यज भेद-मोहम् ॥ इत्य् आदि-स्मृतेश् च ।
अपरं प्रकृति-तत्-कार्य-पुरुषेभ्यो विवेकेन केवले ब्रह्म-चिन्-मात्र आत्मत्व-चिन्तनं, ओम् इत्य् एवं ध्यायथ आत्मानं स्वस्ति वः पाराय तमसः परस्तात्, अथात आदेशो नेति नेति न ह्य् एतस्माद् इति ।नेत्य् अन्यत् परम् अस्ति[बृ.आ.उ.२.३.६], तम् एवैकं जानथ आत्मानम् आत्मेत्य् एवोपासीत [बृ.आ.उ. १.४.७]इतिश्रुतेः ।
प्रकृतिं पुरुषे स्थाप्य पुरुषं ब्रह्मणि न्यसेत् ।
अहं ब्रह्मपरं ज्योतिः प्रसङ्ख्याय विमुच्यते ॥
यःसर्व-भूत-चित्तज्ञो यश् च सर्व-हृदि स्थितः ।
यश् च सर्वान्तरेज्ञेयः सोऽहम् अस्मीति चिन्तयेत् ॥िति गरुडादिभ्यश् च ।
तथात्मेति तूपयन्ति ग्राहयन्ति च [वे.सू. ४.१.३] इति ब्रह्म-मीमांसा-सूत्राच् च । अत्र गारुड-वाक्ये पुरुषस्य ब्रह्मणि न्यासो लय एव न त्व् अभेदः ।
विज्ञानात्मनि संयोज्य क्षेत्रज्ञे प्रविलाप्य तम् ।
ब्रह्मण्य् आत्मानम् आधारे घटाम्बरम् इवाम्बरे ॥[वि.पु.१.१३.५५]
इत्य् आदि-वक्येषु जीव-विलापनेन ब्रह्मात्म-चिन्तनस्य स्मरणात् । प्रकृति-स्थापन-साहचर्याच् च । अम्बर-दृष्टान्तश् च नाखण्डत्वे—
यथाग्निर् अग्नौ संक्षिप्तः समानत्वम् अनुव्रजेत् ।
तथात्मा साम्यम् अभ्येति योगिनः परमात्मना ॥
इत्य् आदि-वाक्योक्तस्याग्नि-वायु-जलादि-बहुल-दृष्टान्तस्य साम्यस्य च विरोधात्, न्यायानुग्रहेणाग्न्य्-आलयादि-दृष्टान्तानाम् एव बलवत्त्वाच् च । किं त्व् एक-रूपस्य उपाधिक-मिथ्या-विभाग-निवृत्ति-मात्र इति । विलापनेन च प्रकृत्य्-आदिवज् जीवानाम् अनात्मत्वम् एव लभ्यते । तद् उक्तं मात्स्ये—
तत्त्वैः सम्पादितं भुङ्क्ते पुरुषः पञ्चविंशकः ।
ईश्वरेच्छा-वशात् सोऽपि जडात्म कथ्यते बुधैः ॥िति ।
मोक्ष-धर्मे च—
तेनैतन् नाभिनन्दन्ति पञ्चविंशकम् अच्युतम् ।
सद्विंसम् अनुपश्यन्तः शुचयस् तत्-परायनाः ॥[म.भा. १२.३०६.७५]
एतेन प्रकृति-पुरुषौ विलाप्य यच् छिष्टं ब्रह्मतस्मिन्न् एवाहं-भावे वचनाच् च न जीवे मुख्योऽहं-शब्द इति । अनयोश् चिन्तनयोर् मध्ये प्रथम-चिन्तनम् उपासना, द्वितीयं तत्त्व-ज्ञानम् इति । ब्रह्मात्मता-ज्ञानं चातिदुर्लभम् । मोक्ष-धर्मे चोक्तं—
भवन्ति ज्ञानिनो नित्यं सर्वतश् च निआमयाः ।
ऐकात्म्यं नाम कश्चिद् धि कदाचित्प्रतिपद्यते ॥[म.भा. १२.२६१.४७] इति दिक् ।
ईश्वर-प्रणिधानाद् इति पञ्चम्य्-उक्तम् असम्प्रज्ञात-पर्यन्त-योग-हेतुत्वं तत्त्व-प्रणिधानस्य येन द्वारेण तद् आह—तद् अस्य इति । प्रणिधानादिभिश् चैकाग्रो भवति, ततश् च परमात्म-साक्षात्कारः, ततः पर-वैराग्याद् असम्प्रज्ञात-योग इति शेषः । स्वाध्याय-योग-सम्पत्त्या परमात्मा प्रकाशते[वि.पु. ६.६.२]इतिवक्ष्यमाण-वाक्य-स्व-रसात् । उक्तार्थे स्व-पितुर् वाक्यं विष्णु-पुराण-स्थं प्रमाणयति—तथा चोक्तम् इति । योग-जपयोर् एकदा न सम्भव इति योगस्याद्य्-अन्तयोर् व्युत्थान-काले जप उक्तः ।
ननु परमात्म-साक्षात्कारं पर-वैराग्यं भवतीति यद् उक्तं, तन् नोपपद्यते, आत्म-साक्षात्-कारेणैवाभिमान-निवृत्त्या पर-वैराग्य-सम्भवाद् इति ? अत्रोच्यते—ब्रह्म-ज्ञानं ताटस्थ्येनात्र न विवक्षितं किं त्व् आत्मत्वेनैव । तथा च जीवात्म-तत्त्व-ज्ञानाद् बुद्धि-पर्यन्तम् अभिमान-निवृत्तिवत् परमात्म-ज्ञानाद् जीव-पर्यन्तेष्व् अभिमानो निवर्तते । पञ्चविंशति-तत्त्वानि विलाप्यैव सोऽःम् इत्य् आत्मतयाधिष्ठान-ब्रह्म-साक्षात्काराद् इति ।
नन्व् एवं जीवस्याप्य् अनात्मत्वं प्रसक्तम् ? इति चेत्, न, व्यावहारिक-पारमार्थिक-भेदेनात्म-द्वयाभ्युपगमात् । आत्मत्वं हि सङ्घाताध्यक्षत्वं क्षेत्रज्ञत्वं च, तच् चेश्वरस्य इवास्ति, ईश्वरत्ववज् जीवात्मनां परतन्त्रत्वात्, धर्माधर्माद्य्-अज्ञातृत्वाच् च । जीवानां चचिति-शक्तिमत्ता-मात्रेणैवात्मत्वं बन्ध-मोक्ष-भोगादि-भागितया सिद्धं लोक-व्यवहार-गोचरतया च व्यावहारिकम् एव । एवम् एवाहं-त्वं-शब्दोऽपिपरमात्मन्य् एव मुख्यो, न तु जीवे, प्रयोगादिषु स्वातन्त्र्याभावेन प्रयोक्त्रात्मत्वादि-रूपस्याहम्-आदि-शब्द-प्रवृत्ति-निमित्तस्य जीवेष्व् अभावादिति । तथा चोक्तम्—
त्वाम् आत्मानं परं मत्वा परम् आत्मानम् एव च ।
आत्मा पुनर् बहिर् मृग्य अहो अक्षजनाज्ञता ॥[भा.पु. १०.१४.२७]इति ।
परम् अनात्मानम् । यद्यपि जीवो मुख्यात्म न भवति, तथापि तज्-ज्ञानाद् अपि धर्माधर्म-रागादि-निवृत्त्या मोक्षस् तु भवत्य् एवेति । एतेन व्यवहार-परमार्थ-भेदाद् ऐकात्म्य-नानात्मता-वादौ श्रुति-स्मृति-दर्शनेष्व् अविरुद्धाव् इत्य् अपि सिद्धम् । अधिकं तु ब्रह्म-मीमांसा-भाष्ये विज्ञानामृते द्रष्टव्यमिति दिक् ।
तद् इदम् ईश्वर-प्रणिधानाद् वा इत्य्-आदि-सूत्र-गणोक्तम् अर्थ-जातं लिङ्ग-पुराणे स्पष्टं प्रदर्शितम्, यथा—
अविद्ययेशस्य योगो नातीतो नाप्य् अनागतः ।
नाप्य् अस्त्य् अस्मितया चैवं रागेणापि त्रिकालता ॥
कालेषु त्रिषु सम्बन्धस् तस्य द्वेषेण नो भवेत् ।
तथैवाभिनिवेशेन सम्बन्धो न कदाचन ॥
कुशलाकुशलैश् चैव सम्बन्धो नैव कर्मभिः ।
भवेत् काल-त्रये शम्भोर् अविद्याम् अतिवर्जनात् ॥
विपाकैःकर्मणां तस्य न भवेद् एव संयमः ।
कालेषु त्रिषु शर्वस्य शिवस्य शिव-दायिनः ॥
सुख-दुःखैर् न संस्पृश्यः काल-त्रितय-वर्तिभिः ।
तथैव भोग-संस्कारैर् भगवान् अन्तकान्तकः ॥
पुं-विशेषः परो देवो भगवान्परमेश्वरः ।
चेतनाचेतनोमुक्तः प्रपञ्चाद् अखिलात् परः ॥
लोके सातिशयत्वेन ज्ञाइश्वर्ये विलोकिते ।
शिवे नातिशयित्वेन स्थिते आहुर् मनीषिणः ॥
प्रतिसर्गं वस्तु-भानं ब्रह्मणः शास्त्र-विस्तरम् ।
उपदेशात् स एष्टव्यः कालावच्छेद-वर्तिनाम् ।
कालावच्छेद-युक्तानां गुरूणाम् अप्य् असौ गुरुः ।
सर्वेषाम् अपि सर्वेशः कालावच्छेद-वर्जितः ॥
अनादिर् एव सम्बन्धो विज्ञानोत्कर्षयोः परे ।
स्थितयोर् ईदृशः शर्वः परिशुद्धः स्वभावतः ॥
आत्म-प्रयोजनाभावे परानुग्रह एव हि ।
प्रयोजनं समस्तानां क्रियाणां परमेष्ठिनः ॥
प्रणवो वाचकस् तस्य शिवस्य परमात्मनः ।
शिव-रुद्रादि-शब्दानां प्रणवो हि परः स्मृतः ॥
शम्भोः प्रणव-वाच्यस्य भावना तज्-जपाद् अपि ।
आशु सिद्धिः परा प्राप्या भवत्य् एव न संशयः ॥
एकं ब्रह्म-मयं ध्यायेत् सर्वं विप्र चराचरम् ।
चराचर-विभागं च त्यजेद् अहमिति स्मरन् ॥
सप्ताण्डावरणान्य् आहुर् अण्डस्यात्माम्बुजासनः ।
कोटि-कोट्य्-अयुतानीशे चाण्डानि कथितानि तु ॥
तत्र तत्र चतुर्वक्त्रा ब्रह्माणो हरयो भवाः ।
सृष्टाः प्रधानेन तथा प्राप्य शम्भोस् तु सन्निधिम् ॥
असङ्ख्याताश् च रुद्राख्या असङ्ख्याताः पितामहाः ।
हरयश् चाप्य् असङ्ख्याता एक एव महेश्वरः ॥
ब्रह्मेन्द्र-विष्णु-रुद्राद्यैर् अपि देवैर् अगोचरम् ।
आदि-मध्यान्त-रहितं भेषजं भव-रोगिणाम् ॥
शिव-तत्त्वमिति ख्यातं शिवाद् अपि परं पदम् ॥िति ॥२८॥
—o)0(o—
(१.२९)
किं चास्य भवति ?
ततः प्रत्यक्-चेतनाधिगमोऽप्य् अन्तरायाभावश् च ॥२९॥
ये तावद् अन्तराया व्याधि-प्रभृतयस् ते तावद् ईश्वर-प्रणिधानान् न भवन्ति । स्वरूप-दर्शनम् अप्य् अस्य भवति । यथैवेश्वरः पुरुषः शुद्धः प्रसन्नः केवलोऽनुपसर्गस् तथायम् अपि बुद्धेः प्रतिसंवेदी पुरुष इत्य् एवम् अधिगच्छति ॥२९॥
तत्त्व-वैशारदी :किं च परम् अस्मात् ? ततः प्रत्यक्-चेतनाधिगमोऽप्य् अन्तरायाभावश् च ॥प्रतीपं विपरीतम् अञ्चति विजानातीति प्रत्यक्, स चासौ चेतनश् चेति प्रत्यक्-चेतनोऽविद्यावान् पुरुषः । तद् अनेनेश्वराच् छाश्वतिक-सत्त्वोत्कर्ष-सम्पन्नाद् विद्यावतो निवर्तयति । अविद्यावतः प्रतीचश् चेतनस्य अधिगमो ज्ञानं स्वरूपतोऽस्य भवति । अन्तराया वक्ष्यमाणास् तद्-अभावश् च ।
अस्य विवरणं—ये तावदिति। स्वम् आत्म तस्य रूपम् । रूप-ग्रहणेनाविर्द्या-समारोपितान् धर्मान् निषेधति ।
नन्व् ईश्वर-प्रणिधानमीश्वर-विषयं कथम् इव प्रत्यक्-चेतनंसाक्षात् करोति । अतिप्रसङ्गाद् इत्य् अत९२ आह—तथैवेश्वरैति । शुद्धः कूटस्थ-नित्यतयोदय-व्यय-रहितः । प्रसन्नः क्लेश-वर्जितः । केवलःधर्माधर्मापेतः । अत एव अनुपसर्गः । उपसर्गाः जात्य्-आयुर्-भोगाः ।
सादृश्यस्य किञ्चिद् भेदाधिष्ठानत्वाद् ईश्वराद् भिनत्ति—बुद्धेः प्रतिसंवेदीइति । तद् अनेन प्रत्यग् ग्रहणं व्याख्यातम् । अत्यन्त-विधर्मिणोर् अन्यतरार्थानुचिन्तनं न तद्-इतरस्य साक्षात्काराय कल्पते । सदृशार्थानुचिन्तनंतु सदृशान्तर-साक्षात्कारोपयोगिताम् अनुभवति एक-शास्त्राभ्यास इव तत्-सदृशार्थ-शास्त्रान्तर-ज्ञानोपयोगिताम् । प्रत्यासत्तिस् तु स्वात्मनिसाक्षात्कार-हेतुर् न परात्मनीति सर्वम् अवदातम् ॥२९॥
योग-वार्तिकम् :तद् एवं जीव-प्रज्ञाया इवेश्वर-प्रणिधानाद् अपि प्रज्ञा-द्वारा योगस् तत्-फलं मोक्षश् च भवतीत्य् उक्तम् । इदानीं तयोर् मध्य ईश्वर-प्रणिधानस्य मुख्य-कल्पत्वं प्रतिपादयितुं तत्र द्वाराधिक्यं सूत्रेणप्रतिपादयति—किं चास्य इति । अन्यच् चास्य प्रणिधानिनो भवतीत्य् अर्थः ।
ततः प्रत्यक्-चेतनाधिगमोऽप्य् अन्तरायाभावश् च ॥ततईश्वर-प्रणिधानात् तत्-साक्षात्कार-द्वारा तद्-दृष्टान्तेन जीव-तत्त्वम् अप्य् अनायासेन पूर्णतयासाक्षात्क्रियतेइतिप्रथम-दलार्थः । अपि-शब्द आसन्नतम-सिद्धान्त्य्-अपेक्षया । यद्यपि प्रति प्रतिवस्तु अञ्चति अनुगच्छतीति व्युत्पत्त्यासङ्कुचित-सर्वानुगतः परमात्मैव मुख्यः प्रत्य-शब्दार्थः—प्रत्यक् प्रशान्तं भगवच्-छब्द-संज्ञं यद् वासुदेवं कवयो वदन्ति [भा.पु. ५.१२.११] इत्य् आदिष्वपीश्वरे प्रत्यक्-प्रयोग-दर्शनाच् च, तथापिईश्वरादि-शब्दवद् एव प्रत्यक्-शब्दोऽपिजीवे गौणो विभुत्वात् । अत एव प्रवृत्ति-व्यावर्तनाय चेतनेत्य् उक्तम् । यदि च प्रत्यक्-शब्दः पश्चिम-वाची, तथापि सर्ग-प्रलय्द्य्-अवधि-भूते ब्रह्मण्य् एव मुख्योऽन्यत्र गौणैति ।
अन्तरायाभाव एकाग्रता-सामान्यस्यैवफलमिति वक्ष्यतेतत्-प्रतिषेधार्थम् एक-तत्त्वाभ्यास[१.३२] इति सूत्रेणेत्य् अतो विशिष्येश्वर-प्रणिधानस्यान्तरायाभाव-फलकत्व-वचनम् अनुवादकतया व्याचष्टे—ये तावद् इति। अनुवादस्य च फलम् आधिक्येन विघ्न-निवर्तकत्व-लाभः, तस्य ह न देवाश् च नाभूत्या ईशत आत्म ह्य् एषां स भवतिइतिश्रुत्या ब्रह्मात्मता-दर्शिन इच्छा-विघाते देवादीनाम् अप्य् असामर्थ्य-प्रतिपादनाद् इति । अते एवोक्तं नारदीयादिष्व् अपि—
तस्मान् मुमुक्षोः सुमुखो मार्गः श्री-विष्णु-संश्रयः ।
चित्तेन चिन्तयानेन वञ्च्यते ध्रुवम् अन्यथा ।
धत्ते पदं त्वम् अविता यदि विघ्न-मूर्ध्नि ॥ इत्य् आदि ।
स्वरूप-दर्शनम् इति । अस्य प्रतीचो जीवस्य यत् तात्त्विकं रूपं तस्य साक्षात्कारोऽपिभवतीत्य् अर्थः । अन्य-प्रणिधानेनान्य-साक्षात्कारेऽदृष्ट-द्वारम् अप्य् अस्तीति प्रतिपादयन्न् एव स्वरूप-दर्शनं विवृणोति—यथैवेति । बुद्धेः प्रतिसंवेदी बुद्धि-वृत्ति-प्रतिबिम्बोद्ग्राही तत् साक्षीति यावत् । इदं च जीव-ब्रह्मणोर् अत्यन्ताभेद-निराकरणाय वैधर्म्यम् उक्तम् । यथैवेश्वरः शुद्ध्यादि-गुणकस् तथायम् अपि यो बुद्धेः साक्षी पुरुष इत्य् एवम् अधिगच्छति अवधारयतिपुरुषत्वाविशेषाद् इत्य् अर्थः । पुरुषश् चेतनः शुद्धः पाप-पुण्य-विवर्जितः प्रसन्नो निर्दुःखः केवलश् चिन्मात्रोऽनुपसर्गो जात्य्-आयुर्-भोग-रहितैति ।
तद् एतद् उक्तं नारदीये—
माया-प्रवर्तके विष्णौ दृढा भक्तिः कृता नृणाम् ।
सुखेन प्रकृतेर् भिन्नं स्वं दर्शयति दीपवत् ॥िति ।
यद्यप्य् अंशि-स्वरूपावधारणेनांश-स्वरूपावधारणवद् अंश-स्वरूपावधारणेनाप्य् अंशि-स्वरूपावधारणं भवति, अंशांशिनोर् एक-स्वरूपत्वस्य उत्सर्गिकत्वात्, प्रत्युतेश्वरस्यावाङ्-मनस-गोचरतया स्व-तत्त्व-साक्षात्काराद् एव तद्-अनुसारेणेश्वरे विवेकः सम्भवति नान्यथा, तथा च श्रुतिर् अपि—यद् आत्मत्वेन तु ब्रह्म-तत्त्वं दीपोपमेनेह युक्तः प्रपश्येत् इत्य् आदिः । तथापिजीवस्य पूर्णत्व-नित्यत्वाद्य्-अंश ईश्वरानुसारेणैव सुखेन ज्ञातुं शक्यत इत्य् आशयः । अत एवतत्त्वम् एव त्वम् एव तत् इत्य् आदिश्रुतयः परस्परम् एवावैधर्म्य-लक्षणाभेदं प्रतिपादयन्ति ॥२९॥
—o)0(o—
(१.३०)
अथ केऽन्तराया ये चित्तस्य विक्षेपाः ? के पुनस् ते कियन्तो वेति ?
व्याधि-स्त्यान-संशय-प्रमादालस्याविरति-भ्रान्ति-दर्शनालब्ध-भूमिकत्वानवस्थितत्वानि चित्त-विक्षेपास् तेऽन्तरायाः ॥३०॥
नवान्तरायाश् चित्तस्य विक्षेपाः । सहैते चित्त-वृत्तिभिर् भवन्ति । एतेषाम् अभावे न भवन्ति पूर्वोक्ताश् चित्त-वृत्तयः । तत्र व्याधिर् धातु-रस-करण-वैषम्यम् । स्त्यानम् अकर्मण्यता चित्तस्य । संशय उभय-कोटि-स्पृग् विज्ञानं स्याद् इदम् एवं नैवं स्यादिति । प्रमादः समाधि-साधनानाम् अभावनम्, आलस्यं कायस्य चित्तस्य च गुरुत्वाद् अप्रवृत्तिः । अविरतिश् चित्तस्य विषय-सम्प्रयोगात्मा गर्धः । भ्रान्तिर् दर्शनं विपर्यय-ज्ञानम् । अलब्ध-भूमिकत्वं समाधि-भूमेर् अलाभः अनवस्थितत्वं लब्धायां भूमौ चित्तस्याप्रतिष्ठा । समाधि-प्रतिलम्भे हि सति तद् अवस्थितं स्यादिति । एते चित्त-विक्षेपा नव योग-मला योग-प्रतिपक्षा योगान्तराया इत्य् अभिधीयन्ते ॥३०॥
तत्त्व-वैशारदी :पृच्छति—अथ कैति । सानान्येनोत्तरं—यैति । विशेष-साङ्ख्ये पृच्छति—के पुनः ?इति । उत्तरम् व्याधीत्य्-आदि सूत्रम् । अन्तरायानव । एताश् चित्त-वृत्तयो योगान्तराया योग-विरोधिनः । चित्तं खल्वमी व्याध्य्-आदयो योगाद् विक्षिपन्तिय् अपनयन्तीति विक्षेपाः ।
योग-प्रतिपक्षत्वे हेतुम् आह—सहैतैति । संशय-भ्रान्ति-दर्शने तावद् वृत्तितया वृत्ति-निरोध-प्रतिपक्षौ । येऽपिन वृत्तयो व्याधि-प्रभृतयस् तेऽपि वृत्ति-साहचर्यात् तत्-प्रतिपक्षा इत्य् अर्थः । पदार्थान् व्याचष्टे—व्याधिरिति । धातवो वात-पित्त-श्लेष्माणः, शरीर-धारणात् । अशित-पीताहार-परिणाम-विशेषो रसः । करणानीन्द्रियाणि । तेषां वैषम्यम् । न्यूनाधिक-भावैति । अकर्मण्यता कर्मानर्हता । संशय उभय-कोटि-स्पृग् विज्ञानम् । सत्य् अप्य् अतद्-रूप-प्रतिष्ठत्वेन संशय-विपर्यासयोर् अभेदे उभय-कोटि-स्पर्शास्पर्श-रूपावान्तर-विशेष-विवक्षयात्र भेदेनोपन्यासः । अभावनम् अकरणं तत्राप्रयत्नमिति यावत् । कायस्य गुरुत्वं तमसा । गर्धस् तृष्णा । मधुमत्य्-आदयः समाधि-भूमयः । लब्ध-भूमेर् यदि तावतैव दुस्थितं-मन्यस्य समाधि-भ्रेषः स्यात् ततस् तस्या अपि भूमेर् अपायः स्यात् । यस्मात्समाधि-प्रतिलम्भे तद् अवस्थितम् स्यात् तस्मात् तत्र प्रयतितव्यमिति॥३०॥
योग-वार्तिकम् :न्योऽन्य-दृष्टान्तेनान्योऽन्य-धर्माणाम् अन्योऽन्यस्मिन्न् अवधारणायान्तराय-स्वरूप-प्रतिपादकं सूत्रम् अवतारयति—अथैति । व्याध्य्-आदेर् अन्तरायत्वोपपादनाय सूत्रे चित्त-विक्षेपाइति वदिष्यति । तस्य व्याख्यानार्थम् भाष्ये वक्रोक्तिः । विक्षेपाःविक्षेपकाः । सामान्येन दत्तोत्तरम्विशेष-सङ्ख्याभ्यां पुनः पृच्छति—के पुनरिति ।
व्याधि-स्त्यान-संशय-प्रमादालस्याविरति-भ्रान्ति-दर्शनालब्ध-भूमिकत्वानवस्थितत्वानि चित्त-विक्षेपास् तेऽन्तरायाः ॥
चित्त-विक्षेपकतयैतानि ते पूर्व-सूत्रोक्ताः अन्तरायाइत्य् अर्थः । व्याचष्टे—नवेति । अन्वय-व्यतिरेकाभ्यां चित्ते विक्षेपकत्वम् एषां साधयति—सहैतैति । सूक्ष्म-कालानाकलनेन सहेत्य् उक्तम् । एतेषाम् अव्यवधानेनैव व्याध्य्-आदि-गोचरा वा तन्-निवृत्त्य्-उपाय-गोचरा वा चित्तस्य वृत्तयोभवन्ति योग-भ्रंशिका इत्य् अर्थः ।
व्याध्यादीन् नव क्रमेण व्याचष्टे—व्याधिरिति । शरीर-धारकत्वात् धातूनां वात-कफ-पित्तानां रसानाम् आहार-परिणामानां करणानां चक्षुरादि-मन-आदीनां च वैषम्यं विसदृश-भावो व्याधिः ।
अकर्मण्यता योगानुष्ठानाक्षमता, आम-वातादिना देहस्याकर्म्ण्यत्वेऽपि चित्तस्य योगाविरोधाच् चित्तस्येत्य् उक्तम् ।
संशयाकारम् आह—स्यादिति । इदं गुरु-शास्त्रोक्तं ज्ञान-तत्-साधनादि ।
अभावनम् अननुसन्धानम् । काय-गुरुत्वं कफादिना । चित्त-गुरुत्वं तमसा । ताभ्यां हेतुभ्याम् अप्रवृत्तिःसमाधि-साधनानुष्थानम् ।
सम्प्रयोगात्मासन्निकर्ष-जन्यो गर्धोऽभिलाषः । विपरीतं ज्ञानम् गुर्व्-आदि-प्रमितार्थ-विपरीत-निश्चयः ।
समाधि-भूमेरिति । वक्ष्यमाणानां मधुमत्य्-आदि-भूमीनाम् एकतमस्या अपि साधनानुष्ठानेऽप्य् अलाभैत्य् अर्थः। अप्रतिष्ठा-लाभेऽपि भ्रंशः ।
ननु लाभोत्तरम् भ्रंशे का क्षतिर् तिय् आशङ्कायाम् आह—समाधि-प्रतिलम्भे हि इति । प्रतिलम्भो निष्पत्तिर् ध्येय-साक्षात्कारैति यावत् । अयं भावः—साक्षात्कार-पर्यन्तम् एव चित्तस्य तत्-तद्-भूम्य्-अवस्थानम् अपेक्षितम् अतोऽकृत-साक्षात्कारस्य योगारूढस्यापि भ्रंशोऽनवस्थितत्वम् एव भवतीति ॥३०॥
—o)0(o—
(१.३१)
दुःख-दौर्मनस्याङ्गम्-एजयत्व-श्वास-प्रश्वासा
विक्षेप-सह-भुवः ॥
दुःखम् आध्यात्मिकम् आधिभौतिकम् आधिदैविकं च । येनाभिहताः प्राणिनस् तद्-उपघाताय प्रयतन्ते, तद् दुःखम् । दौर्मनस्य म् इच्छा-विघाताच् चेतसः क्षोभः । यद् अङ्गान्य् एजयति कम्पयति, तद् अङ्गम्-एजयत्वम् । प्राणो यद् बाह्यं वायुम् आचामति, स श्वासः । यत् कौष्ठ्यं वायुं निःसारयति, स प्रश्वासः । एते विक्षेप-सह-भुवः, विक्षिप्त-चित्तस्य इते भवन्ति, समाहित-चित्तस्य इते न भवन्ति ॥३१॥
तत्त्व-वैशारदी : न केवलं नवान्तरायाः, दुःखादयोऽप्य् अस्य तत्-सहभुवो भवन्तीत्य् आह—दुःखेति । प्रतिकूल-वेदनीयं दुःखमाध्यात्मिकं शारीरं व्याधि-वशान् मानसं च कामादि-वशात् । आधिभौतिकं व्याघ्रादि-जनितम् । आधिदैविकं ग्रह-पीडादि-जनितम् । तच् चेदं दुःखं प्राणि-मात्रस्य प्रतिकूल-वेदनीयतया हेयम् इत्य् आह—येनाभिहताइति । अनिच्छतः प्राणो यद् बाह्यं वायुम् आचमति पिबति, प्रवेशयतीति यावत्, स श्वासः समाध्य्-अङ्ग-रेचक-विरोधी । अनिच्छतोऽपि प्राणो यत् कौष्ठ्यं वायुं निःसरयति, स प्रश्वासः समाध्य्-अङ्ग-पूरक-विरोधी ॥३१॥
योग-वार्तिकम् : न केवलम् एते व्याध्य्-आदयो योगान्तरायाः, अपि तु दुःखादि-रूपेष्व् अन्तरायान्तरेष्व् अपि हेतवो भवन्तीत्य् आह—दुःख-दौर्मनस्याङ्गम्-एजयत्व-श्वास-प्रश्वासा विक्षेप-सह-भुवः ॥
दुःखादीन् यत्र क्रमेण व्याचष्टे—दुःखमिति । आत्मानं स्व-सन्घातम् अधिकृत्य वर्तत इत्य् आध्यात्मिकम् । तच् च द्विविधं—शारीरं मानसं च । शारीरं व्याध्य्-आदि-जनितम्, मानसं कामादि-जम् । भूतानि प्राणिनो व्याघ्रादीन् लक्षीकृत्य जायत इत्य् आधिभौतिकं व्याघ्राद्य्-उत्थम् । देवान् अधिकृत्य जायत इत्य् आधिदैविकं शीतोष्णाद्य्-उत्थम् इत्य् अर्थः । यद्यपिसर्वम् एव विपक्षोद्भवं दुःखं मानसं, तथापि प्राधान्येन मनो-विकार-जन्यत्वाजन्यत्वाभ्यां मानसत्वामानसत्व-विभागः,विषय-गत-दुःखेषु चित्त-विक्षेपाणाम् अहेतुत्वात् । दुःख-सामान्यस्य त्रिधा विभागो न घटते, घट-पटादि-दुःखानाम् असङ्ग्रहात् । एवम् अन्यत्रापि ।
दुःख-सामान्य-लक्षणम् आह—येनेति । क्षोभः चाञ्चल्यम् । यद्-अङ्गानिइति । अङ्ग-कम्पोऽङ्गमेजयत्वमिति ।
प्राणेति । पुरुष-प्रयत्नं विना स्वयम् एव प्राणो यद् बाह्यं वायुम् अतिशयेनाचामति पिबति शरीरान्तः प्रवेशयति, स श्वास-नामा विकार इत्य् अर्थः । कौष्ठ्यम् उदर-स्थं वायुं निःसारयति बहिःकरोति । शेषे पूर्ववत् ।
सूत्र-वाक्यार्थं व्याचष्टे—एतैति । विक्षेप-सहभुवो व्याध्य्-आदि-विक्षेपोद्भवाः । तत्रहेतुम् आह—विक्षिप्तेति । विक्षेपानन्तरम् एव जायन्ते । विक्षेप-निवृत्तौ निवर्तन्त इत्य् अर्थः ॥३१॥
—o)0(o—
(१.३२)
अथैते विक्षेपाः समाधि-प्रतिपक्षास् ताभ्याम् एवाभ्यास-वैराग्याभ्यां निरोद्धव्याः । तत्राभ्यासस्य विषयम् उपसंहरन्न् इदम् आह—
तत्-प्रतिषेधार्थम् एक-तत्त्वाभ्यासः ॥
विक्षेप-प्रतिषेधार्थम् एक-तत्त्वावलम्बनं चित्तम् अभ्यसेत् । यस्य तु प्रत्यर्थ-नियतं प्रत्यय-मात्रं क्षणिकं च चित्तं तस्य सर्वम् एव चित्तम् एकाग्रं नास्त्य् एव विक्षिप्तम् । यदि पुनर् इदं सर्वतः प्रयाहृत्यैकस्मिन्न् अर्थे समाधीयते, तदा भवत्य् एकाग्रम् इत्य् अतो न प्रत्यर्थ-नियतम् ।
योऽपि सदृश-प्रत्यय-प्रवाहेण चित्तम् एकाग्रं मन्यते, तस्य इकाग्रता यदि प्रवाह—चित्तस्य धर्मः, तदैकं नास्ति, प्रवाह—चित्तं क्षणिकत्वात् ।
अथ प्रवाहांशस्यैव प्रत्ययस्य धर्मः स सर्वः सदृश-प्रत्यय-प्रवाही वा विसदृश-प्रत्यय-प्रवाही वा प्रत्यर्थ-नियतत्वाद् एकाग्र एवेति विक्षिप्त-चित्तानुपपत्तिः ।९३ तस्माद् एकम् अनेकार्थम् अवस्थितं चित्तमिति ।
यदि च चित्तेनैकेनानन्विताः स्वभाव-भिन्नाः प्रत्यया जायेरन्न् अथ कथम् अन्य-प्रत्यय-दृष्टस्यान्यः स्मर्ता भवेत् ? अन्य-प्रत्ययोपचितस्य च कर्माशयस्यान्यः प्रत्यय उपभोक्ता भवेत् । कथञ्चित् समाधीयमानम् अप्य् एतद् गोमय-पायसीयं न्यायम् आक्षिपति ।
किं च, स्वात्मानुभवापह्नवश् चित्तस्यान्यत्वे प्राप्नोति । कथम् ? यद् अहम् अद्राक्षं तत् स्पृशामि, यच् चाप्रक्षं तत् पश्यामीत्य् अहमिति प्रत्ययः सर्वस्य प्रत्ययस्य भेदे सति प्रत्ययिन्य् अभेदेनोपस्थितः । एक-प्रत्यय-विषयोऽयम् अभेदात्माहमिति प्रत्ययः कथम् अत्यन्त-भिन्नेषु चित्तेषु वर्तमानं सामान्यम् एकं प्रत्ययिनम् आश्रयेत् ? स्वानुभव-ग्राह्यश् चायम् अभेदात्माहमिति प्रत्ययः ।
न च प्रत्यक्षस्य माहात्म्यं प्रमाणान्तरेणाभिभूयते । प्रमाणान्तरं च प्रत्यक्ष-बलेनैव९४ व्यवहारं लभते । तस्माद् एकम् अनेकार्थम् अवस्थितं च चित्तम् ॥३२॥
तत्त्व-वैशारदी : उक्तार्थोपसंहार-सूत्रम् अवतारयति—अथैतैति । अथोक्तार्थानन्तरम् उपसंहरन्न् इदं सूत्रम् आहेति सम्बन्धः । निरोद्धव्यत्वे हेतुर् उक्तः—समाधि-प्रतिपक्षाइति । यद्यपीश्वर-प्रणिधानाद् इत्य् अभ्यास-मात्रम् उक्तं, तथापि वैराग्यम् इह तत्-सहकारितया ग्राह्यम् इत्य् आह—ताभ्याम् उक्त-लक्षणाभ्याम् एवाभ्यास-वैराग्याभ्यांनिरोद्धव्याः ।
तत्र तयोर् अभ्यास-वैराग्ययोर् मध्ये अभ्यासस्य अनन्तरोक्तस्येति ।
तत्-प्रतिषेधार्थम् इत्य्-आदि । एकं तत्त्वम् ईश्वरः । प्रकृतत्वादिति । वैनाशिकानां तु सर्वम् एकाग्रम् एव चित्तं नास्ति किञ्चिद् विक्षिप्तमिति तद्-उपदेशानां तद्-अर्थानां च प्रवृत्तीनां वैयर्थ्यम् इत्य् आह—यस्य त्विति । यस्य मते प्रत्यर्थेऽर्प्यमाण एकस्मिन्न् अनेकस्मिन् वा, नियतं यावद्-अर्थावभासम् उत्पन्नं, तत्रैव समाप्तम् अनन्य-गामि ।
अर्थान्तरं तावत् प्रथमं गृहीतत्वार्थान्तरम् अपि पश्चात् कस्मान् न गृह्णाति ? इत्य् अत आह—क्षणिकंच । क्षणस्याभेद्यत्वेन९५ पूर्व-पश्चाद्-भावस्याप्य् अभावैति भावः । अस्मन्-मते त्व् अक्षणिकं चित्तं स्व-विषय एकस्मिन्न्न् अनेकस्मिन्न् वानवस्थितं प्रतिक्षणं तत्-तद्-विषयोपादान-परित्यागाभ्यां विषयानियतं विक्षिप्तम्, अतो विक्षेप-परिणामम् अपनीय शक्यैकाग्रताधातुमिति।
तद्-उपदेश-प्रवृत्त्योर् नानर्थकत्वम् इत्य् आह—यदि पुनर् इदमिति । उपसंहरति—अतो नैति ।
वैनाशिकम् उत्पादयति—योऽपिइति । मा भूद् एकस्मिन् क्षणिके चित्त एकाग्रताधान-प्रयत्नः । चित्त-सन्ताने त्व् अनादाव् अक्षणिके विक्षेपम् अपनीयैकाग्रताधास्यत इत्य् अर्थः । तद् एतद् विकल्प्य दूषयति—तस्येति । तस्य दर्शने एकाग्रता यदि प्रवाह—चित्तस्य चित्त-सन्तानस्य वा धर्मः, तत्रैकं क्रमवद् उत्पादेषु प्रत्ययेष्व् अनुगतं नास्ति प्रवाह—चित्तम् । कुतः ? यद् यावद् अस्ति तस्य सर्वस्य क्षणिकत्वाद् अक्षणिकस्य चासत्त्वाद् भवतां दर्शनैति भावः ।
द्वितीय-कल्पं गृह्णाति—अथैति । सांवृतस्य प्रवाहांशः प्रत्ययः परमार्थः सन्, तस्य प्रत्ययस्य इकाग्रता प्रयत्न-साध्योधर्मः । दूषयति—स सर्वःिति । सांवृत-प्रवाहापेक्षया सदृश-प्रत्यय-प्रवाही वा विसदृश-प्रत्यय-प्रवाही वा। अतः परमार्थ-सत्ता-रूपेणप्रत्यर्थ-नियतत्वादर्थावभास उत्पन्नस् तत्र समाप्तत्वातेकाग्र एवेति विक्षिप्त-चित्तानुपपत्तिः, यद् अपनयेनैकाग्रताधीयतैति ।ुपसंहरति—तस्मादिति।
इतोऽपिचित्तम् एकम् अनेकार्थम् अवस्थितं चेत्य् आह—यदि च इति । यथा हि मैत्रेणाधीतस्य शास्त्रस्य न चैत्रः स्मरति । यथा मैत्रेणोपचितस्य पुण्यस्य पापस्य वा कर्माशयस्य आत्मामात्रम् तद्-असम्बन्ही चैत्रो न भुङ्क्ते, एवं प्रत्ययान्तर-दृष्टस्य प्रत्ययान्तरं न स्मरेत् । प्रत्ययान्तरोपचितस्य वा कर्माशयस्य आत्मामात्रम् च न प्रत्ययान्तरम् उपभुञ्जीतेत्य् अर्थः ।
ननु नातिप्रसज्यते, कार्य-कारण-भावे९६सतीति विशेषणाच् छ्राद्ध-वैश्वानरीयेष्ट्य्-आदाव् अकर्तृ-मातृ-पित्र्-आदि—गामि-आत्मामात्र-दर्शनान् मधुर-रस-भावितानाम् आम्र-बीजादीनां परम्परया आत्मामात्र-माधुर्य-नियमाद् इत्य् अत आह—कथञ्चित् समाधीयमानम् अप्य् एतत् । अयम् अभिसन्धिः—कः खल्व् एक-सन्तान-वर्तिनां प्रत्ययानां सन्तानान्तर-वर्तिभ्यः प्रत्ययेभ्यो विशेषो येनैक-सन्तान-वर्तिना प्रत्ययेनानुभूतस्योपचितस्य च कर्माशयस्य तत्-सन्तानवर्त्य् एव प्रत्ययः स्मर्ता भोक्ता च स्यान् नान्य-सन्तान-वर्ती ? न हि सन्तानो नाम कश्चिद् अस्ति वस्तु सन् य एनं सन्तानिनं सन्तानान्तर-वर्तिभ्यो भिन्द्यात् । न च काल्पनिको भेदः क्रियायाम् उपपद्यते । न खलु कल्पिताग्नि-भावो माणवकः पचति । न च कार्य-कारण-भाव-सम्बन्दोऽपि वास्तवः । सह-भुवोः सव्येतर-विषाणयोर् इवाभावाद् असहभुवोर् अपि प्रत्युत्पन्नाश्रयत्वायोगात् । न ह्य् अतीतानागतौ व्यासज्ज्य प्रत्युत्पन्नं वर्तितुम् अर्हतः । तस्मात् सन्तानेन वा कार्य-कारण-भावेन वा स्वाभाविकेनानुपहिताः परमार्थ-सन्तः प्रत्ययाः परस्परासंस्पर्शित्वेन स्व-सन्तान-वर्तिभ्यः पर-सन्तान-वर्तिभ्यो वा प्रत्यान्तरेभ्यो न भिद्यन्ते ।
सोऽयं गोमयं च पायसं चाधिकृत्य प्रवृत्तो न्यायः—गोमयं पायसंगव्यत्वाद् उभय-सिद्ध-पायसवदिति । तम् आक्षिपति न्यायाभासत्वेन ततोऽप्य् अधिकत्वादिति । न चात्र कृत-नाशाकृताभ्यागम-चोद्यम् । यतश् चित्तम् एव कर्मणां कर्तृ, तद् एव तज्-जनिताभ्यांसुख-दुःखाभ्यां युज्यते । सुख-दुःखे च चिति-च्छायापन्नं चित्तं भुङ्क्तेइतिपुरुषे भोगाभिमानश् चिति-चित्तयोर् अभेद-ग्रहादिति । स्व-प्रत्ययं प्रतीत्य समुत्पन्नानांस्वभाव एवैषां तादृशो यत्त एव स्मरन्ति आत्मामात्रम् चोपभुञ्जते, न त्व् अन्ये । न च स्वभावो नियोग-पर्यनुयोगाव् अर्हति—एवं भवतु, मैवं भूदिति वा । कस्मान् नैवमिति वेति ।
यः पूर्वोक्ते न परितुष्यति तं प्रत्य् आह—किं च, स्वात्म- इति । उदय-व्यय-धर्माणाम् अनुभवानाम् अनुभव-स्मृतीनां च नानात्वेऽपि तद्-आश्रयम् अभिन्नं चित्तम् अहमिति प्रत्ययः प्रतिसन्दधानः कथम् अत्यन्त-भिन्नान् प्रत्ययानालम्बेत् ।
ननु ग्रहण-स्मरण-रूप-कारण-भेदात् पारोक्ष्य-रूप-विरुद्ध-धर्म-संसर्गाद् वा न प्रत्यभिज्ञानं नामैकः प्रत्ययो यतः प्रत्ययिनश् चित्तस्य इकता स्याद् इत्य् अत आह—स्वानुभवेति ।
ननु कारण-भेद-विरुद्ध-धर्म-संसर्गाव् अत्र बाधकाव् उक्ताव् इत्य् अत आह—न च प्रत्यक्षस्येति ।प्रत्यक्षानुसारत एव सामग्र्य-भेदः पारोक्ष्यापारोक्ष्य-धर्माविरोधश् चोपपादितो न्याय-कणिकायाम् । अक्षणिकस्य चार्थ-क्रिया न्याय-कणिका-ब्रह्म-तत्त्व-समीक्षेणभावुपपादितेति सर्वम् अवदातम् ॥३२॥
योग-वार्तिकम् :नन्व् एतेऽन्तराया सकार्याः किम् ईश्वर-प्रणिधान-मात्र-निरस्या अथ वान्योपायेनापि निरसितुं शक्या ? इत्य् आकाङ्क्षायाम् उत्तरम् प्रयच्छति सूत्रान्तरावतारणाय—अथैतैति । अथ विकेस्पोत्पत्त्य्-अनन्तरम् एते विकेपा अभ्यास-वैराग्याभ्याम् इत्य्-आदि सूत्रोत्काभ्यां सामान्याभ्याम् एवाभ्यास-वैराग्याभ्यां निरस्या न त्व् ईश्वर-प्रणिधाद् एवेति नियम इत्य् अर्थः । एतत् प्रतिपादकतयोत्तर-सूत्रम् अवतारयति—तत्रेति । तयोर् अभ्यास-वैराग्ययोर् मध्येऽभ्यास-विषयं जीवेश्वरादि-साधारणं पिण्डीकृत्योपहरन् इदं मयोक्तं वक्ष्यमाण-सूत्रेणाहेत्य् अर्थः । यदि हीश्वर-प्रणिधानम् एव केवलम् अन्तरायाभाव-हेतुरितिवक्ष्यमाण-सूत्रार्थः स्यात् तदैकत्वाभ्यासैति सामान्योपसंहारो न युज्येत, निःसन्देहार्थम् ईश्वराभ्यास इत्य् एव वक्तुं युक्तत्वादिति भावः ।
तत्-प्रतिषेधार्थम् एक-तत्त्वाभ्यासः ॥ एकं स्थूलादि किञ्चित् । यत् तु एक-तत्त्व-शब्देनात्र परमेश्वर एवोक्तैति । तन् न, बाधकं विना सामान्य-शब्दस्य विशेष-परत्वानौचित्यात्, पूर्व-सूत्र-प्राप्तत्वेन पौनरुक्त्यापत्तेश् च, सर्वम् एव चित्तम् एकाग्रं नास्त्य् एव विक्षिप्तम् इत्य् आगामि-भाष्यानुपपत्तेश् चेति ।
उक्तयोर् विक्षेपैकाग्रतयोर् वक्ष्यमाण-परिकर्मणश् चोपपत्तये चित्तस्य स्थिरतां साधयिष्यन् चित्तस्य क्षणिकत्वादिकं दूषयति—यस्य तुवैनाशिकस्य मते चित्तं प्रत्यर्थ-नियतम् अर्थाद् अर्थान्तरं न गच्छति, तथा प्रत्यय-मात्रम् निराधार-वृत्ति-मात्रम् तथा क्षणिकं च भवति, तस्य मते सर्वम् एव चित्तम् एकाग्रम् अतो विक्षिप्त-चित्तानुपपत्तिर् इत्य् अर्थः । तद्-अनुपपत्तौ च तेषां स्व-शिष्येभ्यः स्व-शास्त्रेषु समाध्य्-उपदेशो विआत्मामात्र एवेति । चित्तस्य क्रमेऽन नानार्थ-विषयकत्व-स्वीकारे तु नायं दोष इत्य् आह—यदि पुनरिति । ततः किम् ? इत्य् अत आह—अतो नेति ।
योऽपि वैनाशिक-विशेषः उक्त-दोष-परिहाराय मन्यते सदृश-प्रत्यय-प्रवाह—रूपतैव चित्तस्य इकाग्रता प्रवाह—मध्ये विसदृशत्वं च विक्षेपैति । तस्य मतं योऽपीत्य्-आदिनानूद्य विकल्प्य दूषयति—तस्येति । मतैति शेषः । क्षणिकत्वादिति । अत आश्रयाभावेनैकाग्रतानुपपत्तिरिति शेषः ।
नन्व् अतीतान् आगत-वर्तमानासु सदृश-प्रत्यय-व्यक्तिषु त्रित्वादिवद्व्यासज्यवृत्तिर् एकाग्रता भवत्विति चेत् ? न, अन्योन्यासमान-कालीनेषु व्यासज्यवृत्तित्वासम्भवात्, क्षणिक-वादिनां सामान्य-धर्माभावेन सादृश्यस्य दुर्वचत्वाच् चेति । प्रवाहांशस्य प्रत्येक-व्यक्तेर् इत्य् अर्थः । दूषयति—स सर्वैति । स सर्वः प्रवाहांश सदृश-प्रत्यय-प्रवाहान्तः-पातीवाविसदृश-प्रत्यय-प्रवाहान्तःपातीवाभवतु, उभयथैवैकाग्रः, चित्तस्य प्रत्यर्थ-नियतत्वाद् इत्य् आदिर् अर्थः । अतः स्व-सिद्धान्तम् उपसंहरति—तस्मादिति। अवस्थितंस्थिरम् । पर-मते दूषाणान्तरम् आह—यदि चैति ।
स्वभाव-भिन्नत्वेननित्य-भिन्नत्वेन त्वयाभ्युपगताः प्रत्ययायद्य् एक-चित्तानाश्रिताः स्युर् इत्य् अर्थः । अथ-शब्दःप्रश्ने ।
अन्य-प्रत्यय-दृष्टस्यैति । तन्-मते चित्तातिरिकात्माभावाद् उक्तम् । उपचितस्य र्जितस्य । कर्माशयस्य अदृष्टस्य इत्य् अर्थः ।
नन्व् एक-सन्तानोत्पन्नत्वेनानुभव-संस्कार-स्मृत्य्-आदीनां कार्य-कारण-भावाभ्युपगमेनायं दोषः परिहर्तव्य इत्य् आशङ्कायाम् आह—समाधीयमानम् इति । गोमयं पायसं गव्यत्वाद् इत्य् आदि न्यायम् अतिदूषनंसमाधीयमानमप्य् आक्षिपत् इतिरस्करोति । तन् न्यायापेक्षयाप्य् एतद् दूषणोद्धरण-न्याय आभासीभूत इत्य् अर्थः । तत्र हि गन्तव्यं हेतुः प्रसिद्धोऽस्ति, अत्र त्व् एक-सन्तानीयत्व-रूपो हेतुर् अप्य् अप्रसिद्धः, सन्तानस्य इकता-निर्वाहक-जात्य्-आद्य्-अनभ्युपगमादिति भावः ।
दूषणान्तरम् आह—किं चैति । स्वस्य बौद्धस्य य आत्म-विषयकानुभवः, तस्याप्य् अपलापश् चित्तस्य प्रतिक्षणम् अन्यत्वे सति प्रसज्यत इत्य् अर्थः ।
पृच्छति—कथमिति ।ुत्तरं—यदिति। अव्ययम् अहमोविशेषणम् ।तथा च, योऽहम् अद्राक्षं, सोऽहं स्पृशामि, इत्य्-आदि-प्रत्ययेऽहमिति यः प्रत्ययांशः स सर्वस्य प्रत्ययस्य दर्शन-स्पर्शनादि-रूपस्यान्योन्य-भेदे सति तद्-आश्रये प्रत्ययिनि धर्मिण्य् अभेदाकारतयानुभव-सिद्धोऽस्तीत्य् अर्थः ।
आत्मानुभवं व्याख्याय तद्-अपह्नवं व्याचष्टे—एक-प्रत्यय- इति । अयं चैक-प्रत्यय-विषयः प्रत्यय-व्यक्ति-मात्र-गोचरको भवन्-मतेऽतो भेदाकारोऽहमिति प्रत्ययःकथम्भवन्-मतेऽत्यन्त-भिन्नेषुक्षणिक-चित्तेषुविषयत्वेनवर्तमानः सामान्यम् एकं विषयीकुर्यात् ? इत्य् अर्थः । सर्व-प्रत्यय-धर्मिणः स्थिर-चित्तस्यानभ्युपगमादिति भावः ।
नन्व् अभेदाकारोऽहं-प्रत्यय एवाप्रामाणिकः ?इति तत्राह—स्वानुभव- इति । अभेदात्मा अभेदाकारः ।
ननु यत् सत् तत् क्षणिकमिति सत्त्वेन क्षणिकत्वानुमानाद् उक्त-प्रत्ययो बाधनीयः, तत्राह—न च प्रत्यक्षस्यैति । माहात्म्यंस्वार्थ-साधकत्वं, न तर्कादि-शून्य-प्रमाणान्तरेणाभिभूयते प्रतिबध्यते, उपजीव्य-जातीयत्वेन बलवत्त्वाद् इत्य् अर्थः । शङ्खः पीत इत्य् आदि-प्रत्यक्षं तु तर्क-योगेन बलवतानुमानेनैव बाध्यते । एवं देहाद्य्-आत्मता-प्रत्यक्षम् अपि निर्णीत-प्रामाण्येन शास्त्रेण सन्दिग्ध-प्रामाण्यतया दुर्बलं बाध्यतैति ।
ननु चित्तातिरिक्तात्मानभ्युपगमिनाम् अयं दोषो न चास्तिकानां, अहं-प्रत्ययस्य स्थिरात्म-विषयकत्वाभ्युपगमाद् अतः स्व-मते कथं चित्त-स्थैर्य-सिद्धिः ?इति चेत्, पूर्वोक्तात् स्मृति-संस्कारयोर् एकाश्रयता-नियमाद् इत्य् अवेहि ।
तद् इदं चित्त-स्थैर्यम् उपसंहरति—तस्मादिति। परिकर्मोपदेशान्यथानुपपत्त्यापि चित्तस्थैर्यम् अनुमीयत इत्य् आह—यस्यैति । हेतु-गर्भ-विशेषणेन यस्य स्थिर-चित्तस्येदम् आगामि-सूत्र-वक्ष्यमाण-परिकर्म-चित्त-प्रसादनं स्थित्-दार्ढ्य-हेतुः परिष्कारः शास्त्रेषु निर्देश्येत इत्य् अर्थः ॥३२॥
—o)0(o—
(१.३३)
यस्येदं९७ शास्त्रेण परिकर्म निर्दिश्यते, तत् कथम् ?
मैत्री-करुणा-मुदितोपेक्षणां सुख-दुःख-पुण्यापुण्य-विषयाणां भावनातश् चित्त-प्रसादनम् ॥
तत्रसर्व-प्राणिषु सुख-सम्भोगापन्नेषु मैत्रीं भावयेत् । दुःखितेषु करुणाम् । पुण्यात्मकेषु मुदिताम् । अपुण्य-शीलेषूपेक्षाम् । एवम् अस्य भावयतः शुक्लो धर्म उपजायते । ततश् च चित्तं प्रसीदति । प्रसन्नम् एकाग्रं स्थिति-पदं लभते ॥३३॥
तत्त्व-वैशारदी : अपरिकर्मित-मनसोऽसूयादिमतः समाधि-तद्-उपाय-सम्पत्त्य्-अनुत्पादाच् चित्त-प्रसादनोपायान् असूयादि-विरोधिनः प्रतिपादयितुम् उपक्रमते—यस्येदमिति । यस्य चित्तस्य व्युत्थितस्येदं परिकर्म इत्य् अर्थः । मैत्री-करुणेत्य्-आदिप्रसादनान्तं सूत्रम् ।
सुखितेषु मैत्रीं सौहार्दं भावयत ईर्ष्या-कालूष्यं निवर्तते चित्तस्य । दुःखितेषु च करुणाम् आत्मनीव परस्मिन्दुःख-प्रहाणेच्छां भावयतः परापकार-चिकीर्षा-कालूष्यं चेतसो निवर्तते । पुण्य-शीलेषु प्राणिषु मुदितां हर्षं भावयतोऽसूया-कालुष्यं चेतसो निवर्तते । अपुण्य-शीलेषु चोपेक्षां माध्यस्थ्यं भावयतोऽमर्ष-कालुष्यं चेतसो निवर्तते ।
ततश् चास्य राजस-तामस-धर्म-निवृत्तौ शुक्लो धर्म उपजायते । सत्त्वोत्कर्ष-सम्पन्नः सम्भवति । वृत्ति-निरोध-पक्षे तस्य प्रसाद-स्वाभाविक्याच् चित्तं प्रसीदति । प्रसन्नं च वक्ष्यमाणेभ्य उपायेभ्य एकाग्रं स्थिति-पदं लभते । असत्यां पुनर् मैत्र्य्-आदि-भावनायां, न तु उपायाः स्थित्यै कल्पन्तैति ॥३३॥
योग-वार्तिकम् :सूत्रान्तरम् उत्थापयितुं पृच्छति—कथमिति । किम्-उपायकं किं-स्वरूपं किं-फलं वा परिकर्म भवतीत्य् अर्थः । मैत्री-करुणा-मुदितोपेक्षणां सुख-दुःख-पुण्यापुण्य-विषयाणां भावनातश् चित्त-प्रसादनम् ॥ प्रसादनं स्थिति-निबन्धनम् इत्य् आगामि-तृतीय-सूत्रस्थेनान्वयः । अन्यथातत्र सूत्रे वा-शब्द-वैयर्थ्यम् । निबन्धनत्वं च स्थित्य्-अभ्रंश-हेतुत्वम् । तच् च स्थिति-हेतु-श्रद्धाद्य-प्रतिबन्ध-द्वारा, तथैवागामि-सूत्रे भाष्य-व्याख्यानात्, श्रद्धा-वीर्य-स्मृति-समाधीनाम् एव स्थिति-हेतूनाम् उक्तत्वाच् च ।
अत्र सुखादि-शब्दस् तद्-बाहुल्य-लाभाय धर्म-धर्म-भेदात् सुखित्व-वाची । भावना चोत्पादनं प्रसादनं समाधि-प्रतिबन्धक-राग-द्वेषाधर्मादि-मलापसरणं तोयादि-प्रसाद-वाचीत्य् अर्थः ।
तत्रसर्वेति । मैत्रीं सौहार्दं, करुणां निरुपधि-पर-दुःख-प्रहाणेच्छां, मुदितां प्रीतिम् उपेक्षाम् औदासीन्यं सर्वत्रभावयेद् इत्य् अन्वयः । भावनानां चित्त-प्रसादे द्वारम् आह—एवम् अस्येति । शुक्लः पापासम्भिन्नः, ततो धर्मः, इतस् तमः-क्षये चित्तं निर्मलं भवतीत्य् अर्थः । अदृष्ट-द्वारकत्वं चैतन्-मुख्यत उक्तम्, राग-द्वेष-निवृत्ति-रूप-दृष्ट-द्वारकत्वम् अपि बोध्यम् । तद् उक्तं गीतायां—
राग-द्वेष-वियुक्तैस् तु विषयान् इन्द्रियैश् चरन् ।
आत्म-वश्यैर् विधेयात्मा प्रसादम् अधिगच्छति ॥
प्रसादे सर्व-दुःखानां हानिर् अस्योपजायते ।९८
प्रसन्न-चेतसो ह्य् आशु बुद्धिः पर्यवतिष्ठते ॥[गीता २.६४-५]
ननु चित्तस्य प्रसादाख्य-परिकर्मणैव किं कार्यम् ? इत्य् आकाङ्क्षायाम् आह—प्रसन्नमिति । प्रसन्नं चित्तम् एकाग्रं भूत्वा स्थिर-पदम् अभ्रंश-योग्यतां लभतैत्य् अर्थः । स्थिति-पदमिति पाठे स्थितिः स्थैर्यम् इत्य् अर्थः । एवंसर्वत्र ॥३३॥
—o)0(o—
(१.३४)
प्रच्छर्दन-विधारणाभ्यां वा प्राणस्य ॥
कौष्ठ्य् अस्य वायोर् नासिका-पुटाभ्यां प्रयत्न-विशेषाद् वमनं प्रच्छर्दनम् । विधारणं प्राणायामः । ताभ्यां वा मनसः स्थितिं सम्पादयेत्९९ ॥३४॥
तत्त्व-वैशारदी : तान् इदानीं स्थित्य्-उपायान् आह—प्रच्छर्दन-विधारणाभ्यां वा प्राणस्य । वा-शब्दो वक्ष्यमाणोपायान्तरापेक्षो विकल्पार्थः । न मैव्यादि-भावापेक्षया । तया सह समुच्चयात् ।
प्रच्छर्दनं विवृणोति—कौष्ठ्यस्येति । प्रयत्न-विशेषाद् योग-शास्त्र-विहिताद् येन कौष्ठ्यो वायुर् नासिका-पुटाभ्यां शनै रेच्यते । विधारणं विवृणोति—विधारणं प्राणायामः । रेचितस्य प्राणस्य कौष्ठ्य् अस्य वायोर् यद् आयामो बहिर् एव स्थापनं, न तु सहस्या प्रवेशनम् । तद् एताभ्यां प्रच्छर्दन-विधारणाभ्यां वायोर् लघूकृत-शरीरस्य मनः स्थिति-पदं लभते । अत्र चोत्तर-सूत्र-गतात् स्थिति-निबन्धनीति पदात् स्थिति-ग्रहणम् आकृष्य सम्पादयेद् इत्य्-अर्थ-प्राप्तेन सम्बन्धनीयम् ॥३४॥
योग-वार्तिकम् : प्रसादस्य साधनानन्तरम् आह—प्रच्छर्दन-विधारणाभ्यां वा प्राणस्य । वा-शब्दोऽप्य्-अर्थे । आभ्याम् अपि चित्तस्य प्रसादनं कुर्याद् इत्य् अर्थः ।
नासिका-पुटाभ्यामिति । एकतर-पुटेनेत्य् अर्थः । प्रयत्न-विशेषादिति । सूक्ष्म-रूपेण योग-शास्त्रोक्त-रीत्या । वमनं रेचनम् इत्य् अर्थः । विधारणं कुम्भकम् । तच् चार्थात् पूरणानन्तरमिति बोध्यम् । रेचनोत्तरं पूरणं विना विधारणासम्भवात् । प्राणायाम इत्य् उक्तेः । प्राणायामश् च विज्ञेयो रेचक-पूरक-कुम्भकाः इत्य्-आदि-स्मृतिभिस् त्रयाणाम् एव मिलितानां प्राणायामत्व-कथनादिति ।
प्राणायामैति । एतच् च द्वयं पूरण-गर्भं प्राणायाम इत्य् अर्थः । प्रच्छर्दन-विधारणे व्याख्याय समग्र-सूत्रार्थम् आह—ताभ्यामिति । स्थितिं भावयेत् । प्रसाद-द्वारेति शेषः ।
अत्र प्राणायामो यमादि-निरपेक्ष एवोत्तमाधिकारिणी योग-साधनतयोक्तः । द्वितीय-पादे च मन्दाधिकारिणो व्युत्थित-चित्तस्य यमाद्य्-अष्टाङ्ग-मध्ये प्राणायामो वक्तव्य इत्य् अपौनरुक्त्यम् । तथा च स्मृतिः—प्राणायामैर् दहेद् दोषान् धारणाभिश् च किल्बिषम् [मनु ६.७२]इति ॥३४॥
—o)0(o—
(१.३५)
विषयवती वा प्रवृत्तिर् उत्पन्ना मनसः स्थिति-निबन्धिनी ॥
नासिकाग्रे धारयतोऽस्य या दिव्य-गन्ध-संवित् सा गन्ध-प्रवृत्तिः । जिह्वाग्रे रस-संवित् । तालुनि रूप-संवित् । जिह्वा-मध्ये स्पर्श-संवित् । जिह्वा-मूले शब्द-संविद् इत्य् एताः वृत्तय उत्पन्नाश् चित्तं स्थितौ निबध्नन्ति, संशयं विधमन्ति, समाधि-प्रज्ञायां च द्वारी-भवन्ति । एतेनचन्द्रादित्य-ग्रह-मणि-प्रदीप-रत्नादिषु प्रवृत्तिर् उत्पन्ना विषयवत्य् एव वेदितव्या ।
यद्यपि हि तत्-तच्-छास्त्रानुमानाचार्योपदेशैर् अवगतम् अर्थ-तत्त्वं सद्-भूतम् एव भवति, एतेषांयथा-भूतार्थ-प्रतिपादन-सामर्थ्यात्, तथापि यावद् एक-देशोऽपि कश्चिन् न स्व-करण-संवेद्यो भवति, तावत् सर्वं परोक्षम् इवापवर्गादिषु सूक्ष्मेष्व् अर्थेषु न वृढां बुद्धिम् उत्पादयति । तस्माच् छास्त्रानुमानाचार्योपदेशोपोद्वलनार्थम् एवावश्यं कश्चिद् अर्थ-विशेषः प्रत्यक्षी-कर्तव्यः ।
तत्र तद्-उपदिष्टार्थैक-देश-प्रत्यक्षत्वे सति सर्वं सूक्ष्म-विषयम् अप्य् आपवर्गाच् छ्रद्धीयते । एतद्-अर्थम् एवेदं चित्त-परिकर्म निर्दिश्यते । अनियतासु वृत्तिषु तद्-विषयायां वशीकार-संज्ञायाम् उपजातायां चित्तं समर्थं स्यात्, तस्य तस्यार्थस्य प्रत्यक्षी-करणायेति । तथा च सति श्रद्धा-वीर्य-स्मृति-समाधयोऽस्याप्रतिबन्धेन भविष्यन्तीति ॥३५॥
तत्त्व-वैशारदी : स्थित्य्-उपायान्तरम् आह—विषयवती वा प्रवृत्तिर् उत्पन्ना मनसः स्थिति-निबन्धनी ॥ व्याचष्टे—नासिकाग्रे धारयतैति । धारणा-ध्यान-समाधीन् कुर्वतस् तज्-जयाद्या दिव्य-गन्ध-संवित्-तत्-साक्षात्कारः । एवम् अन्यास्व् अपि प्रवृत्तिषु योज्यम् । एतच् चागमात् प्रत्येतव्यं नोपपत्तितः । स्याद् एतत्, किम् एतादृग्भिर् वृत्तिषु कैवल्यं प्रत्यनुपयोगिनीभिर् इत्य् अत आह—एता वृत्तयोऽल्पेनैव कालेनोत्पन्नाः चित्तम् ईश्वर-विषयायां वा विवेक-ख्याति-विषयायां वा स्थितौ निबध्नन्ति ।
नन्व् अन्य-विषया वृत्तिः कथम् अन्यत्रस्थितिं निबन्ध्नातीत्य् अत आह—संशयं विधमन्ति अपसारयन्ति । अत एवसमाधि-प्रज्ञायामिति । वृत्त्य्-अन्तराणाम् अप्य् आगम-सिद्धानां विषयवत्त्वम् अतिदिशति—एतेनेति ।
नन्व् आगमादिभिर् अवगतेष्व् अर्थेषु कुतः संशय इत्य् अत आह—यद्यपि हीति । श्रद्धा-मूलो हि योगः । उपदिष्टार्थैक-देश-प्रत्यक्षी-करणे च श्रद्धातिशयो जायते । तन्-मूलाश् च ध्यानादयोऽस्याप्रत्यूहं भवन्तीत्य् अर्थः ॥३५॥
योग-वार्तिकम् : प्रसादापेक्षया स्थिति-निबन्धनं परिकर्मान्तरम् आह—विषयवती वा प्रवृत्तिर् उत्पन्ना मनसः स्थिति-निबन्धनी ॥ प्रकृष्टा वृत्तिः प्रवृत्तिः साक्षात्कार-रूपा । विषया गन्धादयः पञ्च विषयत्वेनास्याः सन्तीति विषयवती, सा च स्व-साधनाद् उत्पन्ना स्वाविषयेष्व् अपि विवेक-पर्यन्तेषु श्रद्धाद्य-प्रतिबन्ध-हेतुतयास्थिति-प्रयोजिका भवतीत्य् अर्थः । वा-शब्दः समुच्चये । आवश्यकतया भाष्ये वाच्यत्वात् । अत्र च मनसैति वचनाद् मनश् चित्तयोर् एकतेति बोध्यम् ।१००
विषयवती प्रवृत्तिं पञ्च-प्रकारां दर्शयति—नासिकाग्रेइति । नासिकाग्रे गन्धोपलब्धि-स्थाने धारणां कुर्वतो योगिनो यो दिव्य-गन्ध-साक्षात्कारोऽल्पेनैव कालेन भवति, सा गन्ध-प्रवृत्तिरिति तान्त्रिक-परिभाषा । एवंसर्वत्र व्याख्येयम् । ताल्व्-आदयो रूपाद्य्-उपलब्धि-स्थानमितिशास्त्र-प्रामाण्याद् अवधारणीयम् ।
स्थिति-निबन्धनीति व्याचष्टे—चित्तं स्थितौ निबध्नन्तीति । अर्थान्तरेष्व् अतिसूक्ष्मेषु दृढ-स्थिति-योग्यं कुर्वन्ति संस्कार-द्वारेत्य् अर्थः । अन्यच् च कुर्वन्तीत्य् आह—संशयमिति । शास्त्रीयेऽर्थान्तरे संशयं निराकुर्वन्तीत्य् अर्थः । संशय-विधमन-प्रकारं च वक्ष्यति । समाधि-प्रज्ञायामिति । समाधौ जायते या प्रज्ञा सत्त्व-पुरुषान्यता-साक्षात्कारस् तत्रवक्ष्यमाण-वैराग्य-द्वारोपकुर्वन्ति चेत्य् अर्थः । एतेनेति । यतो रूप-प्रवृत्तिर् विषयवती, एतेनहेतुना रूप-प्रधानत्वाच् चन्द्रादि-प्रवृत्तयोऽपिस्थिति-हेतुतया शास्त्रान्तरेषूच्यमाना अस्याम् एव विषयवत्यां प्रवेशनीया इत्य्-आदि । अतो न न्यूनतेति भावः ।
संशयं विधमन्तीति यद् उक्तंतत्र शङ्कां निराकुर्वन्न् एव तद् विवृणोति—यद्यपि हीति । तैस् तैः शास्त्रैः स्वानुमानैर् आचार्योपदेशैश् च निर्णीतम् अर्थ-तत्त्वं परमार्थ-भूतम् एव भवतीति निश्चयान् न तत्र संशयः सम्भवतीति शेषः । संशयम् उपपादयति—तथापीति । यावच्-छास्त्रार्थैक-देशः स्व-करणैश् चक्षुर्-मन-आदिभिर् न साक्षात्-क्रियते तावत् सर्वं शास्त्रादि परोक्षम् इव व्याजोक्तिवत् सन्दिग्ध-तात्पर्यकं भवतीत्य् अतो नापवर्गादिषु निश्चयं जनयतीत्य् अर्थः । तात्पर्य-संशयाइतो हि संशयो निर्णीतेऽप्य् अर्थे भवति, अत एवशास्त्र-मूलकेऽनुमानेऽपि संशयो भवतीत्य् आशयः ।
संशयम् उपपाद्य तद्-विधमन-प्रकारम् आह—तस्मादिति । उपोद्वलनम् अत्र पूर्वावधृत-तात्पर्ये संशयापसारणम् । तत्र शास्त्रेषु, श्रद्दीयते इदम् इत्थं वेति विश्वस्य त इत्य् अर्थः । एतद् अर्थं निश्चयाख्य-श्रद्धोत्पादनार्थम् । समाधि-प्रज्ञायाः श्रद्धा द्वारीभवतीति यद् उक्तं तद् विवृणोति—अनियता स्थिति । अनियतासु अवयवस्थितासु चित्त-वृत्तिषु मध्ये तत्-तद्-गन्धादि-प्रवृत्त्या गन्धादीनां दोष-दर्शनात् तद्-विषयके वशीकार-संज्ञा-वैराग्ये जाते सति विक्षेप-हासात् तस्य तस्योत्तर-भूमि-रूपस्यार्थस्य साक्षात्काराय चित्तं समर्थं स्याद् इत्य् अर्थः । वैराग्यस्य द्वारं विक्षेपाख्य-प्रतिबन्ध-निवृत्ति स्वयं विवृणोति—तथा च सतीति । वशीकार-संज्ञा-वैराग्ये च सतीत्य् अर्थः ॥३५॥
—o)0(o—
(१.३६)
विशोका वा ज्योतिष्मती ॥
प्रवृत्तिर् उत्पन्ना मनसः स्थिति-निबन्धनीत्य् अनुवर्तते । हृदय-पुण्डरीके धारयतो या बुद्धि-संवित् बुद्धि-सत्त्वं हि भास्वरम् आकाश-कल्पं, तत्रस्थिति-वैशारद्यात् प्रवृत्तिः सूर्येन्दु-ग्रह-मणि-प्रभा-रूपाकारेण विकल्पते । तथाऽस्थितायां समापन्नं चित्तं निस्तरङ्ग-महोदधि-कल्पं शान्तम् अनन्तम् अस्मिता-मात्रं भवति । यत्रेदम् उक्तं—तम् अणु-मात्रम् आत्मानम् अनुविद्यास्मीत्य् एवं तावत् सम्प्रजानीतेइति । एषा द्वयी विशोका, विषयवती अस्मिता-मात्रा च प्रवृत्तिर् ज्योतिष्मतीत्य् उच्यते । यया योगिनश् चित्तं स्थिति-पदं लभतैति ॥३६॥
तत्त्व-वैशारदी : विशोका वा ज्योतिष्मती ॥ विगत-शोका दुःख-रहिता । ज्योतिष्मती ज्योतिर् अस्या अस्तीति ज्योतिष्मती प्रकाश-रूपा । हृदय-पुण्डरीके इति । उदरोरसोर् मध्ये यत् पद्मम् अधोमुखं तिष्ठत्य् अष्टदलं रेचक-प्राणायामेन तद् ऊर्ध्व-मुखं कृत्वा तत्र चित्तं धारयेत् । तन्-मध्ये सूर्य-मण्डलम् अ-कारो जागरित-स्थानम् । तस्योपरि चन्द्र-मण्डलम् उ-कारः स्वप्न-स्थानं, तस्योपरि वह्नि-मण्डलं म-कारः सुषुप्ति-स्थानं, यस्योपरि पर-व्योमात्मकम्ब्रह्म-नादं तुरीय-स्थानम् अर्ध-मात्रम् उदाहरन्ति ब्रह्म-वादिनः । तत्र कर्णिकायाम् ऊर्ध्व-मुखी सूर्यादि-मण्डल-मध्यगा ब्रह्म-नाडी । ततोऽप्य् ऊर्ध्वं प्रवृत्ता सुषुम्णा नाम नाडी, तया खलु बाह्यान्य् अपि सूर्यादीनि प्रोतानि । सा हि चित्त-स्थानम् । तस्यां योगिनश् चित्त-संविद् उपजायते । उपपत्ति-पूर्वकं बुद्धि-संविद् आकारम् आदर्शयति—बुद्धि-सत्त्वं हि इति ।
आकाश-कल्पमिति व्यापिताम् आह । सूर्यादीनां प्रभास् तासांरूपम् तद्-आकारेण विकल्पते नाना-रूपा भवति । मनश् चात्र बुद्धिर् अभिमतं, न तु महत्-तत्त्वम् । तस्य च सुषुम्ना-स्थस्य वैकारिकाहङ्कार-जन्मनः सत्त्व-बहुलतया ज्योती-रूपता विवक्षिता, तत्-तद्-विषय-गोचरतया च व्यापित्वम् अपि सिद्धम् ।
अस्मिता-कार्ये मनसि समापत्तिं दर्शयित्वाऽस्मिता-समापत्तेः स्वरूपम् आह—तथाइति । शान्तमपगत-रजस्-तरङ्गम् । अनन्तम्व्यपि । अस्मिता-मात्रंन पुनर् नाना-प्रभा-रूपम् । आगमान्तरेण स्व-मतं समीकरोति—यत्रैति । यत्रेदम् उक्तं पञ्चशिखेन—तम् अणुं दुरधिगमत्वाद् आत्मानमहङ्कारास्पदम् अनुविद्यानुचिन्त्यास्मीत्य् एवंतावत्जानीतैति ।
स्याद् एतत्—नाना-प्रभा-रूपा भवतु ज्योतिष्मती, कथम् अस्मित्मा-मात्र-रूपा ज्योतिष्मतीत्य् आह—एषा द्वयी इति। विधूतरजस्-तमो-मलास्मितैव सत्त्वमयी ज्योतिरिति भावः । द्विविधाया अपि ज्योतिष्मत्याः आत्मामात्रम् आह—यथेति ॥३६॥
योग-वार्तिकम् :चित्त-स्थैर्य-निबन्धनं परिकर्मान्तरम् आह—विशोका वा ज्योतिष्मती॥ विगतः शोको यस्याइति विशोकेति हेतु-गर्भ-विशेषणम् । तथा च यतो विशोका, अतो वक्ष्यमाण-ज्योतिष्मती श्रेष्ठा स्थिति-हेतुर् इत्य् अर्थः ।
द्विविधां विशोकां विवृणोति—हृदयेत्य्-आदिना । एषा द्वयी विशोकेत्य्-अन्तेन । हृदय-पुण्डरीकालम्बने चित्तं धारयतोया बुद्धि-संवित्साक्षात्कारो भवति यच् च वक्ष्यमाण-रीत्यास्मिता-मात्रम् अस्मीत्य् एतावन्-मात्राकारं चित्तं भवति, एषा द्वयी विशोका ज्योतिष्मतीत्य् उच्यते इत्य् अन्वयो भविष्यति । तत्रबुद्धि-संविदि । ज्योतिष्मती-संज्ञाया अन्वर्थताम् आह—बुद्धि-सत्त्वं हि इति । बुद्धि-रूपम् सत्त्वं भास्वरम्स्व-पर-प्रकाशकम् तेजोवद् आकाशवद् विभु च भवति, तत्रबुद्धौ स्थिति-वैशारद्यान्निर्मलैकाग्र्याद् बुद्धि-प्रवृत्तिःसूर्यादि-प्रभा-सदृशाकारेणविकल्पतेविशेषणोत्पद्यतेइत्य् अर्थः ।तो विषयस्य ज्योतिष्मत्त्वे विषयिणी प्रवृत्तिर् अपि ज्योतिष्मतीति भावः ।
अत्र चान्तःकरणस्य विभुत्वम् आचार्येणसिद्धान्तितम् । अन्तः-करणस्य चेयं योग-शास्त्रोक्ता प्रक्रिया—उदरोरसोर् मध्ये यत् पद्मं तिष्ठत्य् अधोमुखम् अष्ट-दलं तद्-रेचक-प्राणायामेनोर्ध्व-मुखं कृत्वा तस्मिन्न् आलम्बने चित्तं धारयेत्, तत्र हि चित्तं तिष्ठति । तद् यथा पद्म-मध्ये सूर्य-मण्डलम् अ-कारो जागरित-स्थानम् । तस्योपरि चन्द्र-मण्डलम् उ-कारः स्वप्न-स्थानं, तस्योपरि वह्नि-मण्डलं म-कारः सुषुप्ति-स्थानं, तद्-उपरि परं ब्रह्म व्योमात्मकम् नादस् तुरीय-स्थानम् अस्ति, यम् अर्ध-मात्रम् उदाहरन्ति योगिनः । तत्र कर्णिकायां विष्वग्-व्यापि-शाखा-सहस्रवत्या मनो-वहनाड्या मूलम् तिष्ठति, तस्या अलाबुलतिकाया इव ऊर्ध्व-मुख्य् एका शाखा सुषुम्नेति गीयते, तया च शाखा-रूपया ब्रह्म-नाड्या बाह्यान्य् अपि सूर्य-मण्डलानिप्रोतानि । सैव मनोवहा नाडी चित्त-स्थानं भवति । तस्यां चित्तं धारयतो योगिनश् चित्त-साक्षात्कारो जायतैति ।
तथास्मितायामिति । अस्मितात्र नाहङ्कारः किं त्वात्म-तयाम् तम् अणु-मात्रम् आत्मानम् अनुविद्येत्य् उत्तर-वाक्यात् । अस्मितात्मताहन्तानां पर्यायत्वाच् च । भाव-प्रत्ययश् च निर्विशेष-सामान्य-मात्रता-बोधनाय प्रयुक्तः । तथा चास्मितायां विविक्त-चिन्-मात्रे पुरुषे समापन्नं तद्-रूपतापन्नम् अत एवनिस्तरङ्ग-महोदधि-कल्प-पुरुषाकारत्वात् स्वयम् अपि तत्-कल्पंतथाशान्तं शोकादि-निमित्त-क्षोभ-रहितम् अनन्तं सर्वतोऽनावृतम् अस्मिता-मात्रम् अस्मीत्य् एतावन्-मात्राकारम् अन्याकारता-शून्यं भवतीत्य् अर्थः । आत्मनश् चिज्-ज्योतिर्मयत्वात् तद्-आकारस्य ज्योतिष्मत्त्वं स्पष्टम् एवेति पुनर् नोक्तम् ।
नन्व् अनेनैवात्म-साक्षात्कारेणकृतार्थत्वात्कथम् अस्य स्थिति-शेषतयोपन्यासः ?इति चेत्, न, कृतात्म-साक्षात्काराणाम् अपि ज्ञान-निष्ठया पर-वैराग्यार्थम् अभ्यासापेक्षणादिति । गन्धादि-प्रवृत्तिभ्यश् चायम् अस्मिता-प्रवृत्तेर् विशेषो यद् गन्धादि-प्रवृत्तय्ऽर्थान्तरेषु चित्त-स्थैर्य-हेतवोऽस्मिता-प्रवृत्तिस् तु स्व-विषय एवेति । अपि च जीवात्म-साक्षात्कारस्य परमात्मनि चित्त-स्थिति-हेतुत्वम् अस्तीति ।
अस्मिता-शब्दार्थं पूर्वाचार्य-मुखेन विवृणोति—यत्रेदम् इति । अणु-मात्रम् सूक्ष्मतमम् अनुविद्यं चरणारविन्द-मननाभ्याम् अवधार्यास्मीत्य् एतावन्-मात्र-कारेण.आस्मीत्य् एवं तावत् सम्प्रजानीतेइति । एषा द्वयी विशोका, साक्षात् करोतीत्य् अर्थः ।
एष द्वयीइति । विषयवतीअस्मिता-मात्राचैति द्विविधा विशोका ज्योतिष्मतीत्युच्यतेशास्त्र-कृद्भिः । अनया योगिनश् चित्तं स्थिति-योग्यतां प्राप्नोतीत्य् अर्थः ।
ननु गन्धादि-प्रवृत्तिवद् बुद्धि-संविदोऽपिविषयवतीत्वे पूर्व-सूत्रेणैव तद्-ग्रहणं युक्तम् ?इति चेत्, न, गन्धादि-पञ्चक एव विषय-शब्दस्य मुख्यत्वात् तत्-प्रवृत्तेर् एव मुख्य-विषयवत्याः पूर्व-सूत्रेणोक्तत्वात् । बुद्धौ च पुरुष-साक्षितया विषय-शब्दो गौण एव, असङ्गस्य पुरुषस्य बुद्धिवद् बन्धाभावेन सिधात्व्[?]-अर्थायोगात् । अतो बुद्धि-संविदो गौणं विषयवत्त्वम् अत्र सूत्रे प्रोक्तमिति । विशोकत्वम् चास्मिता-संविदः साक्षाद् एवास्ति तरति शोकम् आमविदितिश्रुतेः । बुद्धि-संविदस् तु विशोकत्वम् सङ्कल्प-सिद्ध्या किं वा विवेक-ख्याति-द्वारेति बोध्यम् ॥३६॥
—o)0(o—
(१.३७)
वीत-राग-विषयं वा चित्तम् ॥
वीत-राग-चित्तालम्बनोपरक्तं वा योगिनश् चित्तं स्थिति-पदं लभतैति ॥३७॥
तत्त्व-वैशारदी : वीत-राग-विषयं वा चित्तम् ॥ वीत-रागाः कृष्ण-द्वैपायन-प्रभृतयस् तेषां चित्तं तद् एवालम्बनं, तेनोपरक्तमिति ॥३७॥
योग-वार्तिकम् :चित्त-स्थैर्य-कारणम् परिकर्मान्तरम् आह—वीत-राग-विषयं वा चित्तम् ॥ व्याचष्टे—वीतेति । वीत-रागं यत् सनकादीनां चित्तं तद् एवालम्बनम्, तेनोपरक्तं तद्-धारणया तद्-आकारतापन्नं योगि-चित्तं विरक्तं सद्-आलम्बनान्तरेऽपिस्थिति-योग्यतां लभत इत्य् अर्थः ॥३७॥
—o)0(o—
(१.३८)
स्वप्न-निद्रा-ज्ञानालम्बनं वा ॥
स्वप्न-ज्ञानालम्बनं वा निद्रा-ज्ञानालम्बनं वा तद्-आकारं योगिनश् चित्तं स्थिति-पदं लभतैति ॥३८॥
तत्त्व-वैशारदी : स्वप्न-निद्रा-ज्ञानालम्बनं वा ॥ यदा खल्व् अयं विविक्त-वन-संनिवेश-वर्तिनीम् उत्कीर्णाम् इव चन्द्र-मण्डलात् कोमल-मृणाल-शकलानुकारिभिर् अङ्ग-प्रत्यङ्गैर् उपेताम् अभिजात-चन्द्रकान्त-मणि-मयीम् अतिसुरभि-मालती-मल्लिका-माला-हारिणीं मनोहरां भगवतो महेश्वरस्य प्रतिमाम् आराधयन्न् एव प्रबुद्धः प्रसन्न-मनाः, तदा ताम् एव स्वप्न-ज्ञानालम्बनी-भूताम् अनुचिन्तयतस् तस्य तद्-एकाकार-मनसस् तत्रैव चित्तं स्थिति-पदं लभते । निद्रां चेह सात्त्विकी ग्रहीतव्या, यस्याः प्रबुद्धस्य सुखम् अहम् अस्वाप्समिति प्रत्यवमर्शी भवति । एकाग्रं हि तस्यां मनो भवति । तावन्-मात्रेण चोक्तं—एतद् एवब्रह्म-विदो ब्रह्मणो रूपम् उदाहरन्ति सुषुप्तावस्थेति । ज्ञानम् च ज्ञेय-रहितं न शक्यं गोचरयितुमिति ज्ञेयम् अपि गोचरीक्रियते॥३८॥
योग-वार्तिकम् : तथैव परिकर्मान्तरम् आह—स्वप्न-निद्रा-ज्ञानालम्बनं वा ॥ स्वप्न-ज्ञानम् स्वप्न-रूपं ज्ञानं तद्-आलम्बनकं चित्तं प्रपञ्च्-ज्ञाने स्वप्न-दृष्टिमच् चित्तमिति यावत् । तथा चोक्तम्—दीर्घ-स्वप्नम् इमं विद्धि दीर्घं व चित्त-विभ्रममिति । इयं च दृष्टिः काम-दुघत्वादि-गुणैर् वाचि धेनु-दृष्टिवत् क्षण-भङ्गुर-विषयकत्वादि-गुणैर् जाग्रद्-ज्ञाने स्वप्न-दृष्टि-रूपेति । एतद् अपि वैराग्य-द्वारा चित्त-स्थैर्य-हेतुर् इत्य् आशयः ।
निद्रा-ज्ञानालम्बनंच इति । निद्रा-रूपं ज्ञानम् एवालम्बनं यस्य तत् तथासर्व-जीवेषु विस्मृतात्मकेषु सुषुप्त-दृष्टिमच् चित्तमिति यावत् । तद् उक्तं—
ब्रह्माद्यं स्थावरान्तं च प्रसुप्तं यस्य मायया ।
तस्य विष्णोः प्रसादेन यदि कश्चित् प्रमुच्यते ॥
चराचरं लय इव प्रसुप्तम् इह पश्यताम् ।
किं मृषा व्यवहारेषु न विरक्तं भवेन् मनः ॥िति।
भाष्यं च सुगमम् ॥३८॥
—o)0(o—
(१.३९)
यथाभिमत-ध्यानाद् वा ॥
यद् एवाभिमतं तद् एव ध्यायेत् । तत्र लब्ध-स्थितिकम् अन्यत्रापि स्थिति-पदं लभतैति ॥३९॥
तत्त्व-वैशारदी : यथाभिमत-ध्यानाद् वा ॥ किं बहुना ? यद् एवाभिमतं तत् तद् देवता-रूपमिति१०१ ॥३९॥
योग-वार्तिकम् :यथाभिमत-ध्यानाद् वा ॥ किं बहुना ? यद् एवाभिमतं हरि-हर-मूर्त्य्-आदिकं तद् एवादौ ध्यायेत् । तस्माद् अपि ध्यानात् तत्र लब्ध-स्थितिकस्य चित्तस्यान्यत्रापि विवेक-पर्यन्त-सूक्ष्मेषु विनैव साधनान्तरं स्थिति-योग्यता भवतीत्य् अर्थः । इत्थम् एव व्याचष्ट—यद् एवेति ॥३९॥
—o)0(o—
(१.४०)
परमाणु-परम-महत्त्वान्तोऽस्य वशीकारः ॥
सूक्ष्मे निर्विशमानस्य परमाण्व्-अन्तं स्थिति-पदं लभत इति । स्थूले निर्विशमानस्य परम-महत्त्वान्तंस्थिति-पदं चित्तस्य । एवं ताम् उभयीं कोटिम् अनुधावतो योऽस्याप्रतिघातः स परो वशीकारः । तद्-वशीकारात् परिपूर्णं योगिनश् चित्तं न पुनर् अभ्यास-कृतं परिकर्मापेक्षतैति॥४०॥
तत्त्व-वैशारदी : कथं पुनः स्थिति-पदम् आत्मी-भावोऽवगन्तव्य इत्य् अत आह—परमाणु-परम-महत्त्वान्तोऽस्य वशीकारः ॥व्याचष्टे—सूक्ष्मैति । उक्तम् अर्थं पिण्डीकृत्य वशीकार-पदार्थम् आह—एवं ताम् उभयीमिति । वशीकारस्यावान्तर-आत्मामात्रम् आह—तद्-वशीकारादिति ॥४०॥
योग-वार्तिकम् :परिकर्म-निष्पत्तेर् लक्षणम् आह—परमाणु-परम-महत्त्वान्तोऽस्य वशीकारः ॥स्य परिकर्मित-चेतसः, परमम् महत्त्वं येषां पुरुषादीनां ते परम-महत्त्वाः । व्याचष्टे—सूक्ष्मेऽल्प-परिमाणे चित्तस्य निवेशनम् अवस्थानम् अभीप्सोर् इत्य् अर्थः ।लभतेयोगी इति शेषः ।स्थूल इति । स्थूलेमहा-परिमाणे । अन्यत् पूर्ववत् ।
एवं तामिति । एतत्-स्थूल-सूक्ष्म-रूपं कोटि-द्वयं पक्ष-द्वयं चरतोऽस्य चित्तस्य योऽप्रतिघातः केनाप्य् अप्रतिबद्धता स वशीकारश् चित्तस्य विषयत्वम्भवतीत्य् अर्थः । पर-शब्दाद् अपरोऽपि वशीकारोऽस्ति दोष-दर्शन-जन्यो वशीकार-संज्ञा-रूपैति भावः ।
तद्-अपेक्षयास्य परत्वे हेतुम् आह—तद्-वशीकारादिति । तस्माद् वशीकारात् परिपूर्णंसमाप्त-स्थैर्य-साधनाकाङ्क्षं चित्तम् अभ्यासान्तर-साध्यं परिष्कारं नापेक्षत इत्य् अर्थः । वशीकार-संज्ञा-वैराग्यानन्तरम् अपि तु चित्तम् अभ्यास-कृतम् वशीकारम् अपेक्षत एवेति तद् अपरं निकृष्टमिति भावः ॥४०॥
—o)0(o—
(१.४१)
अथ लब्ध-स्थितिकस्य चेतसः किं-स्वरूपा किं-विषया वा समापत्तिरिति ? तद् उच्यते—
क्षीण-वृत्तेर् अभिजातस्येव मणेर् ग्रहीतृ-ग्रहण-ग्राह्येषु
तत्-स्थ-तद्-अञ्जनतासमापत्तिः ॥४१॥
क्षीण-वृत्तेरिति प्रत्यस्तमित-प्रत्ययस्येत्य् अर्थः । अभिजातस्येव मणेरितिदृष्टान्तोपादानम्—यथा स्फटिक उपाश्रय-भेदात् तत्-तद्-रूपोपरक्त उपाश्रय-रूपाकारेण निर्भासते, तथा ग्राह्यालम्बनोपरक्तं चित्तं ग्राह्य-समापन्नं ग्राह्य-स्वरूपाकारेण निर्भासते । तथाभूत-सूक्ष्मोपरक्तं भूत-सूक्ष्म-समापन्नं भूत-सूक्ष्म-स्वरूपाभासं भवति । तथा विश्व-भेदोपरक्तं विश्व-भेद-समापन्नं विश्व-रूपाभासं भवति । तथाग्रहणेष्व् अपीन्द्रियेष्व् अपि द्रष्टव्यम् । ग्रहणालम्बनोपरक्तं ग्रहण-समापन्नं ग्रहण-स्वरूपाकारेण निर्भासते । तथा ग्रहीतृ-पुरुषालम्बनोपरक्तं ग्रहीतृ-पुरुष-समापन्नं ग्रहीतृ-पुरुष-स्वरूपाकारेण निर्भासते । तथा मुक्त-पुरुषालम्बनोपरक्तं मुक्त-पुरुष-समापन्नं मुक्त-पुरुष-स्वरूपाकारेण निर्भासतैति । तद् एवम् अभिजात-मणि-कल्पस्य चेतसो ग्रहीतृ-ग्रहण-ग्राह्येषु पुरुषेन्द्रिय-भूतेषु यातत्-स्थ-तद्-अञ्जनता तेषु स्थितस्य तद्-आकारापत्तिः सा समापत्तिर् इत्य् उच्यते ॥४१॥
तत्त्व-वैशारदी : तद् एवं चित्त-स्थितेर् उपाया दर्शिताः । लब्ध-स्थितिकस्य चित्तस्य वशीकारोऽपि दर्शितः । सम्प्रति लब्ध-स्थितिकस्य चेतसः किं-विषयः किं-रूपश् च सम्प्रज्ञातो भवतीति पृच्छति—अथेति । अत्रोत्तर-सूत्रम् अवतारयति—तद् उच्यतेइति । सूत्रं पठति—क्षीण-वृत्तेर् अभिजातस्येव मणेर् ग्रहीतृ-ग्रहण-ग्राह्येषु तत्-स्थ-तद्-अञ्जनतासमापत्तिः ॥
तद् व्याचष्टे—क्षीणेति । अभ्यास-वैराग्याभ्यां क्षीण-राजस-तामस-प्रमाणादि-वृत्तेश् चित्तस्य । तस्य व्याख्यानम्—प्रत्यस्तमित-प्रत्ययस्येति । तद् अनेन चित्त-सत्त्वस्य स्वभाव-स्वच्छस्य रजस्-तमोभ्याम् अभिभव उक्तः । तं स्पष्टयति—यथेति । उपाश्रयः उपाधिर् जपा-कुसुमादिः । उपरक्तस् तच्-छायापन्नः । उपाश्रयस्य यदात्मीयं रूपं लोहित-नीलादि तद् एवाकारस् तेन लक्षितो निर्भासते । दार्ष्टन्तिके योजयति—तथा ग्राह्येति । ग्राह्यं च तद्-आलम्बनं च तेनोपरक्तं तद्-अनुविद्धम् । तद् अनेन ग्रहीतृ-ग्रहणाभ्यां व्यवच्छिनत्ति । आत्मीयम् अन्तःकरण-रूपम् अपिधाय ग्राह्य-समापन्नं ग्राह्यताम् इव प्राप्तमिति यावत् । अतो ग्राह्य-स्वरूपाकारेण निर्भासते । ग्राह्योपरागम् एव सूक्ष्म-स्थूलताभ्यां विभजते—भूत-सूक्ष्मेति । विश्व-भेदश् चेतनाचेतन-स्वभावो गवादिर् घटादिश् च द्रष्टव्यः । तद् अनेन वितर्क-विचारानुगतौ समाधी दर्शितौ ।
तथा ग्रहणेष्व् अपीन्द्रियेष्विति । गृह्यन्त एभिर् अर्थाइति ग्रहणानीन्द्रियाणि । एतद् एव स्पष्टयति—ग्रहणालम्बनेति । ग्रहणं चालम्बनं च तदिति ग्रहणालम्बनम् । तेनोपरक्तम् अनुविद्धम् आत्मीयम् अन्तःकरण-रूपम् अपिधाय ग्रहणम् इव बहिष्करण् इवापन्नमिति । तद् अनेनानन्दानुगत-मुक्तास्मितानुगतम् आह—तथा ग्रहीतृ-पुरुषेति । अस्मितास्पदं हि ग्रहीता पुरुषैति भावः । पुरुषत्वाविशेषापदनेनैव मुक्तोऽपिपुरुषः शुक-प्रह्लादादिः समाधि-विषयतया सङ्ग्रहीतव्य इत्य् आह—तथा मुक्तेति ।
उपसंहरंस् तत्-स्थ-तद्-अञ्जनता-पदं व्याचष्टे—तद् एवमिति । तेषु ग्रहीतृ-ग्रहण-ग्राह्येषु स्थितस्य धारितस्य ध्यान-परिपाक-वशाद् अपहत-रजस्-तमो-मलस्य चित्त-सत्त्वस्य या तद्-अञ्जनता तद्-आकारता, सा समापत्तिः सम्प्रज्ञात-लक्षणो योगः उच्यते । तत्र च ग्रहीतृ-ग्रहण-ग्राह्येष्विति सौत्रः पाठ-क्रमोऽर्थ-क्रमाविरोधान् नादर्तव्यः । एवं भाष्येऽपि प्रथमं भूत-सूक्ष्मोपन्यासो नादरणीयैतिसर्वं रमणीयम् ॥४१॥
योग-वार्तिकम् :तद् एवम् अभ्यास-वैराग्यादिकं परिकर्मान्तं योग-साधनम् अभिहितं सामान्यतो योग-द्वितयं च प्रोक्तम् अतः परं योगयोः फलं वक्तव्यं, तत्रादौ सम्प्रज्ञातस्य फलं ध्यानादि-व्यावृत्तं प्रतिपादयन् सूत्रम् अवतारयति—अथेति । अथ-शब्दः प्रश्ने । समापत्तिः सम्यग्-आलम्बनाकारत्वापत्तिः प्रत्यक्ष-वृत्तिर् इत्य् अर्थः । चित्तस्य चेयं प्रजाख्यावस्था सम्प्रज्ञातेष्व् एव भवति, न तु धारणा-ध्यान-समाधिषु, तेषु सामग्र्येणालम्बनाग्रहणात् साक्षात्कारस्यैवविशेषाकारत्वादिति ।
क्षीण-वृत्तेर् अभिजातस्येव मणेर् ग्रहीतृ-ग्रहण-ग्राह्येषु तत्-स्थ-तद्-अञ्जनतासमापत्तिः ॥ क्षीण-वृत्तेर् अपगत-वृत्त्य्-अन्तरस्य चित्तस्येत्य् अर्थः । अभिजातस्य निर्मलस्य मणेर् इव ग्रहीत्र्-आदिषु तत्-स्थिततया तद्-अञ्जनता सम्यक्-तद्-आकारता जायते, सा च समापत्तीति-शब्द-वाच्या भवतीत्य् अर्थः । अत्र सम्प्रज्ञात-फल-भूतायाः प्रज्ञायाः समापत्तिरिति तान्त्रिकी परिभाषापि प्रसङ्गाद् उक्ता, सा चासम्प्रज्ञात -व्यावृत्तस्य सम्प्रज्ञात-स्वरूपस्य परिचायकं तस्यैव सम्प्रज्ञात-योगैति पश्चाद् वक्ष्यते ता एव स-बीजः समाधिःिति सूत्रैति ।
क्षीण-वृत्तेरितिहेतु-गर्भ-विशेषणस्यायम् आशयः—चित्तस्य स्वत एवसर्वार्थ-साक्षात्कार-सामर्थ्यम् अस्ति । विषयान्तर-व्यासङ्ग-दोषाद् एव तु तत्-प्रतिबद्धम्, अतो वृत्त्य्-अन्तर-प्रतिबन्धस्य निःशेषतो विगमे स्वत एवध्येय-वस्तु-साक्षात्कारस् तद्-रूपापत्त्य्-आख्यो भवतीति ।
भाष्ये—प्रत्यस्तमितेति । प्रत्ययस्य प्रत्ययान्तरस्येत्य् अर्थः, समापत्तेर् अपि प्रत्ययत्वात् । उत्पत्ति-क्रमानुरोधेन सौत्रं पाठ-क्रमम् उल्लङ्घ्य ग्राह्यादि-समापत्तीः स-आ व्याख्यानायादौ स्वयं विवृणोति—यथेति । उपाश्रय-भेदाज् जपा-कुसुमाद्य्-उपाधि-विशेषात् तद्-रूपोपरक्तस् तत्-प्रतिबिम्बोद्ग्राही सन् स्फटिक उपाधि-तुल्याकारतयैव निर्भासते प्रतीयते, तथा ग्राह्य-ग्रहणालम्बनेनोपरक्तं समर्पित-प्रतिबिम्बं वृत्तेः प्रत्यक्ष-रूपता-लाभाय ग्राह्य-समापन्नमिति ग्राह्य-गत-विशेषाकारम् इत्य् अर्थकम् एवं-भूतं चित्तं ग्राह्यान्यूनाकारेणैव साक्षिणि निर्भासत इत्य् अर्थः । तत्र समापत्ति-रूपस्य प्रत्यक्षस्य प्रामाण्याय ग्राह्य-रूपाकारेण निर्भासत इत्य् अनेन तत्-फलम् उक्तं पौरुषेय-बोधस्यैव प्रमाण-फलत्वादिति । एवं सर्वत्र ।
ग्राह्य-समापत्ताव् अवान्तरं त्रैविध्यम् आह—भूतेति । अत्र भूत-सूक्ष्म-शब्देन तन्-मात्रादि-प्रकृति-पर्यन्तं गृहीतम् । सूक्ष्म-शब्दस्य कारणार्थतया नात्रेन्द्रिय-ग्रहणम् । स्थूल-शब्देन च महा-भूतानि गृहीतानि । विश्व-भेद-शब्देन च स्थावर-जङ्गमादयोऽवान्तर-भेदा ग्राह्याः । अन्यत् पूर्ववत् ।
गृह्यतेऽनेनेति ग्रहणम् इन्द्रियं, तत्र समापत्तौ सूक्ष्म-स्थूल-विश्व-भेद-रूपं त्रैविध्यम् अतिदिशति—तथा ग्रहणेष्व् अपीति । इन्द्रियाणां सूक्ष्मं बुद्ध्य्-अहङ्काराविति भाष्य-कारो वक्ष्यति । स्थूलं च चक्षुर्-आदिकं विश्व-भेदश् च स्थावर-जङ्गमानां चक्षुर्-आदि-विशेषाइति । अवान्तर-विभागम् अतिदिश्य ग्रहण-समापत्तिं सामान्यतो दर्शयति—ग्रहणालम्बनेति । पूर्ववद् व्याख्येयम् ।
ग्रहीतृ-समापत्तिं पूर्ववद् व्याचष्टे—तथा ग्रहीत्रिति । ग्रहीतृत्वं बुद्धेर् अपि व्यपदिश्यतैति तद्-व्यावर्तनाय पुरुष-पदम् । अत्र ग्रहण-फलोपहितत्वं ग्रहीतृत्वं स्वरूप-योग्यता-परत्वे मुक्त-पुरुषेषु पृथग्-वचनानौचित्यात् । ईश्वरस्य चात्रैव प्रवेशः । ग्रहण-स्वरूप-योग्य-मात्रेष्व् अपि समापत्तिं व्याचष्टे—मुक्तेति । मुक्ता आत्यन्तिक-लयं गताः शुकादयः । समग्र-सूत्रार्थम् आह—तद् एवमिति ॥४१॥
—o)0(o—
(१.४२)
तत्र शब्दार्थ-ज्ञान-विकल्पैः संकीर्णा सवितर्का समापत्तिः ॥
तद् यथा गौरितिशब्दो गौर् इत्य् अर्थो गौरिति ज्ञानम् इत्य् अविभागेन विभक्तानाम् अपि ग्रहणं दृष्टम् । विभज्यमानाश् चान्ये शब्द-धर्मा अन्येऽर्थ-धर्मा अन्ये ज्ञान-धर्मा इत्य् एतेषां विभक्तः पन्थाः । तत्र समापन्नस्य योगिनो यो गवाद्य्-अर्थः समाधि-प्रज्ञायां समारूढः स चेच् छब्दार्थ-ज्ञान-विकल्पानुविद्ध उपावर्तते सा संकीर्णा समापत्तिः सवितर्केत्य् उच्यते॥४२॥
तत्त्व-वैशारदी : सामान्यतः समापत्तिर् उक्ता । सेयम् अवान्तर-भेदाच् चतुर्विधा भवति । तद् यथा—स-वितर्का, निर्वितर्का, सविचारा, निर्विचाराइति । तत्र स-वितर्कायाः समापत्तेर् लक्षणम् आह—तत्रेत्य्-आदि समापत्त्य्-अन्तं सूत्रम् । तत्र तासु समापत्तिषु मध्ये स-वितर्का समापत्तिः प्रतिपत्तव्या । कीदृशी ? शब्दश्चार्थश् च ज्ञानं च तेषां विकल्पाः । वस्तुतो भिन्नानाम् अपि शब्दादीनाम् इतरेतराध्यासाद् विकल्पः । अप्य् एकस्मिन् भेदम् आदर्शयति भिन्नेषु चाभेदम् । तेनशब्दार्थ-ज्ञान-विकल्पैः सङ्कीर्णा व्यामिश्रेत्य् अर्थः ।
तद् यथा, गौरितिशब्दैति । गौर् इत्य् उपात्तयोर् अर्थ-ज्ञानयोः शब्दाभेद-विकल्पो दर्शितः । गौर् इत्य् अर्थैति । गौर् इत्य् उपात्तयोः शब्द-ज्ञानयोर् अर्थाभेद-विकल्पो दर्शितः । गौरिति ज्ञानमिति । गौर् इत्य् उपात्तयोः शब्दार्थयोर् ज्ञानाभेद-विकल्पः । तद् एवम् अविभागेन विभक्तानाम् अपिशब्दार्थ-ज्ञानानांग्रहणं लोके द्रष्टव्यम् ।
यद्य् अविभागेन ग्रहणं कुतस् तर्हि विभाग इत्य् अत आह—विभज्यमानाश् चेति । विभज्यमानाश् चान्वय-व्यतिरेकाभ्यां परीक्षकैः, अन्ये शब्द-धर्माः, ध्वनि-परिणाम-मात्रस्य शब्दस्योदात्तादयो धर्माः । अन्येऽर्थस्य जडत्व-मूर्तत्वादयः, अन्ये प्रकाश-मूर्ति-विरहादयो ज्ञानस्य धर्माइति । तस्माद् एतेषां विभक्तः पन्थाः स्वरूप-भेदोन्नयन-मार्गः । तत्र विकल्पिते गवाद्य्-अर्थे समापन्नस्येति । तद् अनेन योगिनोऽपरं प्रत्यक्षम् उक्तम् । शेषं सुगमम् ॥४२॥
तद् यथा गौरिति शब्दो गौर् इत्य् अर्थो गौरिति ज्ञानम् इत्य् अविभागेन विभक्तानाम् अपि ग्रहणं दृष्टम् । विभज्यमानाश् चान्ये शब्द-धर्मा अन्येऽर्थ-धर्मा अन्ये ज्ञान-धर्मा इत्य् एतेषां विभक्तः पन्थाः । तत्र समापन्नस्य योगिनो यो गवाद्य्-अर्थः समाधि-प्रज्ञायां समारूढः स चेच् छब्दार्थ-ज्ञान-विकल्पानुविद्ध उपावर्तते सा संकीर्णा समापत्तिः सवितर्केत्य् उच्यते ॥४२॥
योग-वार्तिकम् :सामान्यतः समापत्तिर् उक्ता । तत्र ग्रहीतृ-समापत्तौ स्थूल-सूक्ष्म-विषयत्व-रूप-विशेषाभावात् सा एक-विधैव, ग्राह्य-ग्रहण-समापत्त्योस् तु तद्-विशेष-सत्त्वात् तयोर् विशेषान् आह त्रिभिः सूत्रैः—तत्र शब्दार्थ-ज्ञान-विकल्पैः संकीर्णा सवितर्का समापत्तिः ॥
तृतीय-सूत्र सूक्ष्म-विषयक-समापत्तेः वक्ष्यमाणतयास्य सूत्र-द्वयस्य स्थूल-विषयकत्वं परिशेषाल् लभ्यते । स्थूलं कार्यं सूक्ष्मं कारणम् । तत्र स्थूलं द्वि-विधम्—भूतानि तन्मात्राणां कार्याणि, इन्द्रियाणि चाहङ्कारस्य कार्याणीति । तत्रच स्थूल-सूक्ष्म-समापत्ती द्विविधे भवतः । तासु चतसृषु समापत्तिषु स-विकल्पित्कायाः स्थूल-विषयक-समापत्तेर् लक्षकम् इदं सूत्रम् ।
तद् एतद् व्याचक्षाण आदौ शब्दार्थ-ज्ञान-विकल्पम् उदाहरति—तद् यथेत्य् आदिनादृष्टम् इत्य् अन्तेन । इत्य् अविनिर्भागेणएवम् अभेदेन विभक्तानां वस्तुतो भिन्नानाम् अपि ग्रहणं विकल्पाख्यं लोके दृष्टं पूर्वोक्त-विकल्प-लक्षणाक्रान्तत्वाद् इत्य् अर्थः ।
ननु वस्तु-शून्यत्वे सति विकल्पः स्यात् । प्रतीति-बलात् त्व् अभेदोऽत्र वस्तु सन्न् एव भवतु, तत्राह—विभज्यमानाश् चेति । अन्वय-व्यतिरेकाभ्यां परीक्षकैर् विभज्यमाना विविच्यमाना अन्येऽर्थ-ज्ञान-धर्माभ्यां भिनाः शब्द-धर्मास् तारत्व-मन्दत्वादयः, एवम् अर्थ-धर्माः जडत्व-मूर्तत्वादयः शब्द-ज्ञान-धर्माभ्याम् अन्ये । एवं ज्ञान-धर्माः प्रकाशामूर्तत्वादयः शब्दार्थ-धर्माभ्याम् अन्ये इत्थम् एतेषांशब्दार्थ-ज्ञानानां विभक्तोऽन्योन्यं भिन्नः पन्थाः स्वरूप-भेदोन्नयन-मार्ग इत्य् अर्थः ।
समापत्तिर् एव विकल्प-रूपेत्य् अतो विकल्प-सङ्कीर्णात्त्वानुपपत्तिर् इत्य् आशयेनान्यथा सूत्रार्थं व्याचष्ट—तत्रेति । तत्र गवादौ स्थूल-भूतेन्द्रियेषु समापन्नस्य समाहितस्य योगिनः समाधि-प्रज्ञायां समारूढो यो गवाद्य्-अर्थः स यदि शब्दार्थ-ज्ञान-विकल्पेन, “गौर् इयं भासते” इत्य् एवं शब्दार्थ-ज्ञानानाम् अभेद-भ्रमेणानुविद्धो विषयीकृतो भवति, तदा सा सङ्कीर्णा विकल्प-मिश्रिता, विकल्प-विषयी-भवद्-अर्थ-विषयिणीति यावत्, समापत्तिः स-वितर्क-संज्ञा भवतीत्य् अर्थः । अत्र हि गौर् अयम् इत्य् अंशे शब्दार्थयोर् अभेद-विकल्पः । भासत इत्य् अंशे चार्थ-ज्ञानयोर् अभेद-विकल्पः । अर्थ-द्वारा च शब्द-ज्ञानयोर् अप्य् अभेद-विकल्पः । एवं “नारायणोऽयं भासते” इत्य्-आदि-रूपैश् च स-वितर्का समापत्तिर् भवति । अत्र शब्दादि-विकल्पैर् यथा-सम्भवम् अन्येऽपि विकल्पा उपलक्षणीयाः । इयं च समापत्ति-परं प्रत्यक्षम् अविद्या-लेश-सम्बन्धादिति ॥४२॥
—o)0(o—
(१.४३)
यदा पुनः शब्द-सङ्केत-स्मृति-परिशुद्धौ श्रुतानुमान-ज्ञान-विकल्प-शून्यायां समाधि-प्रज्ञायांस्वरूप-मात्रेणावस्थितोऽर्थस् तत्-स्वरूपाकार-मात्रतयैवावच्छिद्यते, सा च निर्वितर्का समापत्तिः । तत्परं प्रत्यक्षम् । तच् च श्रुतानुमानयोर् बीजम् । ततः श्रुतानुमाने प्रभवतः । न च श्रुतानुमान-ज्ञान-सह-भूतं तद्दृष्टान्तम् । तस्माद् असङ्कीर्णं प्रमाणान्तरेण योगिनो निर्वितर्क-समाधिजं दर्शनमिति ।
निर्वितर्कायाः समापत्तेर् अस्याः सूत्रेणलक्षणं द्योत्यते—
स्मृति-परिशुद्धौ स्वरूप-शून्येवार्थ-मात्र-निर्भासा निर्वितर्का ॥
या शब्द-सङ्केत-श्रुतानुमान-ज्ञान-विकल्प-स्मृति-परिशुद्धौ ग्राह्य-स्वरूपोपरक्ता प्रज्ञा स्वम् इव प्रज्ञा-स्वरूपं ग्रहणात्मकं त्यक्त्वा पदार्थ-मात्र-स्वरूपा ग्राह्य-स्वरूपापन्नेव भवति, सा तदा निर्वितर्का समापत्तिः । तथा च व्याख्यातम् ।
तस्या१०२ एक-बुद्ध्य्-उपक्रमो ह्य् अर्थात्माणु-प्रचय-विशेषात्मा गवादिर् घटादिर् वा लोकः । स च संस्थान-विशेषो, भूत-सूक्ष्माणां साधारणो धर्मः, आत्म-भूतः फलेन व्यक्तेनानुमितः स्व-व्यञ्जकाञ्जनः प्रादुर्भवति, धर्मान्तरोदये च तिरोभवति । स एष धर्मोऽवयवीत्य् उच्यते । योऽसाव् एकश् च महांश् चाणीयांश् च स्पर्शवांश् च क्रिया-धर्मकश् चानित्यश् च, तेनावयविना व्यवहाराः क्रियन्ते ।
यस्य पुनर् अवस्तुकः स प्रचय-विशेषः सूक्ष्मं च कारणम् अनुपलभ्यम् अविकल्पस्य तस्यावयव्य-भावाद् अतद्-रूप-प्रतिष्ठं मिथ्या-ज्ञानमिति प्रायेण सर्वम् एव प्राप्तं मिथ्या-ज्ञानमिति ।
तदा च सम्यग् ज्ञानम् अपि किं स्याद् विषयाभावात् । यद् यद् उपलभ्यते तत् तद् अवयवित्वेनाघ्रातम् । तस्माद् अस्त्य् अवयवी यो महत्त्वादि-व्यवहारापन्नः समापत्तेर् निर्वितर्काया विषयो भवति ॥४३॥
तत्त्व-वैशारदी : सूत्रं योजयितुं प्रथमतस् तावन् निर्वितर्कां व्याचष्टे—यदा पुनःिति । परिशुद्धिर् अपनयः । शब्द-सङ्केत-स्मरण-पूर्वे खल्व् आगमानुमाने प्रवर्तेते । सङ्केतश् चायं गौरिति शब्दार्थ-ज्ञानानाम् इतरेतराध्यासात्मकः । ततश् चागमानुमान-ज्ञान-विकल्पौ भवतः । तेन तत्-पूर्वा सिद्धान्ति-प्रज्ञा सवितर्का ।
यदा पुनर् अर्थ-मात्र-प्रवणेन चेतसार्थ-मात्रादृतेन तद्-अभ्यासान् नान्तरीकताम् उपगता सङ्केत-स्मृतिस् त्यक्ता, तत्-त्यागे च श्रुतानुमान-ज्ञान-विकल्पौ तन्-मूलौ त्यक्तौ, तदा तच्-छून्यायांसमाधि-प्रज्ञायांस्वरूप-मात्रेणावस्थितोऽर्थस् तत्-स्वरूपाकार-मात्रतयैव, न तु विकल्पितेनाकारेण परिच्छिद्यते, सा निर्वितर्का समापत्तिःिति । तद् योगिनां परं प्रत्यक्षम् असद्-आरोप-गन्धस्याप्य् अभावात् ।
स्याद् एतत्—परेण प्रत्यक्षेणार्थ-तयाम् गृहीत्वा योगिन उपदिशन्त्य् उपपादयन्ति च । कथं चातद्-विषयाभ्याम् आगम-परार्थानुमानाभ्यां सोऽर्थ उपदिश्यत उपपाद्यते च ? तस्माद् आगामानुमाने तद्-विषये, ते च विकल्पावितिपरम् अपि प्रत्यक्षं विकल्प एवेत्य् अत आह—तच् च श्रुत- इति । यदि हि स-वितर्कम् इव श्रुतानुमान-सहभूतम् तद्-अनुषक्तं स्याद् भवेत् सङ्कीर्णम् । तयोस् तु बीजम् एवैतत् । ततो हि श्रुतानुमाने प्रभवतः । न च यद् यस्य कारणम् तत्-तद्-विषयम् भवति । न हि धूम-ज्ञानं वह्नि-ज्ञान-कारणमिति वह्नि-विषयम् । तस्माद् अविकल्पेन प्रत्यक्षेण गृहीत्वा विकल्प्योपदिशन्ति चोपपादयन्ति च । उपसंहरति—तस्मादिति । व्याख्येयं सूत्रं योजयति—निर्वितर्कायाइति । स्मृति-परिशुद्धौ इत्य् आदि सूत्रम् ।
शब्द-सङ्केतश् श्रुतं चानुमानं च, तेषां ज्ञानम् एव विकल्पस् तस्मात् स्मृतिस् तस्याः परिशुद्धिर् अगमस् तस्याम् । अत्रच सङ्केत-स्मृति-परिशुद्धि-हेतुः, श्रुतादि-ज्ञान-स्मृति-परिशुद्धिश् च हेतुमती । अनुमान-शब्दश् च कर्म-साधनोऽनुमेय-वाचकः । स्व-मिआर्रय्तीव-कारो भिन्न-क्रमस् त्यक्त्वेति-पदानन्तरं द्रष्टव्यः ।
विषय-विप्रतिपत्तिं निराकरोति—तस्या एक- इति । एकां बुद्धिम् उपक्रमत आरभत इत्य् एक-बुद्ध-उपक्रमः । तद् अनेन परमाणवो नानात्मनो न निर्वितर्क-विषया इत्य् उक्तं भवति, योग्यत्वेऽपि तेषां परम-सूक्ष्माणां नाना-भूतानां महत्त्वैकात्मर्थ-समवेतैकत्व-निर्भास-प्रत्यय-विषयत्वायोगात् ।
अस्तु तर्हि परमार्थ-सत्सु परमाणुषु सांवृतः प्रतिभास-धर्मः स्थौल्यम् इत्य् अत आह—अर्थात्म- इति । नासति बाधके स्थूलम् अनुभव-सिद्धं शक्यापह्नवमिति भावः । तत्र ये पश्यन्ति द्व्य्-अणुकादि-क्रमेण गो-घटादय उपजायन्तैति तान् प्रत्य् आह—अणु-प्रचय- इति । अणूनां प्रचयः स्थूल-रूप-परिणामः । स च विशिष्यतेऽन्यस्मात् परिणामान्तरात् । स एवात्म स्वरूपं यस्य स तथोक्तः । गवादिर् भोगायतनम् । घटादिर् विषयः । तच् चैतद् उभयम् अपि लोक्यतैतिलोकः ।
नन्व् एष भूत-सूक्ष्मेभ्यो भिन्नोऽभिन्नो वा स्यात् । भिन्नश् चेत् कथं तद्-आश्रयः, कथं च तद्-आकारः ? न हि घटः पटाद् अन्यस् तद्-आकारस् तद्-आश्रयो वा । अभिन्नश् चेत् तद्वद् एव सूक्ष्मोऽसाधारणश् च स्यात्, अत आह—स चैति । अयम् अभिप्रायः—नैकान्ततः परमाणुभ्यो भिन्नो घटादिर् अभिन्नो वा । भिन्नत्वे गवाश्ववद्-धर्म-धर्मि-भावानुपपत्तेः । अभिन्नत्वे धर्मि-रूपवत् तद्-अनुपपत्तेः । तस्मात् कथंचिद् भिन्नः कथञ्चिद् अभिन्नश् चास्थेयः । तथा च सर्वम् उपपद्यते । भूत-सूक्ष्माणामिति षष्ठ्या कथञ्चिद् भेदं सूचयति, आत्म-भूतैति चाभेदम् । आत्ममात्रेन व्यक्तेन तद्-अनुभव-लक्षणेन तद्-व्यवहार-लक्षणेन च व्यक्तेन विप्रतिपन्नं प्रत्यनुमापितः ।
कारणाभेदेन च कारणाकारतोपपन्नेत्य् आह—स्व-व्यञ्जकाञ्जनःिति । स किं तद्-आत्म-भूतो धर्मो नित्यः ? न, इत्य् आह—धर्मान्तरैति । धर्मान्तरस्य कपालादेर् उदय इत्य् अर्थः । तस्यावयविनः परमाणुभ्यो व्यावृत्तं रूपम् आदर्शयति—स एषैति । परमाणु-साध्यायाः क्रियायाः अन्या क्रिया मधूदकादि-धारण-लक्षणा, तद्-धर्मकैति । न केवलम् अनुभवाद् अपि तु व्यवहारतोऽपि, तन्-निबन्धनत्वाल् लोक-यात्राया इत्य् आह—तेनैति ।
स्याद् एतत् । असति बाधकेऽनुभवोऽवयविनं व्यवस्थापयेत् । अस्ति च बाधकम् । यत् सत् तत् सर्वम् अनवयवम् । यथा विज्ञानम् । सच् च गो-घटादीति स्वभाव-हेतुः । सत्त्वं हि विरुद्ध-धर्म-संसर्ग-रहितत्वेन व्याप्तम् । तद्-विरुद्धश् च विरुद्ध-धर्म-संसर्गः सावयव उपलभ्यमानो व्यापक-विरुद्धोपलब्ध्या सत्त्वम् अपि निवर्तयति ।
अस्ति चावयविनि तद्-देशत्वातद्-देशत्वावृतत्वानावृतत्व-रक्तत्वारक्तत्व-चलत्वाचलत्व-लक्षणो१०३ विरुद्ध-धर्म-संसर्गः, इत्य् अत आह—यस्य पुनरिति । अयम् अभिप्रायः—अनुभव-सिद्धं सत्त्वं हेतुः क्रियते यत् किल पांशुल-पादुको हालिकोऽपि प्रतिपद्यते, अन्यद् वानुभव-सिद्धात् ? तत्रान्यद् असिद्धत्वाद् हेतुः । अनुभव-सिद्धं तु घटादीनां सत्त्वम् अर्थ-क्रिया-कारित्व-रूपं न स्थूलाद् अन्यत् । सोऽयं हेतुः स्थूलत्वम् अपाकुर्वन्न् आत्मना एव व्याहन्ति ।
ननु न स्थूलत्वम् एव सत्त्वं, अपि त्व् असतो व्यावृत्तिः । अस्थौल्याभावेऽपि न सत्त्व-व्याहतिः, अन्यत्वात् । भवतु वा व्यावृत्ति-भेदाद् अवसाय-विषय-भेदः । यत् पूर्वकास् त्व् अवसायास् तस्यानुभवस्याविकल्पस्य प्रमाणस्य को विषयैति निरूपयतु भवान् ? रूप-परमाणवो निरन्तरोत्पादा अगृहीत-परम-सूक्ष्मत्वात् ?इति चेत्, हन्त ! एते गन्ध-रस-स्परश-परमाणुभिर् अन्तरिता न निरन्तराः । तस्माद् अन्तरालाग्रह एक-धनवनप्रत्ययवत् परमाण्व्-आलम्बनः सन्न् अयं विकल्पो मिथ्येति तत्-प्रभवा विकल्पा न पारम्पर्येनापि वस्तु-प्रतिबद्धाइति कुतस् तद्-अवसितस्य सत्त्वस्यानवयवत्व-साधकत्वम् ? तस्माद् अविकल्पकस्य प्रत्यक्षस्य प्रामाण्यम् इच्छता तद् अनुभूयमान-स्थौल्यस्यैव सत्त्वम् अविकल्पावसेय-कामयताप्य् अभ्युपेयम् । तथा च तद् बाधमानं सत्त्वम् आत्मानम् एवापबाधेत । परम-सूक्ष्माः परमाणवो विजातीय-परमाण्व्-अनन्तरिता अनुभव-विषयाइति व्याहतम् अङ्गीकरणम् ।
तद् इदम् उक्तम्—यस्य पुनरवस्तुकः स प्रचय-विशेषः निर्विकल्पस्य विषयः । सन्तु तर्हि सूक्ष्माः परमाणवो निर्विकल्प-विषया इत्य् अत आह—सूक्ष्मंच कारणम् अनुपलभ्यम् अविकल्पस्यैति । तस्यावयव्य-भावाद् हेतोर् अतद्-रूप-प्रतिष्ठं मिथ्या-ज्ञानमिति लक्षणेन सर्वम् एव प्राप्तं मिथ्या-ज्ञानम् । यच् च तद्-अधिष्ठान-सत्त्वालम्बनम् इत्य् अर्थः ।
नन्व् एतावतापि न ज्ञानम् आत्मनि मिथ्या भवति, तस्यावयवित्वेनाप्रकाशाद् इत्य् अत आह—प्रायेणेति ।
ननु किम् एतावतापि ? इत्य् अत आह—तदा चैति । सत्त्वादि-ज्ञानम् चेन् मिथ्या, तदा सत्त्वादि-हेतुकम् अनवयवित्वादि-ज्ञानम् अपि मिथ्यैव । तस्यापि हि निर्विकल्पागोचर-स्थूलम् एवावसेयतया विषयः । स च नास्तीति तात्पर्यथार्थः ।
विषयाभाव एव कुतः ? इत्य् अत आह—यद् यदिति । विरोधश् च परिणाम-वैचित्र्येण भेदाभेदेन चोक्तोपपत्त्य्-अनुसारेणोद्धर्तव्यैति सर्वं रमणीयम् ॥४३॥
योग-वार्तिकम् : सूत्रान्तरं योजयितुं प्रथमं तावन् निर्वितर्कां स्थूल-समापत्तिं व्याचष्टे—यदा पुनःिति । अयं भावः—शब्द-सङ्केत-स्मरण-पूर्वके तावत् क्रमेणागमानुमान-ज्ञाने भवतः । सङ्केतश् चायं गौरिति शब्दार्थयोर् इतरेतराध्यासात्मकः । एतद् वै तत् स्मरण्पूर्वं च ब्रह्म यद् ओंकारैत्य्-आदि-श्रुतिषु । अ-कारो-कार-म-कारा ब्रह्म-विष्णु-महेश्वराः इत्य् आदि-स्मृतिषु । अमरा निर्जरा इत्य् आदि-कोषेषु च सङ्केतस्य विकल्पिताभेद-रूपत्वावधारणात् । ततश् च सङ्केत-ग्रह-समानाकारेणैव शाब्द-बोधस् तन्-मूलकानुमानं च भवतीत्य् अत आगम्या प्रथमं जायतेसमाधि-प्रज्ञा सापि विकल्प-व्याप्तैव भवतीति सा स-वितर्काभवति ।
यदा पुनर् अर्थ-मात्रादराद् अर्थ-मात्र-प्रवणेन चेतसासङ्केत-स्मृतिस् त्यज्यते, तदा समाधौ तन्-मूलकोविकल्पो न जायतैति निर्वितर्का भवतीति ।
तद् इदम् आह—शब्द-सङ्केतेति । शब्द-सङ्केतस्य स्मृतेः परिशुद्धिर् अपगमस् तस्यां सत्यां तत्-स्मृति-निमित्तकेन श्रुतानुमान-ज्ञान-कालीन-विकल्पेन शून्यायांसमाधि-प्रज्ञायाम् अर्थ-स्वरूपाकारेणैवावधार्यतेइत्य् आदिर् अर्थः । आरोप-गन्धस्यापि सम्पर् को नास्तीति प्रतिपादनाय स्वरूप-मात्रेणावस्थितोऽर्थ इत्य् उक्तम् ।
परमिति । आरोप-सम्पर्काभावातिति भावः । अगृहीत-ग्राहित्वं निर्वितर्क-समापत्तेः प्रामाण्य-प्रयोजकं दर्शयति—तच् चैत्य् आदिना दर्शनम् इत्य् अन्तेन । श्रुतानुमानयोःचरणारविन्द-मननयोर् बीजम् । बीज-शब्दार्थे व्याचष्टे—ततैति । प्रभवतः प्रकर्षेण भवतः । गुरुणाशेष-विशेष-चरणारविन्दं विनासन्दिग्धाविपर्यस्त-वस्तु-स्वरूप-प्रतिपादनासम्भवात् । अतः सवितर्कानधिगतोऽपिविशेषोऽस्या विषय इत्य् अर्थः ।
नन्व् एवं सर्व-ज्ञ-गुरुणा श्रुति-स्मृतिभ्याम् एवाशेष-विशेष-प्रतिपादनं स्याद् इतीयं व्यर्था निर्वितर्क-समाप्त्तिरिति तत्राह—न चैति । सहभूतं तत्-कालीनम् । गुरोर् विशेषज्ञत्वेऽपि स विशेषः शब्देनाशेषो वक्तुं न शक्यत इक्षु-क्षीरादि-विशेषवत् । इदं तदिति निर्देष्टुं गुरुणापि न शक्यतेइतिस्मृतेः ।
अतः सर्व-ज्ञ-वाक्याद् अपि निविकल्पकतमापत्ति-समानाकारं ज्ञानं न सम्भवतीत्य् अर्थः । ततः किम् ? इत्य् अत आह—तस्मादिति । सङ्कीर्णं गृहीत-मात्रानवगाहि ।
तद् एवम् उत्तर-सूत्रस्य लक्ष्यम् अवधार्य सूत्रम् अवतारयति—निर्वितर्कायाइति । स्पष्टम् ।
स्मृति-परिशुद्धौ स्वरूप-शून्येवार्थ-मात्र-निर्भासा निर्वितर्का ॥ यतः स्मृति-परिशुद्धौ सत्यां जायतेतथास्वरूप-शून्येव भवति, अतोऽर्थ-मात्रस्य निर्भासो यत्रेत्य् अर्थ-मात्र-निर्भासाखिल-विकल्प-शून्या या समापत्तिः, सा निर्वितर्केत्य् अर्थः ।
पदानि क्रमतो व्याचष्टे—या शब्देति । शब्द-सङ्केतात् श्रुतानुमान-रूप-ज्ञाने या विकल्पारूढा स्मृतिः चिन्ता स-वितर्क-कालेऽप्य् अनुवर्तते, तद्-अपगमे सतीत्य्-आद्य्-अपदार्थः । शब्द-सङ्केतस्यात्र स्मृति-हेतुत्वं स्व-गोचर-ज्ञान-द्वारा बोध्यम् । सङ्केतश् च शब्दार्थयोः कल्पिताभेद-मात्र इत्य् अतः सङ्केत-स्मृतौ तन्-मूलक-ज्ञाने चाभेद-विकल्प औत्सर्गिकैति ।
शब्द-विकल्प-शून्यत्वे हेतुम् उक्त्वा ज्ञान-विकल्प-शून्यत्वे हेतुम् आह—स्वम् इवैति । इव-कारो भिन्न-क्रमेण, त्यक्त्वाइति पदानन्तरं योजनीयः । त्याग-सादृश्यं चाग्रहणमिति ।
तृतीय-पदस्य थार्थम् आह—पदार्थ-मात्र- इति । तथाप्य् अर्थम् आह—ग्राह्य-स्वरूपापन्नेव भवतिइति । सा निर्वितर्केति । एवं निर्भासा या समापत्तिः सा निर्वितर्केत्य् अर्थः । तद् एवं सूत्राभ्यां प्रतिपादितौ सवितर्क-निर्वितर्क-योगौ सविकल्प-निर्विकल्प-शब्दाभ्याम् अपि शास्त्रेषूच्येते, वितर्क-विचारेत्य्-आदि-सूत्रे च यः स्थूल-विषय्काभोगो वितर्क इत्य् उक्तं, स एवात्र सवितर्क-निर्वितर्क-समापत्ति-रूपेण द्विधोक्तैति ।
नन्व् अस्य निर्वितर्क-साक्षात्कारस्य विषयः किम् अवयवाः, किं वावयवी ? आद्ये वक्ष्यमाण-निर्विचार-समापत्त्या सहैक-विषयत्वापत्तिः, अन्त्येऽवयविनः कल्पितत्वेन तद्-गोचर-निर्वितर्काया विकल्प-शून्यत्वानुपपत्तिर् इत्य् आशङ्क्यावयविनं व्यवस्थापयन् अवयवि-विषयकत्वम् एवास्य वृद्ध-वाक्याद् अवधारयति—तथा च इत्य् आदिना, लोक इत्य् अन्तेन । व्याख्यातं पूर्वाचार्यैरिति शेषः । तस्यानिर्वितर्काया गवादिर् घटादिर् वा लोक आलम्बनम् इत्य् अन्वयः ।
ननुव् अवयविनि किं प्रमाणम् ? तत्राह—एक-बुद्ध्य्-उपक्रम इति । एका गौरितिबुद्धिम् उपक्रमत आरभत इत्य् एक-बुद्ध-उपक्रमः । अतो नावयवानाम् अनेकतयावयवि-व्यवहार-निर्वाहकत्वमिति भावः ।
नन्व् एवम् अप्य् एक-प्रत्ययानुरोधाद् एकं विज्ञान-मात्रम् एवावयवि-व्यवहार-हेतुर् अस्तु ? तत्राह—अर्थात्म- इति । अर्थात्मा दृश्य-स्वरूपः । विज्ञान-मात्रत्वे स्वस्य स्व-दृश्यत्वानुपपत्तिः । कर्म-कर्तृ-विरोधादिति भावः ।
नन्व् एवम् अवयवेभ्योऽवयविनोऽतिरेके कपालं घटो जात इत्य् आदि-रूपोऽवयवावयविनोर् अभेद-प्रत्ययो न स्याद् इत्य् आशङ्काम् अपाकरोति—अणु-प्रचय-विशेषात्माइति । अणूनां प्रचयाख्य-संयोग-निमित्तको यो विशेषः परिणाम-रूपः, तत्-स्वरूप इत्य् अर्थः । तथा च सामान्य-विशेषयोर् भेदाङ्गीकाराद् अभेद-प्रत्ययोऽप्य् उपपन्न एवेति भावः । न च भेदाभेदयोर् विओर्धैति वाच्यं, भेदस्यान्योन्याभाव-रूपत्वात्, अभेदस्याविभाग-रूपत्वादिति । अयं चाविभागो न लक्षणानन्यत्वं, लक्षण-भेद-कालेऽप्य् अभेद-प्रत्ययात् । किं त्व् आधाराधेय-भाववत् स्वरूप-सम्बन्ध-विशेष एव दुग्ध-जलयोर् इवेति । एतत् सर्वं परिणाम-सूत्रे विशिष्य प्रतिपादयिष्यतिभाष्य-कारः ।
नन्य् यद्य् अवयवी स्वीकृतस् तर्हि तस्य इकावयव-नाशी नाशापत्त्यानुपलब्धि-प्रसङ्गः । किं चावयविनो नित्यत्वे सर्वदा कार्य-कारिता-प्रसङ्गः, अनित्यत्वेऽसद्-उत्पादतः शश-शृङ्गाद्य् अपि कारण-व्यापाराद् उत्पद्येतेत्य् आशङ्काम् अपाकरोति—स च इति । स चस्थूलोऽवयवी, स्व-कारणानां भूत-सूक्ष्माणां साधारणः प्रत्येकं परिसमाप्नोति, न तु द्वित्वादिवद् व्यासज्य१०४ वृत्तिः, एकावयव-व्यवधानेऽप्य् अप्रत्यक्षत्व-प्रसङ्गात् । अत एकावयव-नाशेऽप्य् अवयवान्तरेऽवयव्य्-अवस्थानात् तद्-उपलब्धिः । अवयव-विभाग-विशेष१०५ एव चावय्व-निनाशकः । स च विशेषो जाति-रूपः फल-बलात् कल्प्यतैति भावः । तथात्म-भूतः सदैव भूत-सूक्ष्मेष्व् अनुगतः । नातः शशादौ शृङ्गाद्य्-उत्पत्ति-प्रसङ्गः ।
तत्र प्रमाणम् आह—फलेन व्यक्तेनानुमितःिति । अभिव्यक्ति-लक्षण-कार्यानुमितः, असद्-अभिव्यक्तौ सर्वत्रसर्वाभिव्यक्ति-प्रसङ्गात् ।
ननु तर्हि सर्वदैकाभिव्यक्तिः कुतो न भवति ? तत्राह—स्व-व्यञ्जक- इति । स्वाभिव्यक्ति-हेतुर् यत् कारणं तद् एवाञ्जनम् अभिव्यञ्जनं कारणं यस्य तथा-भूतः सन्न् आविर्भवति वर्तमानावस्थां प्राप्नोति, न सर्वदा, तथाधर्मान्तरोदय-काले च मुद्गर-पातादिना तिरोभवति अतीतावस्थां प्राप्नोति, स एवावयवानांधर्मोऽवयवीत्य् उच्यत इत्य् अर्थः । अतो नोक्त-शङ्कावकाशः, कार्य-नित्यत्वेऽप्य् अभिव्यक्तस्यैवकार्यस्य स्व-कार्य-कारित्वादिति भावः ।
स्याद् एतत् । अभिव्यक्तिर् अपि नित्यानित्या वा ? आद्ये सर्वदैवभिव्यक्ति-कार्य-प्रसङ्गः, अन्त्येऽवयव्य्-आदेर् एवानित्यत्वम् अभिव्यक्तिवद् अस्तु, व्यर्थम् अभ्वियक्ति-कल्पनमिति । उच्यते—अतीतान् आगतावस्थावत्त्व-स्वरूपम् अनित्यत्वं घटादाव् अभिव्यक्तौ चेष्यत एव, आद्य्-अन्तयोः कार्यस्यात्यन्तासत्त्व-प्रतिषेधाय ध्वंसादि-प्रत्यियोगित्वस्यैव निषेधात्, अतीतानागतावस्थयोर् ध्वंस-प्राग्-अभाव-स्थलाभिषेक-मात्र एवास्माकं विशेषात् । अभिव्यक्ति-कल्पना च न व्यर्था । घटोऽनागतो घटोऽतीतैति व्यवहारवत् घटो वर्तमानैति व्यवहारस्यापि घट-मात्रेणासम्भवात्, घट्सयावस्था-त्रय-साधारण्येनातीतादि-कालेऽपि वर्तमानत्व-व्यवहार-प्रसङ्गात् ।
न चैवम् अभिव्यक्तेर् अप्य् अवस्था-त्रय-कल्पना भवत्य् एवेति वाच्यम्, बीजाङ्कुरादिवत् प्रामाणिकत्वेनादोषत्वस्य साङ्ख्य-सूत्रेणोक्तत्वात् । किं च, सत एवाभिव्यक्तिर् इत्य् एव सत्-कार्य-वादिनो नियमः, अभिव्यक्तेश् चाभिव्यक्त्य्-अन्तरास्वीकारेण तस्या असत्या एवोत्पादेऽपिन क्षतिः । कार्याणाम् अनागतावस्थैवाभिव्यक्तेर् अप्य् अनागतावस्था, सैव चाभिव्यक्त्य्-उत्पत्तौ नियामिका
अतः शश-शृङ्गादि-वैलक्षण्यम् । यथा परैर् उत्पत्तेर् उत्पत्तिर् अभावे चाभावः स्वरूपम् एवेष्यते तथैवाभिव्यक्तेर् अभिव्यक्तिःस्वरूपम् एवेत्य् अस्माभिर् अप्य् उपगन्तव्यं घटादेर् अतीतानागतावस्थे तद्-अभिव्यक्तेर् अप्य् अतीतानागतावस्थेइति ।
अथैवम् अभिव्यक्तिर् अपि घट-स्वरूपम् एवास्त्विति चेत्, न, अतीताद्य्-अवस्थ-घटेनाभिव्यक्ति-व्यवहार-प्रसङ्गस्योक्तत्वादिति दिक् ।
यत् तु वैशेषिकाः प्राग्-अभावम् एव कार्योत्पत्ति-नियामकं कल्पयन्ति, तद् असत्, अभाव-कल्पनापेक्षया भाव-कल्पने लाघवात् । भावानां दृष्टत्वाद्, अन्यानपेक्षत्वाच् च१०६ । अपि चाभावेषु स्वतो विशेषे भावत्वापत्तिः । प्रतियोगि-रूप-विशेषश् च प्रतियोग्य-सत्ता-काले१०७ नास्ति । अतोऽभावस्याविशिष्टतयासर्वत्रसर्वोत्पत्ति-प्रसङ्ग एवेति ।
अवयवेभ्यो विज्ञानाच् चातिरिक्ततयाहेतु-भूतं ताभ्यां वैधर्म्य-जातम् अवयविनि दर्शयति—योऽसौइति । षड्-विशेषणानि यथा-सम्भवम् अवयव-ज्ञानाभ्यां वैधर्म्याणि । वैशेषिकैस् त्र्य्-अणुक-शब्देनोच्यते यः परिणाम-विशेषः स एवात्राणीयान् इत्य् उक्तः । कार्येषु परम-सूक्ष्मत्वाभावादिति । अवयवादि-विलक्षण-जलाहरणादि-व्यवहार-कारितयाऽप्य् अतिरिक्तोऽवयवीति प्रतिपादयति—तेनावयविनेति ।
अवयवातिरिक्तोऽवयवी नास्तीत्य् अवयवा एव निर्विकल्प-साक्षात्कार-विषयाइति वैनाशिक-मतम् अपाकरोति—यस्य पुनरिति । यस्य मते स प्रचय-निमित्तको विशेषोऽवयव्य्-आख्योऽवस्तुकस् तुच्छः सूक्ष्मं चावयवाख्यं कारणं न प्रत्यक्ष-गोचरं तस्य मतेऽवयव्य्-अभावात् प्रायेणसर्वम् एव मिथ्या-ज्ञानम् इत्य् आयातम्, यतोटद्-रूप-प्रतिष्ठम् एव मिथ्या-ज्ञानमिति । तदा च सर्वस्य मिथ्या-ज्ञानत्वे सम्यग् ज्ञानम् अपि किं स्यात् ? न स्याद् एव विषयाभावेन क्वापि, ज्ञानस्य सद्-विषयकत्वासिद्धेर् इत्य् अर्थः । तत्रहेतुः—यद् यदिति ।
नन्व् अवयव-ज्ञानस्य सम्यग् ज्ञानत्वं स्यादिति चेत्, न, सूक्ष्मं चेत्य् आदिनावयवानाम् अप्रत्यक्षत्वस्योक्तत्वात् । अप्रत्यक्षेष्व् अवयवेषु लिङ्गं चावयव्य् एव । तस्याभावात् पूर्वावयव-ज्ञानं कदाचित् स्याद् इत्य् आशयात् प्रायेणेत्य् उक्तम् । अवयव्य्-अभावे सङ्हाताश्रितत्वेन परैर् अभ्युपगतस्य ज्ञानस्यापिरूपादिवन् मिथ्यात्वे सर्वं ज्ञानं भ्रमो ज्ञानत्वाद् इत्य् अनुमान-सम्भवाच् चेति ।
स्व-सिद्धान्तम् उपसंहरति—तस्मादिति। सवितर्कायाः कदाचित् विकल्पेनाप्य् उपपत्तिर् इत्य् आशयेन निर्वितर्काया इत्य् उक्तम् ॥४३॥
—o)0(o—
(१.४४)
एतयैव स-विचारा निर्विचारा च सूक्ष्म-विषया व्याख्याता ॥४४॥
तत्र भूत-सूक्ष्मेष्व् अभिव्यक्त-धर्मकेषु देश-काल-निमित्तानुभवावच्छिन्नेषु या समापत्तिः, सा स-विचारेत्य् उच्यते । तत्राप्य् एक-बुद्धि-निर्ग्राह्यम् एवोदित-धर्म-विशिष्टं भूत-सूक्ष्मम् आलम्बनीभूतं सिद्धान्ति-प्रज्ञायाम् उपतिष्ठते ।
या पुनः सर्वथा सर्वतः शान्तोदिताव्यपदेश्य-धर्मानवच्छिन्नेषु सर्व-धर्मानुपातिषु सर्व-धर्मात्मकेषु समापत्तिः, सा निविचारेत्य् उच्यते ।
एवं-स्वरूपं हि तद्-भूत-सूक्ष्मम् एतेनैव स्वरूपेणालम्बनी-भूतम् एव सिद्धान्ति-प्रज्ञा-स्वरूपम् उपरञ्जयति । प्रज्ञा च स्वरूप-शून्येवार्थ-मात्रा यदा भवति, तदा निर्विचारेत्य् उच्यते ।
तत्र महद्-वस्तु-विषया सवितर्का निर्वितर्का च, सूक्ष्म-वस्तु-विषया सविचारा निर्विचारा च । एवम् उभयोर् एतयैव निर्वितर्कया विकल्प-हानिर् व्याख्यातेति ॥४४॥
तत्त्व-वैशारदी : एतयैव सविचारा निर्विचारा च सूक्ष्म-विषया व्याख्याता । अभिव्यक्तो घटादिर् धर्मो यैस् ते तथोक्ता । घटादि-धर्मोपगृहीताइति यावत् । देश उपर्य्-अधः-पार्श्वादिः । कालो वर्तमानः । निमित्तं पार्थिवस्य परमाणोर् गन्ध-तन्मात्र-प्रधानेभ्यः पञ्च-तन्मात्रेभ्य१०८ उत्पत्तिः । एवम् आप्यस्य परमाणोर् गन्ध-तन्मात्र-वर्जितेभ्यो रस-तन्मात्र-प्रधानेभ्यश् चतुर्भ्यः । एवं तैजसस्य गन्ध-रस-तन्मात्र-रहितेभ्यो रूप-तन्मात्र-प्रधानेभ्यस् त्रिभ्यः । एवं वायवीयस्य गन्धादि-तन्मात्र-रहिताभ्यां स्पर्श-प्रधानाभ्यां स्पर्श-शब्द-तन्मात्राभ्याम् । एवं नाभसस्य शब्द-तन्मात्राद् एवैकस्मात् । तद् इदं निमित्तं भूत-सूक्ष्माणाम् । एतेषां देश-काल-निमित्तानाम् अनुभवः, तेनावच्छिन्नेषु । नाननुभूत-विशेषणा विशेष्ये बुद्धि-रूपजायत इत्य् अर्थः ।
ननु सवितर्कया सह किं सारूप्यं सविचाराया इत्य् अत आह—तत्रापिइति । पार्थिवो हि परमाणुः पञ्च-तन्मात्र-प्रचयात्मैक-बुद्धि-निर्ग्राह्यः । एवम् आप्यादयोऽपि चतुस्-त्रि-द्व्य्-एक-तन्मात्रात्मन एक-बुद्धि-निर्ग्राह्या वेदितव्याः । उदितो वर्तमानो धर्मस् तेन विशिष्टम् । एतावता चात्र सङ्केत-स्मृत्य्-आगमानुमान-विकल्पानुवेधः सूचितः । न हि प्रत्यक्षेण स्थूले दृश्यमाने परमाणवः प्रकाशन्ते, अपि त्व् आगमानुमानाभ्याम् । तस्माद् उपपन्नम् अस्याः सङ्कीर्णत्वमिति ।
निर्विचाराम् आह—या पुनरिति । सर्वथासर्वेण नील-पीतादिना प्रकारेण । सर्वतैति हि सार्वविभक्तिकस् तसिः, सर्वैर् देश-काल-निमित्तानुभवैर् इत्य् अर्थः । तद् अनेन स्वरूपेण कालानवच्छेदः परमाणूनामिति दर्शितम् । नापि तद्-आरब्ध-धर्म-द्वारेणेत्य् आह—शान्तेति । शान्ता अतीता उदिता वर्तमाना अव्यपदेश्या भविष्यन्तो धर्मास् तैर् अनवच्छिन्नेषु।
नन्व् अभव-च्छिन्ना धर्मैः परमाणवः किम् असम्बद्धा एव तैर् इत्य् अत आह—सर्व-धर्मानुपातिष्विति । कतमेन सम्बन्धेन धर्माननुपतन्ति परमाणव इत्य् अत आह—सर्व-धर्मात्मकेषु । कथंचिद् भेदः कथंचिद् अभेदो धर्माणां परमाणुभ्य इत्य् अर्थः । कस्मात् पुनर् इयं समापत्तिर् एतद्विषत्येयत आह—एवं-स्वरूपं हीति । वस्तु-तत्त्व-ग्राहिणी नातयाए प्रवर्तत इत्य् अर्थः । विषयम् अभिधायास्याः स्वरूपम् आह—प्रज्ञा चेति ।
सङ्कलय्य स्वरूप-भेदोपयोगि-विषयम् आह—तत्रेति । उपसंहरति—एवमिति उभयोर् आत्मनश् च निर्विचारायाश् चेति ॥४४॥
योग-वार्तिकम् :तद् एवं स्थूल-विषये सूत्र-द्वयेन समापत्तेर् द्विधा विभागं कृत्वा सूक्ष्म-विषयेऽपितस्या द्वैविध्यम् अतिदिशति—एतयैव सविचारा निर्विचारा च सूक्ष्म-विषया व्याख्याता ॥ एतया सवितर्क-निर्वितर्क-रूपया स्थूल-विषयक-समापत्त्या, सूक्ष्म-विषयापि सविचार-निर्विचार-रूपा समापत्ति-द्वयी व्याख्याता, अन्योपरागानुपराग-साम्येनेत्य् अर्थः । वितर्क-विचारेत्य्-आदि-सूत्रे सूक्ष्म-विषयकाभोगो विचार इत्य् उक्तं, स एवात्र सविचार-निर्विचार-रूपेण द्विधोच्यतैति स्मर्तव्यम् ।
कालाद्य्-उपरागानुपराग-युक्तां समापत्तिं द्विहा विभजते—तत्र भूत-सूक्ष्मेष्व् इति । अत्र भूत्श्री-शब्द इन्द्रियाणाम् अप्य् उक्त्य् उपलक्षकः, सामान्यत एव सूक्ष्म-विषयत्वेनास्याः समापत्तेः भाष्ये व्याख्येयत्वात् । भूतेन्द्रियाणां यत् सूक्ष्मं कारणं तत् तन्मात्रादि-प्रकृति-पर्यन्तं सूक्ष्म-विषयत्वं चालिङ्ग-पर्यवसानं[१.४५] इत्य् आगामि-सूत्रात् । तेषु वर्तमान-धर्म-विशिष्टेषु तथा देश-काल-निमित्तैर् विशिष्टतयानुभूयमानेषु या समापत्तिः सा सविचार उच्यतेइत्य् अर्थः ।
अत्र देश उपर्य्-अधः-पार्श्वादिः, कालो वर्तमानादिः, निमित्तं परिणाम-प्रयोजकः पुरुषार्थ-विशेषैति । पूर्ववद् एवाप्राप्य-वयवातिरिक्तस् तमात्रादि-रूपोऽवयवी समापत्तेर् विषय इत्य् आह—अत्रापिइति । उदितो वर्तमानः, उपतिष्ठते आरूढं भवति ।
सविचारां व्याख्याय निर्विचारां व्याचष्टे—या पुनरिति । या तु सर्वथासर्वैःसर्व-रूपैः, सर्वतो देश-कालाद्य्-अनवच्छेदतः समापत्तिः शान्तोदिताव्यपदेशय-धर्मानवच्छिन्नेष्व् अतीत-वर्तमान-भविष्यद्-धर्मैर् अनवच्छिन्नेष्व् अतीत-वर्तमान-भूत-सूक्ष्मेषु जायते सा निर्विचारा ।
अनवच्छिन्न-शब्दस्यासम्बद्धार्थत्व-निरासाय विशेषण-द्वयं—सर्व-धर्मेत्य्-आदि । सर्व-धर्मानुगतेषु सर्व-धर्माणाम् आश्रयेषु चेत्य् अर्थः ।
निर्वितर्क-साम्यम् अस्याः प्रतिपादयति—एवं-स्वरूपं हिइति । पूर्व-सूत्रानुसारेणैतद् व्याख्येयम्—उक्तस्य समापत्ति-चतुष्टयस्य विषय-विभाजनम् आह—तत्रेति । महत् स्थूलं केवलं विकृतिरिति यावत् । तेनेन्द्रियाणां भूत-परमाणूनां च सङ्ग्रहः । भूत-परमाणूनां च सूक्ष्म-मध्ये प्रवेशो वक्तुं न शक्यते, आगामि-सूत्रे पार्थिवस्याणोर् गन्ध-तन्मात्रं सूक्ष्मैत्य्-आदिना तन्मात्रादीनाम् एव सूक्ष्मत्वस्य वक्ष्यमाणत्वात्, सूक्ष्मत्वं च तत्त्वान्तर-कारणत्वम् । तच् च जलादि-चतुष्टय-व्यावृत्त्-अर्थं बहिर्-इन्द्रिय-ग्राह्य-गुण-राहित्येन विशेषणीयम् । वस्तुतस् तु अष्ट-प्रकृति-सिद्धान्ताद् भूतान्य् उत्तर-भूतेष्व् आधार-कारणान्य् एव,, न तु प्रकृतयः । अतोऽत्र तत्त्वान्तर-प्रकृतित्वम् एव सूक्ष्मत्वमिति ।
ननु शब्दार्थ-ज्ञान-विकल्प-सङ्कीर्णत्वम् एव कथम् एतयैवेत्य् अनेन नातिदिश्यते ? तत्राह—एवम् उभयोर् एतयैव निर्वितर्कया विकल्प-हानिर् व्याख्यातेति । एवं-स्वरूपम् इव विकल्प-हानिर् अपि यथोक्त-विकल्प-राहित्यम् अप्य् उभयोः सविचार-निर्विचारयोर् एतयैव पूर्वोक्तया निर्वितर्कया यथोक्त-विकल्प-शून्यया सूत्र-कारेणव्याख्यात-प्रायेत्य् अर्थः । पूर्व-भूमिकायां त्यक्त-विकल्पस्योत्तर-भूमिकायां१०९ असम्भवादिति॥४४॥
—o)0(o—
(१.४५)
सूक्ष्म-विषयत्वं चालिङ्ग-पर्यवसानम् ॥४५॥
पार्थिवस्याणोर् गन्ध-तन्-मात्रं सूक्ष्मो विषयः, आपस्य रस-तन्मात्रं, तैजसस्य रूप-तन्मात्रं, वायवीयस्य स्पर्श-तन्मात्रं, आकाशस्य शब्द-तन्मात्रमिति । तेषाम् अहङ्कारः, अस्यापि लिङ्ग-मात्रं सूक्ष्मो विषयः । लिङ्ग-मात्रस्याप्य् अलिङ्गं सूक्ष्मो विषयः । न चालिङ्गात् परं सूक्ष्मम् अस्ति ।
नन्व् अस्ति पुरुषः सूक्ष्मैति ? सत्यम् । यथा लिङ्गात् परम-लिङ्गस्य सौक्ष्म्यं न चैवं पुरुषस्य । किं तु, लिङ्गस्यान्वयि-कारणं पुरुषो न भवति, हेतुस् तु भवतीति । अतः प्रधाने सौक्ष्म्यं निरतिशयं व्याख्यातम् ॥४५॥
तत्त्व-वैशारदी : किं भूत-सूक्ष्म एव ग्राह्य-विषया *सर्वमापत्तिः समाप्यते ? न, किन्तु सूक्ष्म-विषयत्वं चालिङ्ग-पर्यवसानम् ॥
पार्थिवस्य परमाणोः सम्बन्धिनी या गन्ध-तन्-मात्रता, सा समापत्तेः सूक्ष्मो विषयः । एवम् उत्तरत्रापि योज्यम् । लिङ्ग-मात्रं महत्-तयां, तद् धि लयं गच्छति प्रधानैति । अलिङ्गं प्रधानम् । तद् धि न क्वचिल् लयं गच्छतीत्य् अर्थः । अलिङ्ग-पर्यवसानम् आह—न चालिङ्गात् परमिति ।
चोदयति—ननुइति । पुरुषोऽपि सूक्ष्मो नालिङ्गम् एवेत्य् अर्थः । परिहरति—सत्यमिति । उपादानतया सौक्ष्म्यम् अलिङ्ग एव नान्यत्रेत्य् अर्थः । तथापुरुषार्थ-निमित्तत्वान् महद्-अहङ्कारादेः पुरुषोऽपिकारणम् अलिङ्गवदिति कुत एवं-लक्षणम् अलिङ्गस्यैव सौक्ष्म्यम् इत्य् आशयवान् पृच्छति—किं त्विति । उत्तरम् आह—लिङ्गस्यैति । सत्यं कारणं न तूपादानम् । यथा हि प्रधानं महद्-आदि-भावेन परिणमते न तथापुरुषस् तद्-धेतुर् अपीत्य् अर्थः । उपसंहरति—अतः प्रधान एव सौक्ष्म्यं निरतिशयं व्याख्यातम् ॥४५॥
योग-वार्तिकम् :सूक्ष्म-विषयेत्य् उक्तम् ।तत्र सूक्ष्मो विषयःकिं-पर्यन्तः ? इत्य् आकाङ्क्षायाम् आह—किन्तु सूक्ष्म-विषयत्वं चालिङ्ग-पर्यवसानम् ॥ सूक्ष्मश् चासौ विषयश् चेति सूक्ष्म-विषयः । अलिङ्गं प्रकृतिस् तत्-पर्यन्तैव सूक्ष्म-विषयतेत्य् अर्थः ।
तत्र स्थूलम् आरभ्य प्रकृति-पर्यन्तस्य सूक्ष्मतायां क्रमम् आह—पार्थिवस्यैति । स्थूल-काष्ठाः पञ्च-विधा अणवः । तत्र पार्थिवाण्व्-अपेक्षया गन्ध-तन्मात्रं समापत्तेः सूक्ष्मो विषयः । यद्यपि पार्थिवाणुर् जल-विशिष्ट-गन्ध-तन्मात्रारब्धस् तथापि गन्ध-तन्मात्रस्य प्राधान्यात् तद् एव पार्थिवाणोः सूक्ष्मत्वम् उक्तम् । एव्म् आप्य्-आदीनां त्रयाणां पूर्व-पूर्व-भूतविशिष्ट-रसादि-तन्मात्र-कार्यत्वेऽप्य् आकाशाणोश् चाहङ्कार-विशिष्ट-शब्द-तन्मात्र-कार्यत्वेऽपि प्राधान्याद् एकैक-तन्मात्रम् एव सूक्ष्मम् इत्य् उक्तमिति वेदितव्यम् ।
तेषाम् अहङ्कारैति । तेषां पञ्च-तन्मात्राणाम् अहङ्कारः सूक्ष्मः, कारणत्वात् । अत्र च तमात्रैर् इन्द्रियाण्य् उपलक्षणीयानि ।
अस्यापि इति । अहङ्कारस्यापीत्य् अर्थः । लिङ्ग-मात्रं महत्तत्त्वम् । तद् धि स्व-कारणस्य प्रकृतेर् अनुमापक-मात्रम् अङ्कुरवत्, प्रकृति-गत-विशेषाणाम् अहङ्कारादिष्व् एव प्रकटीभावात् । यथान्यत्र काण्डादिभिर् बीज-गत-विशेषाभिव्यक्तिर् नाङ्कुर-मात्रेणेति । अलिङ्गं प्रधानं, अकार्यत्वेन११० कस्याप्य् अननुमापकत्वादिति ।
अलिङ्ग-पर्यवसानत्वं व्याचष्टे—न चालिङ्गादिति । चोदयति—नन्विति । ननु पुरुषः प्रकृत्य्-अपेक्षयापि सूक्ष्मोऽस्ति निर्धर्मकत्वादितिपूर्व-पक्षं परिहरति—सत्यमिति । यथोपादानतया लिङ्गापेक्षितं सौक्ष्म्यं प्रधानस्यास्ति नैवं पुरुषस्य , तस्यापरिणामित्वात् । उपादानतया च सूक्ष्मत्वम् अत्र विवक्षितम् इत्य् आशयः ।
ननु यदि पुरुषः कारणं न भवति, तर्हि, यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति, यत् प्रयन्त्य् अभिसंविशन्ति तद् ब्रह्म [तै.उ. ३.१.१],
तम् एव चाद्यं पुरुषं प्रपद्ये
यतः प्रवृत्तिः प्रसृता पुराणी ॥[गीता १५.४]
इत्य् आदि-श्रुति-स्मृत्-शत-विरोध इत्य् आशङ्कां परिहरति—किं तु लिङ्गस्यैति । हेतुस् तु भवति, किन्तु लिङ्गस्यान्वयि-कारणम् उपादान-कारणं पुरुषो न भवतीति व्युत्क्रमेणान्वयः । तत्रपरमात्मनोऽधिष्ठातृत्वेन निमित्त-कारणत्वं—मयाध्यक्षेण प्रकृतिः सूयते स-चराचरम् [गीता ८.१०]इति गीता-वचनात् ।
प्रधान-पुंसोर् अजयोर् यतः क्षोभः प्रवर्तते ।
नित्ययोर् व्यापिनोश् चैव जगद्-आदौ महात्मनोः ।
तत्-क्षोभकेषांाद् ब्रह्माण्ड-सृष्टौ हेतुर् निरञ्जनः ।
अहेतुरितिसर्वात्मा ज्ञायतेपरमेश्वरः ॥ इत्य् आदि सकल-स्मृतिषु तथा निर्णयाच् च ।
यत् तु ईश्वर-स्वाधिष्ठानत्व-रूपम् उपादानत्वं यतो वा इमानि भूतानि जायन्ते [तै.उ. ३.१.१] इत्य्-आद्य्-उक्त-श्रुति-स्मृत्योर् गीयत आकाशस्य वायूपादानत्ववत् तद् अप्य् अत्र दर्शने निमित्त-.कारणता-मध्य एव प्रवेश्यतेपुरुषाणां विकारित्व-भ्रम-निरासायेति । पुरुषार्थं प्रकृतेः प्रवृत्त्य्-अभ्युपगमेन च जीव-पुरुषाणाम् अपि महद्-आद्य्-अखिल-सृष्टि-हेतुत्वं संयोग-मात्रेण नोपादानत्वेन । तथा चोक्तम्—
बुद्ध्य्-आदयो विशेषान्ता अव्यक्तादीश्वरेच्छया ।
पुरुषाधिष्ठिताद् एव जज्ञिरे मुनि-पुङ्गवाः ।
सत्त्वं रजस् तमैतिप्रकृतेर् अभवन् गुणाः ।
मया प्रक्षोभ्यमाणायाःपुरुषानुमतेन च ॥ इत्य् आदि-स्मृतिभिः ।
जीवानाम् अधिष्ठान-संयोग-मात्रम् । अनुमतिस् तु पूर्व-कल्पीय-काम-कर्मादि-रूपेति दिक् ॥४५॥
—o)0(o—
(१.४६)
ता एव स-बीजः समाधिः ॥४६॥
ताश् चतस्रः समापत्तयो बहिर्-वस्तु-बीजाइतिसमाधिर् अपि सबीजः । तत्र स्थूलेऽर्थे सवितर्को निर्वितर्कः, सूक्ष्मेऽर्थे सविचारो निर्विचारैति चतुर्धोपसंख्यातः समाधिरिति ॥४६॥
तत्त्व-वैशारदी : चतसृणाम् अपि समापत्तीनां ग्राह्य-विषयाणांसम्प्रज्ञातत्वम् आह—ता एव स-बीजः समाधिः ॥ एव-कारोऽभिन्न-क्रमः सबीज इत्य् अस्यानन्तरं द्रष्टव्यः । ततश् चतस्रः समापत्तयो ग्राह्य-विषयाः सबीजतया नियम्यन्ते । सबीजता त्व् अनियता ग्रहीतृ-ग्रहण-गोचरायाम् अपि समापत्तौ विकल्पाविकल्प-भेदेनानिषिद्धा व्यवतिष्ठते । तेन ग्राह्ये चतस्रः समापत्तयो ग्रहीतृ-ग्रहणयोश् च चतस्र इत्य् अष्टौ सिद्धा भवन्तीति । निगद-व्याख्यात भाष्यम् ॥४६॥
योग-वार्तिकम् :तद् एवंग्राह्य-ग्रहण-समापत्त्योः स्थूल-सूक्ष्म-विषय-भेदेन विशिष्टाविशिष्ट-रूपतश् चतुर्विध-विभाग उक्तः । ग्रहीतृ-समापत्तौ च यः सविकल्प-रूपो विशेषः स एतास्व् एव चतसृष्व् अन्तर्-भूतः, चेतनोपरागेणैव । चेतनेषु योगस्य व्यवस्थापितत्वात् । अतो ग्रहीतृ-समापत्तौ सविकल्पाविकल्पादि-विभागो नोक्तः । वितर्केत्य्-आदि सूत्रेण पूर्वं सम्प्रज्ञातस्यावान्तर-विभाग एव कृतः । इदानीं यथोक्त-समापत्त्य्-आख्य-कार्य-मुखेन सबीज-परिभाषा-पूर्वकं सम्प्रज्ञातस्य सामान्य-लक्षणम् अनेनैव प्रसङ्गेनाह—ता एव स-बीजः समाधिः ॥
ता एव ग्रहीतृ-ग्रहण-ग्राह्येषु समापत्तय एव सबीजः समाधिः सम्प्रज्ञात-योग इत्य् अर्थः । समापत्ति-रूप-साक्षात्कार-हेतुत्वाद् योगस्य समापत्तित्वम् उक्तं, योगे स्वतोऽवान्तर-विशेषाभावादिति ।
ननु ग्रहीतृ-ग्रहण-ग्राह्य-समापत्तिभिर् वितर्क-विचारास्मितानुगतास् त्रयः सम्प्रज्ञाता एव सङ्गृह्यन्ते न पुनर् आनन्दानुगतैतिकथं ता एवेत्य् अवधारणम् ?इति चेत्, न, आनन्दस्य बुद्धि-धर्मत्वेन ग्राह्य-मध्ये प्रवेशात् ।
ननु दुःख-बीज-संस्कार-हेतुतया समापत्तय एव सबीजाः । न तु वृत्ति-निरोधात्मको योगैतिकथम् उच्यते ता एव सबीजयोगः ?इति । तत्राह्भाष्य-कार्—ताश् चतस्रःिति । बहिर्-वस्तून्य् अनात्म-धर्माः संस्कार-धर्मादयो दुःख-भीजानि जायन्त आभ्यैतिबहिर्-वस्तु-बीजाः । सम्प्रज्ञात-निष्ठाया अपि संस्कार-हेतुत्वाद् धर्ममेघत्वाच् च । तथा च वितर्कादि-सूत्रोक्त-रीत्या चतस्रः, प्रकृते तु त्रिधा विभक्तास् ता ग्रहीत्रादि-विषयिकाः समापत्तयो बहिर्-वस्तु-बीजा इत्य् अतस् ताभिः सम्बन्धात् समाधेः सम्प्रज्ञाताख्यो वृत्ति-निरोधोऽपि स-बीजा उच्यतेइत्य् अर्थः ।
ननु स्थूल-सूक्ष्म-समापत्तेर् एव चतुर्विधत्वाद् आनन्दास्मिता-समापत्तिभ्यां सह षट् समापत्तयो भवन्ति, तत् कथम् उच्यते चतस्र इत्य् आशङ्काम् अपाकरोति—तत्र स्थूलेऽर्थे इति । तत्रचतसृषु समापत्तिषु मध्ये । स्थूलेऽर्थे एक एव समाध्र् अवान्तर-भेदेनैव सवितर्क-निर्वितर्क-रूपतो द्विधा, तथा सूक्ष्मेऽर्थेऽप्य् एक एव समाधिर् अवान्तर-भेदेनैव सविचार-निर्विचार-रूपतो द्विधा प्रोक्तः, इत्य् अतो वितर्कानुगतादि-रूपैःपूर्वैः स सम्प्रज्ञात-योगश् चतुर्धोपसंख्यातःपरिगणित इत्य् अर्थः ।
केचित् तु सूत्रस्य एव-कारो भिन्न-क्रमः । तथा च ताः सवितर्क-निर्वितर्क-सविचार-निर्विचार-रूपाश् चतस्रः समापत्तयः सबीज-समाधेर् एवेति सूत्रार्थः । तेन न ग्रहीत्र्-आदि-समापत्तेर् अपि सबीजत्वं भाष्ये प्राग् उक्तं विरुध्यत इत्य् आहुः । तन् न, ग्रहीत्र्-आदि-समापत्तेः सबीजत्वानुक्त्यात्रसूत्र-कारस्य न्यूनतापत्तेः । एव-कार-वैयर्थ्याच् च, यथा-क्रमस्यैवैव-कारस्योपपत्तौ भिन्न-क्रमत्वानौचित्याच् चेति । यच् चान्यत् तैर् उक्तं ग्राह्य-विषये स्थूल-सूक्ष्म-भेदेन सवितर्कादि-रूपाश् चतस्रः समापत्तयः, ग्रहणाख्येषु चेन्द्रियेषु सानन्द-निरानन्द-रूपे द्वे समापत्ती, ग्रहीतृषु च सास्मित-निरस्मिता-रूपे द्वे समापत्ती इत्य् अष्टौ समापत्तयो बोध्याः ।
युक्ति-साम्यादिति तद् अपि न, प्रमाणादर्शनात्, आनन्दानुगतास्मितानुगतयोर् निरानन्द-निरस्मितत्व-रूप-विशेषासम्भवाच् च । आनन्दो हि ह्लाद-मात्रोऽस्मिता च चैतन्य-मात्र-संविदिति भाष्य-कृता प्रोक्तं, न तु इन्द्रियं ह्लाद-शब्देन व्याख्येयं, लक्षणाप्रसङ्गात्१११ ।
नाप्य् अहङ्कारोपरक्त-चैतन्यम् अस्मिता-शब्देन व्याख्येयं, लक्षणापत्तेः । अतः कथं ह्लादवतः सम्प्रज्ञातस्य ह्लाद-शून्यत्वं, कथं वा विविक्त-चिन्मात्र-संविद्-युक्तस्य सम्प्रज्ञातस्य तच्-छून्यत्वमिति दिक् । तस्माद् अवान्तर-भेदेन पञ्चैव समापत्तयः—ग्राह्य-ग्रहणयोः स्थूल-सूक्ष्म-भेदेन सवितर्काद्याश् चतस्रः, पञ्चमी च ग्रहीतृष्विति । सम्प्रज्ञातयोस् त्व् आनन्दानुगतम् आदायावान्तर-भेदेन षोढैवेति ॥४६॥
—o)0(o—
(१.४७)
निर्विचार-वैशारद्येऽध्यात्म-प्रसादः ॥४७॥
अशुद्ध्य्-आवरण-मलापेतस्य प्रकाशात्मनो बुद्धि-सत्त्वस्य रजस्-तमोभ्याम् अनभिभूतः स्वच्छः स्थिति-प्रवाहो वैशारद्यम् । यदा निर्विचारस्य समाधेर् वैशारद्यम् इदं जायते, तदा योगिनो भवत्य् अध्यात्म-प्रसादो भूतार्थ-विषयः क्रमाननुरोधी स्फुटः प्रज्ञालोकः । तथा चोक्तम्—
प्रज्ञा-प्रसादम् आरुह्य अशोच्यः शोचतो जानन् ।
भूमिष्ठान् इव शैल-स्थः सर्वान् प्राज्ञोऽनुपश्यति ॥४७॥
तत्त्व-वैशारदी : चतसृष्व् अपि समापत्तिषु ग्राह्य-विषयासु निर्विचारायाः शोभनत्वम् आह—निर्विचार-वैशारद्येऽध्यात्म-प्रसादः ॥
वैशारद्य्-अपदार्थम् आह—अशुद्धीति । रजस्-तमसोर् उपचयोऽशुद्धिः, सैवावरण-लक्षणो मलस् तस्माद् अपेतस्य प्रकाशात्मनः प्रकाश-स्वभावस्य बुद्धि-सत्त्वस्य । अत एवानभिभूतैति । स्याद् एतत्, ग्र्हाह्य-विषया चेत् समापत्तिः कथम् आत्म-विषयः प्रसादः ? इत्य् अत आह—भूतार्थ-विषयैति । नात्म-विषयः किं तु तद्-आधार इत्य् अर्थः । क्रमान
नुरोधी युगपद् इत्य् अर्थः । अत्रैव पारमर्षी गावान् उदाहरति—तथा चैति । ज्ञानालोक-प्रकर्षेणात्मानंसर्वेषाम् उपरि पश्यन् दुःख-त्रय-परीतान् शोचतो जनान् जानाति ॥४७॥
योग-वार्तिकम् :ुक्तासु समापत्तिषु निर्विचारायां विशेषं कंचिद् आह—निर्विचार-वैशारद्येऽध्यात्म-प्रसादः ॥
सामान्यतो वैशारद्यम् आदौ व्याचष्टे—अशुद्ध्येति । रजस्-तमो-बुद्धि-करणं पापादिर् अशुद्धिः ।सैवावरण-लक्षणो मलः । तस्माद् अपेतस्यैतिहेतु-गर्भ-विशेषणम् ।प्रकाशात्मनः प्रकाश-स्वभावस्य बुद्धि-सत्त्वस्य कारणापायाद् एव रजस्-तओम्भ्याम् अनभिभूतोऽतः स्वच्छः, ध्येय-गताशेष-विशेष-प्रतिबिम्बोद्ग्राही स्थिति-प्रवाह एकाग्रता-धारा चित्तस्य वैशारद्यम् इत्य् अर्थः ।
समग्र-सूत्रार्थं व्याचष्टे—यदेति । आत्मनिबुद्धौ वर्तत इत्य् अध्यात्मं तादृशः । प्रसाद-शब्दार्थं विवृणोति—भूतार्थ- इति । यथार्थ-विषयकः क्रमाननुरोधी युगपद् इत्य् अर्थः ।
अत्रैव पारमर्षि-गाथाम् उदाहरति—तथा चैति । तरति शोकम् आत्मविदितिश्रुतेर् अशोच्योऽहं दुःखी पापीत्य्-आदि-रूपैः स्वयम् अशोच्यः सन् सर्वान् एव जानन् शोचतो दुःखितान् पश्यति । स्वयम् शोच्यो हि पुरुषः स्वापेक्षया कंचित् सुखिनम् इव पश्यति, मौढ्यात् । अशोच्यत्सु परमार्थतो दुःख-समुद्र-मग्नं सर्व-जीव-जातं दुःखितम् एव पश्यति, अमूढत्वाद् इत्य् अर्थः । तथा च निर्विचार-वैशारद्ये जाते स्वयम् एव प्रकृति-पुरुष-विवेको वा परमेश्वर-तयां वा सर्व्त् क्रियते न तु तत्-साक्षात्काराय पुनर् योगापेक्षेति निर्विचाराया उत्कर्षः ॥४७॥
—o)0(o—
(१.४८)
ऋतंभरा तत्र प्रज्ञा ॥४८॥
तस्मिन् समाहित-चित्तस्य या प्रज्ञा जायते, तस्यार्तं भरेति संज्ञा भवति । अन्वर्था च सा, सत्यम् एव बिभर्ति । न च तत्र विपर्यास-ज्ञान-गन्धोऽप्य् अस्तीति । तथा चोक्तं—
आगमेनानुमानेन ध्यानाभ्यास-रसेन च ।
त्रिधा प्रकल्पयन् प्रज्ञां लभते योगम् उत्तमम् ॥िति ॥ ४८॥
तत्त्व-वैशारदी : अत्रैव योगी-जन-प्रसिद्धान्वर्थ-संज्ञा-कथनेन योग-संमतिम् आह—ऋतंभरा तत्र प्रज्ञा ॥ सुगमं भाष्यम् । आगमेनेति वेद-विहितं चरणारविन्दम् उक्तम् । अनुमानेनेति मननम् । ध्यानं चिन्ता । तत्राभ्यासः पौनःपुन्येनानुष्ठानम् । तस्मिन् रस आदरः । तद् अनेन निदिध्यासनम् उक्तम् ॥४८॥
योग-वार्तिकम् :पूर्व-सूत्रोक्त-सबीज-समाधौ जायमानायाः समापत्त्य्-आख्यायाः प्रज्ञाया अन्वर्था तान्त्रिकीं संज्ञाम् अपि दर्शयति—ऋतंभरा तत्र प्रज्ञा ॥तस्मिन्निति तत्रेत्य् अस्य विवरणम् ।तस्मिन् समाहित-चित्तस्येति पूर्वोक्त-सबीज-योग इत्य् अर्थः । न चाव्यवहित-सूत्रोक्तं वैशारद्यं प्रसादो वा कथं न तत्रेत्य् अनेन न परामृष्यतैति वाच्यम् । द्वितीय-सूत्रतोऽत्र समाधि-प्रज्ञा-सामान्य-परत्वस्य लप्स्यमानत्वात् । सुगमम् अन्यत् ।
ननु संज्ञा-कथन-मात्रेण किं प्रयोजनम् इत्य् आशङ्क्याह—अन्वर्थेति । विपर्यास-रूप-ज्ञानं यद्यपि सवितर्क-योगज-प्रज्ञायांशब्दार्थ-ज्ञान-विकल्पेऽस्ति, तथापि ऋतम्भर-जातीयत्वस्य इवात्र विवक्षितत्वात् न तस्याम् अव्याप्तिः । साजात्यं च समाधिज-प्रज्ञात्वेन ।
अथवा तत्र समाहित-चित्ते जायमाना या प्रज्ञा सैव ऋतम्भरोच्यतैति सूत्रार्थः । लौकिक-ज्ञानेऽविद्या-लेश-सम्पर्कावश्यंभावादिति । योग-काले प्रकृष्टा प्रज्ञा भवतीत्य् अत्र स्मृतिं प्रमाणयति—तथा चेति । ध्यानस्य चिन्तनस्य योऽभ्यासः पौनःपुन्यं, तत्र यो रस आदरः, तेन । तथा च चरणारविन्द-मनन-निदिध्यासनैस् त्रिभिर् हेतुभिः सबीज-योग-काले प्रज्ञां प्रकल्पयन् प्रकर्षेण विपर्यास-राहित्येनोत्पादयन् तत्-प्रज्ञातः पर-वैराग्य-द्वारा वक्ष्यमाणम् उत्तम-योगं निर्बीजं लभतैति श्लोकार्थः ॥४८॥
—o)0(o—
(१.४९)
सा पुनः—
श्रुतानुमान-प्रज्ञाभ्याम् अन्य-विषया विशेषार्थत्वात् ॥४९॥
श्रुतम् आगम-विज्ञानं तत्-सामान्य-विषयम् । न ह्य् आगमेन शक्यो विशेषोऽभिधातुम् । कस्मात् ? न हि विशेषेणकृत-सङ्केतः शब्दैति । तथानुमानं सामान्य-विषयम् एव । यत्र प्राप्तिस् तत्र गतिः, यत्र न प्राप्तिस् तत्र न गतिर् इत्य् उक्तम् । अनुमानेन च सामान्येनोपसंहारः । तस्माच् छ्रुतानुमान-विषयो न विशेषः कश्चिद् अस्तीति । न चास्य सूक्ष्म-व्यवहित-विप्रकृष्टस्य वस्तुनो लोक-प्रत्यक्षेण ग्रहणम् अस्ति ।
न चास्य विशेषस्याप्रमाणकस्याभावोऽस्तीति समाधि-प्रज्ञा-निर्ग्राह्य एव स विशेषो भवति । भूत-सूक्ष्म-गतो वा पुरुष-गतो वा । तस्माच् छ्रुतानुमान-प्रज्ञाभ्याम् अन्य-विषया सा प्रज्ञा विशेषार्थत्वादिति ॥४९॥
तत्त्व-वैशारदी : स्याद् एतत् । आगमानुमान-गृहीतार्थ-विषय-भावना-प्रकर्ष-लब्ध-जन्मा निर्विचारागमानुमान-विषयम् एव गोचरयेत् । न खल्व् अन्य-विषयानुभव-जन्मा संस्कारः शक्तोऽन्यत्र ज्ञानं जनयितुं, अतिप्रसङ्गात् । तस्मान् निर्विचारा चेद् ऋतम्भरा, आगमानुमानयोर् अपि तत्-प्रसङ्ग इत्य् अत आह—श्रुतानुमान-इत्य् आदि ।
बुद्धि-सत्त्वं हि प्रकाश-स्वभावंसर्वार्थ-दर्शन-समर्थम् अपि तमसावृतं यत्रैव रजसोद्घाट्यते तत्रैव गृह्णाति । यदा त्व् अभ्यास-वैराग्याभ्याम् अपास्त-रजस्-तमो-मलम् अनवद्य-वैशारद्यम् उद्द्योतते तदास्यातिपतित-समस्त-मान-मेय-सीम्नः प्रकाशानन्त्ये सति किं नाम यन् न गोचरैति भावः ।
व्याचष्टे—श्रुतम् आगम-विज्ञानं तत्-सामान्य-विषयम् इति। कस्मात् ? न ह्य् आगमेन शक्यो विशेषोऽभिधातुम्। कुतः ? यस्माद् आनन्त्याद् व्यभिचाराच् च न विशेषेण कृत-सङ्केतः शब्दः । यस्माद् अस्य विशेषेण सह न वाच्य-वाचक-सम्बन्धः प्रतीयते । न च वाक्यथार्थेऽपीदृशो विशेषः सम्भवति ।
अनुमानेऽपि लिङ्ग-लिङ्ग-सम्बन्ध-ग्रहणाधीजन्मनि गतिर् एषैवेत्य् आह—तथानुमानमिति । यत्र प्राप्तिर् इत्य् अत्र यत्र-तत्र-शब्दयोः स्थान-परिवर्तनेन व्याप्य-व्यापक-भावोऽवगमयितव्यः। अतोऽत्रानुमानेन सामान्येनोपसंहारः ।
उपसंहरति—तस्मादिति ।
अस्तु तर्हि सम्बन्ध-ग्रहानपेक्षं लोक-प्रत्यक्षं न तत्-सामान्य-विषयम् इत्य् अत आह—न चास्य इत्य् आदि । मा भूत् सम्बन्ध-ग्रहाधीनं लोक-प्रत्यक्षं, इन्द्रियाधीनं तु भवत्य् एव । न चेन्द्रियाणाम् अस्मिन्न् अस्ति योग्यतेत्य् अर्थः ।
ननु च यद्य् आगमानुमान-प्रत्यक्ष-गोचरो विशेषः, तर्हि नास्ति, प्रमाण-विरहाद् इत्य् अत आह—न चैति । न हि प्रमाणं व्यापकं कारणं वा प्रमेयस्य , येन तन्-निवृत्तौ निवर्तेत । नो खलु कलावतश् चन्द्रस्य पर-भाग-वर्ति-हरिण-सद्-भावं प्रति न संदिहते प्रामाणिका इत्य् अर्थः ।ितितस्मात् ।
समाधि-प्रज्ञा-निर्ग्राह्य एवैति । अत्र च विवादाध्यासिताः परमाणव आत्मानश् च प्रातिस्विक-विशेष-शालिनः, द्रव्यत्वे सति परस्परं व्यावर्तमानत्वात्, ये द्रव्यत्वे सति परस्परं व्यावर्तन्ते ते प्रतिस्विक-विशेष-शालिनः, यथा खण्ड-मुण्डादय इत्य् अनुमानेनागमेन च ऋतम्भर-प्रज्ञोपदेश-परेणयद्यपि विशेषो निरूप्यते, यद् अनिरूपणे संशयः स्यान्, न्याय-प्राप्तत्वात् तथाप्य् अदूर-विप्रकर्षेण तत् सत्त्वं कथंचिद् गोचरयतः श्रुतानुमाने, न तु साक्षाच् चार्थम् इव समुच्चयादि-पदानि लिङ्ग-सङ्ख्या-योगितया । तस्मात् सिद्धं श्रुतानुमान-प्रज्ञाभ्याम् अन्य-विषयेति ॥४९॥
योग-वार्तिकम् : नन्व् आगमानुमानयोर् अपि प्रमाणत्वात् ताभ्याम् एव तद्-अर्थ-तयां गृह्यतां किं योगेनेत्य् आशङ्का-निरासायोत्तरं सूत्रं प्रवर्तते, तद् योजयति—सा पुनःिति ।
श्रुतानुमान-प्रज्ञाभ्याम् अन्य-विषया विशेषार्थत्वात् ॥ सा तु समाधि-सामान्यजा प्रज्ञा श्रुतानुमान-रूप-प्रज्ञाभ्यांचरणारविन्द-मननाभ्याम् अन्य-विषया अतिरिक्त-विषया, विशेषार्थत्वात्विशेषोऽर्थो विषयो यस्याः सा तथा, तयाद् इत्य् अर्थः ।
समाधि-प्रज्ञायाः श्रवण-मननाभ्याम् अतिरिक्त-विषयत्वं विवृणोति—श्रुतम् आगम- इति । न हि विशेषेणैति । पदार्थतावच्छेदक-रूपेणैव पदार्थः शाब्द-बोधे भासतेऽन्यथातिप्रसङ्गात् । पदार्थतावच्छेदकं तु घटत्वादि-सामान्यम् एव, न तु तत्-तद्-विशेषास् तेषाम् आनन्त्येन सर्वेषाम् एकदानुपस्थितेस् तत्-तद्-रूपैः शक्ति-ग्रहासम्भवात्, विशेषाणाम् अन्योन्यं व्यभिचाराच् च, सामान्यतः श्रुतेऽप्य् अर्थे विशेष-संशय-दर्शनाच् चेति । इत्य् उक्तमिति अनुमानम् इत्य् अस्य विशेषणम् । अत्र हि व्यापकतावच्छेदकेन गतित्वादि-सामान्येनैवानुमानं भवति, न तु क्रियादिगत-विशेष-रूपैरिति ।
अनुमानेन चैति । सामान्योपसंहार इत्य् उक्त इत्य् अनुषङ्गः ।
ननु श्रुतानुमानागोचरोऽपि विशेषो लौकिक-प्रत्यक्षेणैव ग्राह्योऽस्तु किं योगज-प्रत्यक्षेण ?इति तत्राह—न चास्यैति ।
नन्व् एवं तस्य विशेषस्याप्रामाणिकत्वाद् अभाव एवास्त्व् इत्य् आशङ्कां प्रतिषेधति—न चास्य विशेषस्यैति । न हि निर्विशेषं सामान्यम् अस्तीति न्यायेन सर्वत्रैव वस्तुनि विशेष-सिद्धेरिति भावः ।
अतः परिशेषात् सिद्धान्ति-प्रज्ञा-ग्राह्य एव स विशेष इत्य् उपसंहरति— इतिसिद्धान्तीति । स्थूलस्य विशेषः कदाचिल् लौकिक-प्रत्यक्ष-गोचरोऽपि स्यादिति स्थूलं परित्यज्य भूत-सूक्ष्म-गत इत्य् उक्तम् ।
पुरुष-गतो वाइति । एतेनपुरुषेष्व् अपि विशेषादि-धर्मः स्वीकृतः, धर्म-निषेधस् तु विशेष-गुण-द्रव्यत्वादि-परः । आथवा स्व-स्वोपाधि-प्रतिबिम्बा एवातीतानागत-वर्तमाना मुक्तामुक्त-साधारणाखिल-पुरुषेष्व् अन्योन्यं विशेषैति बोध्यम् ।
स्याद् एतत् । व्यवहितादिषु सन्निकर्षाद्य्-अभावात् कथंसिद्धान्ति-प्रत्यक्ष-ग्राह्यत्वम् अपि स्यात् ? अथ योगज-धर्मस्यापि सन्निकर्षत्वं कल्प्यम् ?इति चेत्,न, संयोगादिभिर् अननुगमात् । प्रत्यक्षे विषयस्य कारणत्वेनातीतादि-प्रत्यक्षस्य इवासभावाच् चेति । अत्रोच्यते—अस्माकम् अन्तःकरणस्य विभुत्वेनातीतादीनांस्वरूपतः सत्त्वेन च सदा सर्वार्थ-सन्निकर्षात्, योगज-धर्मेण च व्यवहितातीतादि-ज्ञान-प्रतिबन्धकं तम एव निरस्य तैति । तद् एतत् साङ्ख्य-भाष्ये लीन-वस्तु-लब्धातिशय-सम्बन्धाद् वा न दोषैति सूत्रेऽस्माभिः प्रपञ्चितम् ।
उपसंहार-मुखेन सूत्र-वाक्यथार्थम् आह—तस्माच् छ्रुत- इति । एतेन “दशमस् त्वम् असिइतिवत् शब्दाद् एव साक्षात्कार आत्मनो भवति, निर्विशेषत्वेन चात्मनो न विशेष-ग्रहार्थम् अपि योगज-प्रत्यक्षापेक्षेति नवीन-वेदान्ति-प्रलापोऽपसमाध एव, स्व-शास्त्रानुक्तेऽर्थे समान-तन्त्र-समाधस्यैवसमाधत्वादिति॥४९॥
—o)0(o—
(१.५०)
समाधि-प्रज्ञा-प्रतिलम्भे योगिनः प्रज्ञा-कृतः संस्कारो नवो नवो जायते—
तज्-जः संस्कारोऽन्य-संस्कार-प्रतिबन्धी ॥
समाधि-प्रज्ञा-प्रभवः संस्कारो व्युत्थान-संस्काराशयं बाधते । व्युत्थान-संस्काराभिभवात् तत्-प्रभवाः प्रत्यया न भवन्ति । प्रत्यय-निरोधे समाधिर् उपतिष्ठते । ततः समाधिजा प्रज्ञा, ततः प्रज्ञा-कृताः संस्काराइति नवो नवः संस्काराशयो जायते । ततश् च प्रज्ञा ततश् च संस्काराइति । कथम् असौ संस्कारातिशयश् चित्तं साधिकारं न करिष्यतीति ? न ते प्रज्ञा-कृताः संस्काराः क्लेश-क्षय-हेतुत्वाच् चित्तम् अधिकार-विशिष्टं कुर्वन्ति । चित्तं हि ते स्व-कार्याद् अवसादयन्ति । ख्याति-पर्यवसानं हि चित्त-चेष्टितमिति॥५०॥
तत्त्व-वैशारदी :स्याद् एतत्—भवतु परमार्थ-विषयः सम्प्रज्ञातो यथोक्तोपायाभ्यासात् । अनादिना तु व्युत्थान-संस्कारेण निरूढ-निबद्धतयाप्रतिबन्धनीया सिद्धान्त्-प्रज्ञा सा वात्यावर्तम् अव्यवर्तिप्रदीप-परमाणुर् इवेति शङ्काम् अपनेतुं सूत्रम् अवतारयति—समाधि-प्रज्ञा- इति ।
सूत्रं पठति—तज्-जः संस्कारोऽन्य-संस्कार-प्रतिबन्धी ॥तदिति निर्विचारां समापत्तिं परामृशति । अन्येति व्युत्थानम् आह । भूतार्थ-पक्षपातो हि धियां स्वभावः । तावद् एवेयम् अनवस्थिता भ्राम्यति न यावत् तयां प्रतिलभते । तत्-प्रतिलम्भे तत्रस्थित-पदा सती संस्कार-बुद्धिः संस्कार-बुद्धि-चक्र-क्रमेणावर्तमानानादिम् अप्य् एतत् तया-संस्कार-बुद्धि-क्रमं बाधत एवेति । तथा च बाह्या[कुमारिल-भट्टाः] अप्य् आहुः—
निरुपद्रव-भूतार्थ-स्वभावस्य विपर्ययैः ।
न बाधोऽनादिमत्त्वेऽपिबुद्धेस् तत्-पक्षपाततः ॥[प्र.वा. ३.२२२]इति ।
स्याद् एतत्—सिद्धान्ति-प्रज्ञातोऽस्तु व्युत्थानजस्य संस्कारस्य निरोधः । सिद्धान्तिजस् तु संस्कारातिशयः सिद्धान्ति-प्रज्ञा-प्रसव-हेतुर् अस्त्य् अविकलैति तद्-अवस्थैव चित्तस्य साधिकारतेति चोदयति—कथम् असाविति ।
परिहरति—न ते इति । चित्तस्य हि कार्य-द्वयं शब्दाद्य्-उपभोगो विवेक-ख्यातिश् चेति । तत्र क्लेश-कर्माशय-सहितं शब्दाद्य्-उपभोगे प्रवर्तते । प्रज्ञा-प्रभव-संस्कारोन्मूलित-निखिल-क्लेश-कर्माशयस्य तु चेतसोऽवसित-प्रायाधिकार-भावस्य विवेक-ख्याति-मात्रम् अवशिष्यतेकार्यम् । तस्मात् सिद्धान्ति-संस्काराश् चित्तस्य न भोगाधिकार-हेतवः, प्रत्युत तत्-परिपन्थ्नैति ।
स्व-कार्याद् भोग-लक्षणाद् अवसादयन्ति असमर्थं कुरन्तीत्य् अर्थः । कस्मात् ? ख्याति-पर्यवसानंहि चित्त-चेष्टितम् । तावद् धि भोगाय चित्तं चेष्टते न यावद् विवेख-ख्यातिम् अनुभवति । सञ्जात-विवेक-ख्यातिस् तु क्लेश-निवृत्तौ न भोगाधिकार इत्य् अर्थः ॥५०॥
योग-वार्तिकम् :यथोक्तं-प्रज्ञायाः संस्कार-जनकत्वम् उत्तर-सूत्रोपयोगितया प्रतिपादयति—समाधि- इति । ननु तथापि प्रज्ञोत्पत्ति-पर्यन्तं योगापेक्षास्तु, प्रज्ञोत्पत्त्य्-अनन्तरं तु पुनः सम्प्रज्ञात-परम्परायाः किं फलम् इत्य् आशङ्कायाम् आह—तज्-जः संस्कारोऽन्य-संस्कार-प्रतिबन्धी ॥प्रतिबन्धः कार्य-विरोधित्वम् । इदम् एव बाध-शब्देनभाष्य-कारो वक्ष्यति । सर्वेषां च संस्काराणां चित्त-नाशाद् एव नाश इत्य् अपि भाष्ये व्यक्तीभविष्यति ।
सूत्रार्थं व्याचष्टे—बाधत इत्य् अन्तेन । आशेत इत्य् आशयः । संस्कारश् चासाव् आशयश् चेति विग्रहात् संस्काराशयम् अनुद्बुद्ध-संस्कारम् इत्य् अर्थः । उद्बुद्ध-संस्कारस्य च बाधो न सम्भवति, उद्बोध-प्रतिबन्धस्यैव बाध-शब्दार्थत्वादिति भावः ।
ननु वृत्ति-निरोध-संस्कारस्य व्युत्थान-संस्काराभिभावकत्वं वक्ष्यति । तत् कथंसिद्धान्ति-प्रज्ञा-संस्कारस्यापि व्युत्थान-संस्काराभिभावकत्वम् इष्यते ?इति चेत्, न, वृत्तित्वावच्छिन्नाभावस्यैववक्ष्यमाण-युक्त्या संस्कार-जनकत्व-सिद्धेर् न तु सम्प्रज्ञात-कालीनस्य यत् किञ्चिद् वृत्ति-निरोधस्यापि, स्मृति-हेतुतया सिद्धात् प्रज्ञा-संस्काराभिभवस्य वक्ष्यमाण-प्रयोजनस्योपपत्तेः ।
नन्व् एकयैव प्रज्ञा-व्यक्त्या तत्-सन्तान-व्यक्त्या चोत्पादितेन संस्कारेण व्युत्थान-संस्कार-बाध-सम्भवे किम्-अर्थं पुनः पुनः सम्प्रज्ञातानुष्ठानम् ? तत्राह—व्युत्थान-संस्काराभिभवातित्य् आदि । ततश् च संस्कारा इत्य् अन्तेन । अभिभवात् तत्-करणात् । शेषं स्पष्टम् ।
अयं भावः—नैकदा सम्प्रज्ञाते व्युत्थान-संस्कार-बाधः, श्रुति-स्मृति-सिद्धस्य पुनः पुनर् व्युत्थानस्यानुपपत्तेः, उपदेशाद्य्-अनुपपत्तेश् च । किं तु, सम्प्रज्ञात-परम्परा-जन्येन दृढतर-संस्कारेणैव तद्-बाधः । अडृढैश् च प्राथमिकैः सम्प्रज्ञात-संस्कारैस् तस्य बाधार्थान्तनुता-परम्परैव क्रियते । तथा च संस्कार-दार्ढ्यथार्थं प्रज्ञा-संस्कार-चक्रम् अपेक्ष्यतैति । एतेन प्रज्ञायाः साक्षाद् एव व्युत्थान-संस्कार-बाधकत्व-शङ्काप्य् अपास्ता, एक-प्रज्ञयैवसंस्कार-बाधे व्युत्थानासम्भवात् । प्रज्ञा-संस्कारे तु दृढत्व-रूप-वैजात्य्-असम्भवेन तस्यैव व्युत्थान-संस्कार-वाचकतावच्छेदकत्व-कल्पनया व्युत्थानाद्य्-उपपत्तिरिति ।
व्युत्थान-संस्कारेषु मध्यं चाविद्या-संस्कारस्यायं विशेषः—यत् सकृत् प्रज्ञाया जनितेनैव संस्कारेणाविद्या-संस्कारो बाध्यते, न तत्र प्रज्ञा-संस्कार-चक्रापेक्षेति । एतच् च ते प्रतिप्रसव-हेयाः सूक्ष्माः [२.१०] इत्य् आगामि-सूत्र-द्वये प्रकटीभविष्यति । इदम् अत्रावधेयम्—अस्मिन् सूत्रे शेष-सूत्रे चाखिल-संस्कार-दाहस्य योग-फलत्व-वचनात् प्रारब्ध-कर्मणोऽप्य् अतिक्रमेणाशुतर-मोक्षः केवल-ज्ञानासाध्यो योगयोर् असाधारणं फलमिति ।
न हि भोग-संस्कारस्य निःशेषतो दाहे प्रारब्ध-कर्मापि फलायालम्, दृष्ट-कारणाभावात्, योगाग्नि-दग्ध-कर्म-चयोऽचिराद् इत्य् आदि-वाक्ये सङ्कोचक-प्रमाणाभावात् । ज्ञानाग्नि सर्व-कर्माणि इत्य्-आदिषु अगत्या सङ्कोचः क्रियते, तस्य तावद् एव चिरम् इत्य् आदि ज्ञानि-विषयक-श्रुतेः, उपदेशाद्य्-अन्यथानुपपत्तेश् च । साङ्ख्य-वेदान्त-सूत्रयोश् च ज्ञानिनाम् एव प्रारब्ध-भोगावश्यकतोक्ता ।
नन्व् अर्ध-भुक्त-प्रारब्ध-कर्मणां नाशे तत्-फलस्य काल-प्रतिनियमानुपपत्तिरिति चेत्, न, शास्त्रोक्त-नाशक-नाश्य-कर्मण्य् एव काल-प्रतिनियमात्, अन्यथाकर्म-विपाकोक्त-प्रायश्चित्तस्य शान्ति-कर्मादेश् चार्ध-मुक्त-पाप-नाशकत्वानुपपत्तिः । शास्त्रोक्त-नाशक-नाश्य-कर्मणां तु स्वावस्थिति-पर्यन्तम् एव फल-दातृत्वमिति दिक् ।
नन्व् एवं प्रज्ञा-संस्कारातिशय-स्वीकारे ततोऽपि पुनर् जन्म भविष्यति, न चासम्प्रज्ञात-योगेन तस्य नाशो भवितेति वाच्यं, असम्प्रज्ञाताभावेऽपि प्रारब्ध-समाप्त्य्-अनन्तरं केवल-ज्ञानतो मोक्षाभ्युपगमाद् इत्य् आशङ्कते—कथम् असाविति । साधिकारं स्व-कार्य-जनन-क्षयम् । परिहरति—न तैति । ते प्रज्ञा-संस्काराश् चित्तं स्व-कार्य-क्षमं न कुर्वन्ति, जन्म-कारणस्याविद्यादि-क्लेशस्य विनाशनाद् इत्य् अर्थः । कर्म-नाशनाद् इत्य् अपि बोध्यम् ।
कर्तव्य-समापनाद् अपि साधिकारं न कुर्वन्तीत्य् आह—चित्तं हिइति । स्व-कार्याद् अवसादयन्तिकर्तय्व-शून्यं कुर्वन्ति । तत्रहेतुः—ख्याति-इत्य् आदि । आर्रयार्रय्चित्तस्य व्यापारो विवेक-ख्याति-पर्यन्तः, विवेक-ख्याति-निष्पत्तौ सत्यां प्रवर्तक-पुरुषार्थासम्भवात् । सा च विवेक-ख्याति-रूपा प्राआर्रय्तत्-संस्कारातिशयेनानशसत्पद्यं परवैराग्य-जनन-द्वारेण संाप्यत इत्य् अर्थः ॥५०॥
—o)0(o—
(१.५१)
किं चास्य भवति ?
तस्यापि निरोधे सर्व-निरोधान् निर्बीजः समाधिः ॥५१॥
इति पतञ्जलि-विरचिते योग-सूत्रे प्रथमः समाधि-पादः ।
स न केवलं समाधि-प्रज्ञा-विरोधी । प्रज्ञा-कृतानाम् अपि संस्काराणां प्रतिबन्धी भवति । कस्मात् ? निरोधजः संस्कारः समाधिजान् संस्कारान् बाधतैति । निरोध-स्थिति-काल-क्रमानुभवेन निरोध-चित्त-कृत-संस्कारास्तित्वम् अनुमेयम् । व्युत्थान-निरोध-समाधि-प्रभवैः सह कैवल्य-भागीयैः संस्कारैश् चित्तं स्वस्यां प्रकृताव् अवस्थितायां प्रविलीयते । तस्मात् ते संस्काराश् चित्तस्याधिकार-विरोधिनो न स्थिति-हेतवो भवन्तीति । यस्माद् अवसिताधिकारं सह कैवल्य-भागीयैः संस्कारैश् चित्तं निवर्तते । तस्मिन्न् निवृत्ते पुरुषः स्वरूप-मात्र-प्रतिष्ठोऽतः शुद्धः केवलो मुक्त इत्य् उच्यतैति॥५१॥
इतिश्री-पातञ्जले साङ्ख्य-प्रवचने योग-शास्त्रे श्रीमद्-व्यास-भाष्ये समाधि-पादः प्रथमः ।
तत्त्व-वैशारदी : तद् अत्र भोगाधिकार-प्रशान्तिः प्रयोजनं प्रज्ञा-संस्कारणाम् इत्य् उक्तम् । पृच्छति—किं चेति । किं चास्य भवति प्रज्ञा-संस्कारवच् चित्त प्रज्ञा-प्रवाह—जनकतया तथैव साधिकारापनुत्तयेऽन्यद् अपि किञ्चिद् अपेक्षणीयम् अस्तीत्य् अर्थः । सूत्रणोत्तरम् आह—तस्यापि निरोधे सर्व-निरोधान् निर्बीजः समाधिः ॥
व्याचष्टे—स निर्बीजः समाधिः समाधि-प्रज्ञा-विरोधिनः परस्माद् वैराग्याद् उपजायमानः स्व-कारण-द्वारेण न केवलं समाधि-प्रज्ञा-विरोधी प्रज्ञा-कृतानाम् अप्य् असौ संस्काराणां परिपन्थी भवति । ननु वैराग्यस्य विज्ञानं सद्-विज्ञानं प्रज्ञा-मात्रं बाधताम् । संस्कारं त्व् अविज्ञान-रूपं कथं बाधते ? दृष्टा हि जाग्रतोऽपि स्वप्न-दृष्टार्थे स्मृतिर् इत्य् आशयवान् पृच्छति—कस्मादिति । उत्तरं—निरोधजैति । निरुध्यतेऽनेन प्रज्ञेति निरोधः परं वैराग्यम् । ततो जातो निरोधजः संस्कारः । संस्काराद् एव दीर्घ-काल-नैरन्तर्य-संस्कारासेवित-पर-वैराग्य-जन्मनः प्रज्ञा-संस्कार-वाचो न तु विज्ञानाद् इत्य् अर्थः ।
स्याद् एतत्—निरोधज-संस्कार-सद्-भावे किं प्रमाणम् ? स हि प्रत्यक्षेण वानुभूयेत, स्मृत्या वा कार्येणानुमीयते ? न च सर्व-वृत्ति-निरोधे प्रत्यक्षम् अस्ति योगिनः । नापि स्मृतिः, अस्य वृत्ति-मात्र-निरोधतया स्मृति-जनकत्वासम्भवात् । इत्य् अत आह—निरोधेति । निरोध-स्थितिश् चित्तस्य निरुद्धावस्थेत्य् अर्थः । तस्याः काल-क्रमो मुहूर्तार्ध-याम-यामाहोरात्रादिस् तद्-अनुभवेन । एतद् उक्तं भवति—वैराग्याभ्यास-प्रकर्षानुरोधी निरोध-प्रकर्षो मुहूर्तार्ध-यामादि-व्यापितयानुभूयते योगिना । न च पर-वैराग्य-क्षणाः क्रम-नियततया परस्परम् असम्भवन्तस् तत्-तत्-काल-व्यापितया सातिशयं निरोधं कर्तुम् ईशतैति तत्-तद्-वैराग्य-क्षण-प्रचय-जन्यः स्थायी संस्कार-प्रचय एषितव्यैति भावः ।
ननूच्छिद्यन्तां प्रज्ञा-संस्काराः, निरोध-संस्कारस् तु कुतः समुच्छिद्यते ? अनुच्छेदे वा साधिकारत्वम् एवेत्य् अत आह—व्युत्थानेति । व्युत्थानं च तस्य निरोध-समाधिश् च सम्प्रज्ञातस्त-प्रभवाः संस्काराः कैवल्य-भागीया निरोधजाः संस्काराः इत्य् अर्थः । व्युत्थान-प्रज्ञा-संस्काराश् चित्ते प्रलीनाइति भवति । चित्तं व्युत्थान-प्रज्ञा-संस्कारवत् । निरोध-संस्कारस् तु प्रत्युदित एवास्ते चित्ते । निरोध-संस्कारे सत्य् अपि चित्तम् अनधिकारवत् । पुरुषार्थ-जनकं हि चित्तं साधिकारं शब्दाद्य्-उपभोग-विवेक-ख्याती च तथा पुरुषार्थौ । संस्कार-शेषतायां तु न बुद्धेः प्रतिसंवेदी पुरुषैति नासौ पुरुषार्थः । विदेह-प्रकृति-लयायां न निरोध-भागितया साधिकारं चित्तं, अपि तु क्लेश-वासिततयेत्य् आशयवान् आह—यस्मादिति । शेषं सुगमम् ॥५१॥
योगस्योद्देश-निर्देशौ तद्-अर्थं वृत्ति-लक्षणम् ।
योगोपायाः प्रभेदाश् च पादेऽस्मिन्न् उपवर्णिताः ॥
इति श्री-वाचस्पति-मिश्र-विरचितायां पातञ्जल-योग-सूत्र-भाष्य-व्याख्यायां तत्त्व-वैशरद्यां प्रथमः समाधि-पादः ॥१॥
योग-वार्तिकम् : क्षीण-वृत्तेर् इत्य्-आदि-सूत्रैः सम्प्रज्ञातस्य फलादिकम् उक्तम् । इदानीम् असम्प्रज्ञातस्य फलादेः सूत्रं प्रवर्तिष्यते । तत् सूत्रं प्रज्ञा-संस्कारातिशयस्य पुनर् जन्मा-हेतुत्वे हेत्व्-अन्तर-परम्परयावतारयति—किं चास्येति । तस्य प्रज्ञा-संस्कारस्यान्यच् च फलं सर्व-वृत्ति-तत्-संस्कारयोर् निरोधो भवतीति, न पुनर् जन्म-सम्भावनेत्य् अर्थः ।
तस्यापि निरोधे सर्व-निरोधान् निर्बीजः समाधिः । पूर्व-पूर्वासम्प्रज्ञाते तावत् प्रज्ञैव निरुध्यते, प्रज्ञा-संस्कारस्य तु तानव-मात्रं भवति । एवं क्रमेण तु तस्यापि प्रज्ञा-कृत-संस्कारस्याप्य् असम्प्रज्ञात-परम्परया निरोधेऽत्यन्ताभिभवे जायमाने चरमासम्प्रज्ञातो निर्बीज-योगस्य परा काष्ठा भवत्य् अपुनर् व्युत्थानेत्य् अर्थः । सर्व-निरोधादिति सूत्रावयवेन निर्बीजत्वे हेतुर् उक्तः । यतः प्रज्ञा तत्-संस्कारश् च सर्वोऽप्य् अत्यन्तं विलयम् इतोऽतो निर्बीजः, दुःख-बीजैः संस्कारादिभिः शून्य इत्य् अर्थः । पूर्व-पूर्वासम्प्रज्ञात-व्यक्तिषु च क्रमेण बीज-तानवाद् गौणं निर्बीजत्वम् असम्प्रज्ञात-लक्षणे पूर्वं भाष्य-कृतोक्तमिति स्मर्तव्यम् । तथा च चरमासम्प्रज्ञाते सर्वे प्रज्ञा-संस्काराः क्षीयन्त इत्य् अतो न ते चित्तं साधिकारं कुर्वन्तीति भावः । एतेनासम्प्रज्ञात-परम्परायाः प्रज्ञा-संस्कारात्यन्त-लयः फलं सूत्रेणोक्तम् ।
सूत्रस्थस्याइ-शब्दस्यार्थं भाष्य-कारो व्याचष्टे—स न केवलमिति । स सामान्य-निर्बीज-योगः, स केवलं समाधि-प्रज्ञाया विरोधी भावाभाव-रूपेण, अपि तु क्रमेण प्रज्ञा-कृत-संस्काराणाम् आप प्रतिबन्धी अत्यन्तम् अभिभावक इत्य् अर्थः । ननु यदि प्रज्ञा-कृत-संस्काराणाम् अपि सम्प्रज्ञातो बाधकस् तर्हि सकृद् असम्प्रज्ञाताद् एव सर्व-संस्कार-बाधे व्युत्थानं कदापि कस्यापि न स्याद् इत्य् आशयेनाक्षिपति—कस्मादिति । परिहरति—निरोधजैति । न निरोधः साक्षाद् एव प्रज्ञा-संस्कारान् विलापयति, किं तु निरोध-परम्परा-जन्यो दृढतरः संस्कार एव प्रज्ञा-संस्कारानन्त्यं विलापयतीत्य् अर्थः । दृढतरत्वं च जाति-विशेष इत्य् उक्तम् ।
ननु ज्ञानस्यैवसंस्कार-जनकत्वं दृष्टम् । निरोधस् तु न ज्ञानं संस्कार-शेष-चित्तावस्था-विशेष-मात्रत्वाद् अतस् तस्य संस्कार-जनकत्वे किं प्रमाणम् इत्य् आशङ्क्याह—निरोध-स्थितीति । निरोध-स्थिताव् असम्प्रज्ञातावस्थाने यो मुहूर्ताहोरात्र-मासादि-रूपः काल-क्रमः क्रमेण काल-वृद्धिस् तद्-दर्शनेन निरोधावस्थ-चित्त-जन्यः संस्कारोऽनुमेयः, संस्कार-वृद्धि-व्यतिरेकेण तन्-नियामकासम्भवाद् इत्य् अर्थः । सम्प्रज्ञातस्य तु काल-वृद्धिः प्रज्ञा-संस्कार-तारतम्येनैवोपपद्यत इत्य् अतो न सम्प्रज्ञातस्य संस्कार-हेतुतेति ।
ननु प्रज्ञा-संस्कारश् चरमासम्प्रज्ञातेनात्यन्तं बाध्यताम्, निरोध-संस्कारस् तु कुतः समुच्छिद्यन्ते तद्-अनुच्छेदे च साधिकारत्वम् एव चित्तस्येति मोक्षानुपपत्तिः । किं च, प्रलीनानाम् अपि संस्काराणां कदाचिद् योगीश्वर-सङ्कल्पादिना दग्ध-बीजस्येव पुनर् उद्बोधोऽपि सम्भाव्येतेत्य् आशङ्काम् अपाकरोति—व्युत्थान-निरोधेति । असम्प्रज्ञातापेक्षया समाधि-प्रज्ञापि व्युत्थानम् । अतो व्युत्थानं ज्ञान-सामान्यं निरोध-समाधिश् चासम्प्रज्ञातस् तद्-उभय-प्रभवैः सह सहितैः कैवल्य-भागीयैः कैवल्य-हेतु-कर्म-संस्कारैर् विशिष्टं चित्तं स्वकीय-प्रकृतौ नित्यायां स्वयम् एव प्रलीयते दग्धेन्धनानलवद् आत्यन्तिक-लयं गच्छति परिणाम-स्वाभाव्यात्, तत्-स्वामि-पुरुषस्य भोग-हेतुर् विसदृश-परिणाम एव हि पुनर् न भवति, तद्-धेतोः पुरुषार्थस्याभावाद् इत्य् अर्थः । अथ वा, कैवल्य-भागीयैः कैवल्य-पर्यन्त-स्थायिभिर् व्युत्थान-संस्कारैः सहेति चित्त-विशेषणम् ।
अनेन सूत्रेण शङ्का-निराकरणम् उपपादयति—तस्मादिति । तस्मान् अःन-संस्कारस्यापि क्षयात् ते अःन-संस्कारा इत्य्-आदिरर्थः ।
ननु भवतु योग-द्वयाच् चित्तस्यात्यन्तिक-लयः, तथापि पुरुषार्थः कः सिध्यतीत्य् आकाङ्क्षायाम् आह—यस्माद् इत्य्-आदि । यस्माच् चित्तं निवर्ततेऽतस् तस्मिन् निवृत्ते सति पुरुषो मुक्त इत्य् उच्यते । तत्र हेतु-गर्भ-विशेषणानि—स्वरूपेत्य्-आदीनि । स्वरूप-मात्र-प्रतिष्ठः पर-रूपैः प्रतिबिम्बित-दुःखादिभिर् मुक्तः शुद्ध-स्वत्व-सम्बन्धेन पुण्य-पाप-मुक्तः, भोग-साधनत्वस्यैवस्वत्वतया कूटस्थस्यापि संसार-दशायां स्वत्वाभ्युपगमात् एतादृश-मुक्तैः साध्यत्वम् उपपन्नम् । केवलः उपाधि-संयोगाख्य-बन्ध-मुक्त इत्य् अर्थः । एवं-रूपो मोक्ष एव योगस्य मुख्यं फलम् इत्य् आशयः । पारमार्थिको दुःख-कर्मादि-सम्बन्धो लेपाख्य-संयोग-रूप-सम्बन्धो वा लोके बन्ध इत्य् उच्यते, तन् मुक्तिश् च बुद्धेर् एव न कूटस्थस्यासङ्गस्य पुरुषस्येति प्रतिपादयितुं मुक्त इत्य् उच्यत इत्य् उक्तम् । शास्त्रेषु मुक्तैति व्यवहार-मात्रं क्रियतैति तस्यार्थः । तद् उक्तं साङ्ख्य-सूत्रेण—वाङ्-मात्रं न तु तत्त्वं चित्त-स्थितेःिति । पुरुषे बन्धादिकं वाङ्-मात्रं चित्त एव बन्धाद्य्-अवस्थानाद् इत्य् अर्थः । पुरुषार्थत्वं च पारमार्थिकम् एव, दुःखं मा भुञ्जीयेति प्रार्थादिति भावः ।
साङ्ख्य-प्रवचनैति । साङ्ख्य-शास्त्रस्यैव प्रकर्षेण वचनं साङ्ख्य-प्रवचनम् । साङ्ख्ये ह्य् अभ्युपगम-वादेनेश्वरं प्रतिषिध्यासम्प्रज्ञात-योग-नैरपेक्ष्येण च जीव-तया-ज्ञानाद् एव मोक्ष उक्तः, अस्मस् तु शास्त्रे निरुपद्रवासन्दिग्धैच्छिक-मुक्ति-निगमाय परमेश्वर-विद्या, आशु-मोक्ष-हेतुर् असम्प्रज्ञात-योगश् च प्रदर्शितैति भावः ॥५१॥
इति श्री-पातञ्जल-भाष्य-वार्तिके श्री-विज्ञान-भिक्षु-निर्मिते प्रथमः समाधि-पादः ॥१॥
—o)0(o—