पातञ्जलयोगदर्शनम् व्यासभाष्य-तत्त्ववैशारदी-योगवार्तिक-समेतम्/विभूतिपादः

विकिस्रोतः तः
पातञ्जलयोगदर्शनम्
(३)
तृतीयः विभूति-पादः
(३.१)
उक्तानि पञ्चबहिर्-अङ्गाणि साधनानि । धारणा वक्तव्या—
देश-बन्धश् चित्तस्य धारणा ॥
नाभि-चक्रे, हृदय-पुण्डरीके, मूर्ध्नि ज्योतिषि, नासिकाग्रे, जिह्वाग्रे, इत्यादिमादिषु देशेषु, बाह्ये वा विषये, चित्तस्य वृत्ति-मात्रेण बन्धैति धारणा ॥१॥
तत्त्व-वैशारदी : प्रथम-द्वितीय-पादाभ्यां समाधिस् तत्-साधनं चोक्तम् । तृतीय-पादे तत्-वृत्त्य्-अनुगुणाः श्रद्धोत्पाद-हेतवो विभूतयो वक्तव्याः । ताश् च संयम-साध्याः । संयमश् च धारणा-ध्यान-समाधि-समुदायैति विभूति-साधनतया विशेष-ज्ञापनार्थम् अत्र त्रयस्योपन्यासः । तत्रापि च धारणा-ध्यान-समाधीनां कार्य-कारण-भावेन नियत-पौर्वापर्यत्वात् तद्-अनुरोधेनोपन्यास-क्रमैतिप्रथमं धारणा लक्षणीयेत्य् आह—उक्तानीति । देश-बन्धश् चित्तस्य धारणा ॥ बन्धः सम्बन्धः ।
आध्यात्मिक-देशम् आह—नाभि-चक्रेइति । आदि-शब्देन ताल्व्-आदयो ग्राह्याः । बाह्य-देशम् आह—बाह्यैति । बाह्ये च न स्वरूपेण चित्तस्य सम्बन्धः सम्भवतीत्य् उक्तं वृत्ति-मात्रेण ज्ञान-मात्रेणेत्य् अर्थः । अत्रापि पुराणं—
प्राणायामेन पवनं प्रत्याहारेण चेन्द्रियम् ।
वशीकृत्य ततः कुर्याच् चित्त-स्थानं शुभाश्रये ॥[वि.पु. ६.७.४५]
शुभाश्रया बाह्या हिरण्यगर्भ-वासव-प्रजापति-प्रभृतयः । इदं च तत्रोक्तम्—
मूर्तं भगवतो रूपं सर्वोपाश्रय-निःस्पृहम् ।
एषा वै धारणा ज्ञेया यच् चित्तं तत्र वार्यते ॥७८॥
तच् च मूर्तं हरे रूपं यद् विचिन्त्यं नराधिप ।
तच् छ्रूयताम् अनाधारे धारणा नोपपद्यते ॥७९॥
प्रसन्न-वदनं चारु-पद्म-पत्र-निभेक्षणम् ।
सुकपोलं सुविस्तीर्ण-ललाट-फलकोज्ज्वलम् ॥८०॥
सम-कर्णान्त-विन्यस्त-चारु-कुण्डल-भूषणम् ।
कम्बु-ग्रीवं सुविस्तीर्ण-श्रीवत्साङ्कित-वक्षसम् ॥८१॥
बलि-त्रिभङ्गिना मग्न-नाभिना चोदरेण च ।
प्रलम्बाष्ट-भुजं विष्णुम् अथवापि चतुर्भुजम् ॥८२॥
सम-स्थितोरु-जङ्घं च स्वस्तिकाङ्घ्रि-कराम्बुजम् ।
चिन्तयेद् ब्रह्म-भूतं तं पीत-निर्मल-वाससम् ॥
किरीट-चारु-केयूर-कटकादि-विभूषितम् ।
शार्ङ्ग-चक्र-गदा-खड्ग-शङ्खाक्ष-वलयान्वितम् ॥
चिन्तयेत् तन्मयो योगो समाधायात्म-मानसम् ।
तावद् यावद् दृढीभूता तत्रैव नृप धारणा ।
एतद् आतिष्ठतोऽन्यद् वा स्वेच्छया कर्म कुर्वतः ।
नापयाति यदा चित्तात् सिद्धां मन्येत तां तदा ॥[वि.पु. ६.७.७८-८६]इति ।
योग-वार्तिकम् :योगाङ्गेषु मध्ये कियन्ति पूर्व-पादं प्रोक्तानि, कियन्ति चात्र पादे? इत्य् अत्र नियामकं वदन्न् एव क्रम-प्राप्तं धारणा-सूत्रम् अवतारयति—उक्तानीति । बहिरङ्ग-अन्तरङ्गत्वेऽपि पाद-भेदेन निरूपणे नियामके इत्य् अर्थः ।
देश-बन्धश् चित्तस्य धारणा ॥ यत्र देशे ध्येयं चिन्तनीयं, तत्र ध्यानाधार-देश-विषये चित्तस्य स्थापनं तदैकाग्र्यं धारणेत्य् अर्थः । तद् एतद् व्याचष्टे—नाभीति । मूर्ध्नि मूर्ध-स्थे ज्योतिषि । आदि-शब्देन गारुडाद्य्-उक्त-देशान्तराणि ग्राह्याणि । यथा गारुडे—
प्राङ्-नाभ्यां हृदये वाथ तृतीये च तथोरसि ।
कण्ठे मुखे नासिकाग्रे नेत्र-भ्रू-मध्य-मूर्धसु ।
किञ्चित् तस्मात् परस्मिंश् च धारणा दश कीर्तिताः ॥
मुखे जिह्वाग्रे । किञ्चित् तस्मात् परस्मिन्निति मूर्ध्नि उपरि द्वादशाङ्गुल-परिमिते देशे लिङ्ग-शरीरस्य स-प्राणस्य तावत्-पर्यन्तं प्रदीप-शिखावद् अवस्थानाद् अवहितैस् तावत्-पर्यन्तम् एव लिङ्ग-शरीरानुगतोष्मोपलभ्यते, वाक्यानाम् उपलम्भाच् च । तद् उक्तं कौर्मे—शिखाग्रे द्वादशाङ्गुल्ये कल्पयित्वाथ पङ्कजम् इत्यादिनेति । एतानि च नाभ्यादीनि जीवेश्वरयोर् मुख्य-स्थानान्य् एव राज्ञा सिंहासनवत्, जीवेश्वर-व्यञ्जकस्य लिङ्ग-शरीरस्य मुख्य-स्थानत्वात् । अत एतानि धारणायाः प्रकृष्ट-देश उक्तः । अध्यात्मिकान् ध्यान-देशान् उक्त्वा बाह्यान् अपि सङ्क्षेपत आह—बाह्ये वा विषयैति । चन्द्र-सूर्याग्न्यादाव् ईश्वर-देवतादि-ध्यान-देश इत्य् अर्थः ।
वृत्ति-मात्रेणेति । वृत्ति-मात्रेण न तु ध्येय-कल्पनयेत्य् अर्थः । तेन ध्यानादि-व्यावृत्तिः । तद् उक्तम् ईश्वर-गीतायां—
हृत्-पुण्डरीके नाभ्यां वा मूर्ध्नि पर्वत-मस्तके ।
एवम्-आदि-प्रदेशेषु धारणा चित्त-बन्धनम् ॥
देशावस्थितम् आलक्ष्य बुद्धेर् या वृत्ति-सन्ततिः ।
वृत्त्य्-अन्तरैर् असंस्पृष्टा तद् ध्यानं सूरयो विदुः ॥
एकाकार-समाधिः स्याद् देशालम्बन-वर्जितः ।
प्रत्ययो ह्य् अर्थ-मात्रेण योग-साधनम् उत्तमम् ॥इति ।
बन्ध इतीत्य् अन्तेन देश-बन्ध-शब्दं व्याख्याय सूत्र-वाक्यार्थम् उपसंहरति—बन्धैति । ईदृशो बन्धो धारणेत्य् अर्थः । इदं च धारणा-लक्षणं प्राथमिक-परिच्छिन्न-योगाभिप्रायेणसूचितम्, यत्रप्रथमत एवेश्वरानुग्रहाद् अपरिच्छिन्नतयाजीव-ब्रह्म-योगो भवति, तत्र देशालम्बन-धारणानुपयोगात् । अतो धारणाया अन्यद् अपि लक्षणं गारुडादाव् अप्य् उक्तम् ।यथा गारुडे—
प्राणायामैर् द्वादशभिर् यावत्-कालः कृतो भवेत् ।
स तावत्-काल-पर्यन्तं मनो ब्रह्मणि धारयेत् ॥ इत्यादि ।
एतद् एव तु धारणा-सामान्य-लक्षणं, अन्यथा क्षण-मात्रेणापि धारणापत्तेः । अतः सूत्रोक्तं विशेष-लक्षणम् अपि प्राणायाम-द्वादश-कालावच्छिन्नत्वेन विशेषणीयमिति ॥१॥
—o)0(o—
(३.२)
तत्र प्रत्ययैक-तानता ध्यानम् ॥
तस्मिन् देशे ध्येयालम्बनस्य प्रत्ययस्य इक-तानता सदृशः प्रवाहः प्रत्ययान्तरेण अपरामृष्टो ध्यानम् ॥२॥
तत्त्व-वैशारदी : धारणा-साध्यं ध्यानं लक्षयति—तत्र प्रत्ययैक-तानता ध्यानम् ॥ एकतानतैकाग्रता । सुगमं भाष्यम् । अत्रापि पुराणम्—
तद्-रूप-प्रत्यया चैका सन्ततिश् चान्य-निःस्पृहा ।
तद्-ध्यानं प्रथमैर् अङ्गैः षड्भिर् निष्पाद्यते नृप ॥[वि.पु. ६.५.९१]इति ॥२॥
योग-वार्तिकम् :धारणा-साध्यं ध्यानम् आह—तत्र प्रत्ययैक-तानता ध्यानम् ॥ इदम् अपि ध्यान-लक्षणं प्राथमिकौत्सर्गिक-ध्यानाभिप्रायेण, सर्वत्र ध्याने देशानियमात् । अतोऽस्य गारुडे लक्षणान्तरम् उक्तम्—तस्यैवब्रह्मणि प्रोक्तं ध्यानं द्वादश-धारणा इत्य् अनेन । तस्यैव द्वादश-प्राणायाम-कालेन धारित-चित्तस्य द्वादश-धारणा-कालावच्छिन्नं चिन्तनं ध्यानं प्रोक्तम् इत्य् अर्थः । अनेन च पूर्ववत् सूत्रोक्तं विशेष-लक्षणं विशेषणीयम् ॥२॥
—o)0(o—
(३.३)
तद् एवार्थ-मात्र-निर्भासं स्वरूप-शून्यम् इव समाधिः ॥३॥
ध्यानम् एव ध्येयाकार-निर्भासं प्रत्ययात्मकेन स्वरूपेण शून्यम् इव यदा भवति ध्येय-स्वभावावेशात्, तदा समाधिर् इत्य् उच्यते ॥३॥
तत्त्व-वैशारदी : ध्यान-साध्यं समाधिं लक्षयति—तद् एवार्थ-मात्र-निर्भासं स्वरूप-शून्यम् इव समाधिः ॥ व्याचष्टे—ध्यानम् एवेति । ध्येयाकार-निर्भासमिति । ध्येयाकारस्यैव निर्भासो न ध्यानाकारस्येति । अत एवाह—शून्यमिति ।
ननु शून्यं चेत् कथं ध्येयं प्रकाशेतेत्य् अत आह—इवेति । अत्रैव हेतुम् आह—ध्येय-स्वभावावेशादिति । अत्रापि पुराणं—
तस्यैव कल्पना-हीनं स्वरूप-ग्रहणं हि यत् ।
मनसा ध्यान-निष्पाद्यं समाधिः सोऽभिधीयते ॥[वि.पु. ६.७.९२]इति ।
ध्येयाद् ध्यानस्य भेदः कल्पना, तद्-धीनम् इत्य् अर्थः । अष्टाङ्ग-योगम् उक्त्वा खाण्डिक्याय केशि-ध्वज उपसञ्जहार—
क्षेत्रज्ञः करणी ज्ञानं करणं तस्य तेन तत् ।
निष्पाद्य मुक्ति-कार्यं वै कृत-कृत्यो निवर्तते ॥[वि.पु. ६.७.९४]इति ॥३॥
योग-वार्तिकम् :ध्यान-साध्यं समाधिं लक्षयति—तद् एवार्थ-मात्र-निर्भासं स्वरूप-शून्यम् इव समाधिः ॥मात्र-पदस्यार्थः स्वरूप-शून्यम् इवेत्य् अनेन स्वयं विवृतः । तद् एतद् व्याचष्टे—ध्यानम् एवेति । यदा तद् एव ध्यानं ध्येयस्याकारेणैव साक्षिणि निर्भासते, न तु प्रत्ययाकार-निर्भासम्, चित्तस्य ध्येय-स्वरूपावेशेनाहम् इदं चिन्तयामीत्य् एवं प्रत्ययाकार-वृत्त्य्-अन्तरानुदयात् तदा ध्यानम् एव समाधिर् उच्यतेइत्य् अर्थः । ध्यान-स्वरूपस्य वस्तुतः सत्त्वाद् इव-शब्द-प्रयोगः, तथा ध्यातृ-ध्येय-ध्यान-कल्पनावद् ध्यानं तद्-रहितं च समाधिरिति ध्यान-समाध्योर् विभागः । इदं च समाध-लक्षणं पूर्व-सूत्रोक्त-ध्यान-विशेषतया देश-घटितत्वेनापरिच्छिन्न-समाध्य्-अव्यापकम् । अतोऽर्थ-मात्रावभासनं चिन्तनम् इत्य् एव समाधि-सामान्य-लक्षणं, उधाहृतेश्वर-गीता-वाक्ये तल्-लक्षण-सिद्धः । अथवा गारुडोक्तं, यथा—
ध्यानं द्वादश-पर्यन्तं मनो ब्रह्मणि योजयेत् ।
तिष्ठेत् तल्-लयतो युक्तः समाधिः सोऽभिधीयते ॥इति ।
अत्रापि सूत्रोक्तं विशेष-लक्षणं ध्यान-द्वादश-गुणित-कालावच्छिन्नत्वेन विशेषणीयमिति । अस्य च समाधि-रूपस्याङ्गस्याङ्गि-योग-सम्प्रज्ञात-योगाद् अयं भेदो यद् अत्र चिन्ता-रूपतयाविशेषतो ध्येय-स्वरूपं न भासते । अङ्गिनि तु सम्प्रज्ञाते साक्षात्कारोदये समाध्य्-अविषया अपि विषया भासन्तैति । तथा च साक्षात्कार-युक्तैकाग्र्य-काले सम्प्रज्ञात-योगोऽन्यदा तु समाध-मात्रमिति विभागः । अष्टानां चाङ्गानां फल-द्वयं सम्प्रज्ञात-योगस् तद्-द्वारासम्प्रज्ञात-योगश् चेति ॥३॥
—o)0(o—
(३.४)
तद् एतद् धारणा-ध्यान-समाधि-त्रयम् एकत्र संयमः—
त्रयम् एकत्र संयमः ॥४॥
एक-विषयाणि त्रीणि साधनानि संयम इत्य् उच्यते । तद् अस्य त्रयस्य तान्त्रिकी परिभाषा संयमैति ॥४॥
तत्त्व-वैशारदी : धारणा ध्यानं समाधिर् इत्य् एतत् त्रयस्य तत्र तत्र नियुज्यमानस्य प्रातिस्विक-संज्ञोच्चारणे गौरवं स्यादिति लाघवार्थं परिभाषा-सूत्रम् अवतारयति—त्रयम् एकत्र संयमःिति । व्याचष्टे—एक-विषयाणीति । वाचकत्व-शङ्काम् अपनयति—तद् अस्येति । तन्त्र्यते व्युत्पाद्यते योगो येनशास्त्रेण तत् तन्त्रम् । तद्-भवा तान्त्रिकी । संयम-प्रदेशाः परिणाम-त्रय-संयमात् इत्य् एवम् -आदयः ॥४॥
योग-वार्तिकम् : ध्यानादि-त्रयस्य परिभाषा-सूत्रं—त्रयम् एकत्र संयमःिति । अस्मिन्न् एव पादं प्रोक्ततया त्रय-शब्देन धारणादि-त्रयम् एव लभ्यते । भाष्यं सुगमम् । धारणा-ध्यान-समाधीनां मिलितानांतत्र तत्र सूत्रेऽनया संज्ञया ग्रहणं भविष्यति, तेषु च प्रातिस्विक-रूपैस् त्रयाणाम् उच्चारणे ग्रन्थ-बाहुल्यं स्याद् इत्य् आशयेन तन्त्रान्तर-सिद्ध-संज्ञा-प्रतिपादकम् इदं सूत्रम् ॥४॥
—o)0(o—
(३.५)
तज्-जयात् प्रज्ञालोकः ॥५॥
तस्य संयमस्य जयात् समाधि-प्रज्ञाया भवत्य् आलोकः । यथायथा संयमः स्थिर-पदो भवति, तथातथा समाधि-प्रज्ञा विशारदी भवति ॥५॥
तत्त्व-वैशारदी : संयम-विजयस्याभ्यास-साधनस्य फलम् आह—तज्-जयात् प्रज्ञालोकः ॥ प्रत्ययान्तरान् अभिभूतस्य निर्मल-प्रवाहेऽवस्थानम् आलोकः प्रज्ञायाः । सुगमं भाष्यम् ॥५॥
योग-वार्तिकम् : संयम-सिद्धयोऽग्रे विस्तरतो वक्ष्यन्ते, साम्प्रतं संयमस्य योगाङ्गता-प्रयोजकं द्वारम् आह—तज्-जयात् प्रज्ञालोकः ॥ तज्-जयः संयमस्य जयः स्थैर्यं सात्म्यमिति यावत् । तस्मात् प्रज्ञाया आलोको दीप्तिर् बुद्धिः क्रमेणभवतीत्य् अर्थः । तद् एतद् व्याचष्टे—तस्येति । स्वोक्तं विवृणोति—यथेति । वैशारद्यं चातिसूक्ष्म-व्यवहिताद्य्-अर्थानां पर-प्रत्यक्षीकानां-सामर्थ्यमिति॥५॥
—o)0(o—
(३.६)
तस्य भूमिषु विनियोगः ॥
तस्य संयमस्य जित-भूमेर् यानन्तरा भूमिस् तत्र विनियोगः । न ह्य् अजिताधर-भूमिर् अनन्तर-भूम विलङ्घ्य प्रान्त-भूमिषु संयमं लभते । तद्-अभावाच् च कुतस् तस्य प्रज्ञालोकः ? ईश्वर-प्रसादाज् जितोत्तर-भूमिकस्य च नाधर-भूमिषु पर-चित्त-ज्ञानादिषु संयमो युक्तः । कस्मात् ? तद्-अर्थस्यान्यत एवावगतत्वात् । भूमेर् अस्या इयम् अनन्तरा भूमिर् इत्य् अत्र योग एवोपाध्यायः । कथम् ? एवं ह्य् उक्तम्—
योगेन योगो ज्ञातव्यो योगो योगात् प्रवर्तते ।
योऽप्रमत्तस् तु योगेन स योगे रमते चिरम् ॥इति ॥६॥
तत्त्व-वैशारदी : क्व पुनर् विनियुक्तस्य संयमस्य फलम् एतद् इत्य् अत आह—तस्य भूमिषु विनियोगः । भूमविशेषयति भाष्यकरः—तस्येति । जिताया भूमेर् यानन्तरा भूमिर् अवस्थाजिता तत्र विनियोगः । स्थूल-विषये स-वितर्के समाधौ वशीकृते संयमेन संयमस्याविजिते निर्वितर्के विनियोगः । तस्मिन्न् अपि वशीकृते सविचारे विनियोगः । एवं निर्विचारे विनियोगः इत्य् अर्थः । अत एव स्थूल-विषय-समापत्ति-सिद्धौ सत्यां पुराणे तत्-तद्-आयुध-भूषणापनयेन सूक्ष्म-विषयः समाधिर् अवतारितः—
ततः शङ्ख-गदा-चक्र-शार्ङ्गादि-रहितं बुधः ।
चिन्तयेद् भगवद्-रूपं प्रशान्तं साक्ष-सूत्रकम् ॥८८॥
सा यदा धारणा तद्वद् अवस्थानवती ततः ।
किरीट-केयूर-मुखैर् भूषणै रहितं स्मरेत् ॥८९॥
तद्-एकावयवं देवं चेतसा हि पुनर् बुधः ।
कुर्यात् ततोऽवयविनि प्रणिधान-परो भवेत् ॥९०॥[वि.पु. ६.७.८८-९०]
कस्मात् पुनर् अधरां भूमिं विजित्योत्तरां विजयते, विपर्ययः कस्मान् नभवति ? इत्य् अत आह—न ह्य् अजिताधर-भूमिरिति । न हि शिला-ह्रदाद् गङ्गां प्रति प्रस्थितोऽप्राप्य मेघ-वनं गङ्गां प्राप्नोति । ईश्वर-प्रसादाज् जितोत्तर-भूमिकस्यचेति। कस्मात् ? तद्-अर्थस्योत्तर-भूमि-विजितस्य प्रत्यासन्नस्यान्यत एवेश्वर-प्रणिधानाद् एवावगतत्वात् । निष्पादित-क्रिये कर्मण्य् अविशेषाधायिनः साधनस्यासाधन१४७-नयायातिपातादिति ।
स्याद् एतत्—आगमतः सामान्यतोऽवगतानाम् अप्य् अवान्तर-भूमि-भेदानां कुतः पौर्वापर्यावगतिः ? इत्य् अत आह—भूमेर् अस्याइति । जितः पूर्वो योग उत्तरस्य योगस्य ज्ञान-प्रवृत्त्य्-अधिगम-हेतुः । अवस्थैवावस्थावान् इत्य् अभिप्रेत्यैतद् द्रष्टव्यम् ॥६॥
योग-वार्तिकम् :संयमस्यानुष्ठाने विशेषम् आह—तस्य भूमिषु विनियोगः ॥ तस्य संयमस्य स्थूलादि-पूर्व-पूर्व-भूमिका-जयानन्तरं सूक्ष्मादिषूत्तरोत्तर-भूमिकासु नियोजनं योगिनां कर्तव्यम् इत्य् अर्थः । एतद् एव व्याचष्टे भाष्य-कारः—तस्येति । अनन्तरा अव्यवहिता । क्रमेण भूमिकारोहे युक्तिम् आह—न हीति । प्रान्त-भूम्य्-अपेक्षयाधराधः-स्था भूमिर् अजिता येन सोऽजिताधर-भूमिर् योगी । नहि अनन्त-भूमिम् अव्यवहित-भूम विलङ्घ्याप्राप्त-भूमिषु व्यवहितोत्तर-भूमिषु संयमं लभते । धनुर्धरादिषु स्थूल-वेधाद्य्-अनन्तरम् एव सूक्ष्मे वेदादि-दर्शनात् सोपानारोहणादिषु च क्रमेणैवारोहादि-दर्शनात् । अन्यथाधः-पातात् तद्-अभावाच् चेति । ततश् च संयमालाभात् । कुतः प्रज्ञालोकस् तत्-तद्-भूमिषु स्याद् इत्य् अर्थः । तथा चोक्तं गारुडे—
स्थित्य्-अर्थं मनसः पूर्वं स्थूल-रूपं विचिन्तयेत् ।
तत्र तन् निश्चली-भूतं सूक्ष्मेऽपि स्थिरतां व्रजेत् ॥इति ।
अयं च भूमिकारोहे क्रमश् चौत्सर्गिकः कदाचिद् अपोद्यतेऽपीत्य् आह—जितान्तरेति । ईश्वर-प्रसादादाव् एव वशीकृत-प्रकृति-पुरुष-विवेकादि-भूमिकस्य योगिनो नाधोभूमिषु पर-चित्त-ज्ञानादिषु पर-चित्त-प्रत्ययादिषुप्रत्यये पर-चित्त-ज्ञानम् इत्य् आद्य् आगामि-सूत्र-वाच्येषु विराड्-आदि-स्थूलेषु वा संयमो युक्त इत्य् अर्थः । पृच्छति—कस्मादिति । उत्तरं—तद्-अर्थस्येति । अधर-भूमि-संयम-प्रयोजनस्योत्तर-भूम्य्-आरोहणस्येश्वरानुग्रहाद् एवावगतत्वात् प्राप्तत्वाद् इत्य् अर्थः ।
ननूत्सर्गात् सिद्धं क्रमम् उल्लङ्घ्य प्रथमम् उत्तर-भूमिकासु संयमारम्भ एव न युक्तः । तत् कथम् आदौ तज्-जयो घटेतेति चेत् ? न, युञ्जमानेनादाव् एव सर्वोत्कृष्ट-भूमिकायां स्व-चित्तस्य परीक्षणियत्वात् , तत्-संयमायोग्यतां स्वस्यानुभूयैवाधर-भूमिषु स्व-योग्यताम् अवधार्य चित्तस्य धारणीयत्वादिति ।
नन्व् एवम् अधिकारि-पुरुष-भेदेन भूमिका-क्रम-भेदात् कथं स्व-योग्यो भूमिका-क्रमो योगिभिर् अवधारणीयैति ? तत्राह—भूमेर् अस्याइति । उपाध्यायो गुरुः योग-बलाद् एव स्वयं जानातीत्य् अर्थः । अत्र प्रमाणं पृच्छति—कथमिति । उत्तरं—एवम् उक्तमिति । अप्रमत्तः सिद्ध्य्-अलम्पटः ॥६॥
—o)0(o—
(३.७)
त्रयम् अन्तरङ्गं पूर्वेभ्यः ॥
तद् एतद् धारणा-ध्यान-समाधि-त्रयम् अन्तरङ्गं सम्प्रज्ञातस्य समाधेः पूर्वेभ्यो यमादिभ्यः पञ्चभ्यः साधनेभ्यैति ॥७॥
तत्त्व-वैशारदी : कस्मात् पुनर् योगाङ्गत्वाविशेषेऽपि संयमस्य तत्र तत्र विनियोगो नेतरेषां पञ्चानाम् इत्य् अत आह—त्रयम् अन्तरङ्गं पूर्वेभ्यः ॥ तद् इदं साधन-त्रयं साध्य-समान-विषयत्वेनान्तरङ्गम् । न त्व् एवं यमादयः । तस्मात् ते बहिरङ्गा इत्य् अर्थः ॥७॥
योग-वार्तिकम् :ावश्यकत्वाद्य्-अवधारणार्थं योगाङ्गेष्व् अवान्तर-विशेषम् आह सूत्राभ्यां—त्रयम् अन्तरङ्गं पूर्वेभ्यः ॥ आगामि-सूत्रानुरोधाद् अत्र सम्प्रज्ञातस्येत्य् अत्र प्रज्ञाया विशेषणतया ज्ञानस्याप्य् अन्तरङ्गत्वम् एतत्-त्रये विवक्षितं, बीज-साम्यात् ज्ञान-प्रकरण-पाठाच् च । अन्तरङ्गत्वे च बीजम् इदं यद् धेयातिरिक्त-वृत्ति-निरोध-रूपे सम्प्रज्ञाते ध्येय-संयमः साक्षाद् एव कारणं विषयान्तर-सञ्चार-रूपत्वात् । एवं ध्येय-साक्षात्कारेऽपिसाक्षाद् एव विषयान्तर-सञ्चाराख्य-प्रतिबन्ध-निवृत्ति-द्वारा कारणमिति । प्रत्याहारान्तं त्व् अङ्ग-पञ्चकं चित्त-स्थैर्य-द्वारेणपरम्परयैवोभयोः कारणमिति । अत एव यस्य जड-भरतादेः स्वत एव प्राचीन-कर्म-वशाच् चित्तं संयम-योग्यं भवति तस्य नास्तीतराङ्गावश्यकत्वम् इत्य् उक्तं गारुडादिषु—
आसन-स्थान-विधयो न योगस्य प्रसाधकाः ।
विलम्ब-जननाः सर्वे विस्ताराः परिकीर्तिताः ॥
शिशुपालः सिद्धिम् आप स्मरणाभ्यास-गौरवात् ॥[ग.पु. २३५.४७] इत्यादिना ।
अत एव जड-भरतादीनांसमाधि-विघ्नतया बाह्य-कर्म-त्यागोऽपि श्रूयते । अत एव गीतायां संयमासक्तायैवाभ्यास-कर्मादीनि विशेषत उपदिष्टानि—
मय्य् एव मन आधत्स्व मयि बुद्धिं निवेशय ।
निवसिष्यसि मय्य् एव अत ऊर्ध्वं न संशयः ॥८॥
अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् ।
अभ्यास-योगेन ततो माम् इच्छाप्तुं धनंजय ॥९॥
अभ्यासेऽप्य् असमर्थोऽसि मत्-कर्म-परमो भव । [गीता १२.८-१०]इत्यादिना ।
अभ्यासश् चात्रैव सूत्रितः—स्थितौ यत्नोऽभ्यास[१३]इति । तथाब्रह्म-मीमांसायाम् अपि समाधि-विरोधे सति गुण-लोपेन गुणिनैति न्याय-सिद्धा बाह्य-कर्मानपेक्षोक्ता—अत एव चाग्नीन्धनाद्य्-अनपेक्षेति सूत्रेण,
यच् च विद्यां चाविद्यां च यस् तद् वेदोभयं सह ।
अविद्यया मृत्युं तीर्त्वा विद्ययामृतम् अश्नुते ॥[ईशोपनिषद् ७]
इतिश्रुत्या ज्ञान-कर्मयोः साहित्यम् उक्तं तत्राङ्गाङ्गिनोर् औत्सर्गिकं सहानुष्ठानम् एवाभिप्रेतं, न तु मोक्षाख्य-फले तयोः तुल्यवत् समुच्चयः, अविद्यया मृत्युं तीर्त्वा इत्य् अनेन ज्ञान-विप्लव-निवृत्त्य्-आख्य-मृत्यु-तरण-द्वारेण विद्यायाम् एव मोक्ष-दायिन्यां कर्मण उपयोगावगमात्,
न केवलेन योगेन प्राप्यतेपरमं पदम् ।
ज्ञानं तु केवलं सम्यग् अपवर्ग-प्रदायकम् ॥
इत्यादि-वाक्यैर् योग-शब्दोक्त-कर्म-निरपेक्षात् ज्ञान-योगाद् अपि मोक्ष-सिद्धेः । अङ्गत्वं च पूर्व-जन्मन्य् अनुष्ठितानाम् अपि कर्मणां जड-भरतादिषु सिद्धमिति । एतेन—
समाभ्याम् एव पक्षाभ्यांयथा खे पक्षिणां गतिः ।
तथैव ज्ञान-कर्माभ्यां लभते परमं पदम् ॥
इत्यादि-वाक्यानि अङ्गाङ्गिनोर् औत्सर्गिक-सहानुष्ठान-पराण्य् एव, न मोक्षं प्रति समुच्चय-साधकानीति दिक् ॥७॥
—o)0(o—
(३.८)
तद् अपि बहिरङ्गं निर्बीजस्य ॥
तद् अप्य् अन्तरङ्गं साधन-त्रयं निर्बीजस्य योगस्य बहिरङ्गं भवति । कस्मात् ? तद्-अभावे भावादिति ॥८॥
तत्त्व-वैशारदी : साधन-त्रयस्य सम्प्रज्ञात एवान्तरङ्गत्वं, न त्व् असम्प्रज्ञाते, तस्य निर्बीजतया तैः सह समान-विषयत्वाभावात् तेषु चिर-निरुद्धेषु सम्प्रज्ञात-परम-काष्ठा-पर-नाम-ज्ञान-प्रसाद-रूप-पर-वैराग्यानन्तरम् उत्पादाच् चेत्य् आह—तद् अपि बहिरङ्गं निर्बीजस्य ॥
समान-विषयत्वम् अन्तरङ्ग-प्रयोजकम् इह, न तु तद्-अनन्तर-भावस् तस्य बहिरङ्गेश्वर-प्रणिधान-वर्तितया स-व्यभिचारित्वादितिस्थिते स-व्यभिचारम् अप्य् अन्तरङ्ग-लक्षणं तद्-अनन्तर-भावित्वम् अस्यनास्ति । तस्माद् दूरापेतान्तरङ्गता संयमस्यासम्प्रज्ञातैति दर्शयित्वातद्-अभावे भावादित्य् उक्तम् ॥८॥
योग-वार्तिकम् :तद् अपि बहिरङ्गं निर्बीजस्य ॥ निर्बीज-योगस्यासम्प्रज्ञातस्य । तद् अपि त्रयं बहिरङ्गम् एव, विवेक-ख्याति-पर-वैराग्य-द्वारा परम्परया हेतुत्वेनावश्यकत्वाभावाद् इत्य् अर्थः । एतद् एवाह—तद्-अभावे भावादिति । पूर्वोक्त-विदेह-प्रकृति-लयानां देव-विशेषाणाम् औत्पत्तिक-ज्ञान-वैराग्याणां संयम-नैरपेक्ष्येणैव दैनन्दिन-प्रत्ययादाव् असम्प्रज्ञातोदयाद् इत्य् अर्थः । तथा च स्मृतिः—
योग-निद्रां यदा विष्णुर् जगत्य् एकार्णवी-कृते ।
आस्तीर्य शेषम् अभजत् कल्पान्ते भगवान् प्रभुः ॥[मार्क.पु. ८१.४९]इति ।
तद् एतत् प्राग् उक्तं भव-प्रत्ययो विदेह-प्रकृति-लयानां [१.१९]इति सूत्रेणेति ॥८॥
—o)0(o—
(३.९)
अथ निरोध-चित्त-क्षणेषु चलं गुण-वृत्तमितिकीदृशस् तदा चित्त-परिणामः ?
व्युत्थान-निरोध-संस्कारयोर् अभिभव-प्रादुर्भावौ
निरोध-क्षण-चित्तान्वयो निरोध-परिणामः ॥९॥
व्युत्थान-संस्काराश् चित्त-धर्माः । न ते प्रत्ययात्मकाइति प्रत्यय-निरोधे न निरुद्धाः । निरोध-संस्कारा अपि चित्त-धर्माः । तयोर् अभिभव-प्रादुर्भावौ । व्युत्थान-संस्कारा हीयन्ते, निरोध-संस्कारा आधीयन्ते । निरोध-क्षणं चित्तम् अन्वेति । तद् एकस्य चित्तस्य प्रतिक्षणम् इदं संस्कारान्यथात्वं निरोध-परिणामः । तदा संस्कार-शेषं चित्तमिति निरोध-समाधौ व्याख्यातम् ॥९॥
तत्त्व-वैशारदी : परिणाम-त्रय-संयमाद् इत्य् अत्रोपयोक्ष्यमाण-परिणाम-त्रयं प्रतिपिपादयिषुर् निर्बीज-प्रसङ्गेन पृच्छति—अथैति ।व्युत्थान-सम्प्रज्ञातयोश् चित्तस्य स्फुटतर-परिणाम-भेद-प्रचयानुभवान् न प्रश्नावतारः । निरोधे तु नानुभूयते परिणामः । न चाननुभूयमानो नास्ति, चित्तस्य त्रिगुणतया चलत्वेनगुणानां क्षणम् अप्य् अपरिणामस्यासम्भवाद् इत्य् अर्थः ।
प्रश्नोत्तरं सूत्रं—चित्तान्वयो निरोध-परिणामः ॥
असम्प्रज्ञातंसमाधिम् अपेक्ष्य सम्प्रज्ञातो व्युत्थानम् । निरुद्ध्यतेऽनेनेति निरोधो ज्ञान-प्रसादः परं वैराग्यम् । तयोर् व्युत्थान-निरोध-संस्कारयोर् अभिभव-प्रादुर्भावौ । तत्र व्युत्थान-संस्कारस्याभिभवो निरोध-संस्कारस्याविर्भावश् चित्तस्य धर्मिणो निरोध-क्षणस्य निरोधावसरस्य द्वयोर् अवस्थयोर् अन्वयः ।न हि चित्तं धर्मि सम्प्रज्ञातावस्थायाम् असम्प्रज्ञातावस्थायां च संस्काराभिभव-प्रादुर्भावयोः स्वरूपेण भिद्यतैति ।
ननु यथोत्तरे क्लेशा अविद्या-मूला अविद्या-निवृत्तौ निवर्तन्तैति न तन्-निवृत्तौ पृथक् प्रयत्नान्तरम् आस्थीयते । एवं व्युत्थान-प्रत्यय-मूलाः संस्कारा व्युत्थान-निवृत्ताव् एव निवर्तन्तैति तन्-निवृत्तौ न निरोध-संस्कारोऽपेक्षितव्य इत्य् अत आह—व्युत्थान-संस्काराइति ।
न कारण-मात्र-निवृत्तिः कार्य-निवृत्ति-हेतुः । मा भूत् कुविन्द-निवृत्ताव् अपि पटस्य निवृत्तिः । अपि तु यत् कारणात्मकं यत् कार्यं तत्-कारण-निवृत्तौ तत्-कार्य-निवृत्तिः । उत्तरे च क्लेशा अविद्यात्मान इत्य् उक्तम् । अतस् तन्-निवृत्तौ तेषां निवृत्तिर् उपपन्ना । न त्व् एवं प्रत्ययात्मानः संस्काराः, चिर-निरुद्धे प्रत्यये सम्प्रति स्मरण-दर्शनात् । तस्मात् प्रत्यय-निवृत्ताव् अपि तन्-निवृत्तौ निरोध-संस्कार-प्रचय एवोपासनीय इत्य् अर्थः । सुगमम् अन्यत् ॥९॥
योग-वार्तिकम् :ज्ञानोपाय-प्रसङ्गेन योगाङ्गानि विस्तरतः प्रोक्तानि । इदानीम् अङ्ग-भूतस्य समाधेर् अङ्गिनोश् च योगयोः स्वरूप-भेदावधारणाय तत्-तद्-अवस्था-गता विशेषा वक्तव्याः । तावतैव तयोर् अङ्गाङ्गिनोः प्रयोजनम् अपि प्रतिपादितं भविष्यति । तत्राङ्ग-समाधिनो योग-द्वयस्य विशेषावधारक-सूत्रम् उत्थापयति प्रश्न-मुखेन—अथैति । निरोध-चित्त-क्षणेषु निरोधावस्थ-चित्त-क्षणेषु योग-द्वय-क्षणेष्विति यावत् । गुण-व्यापारस्यास्थिरत्वात् त्रि-गुणात्मकस्य चित्तस्य निरोध-क्षणेष्व् अपि परिणाम-धारावश्यकी । स च परिणामः कीदृशः ?इति प्रश्नः—व्युत्थान-निरोध-संस्कारयोर् अभिभव-प्रादुर्भावौ निरोध-क्षण-चित्तान्वयो निरोध-परिणामः ॥
असम्प्रज्ञातापेक्षया सम्प्रज्ञातोऽपि व्युत्थानम् । तथा च व्युत्थानं निरोधश् च योग-द्वय-साधारण एवात्र ग्राह्यः, केवलस्यासम्प्रज्ञात-रूपस्य निरोधस्यात्र ग्रहणे सम्प्रज्ञात-निरोधस्य परिणामाकथनान् न्यूनतापत्तेः । व्युत्थान-संस्काराभिभवश् च क्रमेण ह्रासो न तु दाहः, निरोध-संस्कार-प्रादुर्भावश् च क्रमेण वृद्धिः, तौ निरोध-परिणामौ निरोध-कालीन-परिणामः । स च निरोध-क्षण-चित्तान्वयः प्रत्येकं निरोध-क्षणेषु एकस्मिन् स्थिरे चित्तेऽन्वित इत्य् अर्थः । एतच् च विशेषणं योग-काले प्रतिक्षणम् एतादृश-परिणाम-लाभाय चित्त-स्थैर्य-लाभाय चोक्तम् ।
अत्र निरोध-काले जायमानः संस्कार एव निरोध-संस्कार इत्य् उक्तः । तेन सम्प्रज्ञात-रूप-निरोधस्य संस्काराजनकत्वेऽपि तत्-कालीन-प्रज्ञा-जन्य-संस्कारस्यैव निरोध-संस्कारत्वम् उपपन्नमिति । चित्तैक-धर्मिणो धर्म-परिणामोऽयमितिप्रतिपादनाय भाष्य-कार आह—व्युत्थान-संस्काराश् चित्त-धर्माइति ।
ननु वृत्ति-निरोधेनैव तत्-कार्यतया तत्-संस्काराणाम् अपि निरोधो भवतु, तन्तु-निरोधेन पट-निरोधवत् । अतो न पृथग् व्युत्थान-संस्काराभिभवापेक्षेत्य् आशङ्कां समाधत्ते—न ते प्रत्ययात्मकान प्रत्ययोपादानकाः, अतो न व्युत्थान-संस्काराः प्रत्यय-निरोधेऽपि निरुद्धा भवन्तीत्य् अर्थः । निमित्त-कारणत्वाद् एव प्रत्ययस्येति भावः । तस्मात् प्रत्यय-निवृत्ताव् अपि तत्-संस्कार-निवृत्ति-कारणं पृथग् एवापेक्ष्यतैति । शेषं भाष्यं सूत्र-व्याख्ययैव व्याख्यात-प्रायम् ॥९॥
—o)0(o—
(३.१०)
तस्य प्रशान्त-वाहिता संस्कारात् ॥१०॥
निरोध-संस्कारान् निरोध-संस्काराभ्यास-पाटवापेक्षा प्रशान्त-वाहिता चित्तस्य भवति । तत्-संस्कार-मान्द्ये व्युत्थान-धर्मिणा संस्कारेण निरोध-धर्मः संस्कारोऽभिभूयतैति॥१०॥
तत्त्व-वैशारदी : सर्वथा व्युत्थान-संस्काराभिभवे तु बलवता निरोध-संस्कारेण चित्तस्य कीदृशः परिणामः ? इत्य् अत आह—तस्य प्रशान्त-वाहिता संस्कारात् ॥ व्युत्थान-संस्कार-मल-रहित-निरोध-संस्कार-परम्परा-मात्र-वाहिता प्रशान्त-वाहिता । कस्मात् ? पुनः संस्कार-पाटवम् अपेक्षते, न तु संस्कार-मात्रम् इत्य् अत आह—तत्-संस्कार-मान्द्येइति । तदिति निरोधं परामृशति । ये तु नाभिभूयैति पठन्ति, ते तदा व्युत्थानं परामृशन्ति ॥१०॥
योग-वार्तिकम् : ननु किम्-अर्थं निरोध-संस्काराः कल्प्यन्ते ? इत्य् आकाङ्क्षायांनिरोध-संस्कार-प्रमाणम् आह—तस्य प्रशान्त-वाहिता संस्कारात् ॥ तस्य निरोधावस्थ-चित्तस्य प्रशान्त-वाहिता निश्चल-निरोध-धारया वहनं निरोध-संस्कार-बलाद् एव भवतीत्य् अर्थः । अतो निरोध-संस्कारस् तत्-प्रादुर्भावश् चावश्यम् एष्टव्यैति भावः । अन्वय-व्यतिरेकाभ्यांकार्य-कारण-भावं प्रतिपादयति—निरोधेत्य्-आदि । भाष्यं सुगमम् ॥१०॥
—o)0(o—
(३.११)
सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधि-परिणामः ॥११॥
सर्वार्थता चित्त-धर्मः । एकाग्रतापि चित्त-धर्मः । सर्वार्थतायाः क्षयस् तिरोभाव इत्य् अर्थः । एकाग्रताया उदय आविर्भाव इत्य् अर्थः । तयोर् धर्मित्वेनानुगतं चित्तम् । तद् इदं चित्तम् अपायोपजननयोः स्वात्म-भूतयोर् धर्मयोर् अनुगतं समाधीयते, स चित्तस्य समाधि-परिणामः ॥११॥
तत्त्व-वैशारदी : सम्प्रज्ञात-समाधि-परिणामावस्थां चित्तस्य दर्शयति—सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधि-परिणामः ॥विक्षिप्तता सर्वार्थता। सन्न विनश्यतीति क्षयस् तिरोभावः । नासद् उत्पद्यते इत्य् उदय आविर्भावः । आत्म-भूतयोः सर्वार्थतैकाग्रतयोर् धर्मयोर् याव् अपायोपजननौसर्वार्थताया अपाय एकाग्रताया उपजनस् तयोर् अनुगतं चित्तं समाधीयते, पूर्वापरीभूत-साध्यमान-समाधि-विशेषणंभवतीति ॥११॥
योग-वार्तिकम् :विरोध-रूप-योग-द्वय-कार्यः परिणामो व्याख्यातः । इदानीं तद्-विलक्षणं योगाङ्ग-समाधि-कार्यं परिणामं दर्शयति—सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधि-परिणामः ॥
सर्वार्थता विक्षिप्तता । एकाग्रताएक-मात्र-विषयता । तयोर् यथा-क्रमं क्षयोदयौ चित्तस्य समाधि-कालीन-परिणाम इत्य् अर्थः । अत्रापि प्रतिक्षणम् इत्य् अनुषञ्जनीयं युक्ति-साम्यात् । तद् एतद् व्याचष्टे—सर्वार्थताइति । सर्वार्थताया अत्यन्तोच्छेद एकदा न भवति, नापि एकाग्रताया निष्पत्तिर् एकदा भवति । किं तु क्षण-क्रमेणैव । अतः क्षयोदयौ तिरोभावाविर्भावार्थकतयाव्याचष्टे—क्षयैत्य् आदिना,तिरोभावैत्य् अर्थःित्य् अन्तेन । अत्रतिरोभावाविर्भावौ ह्रास-वृद्धौ ।
ननु सर्वार्थतैकाग्रतयोर् धर्मौ कथं चित्तस्येत्य् उच्येते ? तत्राह—तयोर् धर्मित्वेनानुगतं चित्तमिति।तयोः सर्वार्थैकाग्रतयोः । तथा च धर्म-परिणामोऽपिधर्म-द्वारा धर्मिण एव भवतीत्य् अर्थः ।ुत्तर-सूत्र-वक्ष्यमाण-परिणामाद् व्यावर्त्य प्रकृत-सूत्र-वाक्यार्थ-भूतं परिणामं व्याचष्टे—तद् इदमिति ।तद् इदम् इत्य् अस्य विवरणम् अनुगतम् इत्य् अन्तम् । तथा च चित्तं स्वात्म-भूतयोः स्व-कार्ययोः सर्वार्थतैकाग्रतयोर् धर्मयोर् अपाय-काल उपजन-काले चानुगतं यत् समाधीयतेससमाधि-परिणाम इत्य् अर्थः । समाहित-चित्तस्य तु परिणामः शेष-सूत्रेण वक्ष्यतैति भावः॥११॥
—o)0(o—
(३.१२)
ततः पुनः शान्तोदितौ तुल्य-प्रत्ययौ चित्तस्यैकाग्रता-परिणामः ॥१२॥
समाहित-चित्तस्य पूर्व-प्रत्ययः शान्तः,उत्तरस् तत्-सदृश उदितः । समाहित-चित्तम् उभयोर् अनुगतं, पुनस् तथैवासमाधि-भ्रेषादिति । स खल्व् अयं धर्मिणश् चित्तस्य एकाग्रता-परिणामः ॥१२॥
तत्त्व-वैशारदी : ततः पुनः शान्तोदितौ तुल्य-प्रत्ययौ चित्तस्य इकाग्रता-परिणामः ॥ततः पुनः समाधेः पूर्वापरीभूताया अवस्थायाःसमाधि-निष्पत्तौ सत्यां शान्तोदितावस्तीत-वर्तमानौ, तुल्यौ च तौ प्रत्ययौ चेति तुल्य-प्रत्ययौ । एकाग्रतायां तु द्वयोः सादृश्यम् । समाहित-चित्तस्यैतिसमाधि-निष्पत्तिर् दर्शिता । तथैवैकाग्रम् एव । अवधिम् आह—आ समाधि-भ्रेषादिति। भ्रंषाद् इति ॥१२॥
योग-वार्तिकम् :िदानीम् अङ्ग-समाधौ एव परिणामान्तरम् उक्त-परिणाम-कालीनम् आह—ततः पुनः शान्तोदितौ तुल्य-प्रत्ययौ चित्तस्य इकाग्रता-परिणामः ॥ ततः सर्वार्थतायाः निःशेषतः क्षये सति, शान्तोदितावतीतोत्पद्यमानौ तुल्य-प्रत्ययाव् एकाकार-प्रत्ययौ चित्तस्य इकाग्रता-कालीनः पुनः परिणामो भवति—सजातीय एकैकः प्रत्ययो नश्यति, अन्योऽन्य उत्पद्यत इत्य् एवं परिणामो भवतीत्य् अर्थः । तद् एतद् व्याचष्टे—समाहित- इति । समाध्य्-आरूढस्य चित्तस्य इत्य् अर्थः । अनेन पूर्व-सूत्रोक्त-चित्ताद् व्यवच्छेदः कृतः । तत्रसमाधीयमान-चित्तिव परिणामस्योक्तत्वादिति । पुनस् तथेत्य् अनेन धारावाहिक एकाग्रता-सन्तान उक्तः । अवधिम् आह—आत्म-समाधीति । भ्रेषो भ्रंशः ॥१२॥
—o)0(o—
(३.१३)
एतेन भूतेन्द्रियेषु
धर्म-लक्षणावस्था-परिणामा व्याख्याताः ॥
एतेन पूर्वोक्तेन चित्त-परिणामेन धर्म-लक्षणावस्था-रूपेण भूतेन्द्रियेषु धर्म-परिणामो लक्षण-परिणामोऽवस्था-परिणामश् चोक्तो वेदितव्यः । तत्र व्युत्थान-निरोधयोर् धर्मयोर् अभिभव-प्रादुर्भावौ धर्मिणि धर्म-परिणामः ।
लक्षण-परिणामश् च निरोधस् त्रि-लक्षणस् त्रिभिर् अध्वभिर् युक्तः । स खल्व् अनागत-लक्षणम् अध्वानम् प्रथमं हित्वा धर्मत्वम् अनतिक्रान्तो वर्तमान-लक्षणं प्रतिपन्नो यत्रास्य स्वरूपेणाभिव्यक्तिः । एषोऽस्य द्वितीयोऽध्वा । न चातीतानागताभ्यां लक्षणाभ्यां वियुक्तः ।
तथा व्युत्थानं त्रि-लक्षणं त्रिभिर् अध्वभिर् युक्तम्। वर्तमानं लक्षणं हित्वा धर्मत्वम् अनतिक्रान्तम् अतीत-लक्षणं प्रतिपन्नम् । यत्रास्य स्वरूपाभिव्यक्तौ सत्यां व्यापारः, एषोऽस्य द्वितीयोऽध्वा । न चातीतानागताभ्यां लक्षणाभ्यां वियुक्तमिति ।
एवं पुनर् निरोध एवं पुनर् व्युत्थानमिति तथावस्था-परिणामः, तत्र निरोध-क्षणेषु निरोध-संस्कारा बलवन्तो भवन्ति दुर्बला व्युत्थान-संस्काराइति । एष धर्माणाम् अवस्था-परिणामः । तत्रधर्मिणो धर्मैः परिणामो धर्माणां त्र्य्-अध्वनां लक्षणैः परिणामो लक्षणानाम् अप्य् अवस्थाभिः परिणामैति ।
एवं धर्म-लक्षणावस्था-परिणामैः शून्यं न क्षणम् अपि गुण-वृत्तम् अवतिष्ठते । चलं च गुण-वृत्तम् । गुण-स्वाभाव्यं तु प्रवृत्ति-कारणम् उक्तं गुणानामिति । एतेन भूतेन्द्रियेषु धर्म-धर्मि-भेदात् त्रिविधः परिणामो वेदितव्यः । परमार्थतस् त्व् एक एव परिणामः धर्मि-स्वरूप-मात्रो हि धर्मो धर्मि-विक्रियैवैषा धर्म-द्वारा प्रपञ्च्यतैति । तत्र धर्मस्य धर्मिणि वर्तमानस्य इवाध्वस्व् अतीतानागत-वर्तमानेषु भावान्यथात्वं भवति, न तु द्रव्यान्यथात्वम् । यथा सुवर्ण-भाजनस्य भित्त्वाऽन्यथा-क्रियमाणस्य भावान्यथात्वं भवति, न सुवर्णान्यथात्वमिति ।
अपर आह—धर्मानभ्यधिको धर्मो, पूर्व-तत्त्वानतिक्रमात्, पूर्वापरावस्था-भेदम् अनुपतितः कौटस्थ्येन विपरिवर्तेत यद्य् अन्वयी स्यादिति ।
अयम् अदोषः । कस्मात् ? एकान्ततानभ्युपगमात् । तद् एतत् त्रैलोक्यं व्यक्तेर् अप इति । कस्मात् ? नित्य-प्रतिषेधात् । अपेतम् अप्य् अस्ति विनाश-प्रतिषेधात् । संसर्गाच् चास्य सौक्ष्म्यम् । सौक्ष्म्याच् चानुपलब्धिरिति । लक्षण-परिणामो धर्मोऽध्वसु वर्तमानोऽतीतोऽतीत-लक्षण-युक्तोऽनागत-वर्तमानाभ्यांलक्षणाभ्याम् अवियुक्तः । तथा वर्तमानोऽनागत-लक्षण-युक्तो वर्तमानातीताभ्यां लक्षणाभ्याम् अवियुक्तः । तथा वर्तमानो वर्तमान-लक्षण-युक्तोऽतीतानागताभ्यां लक्षणाभ्याम् अवियुक्तैति । यथा—पुरुष एकस्यां स्त्रियां रक्तो न शेषासु विरक्तो भवतीति ।
अत्र लक्षण-परिणामे सर्वस्य सर्व-लक्षण-योगाद् अध्व-सङ्करः प्राप्नोतीति परैर् दोषश् चोद्यतैति । तस्य परिहारः—धर्माणांधर्मत्वम् अप्रसाध्यम् । सति च धर्मत्वे लक्षण-भेदोऽपि वाच्यो न वर्तमान-समय एवास्य धर्मत्वम् । एवं हि न चित्तं राग-धर्मकं स्यात्, क्रोध-काले रागस्यासमुदाचारादिति ।
किं च, त्रयाणां लक्षणानां युगपद् एकस्यां व्यक्तौ नास्ति सम्भवः । क्रमेण तु स्व-व्यञ्जकाञ्जनस्य भावो भवेदिति । उक्तं च—"रूपातिशया वृत्त्य्-अतिशयाश् च परस्परेण विरुध्यन्ते । सामान्यानि त्व् अतिशयैः सह प्रवर्तन्ते ।" तस्माद् असङ्करः । यथा रागस्यैव क्वचित् समुदाचारैति न तदानीम् अन्यत्राभावः । किन्तु केवलं सामान्येन समन्वागत इत्य् अस्ति तदा तत्र तस्य भावः, तथालक्षणस्येति । न धर्मी त्र्यध्वा । धर्मास् तु त्र्य्-अध्वानः । ते लक्षिता अलक्षिताश् च तां ताम् अवस्थां प्राप्नुवन्तोऽन्यत्वेन प्रतिनिर्दिश्यन्तेऽवस्थान्तरतो न द्रव्यान्तरतः, यथैका रेखा शत-स्थाने शतं दश-स्थाने दशैकं चैक-स्थाने । यथा चैकत्वेऽपि स्त्री माता चोच्यते दुहिता च स्वसा चेति ।
अवस्था-परिणामे कौटस्थ्य-प्रसङ्ग-दोषः कैश्चिद् उक्तः । कथम् ? अध्वनो व्यापारेण व्यवहितत्वात् । यदा धर्मः स्व-व्यापारं न करोति, तदानापगतो, यदा करोति तदा वर्तमानो, यदा कृत्वा निवृत्तस् तदातीत इत्य् एवं धर्म-धर्मिणोर् लक्षणानाम् अवस्थानां च कौटस्थ्यं प्राप्नोतीति परैर् दोष उच्यते । नासौ दोषः । कस्मात् ? गुणि-नित्यत्वेऽपि गुणानां विमर्द-वैचित्र्यात् । यथा संस्थानम् आदिमद् धर्म-मात्रं शब्दादीनां गुणानां विनाश्य्-अविनाशिनाम् एवं लिङ्गम् आदिमद्धर्म-मात्रं सत्त्वादीनां गुणानां विनाश्य्-अविनाशिनाम् । तस्मिन् विकार-संज्ञेति ।
तत्रेदम् उदाहरणम्—मृद्-धर्मी पिण्डाकारोऽनागतं लक्षणं हित्वा वर्तमान-लक्षणं प्रतिपद्यतैति लक्षणतः परिणमते । घटो नव-पुराणतां प्रतिलक्षणम् अनुभवन्न् अवस्था-परिणामं प्रतिपद्यतैति । धर्मिणोऽपिधर्मान्तरम् अवस्था, धर्मस्यापि लक्षणान्तरम् अवस्थेत्य् एक एव द्रव्य-परिणामो भेदेनोपदर्शितैति । एवं पदार्थान्तरेष्व् अपि योज्यमिति । त एते धर्म-लक्षणावस्था-परिणामा धर्मि-स्वरूपम् अनतिक्रान्ता इत्य् एक एव परिणामः सर्वान् अमून् विशेषान् अभिप्लवते ।
अथ कोऽयं परिणामः ? अवस्थितस्य द्रव्यस्य पूर्व-धर्म-निवृत्तौ धर्मान्तरोत्पत्तिः परिणामः ॥१३॥
तत्त्व-वैशारदी :प्रासङ्गिकं च वक्ष्यमाणौपयिकं च भूतेन्द्रिय-परिणामं विभजते—एतेन भूतेन्द्रियेषु धर्म-लक्षणावस्था-परिणामा व्याख्याताः ॥
१व्याचष्टे—एतेनैति । ननु चित्त-परिणति-मात्रम् उक्तम्, न तु तत्-प्रकारा धर्म-लक्षणावस्था-परिणामाः, तत् कथं तेषाम् अतिदेशः ? इत्य् अत आह—तत्र व्युत्थान-निरोधयोरिति । धर्म-लक्षणावस्था-शब्दाः परं नोच्चारिताः । न तु धर्म-लक्षणावस्था-परिणामा नोक्ताइति संक्षेपार्थः । तथा हि व्युत्थान-निरोध-संस्कारयोर् इत्य् अत्रैव सूत्रे धर्म-परिणाम उक्तः । इमं च धर्म-परिणामं दर्शयता तेनैव धर्माधिकरणो लक्षण-परिणामोऽपि सूचित एवेत्य् आह—लक्षण-परिणामैति । लक्ष्यतेऽनेनेति लक्षणं काल-भेदः । तेन हि लक्षितं वस्तु वस्त्व्-अन्तरेभ्यः कालान्तर-युक्तेभ्यो व्यवस्थितैति ।
अस्यैव व्याख्यानं त्रिभिर् अध्वभिर् युक्तः । अध्व-शब्दः काल-वचनः । स खल्व् अनागत-लक्षणम् अध्वानं प्रथमं हित्वा, तत् किम् अध्ववत् धर्मत्वम् अप्य् अतिपतति । नेत्य् आह—धर्मत्वम् अनतिक्रान्तो वर्तमानं लक्षणं प्रतिपन्नैति । य एव निरोधोऽनागत आसीत् स एव सम्प्रति वर्तमानो न तु निरोधोऽनिरोध इत्य् अर्थः । वर्तमानता-स्वरूप-व्याख्यानं—यत्रास्य स्वरूपेण स्वोचितार्थ-क्रिया-करण-स्वरूपेण अभिव्यक्तिः समुदाचारः । एषोऽस्य प्रथमम् अनागतम् अध्वानम् अपेक्ष्य द्वितीयोऽध्वा । स्याद् एतत्, अनागतम् अध्वानं हित्वा चेद् वर्तमानताम् आपन्नस् तां च हित्वाऽतीतताम् आपत्स्यते ।
हन्त भोर् अध्वनाम् उत्पत्ति-विनाशौ स्यातां न चेष्येते न ह्य् असत उत्पादो नापि सतो विनाश इत्य् अत आह—न चैति । न चातीतानागताभ्यां सामान्यात्मनाऽवस्थिताभ्यां वियुक्त इत्य् अर्थः । अनागतस्य निरोधस्य वर्तमानता-लक्षणं दर्शयित्वा वर्तमान-व्युत्थानस्यातीततां तृतीयम् अध्वानम् आह—तथा व्युत्थानमिति । तत् किं निरोध एवानागतो न व्युत्थानम् ? नेत्य् आह—पुनर् व्युत्थानमिति। व्युत्थान-जात्य्-अपेक्षया पुनर् भावो न व्यक्त्य्-अपेक्षया । न ह्य् अतीतं प्नुर् भवतीति स्वरूपाभिव्यक्तिर् अर्थ-क्रिया-क्षमस्याविर्भावः । स चैवं लक्षण-परिणाम उक्तस् तज्-जातीयेषु पौनःपुण्येन वर्तत इत्य् आह—एवं पुनरिति ।
धर्म-परिणाम-सूचितम् एवावस्था-परिणामम् आह—तथावस्थाइति । धर्माणां वर्तमानाध्वनां बलवत्त्वेऽवस्था तस्याः प्रतिक्षणं तारतम्यं परिणामः ।
तत् किम् एष परिणामो गुणानां कादाचित्कः ? नेत्य् आह—एवमिति । कस्मात् पुनर् अयं परिणामः सनातनः ? इत्य् अत आह—चलं चैति । चो हेत्व्-अर्थे । वृत्तं प्रचारः । एतद् एव कुतः ? इत्य् अत आह—गुण-स्वाभाव्यमिति ।
उक्तम् अत्रैव पुरस्तात् सोऽयं त्रिविधोऽपि चित्त-परिणामो भूतेन्द्रियेषु सूत्र-कारेण निर्दिष्ट इत्य् आह—एतेनैति । एष त्रिविधः परिणामो धर्म-धर्मि-भेदात्धर्म-धर्मिणोर् भेदम् आलक्ष्य तत्र भूतानां पृथिव्य्-आदीणां धर्मिणां गवादिर् घटादिर् वा धर्म-परिणामः । धर्माणां चातीतानगत-वर्तमान-रूपता लक्षण-परिणामो वर्तमान-लक्षणापन्नस्य गवादेर् बाल-कौमार-यौवन-वार्धक्यम् अवस्था-परिणामः । घटादीनाम् अपि नव-पुरतनतावस्था-परिणामः । एवम् इन्द्रियाणाम् अपि धर्मिणां तत्-तन्-नीलाद्य्-अलोचनं धर्म-परिणामः । धर्मस्य वर्तमानतादिर् लक्षण-परिणामः ।लक्षणस्य रत्नाद्य्-आलोचनस्य स्फुटत्वादिर् अवस्था-परिणामः । सोऽयम् एवं-विधो भूतेन्द्रिय-परिणामो धर्मिणो धर्म-लक्षणावस्थानां भेदम् आश्रित्य वेदितव्यः । अभेदम् आश्रित्य—परमार्थतस् त्व् इति । तु-शब्दो भेद-पक्षाद् विशिनष्टि । पारमार्थिकत्वम् अस्य ज्ञास्यते न त्व् अन्यस्य परिणामस्य निषिद्ध्यते । कस्मात् ? धर्मि-स्वरूप-मात्रो हि इति ।
ननु यदि धर्मि-विक्रियैवधर्मः कथं तर्ह्य् असङ्कर-प्रत्ययो लोके परिणामेष्व् इत्य् अत आह—धर्म-द्वारा इति । धर्म-शब्देन धर्म-लक्षणावस्थाः परिगृह्यन्ते, तद्-द्वारेण धर्मिण एव विक्रियेत्य् एका चासङ्कीर्णा च तद्-द्वाराणाम् अभेदेऽपिधर्मिणः परस्परासङ्करात् ।
ननु धर्मिणो धर्मिणाम् अभिन्नत्वे धर्मिणोऽध्वनां च भेदे धर्मिणोऽनन्यत्वेनधर्मिणापीह धर्मिवद् भवितव्यम् इत्य् अत आह—तत्र धर्मस्यैति । तत्र भाव-संस्थान-भेदः सुवर्णादेर् यथा भाजनस्य रुचक-स्वस्तिक-व्यपदेश-भेदो भवति, तन्-मात्रम् अन्यथाभवति, न तु द्रव्यं सुवर्णम् असुवर्णताम् उप इति । अत्यन्त-भेदाभावादितिवक्ष्यमाणोऽभिसन्धिः ।
एकान्त-वादिनं बौद्धम् उत्थापयति—अपर आहैति । धर्मा एव हि रुचकादयस् तथोत्पन्नाः परमार्थ-सन्तो न पुनः सुवर्णं नाम किञ्चिद् एकम् अनेकेष्व् अनुगतं भवेत् ततो न चिति-शक्तिवत् परिणामेतापि तु कौटस्थ्येनैव विपरिवर्तेत। परिणामात्मक-रूपं परिहाय रूपान्तरेण कौटस्थ्येनैव परिवर्तनं परिवृत्तिर् यथाचिति-शक्तिर् अन्यथान्यथाभावं भजमानेष्व् अपि गुणेषु स्वरूप-पाद-प्रच्युता कूटस्थ-नित्यैवं सुवर्णाद्य् अपि स्याद् न चेष्यते तस्मान् न द्रव्यम् अतिरिक्तं धर्मेभ्यैति }
परिहरति—अयम् अदोषैति । कस्मात् ? एकान्ततानभ्युपगमात् । यदि चिति-शक्तिर् इव द्रव्यस्य इकान्तिकीं नित्यताम् अभ्युपगच्छेम, तत एवम् उपालभ्येमहि, न त्व् ऐकान्तिकीं नित्यताम् आतिष्ठामहे, किन्तु तद् एतत् त्रैलोक्यं, न तु द्रव्य-मात्रां व्यक्तेर् अर्थ-क्रिया-कारिणो रूपाद् अप इति। कस्मात् ? नित्य-प्रतिषेधात्प्रमाणेन । यदि हि घटो व्यक्तेर् नापेयात् कपाल-शर्करा-चूर्णादिष्व् अवस्थास्व् अपि व्यक्तो घटैतिपूर्ववद् उपलब्ध्य्-अर्थ-क्रिये कुर्यात्, तस्माद् अनित्यं त्रैलोक्यम् अस्तु तर्ह्य् अनित्यम् एवोपलब्ध्य्-अर्थ-क्रिया-रहितत्वेन गगनारविन्दवद् अतितुच्छत्वाद् इत्य् अत आह—अपेतम् अप्य् अस्ति इति । नात्यन्त-तुच्छता येनैकान्ततोऽनित्यं स्याद् इत्य् अर्थः । कस्मात् ? विनाश-प्रतिषेधात्प्रमानेन । तथा हि यत् तुच्छं न तत् कदाचिद् अप्य् उपलब्ध्य्-अर्थ-क्रिये करोति । यथा गगनारविन्दम् । त्रैलोक्यं कदाचिद् अप्य् उपलब्ध्य्-अर्थ-क्रियेइति । तथोत्पत्तिमद्-द्रव्यत्व-धर्म-लक्षणावस्थायोगित्वादयोऽपि अत्यन्त-तुच्छ-गगन-नलिन-नर-विषाणादि-व्यावृत्ताः सत्त्व-हेतव उदाहार्य, तथा च नात्यन्त-नित्यो येनचिति-शक्तिवत् कूटस्थ-नित्यः स्यात्, किन्तु कथञ्चिन् नित्यः । तथा च परिणाम् इति सिद्धम् । एतेन मृत्-पिण्डाद्य्-अवस्थासु कार्याणां घटादीनाम् अनागतानां सत्त्वं वेदितव्यम् । स्याद् एतत्, अपेतम् अप्य् अस्ति चेत् कार्ये कस्मात् पूर्ववन् नोपलभ्यत इत्य् अत आह—संसर्गादिति । संसर्गात् स्व-कारण-लयात् । सौक्ष्म्यं दर्शनानर्हम् । ततश् चानुपलब्धिरिति ।
तद् एवं धर्म-परिणामंसमर्थ्य लक्षण-परिणामम् अपि लक्षणानांपरस्परानुगमनेन समर्थयते—लक्षण-परिणामैति । एकैकं लक्षणं लक्षणान्तराभ्यां समनुगतम् इत्य् अर्थः ।
नन्व् एक-लक्षण-योगे लक्षणान्तरे नानुभूयेते । तत् कथं तद्-योगः ? इत्य् अत आह—यथा पुरुष इति । न ह्य् अनुभवाभावः प्रमाण-सिद्धम् अपलपति । तद् उत पाद एव तत्र तत् सद्-भावे प्रमाणम् असत उत्पादासम्भवान् नर-विषाणवदिति ।
परोक्तं दोषम् उत्थापयति—अत्र लक्षण-परिणामे इति । यदा धर्मो वर्तमानस् तदैव यद्य् अतीतोऽनागतश् च, तदा त्रयोऽप्य् अध्वानः सङ्कीर्येरन्न् अनुक्रमेण चाध्वनां भावेऽसद्-उत्पाद-प्रसङ्गैति भावः । परिहरति—तस्य परिहारैति । वर्तमानतैव हि धर्माणाम् अनुभव-सिद्धा । ततः प्राक् पश्चात्-काल-सम्बन्धम् अवगमयति, न खल्व् असद् उत्पद्यते, न च सद् विनश्यति । तद् इदम् आह—एवं हि न चित्तमिति । क्रोधोत्तर-कालं हि चित्तं राग-धर्मकम् अनिभूयते । यदा च रागः क्रोध-समयेऽनागतत्वेन नासीत् तत् कथम् असाव् उत्पद्येतानुत्पन्नश् च कथम् अनुभूयेतेति ? भवत्य् एवं तथापि कुतोऽध्वनाम् असङ्करैति पृच्छति—किं चैति । किं-कारणम् असङ्करे । च पुनर्-अर्थे ।
उत्तरम् आह—त्रयाणामिति । त्रयाणांलक्षणानांयुगपन् नास्ति सम्भवः । कस्मिन् ? एकस्यांचित्त-वृत्तौ क्रमेण तुलक्षणानाम् एकतमस्य स्व-व्यञ्जकाञ्जनस्य भावो भवेत् सम्भवेत् । लक्ष्याधीन-निरूपणतयालक्षणानां लक्ष्याकारेण तद्वत्ता । अत्रैव पञ्चशिखाचार्य-सम्मतिम् आह—उक्तं चैति । एत प्राग् एव व्याख्यातम् ।
उपसंहरति—तस्मादिति । आविर्भाव-तिरोभाव-रूप-विरुद्ध-धर्म-संसर्गाद् असङ्करोऽध्वनामिति । दृष्टान्तम् आह—यथा रागस्यैव इति । पूर्वं क्रोधस्य राग-सम्बन्धावगमो दर्शितैति । इदानीं तु विषयान्तर-वर्तिनो रागस्य विषयान्तर-वर्तिना रागेण समबन्धावगमैति । दार्ष्टान्तिकम् आह—तथालक्षणस्यैति ।
ननु सत्य् अप्य् अनेकान्ताभ्युपगएम् भेदोऽस्तीति धर्म-लक्षणावस्थान्यत्वे तद्-अभिन्नस्य धर्मिणोऽप्य् अन्यत्व-प्रसङ्गः, स एव च नेष्यते । तद्-अनुगमानुभव-विरोधाद् इत्य् अत आह—न धर्मी त्र्यध्वा इति। यतस् तद्-भिन्ना धर्मास् त्र्य्-अध्वानः ।
धर्माणाम् अध्व-त्रय-योगम् एव स्फोरयति—ते इति । लक्षिताअभिव्यक्ता वर्तमानाइति यावत् । अलक्षिता अनभिव्यक्ता अनागता अतीताश् चेति यावत् । तत्र लक्षितांतां ताम् अवस्थां बलवत्त्व-दुर्बलत्वादिकां प्राप्नुवन्तोऽन्यत्वेन प्रतिनिर्दिश्यन्तेऽवस्थान्तरतो न द्रव्यान्तरतः। अवस्था-शब्देन धर्म-लक्षणावस्था उच्यन्ते । एतद् उक्तं भवति—अनुभव एव हि धर्मिणो धर्मादीनां भेदाभेदौ व्यवस्थापयति । न ह्य् ऐकान्तिकेऽभेदे धर्मादीनांधर्मिणो धर्मि-रूपवद् धर्मादित्वम् । नाप्य् ऐकान्तिके भेदे गवाश्ववद् धर्मादित्वम् । स चानुभवोऽनैकान्तिकत्वम् अवस्थापयन्न् अपि धर्मादिषूपजनापाय-धर्मकेष्व् अपि धर्मिणम् एकम् अनुगमयन् धर्माश् च परस्परतो व्यावर्तयन् प्रत्यात्मम् अनुभूयतैति तद्-अनुसारिणो वयं न तम् अतिवर्त्य स्वेच्छया धर्मानुभवान् व्यवस्थापयितुम् इष्महैति ।
अत्रैवं लौकिकं दृष्टान्तम् आह—यथैका रेखा इति । यथा तद् एव रेखा-स्वरूपं तत्-तत्-स्थानापेक्षया शतादित्वेन व्यपदिश्यत एवं तद् एवधर्मि-रूपम् तत्-तद्-धर्म-लक्षणावस्था-भेदेनान्यत्वेन प्रतिनिर्दिश्यत इत्य् अर्थः । दार्ष्टान्तिकार्थं दृष्टान्तान्तरम् आह—यथा चैकत्वेऽपि इति ।
अत्रान्तरे परोक्तं दोषम् उत्थापयति—अवस्था- इति ।वस्था-परिणामेधर्म-लक्षणावस्था-परिणामे कौटस्थ्य-दोष-प्रसङ्गौक्तोधर्मि-धर्म-लक्षणावस्थानाम् । पृच्छति—कथम् ?इति । उत्तरम् आह—अध्वनोव्यापारेण इति । दध्नः किल योऽनागतोऽध्वा तस्य व्यापारः क्षीरस्य वर्तमानत्वं तेन व्यवहितत्वाद् धेतोः । यदा धर्मोदधि-लक्षणः स्व-व्यापारंदाधिकाद्य्-आरम्भं क्षीरे सन्न् अपि न करोति, तदानागतः, यदा करोति तदा वर्तमानो, यदा कृत्वा निवृत्तः सन्न् एव स्व-व्यापाराद् दाधिकाद्य्-आरम्भात् तदातीतैत्य् एवंत्रैकाल्येऽपि सत्त्वाद् धर्म-धर्मिणोर् लक्षणानाम् अवस्थानां च कौटस्थ्यं प्राप्नोति। सर्वदासत्ता हि नित्यत्वं चतुर्णाम् अपि च सर्वदा सत्त्वऽसत्त्वे वा नोत्पादस् तावन्-मात्रं च लक्षणं कूटस्थ-नित्यतायाः । न हि चिति-शक्तेर् अपि कूटस्थ-नित्यायाः कश्चिद् अन्यो विशेषैति भावः ।
परिहरति—नासौ दोषःिति। कस्मात् ? गुणि-नित्यत्वेऽपि गुणानां विमर्दोऽन्योऽन्याभिभाव्याभि-भावकत्वं तस्य वैचित्र्यात् । एतद् उक्तंभवति—यद्यपि सर्वदा सत्त्वं चतुर्णाम् अपि गुणि-गुणानां, तथापिगुण-विमर्द-वैचित्र्येण तद्-आत्म-भूत-तद्-विकाराविर्भाव-तिरोभाव-भेदेन परिणाम-शालितया न कौटस्थ्यम् । चिति-शक्तेस् तु न स्वात्म-भूत-विकाराविर्भाव-तिरोभावैति कौटस्थ्यम् । यथाहुः—नित्यं तम् आहुर् विद्वांसो यत् स्वभावो न नश्यतिइति ।
विमर्द-वैचित्र्यम् एव विकार-वैचित्र्ये हेतुं प्रकृतौ विकृतौ च दर्शयति—यथा इति । यथासंस्थानम्पृथिव्य्-आदि-परिणाम-लक्षणम् आदिमद्धर्म-मात्रं विनाशि तिरोभावि शब्दादीनां शब्द-स्पर्श-रूप-रस-गन्ध-तन्मात्राणां स्व-कार्यम् अपेक्ष्य अविनाशिनाम् अतिरोभाविनाम्। प्रकृतौ दर्शयति—एवं लिङ्गमिति । तस्मिन् विकार-संज्ञा, न त्व् एवं विकारवती चिति-शक्तिरिति भावः ।
तद् एवं परीक्षक-सिद्धां विकृतिं प्रकृतिं चोदाहृत्य विकृताव् एव लोक-सिद्धायांगुण-विमर्द-वैचित्र्यं धर्म-लक्षणावस्था-परिणाम-वैचित्र्य-हेतुम् उदाहरति—तत्रेदम् उदाहरणमिति । न चायं नियमो लक्षणानाम् एवावस्था-परिणामैतिसर्वेषाम् एव धर्म-लक्षणावस्था-भेदानाम् अवस्था-शब्द-वाच्यत्वाद् एक एवावस्था-परिणामः सर्व-साधारण इत्य् आह—धर्मिणोऽपिइति ।
व्यापकं परिणाम-लक्षणम् आह—अवस्थितस्य द्रव्यस्यैति । धर्म-शब्द आश्रितत्वेन धर्म-लक्षणावस्था-वाचकः ॥१३॥
योग-वार्तिकम् : तद् एवं योग-तद्-अङ्गयोः परिणाम-रूप-वैलक्षण्यं तयोर् विवेकाय प्रदर्शितम् । अनयैव दिशा व्युत्थान-कालीना अपि चित्त-परिणामा व्याख्यात-प्रायाः । इतःपरिणाम-त्रय-संयमात्[३.१६] इत्य् आगामि-सूत्रोपोद्घात-सङ्गत्या सर्वत्रवैराग्याग्नि-प्रज्वलनाय च चित्तवद् एवान्येष्व् अप्य् अतिदेशेनैव परिणामान् व्याचष्टे सूत्रकारः—एतेन भूतेन्द्रियेषु धर्म-लक्षणावस्था-परिणामा व्याख्याताः ॥
एत एव परिणामा भूतेन्द्रियेषु न तु तत्त्वान्तर-परिणामा इत्य् असाधारणाशयेनैवात्र प्रकृत्य्-आदिष्विति नोक्तं, तेन तत्त्वान्तर-परिणामवद् एतेऽपि परिणामाः सर्व एव यथा-योग्यं प्रकृत्य्-आदिष्व् अप्य् अवगन्तव्याः । तथा च भाष्य-कारो वक्ष्यति—एवं धर्म-लक्षणावस्था-परिणामैः शून्यं न क्षणम् अपि गुण-वृत्तम् अवतिष्ठते इत्य् अनेन सर्व-वस्तुषु परिणाम-त्रयमिति । धर्मश् च द्रव्यं गुणो वेत्य् अन्यद् एतत् अनागतादि-भावोऽध्वेत्य् उच्यते ।
सूत्र-स्थं परिणाम-शब्दार्थं प्रश्न-पूर्वकं व्याचष्टे—अथ कोऽयं परिणामः ?इति ।ुत्तरं—अवस्थितस्येति । संस्कारोऽपि परिणामस्योक्तत्वाद् द्रव्यस्ये इति । धर्मिणैत्य् अर्थः । धर्म-शब्दश् चाश्रित-मात्र-वचनो निवृत्त्य्-उत्पत्ती अतीतता-वर्तमानते ।
ननु धर्मातिरिक्तो धर्मी नानुभूयते यस्य धर्मादेः परिणामः स्यादिति बौद्ध-शङ्कायांधर्माद् विविच्य धर्मी सूत्रकारेण प्रतिपादयिष्यते । तत्र तेषु मध्ये व्युत्थान-निरोधयोर् अभिभव-प्रादुर्भावाव् एव चित्ते धर्मिणि धर्म-परिणामः प्रथम-सूत्रेणैवोक्त इत्य् अर्थः । अवस्थितस्य धर्मिणः पूर्व-धर्म-तिरोभावे धर्मान्तर-प्रादुर्भावस्यैवधर्म-परिणामत्वमिति भावः । धर्मश् च द्रव्यं गुणो वेत्य् अन्यद् एतत् ।
तथातेनैव सूत्रेणाभिभव-प्रादुर्भाव-शब्दाभ्यांधर्मस्य लक्षण-परिणामोऽप्य् उक्त इत्य् आह—लक्षण-परिणामश् च इति । लक्षण-परिणामो ह्य् अवस्थितस्य धर्मस्यानागतादि-लक्षण-त्यागे वर्तमानादि-लक्षण-लाभः स चाभिभव-प्रादुर्भाव-वचनेनैव लब्धः । अतीतता-वर्तमानतयोर् एवाभिभव-प्रादुर्भावत्वादिति भावः ।
तत्रादौ निरोध-रूपस्य धर्मस्य प्रादुर्भाव-शब्दोक्तं लक्षण-परिणामम् उदाहरति—निरोधस् त्रि-लक्षण इति । एतस्यैव विवरणं त्रिभिर् अध्वभिर् युक्तःिति। क्रमेण सम्बन्धाद् अध्व-तुल्यतयाऽनागतादि-भावोऽध्वेत्य् उच्यते । तथा धर्मिणो धर्माणां चान्योऽन्यं व्यावर्तनाल् लक्षण-शब्देन च तन्त्रे परिभाषितैति । ततः किम् ? इत्य् अत आह—स खल्विति । स खलु निरोधः प्रादुर्भाव-कालेऽनागत-लक्षण-रूपम् अध्वाख्यं हित्वेत्य् आदिर् अर्थः । अत्र सत्-कार्योपपत्तये धर्म-परिणामत्वोपपादनाय च धर्मत्वम् अनतिक्रान्त इत्य् उक्तम् ।स्वरूपेणावस्थितस्यैवधर्मस्य रूपान्तरापायेरूपान्तरोत्पत्तौ धर्म-परिणाम-व्यवहारादिति ।
वर्तमानावस्थाम् इतरावस्था-द्वयाद् विविच्य दर्शयति—यत्रैति । स्वरूपेण अर्थ-क्रिया-कारित्वेन अभिव्यक्ति-रूप-लब्धिर् इत्य् अर्थः ।स चानागतापेक्षया द्वितीयेऽध्वेति शिष्य-व्युत्पादनाय प्रसङ्गाद् आह—एषोऽस्य इति । असद्-उत्पाद-सद्-विनाशयोः प्रतिषेधायाह—न चेति ।
निरोध-क्षण एव निरोधस्य लक्षण-परिणामं दर्शयित्वा व्युत्थानस्यापि दर्शयति—तथा व्युत्थानमिति । सर्वं पूर्ववद् विशेषस् तु वर्तमानतां हित्वा अतीततां प्राप्तैतितृतीयोऽध्वेति च । एवं व्युत्थान-कालेऽपिव्युत्थान-निरोधयोर् लक्षण-परिणामौ क्रमेण दर्शयति—एवं पुनर् व्युत्थानम् उपसम्पद्यमानमिति । उपसम्पद्यमानं जायमानम् । तच् च व्यक्त्य्-अन्तरम् अतीत-व्यक्तेर् अनुत्पादस्य वक्ष्यमाणत्वात् । अन्यत् सर्वं पूर्ववत् ।
एवं पुनर् निरोधैति । अत्र एवम् इत्य् अनेन तथा व्युत्थानम् इत्यादि वाक्योक्ता निरोधस्य तृतीयाध्व-प्रक्रिया निर्दिष्टा । अतो न निरोध-तृतीयावस्था-कथना-भाव-शून्यतेति । इदं च व्युत्थान-निरोध-परिणाम-चक्रम् अपवर्ग-पर्यन्तम् एवेति सङ्क्षेपेणाह—एवं पुनर् व्युत्थानमिति । व्युत्थानादिर् इत्य् अर्थः ।
चित्त-धर्मस्य लक्षण-परिणामं प्रदर्श्य तल्-लक्षणस्यावस्था-परिणामं—तस्य प्रशान्त-वाहिता संस्कारात् [३.१०]इति सूत्रे व्याख्यातं दर्शयति—तथावस्था-परिणाम इति । उच्यतैति शेषः । संस्कारयोर् बलवत्व-दुर्बलत्वे च घटस्य नव-पुराणतादिवद् ऋद्धि-ह्रासाव् उत्पत्ति-विनाश-रूपत्वे लक्षण-परिणामाद् भेदानुपपत्तेः । लक्षणस्यैव नव-पुराणत्वादिनावस्था-परिणामैतिवक्ष्यमाणत्वाच् च ।
ननु द्रव्यस्यैव वृद्धि-क्षयौ दृष्टौ न गुणस्येति चेन्, न, रूपादीनाम् अपि वृद्धि-ह्रासानुभवाद् रूप-भेद-कल्पने च गौरवात् तद् एवरूपम् इदानीं प्रवृद्धमिति प्रत्यभिज्ञानुपपत्तेश् चेति । तस्मात् संस्कारस्यादृष्टादेश् चास्त्य् अवस्था-परिणामो ज्ञानेच्छादिषु चोत्पत्तिपरिणाम्-विनाशानुभवात् क्षण-द्वय-मात्र-स्थायित्वेऽपि द्वितीय-क्षणे वर्तमान-लक्षण-परिणामस्यावस्था-परिणामो भवति क्षणत्वेनैव परिणाम-हेतुत्वाद् अन्यथासर्व-वस्तूनां प्रतिक्षण-परिणामस्य वक्ष्यमाणस्यानुपपत्तेर् एतेनोत्तर-वृत्ति-विभु-विशेष-गुणस्यैव ज्ञानादि-नाशकत्वेनैकाग्रता-दशायाम् अपि ज्ञानस्य बहु-क्षण-स्थायित्वान् नावस्था-परिणाम-सम्भव इत्य् आपस्तम् । तद् एवं परिणाम-त्रयं व्याख्याय तेषाम् आधार-व्यवस्थाम् आह—तत्रधर्मिणैत्य् आदिना । लक्षणानाम् अप्य् अवस्थाभिरिति । यद्यप्य् अवस्थानाम् अपि बाल्यादीनांलक्षण-परिणामोऽस्ति, तथापि यथोक्त-क्रमे न काप्य् अनुपपत्तिः ।
ननु, वर्तमान-लक्षणस्य नव-पुराणाद्य्-अवस्था-परिणामोऽस्तु । अनागतातीत-लक्षणयोस् तु कीदृशोऽवस्था-भेदः स्यात् ?इति । उच्यते—शीघ्र-भविष्यत्ता-विलम्ब-भविष्यत्तादि-रूपो विशेषस् तयोर् अपि लक्षणयोर् अनुमीयते सत्त्वादिवद् एव गुणत्वेन प्रतिक्षण-परिणामित्व-सिद्धेरिति । यथोक्तश् चित्त-परिणामैः सर्व-वस्तूनांपरिणामम् अतिदिशन् वैराग्याग्नि-प्रज्वलनार्थं तेषां प्रतिक्षण-परिणामित्वं दर्शयति—एवं धर्म-लक्षणेति । तद् उक्तं मन्व्-आदौ—
घोरेऽस्मिन् हन्त संसारे नित्यं सतत-घातिनाम् ॥
कदली-स्तम्भ-निःसारे संसारे सार-मार्गणम् ।
यः करोति स संमूढो जल-बुद्बुद-सन्निभे ॥इति ।१४८
गुण-वृत्तं गुणानां सत्त्वादीनां व्यापारः स्व-कार्यैर् धर्मादि-परिणामैः क्षणम् अपि शून्यं नावतिष्ठते । प्रतिक्षणं परिणामं जनयतीत्य् अर्थः ।
ननु व्यापाराभाव-दशायाम् अपरिणामित्वं स्यात् ? तत्राह—चलं च गुण-वृत्तम् इति। चलमितिभाव-प्रधानो निर्देशः । चाञ्चल्यं हि गुणानांस्वभाव इत्य् अर्थः ।
ननु प्रतिक्षणं चाञ्चल्ये प्रमाणं किम् ? इत्य् आकाङ्क्षायाम् आह—गुण-स्वाभाव्यं तु इति । राज्ञो हि गुणानाम् उपकरणानां भृत्य्-आदीनां स्वाम्य्-अर्थं प्रतिक्षणम् एव व्यापारो दृश्यते । अतो गुण-स्वभावतैव पुरुष-गुणानाम् अपि सत्त्वादीनां प्रतिक्षण-प्रवृत्तौ प्रमाणम् उक्तं पूर्वाचार्यैर् इत्य् अर्थः ।
चित्त-दृष्टान्ते परिणाम-त्रयं व्याख्याय दार्ष्टान्तिकेऽपि तद् व्याख्यातुम् आरभते—एतेनैति । धर्म-धर्मि-भेदाद् इति धर्म-धर्मि-भेदम् आश्रित्येत्य् अर्थः । तत्रपृथिव्य्-आदीनांधर्मिणां घटादिर् धर्म-परिणामः । घटादीनांधर्माणां वर्तमानातीतते लक्षण-परिणामः । वर्तमानादि-लक्षणानां च त्रयाणाम् अपि बाल्य-यौवनादिर् अवस्था-परिणामैति ।
ननु त्रयोऽपि कथं परिणामा भूतेन्द्रियेषूच्यन्ते, तेषु धर्मिषु धर्म-मात्र-परिणामादिति । तत्राह—परमार्थतस् त्विति । एक एव परिणामस् त्रयोऽपि धर्मि-परिणाम एव, यतो धर्मि-स्वरूप एव धर्मः । अतो धर्मि-परिणाम एवैष लक्षणादि-परिणामो धर्मादेर् इत्य् अवान्तरम् एव विभज्यत इत्य् अर्थः ।
इदानीं प्रतिक्षण-परिणामे क्षणिकतादि-प्रसङ्गम् अपाकर्तुं परिणाम-त्रयं क्रमेण परीक्षणीयम् । तत्रादौ धर्म-परिणामः परीक्ष्यते—तत्रधर्मस्य इत्यादिना । तत्रतेषु परिणामेषु मध्ये धर्मिणिसत एवधर्मस्यातीताद्य्-अवस्थासु धर्मिणो भावान्यथात्वं धर्मान्यथात्वम् एव भवति, न द्रव्यान्यथात्वं स्वरूपान्यथात्वे हि प्रतिक्षणं परिणामेन क्षणिकतापत्त्या प्रत्यभिज्ञाद्य्-अनुपपत्तिरिति भावः । सुवर्णस्य भावान्यथात्वं भाजनादि-रूप-धर्मापाये कटकादि-धर्माभिव्यक्तिरिति । प्रत्यभिज्ञा-बलेन च सुवर्ण-सामान्यस्य सर्व-विकारानुगतस्य सिद्धिस् तत्-सामान्यं चावयवि-रूपो धर्मीति । वैशेषिकास् तु सुवर्णस्यान्यथात्वेऽवयवोपचयापचयाभ्याम् अवयव-संयोगि-विभागस्यावश्यकत्वेन शरीराद्य्-अखिल-वस्तूनां क्षणिकत्वापत्तेर् ब्रह्मणाप्य् अपरिहार्यत्वात्, जात्यैव सर्वत्र प्रत्यभिज्ञोपपत्तौ प्रत्यभिज्ञया घटादिस्थैर् यमिति स्व-सिद्धान्त-विरोधापत्तेश् च । तस्माद् अवयव-संयोग-नाशो न द्रव्य-नाश-हेतुः, किं तु बह्व्-आदौ तृण-रणिमण्यादिवद् अव्यवस्थितम् एव फल-बलात् कारणं कल्पनीयम् ।
अथवा विजातीयोऽवयव-विभाग-विशेषैतिस्वरूपान्यथात्व-वादि-बौद्धैर् धर्मि-परिणामे प्रोक्तं दूषणं निराकर्तुम् उत्थापयति—अपर आहैति । धर्मी धर्मेभ्योऽतिरिक्तो न भवति, अत्यन्ताभिन्न इत्य् अर्थः । अत्र हेतुः—पूर्व-तत्त्वानतिक्रमात्, पूर्व-तत्त्वस्य धर्मिणोऽनतिक्रमापत्तेः कौटस्थ्यापत्तेरिति यावत् । एतद् एव विवृणोति—पूर्वापर- इति । धर्मी यद्य् अन्वयी धर्मेषु स्यात् तर्हि पूर्व्॒पर-सकलावस्था-भेदेषु अनुगततयातीताद्य्-अवस्थायाम् अपि सत्त्व-प्रसङ्गात् कौटस्थ्येन तिष्ठेत् चिति-शक्तिवद् नित्यत्व-कूटस्थत्वयोर् एकार्थत्वात्, तच् च तवाप्य् अनिष्टम् इत्य् अर्थः ।
परिहरति—अयम् अदोषैति । एकान्तता- इति । एकान्त-नित्यत्वानभ्युपगमाद् इत्य् अर्थः । एकान्तेनसर्वथास्वरूपतो धर्मतश् च नित्यत्वम् एव कौटस्थ्यम् अस्माभिर् अप्य् उपेयते, तच् च चिति-शक्तेर् एव, न तु धर्म-स्वरूपेणानित्यस्य धर्मिण इत्य् अर्थः ।
विकार-व्यावृत्तं प्रकृतेर् नित्यत्वं, तच् चातीतानागतावस्था-शून्यत्वमिति । स्वरूपतो धर्मतश् च नित्यानित्योभय-स्वरूपत्वं प्रपञ्चस्येति प्रतिपादयति—तद् एतत् इति । तद् एतत् त्रैलोक्यंकार्य-कारणात्मकं चतुर्विंशति-तत्त्वानि सकार्याणि यावत् । यथा-योग्यं धर्म-रूपेण स्वतश् च व्यक्तेर् वर्तमानावस्थातोऽप इतिनित्य-प्रतिषेधात् । नैवेह किं चनाग्र आसीत्, असद् वा इदम् अग्र आसीत्[तै.उ. २.६.१]इत्यादि-श्रुतिभिः । व्यक्ताव्यक्तात्मिका तस्मिन् प्रकृतिः सम्प्रतीयतेइत्यादि-स्मृतिभिः । यत् सावयवं तद् अनित्यं घटादिवद् इत्य् अनुमानेनेत्य् अर्थः ।
नन्व् एवम् अत्यन्तोच्छेद एवास्तु ? तत्राह—अपेतम् इति । अपेतम् अतीतम् अपिप्रकृत्य्-आदि-धर्मि-रूपेणातीत-रूपेणचास्तिविनाश-प्रतिषेधादत्यन्तोच्छेद-प्रतिषेधात् । तद् धैक आहुर् असद् एवैकम् अग्र आसीदितिश्रुत्या तत्-प्रतिषेधाद् इत्य् अर्थः । विनाशित्वे सत्य् अनादि-भावत्वानुपपत्तेरिति । यद्यपि सत्य् एवेति श्रुतौ सच्-छब्दार्थः परमात्मैव तद् ऐक्षत इत्य् उत्तर-वाक्यात्, तथापि सद् एकीभावेनदम् आसीदिति वचनाद् अस्य प्रपञ्चस्यापि प्रलये सत्त्वं सिद्धम् एव । एवं तद् धेवम् तर्ह्य् अव्याकृतम् आसीत् तम् असैवेदम् आसीत्—आसीद् इदं तमो-भूतम् अप्रज्ञातम् अलक्षणम् इत्य् आदि-श्रुति-स्मृतयोऽप्य् अत्यन्तोच्छेद-निषेधिका उदाहार्याः । युक्तिश् चासद्-उत्पादे शश-शृङ्गाद्य्-उत्पत्ति-प्रसङ्ग-बन्ध-मोक्षाद्य्-अनुपपत्त्य्-आदि-रूपा ग्राह्या ।
नन्व् अपेतम् अपि चेद् अस्ति कथं नोपलभ्यते ? तत्राह—संसर्गाच् चैति । अस्य विकार-जातस्य स्व-स्व-कारणेषु प्रकृत्य्-आदिषु संसर्गाद् अविभागाख्यात् कार्यस्य सौक्ष्म्यमव्यक्तता, तस्माच् चास्यानुपलब्धिः सूक्ष्मताया लौकिक-साक्षात्कार-प्रतिबन्धकत्वाद् इत्य् अर्थः ।तद् एवं कार्य-कारणाभेदेन प्रकृत्य्-आदीनांसर्वेषां परिणामिनां प्रकार-भेदेन नित्यानित्योभय-रूपत्व-व्यवस्थापनात् तेषां सद्-असद्-रूपत्वंसिद्धान्तितं, सद्-असत्-ख्यातिर् बाधाबाधाभ्यामिति साङ्ख्य-सूत्रानुसारात् । इदम् एव च जडानां व्यावहारिकं सत्त्वं पुराणादौ गीयते । यच् च निःसत्तासत्तं प्रधानमितिभाष्य-कारैः प्राग् उक्तं, तत् पारमार्थिक-सत्त्वासत्त्वाभिप्रायेणेत्य् अस्माभिस् तत्रैव व्याख्यातम् । एतेनात्मैव सन्न् अन्यत् सर्वम् असदितिश्रुति-स्मृति-वादा अप्य् अविरुद्धा एकान्त-नित्यत्वस्यैव पारमार्थिक-सत्तात्वात् तच् च कूटस्थ-नित्यस्येवास्ति, असत्ता-सम्पर्क-राहित्यात्, न तु व्यवहार-सत्ता प्रकृत्य्-आदीनामिति । इत्थम् एव च—
नासद्-रूपा न सद्-रूपा माया नैवोभयात्मिका ।
सद्-असद्भ्याम् अनिर्वाच्या मिथ्या-भूता सनातनी ॥[सौर.पु. ११.२८]
इत्य् आदि-वाक्यान्य् अपि सङ्गच्छन्ते न पुनर् आधुनिक-वेदान्ति-ब्रुवाणाम् अनिर्वचनीयता-वादेऽपि तैर् हि मायाख्य-जगत्-कारणस्यापि विनाशोऽत्यन्त-तुच्छत्वम् एव वा परमार्थत इष्यते । तन्-मते च सनातनत्व-वचन-विरोधैति दिक् ।
धर्म-परिणामं परीक्ष्य लक्षण-परिणामः परीक्ष्यते—लक्षण-परिणामैति । अध्वसु वर्तमानैति । धर्माणांनित्यत्वम् उक्तं नित्यत्वं विनातीतानागत-लक्षण-योगासम्भवात् । अत्रैकैक-लक्षणाभिव्यक्ति-कालेऽपिधर्मा लक्षणान्तराभ्यां सूक्ष्माभ्यां वियुक्तो न भवतीति समुदायार्थः । तथाधर्मा इव लक्षणान्य् अपि नित्यान्य् एव इति नात्यन्तासद् उत्पत्ति-सद्-अत्यनोच्छेदयोः प्रसङ्गैति भावः ।
नन्व् एक-लक्षणाभिव्यक्ति-काले लक्षणान्तरयोर् अनुपलम्भाद् अभाव एव युक्त इत्य् आशङ्कायां तयोर् उपलब्धिम् आनुमानिकीं दर्शयति—यथाइति । न शेषासु विरक्त इति । रागस्य भावित्वे सति विरक्त-व्यवहारादर्शनात् । तथा चैक-विषयक-रागाभिव्यक्ति-कालेऽपिविषयान्तर-रागस्यात्यन्तम् अभावो नास्ति । अतो रागस्य इक-लक्षणाभिव्यक्ति-कालेऽन्ययोः सत्ता सिध्यत्य् अनुमानाद् इत्य् अर्थः ।
लक्षण-परिणामेऽपि परोक्त-दूषणम् उद्भावयति—अत्रैति । सर्वस्य अनागतादेर् वर्तमानादि-सर्व-लक्षण-योगादनागतादिकम् अपि वर्तमानं स्याद् इत्य् अध्वनांसङ्करःप्रसक्तः । क्रमिकत्वेचासद्-उत्पाद-प्रसङ्गैति शेषः । अतो वर्तमान-मात्र-लक्षणकं सर्वं वस्तु पूर्वोत्तर-कालयोस् तु तस्याभाव-मात्रम् । अभाव-प्रतियोगित्वाद् एव चातीतत्वादि-व्यवहारैति ।
तत्रादौ धर्मेषु लक्षण-त्रय-सम्बन्धम् एव व्यवस्थापयति—धर्माणामिति । धर्माणां तावत् धर्मत्वम्प्राक्-साधितत्वान् न साधनीयं सिद्धे च धर्मत्वे धर्माणांलक्षणं भेदो लक्षण-बहुत्वम् अपि वक्तव्यं न पुनर् अर्ध-वैनाशिकोक्तं वर्तमान-मात्रम् एकं लक्षणं यतो न वर्तमान-समय-मात्रेऽस्य धर्मस्य धर्मत्वं किं त्व् अतीतादि-समयेऽपिइति शेषः ।
अत्र हेतुम् आह—एवं हि इति । हि यस्मात् । एवं वर्तमान-काल एव धर्मत्वे सति सर्वम् एव चित्तंन राग-धर्मकं विरक्तमिति यावत् विरक्त-व्यवहार-योग्यं स्यात्। क्रोध-काले रागस्यासमुदाचारादनाविर्भावाद् इत्य् अर्थः ।यं भावः——यथा यदा कदाचिद् राग-सत्त्वेन भवन्-मते चित्तं रक्तमिति व्यवहारस् तथा यदा कदाचिद् रागाभावेन चित्तं विरक्तमिति व्यवहारः स्यादिति । अतोऽतीतादि-कालेऽपि रागादेश् चित्तादि-धर्मत्वाद् धर्माणां त्रि-लक्षणकत्वं सिधम् ।
यच् च तैर् उच्यतेऽभाव-प्रतियोगिता-मात्रेण अतीतादि-व्यवहारैति । तद् अपि हेयम् । असति घटे ध्वंस-प्रतियोगित्वादि-रूपस्यातीतत्वस्य वृत्त्य्-अनुपपत्तेः संयोगित्वादिवत् प्रतियोगित्वादेर् अपि सम्बन्धि-द्वय-सत्त्वं विनानुपपत्तेः सद्-असतोः सम्बन्धादर्शनाद् ध्वंस-प्रागभावयोर् असिद्धेश् च । घटो वर्तमानैतिवत् घटोऽतीतो भविष्यन्निति प्रत्ययाभ्यां घटावस्थ-विशेषयोर् एव सिद्धेः । अन्यथाभावाभावस्याप्य् अतिरिक्तत्वादि-प्रसङ्ग इत्य् आदयश् च दोषाः स्वयम् ऊहनीयाः ।
तद् एवं धर्माणांलक्षण-त्रयं व्यवस्थाप्येदानीं तत्-साङ्कर्यं परिहरति—किं चैति । त्रयाणाम् अनागतादि-लक्षणानाम् एकदैकस्मिन् वस्तुनि सम्भवोऽभिव्यक्तिर् नास्ति, किन्तु स्वाभिव्यञ्जकं दण्ड-चक्रादि-वस्त्व्-अञ्जन-तुल्यं यस्यैवं-भूतस्य लक्षणस्य क्रमेणभावोऽभिव्यक्तिर् भवेद् इति । नाभिव्यक्तौ साङ्कर्यं स्वरूपतस् तु साङ्कर्यम् इष्यत एवेत्य् अर्थः ।
अव्यक्तयोर् लक्षणयोर् व्यक्तेन लक्षणेन सह नास्ति विरोध इत्य् अत्र पञ्चशिख-वाक्यं प्रमाणयति—उक्तं चैति । धर्माद्यतैश्वर्यान्तान्य् अष्टौ चित्तस्य रूपाणि । वृत्तयश् च ज्ञानाद्य्-आश्रयाः शान्त-घोर-मूढाश् चित्त-परिणामाः । तेषाम् अतिशयोऽभिव्यक्ति-रूपोत्कटताइति । इदं च वाक्यं गुण-वृत्त्य्-अविरोधाच् च दुःखम् एव सर्वम्[२.१५]इति सूत्रे व्याख्यातम् ।
उपसंहरति—तस्मादिति । असङ्करे दृष्टान्तम् आह—यथाइति । रागस्यैव इति । धर्माणांलक्षण-त्रय-सम्बन्ध उदाहृतस्यैव रागस्य इवेत्य् अर्थः । क्वचिद् विषयेऽन्यत्रविषयान्तरे भावः सामान्याभाव इत्य् अर्थः । दार्ष्टान्तिकम् आह—तथा लक्षणस्येति इति।
अयं च लक्षण-परिणामो न धर्मिणः, किन्तु धर्माणाम् एवेत्य् एवं धर्म-परिणामाद् विशेषम् आह—न धर्मी इति । नन्व् अयं लक्षण-परिणामो लक्षणेऽस्ति न वा ? आद्य्ऽनवस्था, अन्त्ये लक्षण-परिणामे परिणाम-लक्षणासम्भवः, पूर्व-लक्षणातीततायांलक्षणान्तराभिव्यक्तेर् एव लक्षण-परिणामत्वादिति । मैवम् । बीजाङ्कुरवत् प्रमाणिकत्वेनास्या अनवस्थाया अदोषत्वात् । अन्यथाधर्मस्य धर्मस् तस्यापिधर्म इत्य्-आद्य् अनवस्थाया अपि दोषत्वापत्त्या धर्म-धर्मि-भावादिर् अपि न सिद्ध्येदितिअधिकं तु निर्वितर्का[१.४३]इति सूत्रे प्रोक्तम् । तद् एवं सर्व-धर्माणां सदैव लक्षण-त्रय-सम्बन्धोऽस्ति । अभिव्यक्तिस् तु त्रयाणां क्रमिकीति सिद्धम् ।
स्याद् एतत् । लक्षणाभिव्यक्तेर् अपि नित्यत्वात् कथं क्रमिकत्वम् ?तत्र क्रमिकत्व-सम्भवो वा किम् अपराद्धं लक्षण-क्रमिकत्वेन ? अत्रोच्यते—नित्यानित्योभय-रूपत्वस्योक्ततया नित्यत्वेऽपिसर्व-कार्येष्व् अनित्य-रूपेण क्रमः सम्भवति । लक्षणानाम् अपि क्रमश् चेष्यत एव । लक्षणाभिव्यक्ति-क्रमस् तु लक्षणासाङ्कार्याय प्रकृते प्रदर्शितः । अधिकस् तु निर्वितर्क-समापत्ति-सूत्रेऽस्माभिः प्रोक्तैति दिक् ।
लक्षण-परिणामं परीक्ष्यावस्था-परिणामं परीक्षितुं धर्म-गतं विभागम् आह—ते लक्षिता इति । लक्षिता व्यक्ता वर्तमानाइति यावत् । अलक्षिता अव्यक्ता अतीतानागताइति यावत् । तां ताम्बाल्य-यौवन-वार्धक्याद्य्-अवस्थां प्राप्नुवन्तोऽन्योन्यम् अन्यत्वेनभेदेनोच्यन्ते । बालोऽयं न युवेत्य्-आदि-रूपेण । स च निर्देशोऽवस्थान्तरतोऽवस्था-भेदाद् एव, न तु द्रव्य-भेदाद् इत्य् अर्थः । तथा च पूर्वावस्थापायेऽवस्थान्तर-प्राप्तिः सिद्धा । सेव चावस्था-परिणामैति भावः । यद्यप्य् एतादृशोऽवस्था-परिणामो नागतातीत-लक्षणयोर् अपि पूर्वम् उक्तस् तथापि वर्तमान-लक्षणस्य इवावस्था-परिणामः स्फुटम् उपलभ्यत इत्य् आशयेन वर्तमान-लक्षणम् आलम्ब्यैव स उदाहृतैति ।
धर्मिण एकत्वेऽपि निमित्त-भेदेनान्यत्व-व्यवहारे दृष्टान्तम् आह—यथैका इति । यथैकत्व-व्यञ्जिका रेखा अङ्क-विशेषो यदा बिन्दु-द्वयोपरि तिष्ठति, तदा शतम् इदं नैकमिति व्यवह्रियते । तयोर् एक-बिन्दु-लोपे च दशेदं न शतमिति व्यवह्रियते । अवशिष्ट-बिन्दु-स्थाने चैकत्व-व्यञ्जक-रेखान्तर-दाने सत्य् एकादशेदं न दशेतीत्य् अर्थः । दृष्टान्तान्तरम् आह—यथा चेति । उच्यतैति । पुत्र-पिता-भ्रातृभिर् जनकत्वादि-निमित्त-भेदाद् भेदेनेति शेषः ।
अवस्था-परिणामेऽपि बौद्धोक्तं दूषणम् उदाहरति—अवस्थाइति । अवस्था-परिणामाभ्युपगमे धर्मि-धर्म-लक्षणावस्थानां चतसृणाम् एव कौटस्थ्यापत्तिर् इत्य् अर्थः । तत्रहेतुं पृच्छति—कथम् इति । उत्तरं—अध्वनो व्यापारेण व्यवहितत्वात् इति । व्यापार-निमित्तेनैव सर्व-वस्तुष्व् अनागताद्य्-अध्वनाम् अन्योन्यं व्यवहितत्वाभ्युपगमाद् विभागाभ्युपगमात्, न तु भाव-रूपेणधर्म-लक्षणयोः सदा सत्त्वस्येष्टत्वाद् इत्य् अर्थः ।
अधुना विभागस्य व्यापार-निमित्तकत्वं विवृणोति—यदा धर्मः इत्य् आदिना, तदातीत इत्य् अन्तेन । धर्म-शब्दोऽत्राश्रित-मात्र-वाची । न करोति न करिष्यतीत्य् अर्थः । आद्य्-अन्ताध्वनोर् विभागस्य व्यापार-निमित्तकत्वं व्यापार-भाव-निमित्तकत्वेनपरम्परयेति भावः । एवं च सति पूर्व-धर्मातीततायांधर्मान्तराभिव्यक्तिर् इत्य् एवं-रूप-परिणाम-लक्षणान् नित्यत्वम् अवस्थानाम् अपि भवद्भिर् वक्तव्यं, न तु विनाशः । अवस्थानां च नित्यत्वे किम् अप्य् अनित्यं न स्याद् इत्य् एवं धर्म-धर्म्य्-आदिकं सर्वं जगत् कूटस्थं स्यादिति परैर् दोष उच्यतेइति ।
उपसंहारः—नित्यत्व-मात्रं न कौटस्थ्यं, किन्त्व् एकान्त-नित्यत्वम् इत्य् आशयेन पूर्ववद् उक्तं दोषं परिहरति—नासौ दोषैति । कौटस्थ्य-दोषो नास्तीत्य् अर्थः । गुण-नित्यत्वेऽपीति । धर्मि-नित्यत्वेऽपिधर्माणां विमर्दस्य विनाशस्य कूटस्थतो वैचित्र्याद् वैलक्षण्याद् इत्य् अर्थः । अपरिणाम-नित्यतैव कौटस्थ्यं, तच् च पुरुषातिरिक्ते नास्तीति भावः ।
गुणि-नित्यत्वेऽपिगुणानां विमर्दम् उदाहरति—यथाइति । यथेति न दृष्टान्ते किन्तूदाहरणे । संस्थानम् इति । अर्थ-विनाशेनाविनाशिनांशब्दादि-तन्मात्राणां पञ्च-भूत-रूपं संस्थानं धर्म-मात्रमादिमद् इत्य् अतो विनाशीत्य् अर्थः । एवम् इत्य्-आद्य् अप्य् एवं व्याख्येयम् । लिङ्गम्महत्-तत्त्वम् । एवम् अहङ्कारादयो घटादयश् च स्व-विनाशेनाविनाशिनां कारणानांधर्म-मात्राणि विनाशिनैति बोध्यम् । तद् एतत् श्रुत्योक्तम्—वाचारम्भणं विकारो नाम-धेयं मृत्तिकेत्य् एव सत्यम्[छा.उ. ६.१.१]इति । सत्यं विकारापेक्षया स्थिरम् इत्य् अर्थः । तस्मिन्निति । तस्मिन्धर्मे विकार-संज्ञा परिणाम-संज्ञेत्य् अर्थः । अतो धर्मिणां परिणामितया न कौटस्थ्यं, सुतरां न तु धर्म-लक्षणावस्थानामिति भावः ।
परिणाम-त्रयं विस्तरेण परीक्षितम् इदानीं भूतेन्द्रियेषु परिणाम-त्रयं क्रमेण दर्शयति— तत्रेदम् उदाहरणमिति । धर्मतैति ।धर्मेणपरिणामत इत्य् अर्थः । धर्म-परिणामस्य स्वरूपं दर्शयति—घटाकार इतीति । स-परिणामो घटाकार इत्य् अर्थः । नव-पुराणतामिति । नवीनतानन्तरं पुराणतां प्राप्नुवन्न् इत्य् अर्थः । धर्मादीनांसर्वेषाम् एवावस्थात्व-विशेषेऽपि गो-बलीवर्द-न्यायेनैवैषां तान्त्रिको भेद-निर्देश इत्य् आह—धर्मिणोऽपीति । लक्षणस्य च पुराणत्वादिकम् अवस्थेति प्राप्तत्वाद् एव नोक्तम् ।
एक एवैति । अवस्था-मात्रा एवेत्य् अर्थः । एवम् अवस्था-लक्षणयोर् अपि धर्मत्वाद् धर्म-परिणामोऽपि गो-बलीवर्द-न्यायेनैव बोध्यः । एवं पदार्थान्तरेष्व् अपिइति । भूतान्तरेष्व् इन्द्रियेषु प्रकृत्य्-आदिषु चेत्य् अर्थः । अपरं विशेषंपरिणामेषु पूर्वोक्तं स्मारयति—त एतेइति । त्रयोऽपि परिणामाधर्मि-स्वरूपम् अनतिक्रान्ताधर्मिण्य् एवानुगताः । अतो धर्म-धर्म्य्-अभेदाद् धर्म-परिणाम-मात्रम् एकम् एवेति समान्यतो भवति धर्मी । स एव च सर्वान् परिणामान् अभिप्लवते व्याप्नोति ॥१३॥
—o)0(o—
(३.१४)
तत्र—
शान्तोदिताव्यपदेश्य-धर्मानुपाती धर्मी ॥१४॥
योग्यतावच्छिन्ना धर्मिणः शक्तिर् एव धर्मः । स च फल-प्रसव-भेदानुमित-सद्-भाव एकस्यान्योऽन्यश् च परिदृष्टः । तत्र वर्तमानः स्व-व्यापारम् अनुभवन् धर्मो धर्मान्तरेभ्यः शान्तेभ्यश् चाव्यपदेशेभ्यश् च भिद्यते ।
यदा तु सामान्येन समन्वागतो भवति, तदा धर्मि-स्वरूप-मात्रत्वात् कोऽसौ केन भिद्यते ? तत्र त्रयः खलु धर्मिणो धर्माः—शान्ता उदिता अव्यपदेश्याश् चेति । तत्र शान्ता ये कृत्वा व्यापारानुपरताः । स-व्यापारा उदिताः । ते चानागतस्य लक्षणस्य समनन्तराः । वर्तमानस्यानन्तरा अतीताः ।
किम्-अर्थम् अतीतस्यानन्तरा न भवन्ति वर्तमानाः ? पूर्व-पश्चिमताया अभावात् । यथानागत-वर्तमानयोः पूर्व-पश्चिमता, नैवम् अतीतस्य । तस्मान् नातीतस्यास्ति समनन्तरः । तद् अनागत एव समनन्तरो भवति वर्तमानस्य ।
अथाव्यपदेश्याः के ? सर्वंसर्वात्मकमिति । यथोक्तं—जल-भूम्योः पारिणामिकं रसादि-वैश्वरूप्यं स्थावरेषु दृष्टं, तथा स्थावराणां जङ्गमेषु, जङ्गमानां स्थावरेष्विति । एवं जात्य्-अनुच्छेदेन सर्वंसर्वात्मकमिति ।
देश-कालाकार-निमित्तापबन्धान्१४९ न खलु समान-कालम् आत्मनाम् अभिव्यक्तिरिति ।
य एतेष्व् अभिव्यक्तानभिव्यक्तेषु धर्मेष्व् अनुपाती सामान्य-विशेषात्मा, सोऽन्वयी धर्मी । यस्य तु धर्म-मात्रम् एवेदं निरन्वयं, तस्य भोगाभावः । कस्मात् ? अन्येन विज्ञानेन कृतस्य कर्मणोऽन्यत् कथं भोकृत्वेनाधिक्रियेत ? तत् स्मृत्य्-अभावश् च नान्य-दृष्टस्य स्मरणम् अन्यस्यास्तीति । वस्तु-प्रत्यभिज्ञानाच् च स्थितोऽन्वयी धर्मी यो धर्मान्यथात्वम् अभ्युपगतः प्रत्यभिज्ञायते । तस्मान् नेदं धर्म-मात्रं निरन्वयमिति ॥१४॥
तत्त्व-वैशारदी : यस्यैष त्रिविधः परिणामस् तं धर्मिणं सूत्रेण लक्षयति—शान्तोदिताव्यपदेश्य-धर्मानुपाती धर्मी ॥ धर्मोऽस्यास्तीति धर्मीति । नाविज्ञाते धर्मे स शक्यो ज्ञातुमिति धर्मं दर्शयति—योग्यताइति । धर्मिणो द्रव्यस्य मृद्-आदेः शक्तिर् एव चूर्ण-पिण्ड-घटाद्य्-उत्पत्ति-शक्तिर् एव धर्मः । तेषां तत्राव्यक्तत्वेन भावैति यावत् ।
नन्व् एवम् अव्यक्ततया सन्तस् ते ततः प्रादुर्भवन्तु, उदकाहरणादयस् तु तैः स्व-कारणाद् अनासादिताः कुतः प्राप्ताः ? इत्य् अत उक्तम्—योग्यतावच्छिन्नाइति । यासौ घटादीनाम् उत्पत्ति-शक्तिः सोदकाहरणादि-योग्यतावच्छिन्ना । तेनोदकाहरणादयोऽपि घटादिभिः स्व-कारणाद् एव प्राप्ताइति नाकस्मिकाइति भावः ।
अथवा के धर्मिणः ? इत्य् अत्रोत्तरं—योग्यतावच्छिन्ना । धर्मिणैति । को धर्मः ? इत्य् अत्रोत्तरं—शक्तिर् एव धर्मः । तेषां योग्यतैव धर्म इत्य् अर्थः । अतस् तद्वान् धर्मीति सिद्धं भवति ।
तत्-सद्-भावे प्रमाणम् आह—स च फल-प्रसव-भेदानुमित- इति । एकस्य धर्मिणोऽन्यश् चान्यश् च चूर्ण-पिण्ड-घटादि-रूप इत्य् अर्थः । कार्य-भेद-दर्शनाच् च भिन्नैति यावत् । परिदृष्ट उपलब्धः ।
तत्रानुभव-रोहिणो वर्तमानस्य मृत्-पिण्डस्य शान्ताव्यपदेश्याभ्यां मृच्-चूर्ण-मृद्-घटाभ्यां भेदम् आह—तत्र वर्तमानःिति । यदि न भिद्यते पिण्डवत् तर्हि चूर्ण-घटयोर् अपि तद्वद् एव स्व-व्यापार-व्यप्ति-प्रसङ्गैति भावः ।
अव्यक्तस्य तु पिण्डस्य नोक्तं भेद-साधनं सम्भवतीत्य् आह—यदा तुइति । कोऽसौकेन साधनेन भिद्यते ?इति । तद् एवं धर्माणां भेद-साधनम् अभिधाय तं भेदं विभजते—तत्र त्रयः खलुइति । उदिताइति वर्तमाना इत्य् अर्थः ।
अध्वनां पौर्वापर्यं निगमयति—ते चैति । चोदयति—किम्-अर्थमिति । किं-निमित्तम् अतीतस्यानन्तरा न भवन्ति वर्तमानाः ? इत्य् अर्थः । हेतुम् आह—पूर्व-पश्चिमताया अभावादिति । विशेषित्य् आह— विषयिणीम् अनुपलब्धिं सूचयति । अनुपलम्भम् एवोपलम्भ-वैधर्म्येण दर्शयति—यथानागत-वर्तमानयोःिति । उपसंहरति—तदिति । तत् तस्माद् अनागत एव समनन्तरः पूर्वत्वेन भवति, वर्तमानस्य नातीतः । अतीतस्य वर्तमानः पूर्वत्वेन समनन्तरो नाव्यपदेश्यः । तस्माद् अध्वनां यविष्ठोऽतीतैति सिद्धम् ।
स्याद् एतत् । अनुभूयमानानुभूततयोदितातीतौ शक्याव् उन्नेतुम् । अव्यपदेश्यास् तु पुनर् धर्मा अव्यपदेश्यतयैव शक्या नोन्नेतुम् इत्य् आशयवान् पृच्छति—अथैति । अथाव्यपदेश्याः के, केषु समीक्षामहे ?
अत्रोत्तरम् आह—सर्वं सर्वात्मकमिति । यथोक्तं तद् एवोपपादयति—जल-भूम्योःिति । जलस्य हि स्वरूप-स्पर्श-शब्दवतो भूमेश् च गन्ध-रस-रूप-स्पर्श-शब्दवत्याः पारिणामिकं वनस्पति-लता-गुल्मादिषु मूल-फल-प्रसव-पल्लवादि-गत-रसादि-वैश्वरूप्यं दृष्टम् । सोऽयम् अनेकात्मिकाया भूमेर् अनीदृशस्य वा जलस्य न परिणामो भवितुम् अर्हति । उपपादितं हि नासद् उत्पद्यतैति । तथा तथा स्थावराणां जङ्गमेषु मनुष्य-पशु-मृगादिषु रसादि-वैचित्र्यं दृष्टम् । उपभुञ्जाना हि ते फलादीनि रूपादि-भेद-सम्पदम् आसादयन्ति । एवं जङ्गमानां पारिणामिकं स्थावरेषु दृष्टम् । रुधिरावसेकात् किल दाडिमी-फलानि ताल-फल-मात्राणि भवन्ति । उपसंहरति—एवमिति । एवं सर्वं जल-भूम्य्-आदिकं सर्व-रसाद्य्-आत्मकम् । तत्र हेतुम् आह—जात्य्-अनुच्छेदेनैति ।जलत्व-भूमित्वादि-जातेः सर्वत्र प्रत्यभिज्ञायमानत्वेनानुच्छेदात् ।
ननु सर्वं चेत् सर्वात्मकं हन्त भोः सर्वस्य सर्वदा सर्वत्र सर्वथा सन्निधानात् समान-कालं भावानां व्यक्तिः प्रसज्येत ! न खलु सन्निहिताविकल-कारणं कार्यं विलम्बितुम् अर्हतीत्य् अत आह—देश-काल- इति । यद्यपि कारणं सर्वं सर्वात्मकं, तथापि यो यस्य कार्यस्य देशो यथा कुङ्कुमस्य कश्मीरस् तेषां सत्तेऽपि पञ्चालादिषु न समुदाचारैति न कुङ्कुमस्य पञ्चालादिष्व् अभिव्यक्तिः । एवं निदाघे न प्रावृषः समुदाचारैति न तदा शालीनाम् । एवं न मृगी मनुष्यं प्रसूते, न तस्यां मनुष्याकार-समुदाचारैति । एवं नापुण्यवान् सुख-रूपं भुङ्क्ते, न तस्मिन् पुण्य-निमित्तस्य समुदाचारैति । तस्माद् देश-कालाकार-निमित्तानाम् अपबन्धाद् अपगमान् न समान-कालम् आत्मनाम् भावानाम् अभिव्यक्तिरिति ।
तद् एवम् अनुभव-सिद्धम् अनुगतं धर्मिणं दर्शयित्वा तम् अनिच्छतो वैनाशिकस्य क्षणिकं विज्ञान-मात्रं चित्तम् इच्छतोऽनिष्ट-प्रसङ्गम् उक्तं स्मारयति—यस्य तुइति । वस्तु-प्रत्यभिज्ञानाच् चैति । न हि देवदत्तेन दृष्टं यज्ञदत्तः प्रत्यभिजानाति । तस्माद् य एवानुभविता स एव प्रत्यभिज्ञातेति ॥१४॥
योग-वार्तिकम् :ेतत् सूत्रं तत्रेति पूरयित्वा पठति—तत्रेति । तत्र तेषु परिणामेषु तेषांपरिणामानामिति यावत् । धर्मीति सूत्रेण सहान्वयः । शान्तोदिताव्यपदेश्य-धर्मानुपाती धर्मी ॥ अतीत-वर्तमानानागत-धर्मेष्व् अनुपाती वर्तमान-रूपेणानुगतो धर्मीत्य् अर्थः । अत्राव्यपदेश्येति विशेषणंधर्म-धर्मिणोर् विवेक-प्रदर्शनाय । तथा च वर्तमानत्वावर्तमानत्व-वैधर्म्येणधर्मिणो धर्मस्य च विवेकैति भावः ।
धर्म-शब्दार्थं व्याचष्टे—योग्यताइति । दग्ध-शक्तेर् अपि सङ्ग्रहाय योग्यतावच्छिन्नेत्य् उक्तम् । वर्तमानता स्वरूप-योग्यतेत्य् अर्थः । तेनातीतादि-साधारण्य-लाभः । एव-कारो वर्तमानादि-विशेष-व्यवच्छेदार्थः । शाक्तित्वं चानागन्तुकत्वं तथा चाग्नेर् दाह-शक्तिवद् धर्मा अपि धर्मिणि यावद् द्रव्य-भाविनः । न हि शक्ति-वियोगः शक्तित्मतोऽस्ति,शक्ति-शक्तिमतोर् अभेदादिति भावः ।
धर्म-शब्दार्थम् उक्त्वा तस्य शान्तोदितोपपादनायानभिव्यक्ति-दशायाम् अपि सत्तां साधयति—स चैति ।स चधर्मः शक्ति-रूपः फल-प्रसवात् तद्-अनुमिताव्यक्तावस्थक इत्य् अर्थः । आकस्मिकत्वे हि मृद्य् एव घटस् तन्तुष्व् एव पट इत्य् आदि-भेदःफलस्य प्रसवे न स्याद्, अतो अनादित्वं वक्तव्यम् । अनादित्वां चानन्तत्वमिति भावः ।
एकानेकत्व-वैधर्म्येणापि धर्म-धर्मि-विवेकायाह—एकस्यैति । स च धर्म एकस्य धर्मिणोऽनेकोऽपि दृष्टैत्य् अर्थः ।
सूत्र-तात्पर्य-विषयंधर्माद् धर्मिणो विवेकम् उपपाद्यादौ धर्माणाम् एवान्योऽन्यं प्रतिपादयति—तत्रैति । तेषु धर्मेषु मध्ये वर्तमानो धर्मो धर्मान्तरेभ्यो वर्तमानातिरिक्त-धर्मेभ्यः शान्ताव्यपदेश्य-रूपेभ्यो भिद्यते विविच्यते,वर्तमानत्वावर्तमानत्व-वैधर्म्यादिति शेषः । वर्तमान इत्य् अस्य विवरणंस्व-व्यापारम् अनुभवन्निति ।
नन्व् एवं किं धर्माणाम् अन्योऽन्यम् अत्यन्तम् एव भेदो न तु भेदाभेदौ ? नेत्य् आह—यदा तुइति । यदा तु शान्ताव्यपदेश्यावस्थायांधर्मः सामान्येन अभिव्यक्त-विशेष-राहित्येन धर्मिण्य् अनुगतो विलीनो भवति, तदा धर्मि-स्वरूप-मात्रतयावस्थानाद् धर्म्य्-अविभागादिति यावत् । कोऽसौ धर्मः ? केन व्यापारेण भिद्येत ? अयोगिभिर् विविच्येत धर्मस्य तल्-लक्षणस्य वानुपलम्भाद् अतस् तदानीम् अविभाग-लक्षणाभेदोऽपिभवतीत्य् अर्थः । एतेन च भाष्यकृता ब्रह्माद्वैतम् अपि वेदान्तोक्तं व्याख्या-प्रायम् । प्रलये सर्व-वस्तूनांपरमात्मन्य् अविभागाद् यथाकाशेऽभ्राणामिति । तथा च श्रुतिः—स यथा सर्वासाम् अपां समुद्र एकायनम्[बृ.आ.उ. २.४.११] इत्यादिना समष्टि-जीवस्य प्रलयं प्रदर्श्यात्माद्वैतम् आह—यत्र हि द्वैतं भवति तद् एतर इतरं पश्यति । यत्र त्व् अस्यसर्वम् आत्मैवाभूत् तत् केन कं पश्येद्[बृ.आ.उ. ४.५.१५] इति ।
इदानीं शान्तोदिताव्यपदेश्य-शब्दार्थं व्याचष्टे—तत्र त्रयःिति । तद् इदं व्याख्याय तस्य पाठ-क्रमात् क्रम-भ्रमं परिहर्तुम् आह—ते चानागतस्य इति । एवं वक्ष्यमाणाव्यपदेश्येऽपि पाठ-क्रमो नादर्तव्य इत्य् आह—वर्तमानस्यानन्तरा अतीताःिति । पाठ-क्रमं कथं त्यज्यत इत्य् आशयेन पृच्छति—किम्-अर्थमिति । उत्तरं—पूर्व-पश्चिमताया अभावातिति। पूर्व-पश्चिम-द्वाराद् इत्य् अर्थः । उदिताव्यपदेश्य-रूप-पाठ-क्रम-त्यागेऽपीदम् एव बीजमिति भावः ।
तद् एव विवृणोति—यथाइति । नैवम् अतीतस्य इति वर्तमानेन् सहेति शेषः । तथा चानागतावस्थायाः प्राग्-अभाव-स्थानीयाया वर्तमानावस्थायांहेतुत्वाद् अतीतावस्थानन्तरं वर्तमानावस्था न भवतीत्य् अर्थः । उदिताव्यपदेश्य-रूप-पाठ-क्रम-त्यागेऽपीदम् एव बीजमिति भावः ।
उपसंहरति—तस्मादिति ।समनन्तरःपश्चिमो लक्षण-भेदैति शेषः। तत्त्वतोऽनागत एववर्तमानस्यसमनन्तरःपूर्वाभवतिइत्य् अर्थः। एतेन सत्-कार्य-वादेऽपिपूर्वाभिव्यक्तो घटादिर् न पुनर् उत्पद्यतेइतिसिद्धान्तः स्मर्तव्यः ।
नन्व् अनागत-वर्तमानयोः कार्य-कारणाभव एव किं प्रमाणमिति चेच् छृणु—यद्य् अतीतस्य पुनर् वर्तमानता स्यात्, तर्ह्य् अनिर्मोक्षः स्याद् विनष्टान्तःकरणाविद्या-कर्मादीनां पुनर् उद्भवेन मुक्तस्यापि संसारोदय-सम्भवात् । किं च, यद्य् अतीतोऽपि घटः पुनर् वर्तमानः स्यात्, तदा स एवायं घटैति कदाचित् प्रत्यभिज्ञायते । अतो योग्यानुपलब्ध्यातीत-व्यक्त्य्-अनुन्मज्जनं निर्णीयतैति । अत्रानागतातीतावस्थयोः प्राग्-अभाव-ध्वंस-रूपयोः कार्योत्पादकानुत्पादकत्व-वैधर्म्य-वचनाद् अव्यक्तावस्थाया एवावान्तर-भेदाव् अनागतातीतते परस्पर-विलक्षणैति मन्तव्यम् ।
नन्वेवम् अतीतस्य पुनर् अनुत्पादाद् अतीत-सत्त्व-कल्पना व्यर्थेति चेन्, न । लोकान् अतीतान् ददृशे स्व-देहे [भा.पु. ३.८.१२] इत्यादि-वाक्य-शत-सिद्ध-योगि-प्रत्यक्षान् यथानुपपत्त्या तत्-सिद्धेर् विषय-तत्-सन्निक्षर्षयोः प्रत्यक्ष-हेतुत्वान् न चातीतार्थ-स्मरणम् एवास्त्विति वाच्यम् । पूर्वाननुभूतस्यापि योगिना दर्शनात् । ये तु योगज-धर्मस्यापि सन्निकर्षत्वम् इच्छन्ति तेषाम् अप्य् असत्-पदार्थं सन्निकर्षानुपपत्तिः प्रत्यक्षम् प्रति सन्निकर्ष-नानात्वेनानुगमेन हेतुताग्रहानुपपत्तिश् च । ज्ञानादेर् विषयतादि-रूपोऽपि न सम्बन्धोऽसति न सम्भवति सतोर् एव सम्बन्ध-दर्शनादिति । प्रत्यक्षादिषु संयोगादिर् एव प्रत्यासत्तिः योगज-धर्मेण चाधर्मतम आदि-प्रतिबन्ध-मात्रं क्रियतेइति दिक् ।
शान्तोदितौ व्याख्यायाव्यपदेश्यं व्याख्यातुं पृच्छति—अथाव्यपदेश्याः के ?इति । ये व्यापारान् करिष्यन्ति, तेऽव्यपदेश्याइति वक्तुं न शक्यते । अकरिष्यामाण-व्यापारकस्यापिकेवलानागत-लक्षणस्य वस्तुनः स्वीकाराद् इत्य् अतः प्रकारान्तरेणाव्यपदेश्यं लक्षयति—सर्वं सर्वात्मकमिति । सर्वात्मकं सर्व-शक्तिकम् । तथा च यथोक्तं—जल-भूम्योः पारिणामिकं रसादि-वैश्वरूप्यं स्थावरेषु दृष्टं, तथा स्थावराणां जङ्गमेषु, जङ्गमानां स्थावरेष्विति । एवं जात्य्-अनुच्छेदेन सर्वं सर्वात्मकमिति ।
देश-कालाकार-निमित्तापबन्धान्न खलु समान-कालम् आत्मनाम् अभिव्यक्तिरिति ।
य एतेष्व् अभिव्यक्तानभिव्यक्तेषु धर्मेष्व् अनुपाती सामान्य-विशेषात्मा, सोऽन्वयी धर्मी । यस्य तु धर्म-मात्रम् एवेदं निरन्वयं, तस्य भोगाभावः । कस्मात् ? अन्येन विज्ञानेन कृतस्य कर्मणोऽन्यत् कथं भोकृत्वेनाधिक्रियेत ? तत् स्मृत्य्-अभावश् च नान्य-दृष्टस्य स्मरणम् अन्यस्यास्तीति । वस्तु-प्रत्यभिज्ञानाच् च स्थितोऽन्वयी धर्मी यो धर्मान्यथात्वम् अभ्युपगतः प्रत्यभिज्ञायते । तस्मान् नेदं धर्म-मात्रं निरन्वयमिति ॥१४॥
यथा च पादपो मूल-स्कन्ध-शाखादि-संयुतः ।
आदि-बीजात् प्रभवति बीजान्य् अन्यानि वै ततः ॥३२॥
प्रभवन्ति ततस् तेभ्यो सम्भवन्त्य् अपरे द्रुमाः ।
तेऽपि तल्-लक्षण-द्रव्य-कारणानुगता मुने ॥३३॥
एवम् अव्याकृतात् पूर्वं जायन्ते महद्-आदयः ।
सम्भवन्ति सुरास् तेभ्यस् तेभ्यश् चाखिल-जन्तवः ।१५०[वि.पु. २.७.३२-३४]
उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस् तत्त्व-दर्शिनः ॥३४॥
येन भूतान्य् अशेषेण द्रक्ष्यस्य् आत्मन्य् अथो मयि ॥३५॥[गीता ४.३४-३५]
सर्व-भूत-स्थम् आत्मानं सर्व-भूतानि चात्मनि ।
ईक्षते योग-युक्तात्मा सर्वत्र सम-दर्शनः ॥२९॥[गीता ६.२९]
—o)0(o—
(३.१५)
क्रमान्यत्वं परिणामान्यत्वे हेतुः ॥
एकस्य धर्मिण एक एव परिणामैति प्रसक्ते, क्रमान्यत्वं परिणामान्यत्वे हेतुर् भवतीति । तद् यथा—चूर्ण-मृत्, पिण्ड-मृत्, घट-मृत्, कण-मृदिति च क्रमः । यो यस्य धर्मस्य समनन्तरो धर्मः, स तस्य क्रमः । पिण्डः प्रच्यवते घट उपजायतैतिधर्म-परिणाम-क्रमः । लक्षण-परिणाम-क्रमो घटस्यानागत-भावाद् वर्तमान-भाव-क्रमः । तथा पिण्डस्य वर्तमान-भावाद् अतीत-भाव-क्रमः ।
नातीतस्यास्ति क्रमः । कस्मात् ? पूर्व-परतायां सत्यां समनतरत्वम् । सा तु नास्त्य् अतीतस्य । तस्माद् द्वयोर् एव लक्षणयोः क्रमः । तथावस्था-परिणाम-क्रमोऽपि । घटस्याभिनवस्य प्रान्ते पुराणता दृश्यते । सा च क्षण-परम्परानुपातिना क्रमेणाभिव्यज्यमाना परां व्यक्तिम् आपद्यतैति । धर्म-लक्षणाभ्यां च विशिष्टोऽयं तृतीयः परिणामैति । त एते क्रमा धर्म-धर्मि-भेदे सति प्रतिलब्ध-स्वरूपाः । धर्मोऽपिधर्मी भवत्य् अन्य-धर्म-स्वरूपापेक्षयेति ।
यदा तु परमार्थतो धर्मिण्य् अभेदोपचारः, तद्-द्वारेण स एवाभिधीयते धर्मस् तदायम् एकत्वेनैव क्रमः प्रत्यवभासते । चित्तस्य द्वये धर्माः परिदृष्टाश् चापरिदृष्टाश् च । तत्र प्रत्ययात्मकाः परिदृष्टाः । वस्तु-मात्रात्मका अपरिदृष्टाः । ते च सप्तैव भवत्य् अनुमानेन प्रापित-वस्तु-मात्र-सद्भावाः ।
निरोध-धर्म-संस्काराः परिणामोऽथ जीवनम् ।
चेष्टा शक्तिश् च चित्तस्य धर्मा दर्शन-वर्जिताः ॥इति॥१५॥
तत्त्व-वैशारदी : क्रमान्यत्वं परिणामान्यत्वे हेतुः॥ किम् एकस्य धर्मिण एक एव धर्म-लक्षणावस्था-लक्षणः परिणाम उत बहवो धर्म-लक्षणावस्था-लक्षणाः परिणामाः ? तत्र किं प्राप्तम् ? एकत्वाद् धर्मिण एक एव परिणामः, न ह्य् एक-रूपात् कारणात् कार्य-भेदो भवितुम् अर्हति । तस्याकस्मिकत्व-प्रसङ्गाद् इत्य् एवं प्राप्तः। उच्यते—क्रमान्यत्वात् परिणामान्यत्वम् । एकस्या मृदश् चूर्ण-पिण्ड-घट-कपाल-कणाकारा परिणति-परम्परा क्रमवती लौकिक-परीक्षकैर् अध्यक्षं समीक्ष्यते । अन्यच् चेदं चूर्ण-पिण्डयोर् आनन्तर्यम् अन्यच् च पिण्ड-घटयोर् अन्यच् च घट-कपालयोर् अन्यच् च कपाल-कणयोः । एकत्र परस्यान्यत्र पूर्वत्वात् । सोऽयं क्रम-भेदः परिणाम एकस्मिन्न् अनवकल्पमानः परिणाम-भेदम् आपादयति । एकोऽपि च मृद्-धर्मी क्रमोपनिपतित-तत्-तत्-सहकारि-समवधान-क्रमेण क्रमवतीं परिणाम-परम्पराम् उद्वहन् नैनाम् आकस्मिकयतीति भावः । धर्म-परिणामान्यत्ववल् लक्षण-परिणामान्यत्वेऽवस्था-परिणामान्यत्वे च समानं क्रमान्यत्वं हेतुरिति ।
तद् एतद् भाष्येणावद्योत्यते—एकस्य धर्मिणैति। क्रम-क्रमवतोरभेदमास्थाय स तस्य क्रम इत्य् उक्तं । तथाऽवस्था-परिणाम-क्रमैति। तथा हि कीनाशेन कोष्ठागारे प्रयत्न-संरक्षिता अपि हि व्रीहयो हायनैर् अतिबहुभिः पाणि-स्पर्श-मात्र-विशीर्यमाणावयव-संस्थानाः परमाणु-भावम् अनुभवन्तो दृश्यन्ते । न चायम् अभिनवानाम् अकस्माद् एव प्रादुर्भवितुम् अर्हति । तस्मात् क्षण-परम्परा-क्रमेण स-सूक्ष्मतम-सूक्ष्मतर-सूक्ष्म-बृहद्-बृहत्तर-बृहत्तमादि-क्रमेण प्राप्तेषु विशिष्टोऽयं लक्ष्यतैति ।
तद् इदं क्रमान्यत्वं धर्म-धर्मि-भेदम् अपेक्षत एवेत्य् आह—त एवैति। आविकारेभ्य आ च लिङ्गाद आपेक्षिको धर्म-धर्मि-भावो-मृद्-आदेरपि तन्मात्रापेक्षया धर्मत्वादित्य् आह—धर्मोऽपिइति ।
यदा परमार्थ-धर्मिण्यलिङ्गेऽभेदोपचार-प्रयोगः, तद्-द्वारेणसामानाधिकरण्य-द्वारेण धर्म्येव धर्ममिति यावत्, तदैव एव परिणामो धर्मि-परिणाम एवेत्यर्थः । धर्म-लक्षणावस्थानां धर्मि-स्वरूपाभिनिवेशात् । तदनेन धर्मिणो दूरोत्सारितं कूटस्थ-नित्यत्वमित्य् उक्त-प्रायम् ।
धर्म-परिणामं प्रतिपादयन् प्रसङ्गेन चित्त-धर्माणां प्रकार-भेदम् आह—चित्तस्यैति । परिदृष्टाःप्रत्यक्षाः, अपरिदृष्टा परोक्षाः । तत्र प्रत्ययात्मकाः प्रमाणादय्ः, रागादयास् तु वस्तु-मात्रा इत्यप्रकाश-रूपताम् आह— स्यादेतत्, अपरिदृष्टाश्चेन् न सन्त्येवेत्यत आह—अनुमानेति । अनुमानेन प्रापितो वस्तु-मात्रेण सद्-भावो येषां ते तथोक्ताः । पश्चान्मानसाधर्म्यादागमोऽप्य् अनुमानम् ।
सप्तापरिदृष्टान् कारिकया संगृह्णाति—निरोधैति । निरोधो वृत्तीनामसम्प्रज्ञातावस्था चित्तस्यागमतःसंस्कार-शेष-भावोऽनुमानतश् च समाधिगम्यते । धर्म-ग्रहणेन पुण्यापुण्ये उपलक्षति । क्वचित्कर्मेति पाठः । तत्रापि तज्-जनिते पुण्यापुण्ये एव गृह्येते, ते चागमतः सुख-दुःखोपभोग-दर्शनाद्वानुमानतो गम्येते । संस्कार-वस्तु स्मृतेरनुमीयते । एवं त्रिगुणत्वाच् चित्तस्य चलं च गुण-वृत्तमिति। प्रतिक्षणं परिणामोऽनुमीयते । एवं जीवनंप्राण-धारणं प्रयत्न-भेदोऽसंविदितश्चित्तस्य धर्मःश्वास-प्रश्वासाभ्यामनुमीयते । एवं चेतसश्चेष्टा क्रिया तथा तैस्तैरिन्द्रियैः शरीर-प्रदेशैर्वा सम्प्रयुज्यते । साऽपि तत्-संयोगादेवानुमीयते । एवं शक्तिरप्युद्भूतानां कार्याणां सूक्ष्मावस्था चेतसो धर्मः स्थूल-कार्यानुभवादेवानुमीयतैति ॥१५॥
योग-वार्तिकम् :ेकस्य धर्मिणः परिणाम-नानात्वे क्रिया-भेदो हेतुर् लिङ्गम् इत्य् अर्थः । आशङ्का-पूर्वकं सूत्रं आचष्टे—एकस्येति । भवतीति सिद्धान्तैति शेषः ।
हेतुत्वं प्रतिपादयितुमादौ धर्म-परिणाम-विषये धर्मिणः क्रमं दर्शयति—चूर्णेति । एकैव मृत् प्रथमं चूर्ण-मृत्तिष्ठति, ततः पिण्ड-मृद् भवति, ततश् च घट-मृदितिघटोत्पत्तौमृद्-धर्मिणः क्रमं प्रतिपाद्य घट-लयेऽपि मृदः क्रमम् आह—कपालमृत्-कणमृदिति। च-शब्देनान्य-परिणामि-विषयेऽपि क्रमः समुच्चीयते सर्वत्र मृच्-छब्दो मृद्-धर्मिण एकत्व-प्रतिपादनार्थम् । एकस्य सामान्यात्मकस्य मृद्-धर्मिणोऽनङ्गीकारे मृदित्यनुगत-प्रत्ययो न स्यादितिभावः ।
ननु धर्माणाम् एव क्रमः पौर्वापर्यात्मा सम्भवति न तु धर्मिण इत्याशङ्कायां प्रकृतेः क्रमं लक्षयति—यो यस्येति । यस्य धर्मिणो धर्मान्तरस्य समनन्तरो यो धर्मः, स एव तस्य धर्मिणः क्रम इत्य् अर्थः । तथा च मृदेकैव चूर्णं भुत्वा पश्चत् पिण्डो भवतीत्येकः क्रमः, पश्चाच् च घट इत्यादि-क्रमैर् मृद्-धर्मिण एव क्रम-बहुत्वमिति भावः । धर्माणां क्रमस्य इवात्र विवक्षितत्वे तु तेषां क्रम-नानात्वेऽप्येकस्य धर्मिणः परिणाम-बहुत्वं न सिध्यतीति भाष्य-काराशयः ।
परिणाम-त्रयेऽपि क्रममुदाहरति—पिण्डः प्रच्यवतैत्य्-आदिना । नातीतस्यास्ति क्रमैति ।लक्षणाल् लक्षणान्तर-प्राप्ति-रूपः क्रमो नातीतस्येत्य् अर्थः । धर्म-परिणाम इवावस्था-परिणामे प्रतिक्षण-क्रमो न प्रत्यक्षीक्रियतैति तमनुमानेन साधयति—घटस्याभिनवस्येति ।
प्रान्तैति शेषः ।
सा चेति । सा च पुराणता क्षण-परम्पराऽनुपातिना प्रतिक्षणं भिन्नेन स्वरूप-सत्ता-क्रम-समूहेनैवाभिव्यज्यमाना भवन्ती चरमावस्थायां स्फुट-प्रत्यक्ष-गोचरतामेति । अतःपुराणताऽभिव्यक्ति-हेतुतया प्रतिक्षणम् अवस्था-परिणामोऽनुमीयतैति शेषः ।
प्रतिक्षण-परिणामतो यत्सिध्यति तदाह—धर्म-लक्षणाभ्यामिति। विशिष्टोऽतिशषितः धर्म-लक्षण-परिणामयोःप्रतिक्षणमनुत्पादाद् अवस्था-परिणामस्य च प्रतिक्षणमुत्पादादित्य् अर्थः ।
तथा चोक्तं मनुना—
घोरेऽस्मिन्हन्त संसारे नित्यं सतत-घातिनि ॥इति ।
स्मृत्य्-अन्तरेषु च—
नित्यदा ह्यङ्ग भूतानि भवन्ति न भवन्ति च।
कालेनालक्ष्य-वेगेन सूक्ष्मत्वात् तन्न दृश्यते॥ित्य्-आदि च ।
पुराणे चात एव चतुर्-विधः प्रलय उक्तः—
नित्यो नैमित्तिकश् चेति प्राकृतात्यन्तिकौ तथा ॥इति ।
नित्यःप्रतिक्षणं जायमानः । एतेन स्वप्न-मायादि-दृष्टान्ता अपि प्रपञ्चस्य क्षण-भङ्गुरत्वेनैव श्रुति-स्मृतिष्वभिप्रेताइति ।
सूत्र-तात्पर्यार्थम् आह—त एतैति । प्रतिलब्ध-स्वरूपाः प्राप्त-सम्भवा इतरथा तु नेत्य् अर्थः । ननु धर्मिणोऽपि घटादेः कपालादि-धर्मत्वात् कथं धर्म-धर्मिणोर् भेदैति? तथा च यो यस्य धर्मी स तस्माद्भिन्न इत्येव नियम इत्य् अर्थः ।
नन्व् एवं धर्म-धर्मि-लक्षणानां परिणाम-भेदे कथमेकस्याः प्रकृतेः सर्वे परिणामाइति श्रुयते—
इत्येषा प्रकृतिः सर्वा व्यक्ताव्यक्त-स्वरूपिणी ॥ इत्यादि-स्मृतिषु ।
तत्राह—यदा त्विति । यदा तु परमार्थ-धर्मिणि प्रधानेऽभेदोपचारेण निमित्तेन सर्वोऽपि धर्मः स एवाभिधीयते, तदाऽयं क्रमएकत्वेन एक-निष्ठत्वेनैव प्रतीयत इत्य् अर्थः । परमार्थ-धर्मित्वं च साक्षात्परम्पराया सर्व-विकाराश्रयत्वम्। तच् च प्रधानस्य इवास्तीत्यन्ये, अपारमार्थिक-धर्मिण आपेक्षिकत्वात् यथा परिणामिनां सत्यत्वम् । यथा वा, ब्रह्म-मीमांसायां जीवानाम् आत्मत्वम् अपारमार्थिकं तयोर् अपि शशशृङ्ग-देहाद्य्-आपेक्षिकत्वादितिभावः ।
अत्र प्रधानस्यैवपारमार्थिक-धर्मिक त्वं श्रुति-स्मृति-सिद्धः भाष्य-कारैः परमात्मन एव निरतिशय-सतोऽनापेक्षिकात्मनश् च पारमार्थिक-सत्त्वं पारमार्थिकात्मत्वं च श्रुति-स्मृति-सिद्धमनुमतं न्याय-साम्यादितिध्येयम् । तथाऽभेदोपचार-वचनाद् धर्म-धर्मिणोर्भेद एव पारमार्थिकः । अविभाग-मात्रं त्वभेद इत्यप्युक्तमिति । तदित्थं सूत्र-गणेन प्रपञ्चः प्रकृति-परिणामैति सिद्धान्तितम् । तत्र चारम्भ-वादिभिः सहास्माकं धर्म-धर्म्य्-अभेद-सत्कार्ययोर् एव विरोधो, न तु प्रपञ्चस्याचेतन-सूक्ष्म-द्रव्योपादानकत्वेऽपि तैर् अभेद-प्रत्यय-नियामकस्याविभाग-लक्षण-स्वरूपस्यानङ्गीकारात् प्राग्-अभाव-ध्वंसयोरङ्गीकाराच् च । ये तु प्रपञ्चस्य ब्रह्म-विवर्तता-वादिनस्तैःसह च नास्माकं विरोध-लेशोऽपि वर्तते, माया-परिणामस्य प्रपञ्चस्य परमात्मन्य् अतात्त्विकताया अस्माभिर् अपीष्टत्वात् । इन्द्रो मायाभिः पुरु-रूप ईयते,
बहु-रूप इवाभाति मायया बहु-रूपया।
रममाणो गुणेष्वस्या ममाहमिति बध्यते ॥
इत्यादि-श्रुति-स्मृतिषु माया-विकारस्यैव परमात्मन्यध्यारोपावगमात्,शुक्तौ बुद्धि-परिणाम-रजतारोपवद् बध्यतैति अंशत इत्य् अर्थः । यदि च मायायामपि विवर्तत्वं प्रपञ्चस्य कश्चिद्वदेत,तद् अपि परमार्थाभिप्रायेणेष्यत एवस्माभिः मायाऽपेक्षया तत्-कार्याणामनित्यत्वेन तामपेक्ष्य मिथ्यात्वाद् वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यमित्य्-आदि-श्रौत-दृष्टान्तैर् एवम् एव सिध्येदिति ।
तद् एवं चित्त-परिणाम-प्रसङ्गेन सर्व-वस्तूनां भूतेन्द्रिय-शब्दोपलक्षितानां त्रिविधः परिणमः सूत्र-कारेण प्रतिपादितः । तत्र सूत्र-कारैश्चित्तस्य निरोध-व्युत्थान-संस्कार-रूपावेव परिणामौ प्रतिपादितौ, न सर्वैति न्यूनताः । तस्याः परिहाराय परिणामात्मकान् चित्त-धर्मानशेषतः प्रकरण-समाप्त्य्-अवसरे दर्शयति—चित्तस्य द्वयैति ।परिदृष्टापरिदृष्टाः प्रत्यक्षाप्रत्यक्षाः ।
प्रत्ययात्मकाइति । प्रत्ययो वृत्ति-परिणाम-विशेषो यः साक्षिणि प्रतिबिम्बाधान-क्षमः स च ज्ञानेच्छाकृतिसुखादिमान् प्रदीपशिखावद् द्रव्यरूपः परिणाम-विशेषः । तद्-आत्मकाः तद्-रूपा इत्य् अर्थः ।वस्तु-मात्रेति । परमाणु-तद्रूपवत् प्रतिबिम्बाधानाक्षमतया साक्षिण्याभासमाना इत्य् अर्थः । ते चापरिदृष्टाः ।नुमानेनेति । अनुमानेन साधिता वस्तु-मात्रतया सत्ता येषां सप्तानाम् इत्य् अर्थः ।
सप्त दर्शयति—निरोधेति । निरोधी वृत्ति-निरोधः संस्कार-जनकत्वेन निवृत्ति-यत्नवद् भाव-रूपोऽनुमीयतेइति प्रागेवोक्तम् । धर्मश्चाष्ट-सामान्यं भोग-वैचित्र्यादनुमीयते । संस्कारश्चस्मृति-हेतुतयाऽनुमीयते । परिणामश्चित्तस्योपचयापचयादिर्वृत्त्य्-उत्कर्षापकर्षादिभिर् अनुमीयते । एतच् छान्दोग्ये स्पष्टम् अन्न-मयं हि सोम्य मनःित्यत्र, जीवनं प्राणनादि-रूप-व्यापार-विशेषःसुषुप्तावपिश्वास-प्रश्वसाभ्यामनुमीयते । चेष्टा चित्तस्य सञ्चारः, स च जाग्रत्-स्वप्न-सुषुप्त्य्-आदि-हेतुभ्यांचित्तस्य चक्षुर्-आदि-देश-संयोग-वियोगाभ्यामनुमीयते । यद्यपि चित्तस्य विभुत्वं,तथापि बाह्य-सत्त्वाद्य्-उपष्टम्भेनोपचयापचयवच्छ्रोत्रस्यैवौपाधिकी क्रियाऽप्य् अस्तीति भावः । शक्तिर् ध्यानादि-सामर्थ्यम् । तच्च तत्-कार्येणानुमीयते । यद्यपि कार्य-जनन-शक्तिः सर्व-परिणामिष्व् अनुमेयैवभवति,तथापि चित्तस्याखिल-धर्म-प्रसङ्गेन चित्तमधिकृत्योक्ता॥१५॥
—o)0(o—
(३.१६)
अतो योगेन उपात्त-सर्व-साधनस्य बुभुत्सितार्थ-प्रतिपत्तये संयमस्य विषय उपक्षिप्यते—
परिणाम-त्रय-संयमाद् अतीतानागत-ज्ञानम् ॥१६॥
धर्म-लक्षणावस्था-परिणामेषु संयमाद् योगिनांभवत्य् अतीतानागत-ज्ञानम् । धारणा-ध्यान-समाधि-त्रयम् एकत्र संयम उक्तः । तेन परिणाम-त्रयं साक्षात् क्रियमाणम् अतीतानागत-ज्ञानं तेषु सम्पादयति ॥१६॥
तत्त्व-वैशारदी : अतः परम् आपाद-परिसमाप्तेः संयम-विषयस् तद्-वशीकार-सूचनी विभूतिश् च वक्तव्या । तत्रोक्त-प्रकारं परिणाम-त्रयम् एव तावत् प्रथमम् उपात्त-सकल-योगाङ्गस्य योगिनः संयम-विषयतयोपक्षिपति—परिणाम-त्रय-संयमाद् अतीतानागत-ज्ञानम् ।
ननु यत्र संयमस् तत्रैव साक्षात्-करणं तत् कथं परिणाम-त्रय-संयमोऽतीतानागते साक्षात्-कारयेत् ? इत्य् अत आह—तेनैति। तेन परिणाम-त्रयं साक्षात्-क्रियमाणं तेषु परिणामेष्व् अनुगते ये अतीतानागते तद्-विषयं ज्ञानं सम्पादयति । परिणाम-त्रय-साक्षात्-करणम् एव तद्-अन्तर्-भृतातीतानागत-साक्षात्-करणात्मकमिति न विषय-भेदः संयम-सक्षात्कारयोर् इत्य् अर्थः ॥१६॥
योग-वार्तिकम्॒पाद-समाप्ति-पर्यन्तानि संयम-सिद्ध-सूत्राण्य् अवतारयति—अतो योगिनैति । ज्ञान-साधनानि योगाङ्गानि विस्तरेण व्याख्यातानि । योग-कालीनावस्थाश् चित्तस्य परिणाम-रूपा योग-निष्पत्त्य्-आद्य्-अवधारणाय दर्शिताः, अतः परं बुभुत्सितानां योगिभिर् जिज्ञासितानाम् अर्थानां साक्षात्काराय यमादि-साधन-सम्पन्नस्य योगिनः संयम-विषय उपक्षिप्यते । उभयत्र संयमाद् यथा सिद्धिर् भवति तत् सर्वं विशिष्य प्रदर्श्यते, पाद-समाप्ति-पर्यन्तम् इत्य् अर्थः । अत्र बुभुत्सितार्थ-प्रतिपत्तयैति वचनात् तत्-तद्-विभूति-कामैर् एव ते संयमाः कर्तव्याः केवल-मुमुक्षुभिस् तु सत्त्व-पुरुषान्यता-मात्र-संयमः कर्तव्यः, पर-वैराग्यायेति सूचितम्, एताश् च विभूतयः संयम-सिद्धि-सूचिका अपि ज्ञेयाः ।
परिणाम-त्रय-संयमाद् अतीतानागत-ज्ञानम् । अस्य धर्मिणोऽयं धर्म-परिणामस् तस्य चायं लक्षण-परिणामः, लक्षणस्य चायं नव-पुराणाद्य्-अवस्था-परिणाम इत्य् एवम् अनुक्षणं यत्र कुत्रचिद् अर्थे संयमात् तत्-साक्षात्कारे सति तद्-इतरार्थानाम् अपि धर्मादि-परिणामेष्व् अतीतानागत-ज्ञानं सङ्कल्प-मात्रेण प्रणिधान-लेशाद् एव भवतीत्य् अर्थः । अन्य-विषयक-संयमात् प्रतिनियत-पदार्थान्तर-साक्षात्कारश् च योगज-धर्म-बलाद् भवतीति शास्त्र-प्रामाण्याद् अवधार्यते धर्म-विशेषात् स्वर्ग-विशेषवत् तपो-जन्य-सिद्धवत् भुवन-ज्ञानं सूर्ये संयमादिति वक्ष्यमाण-सिद्धिवच् च ।
कश्चित् तु समान-विषयत्वानुरोधात् संयम-विषययोर् एवातीतानागतयोः साक्षात्कारो भवतीत्य् अर्थ इत्य् आह—तन् न । तर्हि तत्-संयमात् तज्-ज्ञानम् इत्य् एव सामान्यतः सूत्रं युज्येत, संयमस्य स्व-विषय-गोचर-साक्षात्कार-जनकत्वानियमाद्, अपि च परिणाम-त्रयं साक्षात्क्रियमाणं तेष्व् अतीतानागतज्ञानं सम्पादयतीति भाष्ये—तेष्विति । धर्म-लक्षणावस्था-परिणामेषु सर्व-वस्तु-साधारणेष्व् इत्य् अर्थः । शेषः सुगमम् ॥१६॥
—o)0(o—
(३.१७)
शब्दार्थ-प्रत्ययानाम् इतरेतराध्यासात् संकरः,
तत्-प्रविभाग-संयमात् सर्व-भूत-रुत-ज्ञानम् ॥१७॥
१तत्रवाग्वर्णेष्व् एवार्थवती । श्रोत्रं च ध्वनि-परिणाम-मात्र-विषयम् । पदं पुनर् नादानुसंहार-बुद्धि-निर्ग्राह्यमिति । २वर्णा एक-समयासम्भवित्वात् परस्पर-निरनुग्रहात्मानः । ते पदम् असंस्पृश्यानुपस्थाप्याविर्भूतास् तिरोभूताश् चेति प्रत्येकम् अपद-स्वरूपा उच्यन्ते ।
३वर्णः पुनर् एकैकः पदात्मासर्वाभिधान-शक्ति-प्रचितः सहकारि-वर्णान्तर-प्रतियोगित्वाद् वैश्वरूप्यम् इवापन्नः । पूर्वश् चोत्तरेणोत्तरश् च पूर्वेणविशेषेऽवस्थापितैति । एवं बहवो वर्णाः क्रमानुरोधिनोऽर्थ-सङ्केतेन अवच्छिन्ना इयन्त एते सर्वाभिधान-शक्ति-परिवृता ग-कार-औ-कार-विसर्जनीयाः सास्नादिमन्तम् अर्थं द्योतयन्तीति । तद् एतेषाम् अर्थ-सङ्केतेनावच्छिन्नानाम् उपसंहृत-ध्वनि-क्रमाणां य एको बुद्धि-निर्भासस् तत्पदं वाचकं वाच्यस्य सङ्केत्यते ।
४तद् एकं पदम् एक-बुद्धि-विषयम् एक-प्रयत्नाक्षिप्तम् अभागम् अक्रमम् अवर्णम् ।बौद्धम् अन्त्य-वर्ण-प्रत्यय-व्यापारोपस्थापितम्, परत्र प्रतिपिपादयिषया वर्णैर् एवाभिधीयमानैः श्रूयमाणैश् च श्रोतृभिर् अनादि-वाग्-व्यवहार-वासनानुविद्धया लोक-बुद्ध्या सिद्धवत् संप्रतिपत्त्या प्रतीयते । तस्य सङ्केत-बुद्धितः प्रविभागः । एतावताम् एवं-जातीयकोऽनुसंहार एतस्यार्थस्य वाचकैति ।
५सङ्केतस् तु पद-पदार्थयोर् इतरेतराध्यास-रूपः स्मृत्य्-आत्मकः । योऽयं शब्दः, सोऽयम् अर्थः । योऽर्थः स शब्दैति । एवम् इतरेतराध्यास-रूपः सङ्केतो भवतीति । एवम् एते शब्दार्थ-प्रत्यया इतरेतराध्यासात् सङ्कीर्णाः । तद् यथा—गौरितिशब्दो गौर् इत्य् अर्थो गौरिति ज्ञानम् । य एषां प्रविभागज्ञः स सर्ववित् ।
६सर्व-पदेषु चास्ति वाक्य-शक्तिः । वृक्ष इत्य् उक्तेऽस्तीति गम्यते । न सत्तां पदार्थो व्यभिचरतीति । तथा न ह्य् असाधना क्रियास्तीति । तथा च पचतीत्य् उक्ते सर्व-कारकाणाम् आक्षेपो नियमार्थोऽनुवादः कर्तृ-करण-कर्मणां चैत्राग्नि-तण्डुलानामिति । दृष्टं च वाक्यार्थे पद-रचनं श्रोत्रियश् छन्दोऽधीते, जीवति प्राणान् धारयति । तत्र वाक्ये पदार्थाभिव्यक्तिस् ततः पदं प्रविभज्य व्याकरणीयं क्रिया-वाचकं वा कारक-वाचकं वा । अन्यथाभवत्य् अश्वोऽजापय इत्य् एवम् आदिषु नामाख्यात-सारूप्याद् अनिर्ज्ञातं कथं क्रियायां कारके वा व्याक्रियेतेति ।
७तेषांशब्दार्थ-प्रत्ययानां प्रविभागः । तद् यथा—श्वेतते प्रासादैतिक्रियार्थः । श्वेतः प्रासादैति कारकार्थः शब्दः । क्रिया-कारकात्मा तद्-अर्थः प्रत्ययश् च । कस्मात् ? सोऽयम् इत्य् अभिसम्बन्धाद् एकाकार एव प्रत्ययः सङ्केतैति । यस् तु श्वेतोऽर्थः स शब्द-प्रत्यययोर् आलम्बनी-भूतः । स हि स्वाभिर् अवस्थाभिर् विक्रियमाणो न शब्द-सहगतो न बुद्धि-सहगतः । एवं-शब्द एवं-प्रत्ययो नेतरेतर-सहगत इत्य् अन्यथाशब्दोऽन्यथार्थोऽन्यथा प्रत्ययैति विभागः । एवं तत्-प्रविभाग-संयमाद् योगिनः८सर्व-भूत-रुत-ज्ञानं सम्पद्यतैति॥१७॥
तत्त्व-वैशारदी : अयम् अपरः संयमस्य विषय उपक्षिप्यते—शब्दार्थ-प्रत्ययानाम् इतरेतराध्यासात् संस्करः, तत्-प्रविभाग-संयमात् सर्व-भूत-रुत-ज्ञानम् ॥१७॥
१अत्र वाचकं शब्दमाचिख्यासु प्रथमं तावद् वाग्-व्यापार-विषयम् आह—तत्र इति ।वाग्वाग्-इन्द्रियं वर्ण-व्यञ्जकम् अष्ट-स्थानकं, यथाह—
अष्टौ स्थानानि वर्णानाम् उरः कण्ठः शिरस्तथा।
जिह्वा-मूलं च दन्ताश् च नासिकोष्ठौ च तालु च ॥इति ।
सा वाग् वर्णेष्व् एव यथा-लोक-प्रतीति-सिद्धेष्वर्थवती, न च वाचक इत्यर्थः । श्रोत्र-व्यापार-विषयं निरूपयति—श्रोत्रमिति । श्रोत्रं पुनर्ध्वनेर् उदानस्य वाग्-इन्द्रियाभिघातिनो यः परिणति-भेदो वर्णात्मा, तेनाकारेण परिणत-तन्-मात्र-विषयं, न तु वाचक-विषयमित्यर्थः । यथा-लोक-प्रतीति-सिद्धेभ्यो वर्णेभ्यो वाचकं भिनत्ति—पदमिति ।पदं पुनर्वाचकं नादानुसंहार-बुद्धि-निर्ग्राह्यं, यथा-प्रतीति-सिद्धान् नादान् वर्णान् प्रत्येकं गृहीत्वानु पश्चाद् या संहरत्य् एकत्वम् आपादयति,"गौर्" इत्य् एतद् एकं पदमिति । तथा पदं गृह्यते ।
२यद्यपि प्राच्योऽ पि बुद्धयो वर्णाकारं पदम् एव प्रत्येकं गोचरयन्ति, तथापि न विषदं प्रथते । चरमे तु विज्ञाने तद् अतिविषदमिति नादानुसंहार-बुद्धि-निर्ग्राह्यम् उक्तम् । यस् तु वैयात्याद् एक-पदानुभवम् अविज्ञाय वर्णान् एव वाचकान् आतिष्ठते तं प्रत्य् आह—वर्णाइति । ते खल्व् अमी वर्णाः प्रत्येकं वाच्य-विषयां धियम् आदधीरन्, नाग-दन्तका इव शिक्यावलम्बनं, संहता वा, ग्रावाण इव पिठर-धारणम् ।
न तावत् प्रथमः कल्पः, एकस्माद् अर्थ-प्रतीतेर् अनुत्पत्तेः, उत्पात्तौ वा द्वितीयादीनाम् अनुच्चारण-प्रसङ्गः, निष्पादित-क्रिये कर्मणि विशेषानाधायिनः साधनस्य साधन-न्यायातिपातात्॑ तस्माद् द्वितीयः परिशिष्यते, सम्भवति हि ग्राव्णां संहतानां पिठर-धारणम् एक-समय-भावित्वाद्, वर्णानां तु यौगपद्यासम्भवः । अतः परस्परम् अनुग्राह्यनुग्राहकत्वायोगात् सम्भुयापि नार्थ-धियम् आदधत्ते । ते पद-रूपम् एकम् असंस्पृशतस् तादात्म्येनात एवानुपस्थापयन्त आविर्भूतास् तिरोभूता, अयः-शलाका-कल्पाः प्रत्येकम् अपद-स्वरूपा उच्यन्ते ।
३यदि पुनः पदम् एकं तादात्मयेन संस्पृशेयुर् वर्णास् ततो नोक्त-दोष-प्रसङ्ग इत्य् आह—वर्णैति । वर्णः पुनर् एकैकः पदात्मा सर्वाभिधान-शक्ति-प्रचितः, सर्वाभिर् अभिधान-शक्तिभिर् निचितः—गो-गण-गौर-नगेत्य्-आदिषु हि ग-कारो गोत्वाद्य्-अर्थाभिधायिषु दृष्ट इति तत्-तद्-अभिधान-शक्तिः । एवं सोम-शोचिर् इत्यादिष्व् ईश्वराद्य्-अर्थाभिधायिषु पदेष्व् ओ-वर्णो दृष्टैति ।सोऽपि तत्-तद्-अभिधान-शक्तिः । एवं सर्वत्रोहनीयम् । स चैकैको वर्णो ग-कारादिः सहकारि यद् वर्णान्तरम् ओ-कारादि, तद् एव प्रतियोगि प्रतिसम्बन्धि यस्य स तथोक्तः, तस्य भाव-सत्त्वं, तस्माद् वैश्वरूप्यं नानात्वम् इवापन्नो, न तु नानात्वम् आपन्नः । तस्य तत्त्वाद् एव, पूर्वो वर्णः ग-कार उत्तरेणऔ-कारेण गणादि-पदेभ्यो व्यावर्त्य, उत्तरश् चौ-कारो ग-कारेण शोचिर्-आदि-पदेभ्यो व्यावर्त्य विशेषे गोत्व-वाचके गो-पद-स्फोटेऽवस्थापितोऽनुसंहार-बुद्धौ ।
अयम् अभिसन्धिः—अर्थ-प्रत्ययो हि वर्णैर् नियत-क्रमतया परस्परम् असम्भवद्भिर् अशक्यः कर्तुम्, न च संस्कार-द्वारेणाग्नेयादीनाम् इव परमापूर्वे वा स्वर्गे वा जनयितव्ये ऽनियत-क्रमाणाम् अपि साहित्यम् अर्थ-बुद्ध्य्-उपजनने वर्णानामिति साम्प्रतम्, विकल्पासहत्वात् ।
स खल्व् अयं वर्णानुभव-जन्यः संस्कारः स्मृति-प्रसव-हेतुः, अन्यो वाऽऽग्नेयादि-जन्य इवापूर्वाभिधानः, न तावद् अनन्तरः, कल्पना-गौरवापत्तेः । स एव तावद् अदृष्ट-पूर्वः कल्पनीयः । तस्य च क्रमवद्भिर् वर्णानुभवैर् एकस्य जन्यत्वं न सम्भवतीति,[न सम्भवतीत-] तज्-जातीयानेकावान्तर-संस्कार-कल्पनेति गौरवम् । न चैष ज्ञापक-हेत्व्-अङ्गम् अज्ञातस् तद्-अङ्गताम् अनुभवतीति । न खलु संबन्धोऽर्थ-प्रत्यायनाङ्गम् अज्ञातोऽङ्गताम् उप इति ।
स्मृति-फल-प्रसवानुमितस् तु संस्कारः स्व-कारणानुभव-विषय-नियतो न विषयान्तरे प्रत्ययम् आधातुम् उत्सहते, अन्यथा यत् किञ्चिद् एवैकैकम् अनुभूय सर्वः सर्वं जानीयादिति ।
न च प्रत्येक-वर्णानुभव-जनित-संस्कार-पिण्ड-लब्ध-जन्म-स्मृति-दर्पण-समारोहिणो वर्णाः समधिगत-सहभावा वाचकाइति साम्प्रतं, क्रमाक्रम-विपरीत-क्रमानुभूतानां तत्राविशेषेणार्थ-धी-जनन-प्रसङ्गाद् । न चैतत्-स्मरण-ज्ञानं पूर्वानुभव-वर्तिनीं परम्परतां गोचरयितुम् अर्हेति । तस्माद् वर्णेभ्योऽसम्भवन्न् अर्थ-प्रत्यय एक-पदानुभवम् एव स्व-निमित्तम् उपकल्पयति ।
न चैष पदेऽपि प्रसङ्गः । तद् धि प्रत्येकम् एव प्रयत्न-भेद-भिन्नाः ध्वनयो व्यञ्जयन्तः परस्पर-विसदृश-तत्-तत्-पद-व्यञ्जक-ध्वनिभिस् तुल्य-स्थान-करण-निष्पन्नाः सदृशाः सन्तोऽन्योन्य-विसदृशैः पदैः पदम् एकं सदृशम् आपादयन्तः प्रतियोगि-भेदेन तत्-तत्-सादृश्यानां भेदात् तद्-उपधानाद् एकम् अप्य् अनवयवम् अपि सावयवम् इवानेकात्मकम् इवावभासयन्ति ।
यथा नियत-वर्ण-परिमाण-संस्थानं मुखम् एकम् अपि मणि-कृपाण-दर्पणादयो विभिन्न-वर्ण-परिमाण-संस्थानम् अनेकम् आदर्शयन्ति, न परमार्थतः ।
सादृश्योपधान-भेद-कल्पिता भागा एव निर्भागस्य पदस्य वर्णाः, तेन तद्-बुद्धिर्वर्णात्मना पद-भेदे स्फोटमभेदम् एवनिर्भागम् एवस-भेदम् इव स-भागमिवालम्बते । अतो गो-पद-स्फोट-भेदस्य इकस्य ग-कारो भागो गौरादि-पद-स्फोट-सादृश्येन न निर्धारयति, स्वभागिनमित्यो-कारेणविशिष्टो निर्धारयति। एवम् ओ-कारोऽपि भागः शोचिर्-आदि-पद-सदृशतया न शक्तोनिर्धारयितुं स्व-भागिनं गो-पद-स्फोटम् इति ग-कारेण विशिष्टो निर्धारयति, असह-भाविनाम् अपि च संस्कार-द्वारेणास्ति सहभाव इतिविशेष्य-विशेषण-भावोपपत्तिः ।
न च भिन्न-विषयत्वं संस्कारयोः, भाग-द्वय-विषययोरनुभवयोस्तज्-जन्मनोश् च संस्कारयोर् एक-पद-विषयत्वात् । केवल-भागानुभवेन पदम् अव्यक्तम् अनुभूयते । अनुसंहार-धिया तु भागानुभव-योनि-संस्कार-लब्ध-जन्मना व्यक्तम् इति ।
अव्यक्तानुभवाश् चप्राञ्चः संस्काराधान-क्रमेण व्यक्तमनुभवमादधाना दृष्टा,
यथा दूराद्वनस्पतौ हस्ति-प्रत्यया अव्याक्ता व्यक्त-वनस्पति-प्रत्यय-हेतवः ।
न चेयं-विधा वर्णानामर्थ-प्रत्यायने सम्भविनी । नो खलु वर्णाः प्रत्येकमव्यक्तमर्थ-प्रत्ययमादधत्यन्ते व्यक्तम् इति शक्यं वक्तुम् । प्रत्यक्ष-ज्ञान एव नियमाद् व्यक्ताव्यक्तत्वस्य । वर्णाधेयस्त्वर्थ-प्रत्ययो न प्रत्यक्षः । तदेष वर्णेभ्यो जायमानः स्फुट एव जयेत, न वा जायेत, न त्वस्फुटः । स्फोटस्य तु ध्वनि-व्यङ्ग्यस्य प्रत्यक्षस्य सतः स्फुटत्वास्फुटत्वे कल्प्येते इत्यसमानम् ।
एवं प्रत्येक-वर्णानुभव-जनित-संस्कार-सहित-श्रोत्र-लब्ध-जन्मन्यनुसंहार-बुद्धौ संहता वर्णा एक-पद-स्फोट-भावमापन्नाः प्रयत्न-विशेष-व्यङ्ग्यतह्या प्रयत्न-विशेषस्थ च नियत-क्रमापेक्षतया क्रमान्यत्वे तद्-अभिव्यञ्जक-प्रयत्न-विशेषाभावेन तद्-अभिव्यक्त्य्-अभाव-प्रसङ्गात् क्रमानुरोधिनोऽर्थ-सङ्केतेनावच्छिन्नाः सङ्केतावच्छेदम् एव लौकिकं सभाग-पद-विषयं दर्शयन्ति, इयन्तोद्वित्राः, त्रिचतुरः, पञ्च-षाद् एते सर्वाभिधान-शक्ति-परिवृत्ता ग-कारौ-कार-विसर्जनीयाः सास्नाऽऽदिमन्तमर्थमवद्योतयन्तीति ।
४तत्किम् इदानीं संकेतानुसारेण वर्णानाम् एववाचकत्वम् । तथा चन पदं नामकिञ्चिदेकमित्य् अतआह—तद् एतेषामिति ।ध्वनि-निमित्तः क्रमो ध्वनि-क्रमः । उपसंहृतो ध्वनि-क्रमो येषु ते तथोक्ताः । बुद्ध्या निर्भास्यते प्रकाश्यत इतिबुद्धि-निर्भासः । सङ्केतावच्छिन्नाः स्थूल-दर्शि-लोकाशयानुरोधेन ग-कारौ-कार-विसर्जनीया इत्य् उक्तम्, ग-कारदीनाम् अपितद्-भागतया तादात्म्येन वाचकत्वात्, प्रतीत्य्-अनुसारतस्त्वेकम् एव-पदं वाचकम् इत्य् अर्थः । एतद् एव स्पष्टयति—तदेकमिति ।तद् एकं लोक-बुद्ध्या प्रतीयते इति संबन्धः कस्माद् अकामत्य् अत आह—एक बुद्धि-विषयैति ।
गौर् इत्य् एकं पदम् इत्य् एकाकाराया बुद्धेर् विषयो यतस् तस्माद् एकम् । तस्य व्यञ्जकम् आह—एक-प्रयत्नाक्षिप्तमिति ।"रसैति पद-व्यञ्जकात्प्रयत्नाद्विलक्षणः । "सरैति पद-व्यञ्जकः प्रयत्नः, स चोपक्रमतः सर इति पदादि-व्यक्ति-लक्षण-फलावच्छिन्नः पूर्वापरीभूत एकस्तदाऽऽक्षिप्तम् ।भागानां सादृश्योपधान-भेद-कल्पितानां परमार्थ-सतामभावाद् अभागम् । अतएव पूर्वापरीभूत-भागाभावादक्रमम् ।
ननु वर्णाः पूर्वापरीभूतास्ते चास्य भागा इति कथमक्रममभागं च ? इत्य् अत आह—
अवर्णमिति ।न ह्य् अस्य वर्णा भागाः, किन्तु सादृश्योपधान-भेदात्पदम् एव । तेन तद्-आकारेणापरमार्थ-सता प्रथते, न हि मणि-कृपा-दर्पणादि-वर्तीनि मुखानि मुख्य-परमार्थंसतोऽवयवा इति ।
बौद्धम् अनुसंहार-बुद्धि-विदितम् अन्त्य-वर्ण-प्रत्ययस्य व्यापारः संस्कारः पूर्व-वर्णानुभव-जनित-संस्कार-सहितः,तेन उपस्थापितं विषयीकृतम् । वर्णानुभव-तत्-संस्कारणां च पद-विषयत्वमुपपादितमधस्तात् ।
स्यादेतत् । अभागमक्रममवर्णं चेत् पद-तत्त्वं कस्माद् एवं-विधं कदाचिन् न प्रथते, न हि लाक्षा-रसावसेकोपधानापादितारूण-भावः स्फटिक-मणिस् तद्-अपगमे स्वच्छो धवलो नानुभूयते । तस्मात् पारमार्थिका एव वर्णाः ? इत्य् अत आह—परत्रैति । प्रतिपिपादयिषयावर्णैरेवाभिधीयमानैर् उच्चार्यमाणैः श्रूयमाणैश् च श्रोतृभिर् अनादिर् योऽयं वाग्-व्यवहारो विभक्त-वर्ण-पद-निबन्धनस् तज्-जनिता वासना, साऽप्यनादिर् एव तद्-अनुविद्धया तद्-वासितया लोक-बुद्ध्या विभक्त-वर्ण-रचित-पदावगाहिन्या सिद्धवत् परमार्थवत् सम्प्रतिपत्त्या संवादेन वृद्धानां पदं प्रतीयते ।
एतदुक्तं भवति—अस्ति कश्चिदुपाधिर्य उपाधेयेन संयुज्यते वियुज्यते च, यथा लाक्षादिः । तत्र तद्-वियोगे स्फाटिकः स्वाभाविकेन स्वच्छ-धवलेन रूपेण प्रकाशत इति युज्यते । पद-प्रत्ययस्य तु प्रयत्न-भेदोपनीत-ध्वनि-भेदादन्यतोऽनुत्पादात् तस्य च सदा सादृश्य-दोष-दूषिततया वर्णात्मनैव प्रत्यय-जनकत्वम् इति कुतो निरुपाधिनः पदस्य प्रथा?
यथाहुः—
ध्वनयः सदृशात्मातो विपर्यासस्य हेतवः ।
उपलम्भकमेतेषां विपर्यासस्य कारणम् ॥
उपायत्वाच्च नियतः पद-दर्शित-दर्शिनाम् ।
ज्ञानस्यैव च बाधेयं लोके ध्रुवमुपप्लवः ॥इति ।
यतः पदात्मा विभक्त-वर्ण-रूषितः प्रकाशतेऽतः स्थूल-दर्शी लोको वर्णानेव पदम् अभिमन्यमानस्तानेव प्रकार-भेद-भाजोऽर्थ-भेदे सङ्केतयतीत्याह—तस्य इति । तस्य पदस्याजानत एक स्यापि सङ्केत-बुद्धितः स्थूल-दर्शि-लोक-हिताय वर्णात्मना विभागः, विभागमाह—एतावतामिति । एतावतां न न्यूनानामधिकानां वा, एवं-जातीयको नैरन्तर्येक्रम-विशेषः, अनुसंहारएक-बुद्ध्य्-अपग्रहः, एकस्यार्थस्य गोत्वादेर्वाचक इति ।
ननु यद्येकस्यार्थस्यायं शब्दो वाचकैति संकेतो, हन्त भोः शब्दार्थयोर्नेतरेतराध्यासस् तर्हि ? इत्यत आह—संकेतस्तुइति । स्मृतावात्म-स्वरूपं यस्य स तथोक्त न हि कृत इत्य् एव संकेतोऽर्थमवधारयत्यपि तु स्मर्यमाणः ।
एतदुक्तं भवति—अभिन्नाकार एव सङ्केते कथञ्चिद् भेदं विकल्प्य षष्ठी प्रयुक्तेति, यएषां प्रविभागज्ञः स तत्र संयमे भवति सर्ववित्सर्व-भूतरुतज्ञ इति ।
तद् एवं विकल्पित-वर्ण-भागमेकमनवयवं पदं व्युत्पाद्य कल्पित-पद-विभागं वाक्यमेकमनवयवं व्युत्पादयितुमाह—सर्व-पदेषु चास्ति वाक्य-शक्तिः इति। अयमभिसन्धिः—पर-प्रत्यायनाय शब्दः प्रयुज्यते, तद् एव च परं प्रति प्रतिपादयितव्यं यत्तैः प्रतिपित्सितम् ।तद् एव च तैः प्रतिपित्सितं यदुपादानादि-गोचरः । न पदार्थ-मात्रं तद्-गोचरः,किन्तु वाक्यार्थ इति वाक्यार्थ-परा एव सर्वे शब्दाः । तेन स एव तेषामर्थः॑ अतो यत्र् अपि केवलस्य पदस्य प्रयोगस्तत्र् अपि पदान्तरेण सहैकीकृत्य तोऽर्थो गम्यते न तु केवलात्, कस्मात् तन्मात्रस्यासाम् अर्थ्यात् तथा च वाक्यम् एवतत्र तत्र वाचकं न तु पदानि॑ तद्भागतया तु तेषाम् अप्यास्ति वाक्यार्थवाचकशक्तिः पदार्थ इव पदभागतया वर्णानाम्॑ तेन यथा वर्ण एकैकः सर्व-पदार्थभिधान-शक्ति-प्रचित एवं पदम् अप्येकैकं सर्व-वाक्यार्थाभिधान-शक्ति-प्रचितम्, तद् इदम् उक्तं—सर्व-पदेषु चास्ति वाक्य-शक्तिः ।
वृक्ष इत्युक्तेऽस्तीति गम्यतैति ।ध्याहृतास्ति-पद-सहितं वृक्ष-पदं तत्र वर्ततैति तद्-भागत्वाद् वृक्ष-पदं तत्र वर्तत इत्य् अर्थः । कस्मात् पुनर् अस्तीति गम्यत इत्य् अत आह—न सत्तां पदार्थो व्यभिचरतीति । लोक एव हि पदानाम् अर्थावधारणोपायः । स च केवलं पदार्थम् अस्त्य् अर्थे नाभिसमस्य सर्वत्र वाक्यार्थीकरोति । सोऽयम् अव्यभिचारः सत्तयापदार्थस्य । अत एवशब्द-वृत्ति-विदां व्यवहारोऽयं—यत्रान्यत् क्रिया-पदं नास्ति, तत्रास्तिर् भवन्ती-परः प्रयोक्तव्य इति ।
क्रिया-भेदाव्यभिचारि-प्रातिपदिकम् उक्त्वा क्रिया-भेदं कारकाव्यभिचारिणं दर्शयति—तथा चपचतीत्य् उक्तेइति । पचतीत्य् उक्ते हि कारक-मात्रस्य तद्-अन्वय-योग्यस्यावगमाद् अन्य-व्यावृत्ति-परस् तद्-भेदानाम् अनुवादः । तद् एवं भेद एव वाक्यार्थ इति ।
तथानपेक्षम् अपि पदं वाक्यार्थे वर्तमानं दृश्यत इति सुतराम् अस्ति वाक्य-शक्तिः पदानाम् इत्य् आह—दृष्टं चैति । न चतिआवतापि श्रोत्रियादि-पदस्य स्वतन्त्रस्यैवं-विधार्थ-प्रत्यायनं न यावद् अस्त्य् आदिभिर् अभिसमासोऽस्य भवति । तथा चास्यापि वाक्यावयवत्वात् कल्पितत्वम् एवेति भावः ।
स्याद् एतत् । पदानाम् एव चेद् वाक्य-शक्तिः,कृतंतर्हि वाक्येन, तेभ्य एव तद्-अर्थावसायाद् इत्य् अत आह—तत्र वाक्ये इति । उक्तम् एतन् न केवलात् पदात् पदार्थः प्रतिपित्सितः प्रतीयते न यावद् एतत् पदान्तरेणाभिसमस्यत इति । तथा च वाक्यात् पदान्य् अपोद्धृत्य कल्पितानि वाक्यार्थाच् अपोद्धृत्य तद्-एक-देशं कारकं क्रियां वा तत् पदं प्रकृत्य्-आदि-विभाग-कल्पनया व्याकरणीयम् अन्वाख्येयम् । किम्-अर्थं पुनर् एतावता क्लेशेनान्वाख्यायत ? इत्य् अत आह—अन्यथाइति । घटो भवति, भवति भिक्षां देहि, भवति तिष्ठतीति नामाख्यातयोश् च साम्यात् । एवम् अश्वस् तम् आश्वो यातीति । एवम् अजापयः पिब, अजापयः शत्रून् इति । नामाख्यात-सारूप्याद् अनिर्ज्ञातंनामत्वेनाख्यातत्वेन वान्वाख्यानाभावे निष्कृष्याज्ञातं कथं क्रियायां कारके वा व्याक्रियेत ? तस्माद् वाक्यात् पदान्य् अपोद्धृत्य व्याख्यातव्यानि, न त्व् अन्वाख्यानाद् एव पारमार्थिको विभागः पदानाम् इति।
७तद् एवं शब्द-रूपं व्युत्पाद्य शब्दार्थ-प्रत्ययानां सङ्केतापादित-सङ्कराणाम् असङ्करम् आख्यातुम् उपक्रमते—तेषां शब्दार्थ-प्रत्ययानां प्रविभागः इति। तद् यथा श्वेतते प्रासाद इति क्रियार्थःशब्दः । स्फुटतरो ह्य् अत्र पूर्वापरीभूतायाःक्रियायाः साध्य-रूपत्वम् । तत्राप्य् अर्थाद् अस्ति शब्दस्य भेद इत्य् आह—श्वेतः प्रासाद इति कारकार्थः शब्दः इति। अभिहितत्वाच् च कारक-विभक्तेर् अभावः ।
अर्थं विभजते—क्रिया-कारकात्मा तद्-अर्थः इति । तयोः शब्दयोर् अर्थः क्रियात्मा कारकात्मा च । प्रत्ययं विभजते—प्रत्ययश् चैति। च-शब्देन तद्-अर्थ इत्य् एतत्-पदम् अत्रानुकृष्यते । तद् अत्रान्य-पदार्थ-प्रधानं सम्बध्यते । स एव क्रिया-कारणात्मार्थो यस्य स तथोक्तः ।
नन्व् अभेदेन प्रतीतेः शब्दार्थ-प्रत्ययानां सङ्करात् कुतः प्रविभाग इत्य् आशयवान् पृच्छति—कस्मात् ?इति । उत्तरम् आह—सोऽयम् इत्य् अभिसम्बन्धाद् इति । सङ्केतोपाधिर् एवैकाकार-प्रत्ययो न तु तात्त्विक इत्य् अर्थः । सङ्केतस्य निमित्तता दर्शिता सङ्केत इतिसप्तम्या ।
परमार्थम् आह—यस् तु श्वेतोऽर्थ इति । अवस्था नव-पुराणत्वादयः । सह-गतः सङ्कीर्णः । एवं च प्रविभाग-संयमाद् योगिनः सर्वेषां भूतानांयानि रुतानि तत्राप्य् अव्यक्तं पदं तद्-अर्थः तत्-प्रत्ययश् च इति ।तदिह मनुष्य-वचन-वाच्य-प्रत्ययेषु कृतः संयमः समान-जातीयतया तेष्यापि कृत एवेति तेषां रूतं तद्-अर्थ-भेदं तत्-प्रत्ययं च योगी जानातीति सिद्धम्॥१७॥
योग-वार्तिकम् :संयमान्तरस्य सिद्ध्य्-अन्तरम् आह—शब्दार्थ-प्रत्ययानाम् इतरेतराध्यासात् संस्करः, तत्-प्रविभाग-संयमात् सर्व-भूत-रुत-ज्ञानम् ॥१७॥ गौर् इत्यादि-शब्दः । गौर् इत्यादिर् अर्थः । गौर् इत्यादि प्रत्ययः । तेषां वक्ष्यमाणं सङ्केत-रूपाद् अध्यासात् सङ्करो विवेकाग्रहणं भवति । वस्तुतस् तु तेषां भेदोऽस्ति । अतस् तेषां प्रविभागे भेदे संयमात् साक्षात्-कृते सति सर्व-भूतानां रुतानि जायन्ते । अयं काकादिर् इमम् अर्थम् एवं प्रतीत्यानेन शब्देन कथयतीत्य् एवम् इत्य् अर्थः । यद्यपि साक्षात्कृते सतीति सूत्रे नास्ति, तथापि संस्कार-साक्षात्-करणाद् इत्य् उत्तर-सूत्रेण साक्षात्कार-पर्यन्तस्यैव संयमस्य सिद्धि-कथनात् सर्वत्र सूत्रे संयमस्यसाक्षात्कार-द्वारकत्वं व्याख्येयम् ।
अत एवभाष्य-कारोऽप्य् अनेक-सूत्रेषु दृग्-दर्शनार्थ-साक्षात्कार-पर्यन्ततां संयमस्यव्याख्यास्यति । त्रिविधैर् एव शब्दैर् अर्थ-प्रत्ययोस् तेषांशब्दानाम् अन्योन्यं च संकरं दर्शयितुं शब्दानाम् एवादौ त्रैविध्यं दर्शयति भाष्य-कारः—तत्र वागिति । तत्रशब्द-मध्ये वाग्-इन्द्रियं वर्णेष्व् एव प्रयोजनवत् शब्देषु मध्ये वाग्-इन्द्रिय-जन्यः शब्दो वर्ण एव, न तु शृङ्गादि-शब्दो नापि वाचकं पदम् इत्य् अर्थः । उर-आदिषूत्पद्यमानः शब्दो वर्णः—
अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा।
जिह्वा-मूलं च दनाश् च नासिकौष्ठौ च तालु च ॥इति स्मारणात्।
वाग्-इन्द्रियस्य च शरीराद् बहिर्-वृत्तिर् अस्ति । अतो न श्रोत्राग्राह्य-वक्ष्यमाण-शब्दो, नापि तद्-अनन्तरं श्रोतृ-बुद्धि-ग्राह्यो वाचक-शब्दो वाग्-इन्द्रिय-कार्यः, श्रोतृ-श्रोत्र-देशे वक्तृ-वाग्-इन्द्रियासम्बन्धेन श्रोत्र-ग्राह्य-शब्दोत्पादकत्वासम्भवाद् इति ।
वाग्-इन्द्रिय-जन्याच्छब्दाच्छब्दान्तरम् आह—श्रोत्रं चेति।
ध्वनिर् नाम वाग्-इन्द्रिय-शब्दादिष्व् अभिहतस्योदान-वायोः परिणाम-भेदः, येन परिणामेनोदान-वायुर् वक्तृ-देहाद् उत्थाय शब्द-धारां जनयन् श्रोतृ-श्रोत्रं प्राप्नोति । तस्य ध्वनेः परिणाम-भूतं वर्णावर्ण-साधारणं नादाख्यं शब्द-सामान्यम् एव श्रोत्रस्य विषयः, न तु ध्वन्य्-अपरिणाम-भूतं वाचकं पदम् इत्य् अर्थः । स च शब्दो वर्ण-जातीयत्वेन वर्ण इत्य् उच्यते ।
तृतीयं शब्दम् आह—पदं पुनर् नादानुसंहार-बुद्धि-निर्ग्राह्यमिति । यथा-प्रतीति-सिद्धान् नदाख्यान् ग-कारादि-वर्णान् प्रत्येकं पदम् इति गृहीत्वाऽनुपश्चाद् या बुद्धिः संहरतिएकत्वम् आपादयति, गौर् इत्य् एकं पदम् इति । तया बुद्ध्या निर्ग्राह्यः वर्णेभ्यो ऽतिरिक्तमखण्डम् एकदैवोत्पद्यमानं वक्ष्यमाणं स्फोटाख्यमिति शेषः । तथा चायं तृतीयः शब्दो ऽन्तःकरणस्यैव ग्राह्य इत्य् अर्थः । तस्य हि पदस्य श्रोत्र्-अग्राह्यत्वेऽनुसंहार-बुद्धेरन्तः-करण-निष्ठायाः वैयधिकरण्येन हेतुत्वं स्यात्, तच्चायुक्तं, सामानाधिकरण्यस्य प्रत्यासत्तितायां लाघवात् ।
न चानुसंहार-बुद्धिर् अपि श्रोत्रादेरेवास्त्व् इति वाच्यम्, असम्भवात् । वर्णानां ह्यैक्यापादनमानुपूर्व्यैक्यात् । सा चानुपूर्वी ग-कारोत्तरौ-कारादि-रूपिणी नानेक-वर्ण-पदेषु श्रोत्रेण ग्रहीतुं शक्यते, आशु-विनाशितया वर्णानां मेलनाभावात् पूर्व-पूर्व-वर्ण-संस्काराणां तत्-स्मृतीनां चान्तः-करण-निष्ठानामन्तः-करण-सहकारित्वमेवोचितम्, अतः स्मृतानां वर्णानां मनसैवानुपूर्वी ग्रहीतुं शक्यत इति भावः ।
ननु स्फोटाख्यः शब्दः कीदृशः, किं-करणकः, किं-प्रमाणक इति ?अत्रोच्यते—यथा बीजाङ्कुराद्य्-अनेकावस्थो वृक्ष-धर्मी क्रमिकाभ्यस्ताभ्योऽतिरिक्तः पल्लवादि-रूपाशेषावस्थया व्यज्यते, अयमाम्र-वृक्षो न वृक्षान्तरम् एवं-रूपेण, स च बीजादिभ्यो भिन्नाभिन्नः भेदाभेदयोरनुभवात्, तथैव ग-कारौ-काराद्य्-अनेकावस्थो गौरित्य्-आदिरखण्डः स्फोट-शब्दः क्रमिकाभ्यो ग-काराद्य्-अवस्थाभ्योऽतिरिक्त आनुपूर्वी-विशेष-विशिष्टया विसर्जनीयादि-रूप-चरमावस्थया व्यजयते, इदं गौर् इति पदं, न तु गौरैतीत्य्-आदि-रूपेण । तच् च स्फोट-पदं ग-कारादि-वर्णोक्तेभ्यो भिन्नाभिन्नं, भेदाभेदयोर् अनुभवात् ।
स च पदाख्यः शब्दोऽर्थ-स्फुटीकरणात्स्फोट इत्य् उच्यते । स्फोट-शब्दस्य च कारणम् एक-प्रयत्न-जन्यो ध्वनि-विशेषः, प्रयत्न-भेदेनोच्चारणे व्यवधाने सत्येक-पद-व्यवहाराभावात्, गौरित्येक-पदम् इति व्यवहारस् तु स्फोटे प्रमाणं, वर्णानामनेकत्वेन तैरेकत्व-व्यवहारस्याञ्जस्येनानुपपत्तेः । तथा प्रत्येक-वर्णादनुत्पद्यमानस्यार्थ-प्रत्ययस्य हेतुत्वं च स्फोटे प्रमाणम् । यदि चानुपूर्वी-विशिष्ट-समूहस्यैकत्वादेकत्व-व्यवहारः, तेनैव रूपेणार्थ-प्रत्यय-हेतुत्वं च स्वीक्रियते, तर्हि संयोग-विशेषावच्छिन्नावय-समूहाद् एवैकत्व-व्यवहार-जलाद्य्-आहरणयोर् उपपत्त्या घटाद्य्-अवयवि-मात्रोच्छेद-प्रसङ्गः, युक्ति-साम्यात् ।
नन्वेवं युक्ति-साम्याद्वाक्यम् अपि स्फोट-रूपम् एकैकं स्याद् इति चेद्? बाधकाभावे सतीष्टत्वाद् इति दिक् ।भाष्य-कारस् तु संक्षेपतो वर्णानां पदत्वं निराकरोति—वर्णा एकाइति । अनेक-वर्णा एक-समय-स्थित्य्-अनर्हत्वात् परस्परं निरनुग्रहात्मानः, असम्बद्ध-स्वभावाः ।तस्ते पदमसंस्पृश्य पदत्वमप्राप्य, अत एवार्थमनुपस्थाप्याविर्भूयैव क्षणात्तिरोभूताश्चेति कृत्वा प्रत्येकमपद-स्वरूपाविवेकिभिर् उच्यन्त इत्य् अर्थः । अत्र स्वरूप-ग्रहणादवस्थाऽवस्थावतोरभेदेन वर्णानां पदत्वं न निराकृतम् ।
ननु यदि वर्णाः पद-स्वरूपा न भवन्ति, तर्हि कथमियन्तो वर्णाः क्रम-विशेषावच्छिन्ना अस्यार्थस्य वाचका इति लोकैः संकेत्यन्त इत्याशङ्कां परिहरति—वर्णः पुनर् इत्यादिना,संकेत्य्-अन्त इति पर्यन्तेनेत्य् एक-वाक्येन । अयम् अर्थः—यद्यपि वर्णाः पदाद् भिन्नास् तथाप्य् आवस्थाऽवस्थावतोर् अभेदस्यापि सत्त्वाद् एकैकोऽपि वर्णः पदात्मा पदाभिन्नो भवति, बीजाङ्कुरादिर् इव वृक्षाभिन्नः । अत एव पद-रूपेण सर्व-पदार्थाभिधान-योग्यता-सम्पन्नः ।
अत्र हेतुम् आह—सहकारीति। पद-भावे सहकारीणि यानि वर्णान्तराणि तत्-प्रतियोगित्वात् तत्-सम्बन्धित्वाद् अनन्त-पद-रूपताम् इवापन्नो भवति । इव-शब्दोऽत्र वैश्वरूप्य-योग्यता-मात्र-प्रतिपादनार्थः ।
वैश्वरूप्य-प्रकारम् आह—पूर्वो ग-कारौत्तरेणौर् इति वर्ण-द्वयेन गण इत्यादि-पदात् व्यावर्त्यते, उत्तरश् च विसर्जनीयः पूर्वेणगौर् इतिवर्ण-द्वयेन गौर इत्यादि-पदेभ्योव्यावर्त्य विशेषे गौर् इति स्फोट-पदेऽखण्डे तादात्म्येनावस्थापितो भवति, इति हेतोर् एवं-रूपा बहवोवर्णाः क्रमानुरोधिन आनुपूर्वी-विशेष-सापेक्षाः पदाभेदतोऽर्थ-संकेतेनावच्छिन्ना नियमिता भूत्वा सर्वाभिधान-समर्था अपि इयन्त एतावत्-संख्यका एते ग-कारादयो गामेवोपस्थापयन्ति इत्य् अतस् तु तेन प्रकारेण वर्ण-मुखेन तत्-पदम् एवाविवेकतः संकेत्यत इत्य् अन्वयः ।
तत्र हेतुर्—वाच्यस्य वाचकमिति । पदम् एव हि वाच्यस्य वाचकम् उपस्थापकम् । अन्यस्यान्य-रूपेण संकेते हेतुरेतेषामित्य्-आदिनिर्भास इत्यन्तम् । यः पदाख्यो बुद्धि-मात्र-ग्राह्यः स्फुट एतेषां वर्णानाम् अर्थ-संकेतेनावच्छिन्नानां तथा समाप्तो ध्वनि-जन्यः क्रम आनुपूर्वी विशेषज्ञो येषां तादृष-ज्ञानाम् एकोऽभिन्न इति पदस्य स्वरूपाख्यानम्, समाप्तोवाक्यार्थः ।
अयं भावः—यथा संयुक्तं कपालद्वयं जलाहरणहेतुरित्यविवेकतो बालकेभ्य उपदिश्यते पटादिभ्यो घटस्य व्यावर्तकान्तरा सम्भवात् ततश् च बालकः कपालाविवेकेन घटस्यैव जलाहरण-हेतुत्वं गृह्णाति, एवम् एव स्फोटान्तर-व्यावर्तनाय वर्णाविवेकेनैव स्फोटे संकेतोपदेशः संकेत-ग्रहश् च भवतीति न वर्णेषु संकेतताऽनुपपत्तिर् इति ।
त्रिविधं शब्दं प्रदर्श्येदानीं तेषां मध्यात्संकेत-कारणं प्रतिपादयति—तदेकमिति।प्रतीयत इत्यनेनान्वयः। अयम् अर्थः—यद्यपि तत्पदं स्फोटाख्यम् एकम् एव, न तु वर्णवदनेकम्, एकत्वे प्रमाणमेक-बुद्धि-विषयम् इति । तथा वक्तुरेकेनैव प्रयत्नेन ध्वन्यादि-द्वारोत्पादितं वर्णास् तु प्रयत्न-भेदेनाप्युत्पद्यन्ते॑ तथाऽभागं निरंशं, वर्ण-व्यूहस् तु वनवत् सांशः॑ तथाऽक्रमम् एकदैवोत्पद्यमानं, न तु वर्णवत् क्रमेण, अत एभिर्हेतुभिर्वर्ण-भिन्नम्। किं च, बौद्धं बुद्धि-मात्रग्राह्यं तथाऽन्त्य-वर्णस्य प्रत्यय-रूप-व्यापारेणाभिव्यक्तं, वर्णास् तु नैवं । तथापि पर-प्रतिपिपादयिषया वक्तृभिर् अभिधीयमानैः श्रोतृभिश् च श्रूयमाणैर्वर्णैर् एवं-रूपैःसिद्धवत्परमार्थवदन्योन्य-सम्प्रतिपत्त्या संवादेन प्रतीयते व्यवह्रियते, न तु वर्णेभ्योऽन्योयेन रूपेण । तत्र हेतुर्—अनादि-वाग्-व्यवहार-वासना-वशी-कृतयालौकिक-बुद्ध्याइति । अत्र अभिधीयमानैरित्यनेन वाग्-इन्द्रिय-विषय-वर्णाविवेकः पदस्येति,श्रूयमाणैरित्यनेनश्रोत्र-विषय-शब्दाविवेकः पदस्येति बोध्यम् ॥
तद् एवं त्रिविध-शब्दानामन्योन्याध्यासात्सङ्करो दर्शितः । इदानीं त्रिविध-शब्देनार्थ-प्रत्यययोरध्यासं प्रतिपादयितुं शाब्द-व्यवहारस्य संकेत-ग्रह-मूलकत्वम् आह—तस्यैति । तस्य पदस्य प्रविभागो विषय-व्यवस्था संकेत-ग्रहाद् एव भवति । प्रविभागम् एवाह—एतावतामिति। एतावतां वर्णानाम् एवं-जातीयकएवम् आनुपूर्वीकोऽनुसंहारो मिलनमेतस्यार्थस्यवाचक उपस्थापक इत्य् एवं-रूपो विभाग इत्य् अर्थः । एकस्यार्थस्येति पाठेऽर्थ-विशेषस्येत्य् अर्थः ।
५संकेत-शब्दार्थम् आह—संकेतस्त्विति ।ध्यासःसंकेत-कर्तुराहार्यारोपः, आरोपिताभेद इति यावत् । तस्यैव च ज्ञानं पदार्थोपस्थापकं । तत्राधुनिकनाम् आदि-कल्पना-व्यावर्तनाय स्मृत्य्-आत्मक इति। विषय-विषयिणोरभेदात् पाणिन्य्-आदि-स्मृत इत्य् अर्थः ।
न च कल्पिताभेदस्यासतः कथं संकेतत्वम् इति वाच्यम् । असत्-ख्यात्य्-अनभ्युपगमेनान्यत्र सत एवाभेदस्यान्यत्र कल्पनाद् इति । अध्यासस्य संकेतत्वे प्रमाणम् आह—योऽयं शब्द इत्यादिना, भवतिइत्य् अन्तेन ।ोमित्येकाक्षरं ब्रह्म[गीता ८.९] इत्यादि-शास्त्रेषु । कम्बु-ग्रीवादिमान् घटैत्य्-आदिर्लोके च पद-पदार्थयोरभेदारोप एव संकेतो दृश्यत इत्य् अर्थः । ओमित्य्-आदि-शब्द-वाच्यत्व-लक्षणायां प्रमाणाभावाद् इति । अत एव कोशेषुअमरा निर्जरा देवा इत्यादिना शब्दार्थयोरारोप्यामाणाभेद एव संकेतो दृश्यत इति । अतः एवैतैनानाद्य्-अभेदारोपेणागमिनो मन्त्रार्थयोर् अभेदोपासनामुपदिशन्ति । मीमांसाकाश् च मन्त्रमयीं देवताम् आहुः । या त्व् अस्माच् छब्दाद् अयमर्थो बोद्धव्यैतीश्वरेच्छा-विषयत्वं शक्तिर् इति तन्त्रान्तरे लक्षिता, साऽप्रामाणिकी लक्षणाऽदि-साधारणी च । अपिच, ईश्वरम् अजानतोऽपि शब्दार्थ-प्रत्ययो दृश्यते, तथा पद-पदार्थयोरभेदेन संकेतोऽपि न युज्येतेत्य्-आदि-दोषो बोध्यः ।
इदानीमुक्त-संकेत-बुद्धि-निमित्तकस् त्रयाणां संकेत इत्य् आह—एवम् एत इति। एवं संकेत-बुद्धेः कारणाद् एते त्रिविधाः शब्दा अर्थ-प्रत्ययौच सङ्कीर्णावविविक्तौ च । तत्र संकेत-ग्रह एव शब्दार्थयोरितरेतराध्यासः, शब्दार्थयोस् तु प्रत्ययेन सहैकाकारत्वादन्योऽध्यासः प्रसिद्ध एवेति भावः । संकराकारम् आह—गौर् इति।यैति ।स एव शब्दादीनां तत्त्वज्ञो नान्य इत्य् अर्थः ॥
६वर्ण-ध्वनि-पदानाम् अन्योन्य-संकरवद् इदानीं पद-वाक्ययोस् तद्-अर्थयोश् च सङ्करेणापि शब्दार्थ-प्रत्ययानां सङ्करं दर्शयति—सर्व-पदेष्विति । वाक्य-शक्तिः पदार्थान्तर-सहकारेण वाक्य-भवन-शक्तिः । तथा च वृक्ष इत्यादि-पदानां, वृक्षोऽस्ति, वृक्षश् चलति, वृक्षश् छिद्यत इत्यादि-वाक्यैः सङ्करोऽविवेक इति भावः ।
पदेषु वाक्य-शक्तिम् उदाहरति—वृक्ष इत्य् उक्तैति । वृक्ष इत्य् उक्ते सत्य् आकाङ्क्षा-पूरणार्थं योग्यताऽ’दि-वशाद् अस्तीति शब्दो गम्यतेऽध्याह्रियत इत्य् अर्थः । तथा च पदे वाक्य-संकर इति भावः ।
ननु शब्दाध्याहारो न सम्भवति एकस्मिन्न् एवार्थे शब्दानाम् आनन्त्यात् शब्द-विशेषानुमापक-लिङ्गाद्य्-अनुपस्थितेर् इति चेत्? न, स्वेच्छया स्वयं कल्पितेन केनाप्याकाङ्क्षा-पूरक-शब्देन वक्तृ-तात्पर्य-विषयार्थ-बोध-सम्भवात् ।
अर्थ-विशेषानुमाने तु योग्यताऽऽकाङ्क्षा-तात्पर्यादिकम् एवलिङ्गमस्ति, एतद् एवाह—न सत्ताम् इति। योग्यता-प्रदर्शनेनाकाङ्क्षा-तात्पर्यादयोऽप्युपलक्षिताः, केवल-योग्यताया अर्थान्तर-साधारण्याद् इति ।ुदाहरणान्तरम् आह—तथा न हीति ।ाक्षेपोऽनुमानम् ।
नन्व् एवं कारक-वाचक-पदानां कुत्रापि प्रयोगो न स्याद् इत्य् अत्राह—नियमार्थैति । योग्यताऽऽदिभिः सर्वत्रार्थ-विशेषानुमानं न सम्भवति, अतः कारकाणां सामान्यतोऽनुमितानाम् अपिनियमार्थः कारकान्तर-व्यावृत्त्य्-अर्थश् “चैत्रोऽग्निना भर्जनम्” इत्यादि-पदैश्च-त्राग्नि-भर्जनानां कर्तृ-करण-कर्मणामनुवाद इत्य् अर्थः ।
इदानीमध्याहारं विनाऽपि पद-वाक्ययोः सङ्करम् अर्थाभेद-निमित्तकं दर्शयति—दृष्टं चैति ।छन्दोऽधीतैतिवाक्यस्यार्थे श्रोत्रियैति पदस्य॑ तथा प्राणान्धारयतिइति वाक्यस्यार्थे जीवतीति-पदस्य च वचनाम् इत्य् अर्थः—
जन्मना ब्राह्मणो ज्ञेयः संस्काराद् द्विज उच्यते ।
विद्यया याति विप्रत्वं त्रिभिः श्रोत्रिय उच्यते ॥[अत्रि-सं. १४०] इति स्मृतेः ।
जीव बल-प्राण-धारणयोर् इत्य् अनुशासनाच् चेति ।
ननु यदि वाक्यार्थ-प्रतिपत्तिः पदाद् अपि भवति, तर्हि गुरुतरस्य छन्दोऽधीत इति वाक्यस्य वचनं कदापि न स्याद् इत्य् आशङ्कायां आह—तत्र वाक्यैति । अत एव पद-वाक्ययोः साङ्कर्यां संशय-स्थले पदं वाक्येन विवरणीयम् इति । प्रसङ्गादाह—ततैति । यतो वाक्यार्थेऽपि पद-रचना भवति, अतः संदेह-स्थले पदमंश-भेदैर्वाक्येन विवरणीयम् इत्य् अर्थः ।
अव्याकरणेऽर्थाप्रत्ययाद्वाक्य-व्यवहरणम् एवव्यर्थं स्याद् इत्य् आह—अन्यथाइति । भवतीति प्रयुक्ते नामाख्यातयोःसारूप्याद् “भवति घटो" "भवति भिक्षां देहि” इत्यर्थ-द्वय-संदेहेऽनवधारितं पदं कथंकिम्-अर्थं क्रियायां कारके वा व्याक्रियेत श्रोतुरर्थ-प्रत्ययासंभवात् ।ेवम् अश्वैति प्रयुक्त गतिमकार्षीर् घोटको वेतिसंशयो नामाख्यात-सारूप्यात् । तथाऽजापय इति प्रयुक्ते “छाग्याः पयः”“शत्रून् पराभावितवान्वेत्यर्थ-संशयो नामाख्यात-सारूप्याद् इत्य् अर्थः।
७तद् एवं शब्दार्थ-प्रत्ययानां किं-करं प्रदर्श्येदानीं प्रविभागं दर्शयति—तेषामित्य्-आदिना।
तत्रादौ शब्द-भेदेऽप्य् अर्थ-प्रत्यययोरभेदेन शब्दार्थयोर्भेदं दर्शयति—श्वेतत इत्यादिना, प्रत्ययश्च इत्य्-अन्तेन । क्रिया साध्य-रूपोऽर्थो यस्य स क्रियाऽर्थः, श्वेतत इति शब्दः । तथा कारकः सिद्ध-रूपोऽर्थोयस्य सकारकार्थः,श्वेत इतिशब्दः । एतौ शब्दौ भिन्नौ, एतयोरर्थस् तु क्रिया-कारक-रूप एक एव श्वेत-गुण-मात्रः । एवं प्रत्ययोऽपि ।
क्रिया-कारकात्मक-गुणाकारत्वे प्रमाणं पृच्छति—कस्माद् इति । उत्तरम्—सोऽयमित्यभिसम्बन्धाद् इति। श्वेतनं या क्रिया सोऽयंश्वेत-रूपः कारको गुणो यश् च श्वेतत इत्यस्मात् श्वेताकार-प्रत्ययः सोऽयं श्वेत इत्यस्मादपि श्वेताकारः । प्रत्यय इत्यभेद-प्रत्यभिज्ञानाद् इत्य् अर्थः । कथं तर्ह्यभेदेन शब्दार्थयोः संकेत इति? तत्राह—एकाकारैति । एकाकार आरोप-रूपःप्रत्यय एव संकेत आरोपिताभेद एव संकेतो, न तु पारमार्थिकाभेद-रूप इत्य् अर्थः ।
ननु शब्दार्थयोरभेद-प्रत्ययेन प्रतयभिज्ञैव कथं न बाध्यते? तत्राह—यस्त्व् इति । यस् तु श्वेतोऽर्थःशब्द-प्रत्यययोर्विषयत्वात् स्वाभिः शब्दादि-व्यावृत्ताभिरवस्थाभिर्नव-पुराणादिभिर्विक्रियमाणत्वाच् च न शब्द-प्रत्यययोः सह-गतो न कालतः सह-चरो वैयधिकरण्याद् इत्य् अर्थः । एवं देशतो न सहचरो यतः शब्दाकाशे प्रत्ययो बुद्धावर्थस् तु श्वेत-गुणादिः प्रासादादिष्व् इति भावः ।
एवम् इति।ेवं-शब्दोऽपि स्वावस्थाभिः विक्रियमाणो नाप्य् अर्थ-बुद्ध्योः सहचरः, एवं प्रत्ययोऽपीत्य् अर्थः । उपसंहरति—इत्यन्यथेति ।
सूत्रार्थमुपसंहरति—एवं तत्-प्रविभागेति । एवं मनुष्य-विषये शब्दार्थ-प्रत्ययेषु प्रविभाग-संयमात् साक्षात्कार-पर्यन्तात्सर्व-भूतानां रूतं तद्-अर्थ-प्रत्ययं च योगी जानाति योगज-धर्मस्याचिन्त्य-शक्तित्वाद् धर्माणां स्व-सदृश-फल-दानस्य उत्सर्गिकत्वाच्चेत्यर्थः । अस्मद्-आदीनां च शब्दार्थ-प्रत्यय-भेद-साक्षात्कारे सत्यपि तस्य साक्षात्कारस्य संयमाजन्यत्वान् न सर्व-भूत-रुत-ज्ञानं भवति, संयमस्यैव हीयं सिद्धिर् इति ।ेवम् उत्तर-सूत्रेष्वपि यथा-स्थलमिदम् एव समाधानम्॥१७॥
—o)0(o—
(३.१८)
संस्कार-साक्षत्-करणात् पूर्व-जाति-ज्ञानम् ॥१८॥
द्वये खल्व् अमी संस्काराः स्मृति-क्लेश-हेतवो वासना-रूपाः विपाक-हेतवो धर्माधर्म-रूपाः । ते पूर्व-भवाभिसंस्कृताः परिणाम-चेष्टा-निरोध-शक्ति-जीवन-धर्मवद् अपरिदृष्टाश् चित्त-धर्माः । तेषु संयमः संस्कार-साक्षत्-क्रियायै समर्थः । न च देश-काल-निमित्तानुभवैर् विना तेषाम् अस्तिसाक्षात्-करणम् । तद् इत्थं संस्कार-साक्षत्-करणात् पूर्व-जाति-ज्ञानम् उत्पद्यतेयोगिनः । परत्राप्य् एवम् एव संस्कार-साक्षात्-करणात् पर-जाति-संवेदनम् ।
अत्रेदम् आख्यानं श्रूयते—भगवतो जैगीषव्यस्य संस्कार-साक्षात्-करणात् दशसु महा-सर्गेषु जन्म-परिणाम-क्रमम् अनुपश्यतो विवेकजं ज्ञानं प्रादुरभवत् । अथ भगवान् आवट्यस् तनु-धरस् तम् उवाच—दशसु महा-सर्गेषु भव्यत्वाद् अनभिभूत-बुद्धि-सत्त्वेन त्वया नरक-तिर्यग्-गर्भ-सम्भवं दुःखं सम्पश्यता देव-मनुष्येषु पुनः पुनर् उत्पद्यमानेन सुख-दुःखयोः किम् अधिकम् उपलब्धम् ?इति ।
भगवन्तम् आवट्यं जैगीषव्य उवाच—दशसु महा-सर्गेषु भव्यत्वाद् अनभिभूत-बुद्धि-सत्त्वेन मया नरक-तिर्यग्-भवं दुःखं सम्पश्यता देव-मनुष्येषु पुनः पुनर् उत्पद्यमानेन यत् किञ्चिद् अनुभूतं तत् सर्वंदुःखम् एव प्रत्यवैमि ।
भगवान् आवट्य उवाच—यद् इदम् आयुष्मतः प्रधान-वशित्वम् अनुत्तमं च सन्तोष-सुखं किम् इदम् अपि दुःख-पक्षे निक्षिप्तम् ? इति ।
भगवान् जैगीषव्य उवाच—विषय-सुखापेक्षयैवेदम् अनुत्तमं सन्तोष-सुखम् उक्तं कैवल्यापेक्षया दुःखम् एव । बुद्धि-सत्त्वस्यायं धर्मस् त्रिगुणः । त्रिगुणश् च प्रत्ययो हेय-पक्षे न्यस्तैति । दुःख-रूपस् तृष्णा-तन्तुः । तृष्णा-दुःख-सन्तानापगमात् तु प्रसन्नम् अबाधं सर्वानुकूलं सुखम् इदम् उक्तम् इति॥१८॥
तत्त्व-वैशारदी : संस्कार-साक्षत्-करणात् पूर्व-जाति-ज्ञानम् ॥ज्ञानजा हि संस्कारः स्मृतेर् हेतवः । अविद्यादि-संस्कारा अविद्यादीनां क्लेशानां हेतवः । विपाक-हेतवो विपाकोजात्य्-आयुर्-भोग-रूपः । तस्य हेतवो धर्माधर्म-रूपाः पूर्वेषु भवेष्वभिसंस्कृतानिष्पादिताः स्व-कारणैः यथा « संस्कृतं व्यञ्जनं », कृतम् इति गम्यते । परिणाम-चेष्टा-निरोध-शक्ति-जीवनान्येव धर्माश्चित्तस्य, तद्वदपरिदृष्टाश् चित्त-धर्माः । तेषु श्रुतेष्वनुमितेषु स-परिकरेषु संयमः संस्काराणां द्वयेषां साक्षात्क्रियायै समर्थः ।
अस्तु तत्र संयमात्तत्-साक्षात्कारः पूर्व-जाति-साक्षात्-कारस्तु? इत्यत आह—न च देश इति । निमित्तम्पूर्व-शरीरम् इन्द्रियादि च, सानुबन्ध-संस्कार-साक्षात्कार एव नान्तरीयक तया जात्य्-आदि-साक्षात्कारमाक्षिपतीत्य् अर्थः ।स्व-संसकार-संयमं परकीयेष्वतिदिशति-परत्राप्येवमिति । अत्र श्रद्धोत्पादे हेतुम् अनुभवत आवट्यस्य जैगीषव्येण संवादमुपन्यस्यति—अत्रेदमाख्यानं श्रूयते इति ।महा-कल्पःमहा-सर्गः ।तनुधरैति निर्माण-काय-सम्पदुक्ता, भव्यः शोभनो, विगलित-रजस्-तमो-मल इत्य् अर्थः, प्रधान-वशित्वमैश्वर्यं, तेन हि प्रधानं विक्षोभ्य यस्मै यादृशीं कायेन्द्रिय-सम्पदं दित्सति तस्मै तादृशीं दत्ते, स्वकीयानि च कायेन्द्रियाणि सहस्राणि निर्मायान्तरिक्षे दिवि भुवि च यथेच्छं विहरतीति सन्तोषो हि तृष्णा-क्षयो बुद्धि-सत्त्वस्य प्रशान्तता धर्मः ॥१८॥
योग-वार्तिकम् :संस्कार-साक्षात्करणात् पूर्व-जातीनम् ॥संस्कार-संयमेनेति सूत्रस्यादौ पूरणीयं संयम-सिद्धि-प्रकरणत्वात् ।त्र ज्ञान-संस्कारवद्वाग्-आदि-वासनाधर्माधार्मापि ग्राह्या इत्य् आह—द्वयैति । अमी सूत्रोक्ताः ।स्मृतिर् ज्ञान-विशेषः । क्लेशोऽत्र रागादिर् एव । अविद्यास्मितयोः स्मृति-मध्य-प्रवेशात् । न चाविद्यात एव रागादि-सम्भवे तत्-संस्कारे प्रेमणं नास्तीति वाच्यं, अविद्या-साम्येऽपिकस्यचिद्दुग्ध एव प्रीतिर्न दध्नि,कस्यचिद्वैपरीत्यमित्यत्र वासनां विना नियाम-कान्तराभावेन तत्-सिद्धेः ।
तेषां दृष्टान्तेनाप्रत्यक्षत्वमनात्म-धर्मत्वं चाह—तैति । अभिसंस्कृताउपचिताः परिणामादि-जीवनान्त-चित्त-धर्मवन्न साक्षि-भास्याः ।चित्त-धर्माश्चानात्म-धर्मा इत्यर्थः ।ेतेन धर्मादयः प्रलयेऽपि चित्त एव तिष्ठन्ति, तेन चित्तं बीज-रूपेण नित्यमित्यायातम् ।
संस्कार-साक्षात्कार-कारणतया संयमं व्याचष्टे—तेषु संयम इति । नन्वज्ञाते संस्कारे संयमो न घटते, ज्ञाते च व्यर्थैति चेद्? न, शब्दानुमानाभ्यां सामान्यतो ज्ञाते विशेष-ज्ञान-फलकस्य संयम्य सम्भवात् ।
संसकार-साक्षात्कारे जायमाने पूर्व-जन्म-ज्ञानं भवतीत्यत्र युक्तिम् अप्याह—न च इत्यादिना, सक्षात्करणमित्यन्तेन ।देशो जन्म-भूमिर्नगरादिः, कालो युगादिः, निमित्तंमाता-पित्र्-आदिः, एतेषां संस्कार-विषयतया तद्-अनुभवैर्विना तान्यविषयीकृत्य संस्काराणां साक्षात्कारो न सम्भवति, स-विषयक-गुण-ग्रहणस्य विषयोपरागेणैव ज्ञानेच्छादि-स्थले दृष्टत्वात् । अतः संस्कार-साक्षात्कारे पूर्व-जन्मनां देश-काल-निमित्तादि-रूपाशेष-विषिष्टानाम् अपिसाक्षात्कारो भवति, विषय-विधयेत्य् अर्थः ।
सूत्रार्थं व्याचष्टे—तद् इत्थम् इति । न केवलं संस्कार-साक्षात्कारात् पूर्व-जाति-ज्ञानम् एव, अपितुभावि-जन्म-ज्ञानमपीति । स्वयं पूरयति—परत्रापीति । भावि-जन्म-संस्काराणामनागतावस्थानां साक्षात्काराद् इतिशेषः ।
संस्कार-साक्षात्करणात्पूर्वादि-जन्मन्यशेष-विशेषैर्ज्ञायन्त इत्यत्र प्रमाणतया जैगीषव्यावट्ययोः संवादम् आह—अत्रेदमाख्यानमिति। अत्र पूर्व-जाति-ज्ञान-विषये महा-सर्गेषु प्राकृत-सर्गेषु जन्म-क्रमं बाल्य-यौवन-वार्धक्यादि-रूपं तत्-परिणाम-क्रमं च साक्षात्-कुर्वतो जैगीषव्यस्य तारकं सर्व-विषयकमित्यागामि-सूत्र-लक्षणीयंविवेकजं ज्ञानमुदभूत् ।थानन्तरं तमाह्वट्य-नामा योगी लिङ्ग-शरीर-मात्र-विहारी परीक्षार्थं तनु-धरो निर्माण-कायं धृत्वा पप्रच्छेत्य् अर्थः ।
भव्यत्वात् कुशलत्वादनभिभूत-वृत्ति-सत्त्वेनेत्यस्याधिकं किमुपलब्धमित्यनेनान्वयः ।यथा-श्रुते भव्यत्वाख्य-जीवन्मुक्त्य्-अनन्तरम् आकाशादि-गमनासम्भवादिति।सम्पश्यताउपभुञ्जानेन देवता-मनुष्येषु जायमानेनेत्यनेन चतत्रत्य-सुखमुपभुञ्जानेनेत्युपलक्षितम् ।सुख-दुःखयोर्मध्ये संसारे किं बहुलमिति पृष्टः स दुःख-बहुत्व-प्रतिपादनाय सर्वम् एवदुःखमित्य् आह—दशस्विति ।नुभूतं सुखमिति शेषः । सुखस्यापि दुःखत्वं गुण-वृत्त्य्-अविरोधाच् चेत्य् अनेनोक्तम्। प्रधान-वशित्वं स्वेच्छया प्रकृति-नियोक्तृत्वं तत्-कार्यत्वात् तद्-रूपम् ऐश्वर्य-सुखं तथा सन्तोष-सुकं सन्तोषोत्थं स्वाभाविकं सुखंप्रधान-वशित्वेन हि काम-समाप्त्या विषयेष्व् अलम्-प्रत्यय-रूपं वैतृष्णाख्यं सन्तोषम् उत्पाद्य चित्तस्य स्वाभाविकं सुखम् अभिव्यज्यत इति ।
कैवल्यापेक्षया दुःखम् उपपादयति—बुद्धि-सत्त्वस्यैति । बुद्धि-सत्त्वस्यायं धर्मः सन्तोषाख्योऽलं-प्रत्ययः त्रिगुणः सुखादि-गुण-त्रयवान् सुखादि-गुणवांश् च प्रत्ययो बुद्धि-परिणामो हेय-पक्षे दुःख-पक्षे न्यस्तो मधु-विष-सम्पृक्तान्नवद् इत्य् अर्थः । कैवल्यस्य च सुखत्वम् आत्यन्तिक-दुःख-निवृत्ति-रूपतयोक्तम् । सुखं दुःख-सुखात्यय इति मोक्ष-शास्त्रे परिभाषणात् । निरुपाधि-प्रियत्वस्यैव सुखत्वाच् चेति । यथा वात्र कैवल्ये सुख-शब्दो दुःख-निवृत्त्य्-आदि-परतया निर्णीतः । एवं श्रुति-स्मृत्योर् अपि निर्णयः । सर्व-शास्त्रेष्व् एक-रूप-व्यवहारौचित्याद् इति ।
नन्व् एवं कथं सन्तोष-सुखस्यानुत्तमत्वं श्रुति-स्मृत्य्-उक्तम् उपपद्येत ? तत्राह—दुःख-रूप इति । दुःख-साधनतया दुःख-रूपस् तृष्णाख्यस् तन्तुर् बन्धक-रज्जु-हेतुस् ततो दृष्टोऽर्थो बन्ध-रूपो यः सम्यक्तयोद्वेजकस् तस्यापगमात् प्रसन्नं वैषयिक-दुःखाकलुषितम् । अबाधम् अक्षयं यावद् बुद्धि-स्थायि सर्वेषाम् एवानुकूलं प्रियम् इदं सन्तोषोत्थं प्रधान-वशित्व-मूलकं सुखम् उक्तं शास्त्रेष्व् इत्य् अर्थः ॥१८॥
—o)0(o—
(३.१९)
प्रत्ययस्य पर-चित्त-ज्ञानम् ॥
प्रत्यये संयमात् प्रत्ययस्य साक्षात्-करणात् ततः पर-चित्त-ज्ञानम् ॥१९॥
तत्त्व-वैशारदी : प्रत्ययस्य पर-चित्त-ज्ञानम् ॥ पर-प्रत्ययस्य चित्त-मात्रस्य साक्षात्-करणादिति ॥१९॥
योग-वार्तिकम् :प्रत्ययस्य पर-चित्त-ज्ञानम् ॥ व्याचष्टे—प्रत्ययैति । प्रत्ययस्य रागादिमत्याः स्वकीय-चित्त-वृत्तेः संयमेनाश्रयादि-रूपैर् अशेष-विशेषैःसाक्षात्-करणात् तत् तस्माच् चित्तात् परस्य भिन्नस्य चित्तान्तरस्याप्य् अशेष-विशेषतो ज्ञानं सङ्कल्प-मात्रेणैव भवतीत्य् अर्थः ॥१९॥
—o)0(o—
(३.२०)
न च तत् सालम्बनं, तस्याविषयीभूतत्वात् ॥२०॥
रक्तं प्रत्ययं जानात्य् अमुष्मिन्न् आलम्बने रक्तमिति न जानाति । पर-प्रत्ययस्य यद् आलम्बनं, तद् योगि-चित्तेन नालम्बनीकृतम् । पर-प्रत्यय-मात्रं तु योगि-चित्तस्य आलम्बनी-भूतमिति॥२०॥
तत्त्व-वैशारदी : यथा संस्कार-साक्षात्कारस्तद्-अनुबन्ध-पूर्व-जन्म-साक्षात्कारमाक्षिपत्येवं पर-चित्त-साक्षात्कारोऽपि तद्-आलम्बना-साक्षात्कारमाक्षिपेद् इति प्रापत आह—न च तत्सालम्बनं, तस्याविषयीभूतत्वात् ॥ सानुबन्ध-संस्कार-विषयोऽसौ संयमः । अयं तु पर-चित्त-मात्र-विषय इत्यभिप्रायः॥२०॥
योग-वार्तिकम् :ननुयथा संस्कार-साक्षात्कारस्तद्-विषय-देशादिकम् अपि साक्षात्क्रियते न वेति जिज्ञासायाम् आह—न च तत्सालम्बनं तस्याविषयीभूतत्वात् ॥तत् पर-चित्त-ज्ञानं सालम्बनं न नियमेन भवति, तस्य पर-चित्तालम्बनस्य संयम-विषयेण स्व-चित्तेनाविषयीकरणाद् इत्य् अर्थः । तत्-प्रतिपादक-शास्त्राभावाच् चेत्य् अपि द्रष्टव्यम् । न च तत् सालम्बनम् इत्य् उक्तं विवृणोति—रक्तमिति । तस्मात् पर-प्रत्यय-मात्रं योगि-चित्तस्यालम्बनी-भूतं, न तु पर-चित्तस्यालम्बनम् अपीति तु-शब्दार्थः॥२०॥
—o)0(o—
(३.२१)
काय-रूप-संयमात् तद्-ग्राह्य-शक्ति-स्तम्भे चक्षुः-प्रकाशासंप्रयोगेऽन्तर्धानम् ॥२१॥
कायस्य रूपे संयमाद् रूपस्य या ग्राह्या शक्तिस् तां प्रतिबध्नाति । ग्राह्य-शक्ति-स्तम्भे सति चक्षुः-प्रकाशासंप्रयोगेऽन्तर्धानम् इत्य् उत्पद्यते योगिनः । एतेनशब्दाद्य्-अन्तर्धानम् उक्तं वेदितव्यम् ॥२१॥
तत्त्व-वैशारदी : काय-रूप-संयमात् इत्यादि ॥ पञ्चात्मकः कायः । स च रूपवत्तया चाक्षुषो भवति । रूपेण हि कायश् च तद्-रूपं च चक्षुर्-ग्रहण-कर्म-शक्तिमनुभवति । तत्रयदा रूपे संयम-विशेषे योगिना क्रियते, तदा रूपस्य ग्राह्य-शक्तिः रूपवत्-काय-प्रत्यक्षता-हेतुः स्तभ्यते। तस्माद् ग्राह्य-शक्ति-स्तम्भे सत्य् अन्तर्धानं योगिनः । ततः परकीय-चक्षुर्-जनितेन प्रकाशेनज्ञानेनासम्प्रयोगः, चक्षुर्-ज्ञानाविषयत्वं योगिनः कायस्येति यावत् । तस्मिन् कर्तव्येऽन्तर्-धानं कारणम् इत्य् अर्थः । एतेनैति । काय-शब्द-स्पर्श-रस-गन्ध-संयमात् तद्-ग्राह्य-शक्ति-स्तम्भे श्रोत्र-त्वग्-रसना-घ्राण-प्रकाशासम्प्रयोगे तद्-अन्तर्धानम् इति सूत्रमूहनीयम्॥२१॥
योग-वार्तिकम् :काय-रूप-संयमात् तद्-ग्राह्य-शक्ति-स्तम्भे चक्षुः-प्रकाश-संप्रयोगे ऽन्तर्-धानम् ॥ कायस्येति । स्व-शरीरस्य रूपे संयमादशेष-विशेषतः कारणादिभिः साक्षात्कृते सति संकल्प-मात्रेण स्वकीय-रूपस्या दृश्यता-शक्तिं पर-चक्षुः-संयोग-योग्यतां प्रतिबध्नाति । ततश् च पर-चक्षुः-प्रकाशैस्तत्-किरणैर् असंयोगेऽन्तर्धानमुत्यपद्यते योगिनः । दिवाऽन्धेनेव केनाप्य् असौ न दृश्यत इत्य् अर्थः ।
सूत्र-कारस्य न्यूनतां परिहरति—एतेनेति । एतेन रूपान्तर्धानेन शास्त्रान्तर-सिद्धं शब्दाद्य्-अन्तर्धानम् अप्य् उपलक्षितं वेदितव्यमित्य् अर्थः । यदा कायस्य शब्द-स्पर्श-रस-गन्ध-संयमात् तेषां ग्राह्य-शक्ति-स्तम्भो भवति, तदा श्रोत्रादि-संनिकर्ष-प्रतिबन्धाद्योगिनः शब्दादिकं बधिरेणेव केनापि न श्रूयत इति भावः॥२१॥
—o)0(o—
(३.२२)
सोपक्रमं निरुपक्रमं च कर्म,
तत्-संयमाद् अपरान्त-ज्ञानम्, अरिष्टेभ्यो वा ॥२२॥
आयुर् विपाकं कर्म द्विविधं—सोपक्रमं निरुपक्रमंच । तत्र यथार्द्र-वस्त्रं वितानितं लघीयसा कालेन शुष्येत्, तथा सोपक्रमम् ।यथा च तद् एव सम्पिण्डितं चिरेण संशुष्येद् एवं निरुपक्रमम् ।यथा चाग्निः शुष्के कक्षे मुक्तो वातेन समन्ततो युक्तं क्षेपीयसा कालेन दहेत्, तथा सोपक्रमम् ।यथा वा स एवाग्निस् तृण-राशौ क्रमतोऽवयवेषु न्यस्तश् चिरेण दहेत्, तथानिरुपक्रमम् ।
तदैक-भविकं आयुष्करं कर्म द्विविधं—सोपक्रमं निरुपक्रमं च ।तत्-संयमाद् अपरान्त-ज्ञानम् ।रिष्टेभ्यो वा इति । त्रिविधं अरिष्टं आध्यात्मिकम् आधिभौतिकम् आधिदैविकं च । तत्राध्यात्मिकं घोषं स्व-देहे पिहित-कर्णो न शृणोति, ज्योतिर् वा नेत्रेऽवष्टब्धे न पश्यति । तथाधिभौतिकम् यम-पुरुषान् पश्यति, पितॄन् अतीतान् अकस्मात् पश्यति । तथाधिदैविकं वर्गम् अकस्मात् सिद्धान् वा पश्यति, विपरीतं वा सर्वमिति । अनेन वा जानात्य् अपरान्तम् उपस्थितमिति ॥२२॥
तत्त्व-वैशारदी : सोपक्रमं इत्यादि । आयुर्-विपाकं च कर्मद्विविधं—सोपक्रमं निरुपक्रमं च । यत् खल्व् एक-भविकं कर्म जात्य्-आयुर्-भोग-हेतुस्तद्-आयुर्-विपाकं । तच् च किञ्चित्-कालानपेक्षम् एवभोग-दानाय प्रस्थितं दत्त-बहु-भोगमल्पावशिष्ट-फलं प्रवृत्त-व्यापारं केवलं तत्-फलस्य सहसा भोक्तुम् एकेन शरीरेणाशक्यत्वाद्विलम्बते, तदिदं सोपक्रमम् । उपक्रमःव्यापारस्तत्-सहितम् इत्य् अर्थः । तद् एव तु दत्त-स्तोक-फलं तत्-कालम् अपेक्ष्य फल-दानाय व्याप्रियमाणं कादाचित्क-मन्द-व्यापारं निरुपक्रमम् । एतद् एव निदर्शनाभ्यां विशदयति—तत्र यथेति । अत्रैवातिवैशद्याय निदर्शनान्तरं दर्शयति—यथा वाऽग्निरिति ।
परान्तं महा-प्रलयमपेक्ष्यापरान्तो मरणम् । तस्मिन् कर्मणि धर्माधर्मयोः संयमादपरान्त-ज्ञानम्, ततश् च योगी सोपक्रममात्मनः कर्म विज्ञाय बहून् कायान् निर्माय सहस्रा फलं भुक्त्वा स्वेच्छया म्रियतयेय ।
प्रासङ्गिकम् आह—अरिष्टेभ्यो वाइति । अरिवत् त्रासयन्तीत्य् अरिष्टानि त्रिविधानि मरण-चिह्नानि ।विपरीतं वा सर्वंमाहेन्द्रजालादि-व्यतिरेकेण ग्राम-नगरादि स्वर्ग अभिमन्यते, मनुष्य-लोकम् एवदेव-लोकमिति॥२२॥
योग-वार्तिकम् :सोपक्रमं निरुपक्रमं च कर्म, तत्-संयमाद् अपरान्त-ज्ञानम्, अरिष्टेभ्यो वा ॥व्याचष्टे—आयुरिति । आयुष्कर-कर्म-ज्ञानाद् एव झटित्य्-अझटिति-रूपाभ्यामपरान्तस्य मरणस्य ज्ञानं भवति । अतः कर्मणो विशेषणम् आयुर्-विपाकम् इति। सोपक्रमं तीव्र-वेगेन फल-दातृ, यथा कलि-कालीन-प्रजासु बाल्य-यौवन-वार्धाकाद्य्-अवस्थानां झटित्य् एवारम्भकमायुष्करं कर्मेति ।निरुपक्रमं च मन्द-वेगेन फल-दातृ, यथासत्यादि-कालीन-प्रजासु बाल्य-यौवन-वार्धकाद्य्-अवस्थानां विलम्बेनारम्भकम् आयुष्करं कर्मेति । तथा च सोपक्रमस्य साक्षात्करणात् शीघ्र-मरणस्य ज्ञानं निरुपक्रमस्य साक्षात्करणाच् च विलम्बेन मरणस्य ज्ञानं भवतीति विभागः ।
सोपक्रम-निरुपक्रम-कर्मणोर्दृष्टान्तम् आह—तत्र यथा इत्यादिना ।वितानितं विस्तारितम् ह्रसीयसा[लघीयसा] स्वल्पेन । यथा-क्रमम् उभयोर् अपरं दृष्टान्त-द्वयम् आह—यथा वाऽग्निर् इत्यादिना ।कक्षे तृणे ।क्षेपीयसा शीघ्रेण ।
उपसंहरति—तदैकेति । जन्मान्तर-भोगस्य कर्मणो ज्ञानं वर्तमान-देहस्यापरान्त-ज्ञान-हेतुरत उक्तमेक-भविकम् इति। भुज्यमान-कर्मभिः सहैक-भविकम् इत्य् अर्थः ।
सूत्रार्थम् आह—तत्-संयमाद् इति ।ेक-भविकायुष्कर-कर्म-संयमात्सोपक्रमादि-रूप-विशेषावधारणे सति पूर्वान्तापेक्षयाऽपरान्तस्य मरणस्य शीघ्रत्वाशीघ्रत्व-रूपैर्ज्ञानं भवति,अरिष्टेभ्यो वेत्य् अर्थः । अरिष्ट-ज्ञानस्यापीदं फलम् इति सुत्रे प्रसङ्गाद् एवोक्तम् । संयम-सिद्धीनाम् एवप्रकृतत्वादरिष्टानि मरण-चिह्नानि च योगिना समाध्य्-अवधानार्थमवधारणीयानि ।
तानि व्याचष्टे—त्रिविधम् इति। पिहित-कर्णः स्व-देहान्तर्-घोषं वह्नि-ज्वलन-शब्दवच्छब्द-विशेषं नशृणोतीत्येकमरिष्टमाध्यात्मिकम् । अवष्टब्धेऽङ्गुल्य्-आदिना भ्रामिते चक्षुषि वह्नि-कण-तुल्यं ज्योतिर् न पश्यति इत्यपरम् । अन्यान्यपि विविधान्यरिष्टानि वसिष्ठ-मार्कण्डेयादिभिरुक्तानि दिन-मास-संवत्सरादि-भेदैः । मृत्यु-चिह्नानि संक्षेपत आह—विपरीतं वा सर्वम् इति । सर्वं श्वास-प्रश्वासादिकम् इति ।नेन वाअरिष्टेन वेत्य् अर्थः॥२२॥
—o)0(o—
(३.२३)
मैत्र्य्-आदिषु बलानि ॥२३॥
मैत्री-करुणा-मुदितेति तिस्रो भावनाः । तत्रभूतेषु सुखितेषु मैत्रीं भावयित्वामैत्री-बलं लभते । दुःखितेषु करुणां भावयित्वा करुणा-बलं लभते । पुण्य-शीलेषु मुदितां भावयित्वा मुदिता-बलं लभते । भावनातः समाधिर् यः, स संयमः । ततो बलान्य् अबन्ध्य-वीर्याणि जायन्ते । पाप-शीलेषूपेक्षा न तु भावना । ततश् च तस्यां नास्ति समाधिर् इत्य् अतो न बलम् उपेक्षातः, तत्र संयमाभावादिति॥२३॥
तत्त्व-वैशारदी : मैत्र्य्-आदिषु बलानि। मैत्र्य्-आदिषु संयमान् मैत्र्य्-आदि-बलान्यस्य भवन्ति । तत्र मैत्री-भावनातो बलं येन जीव-लोकं सुखाकरोति, ततः सर्व-हितो भवति । एवं करुणा-बलात्प्राणिनो दुःखाद् दुःख-हेतोर्वा समुद्धरति । एवं मुदिता-बलाज् जीव-लोकस्य माध्यस्थ्यमाधत्ते ।
वक्ष्यमाणौपयिकं भावना-कारणत्वं समाधेराह—भावनातः समाधिर्यः, स संयमः इति । यद्यपि धारणा-ध्यान-समाधि-त्रयम् एवसंयमो न समाधि-मात्रं, तथापि समाध्य्-अनन्तरं कार्योत्पादात्समाधेः प्राधान्यात् तत्र संयम उपचरितः ।क्वचिद् "भावना-समाधिर्" इति पाठः । तत्र भावना-समाधी समूहस्य संयमस्यावयवौ हेतू भवतः ।वीर्यं प्रयत्नः । तेन मैत्र्य्-आदि-बलवतः पुंसः सुखित्वादिषु परेषां कर्तव्येषु प्रयत्नोऽबन्ध्यो भवतीति । उपेक्षौदासीन्यम् । न तत्र भावना नापि सुखितादिवद् भाव्यं किञ्चिद् अस्तीति ॥२३॥
योग-वार्तिकम् :मैत्र्य्-आदिषु बलानि ॥ मैत्र्य्-आदिषु संयमाद् बलान्यबन्ध्यानि वीर्याणि भवन्ति । परेषु मैत्र्य्-आद्य्-अर्थं प्रयत्नो विफलो नभवतीति यावत् ।
तदेतद् व्याचष्टे—मैत्री-करुणेति । मैत्र्य्-आदि-त्रय विषयिण्यस्तिस्रो भावनाः संयमा भवन्ति । तत्र सुखितेषु मैत्री—एवं-स्वरूपा एवम्-आदि-साधनिकेत्यशेष-विशेषैर् मैत्रीं भावयित्वा साक्षात्कृत्य च व्याख्यातं मैत्री-बलं लभत इत्य् अर्थः । एवं करुणा-मुदितयोर् अपि व्याख्येयम् । यद्यपिभावना-शब्दः सूत्रे नास्ति, तथापि तन्त्रान्तरानुसारात् स्वयं व्याख्यातः ।
[१.३३] प्रथम-पादोक्त-भावना-शब्दवद् अत्राप्युत्पादनार्थमिति भ्रमो मा भूद् इत्येतद्-अर्थं प्रकृते तन्त्रान्तरीय-भावना-शब्दस्यार्थं स्वयम् आह—भावना समाधिरिति । भाव्यते फलमनेनेति व्युत्पत्त्या भावना-चिन्तनयोरेकार्थतया वेति भावः । ध्यान-धारणयोः संग्रहाय पुनराह—यः ससंयमैति । यः स पूर्वेषु सूत्रेषु प्रक्रान्त इत्य् अर्थः । भावना-शब्दोक्त-समाधिना ध्यान-धारणयोर् अपि ग्रहणं तन्त्रान्तरैति भावः ।"भावनातः समाधिर्"इति पाठे तु अतः सूत्रात् पूर्वाचार्योक्तादत्र भावना समधिरेवेत्य् अर्थः । बल-शब्दं विवृण्वानः सूत्रार्थमुपसंहरति—ततो बलानीति ।
ननु प्रथम-पादोक्तोपेक्षा कथं मैत्र्य्-आदिष्वित्यत्रादि-शब्देन न संगृहीता ? तत्राह—पाप-शीलेष्विति । पाप-शीलेषु मैत्र्य्-आदि-शून्यता-रूपम् उपेक्षा-मात्रं, न तु तस्यामभाव-रूपिण्यामुपेक्षायां प्रतियोगि-तत्त्वातिरिक्तः कश्चन विशेषोऽस्ति, यस्य साक्षात्कारार्थे भावना स्यात् । अतश् च तस्यामुपेक्षायां नास्ति समाधिः संयमोऽपेक्षित इत्य् अर्थः । शेषं सुगमम्॥२३॥
—o)0(o—
(३.२४)
बलेषु हस्ति-बलादीनि ॥२४॥
हस्ति-बले संयमाद् धस्ति-बलो भवति । वैनतेय-बले संयमाद् वैनतेय-बलो भवति । वायु-बले संयमाद् वायु-बल इत्य् एवम्-आदि ॥२४॥
तत्त्व-वैशारदी : बलेषु हस्ति-बलादीनि ॥ यस्य बले संयमस् तस्य बलं लभतैति ॥२४॥
योग-वार्तिकम् : बलेषु हस्ति-बलादीनि ॥ हस्त्य्-आदि-बलेषु संयमाद्धस्त्य्-आदि-बलानि भवन्तीत्य् अर्थः । भाष्यंसुगमम्॥२४॥
—o)0(o—
(३.२५)
प्रवृत्त्य्-आलोक-न्यासात् सूक्ष्म-व्यवहित-विप्रकृष्ट-ज्ञानम् ॥२५॥
ज्योतिष्मती प्रवृत्तिर् उक्ता मनसः । तस्यां य आलोकस् तं योगी सूक्ष्मे वा व्यवहिते वा विप्रकृष्टे वार्थे विन्यस्य तम् अर्थम् अधिगच्छति ॥२५॥
तत्त्व-वैशारदी : प्रवृत्त्य्-आलोक-न्यासात् सूक्ष्म-व्यवहित-विप्रकृष्ट-ज्ञानम् ॥सूक्ष्मे व्यवहिते विप्रकृष्टेवार्थे संयमनं विन्यस्य तम् अधिगच्छति ॥२५॥
योग-वार्तिकम् :प्रवृत्त्य्-आलोक-न्यासात् सूक्ष्म-व्यवहित-विप्रकृष्ट-ज्ञानम् ॥ व्यवहितमावृतं । विप्रकृष्टं दूर-वर्ति ।
व्याचष्टे—ज्योतिष्मतीति । ज्योतिष्मती बुद्धि-पुरूषान्यत्र-साक्षात्कार-रूपिणी मनसः प्रवृत्तिः प्रथम-पादोक्ता[१.३६] । तस्या य आलोकस्तत्-कालीनो यः सत्त्व-प्रकाशस्तं योगी सूक्ष्माद्य्-अर्थेषु विन्यस्य च साक्षात्-करोतीत्य् अर्थः । अत्र न्यास-मात्र-वचनात् तेषु संयमापेक्षा । नास्ति चक्षुर्-न्यास-मात्रेण घट-दर्शनवद्विशुद्ध-सत्त्व-प्रतिसन्धान-मात्रेणैव सूक्ष्मादि-साक्षात्कारो भवतीति भावः । परम्परया बुद्ध्य्-आदि-विषयक-संयम-साध्यत्वेनैव चास्याः सिद्धेः संयम-सिद्धि-मध्ये निर्वचनमिति॥२५॥
—o)0(o—
(३.२६)
भुवन-ज्ञानं सूर्ये संयमात् ॥२६॥
तत्-प्रसारः सप्त-लोकाः । तत्रावीचेः प्रभृति मेरु-पृष्ठं यावद् इत्य् एव भूर्-लोकः । मेरु-पृष्ठादारभ्याध्रुवाद् ग्रह-नक्षत्र-तारा-विचित्रोऽन्तरिक्ष-लोकः । तत्-परः स्वर्-लोकः पञ्च-विधो माहेन्द्रस् तृतीयो लोकः । चतुर्थः प्राजापत्यो महर्-लोकः । त्रिविधो ब्राह्मः, तद् यथा—जन-लोकः, तपो-लोकः, सत्य-लोकैति ।
ब्राह्मस् त्रिभूमिको लोकः प्राजापत्यस् ततो महान् ।
माहेन्द्रश् च स्वर् इत्य् उक्तो दिवि तारा भुवि प्रजाः ॥इतिसङ्ग्रह-श्लोकः ।
तत्रावीचेर् उपर्य् उपरि निविष्टाः षण् महा-नरक-भूमयो घन-सलिलानलाकाश-तमः-प्रतिष्ठा महा-कालाम्बरीष-रौरव-महारौरव-कालसूत्रान्ध-तमिस्राः । यत्र स्व-कर्मोपार्जित-दुःख-वेदनाः प्राणिनः कष्टम् आयुर् दीर्घम् आक्षिप्य जायन्ते । ततो महातल-रसातलातल-सुतल-वितल-तलातल-पातालाख्यानि सप्त पातालानि । भूमिर् इयम् अष्टमी सप्त-द्वीपा वसुमती, यस्या सुमेरुर् मध्ये पर्वत-राजः काञ्चनः । तस्य राजत-वैदूर्य-स्फटिक-हेम-मणि-मयानि शृङ्गाणि । तत्र वैदूर्य-प्रभानुरागान् नीलोत्पल-पत्र-श्यामो नभसो दक्षिणो भागः । श्वेतः पूर्वः, स्वच्छः पश्चिमः, कुरुण्डकाभ उत्तरः । दक्षिण-पार्श्वे चास्य जम्बूः । यतोऽयं जम्बू-द्वीपः, तस्य सूर्य-प्रचाराद् रात्रिन्दिवं लग्नम् इव विवर्तते । तस्य नील-श्वेत-शृङ्गस्य उदीचीनास् त्रयः पर्वता द्वि-सहस्रायामाः ।
तद्-अन्तरेषु त्रीणि वर्षाणि नव-नव-योजन-साहस्राणि रमणकं हिरण्मयम् उत्तराः कुरवैति । निषध-हेमकूट-हिमशैला दक्षिणतो द्वि-साहस्रायामाः । तद्-अन्तरेषु त्रीणि वर्षाणि नव-नव-योजन-साहस्राणि हरिवर्षं किम्पुरुषं भारतम् इति । सुमेरोः प्राचीना भद्राश्वा माल्यवत्-सीमानः । प्रतीचीनाः केतुमाला गन्धमादन-सीमानः । मध्ये वर्षम् इलावृतम् । तद् एतद् योजन-शत-साहस्रं, सुमेरोर् दिशि दिशि तद्-अर्धेन व्यूढम् ।
स खल्व् अयं शत-साहस्रायामो जम्बू-द्वीपस् ततो द्विगुणेन लवणोदधिना वलयाकृतिना वेष्टितः । ततश् च द्विगुणा द्विगुणा शाक-कुश-क्रौञ्च-शाल्मल-मगध-पुष्कर-द्वीपाः सप्त-समुद्राश् च सर्षप-राशि-कल्पाः स-विचित्र-शैलावतंसा इक्षुरस-सुरा-सर्पिर्-दधिमण्ड-क्षीर-स्वादूदकाः । सप्त-समुद्र-परिवेष्टिताः वलयाकृतयो लोकालोक-पर्वत-परिवाराः पञ्चाचद्-योजन-कोटि-परिसङ्ख्याताः । तद् एतत् सर्वं सुप्रतिष्ठित-संस्थानम् अण्ड-मध्ये व्यूढम् । अण्डं च प्रधान-स्थाणुर् अवयवो यथाकाशे खद्योतैति ।
तत्र पाताले जलधौ पर्वतेष्व् एतेषु देव-निकाया असुर-गन्धर्व-किन्नर-किम्पुरुष-यक्ष-राक्षस-भूत-प्रेत-पिशाचापस्मारकाप्सरो-ब्रह्म-राक्षस-कूष्माण्ड-विनायकाः प्रतिवसन्ति । सर्वेषु द्वीपेषु पुण्यात्मानो देव-मनुष्याः ।
सुमेरुस् त्रिदशानाम् उद्यान-भूमिः । तत्र मिश्र-वनं नन्दनं चैत्ररथं सुमानसम् इत्य् उद्यानानि । सुधर्मा देव-सभा । सुदर्शनं पुरम् । वैजयन्तः प्रासादः ।
ग्रह-नक्षत्र-तारकास् तु ध्रुवे निबद्धा वायु-विक्षेप-नियमेनोपलक्षित-प्रचाराः सुमेरोर् उपर्य् उपरि सन्निविष्टा विपरिवर्तन्ते ।
माहेन्द्र-निवासिनः षड् देव-निकायाः—त्रिदशाः, अग्निष्वात्ताः, याम्याः, तुषिताः, अपरिनिर्मित-वशवर्तिनः, परिनिर्मित-वशवर्तिनश् चेति । ते सर्वे सङ्कल्प-सिद्धा अणिमाद्यैश्वर्योपपन्नाः कल्पायुषो वृन्दारकाः काम-भोगिन औपपादिक-देहा उत्तमानुकूलाभिर् अप्सरोभिः कृत-परिवाराः ।
महति लोके प्राजापत्ये पञ्चविधो देव-निकायः—कुमुदाः, ऋभवः, प्रतर्दनाः, अञ्जनाभाः, प्रचिनाभाइति । एते महा-भूत-वशिनो ध्यानाहाराः कल्प-सहस्रायुषः ।
प्रथमे ब्रह्मणो जनलोके चतुर्विधो देव-निकायः—ब्रह्म-पुरोहिताः, ब्रह्म-कायिकाः, ब्रह्म-महाकायिकाः, अजरामराइति । एते भूतेन्द्रिय-वशिनो द्विगुण-द्विगुणोत्तरायुषः ।
द्वितीये तपसि लोके त्रिविधो देव-निकायः—आभास्वराः, महा-भास्वराः, सत्य-महाभास्वराइति । एते भूतेन्द्रिय-प्रकृति-वशिनो द्विगुण-द्विगुणोत्तरायुषः । सर्वे ध्यानाहाराः ऊर्ध्व-रेतस ऊर्ध्वम् अप्रतिहत-ज्ञाना अधर-भूमिष्व् अनावृत-ज्ञान-विषयाः ।
तृतीये ब्रह्मणः सत्यलोके चत्वारो देव-निकायः—अच्युताः, शुद्ध-निवासाः, सत्याभाः संज्ञा-संज्ञिनश् चेति । अकृत-भवन-न्यासाः स्व-प्रतिष्ठा उपर्य्-उपरि-स्थिताः प्रधान-वशिनो यावत्-सर्गायुषः ।
तत्राच्युताः स-वितर्क-ध्यान-सुखाः । शुद्ध-निवासाः सविचार-ध्यान-सुखाः । सत्याभा आनन्द-मात्र-ध्यान-सुखाः । संज्ञा-संज्ञिनश् चास्मिता-मात्र-ध्यान-सुखाः । तेऽपि त्रैलोक्य-मध्ये प्रत् इतिष्ठन्ति । त एते सप्त लोकाः सर्व एव ब्रह्म-लोकाः । विदेह-प्रकृति-लयास् तु मोक्ष-पदे वर्तन्ते, न लोक-मध्ये न्यस्ताइति । एतद्-योगिनांसाक्षात्-कर्तव्यं सूर्य-द्वारे संयमं कृत्वा, ततोऽन्यत्रापि एवं तावद् अभ्यसेद् यावद् इदं सर्वं दृष्टमिति ॥२६॥
तत्त्व-वैशारदी : भुवन-ज्ञानं सूर्ये संयमात् ॥ाध्रुवादितो मेरु-पृष्ठात् ।
तद् एवम् अनेन संग्रह-श्लोकान्तेन संक्षेपतः सप्त-लोकानुपन्यस्य विस्तरेणाह—तत्रावीचेरिति । घन-शब्देन पृथिव्युच्यते । भूमिः स्थानम् इत्य् अर्थः । एते महा-नरका अनेकोपनरक-परिवारा बोद्धव्याः । एतान् एव नामान्तरेणोपसंहरति—माहकाल इति । तस्य सूर्य-प्रचाराद् रात्रिं-दिवं लग्नमिव विवर्तते । यम् एवास्य भागं सूर्यस्त्यजति, तत्र रात्रिः । यम् एवभागमलङ्कारोति, तत्र दिनम् इत्य् अर्थः ।
सकल-जम्बूद्वीप-परिमाणम् आह—तदेतद्योजन-शत-सहस्रमिति । किम्-भुतं योजनानां शत-सहस्रम् ? इत्य् आह—सुमेरोर्दिशि दिशि तद्-अर्धेन व्यूढम् इति । तद्-अर्धेन पञ्चाशद्-योजन-सहस्रेण, व्यूढं सङ्क्षिप्तम् ।
यतोऽस्य मध्यस्थः सुमेरुःसप्त-समुद्राश् च । सर्षप-राशि-कल्पाद्विगुणा द्विगुणा इति सम्बन्धः । यथा सर्षप-राशिर्न व्रीहि-राशिरिवोच्छ्रितो नापि भूमि-समस्तथा समुद्रा अपीत्य् अर्थः । विचित्रैः शैलैरवतंसैरिव सह वर्तन्तैतिस-विचित्र-शैलावतंसा द्वीपाः । तदेतत्सर्वे स-द्वीप-विपिन-नग-नगर-नीरधि-माला-वलयंलोकालोक-परिवृतं विश्वम्भरा-मण्डलं ब्रह्माण्ड-मध्ये व्यूढं सङ्क्षिप्तं, सुप्रतिष्ठितं संस्थानं सन्निवेशो यस्य तत्तथोक्तम् ।
ये यत्र प्रतिवसन्ति तत्र तान् दर्शयति—तत्र पातालैति ।
सुमेरोः सन्निवेशम् आह—सुमेरुःिति ।
तद् एवं भूर्-लोकं स-प्रकारमुक्त्वा स-प्रकारम् एवान्तरिक्ष-लोकम् आह—ग्रहेति । विक्षेपो व्यापारः ।स्वर्-लोकमादर्शयति—माहेन्द्र-निवासिनैति । देव-निकायाः देव-जातयः । षण्णाम् अपिदेव-निकायानां रूपोत्कर्षम् आह—सर्वे सङ्कल्प-सिद्धा इति । सङ्कल्प-मात्राद् एवैषां विषया उपनमन्ति । वृन्दारकाः पूज्याः ।काम-भोगिनो मैथुन-प्रियाः ।ौपपादिक-देहाः पित्रोः संयोगमन्तरेणाकस्माद् एव दिव्य-शरीरमेषां धर्म-विशेषातिसंस्कृतेभ्योऽणुभ्यो भूतेभ्यो भवतीति ।
महर्-लोकम् आह—महतिइति । महा-भूत-वशिनः—यद् यदेव तेभ्यो रोचते, तत्तद् एव महा-भूतानि प्रयच्छन्ति । तद्-इच्छातश् च महा-भूतानि तेन तेन संस्थाने नावतिष्ठन्ते ।ध्यानाहारः—ध्यान-मात्र-तृप्ताः पुष्टा भवन्ति ।
जन-लोकम् आह—प्रथम इत्य् उक्त-क्रमेण, भूतेन्द्रिय-वशिनैति। भूतानि पृथिव्य्-आदीनि, इन्द्रियाणि श्रोत्रादीनि यथा नियोक्तुम् इच्छन्ति, तथैव नियुज्यन्ते ।
उक्त-क्रमापेक्षया द्वितीयं ब्रह्मणस् तपो-लोकम् आह—द्वितीयैति । भूतेन्द्रिय-प्रकृति-वशिनैति । प्रकृतिः पञ्च-तन्मात्राणि, तद्-वशिनः, तद्-इच्छातो हि तन्मात्राण्येव कायाकरेण परिणमन्त इत्यागमिकाः ।द्विगुणैति । आभास्वरेभ्यो द्विगुणायुषो महा-भास्वरः । तेभ्योऽपि द्विगुणायुषः सत्य-महा-भास्वरा इत्य् अर्थः ।ूर्ध्वमिति । ऊर्ध्वं सत्य-लोके अप्रतिहत-ज्ञानाः, अवीचेस् तु प्रभृति आ तपो-लोकं सूक्ष्म-व्यवहितादि सर्वं विजानन्तीत्य् अर्थः ।
तृतीयं ब्रह्मणो लोकम् आह—तृतीयैति । अकृतो भवनस्य गृहस्य न्यासो यैस्ते तथोक्ताः, आधाराभावाद् एव स्व-प्रतिष्ठाः, स्वेषु शरीरेषु प्रतिष्ठा येषां ते तथोक्ताः ।प्रधान-वशिनः तद्-इच्छातः सत्त्व-रजस्-तमांसि प्रवर्तन्ते, यावत्-सर्गायुषः । तथा च श्रूयते—
ब्रह्मणा सह ते सर्वे संप्राप्ते प्रतिसञ्चरे।
परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम् ॥इति ।
तद् एवं चतुर्णां देव-निकायानां साधारण-धर्मान् उक्त्वा नाम-विशेष-ग्रहणेन धर्म-विशेषानाह—तत्र इति । अच्युता नाम देवाः स्थूल-विषय-ध्यान-सुखाः, तेन ते तृप्यान्ति । शुद्ध-निवासानाम देवाः सूक्ष्म-विषय-ध्यान-सुखाः, तेन ते तृप्यान्ति । सत्याभा नाम देवा इन्द्रिय-विषय-ध्यान-सुखाः, तेन तेतृप्यान्ति । संज्ञा-संज्ञिनो नाम देवा अस्मिता-मात्र-ध्यान-सुखाः, तेन ते तृप्यान्ति । त एते सर्वे सम्प्रज्ञात-समाधिमुपासते ।
अथासम्प्रज्ञात-समाधि-निष्ठा विदेह-प्रकृति-लयाः कस्मान्न लोक-मध्ये न्यस्यन्त इत्यत आह—विदेह-प्रकृति-लयास्त्व् इति । बुद्धि-वृत्तिमन्तोहि दर्शित-विषया लोक-यात्रां वहन्तो लोकेषु वर्तन्ते, न चैवं विदेह-प्रकृति-लयाः सत्य् अपि साधिकारत्व इत्य् अर्थः ।
तद् एतद् आ सत्य-लोकम् आ चावीचेर्योगिना साक्षात्करणीयं, सूर्य-द्वारे सुषुम्नायां नाड्याम्, न चैतावताऽपि तत्-साक्षात्कारो भवतीत्यत आह—एवं तावद् अन्यत्रापिइति । सुषुम्नाया अन्यत्रापि योगोपाध्यायोपदिष्टेषु—यावद् इदं सर्वेजगद् दृष्टम् इति । बुद्धि-सत्त्वं हि स्वभावत एव विश्व-प्रकाशन-समर्थं तमो-मलावृतं यत्रैव रजसोद्धाय्यते, तद् एव प्रकाशयति । सूर्य-द्वार-संयमोद्घाटितं तु भुवनं प्रकाशयति । न चैवम् अन्यत्रापि प्रसङ्गः, तत्-संयमस्य तावन्-मात्रोद्घाटन-सामर्थ्याद् इति सर्वम् अवदातम्॥२६॥
योग-वार्तिकम् :भुवन-ज्ञानं सूर्ये संयमात् ॥ भुवन-शब्दार्थे व्याचष्टे—तत्-प्रस्तारैत्य्-आदिना । भुवन-विस्तारः कथ्यतैति शेषः । तत्र चतुर्दशसु लोकेषु व्यक्तेष्वादौ सप्त लोकान् आह—सप्त लोकाइति । सप्त लोकान् विभजते—तत्रेति। अवीचिर्नाम नरक-विशेषः, सर्व-लोकानामवस्थानं तदादाय सुमेरु-पृष्ठ-पर्यन्तं भूर्-लोकः ।
मेरु-पृष्ठमारभ्य मेरु-पृष्ठोपलक्षित-भूर्-लोकस्योपरि ध्रुव-पर्यन्तं भुवर्-लोकः ।
तद्-उपरि क्रमेण पञ्चानाम् अवान्तर-भेदानाह—माहेन्द्रैत्य्-आदिना । माहेन्द्रो लोकः स्वरितिनामको भूर्-भुवर्-लोकापेक्षया तृतीयः। एवम् उत्तरत्रापि ।
उक्त-व्युत्क्रमेण सप्त-लोकानां संग्रह-श्लोकंपठति—ब्राह्मैति । जनादि-त्रि-भूमिको ब्रह्म-लोकः । ततोऽधः प्रजापति-लोको महान् महर् इति नाम । ततोऽधः स्वरितिनामा इन्द्र-लोकः । ततोऽधस्तारा-लोको द्यौरिति भुवर् इति चोच्यते । तद्-अधश् च प्रजानां मनुष्याणां लोको भूर् इतिनामेत्य् अर्थः ।
इदानीं पृथिव्या अधः स्थितान् सप्त नरकान् भूर्-लोकांशतया प्रतिपादयति—तत्रेति । तत्र भूर्-लोके सर्व-नरकाधः-स्थितादवीचि-नरकादुपर्य्-उपरि-स्थिताः षण्महा-नरक-भूमयो घनादीनामुत्तमोत्तमानाम् आधारा महाकालादि-संज्ञकास्तिष्ठन्तीत्य् अर्थः । घनाः शिला-शकलादयः पार्थिव-पदार्थाः, तमश्चान्धकारः । अत्र महा-नरक-शब्दाद् अन्येऽप्युपनरकाः कुम्भीपाकादयोऽनन्तास्तत्रैवतिष्ठन्तीति प्रतिपादितम् ।दुःख-वेदनाः दुःख-भोगिनः ।ाक्षिप्यगृहीत्वा । भूर्-आदि-सप्त-लोकानुक्त्वा महातलादीन् अन्यान् सप्त-लोकान् आह—ततो महेति । ततोऽवीचेरध इत्य् अर्थः ।
तद् एवं चतुर्दश लोका भवन्तीति सूचयति—भूमिरियम् अष्टमीति । अत्र भूमेरष्टमीत्व-वचनात्सर्वाधः-स्थितान्महातलादुपर्युपरि क्रमेण सप्त-पातालानीत्यवगन्तव्यम् । संक्षेपतश्चतुर्दश-लोकान् उक्त्वा विस्तरेण विवक्षुरादौ भूर्-लोकस्य विस्तारम् आह—सप्त-द्वीपेति । तस्य राजतेति । पूर्वादि-प्रदक्षिण-क्रमेणेत्य्-आदिः, दक्षिण-भागाकाशस्य वैदूर्य-प्रभा-व्याप्तताया वक्ष्यमाणत्वात् । श्वेतो रजत-वर्णः स्वच्छः स्फटिकवत्प्रतिबिम्बोद्ग्राही । कुरण्डकं स्वर्ण-वर्णः पुष्प-विशेषः ।
दक्षिणेति। अस्य सुमेरोरुपरि दक्षिण-पार्श्वे जम्बू-नामा वृक्षः, यतो यन्-नाम्ना लवणोदाधि-वेष्टितो जम्बू-द्वीपो जम्बू-द्वीप-नामेत्य् अर्थः, तस्येति । निरन्तरं सूर्येण प्रदक्षिणी-करणात् तस्य सुमेरोरवच्छेद-भेदेन रात्रिं-दिवं संयुक्तम् इव सद् विवर्तते भ्रमति । तथा तस्य मेरोरुत्तर-दिशि नीलाद्यास् त्रयः पर्वताः । प्रत्येकं द्वि-सहस्र-योजन-विस्तारास् तिष्ठन्ति । तेषाम् अवकाशेषु त्रीणि वर्षाणि, प्रत्येकं नव-योजन-सहस्र-विस्ताराणि । तत्र नीलगिरिर् मेरु-लग्नः । नीलस्योत्तरे रमणकं । श्वेतस्योत्तरे हिरण्मयम् । शृङ्गवत उत्तरे समुद्र-पर्यन्तमुत्तरः कुरव इत्य् अर्थः । दक्षिण-दिश्यपि संनिवेश एवं बोध्यः ।
सुमेरोः प्राचीना इति । मेरोः पूर्व-दिशि तत्-संयुक्तो माल्यवान् पर्वतः । तम् एवसीमानं कृत्वा समुद्र-पर्यन्तं भद्राश्व-नाम-देशाः । तत्र भद्राश्व-नामकम् एववर्षम् । एवं मेरोः पश्चिम-दिशि तत्-संयुक्तः गन्धमादन-सीमानः समुद्र-पर्यन्ताः केतुमाल-नाम-देशाः । वर्षं चैकम् एवकेतुमाल-संज्ञकम् इत्य् अर्थः ।मध्य इति । छत्राकार-सुमेरोर् अधो-भागे वर्षमिलावृतं । चतुर्-दिक्षु च पर्वताश्छात्र-पार्श्व-स्थावरण-वासैव मेरु-पार्श्वेष्व् एव संसक्ता इति । तद् एवं जम्बूद्वीपस्य नव-वर्षाणि प्रोक्तानि ।
पर्वतैः सह समग्रं जम्बू-द्वीपस्य प्रमाणम् आह—तद् एतद् इति । तद् एतज्जम्बूद्वीपाख्य-स्थनं योजन-शत-सहस्र-मितम् । अतश् च सुमेरोश्चतुर्-दिक्षु पञ्चाशत्-पञ्चाशद्-योजन-सहस्रेण व्यूढं संक्षिप्तं, परिसंख्यातम् इत्य् अर्थः । सुमेरुमादायेति शेषः । सुमेरोः परिमाणं च विष्णु-पुराणे प्रोक्तम्—
चतुरशीति-साहस्रैर्योजनैर् अस्योच्छ्रायः ।
प्रविष्टः षोडश-साहस्रो द्वात्रिंशन्मूर्ध्नि विस्तृतः ।
मूले षोडश-साहस्रो विस्तारस् तस्य भूभृतः ॥
मेरोश्चतुर्दिशस्तत्र नव-साहस्र-विस्तृतम्।
इलावृतं महाभाग! चत्वारस्तत्र पर्वताः ॥[वि.पु. २.२.८,९,१६] इति ।
एतेन मेरोः पार्श्व-द्वये इलावृतस्याष्टादश-साहस्रतया लक्ष-प्रमाणता जम्बूद्वीपस्य सिद्धेति ।
जम्बूद्वीपस्य वेष्टनंलवण-समुद्रम् आह—स खल्व् इति । अत्र—
जम्बूद्वीपं समावृत्त्य लक्ष-योजन-विस्तृतः ।
मैत्रेय वलयाकारः स्थितः क्षारोदधिर् बहिः ॥[वि.पु. २.३.२८] इति विष्णु-पुराणात् ॥
समुद्रस्य द्वीप-द्विगुणत्वं पार्श्व-द्वयेयन बोध्यम् । ततो द्विगुणा इति । जम्बुद्वीपाद् द्विगुणः शाक-द्वीप इत्य् अर्थः । शाकाच् च द्विगुणः कुश-द्वीपः । एवंक्रमेणवृद्धिः ।समुद्राश्चेति । स्व-स्व-द्वीपापेक्षया द्विगुणाः । समुद्राणां विशेषण-त्रयं सर्षपेत्य्-आदि । सर्षप-राशिवन्मध्ये किञ्चिन् मात्रोच्छूनाः । मध्ये तरङ्ग-बाहुल्यात् । तथा कूल-द्वय-स्थितैर्विचित्र-शैलैर् अवतंस-कल्पैः सहिताः ।तथा इक्षु-रसादि-तुल्योदका इत्य् अर्थः ।
सप्त-द्वीपानां समुद्रादि-सहितानां मिलित्वा परिमाणम् आह—सप्तेति । एते सप्त-द्वीपाः समुद्र-सहिताः सप्त-समुद्राद् बहिः-स्थितेन लोकालोक-पर्वतेन परिवृताः पञ्चाशद्-योजन-कोटि-परिमिता इत्य् अर्थः । अलोक-भूमि-सहिता इत्यपि बोध्यम् । समग्र-भू-गोलस्यैव पञ्चाशत्-कोटि-परिमितत्वस्य पुराणेष्ववगमादिति ।
तद् एतद् इति । तद् एतत् सर्वं भू-गोलकं सुप्रतिष्ठितम् असङ्कीर्ण-पञ्चाशत्-कोटि-परिमितस्याण्डस्य मध्ये व्यूढं संक्षिप्तम् । इदं च शत-कोटि-विस्तारमण्डं सप्तावरण-सहितम् अपि प्रकृतेर् अणुर् अंश इत्य् अर्थः । तदुक्तं विष्णु-पुराणे प्रकृतिं प्रकृत्य—
अण्डानां तु सहस्राणां सहस्राण्ययुतानि च।
ईदृशानां तथा तत्र कोटि-कोटि-शतानि च॥[वि.पु. २.७.२८ इति ।
सौरे च—
ब्रह्माण्डमेतत्सकलं ब्रह्माणः क्षेत्रमुच्यते।
क्षेत्रज्ञश् च स एवोक्तो विरिञ्चिश् च प्रजापतिः ॥
सहस्र-कोटयः सन्ति ब्रह्मण्डास्तिर्यग्-ऊर्ध्वगा।
ब्रह्माणो हरयो रुद्रास्तत्र तत्र व्यवस्थिताः ॥
आज्ञया देव-देवस्य महाद् एवास्य शूलिनः ।
ब्रह्माण्डानामसंख्यानां ब्रह्म-विष्णु-हरात्मनाम्॥
उद्भवे प्रलये हेतुर् महाद् एव इति श्रुतिः ॥इति ॥
नारदीये च—
सृष्टि-स्थित्य्-अन्त-करणे ब्रह्म-विष्णु-महेश्वरः ।
यस्यायुतायुतांशांशास् तद् ब्रह्मेत्य् अभिधीयते ॥इति ।
न चास्मिन् वाक्ये परमात्मांशत्वम् एवाण्ड-शरीरिणां गम्यते । न तु प्रकृत्य्-अंशत्वं ब्रह्माण्डस्येति वाच्यम् । शक्ति-शक्तिमतोरंशांशि-भावेन शक्त्योरप्यंशांशि-भाव-सिद्धेः, अग्नि-विस्फुलिङ्गादि-श्रौत-दृष्टान्तेषु तथा दर्शनात्—
मायां तु प्रकृतिं विद्यान् मायिनं तु महेश्वरम् ।
अस्यावय-भूतैस् तु व्याप्तं सर्वम् इदं जगत् ॥[श्वे.उ. ४.१०] इति श्रुतेश् चेति ।
इदानीं तत्-तल्-लोक-वासिनो देवादीन् कथयति—तत्र पातालैति । देव-निकायाः देव-समूहासुरादयश् च प्रतिवसन्तीत्य् अर्थः । देवाश् च मनुष्याश् च देव-मनुष्याः ।
भूर्-लोक-स्थान् उक्त्वा भुवर्-लोक-स्थान् आह—ग्रह-नक्षेत्रेति । नक्षत्राण्य् अश्विन्य्-आदि-सप्तविंशतिरितराणि क्षुद्र-ज्योतींषि तारकाः । एते ग्रहादयः सर्वोपरि-स्थिते मेढि-काष्ठवन्निश्चलतया स्थितेऽत एव ध्रुव-संज्ञके ज्योतिर्-विशेषे वायु-रज्ज्वा बद्धा गाव इव हालिक-तुल्य-चक्र-वायोः प्रतिनियत-संचारेण काल-विशेषैर् अवधृत-गतयः सुमेरोरुपर्य्-उपरि-भावेन सन्निविष्टा भुवर्-लोके भ्रमन्तीत्य् अर्थः ।
नन्व् एवं सुमेरोर् उपरि ज्योतिर्-मण्डलसय भ्रमणे कथं मेरुणा ज्योतिश्-चक्रावरणं येन रात्रि-दिन-व्यवस्थितिः ?इति चेत्, न, वृक्षेणसूर्य-व्यवधानवद्मेरोरेक-पार्श्व-स्थ-सूर्यादेः पार्श्वान्तरेण व्यवधान-सम्भवाद् इति ।
स्वर्-लोक-स्थान् आह—माहेन्द्रैति । त्रिदशादयो देवानां जाति-भेदाः कल्पायुषः कल्पो ब्रह्मणो दिनं तद्-आयुषः । संकल्प-मात्रेण कर्तुं क्षमाः संकल्प-सिद्धाः ।वृन्दारकाः देवाः । औपपादिक-देहाः पित्रोः संयोगं विना क्षण-मात्रेणोत्पद्यमान-शरीरा इत्य् अर्थः ।
महर्-लोकस्थान् आह—महतीति । महा-भूतानां परिणमने स्वतन्त्राः । ध्यानाहारा ध्यानत एव तृप्ताः ।
जनलोक-स्थान् आह—प्रथमैति ।भूतेन्द्रिय-वशिनैति । इन्द्रियाणां परिणमने स्वातन्त्र्यं पूर्वापेक्षयैषामधिकम् ।द्विगुणेति । द्विगुणं द्विगुण-रूपमुत्तरमधिकमायुर्येषां ते तथा । ब्रह्म-पुर-स्थितानाम् आयुः कल्प-सहस्रात् पूर्वोक्ताद् द्विगुणं, तद्-उत्तरस्य तद्-द्विगुणम्, एवं क्रमेण वृद्धिर् इत्य् अर्थः ।
तपो-लोक-स्थान् आह—द्वितीयैति । ते भूत- इति । भूतेन्द्रिययोः प्रकृतेरहंकारस्यापि वशिनैति पूर्वापेक्षयैषामाधिक्यम् । अत्राहङ्कारेणान्तः-करण-सामान्य-ग्रहणम् । एतेन स्वेच्छयाऽन्य-परयोर्निर्माणे चित्तोत्पादनादौ समर्था इति ।द्विगुणेतिपूर्वानुसारेण व्याख्येयम् ।ूर्ध्व-रेतसैति । प्राणायाम-वशादूर्ध्वम् एव रेतांसि सूक्ष्माणि भूत्वा गच्छन्ति न स्खलन्ति संभोगाभावाद् येषां ते तथा । ऊर्ध्वं सत्य-लोकादौ ज्ञानमप्रतिहतं शक्यं येषां ते तथा । अधो-लोकेषु अनावृतो ज्ञान-विषयो येषां ते तथेत्यर्थः ।
सत्य-लोक-स्थान् आह—तृतीयैति। आदौ चतुर्णां साधारणानि विशेषणान्य् आह—अकृतेति । न कृतो भवन-न्यासो गृह-निर्माणं यैस्ते तथा । स्वस्मिन्नेवात्मनि गृहे प्रत् इतिष्ठन्तीति स्व-प्रतिष्ठा आत्म-वासाः । उपर्य्-उपरि-स्थिताइति । अच्युतानाम् उपरि स्थिताः शुद्ध-निवासाः । एवं-क्रमेणेत्य् अर्थः । तथा च सत्य-लोकेऽप्यावान्तर-लोक-भेदाःसन्तीत्यायातम् । प्रधान-वशिनः प्रकृतौ स्वतन्त्राईश्वराः द्विपरार्धायुषः ।
तेषां चतुर्णां संज्ञा-भेदमवान्तर-विशेषं चाह—तत्राच्युता इति । अच्युत-संज्ञकाः स-वितर्क-योगेनैव सुखिनः । शुद्ध-निवासादयोऽप्य् एवं व्याख्येयाः । तेऽपि चत्वारोऽपि त्रैलोक्य-मध्ये चतुर्दश-भुवन-मध्य एव तिष्ठन्ति, न ब्रह्माण्डाद् बहि र् इत्य् अर्थः ।
नन्व् एवम् अण्डस्य सर्व-जीव-साधारण्यात् कथं ब्रह्माण्ड-संज्ञेत्याकाङ्क्षायाम् आह—त एतैति । त एते सप्त लोका अवान्तरंचतुर्दशधा भिन्नाः । सर्व एवादि-पुरूषस्य ब्रह्मणो लोका ब्रह्मणो हिरण्यगर्भस्य लिङ्ग-देहेन सर्व-लोक-व्यापनात्, पितापुत्रवदंशांशि-भावेन सर्व-जीवानां ब्रह्माभेदाच्चेति भावः ।
नन्वसम्प्रज्ञात-सुखिनौ यौ विदेह-प्रकृति-लयौभव-प्रत्ययो विदेह-प्रकृतिलयानाम्[१.१९]इति सूत्रोकौ तयोर्लोकःकथं नोक्तः ? तत्राह—विदेहेति । तेषां मुक्त-प्रायत्वाद् ईश्वर-कोटित्वाच् च ब्रह्माण्डस्यान्तर्-बहिः स्वातन्त्र्येण व्यापारवत्तया शास्त्रे न ते लोक-मध्ये लोक-वासि-जन-मध्ये गाणिता इत्य् अर्थः ।
तद् एवं संक्षेपतोभुवन-शब्दार्थे व्याख्याय सूत्र-वाक्यार्थम् आह—एतद्योगिनेति । सूर्ये सूर्य-द्वारे संयमं कृत्वा योगिनैतद् भूवनं साक्षात्करणीयम् । अत्र योग-शास्त्रान्तर-दर्शनेन द्वार-शब्दः पूरित इत्युन्नीयते । सूर्य-द्वारं च ब्रह्मणो लोक-द्वार-भूतंसूर्यान्तश्चित्रंस आदित्यमार्च्छति । तस्मै स तत्र विजिहीते, यथा भास्करस्य खं, तेन स ऊर्ध्वमाक्रमत इति श्रुतौ, सूर्य-द्वारेण ते विरजाः प्रयान्ति यत्रामृतः स-पुरुषो ह्यव्ययात्माइतिश्रुतौ च तद्-भष्य-कृता तथा व्याख्यातत्वात् ।
अनन्ता रश्मयस् तस्य दीपवद्यः स्थितो हृदि।
ऊर्ध्वमेक-स्थितस्तेषां यो भित्त्वा सूर्य-मण्डलम्॥
ब्रह्म-लोकमतिक्रम्य तेन यान्ति परां गतिम्॥इति स्मरणच्चेति ।
न केवलं सूर्य-द्वार-संयमस्यैव भुवन-ज्ञानं फलं, किं तु योग-शास्त्रोक्त-संयमान्तरस्यापीत्यतो राग-क्षायार्थम् अन्यत्र संयमेनापि समग्र-भुवनं साक्षात्करणीयम् इत्युपदिशति—ततोऽन्यत्रापीति । ततः सूर्य-द्वारादन्यत्राप्येवं संयमं तावदभ्यसेद् यावदिदं भुवनं दृष्टं भवेदित्य् अर्थः ॥२६॥
—o)0(o—
(३.२७)
चन्द्रे तारा-व्यूह-ज्ञानम् ॥२७॥
चन्द्रे संयमं कृत्वा तारा-व्यूहं विजानीयात् ॥२७॥
तत्त्व-वैशारदी : चन्द्रे तारा-व्यूह-ज्ञानम् ॥ध्रुवे तद्-गति-ज्ञानम् ॥[३.२८] नाभि-चक्रे काय-व्यूह-ज्ञानम् ॥[३.२९] कण्ठ-कूपे क्षुत्-पिपासा-निवृत्तिः ॥[३.३०] कूर्म-नाड्यां स्थैर्यम् ॥[३.३१] तत्र तत्र जिज्ञासायां योगिनस्तत्र तत्र संयमः । एवं क्षुत्-पिपासा-निवृत्ति-हेतुः संयमः, स्थैर्य-हेतुश् च संयमः सूत्र-पदैरुपदिष्टो भाष्येण च निगद-व्याख्यातेनव्याख्यात इति न व्याख्यातः॥२७-३१॥
योग-वार्तिकम् : चन्द्रे तारा-व्यूह-ज्ञानम् ॥ भाष्यं सुगमम्॥२७॥
—o)0(o—
(३.२८)
ध्रुवे तद्-गति-ज्ञानम् ॥२८॥
ततो ध्रुवे संयमं कृत्वा ताराणां जानीयात् । ऊर्ध्व-विमानेषु कृत-संयमस् तानि जानीयात् ॥२८॥
तत्त्व-वैशारदी : ३.२७ द्रष्टव्यम्.
योग-वार्तिकम् :ध्रुवे तद्-गति-ज्ञानम् ॥ तारा-स्वरूपाणि ज्ञात्वैव तासां गति-ज्ञानं सम्भवतीत्याशयेन भाष्ये तत इत्य् उक्तम् । तारा-व्यूह-ज्ञानानन्तरम् इत्य् अर्थः । भाष्यं सुगमम् ।
अस्मिन्न् एव प्रसङ्गे योग-शास्त्रान्तरोक्ताद् भुवर्-लोकस्थ-वस्त्व्-अन्तर-संयमात् सिद्धिं स्वयं पूरयति—ऊर्ध्वेति ।ूर्ध्व-विमानेष्वादित्यादि-रथेषु कृतःसाक्षात्कार-पर्यन्तः संयमो येन सः, तानि विमानानि रथान् जानीयाद् इत्य् अर्थः ।
ननु विमाने संयमस्यैव विमान-साक्षात्कारः सिद्धिरत्रोक्ता साक्षात्कार-पर्यन्तस्यैव संयमस्य सर्वत्र सिद्धि-कथनात् संयमानां स्व-स्व-विषय-साक्षात्कार-हेतुतायाः सामान्यत एव सिद्धत्वाच् च॥२८॥
—o)0(o—
(३.२९)
नाभि-चक्रे काय-व्यूह-ज्ञानम् ॥२९॥
नाभि-चक्रे संयमं कृत्वा काय-व्यूहं विजानीयात् । वात-पित्त-श्लेष्माणस् त्रयो दोषाः सन्ति । धातवः सप्त त्वग्-लोहित-मांस-स्नाय्व्-अस्थि-मज्जा-शुक्राणि । पूर्वं पूर्वम् एषां बाह्यम् इत्य् एष विन्यासः ॥२९॥
तत्त्व-वैशारदी : ३.२७ द्रष्टव्यम्.
योग-वार्तिकम् :नाभि-चक्रे काय-व्यूह-ज्ञानम् ॥ शरीर-मध्य-वर्ति नाभि-कन्द-रूपं चक्रं कदली-मूलवदादावुत्पन्नं यतःशाखा-पल्लवादिवच्छिरः पादादिकमवयव-जातम् ऊर्ध्वमधश्चाविर्भवति । तस्मिन्नाभि-चक्रे संयमात् साक्षात्कृते काय-स्थ-पदार्थ-व्यूहं वात-पित्त-त्वग्-असृग्-आदि-रूपं साक्षात् क्रियतैत्य् अर्थः । भाष्ये बाह्यम् इति । शुक्रस्य मज्जा बाह्येति। एवम्-आदिरेषां सप्तानां क्रमः । विन्यासः शरीर-संस्थानम्॥२९॥
—o)0(o—
(३.३०)
कण्ठ-कूपे क्षुत्-पिपासा-निवृत्तिः ॥३०॥
जिह्वाया अधस्तात् तन्तुः । ततोऽधस्तात् कण्ठः । ततोऽधस्तात् कूपः । तत्र संयमात् क्षुत्-पिपासे च बाधेते ॥३०॥
तत्त्व-वैशारदी : ३.२७ द्रष्टव्यम्.
योग-वार्तिकम् :कण्ठ-कूपे क्षुत्-पिपासा-निवृत्तिः ॥ तन्तोर् अधस्तादिति । अनेनोपरि छिद्रं वारितं, कृपादध उरसीत्यागाभि भाष्येण चोरः-पर्यन्तत्वं कण्ठ-कूपस्य लप्स्यते । तथा च जिह्वाधःस्थस्य तन्तोर् मूलाद् आरभ्य उरः-पर्यन्तं छिद्रं कण्ठ-कूपः कूपाकारश्छिद्रम् इति । तत्रेति । तस्मिन् प्रदेशे संयमादशेष-विशेषतः साक्षात्कृते सति क्षुत्-पिपासा-निवृत्ति-रूपा सिद्धिर्भवतीत्य् अर्थः । एवं-विधेषु च संयमेषु भावना-प्रकारो योग-शास्त्र-विशेषद् गुरु-मुखाच् च प्रत्येतव्यः ॥३०॥
—o)0(o—
(३.३१)
कूर्म-नाड्यां स्थैर्यम् ॥
कूपाद् अध उरसि कूर्माकारा नाडी । तस्यां कृत-संयमः स्थिर-पदं लभते । यथा सर्पो गोधा वेति ॥३१॥
तत्त्व-वैशारदी : ३.२७ द्रष्टव्यम्.
योग-वार्तिकम् : कूर्म-नाड्यां स्थैर्यम् ॥ कूर्माकारेति । कुण्डलित-सर्पवदवस्थिततया कूर्माकारं हृदय-पुण्डरीकाख्यं नाडी-चक्रं तत्र कृत-संयमो योगी स्थिर-पदं स्थिरां चित्त-वृत्तिं लभत इत्य् अर्थः । नाडयाः कूर्माकारत्वे दृष्टान्त-द्वयं यथा सर्पो गोधा वेति कुण्डलितैति शेषः ॥३१॥
—o)0(o—
(३.३२)
मूर्ध-ज्योतिषि सिद्ध-दर्शनम् ॥३२॥
शिरः-कपालेऽन्तश् छिद्रं प्रभा-स्वरं ज्योतिः । तत्र संयमात् सिद्धानां द्याव्-आपृथिव्योर् अन्तराल-चारिणां दर्शनम् ॥३२॥
तत्त्व-वैशारदी : मूर्ध-ज्योतिषि सिद्ध-दर्शनम् ॥ मूर्ध-शब्देन सुषम्ना-नामा नाडी लक्ष्यते, तत्र संयमैति ॥३२॥
योग-वार्तिकम् :मूर्ध-ज्योतिषि सिद्ध-दर्शनम् ॥ शिरैति । शिरः-कपाल-मध्ये छिद्रं प्रभास्वरत्वाज् ज्योतिरिति प्रामादिका-पाठेऽप्य् अयम् एवार्थो लक्षणया कार्यं, शेषं सुगमम्॥३२॥
—o)0(o—
(३.३३)
प्रातिभाद् वा सर्वम् ॥३३॥
प्रातिभं नाम तारकम् । तद्-विवेकजस्य ज्ञानस्य पूर्व-रूपम् । यथोदये प्रभा भास्करस्य । तेन वा सर्वम् एव जानाति योगी, प्रातिभस्य ज्ञानस्योत्पत्ताविति॥३३॥
तत्त्व-वैशारदी : प्रातिभाद्वा सर्वं ॥प्रतिभोहः, तद्-भवं प्रातिभं, प्रसङ्ख्यान-हेतु-संयमवतो हि तत्-प्रकर्षे प्रसङ्ख्यानोदय-पूर्व-लिङ्गं यदूहजं ज्ञानं, तेन सर्वं विजानाति योगी । तत्र प्रसङ्ख्यान-सन्निधापनेन संसारात्तारयतीति तारकम्॥३३॥
योग-वार्तिकम् :प्रातिभाद्वा सर्वं ॥प्रातिभमिति। प्रातिभं स्व-प्रतिभोत्थम् अनौपदेशिकंज्ञानं संसार-तरणोपायत्वात् तारकंितितारकं सर्व-विषयम्[३.५४]इति सूत्रे व्याख्यास्यते । तच् च विवेकजस्य वक्ष्यमाणस्य सार्वज्ञ्यस्य पूर्व-लिङ्गम् । तत्र दृष्टान्तो यथा सूर्योदयस्य पूर्व-लिङ्गं प्रभेति, तेन वा प्रातिभ-ज्ञानेनसर्व-पूर्वोक्तमतीतानागतादि-सिद्ध-पर्यन्तं योगीजानाति पूर्वोक्तान् संयमान् विनाऽपीत्य् अर्थः ।
तेनेत्येतद्विवृणोति—प्रातिभस्य ज्ञानस्योत्पत्ताव् इति । द्वारान्तरापेक्षा नास्तीति भवः । यद्यपि तारकं सर्व-विषयम् [३.५४] इत्यागामि-सूत्रे विवेकज-ज्ञानम् एवप्रातिभं तारकं च व्याख्यास्यते, तथाप्य् अत्र प्रातिभाद् इतिहेतु-वचनाद् विवेकज-ज्ञानस्य पूर्व-रूपम् एवलक्षणया प्रातिभं तारकं चेति व्याख्येयम् ।
ननु संयम-सिद्धि-मध्ये कथं प्रातिभ-ज्ञानजा सिद्धिर् उच्यतैति चेत्, न, प्रातिभस्यापि क्षण-तत्-क्रमादि-संयमादि-जन्यतया वक्ष्यमाणत्वेन[३.५२], उक्त-सिद्धेर् अपि परम्परा संयम-सिद्धित्वाद् इति ॥३३॥
—o)0(o—
(३.३४)
हृदये चित्त-संवित् ॥३४॥
यद् इदम् अस्मिन्ब्रह्म-पुरे दहरं पुण्डरीकं वेश्म [छा.उ. ८.१.१], तत्र विज्ञानम् । तस्मिन् संयमाच् चित्त-संवित् ॥३४॥
तत्त्व-वैशारदी : हृदये चित्त-संविद्॥ हृदय-पदं व्याचष्टे—यदिदमस्मिन् ब्रह्म-पुरे [छा.उ. ८.१.१] इति। बृहत्त्वादात्मा ब्रह्म,तस्य पुरं निलयः । तद्धि तत्र विजानाति स्वम् इति।दहरं गर्तं । तद् एव पुण्डरीकमधो-मुखं वेश्म मानसः । चित्त-संवेदनत्वे हेतुमाह—तत्र विज्ञानमिति । तत्र संयमाच् चित्तं विजानाति स्व-वृत्ति-विशिष्टम्॥३४॥
योग-वार्तिकम् :संयमस्य क्षुद्र-सिद्धय उक्ताः । इदानीं संयमस्य सत्त्व-पुरुषान्यताख्याति-रूपां मुख्यां सिद्धिं विवक्षुर् आदौतत्-संयम-हेतु-भूतायाश् चित्त-संविदः कारणम् आह—हृदये चित्त-संविद्॥
हृदय-पदं व्याचष्टे—यद् इदमिति । अस्मिन् ब्रह्मणः परमात्मनो जीवस्य च पुरे शरीरे यद् इदं दहरं स-गर्तं पुण्डरीकाकारं ब्रह्मणो वेश्म, तत्र विज्ञानम्विज्ञान-वृत्तिकम् अन्तःकरणं ब्रह्मणः । सिंहासन-कल्पं तिष्ठति । अतस् तस्मिन् हृदयाख्ये वेश्मनि संयमाच् चित्त-साक्षात्कारो भवतीत्य् अर्थः ॥३४॥
—o)0(o—
(३.३५)
सत्त्व-पुरुषयोरत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोगः
परार्थत्वात्॑ स्वार्थ-संयमात् पुरुष-ज्ञानम् ॥३५॥
बुद्धि-सत्त्वं प्रख्या-शीलं समान-सत्त्वोपनिबन्धने रजस्-तमसी वशीकृत्य सत्त्व-पुरुषान्यता-प्रत्ययेन परिणतम् । तस्माच् च सत्त्वात् परिणामिनोऽत्यन्त-विधर्मा विशुद्धोऽन्यश् चिति-मात्र-रूपः पुरुषः । तयोर् अत्यन्तासङ्कीर्णयोः प्रत्ययाविशेषो भोगः पुरुषस्य, दर्शित-विषयत्वात् । स भोग-प्रत्ययः सत्त्वस्य परार्थत्वाद् दृश्यः । यस् तु तस्माद् विशिष्टश् चिति-मात्र-रूपोऽन्यः पौरुषेयः प्रत्ययः,तत्र संयमात् पुरुष-विषया प्रज्ञा जायते । न च पुरुष-प्रत्ययेन बुद्धि-सत्त्वात्मनापुरुषो दृश्यते । पुरुष एव तं प्रत्ययं स्वात्मावलम्बं पश्यति । तथा ह्य् उक्तम्—विज्ञातारम् अरे केन विजानीयात्[बृ.आ.उ. २.४.१४]इति॥३५॥
तत्त्व-वैशारदी : सत्त्व-पुरुषयोरित्य्-आदि । यत्र प्रकाश-रूपस्यातिस्वच्छस्य नितान्ताभिभूत-रजस्-तमस्तया विवेक-ख्याति-रूपेण परिणतस्य बुद्धि-सत्त्वस्यात्यन्तिकश्चैतन्यादसङ्करः,तत्र कैव कथा रजस्-तमसोर्जड-स्वभावयोरित्याशयवान् सूत्र-कारः सत्त्व-पुरूषयोरित्युवाच ।
इमम् एवाभिप्रायं गृहीत्वा भाष्य-कारोऽप्याह—बुद्धि-सत्त्वं प्रख्या-शीलमिति । न प्रख्या-शील-मात्रम्, अपितु विवेक-ख्याति-रूपेण परिणतम् । अतो नितान्त-शुद्ध-प्रकाशतयाऽत्यन्त-सारूप्यं चैतन्येनेति सङ्कर इत्य् आह—समानैति ।
तत्त्वेनोपनिबन्धनमविनाभावःसम्बन्धः ।समानं सत्त्वोपनिबन्धनं ययो रजस्-तमसोस्ते तथोक्ते । वशीकारोऽभिभवः । असङ्करम् आह—तस्माच् चैति । च-कारोऽप्य्-आर्थकः,केवलं रजस्-तमोभ्याम् इत्य् अर्थः । परिणामिनैतिवैधर्म्य-परिणामिनः पुरुषादुक्तम् ।प्रत्ययाविशेषःशान्त-घोर-मूढ-रूपाया बुद्धेश्चैतन्य-बिम्बोद्ग्राहेण चैतन्यस्य शान्ताद्य्-आकाराध्यारोपः चन्द्रमस इव स्वच्छ-सलिल-प्रतिबिम्बितस्य तत्-कम्पनात् कम्पनारोपः ।भोग-हेतुम् आह—दर्शित-विषयत्वाद् इत्यसकृद् व्याख्यातम् ।
ननु बुद्धि-सत्त्वम् अस्तु पुरुष-भिन्नं । भोगस् तु पुंसः कुतो भिद्यते ? इत्यत आह—सैति ।स भोग-प्रत्ययःभोग-रूप-प्रत्ययः सत्त्वस्य । अतः परार्थत्वाद् दृश्यो भोगः। सत्त्वं हि परार्थं, संहतत्वात् । तद्-धर्मश् च भोगैति सोऽपि परार्थः, यस्मै च परस्मा असौ तस्य भोक्तुर्भोगः ।
अथवाऽनुकूल-प्रतिकूल-वेदनीयो हि सुख-दुःखानुभवो भोगः । न चायमात्मानम् एवानुकूलयति प्रतिकूलयति वा, स्वात्मनि वृद्धि-विरोधात् । अतोऽनुकूलनीय-प्रतिकूलनीयार्थो भोगः । स भोक्ता आत्मा, तस्य दृश्यो भोगैति ।यस् तु तस्मात्परार्थाद्विशिष्टैति। परार्थादितिपञ्चम्य्-अन्य-पदाध्याहारेण व्याख्याता ।
स्यादेतत्—पुरुषैति ।पुरुष-विषया चेत् प्रज्ञा हन्त भोः पुरुषः प्रज्ञायाः प्रज्ञेयैति प्रज्ञान्तरम् एव तत्र तत्रेत्य् अनवस्थापात इत्य् अत आह—न च पुरुष-प्रत्ययेनेति । अयम् अभिसन्धिः—चित्या जडः प्रकाश्यते, न जडेन चितिः । पुरुष-प्रत्ययस् त्व् अचिद् आत्मा कथं चिद्-आत्मानं प्रकाशयेत् ? चिद्-आत्मा त्वपराधीन-प्रकाशो जडं प्रकाशयतीति युक्तम् ।
बुद्धि-सत्त्वात्मनेति । अचिद्-रूप-तादात्म्येन जडत्वम् आह—बुद्धि-सत्त्व-गत-पुरुष-प्रतिबिम्बालम्बनात्पुरुषालम्बनं[दर्पणवन्मुखालम्बनं], न तु पुरुष-प्रकाशनात्पुरुषालम्बनम् । बुद्धि-सत्त्वम् एवतु तेन प्रत्ययेन संक्रान्त-पुरुष-प्रतिबिम्बं पुरुष-च्छायापन्नं चैतन्यमालम्बतैति पुरुषार्थः । अत्रैव श्रुतिमुदाहरति—तथा ह्युक्तमिति । ईश्वरेण विज्ञातारंिति । न केनचिद् इत्य् अर्थः ॥३५॥
योग-वार्तिकम् :चित्ते ज्ञाते चित्ताद्विवेकेनात्म-साक्षात्कारो भवतीति क्रमानुसारेणाह—सत्त्व-पुरुषयोरत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोगः परार्थत्वात्स्वार्थ-संयमात्पुरुष-ज्ञानम् ॥ सत्त्वधिक्यात्सत्त्वं बुद्धिः । परार्थादितिपञ्चमी चान्य-पदमध्याहृत्य व्याकरिष्यति । तथा च बुद्धि-पुरुषयोरत्यन्त-विधर्मणोः प्रत्यय-द्वयाविवेको भोग-शब्दार्थः । तयोः प्रत्यययोर्मध्ये परार्थाद्विवेकेन स्वार्थे पौरुषेय-प्रत्यये संयमात् साक्षात्-कृते सति, स्वयम् एवपूर्णत्वाद्य्-अशेष-विशेषैः पुरुषस्य साक्षात्कारो भवति,तादृश-संयमाभावेऽपीत्य् अर्थः ।
यद्यपि पौरुषेयः प्रत्ययः पुरुषातिरिक्तो न भवति, तथापि दृश्योपरागेण परिच्छन्नोऽंश एव प्रत्ययः श्रोत्रादिवत् । पुरुषातिरिक्ता महाकाशवद् इत्यनयोर्भेद इत्यतः प्रत्यये साक्षात्कार-पर्यन्त-संयमस्यापरिच्छिन्नत्वाद्य्-अंश-मात्राधिक्येन फलंपुरुष-साक्षात्कार उक्तैति ।
नन्वत्र सूत्रे भोग-लक्षणस्य किं प्रयोजनम् ?इति चेत्, उच्यते—भोग-रुपेणैव बुद्धि-पुरुष-धर्मयोरविवेकाद् धर्मिणोः सांकर्यम्, अतो भोग्य-मध्य एव तद्-धर्मयोर्विवेकाय संयमः कार्यैति प्रतिपादयितुम् अनेन सूत्रेण भोगोऽपि लक्षितः ।
तद् एतद्व्याख्यातुमादावत्यन्त-शब्दस्याभिप्रेतम् अर्थे प्रकटयति—बुद्धि-सत्त्वमित्य्-आदिना ।यम् अर्थः—न केवलं बाह्याद्य्-आकार-बुद्ध्या सहासंकीर्णः पुरुषोऽपि तु यद् बुद्धि-सत्त्वं प्रख्या-शीलतया समान-सत्त्वाधीन-वृत्तिके रजस्-तमसीअभिभूय सत्त्व-पुरुषान्यता-साक्षात्कार-रूपेण परिणतं भवति । तस्माच्च तस्मादपि प्रकृष्ट-ज्ञानैश्वर्यानन्दादि-मयाद् बुद्धि-सत्त्वाद् आत्माकारतयात्म-कल्पात् परिणामिनोऽत्यन्त-विधर्मा पुरुषो विशुद्धः परिणाम-शून्योऽतोऽन्यश्चिति-मात्र-रूपैति ।
अत्यन्त-शब्दार्थं व्याचष्टे—तयोरिति । तयोर् बुद्धि-पुरुषयोरत्यन्त-विधर्मणोर् अपि प्रत्ययाविशेषः प्रत्यययोर्विविच्याग्रहणं भोगः । अगृहीत-विवेकौ प्रत्ययाविति यावत् । अयम् अप्याविवेको बुद्धि-धर्मैति स्मर्तव्यम् । तत्र बुद्धेः प्रत्ययः सुखादिमती विषयाद्य्-आकार-चित्त-वृत्तिः पुरुषस्य प्रत्ययो बुद्धि-वृत्ति-प्रतिबिम्बावच्छिन्न-चैतन्यांशः सुखाद्य्-आत्मक-शब्दाद्य्-अनुभव-नामा ।
तयोरविवेके हेतुम् आह—पुरुषस्य दर्शित-विषयत्वादिति। यतो बुद्ध्या पुरुषे प्रतिबिम्बमर्पितं ततो जपा-स्फटिकयोरिव धर्म-संकरापत्तेरविवेक इत्य् अर्थः । तथा च स्मर्यते—
शुद्धोऽप्यात्माऽतिसामीप्याद् दृश्य-धर्मान् पृथग्-विधान्।
कर्तृत्व-भोक्तृत्व-मुखान्मन्यते स्वान्स्व-वीक्षितान्॥
जीवो बहिरितीक्षित्वा स्फुट-भिन्नानपि स्वतः।
नेमान् वेत्त्यन्तरासन्नान् मुख-सक्तां मसीमिव॥
स्फुट-भिन्नानपीमानर्थान् जीव ईक्षित्वा स्वस्माद् बहिरिति स न वेत्ति, यत ईक्षणान्यथाऽनुपपत्त्यान्तर्-आसन्नान् प्रतिबिम्बितान् । तत्र दृष्टान्तो मुख-लग्नां मसीमिवेत्य् अर्थः ।
परार्थादित्य्-आद्य्-उत्तरार्धं संयम-सिद्धि-प्रदर्शकं व्याचष्टे—स भोग-प्रत्ययैत्य्-आदिना जायते इत्य् अन्तेन । सोऽविभागापन्न उभयात्मको भोगाख्यः प्रत्यय सत्त्वस्यांशः परार्थत्वात् पर-प्रयोजनकत्वाद् दृश्यः । यस् तु तस्मात् परार्थादन्यो विशिष्टः स्वार्थः परस्य बुद्ध्य्-आदेरदृश्यः साक्षाद् दृश्यश् च। चैतन्य-मात्रः पौरुषेयः पुरुषांशः प्रत्ययः भोगाख्यः । तत्र यथोक्त-विवेकेन संयमात्साक्षात्कार-पर्यन्तात् पुरुष-साक्षात्कारो भवतीत्य् अर्थः ।त्रान्य-पदाध्याहारः कृतः, तदनेन सूत्रेण भोगापवर्गावपि व्याख्यातौ । स्वयं च मुख्य एव भोगोऽविविक्त-प्रत्ययात्मको लोक-व्यवहार-सिद्धः, विवेक-ग्रहे सति परकीय-सुखादि-साक्षात्कार इव स्वीय-सुखादि-साक्षात्कारेऽपि भोग-व्यवहार-योगात् सोऽयं भोगोऽविवेक-प्राधान्येन कुत्रचिद् बुद्धेरेवेत्यप्युच्यते । तथा सोऽयं भोगोऽंश-भेदेनोभयोर् एव भवति ।
तत्रैव गौणे भोगः सांख्ये प्रोक्तः चिद्-अवसानो भोगः[सा.सू. १.१०४]इति । स च पुरुषस्यैव न बुद्धेः ।पुरुषोऽस्ति भोक्तृ-भावाद्[सा.का. १७]इतिसांख्य-वाक्यात् । अन्यस् तु विपाकान्तर्-गतो भोगः शब्दाद्य्-आकार-वृतिश् च बुद्धेर् एव तावेतौ भोगापवर्गे बुद्धावेव वर्तमानाविति भाष्यात् । स हि तत्-फलस्य भोक्तेति । तत्र तत्र भाष्य-कृता विपाक-फलस्य सुख-दुःखादेर्भोगान्तर-वचनाच्चेति स्मर्तव्यम् ।
ननु पुरुष-ज्ञानं भवतीत्युक्तं । तत् पुरुष-ज्ञानं किं बुद्धि-सत्त्वस्य भवति, किं वा पुरुषस्य भवति ? आद्ये बुद्धेर् अपि चेतनत्वापत्तिः स्वोक्त-परादृश्यत्वानुपपत्तिश्च, तथा ते तं न पश्यन्ति स पश्यते तान् इत्यादि-वाक्य-शत-विरोधश्च, अन्त्ये स्वस्य स्व-ज्ञेयत्वेन कर्म-कर्तृ-विरोधः सदैव स्व-ज्ञान-प्रसङ्गश्च, पुरुषस्यापरिणामि-चिन्मात्रत्वादिति। तामिमामाशङ्कां परिहरति—न च पुरुषस्येति । पुरुषाकार-प्रत्ययेन बुद्धि-सत्त्व-धर्मेण पुरुषो न दृश्यते न भास्यते, तस्य जडत्वात् । अपि तु पुरुष एव तं प्रत्ययं स्व-स्वरूपाकारं पश्यति, बुद्ध्य्-आरूढमात्मानं पश्यतीत्य् अर्थः ।स्वस्मिन्प्रतिबिम्बितमिति शेषः ।
तथा च स्व-प्रतिबिम्बित-स्वाकार-बुद्ध-वृत्ति-दर्शनम् एवपुरुषस्य पुरुष-ज्ञानम्, यथा स्व-प्रतिबिम्बित-घटाकार-बुद्धि-दर्शनम् एवपुरुषस्य घट-दर्शनमिति । न चात्र कर्म-कर्तृ-विरोधः । कर्म-कर्तृ-विरोधो हि स्वस्मिन् स्व-सम्बन्धानुपपत्तिर् एव बीजं, प्रकाश-सम्बन्धस्यैव प्रकाश्यता-रूपत्वात्, अनुभव-प्राप्त्योरेकार्थत्वाच् च । स च सम्बन्ध एकस्मिन्नपि बिम्ब-प्रतिबिम्बाख्य-रूप-भेदेनोपपन्नैति ।
अथैवम् अपि पर-समवेत-क्रिया-फल-भागित्व-रूपं कर्म-लक्षणं पुरुषे नघटतैति चेन्, न, विशिष्टाविशिष्ट-रूपेण ज्ञातृ-ज्ञेययोर् भेद-सत्त्वात्, आत्माकार-वृत्त्य्-अवच्छिन्नस्य ज्ञातृत्वात्, केवलस्य ज्ञेयत्वात् । न चैवमेक-वृत्त्य्-अवच्छिन्न-बुद्धेर्वृत्त्य्-अन्तरावच्छिन्न-बुद्धि-ग्राह्यत्व-सम्भवात् पुरुष-कल्पना व्यर्थेति वाच्यम्, अनवस्थादि-दोषैः सूत्रेण निरस्यत्वादिति ।
यत् तु—आधुनिक-वेदान्ति-ब्रुवानुसारेणास्मदीयोऽपि कश्चिद् आत्मनो ज्ञेयत्वाभावम् एववदति, तद् यथा-श्रुत-सूत्र-भाष्य-विरोधाद् उपेक्षणीयम् । स्व-प्रकाशत्वं चात्मनः[स्वज्ञेयत्वम् एव] चेतनात्मा स्व-वेदनैत्य्-आदि-स्मृत्य्-अनुसारात्, शब्दस्य योगार्थ-परित्यागानौचित्याच् च, बुद्ध्य्-आदि-जड-वर्ग-व्यावृत्तेस्तेनैव संभवाच्चेत्य्-आदिकंब्रह्म-मीमांसायां प्रतिपादितमस्माभिः । तदपि वृत्ति-व्याप्यात्वमात्मनोऽभ्युपेत्य फल-व्याप्यत्वं वेदान्ति-ब्रुवैर् अपलप्याते,तद् अपि मोहाद् एव । फल-व्याप्यात्वस्य सामान्यतो व्यवहार-हेतुतायाः कॢप्तत्वेन चैतन्याख्य-फल-व्याप्यातां विना चैतन्य-व्यवहारानुपपत्तेः । अन्यथा घटादि-व्यवहारस्यापि वृत्ति-व्याप्यत्वेनैवोपपत्तौ विश्व-प्रकाशकतया चैतन्य-कल्पना-वैयर्थ्यात्,यतो वाचो निवर्तन्ते अप्राप्या मनसा सह[तै.उ. २.७]इत्यादि-वाक्यानि च लौकिक-मन-आदि-वृत्त्य्-अगोचरत्वम् एवप्रतिपादयन्ति,मनसैवानुद्रष्टव्यम्[बृ.आ.उ. ४.४.१९]इत्यादिरुक्त्य्-अन्तरात्,
अध्यात्म-योगाधिगमेन देवं
मत्वा धीरो हर्ष-शोकौ जहाति[क.उ. १.२.१२]
इत्यादि-श्रुत्या योगि-मनो-विषयत्वावगमाच् च, न तु फल-व्याप्यात्वं निराकुर्वन्ति ।मन-आदीनां जडत्वेन फलानाधारत्वात्, फलं विना शास्त्रादीनां ब्रह्मणि प्रमाणत्वादि-दोषासम्भवादितिदिक् ।
पुरुषस्यैव स्व-ज्ञातृत्वमिति । अत्र श्रुतिं प्रमाणयति—तथा ह्युक्तमिति,ईश्वरेणेति शेषः । आत्मा यदि न नित्य-ज्ञान-रूपस्तर्हि केन ज्ञानान्तरेण विज्ञातारम् आत्मानं लोको विजानीयादित्य् अर्थः । यद्वा, मोक्ष-काले बुद्ध्य्-आदि-विलयात् केन करणेन तदानीं विज्ञातारमात्मानं पुरुषो विजानीयादित्य् अर्थः । अत्र हि श्रुतौकरणेन पुरुषस्यैव स्वज्ञेयत्वमवगम्यते, अज्ञेयत्वे च विज्ञातारं को विजानीयादित्य् एवोच्येतेति ।
इयं श्रुतिः पुरुषस्य सर्वदैवाज्ञेयत्वं वदतीति कश्चित् । तन्न, यतोन प्रेत्यसंज्ञाऽस्तीति पूर्व-वाक्ये याज्ञवल्क्येन मोक्ष-काले ज्ञान-स्वरूपोऽपि पुरुषो न जानातीत्युक्तम् । अखिल-दुःख-भोग-निवृत्ति-रूप-परम-पुरुषार्थ-मोक्षं प्रदर्शयितुम्, तत्र विरोधं दृष्ट्वा मूढाया मैत्रेय्यास्तद्-विरोध-परिहारायैवेदं वाक्यं प्रवर्तते, न तु पुरुषस्याज्ञेयत्व-प्रदर्शनाय, अप्रकृताभिधान-प्रसङ्गादिति ।
ननुभवन्-मतेऽपि पराज्ञेयत्वेन कथं मैत्रेय्याः शङ्काऽपगच्छति ?इति चेन्, न, यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येद्[बृ.आ.उ. ४.५.१५]इति पूर्व-श्रुत्यैव विरोधस्य परिहृतत्वात्, स्वयं ज्ञान-स्वरूपोऽपि सर्व-करण-विलयान्मोक्ष-काले किम् अपिन विजानातीति, तत्र च मैत्रेय्या कदाचिदाशङ्क्येत मोक्ष-कालेऽनभिव्यप्त्या आत्मा ज्ञान-स्वरूप एवं माऽस्त्विति ।
तत्रोत्तरं वाक्यं प्रवर्तते—येनेदं सर्वं विजानाति तं केन विजानीयाद् विज्ञातारमरे केन विजानीयाद्[बृ.आ.उ. ४.५.१५]इति ।ात्मा यदि ज्ञान-स्वरूपो न भवति, तद्-विषयक-ज्ञानान्तर-कल्पनेऽनवस्थादिकंिति श्रुतेर् आशयः ॥३५॥
—o)0(o—
(३.३६)
ततः प्रातिभ-श्रावण-वेदनादर्शास्वाद-वार्ता जायन्ते ॥३६॥
प्रातिभात् सूक्ष्म-व्यवहित-विप्रकृष्टातीतान् आगत-ज्ञानम् ।श्रावणाद् दिव्य-शब्द-श्रवणम् ।वेदनाद् दिव्य-स्पर्शाधिगमः । आदर्शाद् दिव्य-रूप-संवित् । आस्वादाद् दिव्य-रस-संवित् । वार्तातो दिव्य-गन्ध-विज्ञानम् इत्य् एतानि नित्यंजायन्ते ॥३६॥
तत्त्व-वैशारदी : स च स्वार्थ-संयमो न यावत् प्रधानं स्व-कार्य पुरुष-ज्ञानम् अभिनिर्वर्तयति । तावत् तस्य पुरस्ताद् या विभूतीर् आधत्ते ताः सर्वा दर्शयति—ततः प्रातिभ-श्रावण-वेदनादर्शास्वाद-वार्ता जायन्ते ॥
तद् अनेन योगज-धर्मानुगृहीतानां मनः-श्रोत्र-त्वक्-चक्षुर्-जिह्वा-घ्राणानां यथा-संख्यं प्रातिभ-ज्ञान-दिव्य-शब्दाद्य्-अपरोक्ष-हेतु-भाव उक्तः, श्रोत्रदीनां पञ्चानां दिव्य-शब्दाद्य्-उपलम्भकानां तान्त्रिक्यः सञ्ज्ञाः श्रावणाद्याः । सुगमं भाष्यम्॥३६॥
योग-वार्तिकम् :स्वार्थ-प्रत्यय-संयमेन पुरुष-साक्षात्कारे जाते सति तल्-लिङ्ग-रूपणि विवेकज-ज्ञानस्य च पूर्व-रूपाणि प्रातिभाऽऽद्याः सिद्धयो भवन्ति । ताश् च पुरुष-ज्ञैकाग्रता-परिपन्थित्वेनासम्प्रज्ञात-योग-विघ्न-भूता एवेति प्रतिपादयितुमादौ ताः प्रदर्शयति—
ततः प्रातिभ-श्रावण-वेदनादर्शास्वाद-वार्ता जायन्ते ॥ततः पुरुष-साक्षात्काराद् मन-आदीनां प्रातिभादि-संज्ञिकाः सिद्धयः सामर्थ्य-विशेष-रुपा भवन्ति यस्मात्सामर्थ्यान्मन-आदिषु व्यवहितादि-ज्ञानं भवतीत्य् अर्थः ।
अत्र कश्चित्—ततैति तच्-छब्देन पुरुष-ज्ञानं न परामृश्यन्ते, तद्-दर्शन-प्रत्यनीकत्वादित्यागामि-सूत्र-भाष्ये पुरुष-दर्शन-प्रतिबन्धकत्व-वचनात् । अपि तु स्वर्थ-संयम एव परामृश्यते । तथा च पूर्व-सुत्रोक्त-संयमस्य इवेदं पुरुष-ज्ञानात्प्राक्तनं सिद्ध्य्-अन्तरमिति । तन्न, एकस्याः पुरुष-ज्ञान-रूप-सिद्धेरुक्ततया च-काराद्य्-अभावेन सिद्ध्य्-अन्तराकाङ्क्षा-विरहात्, पुरुष-ज्ञानस्यैव मुख्यतयोपस्थितत्वेन परामर्शौचित्याच् च । अतस्तच्-छब्देनात्र पुरुष-ज्ञानस्यैव परामर्शः पुरुष-साक्षात्कार-रूप-पुरुषैकाग्रता-प्रतयनीकतया तु भाष्य-कारः प्रातिभादेरसम्प्रज्ञात-समाधावेवोपसर्गत्वं वक्ष्यतीति ।
प्रातिभादि-शक्तीः स्व-कार्यैर्लक्षयति भाष्य-कारः—प्रातिभादिति। प्रतिभाउपदेशादि-नैरपेक्ष्येण सूक्ष्मादीनां मानसं यथाऽर्थ-ज्ञानं, तत्-सामर्थ्यं प्रातिभम् । एवं श्रावणाद्यपि व्याख्येयम् ।वेदनाद्यास् तु संज्ञास्त्वक्-चक्षुर्-असन-घ्राणानां सामर्थ्येषु बोध्याः ।नित्यमिति । कामनां विनाऽपि जायन्ता इत्य् अर्थः॥३६॥
—o)0(o—
(३.३७)
ते समाधाव् उपसर्गाः, व्युत्थाने सिद्धयः ॥३७॥
ते प्रातिभादयः समाहित-चित्तस्योत्पद्यमाना उपसर्गाः,तद्-दर्शन-प्रत्यनीकत्वात् । व्युत्थित-चित्तस्योत्पद्यमानाः सिद्धयः ॥३७॥
तत्त्व-वैशारदी : कदाचिदात्म-विषय-संयम-प्रवृत्तस्तत्-प्रभावादमूरर्थान्तर-सिद्धीरधिगम्य कृतार्थम्-मन्यः संयमाद्विरमेदत आह—ते सामाधावुपसर्गा व्युत्थाने सिद्धयः । व्युत्थित-चित्तो हि ताः सिद्धीरभिमन्यते, जन्म-दुर्गत इव द्रविण-कणिकाम् अपिद्रविण-सम्भारम्, योगिना तु समाहित-चित्तेनोपनताभ्योऽपि ताभ्यो विरन्तव्यम्, अभिसंहित-ताप-त्रयात्यन्तिकोपशम-रूप-परम-पुरुषार्थःस खल्व् अयं कथं तत्-प्रत्यनीकासु सिद्धिषु रज्येतेति सूत्र-भाष्ययोरर्थः ॥३७॥
योग-वार्तिकम् :सामाधौ विघ्न-रूपास्व् एतासूपेक्षां कृत्वा पुरुष-दर्शनाभ्यास एव कर्तव्य इत्य् एतत् प्रतिपादयितुम् आह—ते समाधाव् उपसर्गा, व्युत्थाने सिद्धयः । ते प्रातिभादयः समाधि-निष्पत्ताव् असम्प्रज्ञात-रूपायाम् उपसर्गा अन्तरायाः । अतो व्युत्थानापेक्षयैवैते सिद्धयः, पुरुषार्था इत्य् अर्थः । भाष्ये तद्-दर्शनेति । तस्य समाहितस्य तद्-दर्शनं पुरुषैकाग्र्यं तत्-प्रतिबन्धकत्वाद् इत्य् अर्थः॥३७॥
—o)0(o—
(३.३८)
बन्ध-कारण-शैथिल्यात् प्रचार-संवेदनाच् च
चित्तस्य पर-शरीरावेशः ॥३८॥
लोलीभूतस्य मनसोऽप्रतिष्ठस्य शरीरे कर्माशय-वशात् बन्धः प्रतिष्ठेत्य् अर्थः । तस्य कर्मणो बन्ध-कारणस्य शैथिल्यं समाधि-बलाद् भवति । प्रचार-संवेदनं च चित्तस्य समाधिजम् एव । कर्म-बन्ध-क्षयात् स्व-चित्तस्य प्रचार-संवेदनाच् च योगी चित्तं स्व-शरीरान् निष्कृष्य शरीरान्तरेषु निक्षिपति । निक्षिप्तं चित्तं चेन्द्रियाण्य् अनुपतन्ति । यथा मधुकर-राजानं मक्षिका उत्पतन्तम् अनूत्पतन्ति निविशमानम् अनुनिविशन्ते, तथेन्द्रियाणि पर-शरीरावेशे चित्तम् अनुविधीयन्तैति॥३८॥
तत्त्व-वैशारदी : तद् एवं ज्ञान-रूपमैश्वर्यं पुरुष-दर्शनान्तं संयम-फलमुक्त्वा क्रिया-रूपम् ऐश्वर्यं संयम-फलम् आह—बन्ध-कारण-शैथिल्यात् प्रचार-संवेदनाच् च चित्तस्य पर-शरीरावेशः ॥ समाधि-बलादिति । बन्ध-कारण-विषय-संयम-बलात्, प्राधान्यात्समाधि-ग्रहणम् प्रचरत्यनेनास्मिन्निति प्रचारः । चित्तस्य गमागमाध्वानो नाड्यः । तस्मिन् प्रचारे संयमात्तद्-वेदनं । तस्माच् च बन्ध-कारण-शैथिल्यान्न तेन प्रतिबध्यते । अप्रतिबद्धम् अप्युन्मार्गेण गच्छन्न स्व-शरीरादप्रत्यूहं निष्क्रामति, न च पर-शरीरमाविशति, तस्मात्तत्-प्रचारोऽपि ज्ञातव्यः । इन्द्रियाणि च चित्तानुसारीणि पर-शरीरे यथाऽधिष्ठानं निविशन्तैति ॥३८॥
योग-वार्तिकम् :तद् एवं ज्ञानादि-रूपाः संयम-सिद्धीः प्रदर्श्य क्रियादि-रूपा अपि विभूतीः संयम-फलान्याह सूत्र-जातेन—बन्ध-कारण-शैथिल्यात् प्रचार-संवेदनाच् च चित्तस्य पर-शरीरावेशः ॥
बन्ध-शब्दार्थम् आह—लोलीभूतस्येति । चञ्चल-स्वभावस्यात एवाप्रतिष्ठस्य एकत्रानवस्थितस्यापि मनसो धर्माधर्म-वशाद् एव शरीरे या प्रतिष्ठा ज्ञान-हेतुः सम्बन्ध-विशेषः स बन्ध इत्य् अर्थः । संयम-सिद्धित्वोपपादनायाह—तस्येति । तस्य कर्मण शैथिल्यं भावनेन दृढ-बन्धनाक्षमता समाधि-सामान्य-बलाद्भवतीत्य् अर्थः । तथा च प्राग्-उक्त-कर्म-बन्धनानि श्लथयन्तीति ।प्रचारेति । अनया नाड्या एवं-प्रकारेण चित्तं शरीरे प्रविशति निर्गच्छति चेत्य्-आदि-विशेषैश्चित्त-गति-साक्षात्कारः प्रचार-संवेदनम् । तद् अपि समाधि-सामान्याद् एव भवतीत्य् अर्थः ।सूत्र-वाक्यार्थम् आह—कर्मेति । कर्म-निमित्तकस्य निर्गम-प्रतिबन्ध-संयोग-विशेषस्य क्षयादित्य् अर्थः । शेषं सुगमम्॥३८॥
—o)0(o—
(३.३९)
उदान-जयाज्जल-पङ्क-कण्टकादिष्वसङ्ग उत्क्रान्तिश् च ॥३९॥
समस्तेन्द्रिय-वृत्तिः प्राणादि-लक्षणाजीवनम् । तस्य क्रिया पञ्चतयी—प्राणो मुख-नासिका-गतिर् आ-हृदय-वृत्तिः । समं नयनात् समानश् चा-नाभि-वृत्तिः । अपनयनाद् अपान आपाद-तल-वृत्तिः । उन्नयनाद् उदान आ-शिरो-वृत्तिः । व्यापी व्यानैति । तेषां प्रधानं प्राणः । उदान-जयाज्जल-पङ्क-कण्टकादिष्वसङ्गः । उत्क्रान्तिश् च प्रयाण-काले भवति । तां वशित्वेन प्रतिपद्यते ॥३९॥
तत्त्व-वैशारदी :ुदान-जयाज् जल-पङ्क-कण्टकादिष्व् असङ्ग उत्क्रान्तिश् च ॥समस्तेन्द्रिय-वृत्तिर्जीवनं प्राणादि-लक्षणा, प्राणादयो लक्षणं यस्याः सा तथोक्ता । द्वयीन्द्रियाणां वृत्तिर्बाह्याऽऽभ्यन्तरी च । बाह्या रूपाद्य्-आलोचन-लक्षणा, आभ्यन्तरी तु जीवनम् । स हि प्रयत्न-भेदः शरीरोपगृहीत-मारुत-क्रिया-भेद-हेतुः सर्व-करण-साधारणः । यथाहुः—सामान्य-करण-वृत्तिः प्राणाद्या वायवः पञ्च[सा.का. २९] इति । तैर् अस्य लक्षणीयत्वात्, तस्य प्रयत्नस्यक्रियाकार्यं पञ्चतयी । प्राण आ नासिकाग्रादा च हृदयादवस्थितः । अशित-पीताहार-परिणति-भेदं रसं तत्र तत्र स्थाने सममनुरूपं नयन् समानः । आ हृदयादा च नाभेरस्य स्थानम् । मूत्र-पुरीष-गर्भादीनामपनयन-हेतुरपानः । आ नाभेरा च पाद-तलादस्य वृत्तिः । उन्नयनादूर्ध्व-नयनाद् रसादीनामुदानः । आ नासिकाग्रादा च शिरसो वृत्तिरस्य । व्यापी व्यानः । एषामुक्तानां प्रधानं प्राणः । तद्-उत्क्रमे सर्वोत्क्रम-श्रुतेः—प्राणमुत्क्रामन्तमनु सर्वे प्राणा उत्क्रामन्ति[बृ.आ.उ. ४.४.२] इति ।
तद् एवं प्राणादीनां क्रिया-स्थान-भेदेन भेदं प्रतिपाद्य सूत्रार्थमवतारयति—उदान-जयाद् इति । उदाने कृत-संयमस्तज्-जयाज्जलादिभिर्न प्रतिहन्यते, उत्क्रान्तिश्चार्चिर्-आदि-मार्गेण भवति प्रयाण-काले । तस्मात्तमुत्क्रान्तिं वशित्वेन प्रतिपद्यते, प्राणदि-संयमात्तद्-विजये विभूतय एताः क्रिया-स्थान-विजयादि-भेदात् प्रतिपत्तव्याः ॥३९॥
योग-वार्तिकम् :योग-शास्त्रोक्त-संयम-विशेषेणोदान-जयात्सिद्धिम् आह—उदान-जयाज् जल-पङ्क-कण्टकादिष्व् असङ्ग उत्क्रान्तिश् च ॥ुदानं विवेचयितुं प्राणदीन् पञ्चैवस्वरूपतोऽवान्तर-भेदतश् च प्रतिपादयति—समस्तेति । जीवन-नाम्नी सर्वेन्द्रियाणां वृत्तिः प्राणनापाननादि-रूपेत्य् अर्थः । अत्रेन्द्रिय-शब्देन स्थूल-सूक्ष्मोभय-परता करण-मात्र-ग्रहणम् । समस्त-शब्दोऽपि सामान्य-वचनः, सामान्य-करण-वृत्तिः प्राणाद्या वायवः पञ्च[सा.का. २९] इतिसांख्ये दर्शनात् ।
तेन सुषुप्तौ चक्षुर्-आद्य्-उपरमेऽपि प्राणादि-वृत्तयो जीवन-योनि-यत्न-वशाद् अन्तः-करणस्यैव भवन्ति निद्रा-वृत्तिवद् इति । न चैवं चित्त-मात्रस्यैव लाघवात्प्राणादि-वृत्तित्वम् अस्त्विति वाच्यम्, चक्षुर्-आद्य्-उपचयापचयाभ्यां प्राणानाम् उपचयापचय-दर्शनात् । अथ वा सुषुप्तेऽपीन्द्रियाणां ज्ञान-कर्म-लक्षण-वृत्त्योर् एव प्रतिषेधात् प्राणनादि-वृत्ति-सत्त्वेऽप्य् अक्षतिः ।
ननु बाह्या-वायुभिरन्तः-प्राणानां समान-लक्षणत्वाद् वायु-संस्थान-विशेषा एव प्राणाः सन्तु, किम्-अर्थं करणानाम् अपिवायु-तुल्यः क्रियादिः कल्प्यत ?इति चेन्, न, प्राणाच्छ्रद्धांखं वायुर्[प्रश्न.उ. ६.४] इत्यादि-श्रुतिषु वायोः प्राण-कार्यत्व-श्रवणात् । न वायु-क्रियेपृथग्-उपदेशाद्[वे.सू. २.४.९] इति ब्रह्म-सूत्रे वायु-तत्-सञ्चाराभ्याम् अतिरेकस्य प्राणेऽवधारणाच् च ।
श्रुति-स्मृत्य्-अनुगृहीता युक्तिश्चात्रस्ति । यदि करण-प्राणौ भिन्नौ स्यातां, तदा करण-वियोगेऽपि मृत-देहवत् कदाचित् प्राणा अपि तिष्ठेयुः । किं चान्तः-करणस्य शोकादिना प्राणस्य कम्पादिदृश्यते । तत्र लाघवात् सामानाधिकरण्येनैव कार्य-कारण-भावो युक्तोऽन्य-धर्मेणान्य-परिणामेऽतिप्रसङ्गात्, अदृष्ट-कल्पनाऽ’पत्तेश् च ।पि च लिङ्ग-शरीरस्य देह-शृङ्खलया बन्ध एव कर्मादीनां हेतुत्वंकल्प्यते, न तु वायु-बन्धनेऽपिगौरवात्, उद्गारादि-वायूनां जीव-देह-परित्याग-दर्शनाच् च,वायु-गत-वैजात्यादि-कल्पनायां चातिगौरवादिति ।
लिङ्ग-शरीरस्योर्ध्वाधः-सञ्चारादुत्पद्यमानेन वायुना सहाविवेकात् तु तप्तायः-पिण्डवत्प्राणेषु वायु-व्यवहारः । अनेनैव व्यवहारेण सांख्येऽपि प्राणाद्या वायवः पञ्चेत्य् उक्तम् । अपि च श्रुति-स्मृत्योः करण-प्राणयोः भेद-व्यवहारो वृत्ति-भेदाद् एव मन्तव्यः । उर्ध्वाधो-गति-लक्षणाः करणानां परिणाम-भेदा प्राणा इत्य् उच्यन्ते । तत्र च वायुरधिष्ठात्री देवता सूर्यश्चक्षुर्वातः प्राणैत्य्-आदि-श्रुतेः । ज्ञानादि-हेतु-परिणामास् तु करणान्युच्यन्त इति विभागः । अतो देवतया सहाभेदादपि सूर्यश्चक्षुर् इतिवद् वायुः प्राण इति व्यवहारो युक्त इति ।
कश्चित् तु—अत्र प्राणादि-जीवन-शब्दाभ्यां प्राणनादि-नामक-वायु-क्रिया-विशेष-हेतुः प्रयत्न-भेद एवोक्तः । स च करण-निष्ठ इति भाष्यार्थम् आह । तन्न, विवरण-भाष्ये प्राणादीनां गत्य्-आदि-वचनस्य विरोधात्, अत्रापि सांख्य-कारिका-ब्रह्म-मीमांसैक-वाक्यत्वौचित्यात्, वायोः प्राणत्वस्य इपि दर्शने सूत्रकारानुक्तत्वाच् च । अत एव च लिङ्ग-शरीर-मध्ये प्राणा न गण्यन्ते करणेऽप्रवेशाद् इति ।
तस्येति । तस्य करण-सामान्यस्य साधारणी क्रिया पञ्चतयो क्रियोपलक्षित-परिणाम-भेदः पञ्चतय इत्य् अर्थः ।समुन्नयनाद् इति। सममनुरूपं नाडिषु रसानां नयनात्समानः, अस्य च हृदयान्नाभि-पर्यन्तं वृत्तिः ।पेति, मूत्र-पुरीष-गर्भादानाम् अपसरण-हेतुरपानः, अस्यानाभेः पाद-तल-पर्यन्तं वृत्तिः, उन्नयनाद् इति । ऊर्ध्व-गति-प्रदत्वात् रसाद्य्-ऊर्ध्व-नयनाच्चोदानः । अस्य च मुख-नासिकाऽदिकम् आरभ्य ब्रह्म-रन्ध्र-पर्यन्तं वृत्तिः ।व्यापीति, सर्व-देह-व्यापि-वृतित्तिको बलवत्क्रम-हेतुर्व्यानः ।
ननु सर्वेषां वृत्ति-भेदात् कथं पञ्च-प्राणा इत्य् उच्यन्ते ? तत्राह—एषाम् इति । प्राणो यदश्नाति पिबति तेनेवान्येषां धारणं भवतीति । कृत्वैतेषां प्राणो मुख्यः, अतो मुख्यस्य नामादिभिर् गौणिनां व्यवहारो राजानुगतेषु राज-व्यवहारवद् इति भावः ।
तद् एवम् उदानं व्याख्याय सूत्रं-व्याचष्टे—उदान-जयाद् इति ।ुदान-संयमादन्य-संयमाद्वोदान-वायोः स्वायत्ततायां सत्यां जल-पङ्क-कण्टकादीनाम् उपरि सञ्चरतोऽपि तेष्वसङ्गो भवति तैर् विकार-हेतुः संयोगो न भवति । तथाऽर्चिर्-आदि-मार्गे गमनाय स्वेच्छयोत्क्रान्तिर्भवतीत्य् अर्थः ।प्रसङ्गादाह—तामिति । ताम् ऊर्ध्वमुत्क्रान्तिमुदान-वशित्वं विना न लभत इत्युदान-जयी स्यादित्य् अर्थः ॥३९॥
—o)0(o—
(३.४०)
समान-जयात् प्रज्वलनम् ॥४०॥
जित-समानस् तेजस उपध्मानं कृत्वा ज्वलति ॥४०॥
तत्त्व-वैशारदी :समान-जया प्रज्वलनम् ॥तेजसः शारीरस्योपध्मानम् उत्तेजनम्॥४०॥
योग-वार्तिकम् :समान-जया प्रज्वलनम् ॥ संयम-विशेष-जयात्समान-जयात् ज्वलनं भवतीत्य् अर्थः ।भाष्ये—उपध्मानम् उत्तेजनं कृत्वा ज्वलति सतीवत्स्व-शरीरं दहतीत्य् अर्थः ॥४०॥
—o)0(o—
(३.४१)
श्रोत्राकाशयोः संबन्ध-संयमाद् दिव्यं श्रोत्रम् ॥४१॥
सर्व-श्रोत्राणाम् आकाशं प्रतिष्ठा सर्व-शब्दानां च । यथोक्तम्—तुल्य-देश-श्रवणानाम् एक-देश-श्रुतित्वं सर्वेषांभवतीति । तच् चैतद् आकाशस्य लिङ्गम् अनावरणं चोक्तम् । तथामूर्तस्यानावरण-दर्शनाद् विभुत्वम् अपि प्रख्यातम् आकाशस्य । शब्द-ग्रहणानुमितं श्रोत्रम् । बधिराबधिरयोर् एकः शब्दं गृह्णात्य् अपरो न गृह्णातीति, तस्माच् छ्रोत्रम् एव शब्द-विषयम् । श्रोत्राकाशयोः संबन्धे कृत-संयमस्य योगिनो दिव्यं श्रोत्रं प्रवर्तते ॥४१॥
तत्त्व-वैशारदी : स्वार्थ-संयमादन्वाचय-शिष्टं श्रावणाद्युक्तम्, सम्प्रति श्रावणाद्यर्थाद् एव संयमाच्छावणादि भवतीत्याह—श्रोत्राकाशयोः संबन्ध-संयमाद् दिव्यं श्रोत्रम् ॥
संयम-विषयं श्रोत्राकाशयोः संबन्धमाधाराधेय-भावम् आह—सर्व- इति । सर्व-श्रोत्राणाम् आहङ्कारिकाणाम् अप्याकाशं कर्ण-शष्कुली-विवरं प्रतिष्ठा तद्-आयतनं श्रोत्रम् । तद्-उपकारापकाराभ्यां श्रोत्रस्योपकारपकार-दर्शनात् । शब्दानां च श्रोत्र-सहकारिणां पार्थिवादि-शब्द-ग्रहणे कर्तव्ये कर्ण-शष्कुल-सुषिर-वर्ति श्रोत्रं स्वाश्रयन-भोगतासाधारण-शब्दमपेक्षते । गन्धादि-गुण-सहकारिभिर्घ्राणादिभिर्बाह्ये पृथिव्यादि-वर्ति-गन्धाद्य्-आलोचनं कार्यं दृष्टम् । आहङ्कारिकम् अपिघ्राण-रसन-त्वक्-चक्षु-श्रोत्रं भूताधिष्ठानम् एव, भूतोपकारापकाराभ्यां घ्राणादीनामुपकरापकार-दर्शनाद् इत्य् उक्तम् ।
तच्चेदं श्रोत्रम् आहङ्करिकमयः-प्रतिममयस्कान्त-मणि-कल्पेन वक्तृ-वक्त्र-समुत्पन्नेन वक्त्र-स्थेन शब्देनाकृष्टं स्व-वृत्ति-परम्परयावक्तृ-वक्त्रमागतं शब्दमालोचयति । तथाच दिग्-देश-वृत्ति-शब्द-प्रतीतिः प्राण-भृन्-मात्रस्य नास्ति बाघके प्रमाणीकृता भविष्यतीति ।
तथा च पञ्चशिखस्य वाक्यं—तुल्य-देश-श्रावणानाम् एक-देश-श्रुतित्वं सर्वेषां भवति इति । तुल्य-देशानि श्रवणनि श्रोत्राणि येषां चैत्रदीनां ते तथोक्ताः । सर्वेषांश्रवणान्याकाश-वर्तीनीत्य् अर्थः । तच्चश्रोत्राधिष्टानमाकाशं शब्द-गुणक-तन्मात्रादुत्पन्नं शब्द-गुणकं येन शब्देन सहकारिणा पार्थिवादीन् शब्दान् गृह्णाति, तस्मात्सर्वेषामेक-जातीया श्रुतिः शब्द इत्य् अर्थः । तदनेन श्रोत्राधिष्टानत्वमाकाशस्य शब्द-गुणत्वं च दर्शितमिति । तच् चएक-देश-श्रुतित्वमाकाशस्य लिङ्गम् । सा ह्येक-जातीया शब्द-व्यञ्जिका श्रुतिर् यद्-आश्रयातदेवाकाश-शब्द-वाच्यम् । नहीदृशी श्रुतिमन्तरेण शब्द-व्यक्तिः, न चेदृशी श्रुतिः पृथिव्य्-आदि-गुणस् तस्य स्वात्मनि व्यङ्ग-व्यञ्जकत्वानुपपत्तेरिति ।
अनावरणं चाकाश-लिङ्गम् । यद्याकाशं नाभविष्यदन्योन्यं सम्पिण्डितानि मूर्तानि न सूचीभिरप्याभेत्स्यन्त । ततश् च सर्वैर् एव सर्वमवृतं स्यात् । न च मूर्त-द्रव्य-भाव-मात्राद् एवानवरणम् । अस्याभावस्य भावाश्रितत्वेन तद्-अभावेऽभावाद्, न च चिति-शक्तिस्तस्याश्रया भवितुम् अर्हति, अपरिणामितयाऽवच्छेदकत्वाभावात् । न च दिक्-कालादयः पृथिव्य्-आदि-द्रव्य-व्यतिरिक्ताः सन्ति । तस्मात् तादृशः परिणति-भेदोनभस एवेति सर्वमवदातम् ।
अनावरणे चाकाश-लिङ्गे सिद्धे यत्र यत्रानावरणं तत्र सर्वत्राकाशमिति सर्व-गतत्वम् अप्य् आकाशस्य सिद्धमित्य् आह—तथाऽमुर्तस्य इति । श्रोत्र-सद्-भावे प्रमाणम् आह—शब्द-ग्रहण- इति । क्रिया हि करण-साध्या दृष्टा, यथा छिद्रादिर्वास्यादि-साध्या । तदिह शब्द-ग्रहण-क्रिययाऽपि करण-साध्यया भवितव्यम्, यच्च करणं तच् चश्रोत्रमिति ।
अथास्याश्चक्षुर्-आदय एव कस्मात्करणं न भवन्ति ? इत्य् अतआह—बधिराबधिरयोःिति । अन्वय-व्यतिरेकाभ्याम् अवधारणम् । उपलक्षणं चैतत्,त्वग्-वातयोश्चक्षुस्-तेजसोरसनोदकयोर्नासिका-पृथिव्योः सम्बन्ध-संयमाद् दिव्य-त्वग्-आद्यप्य् ऊहनीयम्॥४१॥
योग-वार्तिकम् :श्रोत्राकाशयोः संबन्ध-संयमाद् दिव्यं श्रोत्रम् ॥
आदावाकाश-शब्दार्थस् तत्र प्रमाणं च दर्शयति—सर्व-श्रोत्राणमिति। यद्यपिइन्द्रियाण्याहंकारिकाण्येव न भौतिकनि, इन्द्रियाणां प्रकाशात्मकतया प्रकाशात्माकान्तः-करणोपादानकत्वस्यैवौचित्यात्, तथाप्याकाशाश्रितताया आकाश-प्रतिष्ठत्वं यथान्नाश्रिततया मनसोऽन्नमयत्वमिति। एतेनान्येषामपीन्द्रियाणां भौतिकत्वंश्रुति-स्मृत्य्-उदितं व्याख्यातम् । तत्-तद्-भूत-संसृष्टतयेन्द्रियोत्पत्त्या तत्-तद्-भूतेभ्य एव तत्-तद्-इन्द्रियाभिव्यक्तेः । अत एव दिग्-आत्मकाकाशादीनि पृथिवी-पर्यन्तानि पञ्च श्रोत्रादि-देवाः श्रूयन्तैति । शब्दानां चाकाशोपादानत्वम् एवास्ति । तथा च श्रोत्र-शब्दयोराश्रय आकाशम् इत्य् अर्थः ।
श्रोत्राणामाकाशाश्रयत्वे पूर्वाचार्य-संमतिम् आह—यथोक्तमिति। काल-भेदेन तुल्य-देशानि श्रावणाख्य-ज्ञानानि येषां पुंसां,तेषाम् एक-श्रुतित्वमेक-देशावच्छिन्न-श्रोत्रकत्वं तत्-तत्-काले भवतीत्य् अर्थः । स चैकोदेश आकाशम् एवेति भावः ।
आकाशे प्रमाणम् अप्याह—तच्चैतद् इति । तच्चैतत् श्रोत्रं शब्दश् चाकाशस्य लिङ्गमनुमापकं, न हि सूक्ष्ममिन्द्रियमनाश्रयं स्थातुमर्हति गन्धवत् कर्ण-सष्कुल्य्-अभावात्, कर्ण-विवर-पिधानेऽपि शब्द-श्रवण-प्रसङ्गाच् च । न च विवर-पिधानेसति शब्दा एव श्रोत्रे न गच्छन्तीति वाच्यम्, भित्त्य्-आदिवत् कर्णात् च्छिद्रस्थ-द्रव्याणाम् अपि शब्दागमनाप्रतिबन्धकत्वात् । नापि शून्यमाधारोऽभावानभ्युपगमात्,अभावस्य भावाधारत्वासंभवाच् च । नापि कर्ण-शष्कुल्य्-अवच्छिन्नः पुरुषादिराधारः । विवर-पिधानेऽपि तद्-अवच्छेदेन चैतन्याद्य्-अभिव्यक्त्या पुरुषादेरनावृततया शब्द-ग्रहण-प्रसङ्गात्, तस्मात् पिधान-योग्यमेकं द्रव्यं श्रोत्राधारतयाऽपेक्षितम् । तच् चपरिशेषात् कर्ण-शष्कुल्य्-अवच्छिन्नं नभ एव श्रोत्र-गोलकतया सिद्ध्यतीति भावः । शब्दाधारतायाम् अप्य् एवं परिशेषः कर्तव्यः ।
तथाहि—अवकाशस्य शब्द-कारणत्वं तावत् सर्व-सिद्धम् । अवकाशश् च नावरणाभव-मात्रम्, अभावस्य भावानाधारत्वात् । अन्यथा सर्व-वस्तूनामभाव-मात्र-मूलकत्वापत्तेः । नापिपुरूषादिः, तेषां स्व-स्व-व्यापाराप्रच्यवेनावकाशासंभवात् । आवृतत्वाभिमत-देशेऽपि शब्दाद्य्-उत्पत्ति-प्रसङ्गाच् च । नापिवायुः, द्रव्यान्तर-पूरितेऽपि वेण्व्-आदौ वायु-संयोगेन शब्द-प्रसङ्गात् । न च च्छिद्र-वायु-संयोगोऽपि शब्द-कारणं । तथा सति संयोगाधारतया छिद्रस्य द्रव्यत्व-सिद्धौ तस्यैव शब्दाश्रयत्वं युक्तं, शब्दोत्पत्ताववकाशस्यैवाधिक्येनोपयोग-दर्शनादिति । तस्मादावरणीयतयाऽऽकाश-द्रव्यं सिद्ध्यतीति ।
अनावरणं चाकाशस्य लिङ्गं पूर्वाचार्यैर् उक्तमित्य् आह—अनावरणंचेति । अनावरणमवकाशः । यदि हि अवकाश-रूपमाकाशं न स्यात्, तदा मूर्त-द्रव्येषु स्थाल्य्-आदिष्वन्तस्तेज-आदि-प्रवेशो न स्यात् । अथाभाव एवावकाशस्तर्ह्यभावस्य भावाश्रितत्वनियमेनाकाश-सिद्धेः,अस्माभिर् अभावानभ्युपगमाच् च । आत्मादिश्चवकाशो न संभवति, आवरणासंभवादित्य् उक्तमिति । आकाशस्य विभुत्वम् अपिप्रसङ्गात्साधयति—तथेति ।
मूर्तत्वं परिच्छिन्नत्वम् । अनावरणमनावृतत्वम्, असमान-देशत्वमिति यावत् । तथा चान्यत्र पृथिवी-जलादि-स्थले मूर्तस्य परिच्छिन्नस्य मूर्तान्तरासमान-देशत्व-दर्शनाद् घटादि-समान-देशकस्याकाशस्य विभुत्वं सिद्ध्यति, आकाशस्य परिच्छिन्नत्वे मूर्तयोः समान-देशताविरोधाद् इत्य् अर्थः । क्वाचित्कस् तु तथा मूर्तस्यापीत्यपि-शब्दः प्रामादिकोऽर्थासंभवात् । आकाशस्य विभुत्वे च आकाशवत्सर्व-गतश् च नित्यमिति श्रुत्य्-आदयः प्रमाणमिति ।
नन्वाकाशस्य विभुत्वे कथं कार्यत्वं घटते ? कथं वागामि-भाष्येऽप्याकाश-परमाणु-कथनम् ?इति चेद्, उच्यते—आकाशं ह्यन्तःकरणवद् वैशेषिकाणां पृथिव्य्-आदिवत् कार्य-कारण-रूपेण द्विविधम् । तत्र कारणाकाशं तमो-गुण-विशेषतयैव व्यवह्रियते । तदानीमाकाशता व्यञ्जक-शब्दादि-विशेष-गुणाभावात् कारण-पृथिव्य्-आदिवत् । तच् च कारणाकाशं गुणान्तरोपसंसृष्टं सद्-अंशत आदौ शब्द-जनन-योग्यार्थ-रूपेण परिणमते, क्षीराब्धिरिवामृत-मथनेऽंशतो दधि-रूपेण । ततश्चाणु-संघातेन पृथिवीवदेव महा-भूताकाशमहङ्कारापेक्षया परिच्छिन्नं वायोरावरणमुपपद्यतैति। एतेनान्तः-करणोत्पत्तिर् अपि व्याख्याता । इत्थम् अपिश्रुति-स्मृति-प्रसिद्धं प्रकृते कार्य-कारण-रूपत्वमवगन्तव्यम् ।
आकाशं प्रसाध्य श्रोत्रे प्रमाणं दर्शयति—शब्द-ग्रहणानुमितमिति । तद् एव विवृणोति—बधिरेति । एतेन चक्षुर्-आदिष्व् अप्य् अन्वय-व्यतिरेकौ प्रमाणमिति सूचितम् । अन्तःकरणे तु स्मृत्य्-आद्य्-अन्वय-व्यतिरेकौ प्रमाणमिति ।
इदानीं सूत्रं योजयति—श्रोत्रेति । संबन्धश्चास्माभिर्व्याख्यातः । उपलक्षणं चैतत् त्वग्-वातयोश्चक्षुस्-तेजसो रसनोदकयोर्घ्राण-पृथिव्योः संबन्ध-संयमाद्दिव्य-त्वग्-आदीत्यपि बोध्यम् । दिव्यत्वं च तन्मात्रादि-सूक्ष्म-गोचर-संयमनैर् अपेक्ष्येण स्वभावाद् एव तन्मात्रादि-रूप-सूक्ष्म-शब्दादि-ग्राहकत्वमिति॥४१॥
—o)0(o—
(३.४२)
कायाकाशयोः संबन्ध-संयमाल्
लघु-तूल-समापत्तेश्चाकाश-गमनम् ॥४२॥
यत्रकायस् तत्राकाशं तस्यावकाश-दानात् कायस्य, तेनसम्बन्धः प्राप्तिः । तत्रकृत-संयमो जित्वा तत्-सम्बन्धं लघुषु तूलादिष्व् आपरमाणुभ्यः समापत्तिं लब्ध्वाजित-सम्बन्धो लघुः । लघुत्वाच् च जले पादाभ्यां विहरति । ततस् तूर्ण-नाभि-तन्तु-मात्रे विहृत्य रश्मिषु विहरति, ततो यथेष्टम् आकाश-गतिर् अस्य भवतीति ॥४२॥
तत्त्व-वैशारदी॒ कायाकाशयोः संबन्ध-संयमाल् लघु-तूल-समापत्तेश्चाकाश-गमनम् ॥ कायाकाश-सम्बन्ध-संयमाद् वा लघुनि वा तूलादौ कृत-संयमात् समापत्तिंचेतसस्तत्-स्थ-तद्-अञ्जनतां लब्ध्वेति । सिद्धि-क्रमम् आह—जलेइति ॥४२॥
योग-वार्तिकम् :कायाकाशयोः संबन्ध-संयमाल् लघु-तूल-समापत्तेश् चाकाश-गमनम् ॥च-कारोऽत्र विकल्पार्थकः । कीदृशः संबन्धः ?इत्य् आकाङ्क्षयाम् आह—यत्रेति । यत्रासनादौ शरीरं तिष्ठति, तत्र शरीरावच् छेदेनाप्याकाशं तिष्ठति । तत्र हेतुः—तस्याकाशस्यावकाश-दातृत्वादिति। अतः कायस्याकाशेन संबन्धः प्राप्ति-रूपो व्यापनमिति यावद् इत्य् अर्थः ।
तत्रेति । तत्र संबन्धे कृत-संयमः तत्-संबन्धं जित्वा साक्षात्कारेण स्वेच्छाधीनं कृत्वा लघुर्भवतीत्य् आगामिनान्वयो भविष्यति । द्वितीय-हेतुं व्याचष्टे—लघुषुवा इत्यादिना, जित-संबन्ध इत्यन्तेन । समापत्तिं तत्-स्थ-तद्-अञ्जनतां । जित-संबन्धः स्वायत्तीकृत-कायाकाश-संबन्ध इत्य् अर्थः ।
आकाश-गतावुपाय-द्वय-साधारणं क्रमम् आह—लघुरित्य्-आदिना । प्रथमं लघुर्भवति, ततो लघुतया जले पृथिव्याम् इव पद्भ्यां संचरतीत्य्-आदिः क्रम इत्य् अर्थः ।सुगमम् अन्यत् ॥४२॥
—o)0(o—
(३.४३)
बहिरकल्पिता वृत्तिर्महा-विदेहा, ततः प्रकाशावरण-क्षयः ॥४३॥
शरीराद् बहिर् मनसो वृत्ति-लाभो विदेहा नाम धारणा । सा यदि शरीर-प्रतिष्ठस्य मनसो बहिर्-वृत्ति-मात्रेणभवति, सा कल्पितेत्य् उच्यते । या तु शरीर-निरपेक्षा बहिर्-भूतस्यैव मनसो बहिर्-वृत्तिः, सा खल्व् अकल्पिता । तत्र कल्पितया साधयत्य् अकल्पितां महा-विदेहामिति ।यया पर-शरीराण्य् आविशन्ति योगिनः । ततश् च धारणातः प्रकाशात्मनो बुद्धि-सत्त्वस्य यद् आवरणं क्लेश-कर्म-विपाक-त्रयं रजस्-तमो-मूलं, तस्य च क्षयो भवति ॥४३॥
तत्त्व-वैशारदी :परम् अपिपर-शरीरावेश-हेतुं संयमं क्लेश-कर्म-विपाक-क्षय-हेतुम् आह—बहिर्-अकल्पिता वृत्तिर् महा-विदेहा, ततः प्रकाशावरण-क्षयः ॥
विदेहाम् आह—शरीरादिति । अकल्पिताया महा-विदेहाया य उपायस्तत्-प्रदर्शनाय कल्पितांविदेहाम् आह—सा यदिइति । वृत्ति-मात्रं कल्पना-ज्ञान-मात्रं, तेन । महा-विदेहाम् आह—या तुइति । उपायोपेयते कल्पिताऽकल्पितयोराह—तत्रैति ।
किं पर-शरीरावेश-मात्रम् ?इति । नेत्याह—ततश् चैति । ततो धारणातोमहा-विदेहाया मनः-प्रवृत्तेः सिद्धेः ।क्लेशश् च कर्म च, ताभ्यां विपाक-त्रयं जात्य्-आयुर्-भोगास्तद् एतद्रजस्-तमो-मूलं विगलित-रजस्-तमसः सत्त्व-मात्राद् विवेक-ख्याति-मात्र-समुत्पादात् ।तद् एतद्विपाक-त्रयं रजस्-तमो-मूलतया तद्-आत्मकं सद्-बुद्धि-सत्त्वमावृणोति । तत्-क्षयाच् च निरावरणं योगि-चित्तं यथेच्छं विहरति विजानाति चेति ॥४३॥
योग-वार्तिकम् :बहिर्-अकल्पिता वृत्तिर् महा-विदेहा, ततः प्रकाशावरण-क्षयः ॥योग-शास्त्रोक्त-संयम-विशेषाद् वक्ष्यमाणा बहिर्-अकल्पिता वृत्तिर्महा-विदेहाख्या सिद्धिर्भवति । ततश् च सत्त्व-प्रकाशावरण-भङ्ग इत्य् अर्थः ।
महा-विदेहां व्याख्यातुमादौ समान्य-विदेहाम् आह—शरीरादिति । मनसो बहिर्-वृत्ति-लाभोऽत्र स्व-शरीरस्येव बहिर्-वस्तूनां संकल्पादि-वशता । सा च बहिर्-अधिष्ठान-रूपा धारणा विदेहा-सामान्यम् इत्य् अर्थः । धारणेति च तान्त्रिकी संज्ञा । तस्या अवान्तर-भेदम् आह—सा यदीति ।शरीर-निरपेक्षेति त्यक्त-शरीरेत्य् अर्थः । अनयाऽपि पर-शरीरावेशो लिङ्ग-देहस्य भवतीति ।
प्रसङ्गादाह—यथेति । तत इत्यादि-सूत्रावयवं व्याचष्टे—ततश्चेति । क्लेशेति । क्लेशाश् च कर्म च विपाक-त्रयं च यद्रजस्-तमो-मूलकं सत्त्वस्यावरकं,तस्य च स-मूलस्य क्षयो भवतीत्य् अर्थः ।तेषां क्षये च निरावरणं योगिनः चित्तं स्वेच्छया विहरति विजानाति चेति । च-शब्दः स्वोक्तं पर-शरीरावेशं समुच्चिनोति ॥४३॥
—o)0(o—
(३.४४)
स्थूल-स्वरूप-सूक्ष्मान्वयार्थवत्त्व-संयमाद्भूत-जयः ॥४४॥
(१) तत्र पार्थिवाद्याः शब्दादयो विशेषाः सहाकारादिभिर् धर्मैः स्थूल-शब्देन परिभाषिताः । एतद् भूतानांप्रथमंरूपम् ।
(२) द्वितीयंरूपं स्व-सामान्यम् ।मूर्तिर् भूमिः, स्नेहो जलम्, वह्निर् उष्णता, वायुः प्रणामी, सर्वतो-गतिर् आकाश इत्य् एतत्-स्वरूप-शब्देनोच्यते । अस्य सामान्यस्य शब्दादयो विशेषाः । तथा चोक्तम्—एक-जाति-समन्वितानाम् एषांधर्म-मात्र-व्यावृत्तिः इति।
सामान्य-विशेष-समुदायोऽत्र द्रव्यम् । द्विष्ठो हि समूहः । प्रत्यस्तमित-भेदावयवानुगतः । शरीरं वृक्षो यूथं वनमिति । शब्देनोपात्त-भेदावयवानुगतः समूहः । उभये देव-मनुष्याः । समूहस्य देवा एको भागो मनुष्या द्वितीयो भागस् ताभ्याम् एवाभिधीयते समूहः । स च भेदाभेद-विवक्षितः । आम्राणां वनं ब्राह्मणानांसङ्घः, आम्र-वनं ब्राह्मणानां सङ्घःिति ।
स पुनर् द्विविधो युत-सिद्धावयवोऽयुत-सिद्धावयवश् च । युत-सिद्धावयवः समूहो—वनं सङ्घ इति । अयुत-सिद्धावयवःसङ्घातः—शरीरं, वृक्षः,परमाणुरिति । अयुत-सिद्धावयव-भेदानुगतः समूहो द्रव्यमिति पतञ्जलिः । एतत् स्वरूपम् इत्य् उक्तम् ।
(३) अथ किम् एषां सूक्ष्म-रूपम् ? तन्मात्रंभूत-कारणं, तस्यैकोऽवयवः परमाणुः सामान्य-विशेषात्मायुत-सिद्धाव्यव-भेदानुगतः समुदायैति । एवं सर्व-तन्मात्राणि एतत् तृतीयम् ।
(४) अथ भूतानांचतुर्थंरूपं ख्याति-क्रिया-स्थिति-शीला गुणाः कार्य-स्वभावानुपातिनोऽन्वय-शब्देनोक्ताः ।
(५) अथैषां पञ्चमंरूपम् अर्थवत्त्वं भोगापवर्गार्थता गुणेष्व् एवान्वयिनी,गुणास् तन्मात्र-भूत-भौतिकेष्व् इतिसर्वम् अर्थवत् । तेष्व् इदानीं-भूतेषु पञ्चसु पञ्च-रूपेषु संयमात् तस्य तस्य रूपस्य स्वरूप-दर्शनं जयश् च प्रादुर्भवति । तत्र पञ्च-भूत-स्वरूपाणि जित्वा भूत-जयो भवति । तज्-जयाद् वत्सानुसारिण्य इव गावोऽस्य सङ्कल्पानु-विधायिन्यो भूत-प्रकृतयो भवन्ति ॥४४॥
तत्त्व-वैशारदी : स्थूल-स्वरूप-सूक्ष्मान्वयार्थवत्त्व-संयमाद् भूत-जयः ॥स्थूलं च स्वरूपं च सूक्ष्मं चान्वयश्चार्थवत्त्वं चेति स्थूल-स्वरूप-सूक्ष्मान्वयार्थवत्त्वानि । तेषु संयमात्तज्-जयः ।
(१)स्थूलम् आह—तत्रैति । पार्थिवाः पाथसीयास्तैजसा वायवीया आकाशीया शब्द-स्पर्श-रूप-रस-गन्धा यथा-सम्भवं विशेषाः षड्ज-गान्धारादयः शीतोष्णादयो नील-पीतादयः कषाय-मधुरादयः सुरभ्य्-आदयः । एते हि नाम-रूप-प्रयोजनैः परस्परतो भिद्यन्तैति विशेषाः । एतेषां पञ्च पृथिव्यां । गन्ध-वर्जं चत्वारोऽप्सु । गन्ध-रस-वर्ज-त्रयस्तेजसि । गन्ध-रस-रूप-वर्जं द्वौ नभस्वति । शब्द एवाकाशे । त एत ईदृशा विशेषाः सहाकारादिभिर् धर्मैः स्थूल-शब्देन परिभाषिताः शास्त्रे । तत्रापि पार्थिवास्तावद् धर्माः—
आकारो गौरवं रौक्ष्यं वरणं स्थैर्यम् एव च ।
वृत्तिर्भेदः क्षमा कार्श्ये काठिन्यं सर्व-भोग्यता॥
अपां धर्माः—
स्नेहः सौक्ष्म्यं प्रभा शौक्ल्यं मार्दवं गौरवं च यत्।
शैत्यं रक्षा पवित्रत्वं सन्धानं चौदका गुणाः ॥
तैजसा धर्माः—
ऊर्ध्व-भाक् पाचकं दग्धृ पावकं लघु भास्वरम्।
प्रध्वंस्योजस्वि वै तेजः पूर्वाभ्यां भिन्न-लक्षणम् ॥
वायवीया धर्माः—
तिर्यग्-यानं पवित्रत्वमाक्षेपो नोदनं बलम्।
चलमच्छायता रौक्ष्यं वायोर्धर्माः पृथग्-विधाः ॥
आकाशीया धर्माः—
सर्वतो गतिर् अव्यूहोऽविष्टम्भश्चेति च त्रयः ।
आकाश-धर्मा व्याख्याताः पूर्व-धर्म-विलक्षणाः ॥
त एत आकार-प्रभृतयो धर्मास्तैः सहेति । आकारश् च सामान्य-विशेषो गोत्वादिः ।
(२)द्वितीयं रूपम् आह—द्वितीयं रूपं स्व-सामान्यम् । मूर्तिः सांसिद्धिकं काठिन्यम् । स्नेहो जले मज्जा-पुष्टि-बलाधान-हेतुः । वह्निर् उष्णतौदर्ये सौर्ये भौमे च सर्वत्रैव तेजंसि समवेतोष्णतेति । सर्वं चैतद् धर्म-धर्मिणोर् अभेद-विवक्षयाभिधानम् । वायुः प्रणामी वहन-शीलः । तद् आह—
चलनेन तृणादीनां शरीरस्याटनेन च ।
सर्वगं वायु-सामान्यं नामीत्वम् अनुमीयते ॥
सर्वतो-गतिर् आकाशः । सर्वत्र शब्दोपलब्धि-दर्शनात् । श्रोत्राश्रयाकाश-गुणेन हि शब्देन पार्थिवादि-शब्दोपलब्धिर् इत्य् उपपादितम् अधस्तात् । एतत्-स्वरूप-शब्देनोक्तम् । अस्यैव मूर्त्य्-आदि-सामान्यस्य शब्दादयः षड्जादय उष्णत्वादयः शुक्लत्वादयः कषायत्वादयः सुरभित्वादयः मूर्त्य्-आदीनां सामान्यानां भेदाः । सामान्यान्य् अपि मूर्त्य्-आदीनि जम्बीर-पनसामलक-फलादीनि रसादि-भेदात् परस्परं व्यावर्तन्ते । तेनैतेषाम् एते रसादयो विशेषाः । तथा चोक्तं—एक-जाति-समन्वितानां प्रत्येकं पृथिव्य्-आदीनां एकैकया जात्या मूर्ति-स्नेहादिना समन्वितानाम् एषां षड्जादि-धर्म-मात्र-व्यावृत्तिर् इति । तद् एवं सामान्यं मूर्त्य्-आद्य् उक्तं विशेषाश् च शब्दादय उक्ताः ।
सर्वतो-गतिर् आकाशः सर्वत्र शब्दोपलब्धि-दर्शनात् । श्रोत्राश्रयाकाश-गुणेन हि शब्देन पार्थिवादि-शब्दोपलब्धिरित्युपपादितमधस्तात् । एतत्स्वरूप-शब्देनोक्तम् । अस्यैव मूर्त्य्-आदि-सामान्यस्य शब्दादयः षड्जादय उष्णत्वादयः शुक्लत्वादयः कषायत्वादयः सुरभित्वादयोमूर्त्य्-आदीनां सामान्यानां भेदाः । सामान्यान्यपि मूर्त्य्-आदीनि जम्बीर-पनसामलक-फलादीनि रसादि-भेदात् परस्परं व्यावर्तन्ते । तेनैतेषाम् एते रसादयो विशेषाः । तथा चोक्तम्—एकेति । एक-जाति-समन्वितानां प्रत्येकं पृथिव्य्-आदीनाम् एकैकया जात्या मूर्ति-स्नेहादिना समन्वितानाम् एषां षड्जादि-धर्म-मात्र-व्यावृत्तिरिति । तद् एवं सामान्यं मूर्त्य्-आद्य्-उक्तं विशेषाश् च शब्दादय उक्ताः ।
ये चाहुः सामान्य-विशेषाश्रयो द्रव्यम् इति तान् प्रत्य् आह—सामान्येति । सामान्य-विशेष-समुदायोऽत्र
दर्शने द्रव्यम् । येऽपि तद्-आश्रयो द्रव्यम् आस्थिषत तैर् अपि तत्-समुदायोऽनुभूयमानो नापह्नोतव्यः । न च तद्-अपह्नवे तयोर् आधारो द्रव्यमिति भवति । तस्मात् तद् एवास्तु द्रव्यम् ।न तु ताभ्यां तत्-समुदायाच् चतद्-आधारम् अपरं द्रव्यम् उपलभामहे ।ग्रावभ्यो ग्राव-समुदायाद् इव च तद्-आधारम् अपरंपृथग्-विधं शिखरम् ।
समूहो द्रव्यम् इत्य् उक्तम् । तत्र समूह-मात्रं द्रव्यमिति भ्रमापनुत्तये समूह-विशेषो द्रव्यमिति निर्धारयितुं समूह-प्रकारान् आह—द्विष्ठो हीति ।यस्माद् एवंतस्मान् न समूह-मात्रं द्रव्यम् इत्य् अर्थः । द्वाभ्यांप्रकाराभ्यां तिष्ठतीति द्विष्ठः । एकं प्रकारम् आह—प्रत्यस्तमितेति । प्रत्यस्तमितो भेदो येषाम् अवयवानां ते तथोक्ताः प्रत्यस्तमित-भेदाअवयवा यस्य स तथोक्तः । एतद् उक्तं भवति—शरीर-वृक्ष-यूथ-वन-शब्देभ्यः समूहः प्रतीयमानोऽप्रतीतावयव-भेदस् तद्-वाचक-शब्दा-प्रयोगात् समूह एकोऽवगम्यत इति । युतायुत-सिद्धावयवत्वेन चेतनाचेतनत्वेन चोदाहरण-चतुष्टयम्। युतायुत-सिद्धावयवत्त्वं चाग्रे वक्ष्यते ।
द्वितीयं प्रकारम् आह—शब्देनोपात्तभेदावयवानुगतः समूह उभये देव-मनुष्या इति । देव-मनुष्या इति हि शब्देनोभयशब्दवाच्यस्य समूहस्य भागौ भिन्नाव् उपात्तौ।
ननूभय-शब्दात्तद्-अवयव-भेदो न प्रतीयते । तत् कथमुपात्त-भेदावयवानुगतः ? इत्यत आह—ताभ्याम् इति । ताभ्यां भागाभ्याम् एव समूहोऽभिधीयते। उभय-शब्देन भाग-द्वय-वाचि-शब्द-सहितेन समूहो वाच्यः । वाक्यस्य वाक्यार्थ-वाचकत्वाद् इति भावः ।
पुनर् द्वैविध्यम् आह—स चेति । भेदेन चाभेदेन च विवक्षितः । भेद-विवक्षितम् आह—आम्राणां वनं ब्राह्मणानां सङ्घ इति ।भेदएवषष्ठी-श्रुतेः ।यथागर्गाणांगौर् इति। अभेद-विवक्षायाम् आह—आम्र-वणं ब्राह्मण-सङ्घ इति ।ाम्राश् चतेवनंचेतिसमूह-समूहिनोर् अभेदं विवक्षित्वासामानाधिकरण्यम् इत्य् अर्थः ।विधान्तरम् आह—स पुनर् द्विविध इति ।
युत-सिद्धावयवः समूहः । युत-सिद्धाः पृथक्-सिद्धाः सान्तराला अवयवा यस्य स तथोक्तः ।यूथं वनम् इति । सान्तराला हि तद्-अवयवा वृक्षाश्च गावश्च। अयुत-सिद्धावयवश्च समूहो वृक्षो गौः परमाणुर् इति । निरन्तरा हि तद्-अवयवाः सामान्य-विशेषा वा सास्नादयो वेति । तद् एतेषु समूहेषु द्रव्य-भूतं समूहं निर्धारयति—अयुत-सिद्धेति । तद् एवं प्रासङ्गिकं द्रव्यं व्युत्पाद्य प्रकृतम् उपसंहरति—एतत् स्वरूपम् इत्य् उक्तम् इति ।
(३) तृतीयं रूपं विवक्षुः पृच्छति—अथेति ।ुत्तरम् आह—तन्मात्रम् इति । तस्यैकोऽवयवः परिणाम-भेदः परमाणुः । सामान्यं मूर्तिः । शब्दादयोविशेषास् तद्-आत्मा । अयुत-सिद्धा निरन्तरा येऽवयवाः सामान्य-विशेषास् तद्-भेदेष्व् अनुगतः समुदायः । यथा च परमाणुः सूक्ष्मं रूपम् एवं सर्व-तन्मात्राणि सूक्ष्मं रूपम् इति ।ुपसंहरति—एतद् इति ।
(४) अथ भूतानां चतुर्थं रूपं ख्याति-क्रिया-स्थिति-शीला गुणाः कार्य-स्वभावानुपातिनःकार्य-स्वभावमनुपतितुमनुगन्तुं शीलं येषां ते तथोक्ताः । अत एवान्वय-शब्देनोक्ताः ।
(५) अथैषां पञ्चमं रूपमर्थवत्त्वं विवृणोति—भोगेति ।
नन्व् एवम् अपि सन्तु गुणा अर्थवन्तः । तत्-कार्याणांतुकुतोऽर्थवत्त्वम् ? इत्य् अत आह—गुणा इति ।भौतिकागो-घटादयः । तद् एवं संयम-विषयम् उक्त्वा संयमं तत्-फलं चाह—तेष्व् इति ।भूत-प्रकृतयः भूत-स्वभावाः ॥४४॥
योग-वार्तिकम् :तद् एवं परिणाम-त्रय-संयमाद् इत्य् आरभ्योच्चावच-विषयक-संयमानां ज्ञान-क्रिया-रूपाः सिद्धय उक्ताः । इदानीं वितर्क-विचारेत्यादि-सूत्रैः स्व-शास्त्रे मुख्यतः प्रकृतेषु ग्रहीतृ-ग्रहण-ग्राह्येषु ये संयमास् तेषां सिद्धयो वक्तव्याः । तत्र ग्रहीतृ-ग्रहणयोर् ग्राह्य-निरूप्यत्वाद् आदौ ग्राह्य-विषयक-संयमस्य सिद्धिम् आह—स्थूल-स्वरूप-सूक्ष्मान्वयार्थवत्त्व-संयमाद् भूत-जयः ॥
स्थूलं च स्वरूपं च सूक्ष्मं चान्वयश् चार्थवत्त्वं चेति स्थूल-स्वरूप-सूक्ष्मान्वयार्थवत्त्वानि । तेषु संयमात् साक्षात्कार-पर्यन्तात् तत्-तद्-रूपाणां जयो वश-वर्तिता भवतीत्य् अर्थः ।
स्थूलं व्याचष्टे—तत्रेति । सामान्य-विशेष-समूह-रूपाणां पृथिव्य्-आदि-पञ्च-भूतानाम् एक-देशाः शब्दादयो विशेषाः । धर्म-धर्म्य्-अभेदात् तद्वन्तः पदार्था वक्ष्यमाणैर् आकारादि-धर्मैः सह स्थूल-शब्देन शास्त्रे परिभाषिताइत्य् अर्थः । तन्मात्र-व्यावर्तनाय विशेष-पदम् । ते च विशेषाः षड्ज-गान्धारादयः शीतोष्णादयो नील-पीतादयो मधुराम्लादयः सुरभि-दुर्गन्धादयश् चेति। एते हि नाम-कर्मभिरवान्तरं विभज्यन्त इति विशेषाः । आकारादयश् च धर्माः पृथिव्य्-आदीनां क्रमेण शास्त्रे परिपठिताः । यथा—
आकारो गौरवं रौक्ष्यं वरणं स्थैर्यम् एव च।
वृत्तिर्भेदः क्षमा कार्श्यं काठिन्यं सर्व-भोग्यता॥
स्नेहः सौक्ष्म्यं प्रभा शौक्ल्यं मार्दवं गौरवं च यत्।
शैत्यं रक्षा पवित्रत्वं संधानं चौदका गुणाः ॥
ऊर्ध्व-भाक् पाचकं दग्धृ पावकं लघु भास्वरम्।
प्रध्वंस्योजस्वि वै तेजः पूर्वेभ्यो भिन्न-लक्षणम्॥
तिर्यग्-यानं पवित्रत्वमाक्षेपो नोदनं बलम्।
चलमच्छायता रौक्ष्यं वायोर्धर्माः पृथग्-विधाः ॥
सर्वतो गतिरव्यूहोऽविष्टम्भश्चेति ते त्रयः ।
आकाश-धर्मा व्याख्याता पूर्व-पूर्व-विलक्षणाः ॥ इति ।
आकारोऽवयव-संस्थनम् । वृत्तिः सर्व-भूताधारता । भेदो विदारणं । क्षमा सहिष्णुता । धारणं सामर्थ्यम् इति यावत् । रक्षाआवरणादिना रक्षकत्वम् । आक्षेपः पातनं । सर्वतो-गतिर्विभुत्वम् । अव्यूहः सर्व-पदार्थानां प्रविरलीकरणम् । अविष्टम्भोऽवकाश इति ।प्रथमं रूपमिति। सूत्रोक्तं पञ्च-रूपेष्वाद्यं रूपम् इत्य् अर्थः ।
स्थूलं व्याख्याय स्वरूपं व्याचष्टे—द्वितीयं रूपमिति। स्व-सामान्यम् इति साधारणं लक्षणम् । कस्य किं सामान्यं ? तद् दर्शयति—मूर्तिर् भूमिर् इत्य् आदिना । मूर्तिः सांसिद्धिकं कठिन्यं तद्-व्यङ्ग्या पृथिवीत्व-जातिः, कार्य-रूपेणाकाशस्याप्य् अनेकत्वाद् इति । अत्र सामान्य-विशेषयोर् अभेद-प्रतिपादनाय मूर्तिर् भूमिर् इत्य्-आद्य् अभेद निर्देशः । कस्य विशेषस्येदं सामान्यम् ? इत्य् आकाङ्क्षायाम् आह—अस्येति । शब्दादयः पूर्वोक्ताः स्थूल-तार-मन्दादि-भेदेन सामान्यस्य जातेर् एक-देशाद् व्यावर्तकतया विशेषाइत्य् अर्थः । अत्र पूर्वाचार्य-संवादम् आह—तथा चोक्तम् इति । एक-जाति-समन्वितानाम् एषां पृथिव्य्-आदीनां शब्दादि-धर्म-मात्रेण व्यावृत्तिः सजातीयान्तराद् इत्य् अर्थः । एक-जाति-समन्वितानाम् इति समूहे समूहि-वृत्त्य्-अभिप्रायेण प्रयोगः ।
यत् तुवैशेषिकाःसामान्यविशेषयोराश्रयम् एव द्रव्यं मन्यन्ते न तु तयोर् भेदमपि । तन्मताद्विविच्यस्व-सिद्धान्तम् आह—सामान्येति । अत्र दर्शने सामान्य-विशेषयोः समूहो द्रव्यम् । अतिरिक्तावयव्य्-अभ्युपगमेऽपि तयोरभेदस्याप्य् अभ्युपगमात् । अन्यथा घटोमृत् तन्तुः पटः शुक्लः पटैत्य्-आद्य्-अभेद-प्रत्ययानुपपत्तेर् इत्य् अर्थः ।
ननु समूह-मात्रस्य द्रव्यत्वे वनस्याप्य् एक-द्रव्यत्वापत्तिरित्याशङ्कां परिहर्तुमादौ समूहस्य द्वैविध्यम् आह—द्विष्ठो हीति । द्वाभ्यां प्रकाराभ्यां तिष्ठतीति द्विष्ठः । तत्रैकं प्रकारम् आह—प्रत्यस्तमितेति । प्रत्यस्तमितः शब्देनानुपस्थापितो भेदोऽवान्तर-विभागो येषामवयवानां तादृशेष्व् अवयवेष्व् अनुगत इत्य् अर्थः । तस्योदाहरण-चतुष्कम् आह—शरीरम् इति। आद्यंद्वयमेक-द्रव्य-रूपस्य समूहस्योदाहरणमन्त्य-द्वयमनेक-द्रव्य-रूप-समूहस्येति भेदः । यूथादौ च विशिष्टस्यातिरिक्तत्वाभिप्रायेणावयवानुगतत्वमुपपादनीयम् । द्वितीयं समूहस्य प्रकारम् आह—शब्देनोपात्तेति । अस्योदाहरणम्—उभयेति । अत्रोभय-शब्द-वाच्यस्य समूहस्यावान्तर-भेदौ देव-मनुष्य-शब्दाभ्यामुपात्तौबहु-वचनाभ्यां च तयोरप्य् अनेक-भेदा उपात्ता इति । शब्देनोपात्त-भेदत्वंसंक्षेपात् स्वयम् आह—समूह-रूपस्य देवा इति । भागो भेदस्ताभ्यां भेदाभ्याम् । स चेति । सच द्विविधोऽपि समूहो भेदाभेदाभ्यां प्रयोक्तृभिर् विवक्षितो भवति । आम्राणां वनम् इति षष्ठ्या भेदेन । आम्रवणम् इति च कर्मधारयादभेदेन विवक्षा । एवमन्यत्रापि । तथा च समूह-समूहिनोर् भेदाभेदौ स्त इति प्रतिपादितम् ।
स पुनर् इति । द्विविधोऽपि समूहः पुनर् द्विविधो भवति । द्वैविध्यम् एवाह—युतेति । हालिकादिष्व् अपि संयुक्ततया संबद्धतया सिद्धा अवयवा यस्य समूहस्य यूथ-वनादेः स तथा । अयुतेति । अयुत-सिद्धावयवः समूहः संघातस्तस्य विवरणम्—शरीरम् इत्यादि । लौकिकेष्व् असंयुततयैकीभावेनैव सिद्धा अवयवा यस्य समूहस्य शरीर-वृक्षादेः स तथेत्य् अर्थः । परमाणुरिति । परमाणूनाम् अपि पञ्च-चतुर्-आदि-तन्मात्र-समूहताया वक्ष्यमाणत्वाद् इति भावः । तद् एवं समूह-भेदान् प्रदर्श्य तेष्व् अवयवि-द्रव्य-रूपं समूहं विशिष्यावधारयति—अयुतेति । य संयोग-विशेषावच्छिन्नेष्व् अवयव-विशेषेष्व् अनुगतः सामान्य-विशेष-समूहोऽवयव्याख्यं द्रव्यम् इत्य् अर्थः । अवयव-साधारणं तु सामान्यतो द्रव्य-लक्षणं सामान्य-विशेष-समुदायत्व-मात्रम् इति ।
उपसंहरति—एतत्-स्वरूपम् इत्य् उक्तमिति । एतत् सामान्यं स्वरूप-शब्देन परिभाषितम् इत्य् अर्थः । स्वरूप-परिभाषा च स्थिरता-मात्रेण विशेषा ह्य् आगमापायितया न द्रव्यस्य स्वरूपाणीति । यत् तु पूर्व-पादे स्थूल-स्वरूप एकीकृत्यावयवि-द्रव्यम् एव वितर्कानुगत-योगस्य विषयः स्थूलमित्युक्तं तल्-लौकिक-स्थूल-व्यवहारानुसारेण । अत्र तु तान्त्रिक-व्यवहारेण तस्यैव द्विधा विभागः । एवम् एव विचारानुगत-विषयस्य सूक्ष्मस्यैवात्र सूक्ष्मादि-त्रैविध्यं वक्ष्यतीति द्रष्टव्यम् ।
स्वरूपं व्याख्याय सूक्ष्मं व्याख्यातुं पृच्छति—अथेति । एषां भूतानाम् । उत्तरम्—तन्मात्रमिति । तत्र सूक्ष्म-परिभाषा-बीजम् आह—भूत-कारणमिति । साक्षात् कारणत्वम् एव हि सूक्ष्मत्वम् अत्र विवक्षितम् इत्य् आशयः । भूत-कारणत्व-प्रकारं दर्शयति—तस्येति । तस्य भूतस्यैकश् चरमोऽवयवः परमाणुः । सोऽपि च घटादिवद् एव सावयवोऽन्यथा स्थूलत्वानुपपत्तेः,शान्त-घोर-मूढत्व-रूप-विशेषानुपपत्तेश् चेत्य् एवम् इत्य् अतः सर्व-तन्मात्राण्य् एव भूत-कारणानि । अवयवान्तरासंभवाद् इत्य् अर्थः । उपसंहरति—एतत् तृतीयमिति । अथेति। एतत्तन्मात्रं तृतीयं भूतानां रूपम् इत्य् अर्थः ।
अन्वयाख्यं चतुर्थं रूपं व्याचष्टे—अथेति । अथानन्तरम् उच्यत इति शेषः । त्रिविधा गुणा एवान्वय-शब्देनोक्ताः । तत्र हेतुः—कार्य-स्वभावानुपातिन इति । कार्य-रूपो यः स्वीयो भावः स्वात्मकः पदार्थस् तत्रानुगता अतोऽन्वयाइत्य् अर्थः ।
ननु भूतेषु प्रख्या-शीलस्य सत्त्वस्यानुगमे किं प्रमाणम् ? इति चेद्,अन्नमयं हि सोम्य मनः इत्यादि-श्रुतयोऽन्वय-व्यतिरेकौ चेति प्रतीहि । प्रकाशात्मकतया सात्त्विकानि हि मनश्-चक्षुर्-आदीन्य् अन्न-रसाद्य्-उपचयापचयाभ्याम् उपचयापचयवन्ति दृश्यन्ते । अतः पृथिव्य्-आदि-भूतेषु मन-आदिकं तद्-उपष्टम्भक-सत्त्वं वानुगतम् इत्य् उन्नीयत इति ।
पञ्चमं रूपम् आह—अथैषाम् इति । गुणेषु वर्तमानं यद् भोगापवर्ग-जातं भोग-विवेक-ख्याति-रूपं तद् एव पञ्चमं रूपम् अर्थवत्त्वाख्यम् इत्य् अर्थः ।
नन्व् एवं गुणेषु वर्तमानम् अर्थवत्त्वं कथं भूतानां रूपं स्यात् ? तत्राह—गुणास् तन्मात्रेति ।
ननु भोगापवर्गौ शब्दाद्य्-उपलब्धि-विवेक-ख्याती । ते चान्तःकरण एव वर्तेते न साक्षाद् गुणेष्व् इति चेद् । अनागतावस्थया वासना-रूपेण वा तयोर् अपि प्रलयकाले गुणेष्व् एवावस्थानात् । कारण-क्रमेणैव कार्येष्व् अनुगतयोर् अभिव्यक्तेर् इति ।
पञ्च-रूपाणि व्याख्याय सूत्र-वाक्यार्थम् आह—तेष्विति । इदानीं-भूतेष्व् इदानीमुत्पन्नेषु इदानींतनेषु स्थल-भूतेष्वित्य् अर्थः । तन्मात्रादिषु पञ्च-रूपत्वाभावाद् इदानीं भूतेष्व् इत्य् उक्तम् । स्वरूप-दर्शनं च संयमस्य जय-हेतुत्वे द्वारम् उक्तम् । जयो वशीकारः । तत्र पञ्चेति ।
एकैक-मात्र-जये हि गौणो भूत-जयः । सामग्र्येणाजयाद् इति भावः । वशीकारम् एव कार्य-द्वारा लक्षयति—तज्-जयाद् इति । भूत-प्रकृतयो भूत-कारणानि त्रिगुण-तत्-स्थ-पुरुषार्थ-पर्यन्तानीत्य् अर्थः । न तु तन्मात्राण्य् एव केवलानि गुण-पुरुषार्थयोर् अपि संयमेन साक्षात्कृतत्वाद् इति॥४४॥
—o)0(o—
(३.४५)
ततोऽणिमादि-प्रादुर्भावः काय-संपत् तद्-धर्मानभिघातश् च ॥४५॥
तत्राणिमाभवत्य् अणु । लघिमा लघुर् भवति । महिमा महान् भवति । प्राप्तिर् अङ्गुल्य्-अग्रेणापि स्पृशति चन्द्रमसम् । प्राकाम्यम् इच्छानभिघातः । भूमाव् उन्मज्जति निमज्जति यथोदके । वशित्वं भूत-भौतिकेषु वशी भवत्य् अवश्यश् चान्येषाम् ।ीशितृत्वं तेषां प्रभवाप्यय-व्यूहानाम् ईष्टे । यत्र-कामावसायित्वं सत्य-सङ्कल्पता यथा सङ्कल्पस् तथा भूत-प्रकृतीनाम् अवस्थानम् ।
न च शक्तोऽपिपदार्थ-विपर्यासं करोति । कस्मात् ? अन्यस्य यत्र कामावसायिनः पूर्व-सिद्धस्य तथा-भूतेषु सङ्कल्पाद् इति ।
एतान्य् अष्टाव् ऐश्वर्याणि । काय-सम्पद वक्ष्यमाणा । तद्-धर्मान् अभिघातश् च पृथ्वी मूर्त्या न निरुणद्धि योगिनः शृङ्गारादि-क्रियां, शिलाम् अप्य् अनुप्रविशतीति । नापः स्निग्धाः क्लेदयन्ति । नाग्निर् उष्णो दहति । न वायुः प्रणामी वहति । अनावरणात्मकेऽप्य् आकारो भवत्य् आवृत-कायः सिद्धानाम् अप्य् अदृश्यो भवति ॥४५॥
तत्त्व-वैशारदी : सङ्कल्पानुविधाने भूतानां किं योगिनः सिद्ध्यतेत्यत आह—ततोऽणिमादि-प्रादुर्भावः काय-संपत् तद्-धर्मानभिघातश् च ॥
स्थूल-संयम-जयाच् चतस्रः सिद्धयो भवन्तीत्य् आह—तत्रैति ।णिमा महान् अपि भवत्यणुः ।लघिमामहानपि लघुर्भूत्वेषीका-तूल इवाकाशे विहरति ।महिमाअल्पोऽपि ग्राम-नग-गगन-परिमाणो भवति ।प्राप्तिःसर्वे भावाः सन्निहिता भवन्ति योगिनः । तद्यथा भूमिष्ठ एवाङ्गुल्य्-अग्रेण स्पृशति चन्द्रमसम् ।
स्वरूप-संयम-विजयात् सिद्धिम् आह—प्राकाम्यमिच्छानभिघातैति । नास्य रूपं भूत-स्वरूपैर्मूर्त्य्-आदिभिरभिहन्यते ।भूमाव् उन्मज्जति निमज्जति च यथोदके ।
सूक्ष्म-विषय-संयम-जयात्सिद्धिम् आह—वशित्वमिति ।भूतानि पृथिव्य्-आदीनि, भौतिकानि गो-घटादीनि । तेषु वशीस्वतन्त्रो भवति, तेषां त्व् अवश्यः । तत्-कारण-तन्मात्र-पृथिव्य्-आदि-परमाणु-वशीकारात्तत्-कार्य-वशीकारस्तेन यानि यथाऽवस्थापयति, तानि तथाऽवतिष्ठन्त इत्य् अर्थः ।
अन्वय-विषय-संयम-जयात्सिद्धिम् आह—ईशितृत्वमिति । तेषांभूत-भौतिकानां विजित-मूल-प्रकृतिः सन् यः प्रभवौत्पादो यश्चाप्यायोविनाशो यश् च व्यूहोयथावद् अवस्थापनं तेषाम् ईष्टे ।
अर्थवत्त्व-संयमात्सिद्धिम् आह—यत्र-कामावशायित्वं सत्य-सङ्कल्पताइति ।विजित-गुणार्थवत्त्वो हि योगी यद् यदर्थतया सङ्कल्पयति, तत् तस्मै प्रयोजनाय कल्पते । विषम् अप्य् अमृत-कार्ये सङ्कल्प्य भोजयन् जीवयतीति ।
स्यादेतत्—यथा शक्ति-विपर्यासं करोति,एवं पदार्थ-विपर्यासमपि कस्मान्न करोति ? तथा चन्द्रमसमादित्यं कुर्यात्, कुहूंश् च सिनीवालीमित्यतआह—न च शक्तोऽपिइति । न खल्वेते यत्र कामावसायिनस्तत्र-भवतः परमेश्वरस्याज्ञामुत्क्रमितुमुत्सहन्ते । शक्तयस्तु पदार्थानां जाति-देश-कालावस्था-भेदेनानियत-स्वभावा इति युज्यते, तासु तद्-इच्छाऽनुविधानम् इति ।ेतान्यष्टावैश्वर्याणि ।
तद्-धर्मानभिघात इति । अणिमादि-प्रादुर्भाव इत्यनेनैव तद्-धर्मानाभिघात-सिद्धौ पुनरुपादानं काय-सिद्धिवद् एतत्-सूत्रोपबद्ध-सकल-विषय-संयम-फलवत्त्व-ज्ञापनाय । सुगममन्यद्॥४५॥
योग-वार्तिकम् :भूत-जयस्य फलं प्रतिपादयति—ततोऽणिमादि-प्रादुर्भावः काय-संपत् तद्-धर्मानभिघातश् च ॥
तत्र त्रिषु मध्येऽणिमाद्य्-अष्ट-सिद्धीर्व्याचष्टे—अणिमेति । स्वेच्छया यदणु-परिमाण-शरीरो भवति तदणिमा । संकल्प-मात्रेण तत्-क्षणाद् एवावयवापचयेन सौक्ष्म्यं देहस्य भवति, भूत-प्रकृति-वशित्वाद् इति । एवं सर्वत्र अणिमाद्याश् च शास्त्रे गणिताः—
अणिमा महिमा चैव लघिमा प्राप्तिर् इन्द्रियैः ।
प्राकाम्यं श्रुत-दृष्टेषु शाक्ति-प्रेरणम् ईशिता ॥
गुणेष्वसङ्गो वशिता यत्कामस्तदवस्य ति । इति ।
लघिमानम् आह—लघुरिति। गुरुतर-शरीरोऽपीषिका-तूलवल्लघुर् भवतीत्य् अर्थः ।स्पृशतीति । भूमिष्ठएवेति शेषः । अवयवोपचयेनाङ्गुलि-दैर्घ्याद् इति ।
एताश् चतस्रः स्थूल-संयम-सिद्धयः स्वरूप-संयमस्य सिद्धिम् आह—प्राकाम्यमिति । इच्छानभिघातैति ।सत्याम् इच्छायां नास्य रूपं भूतस्य रूपैर्मूर्त्य्-आदिभिर्विहन्यते, भूत-स्वरूपाणां जितत्वादित्य् अर्थः । तस्योदाहरणं—भूमाविति ।ुन्मज्जति जलम् इव भूमिम् उद्भिद्योत्तिष्ठति निमज्जति जलवद् भूमौ प्रविशति चेत्येवम्-आदिः प्राकाम्यम् इत्य् अर्थः ।
सूक्ष्म-संयमस्य सिद्धिम् आह—वशित्वमिति।भूत-भौतिकेष्विति। भूतेषु व्यष्टिषु भौतिकेषु तत्-कायेषु समष्टि-महाभूतेषु ब्रह्माण्डादिषु चेति व्याख्येयम् ।जगद्-व्यापार-वर्जम्[वे.सू. ४.४.३३] इति वेदान्त-सूत्रेण सिद्धेष्वादि-सर्ग-सामर्थ्याभाव-वचनाद् इति । वशीभवति स्वेच्छया परिणमने समर्थो भवति, तत्-कारण-तन्मात्र-विजयात् । तथा तेषाम् अवश्योऽपि भवति विरागाद् इत्य् अर्थः ।
अन्वय-संयमस्य सिद्धिम् आह—ईशितृत्वमिति । तेषामिति। तेषां भूतानां तन्मात्र-द्वारकोत्पत्ति-विनाशयोर्व्यूहाख्य-संस्थान-विशेषे च समर्थो भवति, भूतानां मूल-प्रकृति-विजयाद् इत्य् अर्थः ।
अर्थवत्त्व-संयमस्य सिद्धिम् आह—यत्रेति । यत्र कामावसायित्वम् इति तान्त्रिकी परिभाषा पुराणेष्व् अप्य् एवम् अवगमाद्, भूत-प्रकृतीनां गुण-तन्मात्रादीनामवस्थानं परिणाम-विशेषः, विजितार्थ-संबन्धो हि योगी यद् यदर्थतया यद्वस्तु संकल्पयति, तत्तद्वस्तु तद्-अर्थकम् एवभवति । विषम् अप्य् अमृतस्यार्थं संकल्प्य भोजयन् जीव-लोकं सुखाकरोतीति ।
नन्व् एवं योगी जलम् अपि तेजः कुर्याद् धर्मम् अप्य् अधर्मं कुर्याद् इत्य् अव्यवस्थैव स्याद् इत्य् आशङ्क्याह—न च शक्तोऽपीति । पूर्व-पर-योगि-व्यवहारानुसारेणैव योगी व्यवहरति । अन्यथा तुल्य-बल-विरोधेन व्यवहारासंभवात् । विरोधम् एवदर्शयति—अन्यस्येति । पूर्वेषां तथा-भूतेषु यथा-दृष्टेष्व् एव संकल्पाद् इतिवाक्यार्थः । तथा च श्रुतिः—धाता यथा-पूर्वमकल्पयद् इति । स्व-नियम-पालनार्थमन्तर्यामिणा तथैव सिद्धःप्रेर्यत इति द्रष्टव्यम् ।
उपसंहरति—इत्यष्टावैश्वर्याणीति । अणिमाद्य्-अष्ट-सिद्धि-व्याख्या-पूरणायैव प्रकाम्यमत्र भाष्य-कारैः कथितं, न त्वत्र सूत्रे प्राकाम्यमणिमादि-मध्ये विवक्षितं, तद्-धर्मानभिघात इत्यनेनैव प्राकाम्य-ग्रहणेन पौनरुक्त्यापत्तेर् इति ॥४५॥
—o)0(o—
(३.४६)
रूप-लावण्य-बल-वज्र-संहननत्वानि काय-संपत् ॥४६॥
दर्शनीयः, कान्तिमान्, अतिशय-बलो वज्र-संहननश् चेति ॥४६॥
तत्त्व-वैशारदी : काय-सम्पदम् आह—रूप-लावण्य-बल-वज्र-संहननत्वानि काय-संपत्॥ वज्रस्येव संहननम् अवयव-व्यूहो दृढो निविडो यस्य, स तथोक्तः ।[तस्य भावस् तत्त्वम् इति] ॥४६॥
योग-वार्तिकम् :प्रसिद्धत्वात् सिद्धि-द्वय-विवेचननपेक्षया केवला काय-सम्पदं सूत्रकारः विवृणोति—रूप-लावण्य-बल-वज्र-संहननत्वानि काय-संपत्॥ वज्रस्येव संहननं प्रहारो यस्येति वज्रवन्निविडो दृढः संघातो यस्येति वा वज्र-संहननः । भाष्यं सुगमम्॥४६॥
—o)0(o—
(३.४७)
ग्रहण-स्वरूपास्मितान्वयार्थवत्त्व-संयमाद् इन्द्रिय-जयः ॥४७॥
सामान्य-विशेषात्माशब्दादिर् ग्राह्यः । तेष्व् इन्द्रियाणां वृत्तिर् ग्रहणम् । न च तत्-सामान्य-मात्र-ग्रहणाकारम् । कथम् अनालोचितः स विषय-विशेष इन्द्रियेण मनसा वानुव्यवसीयेत ? इति । स्वरूपं पुनः प्रकाशात्मनो बुद्धि-सत्त्वस्य सामान्य-विशेषयोर् अयुत-सिद्धावयव-भेदानुगतः समूहो द्रव्यम् इन्द्रियम् । तेषांतृतीयंरूपम् अस्मिता-लक्षणोऽहङ्कारः । तस्य सामान्यस्येन्द्रियाणि विशेषाः । चतुर्थंरूपं व्यवसायात्मकाः प्रकाश-क्रिया-स्थिति-शीला गुणाः । येषाम् इन्द्रियाणि साहङ्काराणि परिणामाः । पञ्चमंरूपंगुणेषु यद् अनुगतं पुरुषार्थवत्त्वमिति । पञ्चस्व् एवेत्ष्व् इन्द्रिय-रूपेषु यथा-क्रमं संयमस् तत्र तत्र जयं कृत्वा पञ्च-रूप-जयाद् इन्द्रिय-जयः प्रादुर्भवति योगिनः ॥४७॥
तत्त्व-वैशारदी : जित-भूतस्य योगिन इन्द्रिय-जयोपायम् आह—ग्रहण-स्वरूपास्मितान्वयार्थ-वत्त्व-संयमाद् इन्द्रिय-जयः ॥ग्रहणं च, स्वरूपं च, अस्मिता च, अन्यवश् च, अर्थवत्त्वं च । तेषु संयमः, तस्माद् इत्य् अर्थः ।
गृहीतिर्ग्रहणं । तच्च ग्राह्याधीन-निरूपणम् इति ग्राह्यं दर्शयति—सामान्य-विशेषात्माइति ।
ग्राह्यम् उक्त्वा ग्रहणम् आह—तेषुइति । वृत्तिरालोचनं विषयाकारा परिणतिर् इति यावत् ।
ये त्वाहुः—सामान्य-मात्र-गोचरेन्द्रिय-वृत्तिर् इति,तान्प्रत्याह—न चैति । गृह्यत इति ग्रहणं, सामान्य-मात्र-गोचरं ग्रहणम् बाह्येन्द्रिय-तन्त्रं हि मनो बाह्ये प्रवर्तते, अन्यथान्ध-बधिराद्य्-अभाव-प्रसङ्गात् । तदिह यदि न विशेष-विषयमिन्द्रियं, तेनासावनालोचितोविशेषैतिकथंमनसाऽनुव्यवसीयेत ? तस्मात् सामान्य-विशेष-विषयमिन्द्रियालोचनम् इति ।
तद् एतद् ग्रहणमिन्द्रियाणां प्रथमं रूपम् । द्वितीयं रूपम् आह—स्वरूपं पुनःिति । अहङ्कारो हि सत्त्व-भागेनात्मीयेनेन्द्रियाण्यजीजनत्, अतो यत्तत्र करणत्वं सामान्यं, यच् च नियत-रूपादि-विषयत्वं विशेषस्तदुभयम् अपिप्रकाशात्मकम् इत्य् अर्थः ।
तेषां तृतीयं रूपम् इति । अहङ्कारो हीन्द्रियाणां कारणम् इति। यत्रेन्द्रियाणि तत्र तेन भवितव्यम् इति सर्वेन्द्रिय-साधारण्यात्सामान्यमिन्द्रियाणाम् इत्य् अर्थः ।
चतुर्थ-रूपम् इति । गुणानां हि द्वैरूप्यं व्यवसायात्मकत्वं व्यवसेयात्मकत्वं च । तत्र व्यवसेयात्मकतां ग्राह्यातामास्थाय पञ्च-तन्मात्राणि भूत-भौतिकानि च निर्मिमते, व्यवसायात्मकत्वंतु ग्रहण-रूपमास्थाय, साहङ्काराणीन्द्रियाणीत्य् अर्थः । शेषं सुगमम्॥४७॥
योग-वार्तिकम् :[ग्राह्य-संयमस्य सिद्धय उक्ताः, ग्रहण-संयमस्य सिद्धीराह]—ग्रहण-स्वरूपास्मितान्वयार्थवत्त्व-संयमाद् इन्द्रिय-जयः ॥ग्रहणं च स्वरूपं चास्मिता चान्वयश्चार्थवत्त्वं च तेषु संयमात्साक्षात्कार-पर्यन्तात् तद्-रूपाणामिन्द्रियाणां जयो भवतीत्य् अर्थः ।
ग्रहणंव्याचष्टे—सामान्येति । वृत्तिरालोचनं विषयाकार-परिणाम-विशेषः चिन्ताऽवधारणाभिमान-संशय-रूपादन्तःकरणानाम् असाधारण-वृत्ति-चतुष्काद्विलक्षणो दर्शन-स्पर्शन-नामा । यद्यपि सोऽपि स्मरणाद्य्-अनुरोधेनान्तः-करणस्यैव, तथापि चक्षुर्-आद्य्-उपष्टम्भेनैव भवतीति कृत्वा दर्शनादिश्चक्षुर्-आदीनामुच्यते । तथा चोक्तं साङ्ख्ये—
सान्तः-करणा बुद्धिः सर्वं विषयमवगाहते यस्मात्।
तस्मात् त्रिविधं करणं द्वारि द्वाराणि शेषाणि॥[सा.का. ३५] इति ।
न त्वालोचन-शब्दार्थो निर्विकल्पकं ज्ञानं चक्षुर्-आदि-मात्र-वृत्त्येवेति कल्पनीयम् । एवं सति चक्षुर्-आदिनैव वैशिष्ठ्यस्यापि ग्रहण-सम्भवात्, सर्व-वृत्तीनां चित्त-निष्ठत्वस्य भाष्ये प्रोक्तत्वाच् च । ये तु बौद्धा विशेषस्य मनो-मात्रस्य गोचरत्वमभ्युपगम्येन्द्रिय-वृत्तिं सामान्य-मात्र-विषयिणीमाहुस्तान् प्रत्याचष्टे—न चेति ।न चतद् इन्द्रियं सामान्य-मात्रेणग्रहणमाकारो रूपं यस्य तथा भवतीत्य् अर्थः ।
तत्र हेतुः—कथमित्य्-आदि ।सविषय-गतो विशेषैन्द्रियेण अनलोचितः कथं मनसाऽनुव्यवसीयेत गृह्यते ? मनसो बहिर् अस्वातन्त्र्याद् अन्यथा चक्षुर्-आद्य्-अगोचरार्थानां मनसा विशेष-ग्रहण-प्रसङ्गाद् इत्य् अर्थः ।
इन्द्रियाणां द्वितीयं रूपम् आह—स्वरूपमिति।प्रकाशात्मनो बुद्धि-सत्त्वस्यकार्या येऽयुत-सिद्धा अवयव-भेदाः सात्त्विकाहंकार-रूपास्तेष्वनुगतःसामान्य-विशेष-रूपयोः समूहोद्रव्यमिन्द्रियम् इत्य् अर्थः । तत्र विशेषाः ग्रहण-रूपा नील-पीताद्य्-आकारः, परिणाम-भेदाः सामान्यं च चक्षुष्ट्वादीति ।
ननु पूर्व-सूत्र-वदत्रापि स्वरूपं केवलं सामान्यम् एवोचितम्, अन्यथा ग्रहणाख्य-प्रथम-रूपख्याप्य् अत्रैव प्रवेशापत्तेः? इति चेत्, सत्यम् । सामान्य-प्राधान्येनैव स्वरूपत्वमत्रापि विवक्षितं, तथापि भूतवदिन्द्रियस्यापि सामान्य-विशेषाभ्यामत्यन्त-निषेध-प्रतिषेधायैव समुदायो द्रव्यमित्य् उक्तम् ।
तेषां तृतीयं रूपमिति । तेषाम् इन्द्रियाणां तृतीयं रूपम् अवयव-शब्देनोक्तोऽहंकारः, तत्राभिमानाख्य-वृत्ति-भ्रम-निरासायास्मिता-लक्षण इति विशेषणम्, अस्मिता-वृत्तिक इत्य् अर्थः ।
ननु कथमहंकार इन्द्रियाणां रूपम् ? इत्य् आकाङ्क्षायाम् आह—तस्येति । यथा तन्मात्रस्य सामान्यस्यभूतानि विशेषाएवम् अहंकारस्य सामान्यस्य चक्षुर्-आदीनि विशेषाः, कार्यत्वात् । अत इन्द्रियेष्वनुगततयाऽहंकार इन्द्रियाणां रूपं, भूतानां तन्मात्रवद् इतिभावः ।
इन्द्रियाणां चतुर्थं रूपम् आह—चतुर्थमिति । महत्-तत्त्वस्यापि चतुर्थ-रूप-मध्ये प्रवेशाय व्यवसायात्मका इति गुणानां विशेषणं । व्यवसायाख्य-बुद्धि-रूपेण परिणतास्तद्-विशिष्टा इत्य् अर्थः । एतेन पूर्वोक्त-भूत-जय-सूत्रेऽप्य् अन्वयाख्य-चतुर्थ-रूप-मध्ये महद्-अहंकारयोः प्रवेश इत्युन्नेयं, युक्ति-साम्याद् इति ।येषामिति । साहंकाराणि सान्तःकरणानि ।
पञ्चमं रूपम् आह—गुणेष्व् इति ।िन्द्रिय-प्रकृति-गुणेष्वित्य् अर्थः ।
सूत्र-वाक्यार्थ व्याचष्टे—पाञ्चस्व् इति । यथा-क्रमं ग्रहणादि-क्रमेण संयमः कार्य इति शेषः । ततश् च वत्सानुसारिण्य इव गावोऽस्य संकल्पानुविधायिन्य इन्द्रिय-प्रकृतयो भवन्तीति शेषः ॥४७॥
—o)0(o—
(३.४८)
ततो मनोजवित्वं विकरण-भावः प्रधान-जयश् च ॥४८॥
कायस्यानुत्तमो गति-लाभो मनोजवित्वम् । विदेहानाम् इन्द्रियाणाम् अभिप्रेत-देश-काल-विषयापेक्षो वृत्ति-लाभो विकरण-भावः । सर्व-प्रकृति-विकार-वशित्वं प्रधान-जय इति । एतास् तिस्रः सिद्धयो मधु-प्रतीका उच्यन्ते । एताश् च करण-पञ्चक-रूप-जयाद् अधिगम्यन्ते॥४८॥
तत्त्व-वैशारदी : पञ्च-रूपेन्द्रिय-जयात् सिद्धीराह—ततो मनोजवित्वं विकरण-भावः प्रधान-जयश् च ॥ विदेहानामिन्द्रियाणां करण-भावो विकरण-भावः ।देशः काश्मीरादिः ।कालोऽतीतादिः ।विषयः सूक्ष्मादिः । सान्वयेन्द्रिय-जयात्सर्व-प्रकृति-विकार-वशित्वं प्रधान-जयस्ता एताः सिद्धयो मधु-प्रतीका इत्य् उच्यन्तेयोग-शास्त्र-निष्णातैः ।
स्याद् एतत्, इन्द्रिय-जयादिन्द्रियाणि स-विषयाणि वश्यानि भवन्तु, प्रधानादीनां तत्-कारणानां किमायातम् ? इत्य् अत आह—एताश् च इति ।करणानामिन्द्रियाणां पञ्च-रूपाणिग्रहणादीनि, तेषां जयात् । एतद् उक्तं भवति—नेन्द्रिय-मात्र-जयस्यैताः सिद्धयोऽपि तु पञ्च-रूपस्य, तद्-अन्तर्-गतं च प्रधानादीति ॥४८॥
योग-वार्तिकम् :िन्द्रिय-जयात्सिद्धीराह—ततो मनोजवित्वं विकरण-भावः प्रधान-जयश्च ॥
व्याचष्टे—कायस्येति। अनुत्तमो मनोवच्छीघ्रतरः कर्मेन्द्रिय-वृत्ति-विजायाद्भवति । विकरण-भावस्य स्वरूपम् आह—विदेहानामिति । स्थूल-देह-संपर्क-रहितानाम् इत्य् अर्थः । इन्द्रियाणाम् इति करण-सामान्योपलक्षणम् ।विकरण-भाव-शब्दस्य योगार्थम् आह—अभिप्रेतेति। अभिप्रेत-काल-देश-विषयापेक्षस्तद्-अपरित्यागी यत्रैव देशादिषु वृत्ति-लाभ इष्यते, तत्रैव भवतीत्य् अर्थः ।
तथा च विकरण-भावो विकीर्णता-स्वभावो व्यापितेति यावद्, य एवं-विध-करण-भावोपपन्ना योगिनस्त एव स्थाने स्थाने विदेहा इत्य् उक्ताः ।सर्वेति। सर्वासांव्यक्ति-भेदेनानन्तानां भूतेन्द्रिय-प्रकृतीनां सत्त्वादि-गुणानां तद्-विकाराणां च सर्वेषां स्वेच्छयाऽनुविधानंप्रधान-जय इत्य् अर्थः ।
ननु भूत-प्रकृति-जयो भूत-जयो वा कथम् इन्द्रिय-जयात् ?इतिचेन् न, भूत-जय-रूप-पूर्व-भूमिकायाम् एवतयोर्जितत्वेनोत्तर-भूमिकायाम् एकीकृत्य सर्व-जय-कथनाद् इति । एत एव च प्रधान-जयिनः पूर्वं स्थाने स्थाने प्रकृति-लया इत्य् उक्ताः । प्रकृत्या सहैकतां गता इति प्रकृति-लयाः प्रकृति-वशिनः ।
एतास्तिस्र इति । अत्र सिद्धि-विशेषाणाम् एवमधु-प्रतीक-संज्ञाऽवगमाद्योग-भूमि-चतुष्टयस्य पृथगेव पश्चाद्वक्ष्यमाणत्वाच् च । योग-भूमेर्मधु-प्रतीक-संज्ञेति । कस्यचिद्व्याख्यानमबोध-मूलत्वादुपेक्षणीयम् । तत इति सौत्रं पदं व्याचष्टे—एताश्चेति ।
नन्व् इन्द्रिय-जये कथं प्रकृति-महद्-अहंकाराणां जय इति चेन्न, इन्द्रिय-रूपेष्वन्तिम-रूप-त्रयत्वात्तेषाम् इति॥४८॥
—o)0(o—
(३.४९)
सत्त्व-पुरुषान्यता-ख्याति-मात्रस्य
सर्व-भावाधिष्ठातृत्वं सर्व-ज्ञातृत्वं च ॥४९॥
निर्धूत-रजस्-तमो-मलस्य बुद्धि-सत्त्वस्य परे वैशारद्ये परस्यां वशीकार-संज्ञायां वर्तमानस्य सत्त्व-पुरुषान्यता-ख्याति-मात्र-रूप-प्रतिष्ठस्य सर्व-भावाधिष्ठातृत्वम् । सर्वात्मानो गुणा व्यवसाय-व्यवसेयात्मकाः स्वामिनं क्षेत्रज्ञं प्रत्यशेष-दृश्यात्मत्वेनोपतिष्ठन्त इत्य् अर्थः । सर्व-ज्ञातृत्वं सर्वात्मनां गुणानां शान्तोदिताव्यपदेश्य-धर्मत्वेन व्यवस्थितानाम् अक्रमोपारूढं विवेकजं ज्ञानम् इत्य् अर्थः । इत्य् एषा विशोका नाम सिद्धिर् यां प्राप्य, योगी सर्व-ज्ञः क्षीण-क्लेश-बन्धनो वशी विहरति ॥४९॥
तत्त्व-वैशारदी : त एते ज्ञान-क्रिया-रूपैश्वर्य-हेतवः संयमाः साक्षात्पारम्पर्येण च स्व-सिद्ध्य्-उपसंहार-सम्पादित-श्रद्धा-द्वारेण यद्-अर्थास्तस्याः सत्त्व-पुरुषान्यता-ख्यातेरवान्तर-विभूतीर्दर्शयति—सत्त्व-पुरुषान्यता-ख्याति-मात्रस्य सर्व-भावाधिष्ठातृत्वं सर्व-ज्ञातृत्वं च ॥
निर्धूत-रजस्-तमो-मलतया वैशारद्यं, ततः परा वशीकार-सञ्ज्ञा, रजस्-तमोभ्याम् उपप्लुतं हि चित्त-सत्त्वम् अवश्यम् आसीत् तद्-उपशमे तु तद्-वश्यं योगिनो वशिनः, तस्मिन् वश्ये योगिनः सत्त्व-पुरुषाऽन्यता-ख्याति-मात्र-रूप-प्रतिष्ठस्य सर्व-भावाधिष्ठातृत्वम् । एतद् एव विवृणोति—सर्वात्मानः इति ।व्यवसायव्यवसेयात्मानः जड-प्रकाश-रूपा इत्य् अर्थः । तद् अनेन क्रियैश्वर्यम् उक्तम् ज्ञानैश्वर्यम् आह—सर्व-ज्ञातृत्वमिति । अस्वा अपि द्विविधायाः सिद्धे वैराग्याय योगि-जन-प्रसिद्धां सञ्ज्ञाम् आह—एषा विशोका इति । क्लेशाश् च बन्धनानि च कर्माणि तानि क्षीणानि यस्य स तथा ॥४९॥
योग-वार्तिकम् :तद् एवं ग्राह्य-ग्रहण-संयमयोः सिद्धिम् उक्त्वा ग्रहीतृ-संयमस्य सिद्धिम् आह—सत्त्व-पुरुषान्यता-ख्याति-मात्रस्य सर्व-भावाधिष्ठातृत्वं सर्व-ज्ञातृत्वं च ॥
मात्र-शब्देन संयम-रूपा ख्यातिर् लब्धा । तथा सत्त्व-पुरुषान्यता-संयमस्य धर्म-धर्म्य्-अभेदात् तद्वतश्चित्तस्य सर्व-भावेषु प्रकृति-तत्-कार्य-पुरुषेष्व् अधिष्ठातृत्वं स्वेच्छया विनियोक्तृत्वं स्व-देह इव भवति । तथा प्रकृति-पुरुषादि-सर्व-ज्ञातृत्वं च भवतीत्य् अर्थः । अत्रापि संयमः साक्षात्कार-पर्यन्तो बोध्यः, संयम-निष्पत्तेर् एव सिद्धि-हेतुत्वात् ।
ननु परार्थात् स्वार्थ-संयमादिति सूत्रोक्त-संयमतोऽस्य को भेदो येन तत्र पुरुष-ज्ञानं सिद्धिर् अत्रान्या सिद्धिर् इति सिद्धि-भेदः स्यात् ? उच्यते—तत्र पौरुषेय-प्रत्यये सुखाद्य्-अनुभव-रूपे परिच्छिन्न एव संयम उक्तो न त्वपरिच्छिन्ने पुरुषे । अत्र तु तेन संयमेन ज्ञाते परिपूर्ण-पुरुषे बुद्धि-विवेक-संयम उच्यतैति विशेष इति ।
ननु सत्त्वेतिविशेष-वचनम् अनुचितं, गुण-पुरुषान्यतेत्य्-आद्य् एव वक्तुम् उचितम् ? इति चेन् न, रजस्-तमोभ्यां पुरुषे साक्षाद्-अविवेकाभावाद् बुद्धि-सत्त्वाविवेक-द्वारैव देहेन्द्रियादिष्व् अविवेकात्, स्वप्न-बाधिर्याद्य्-अवस्थासु चेतने देहेन्द्रियादि-विवेकस्य योगारम्भ-काल एव बालकैर् अप्यवधृतत्वाच्चेति ।
तदिदं सूत्रं व्याचष्टे—निर्धूतेति ।पर-वैशारद्यं परम-स्वच्छता अतिसूक्ष्म-वस्तु-प्रतिबिम्बोद्ग्रहण-सामर्थ्यम् इति यावत् ।परम-वशीकार-संज्ञा च परमाणु-परम-महत्त्वान्तोऽस्य वशीकार इत्य् उक्ता । रूपेण प्रतिष्ठस्यस्व-प्रतिष्ठस्य ।
सर्व-भावाधिष्ठातृत्वं विवृणोति—सर्वात्मानैति । सर्वात्मान इत्य् अस्य विवरणं व्यवसाय-व्यवसेयात्मका इति। करण-तद्-विषयात्मका इत्य् अर्थः। अशेष-दृश्येति । संकल्प-मात्रेण पुरुषैः संयुक्ता अ-संयुक्ताश् चाशेष-भोग्य-वस्त्व्-आकारेण परिणता भूत्वा उपतिष्ठन्ते योगिनम् । तत्र हेतु-गर्भ-विशेषणं—स्वामिनं क्षेत्रज्ञमिति । यतोऽसौ भोक्तृत्वात् प्रेरकोऽतस्तम् अयस्कान्त-लोहवद् उपतिष्ठन्त इत्य् अर्थः । यद् वा, यतोऽसौ स्वामी ईश्वरः क्षेत्रज्ञश् च परिणाम-क्षेत्राणि गुणादीनि प्रवर्तयति, परिणामन-प्रकारैर् जानाति चेत्य् अर्थः ।
यद्यपि सर्वे पुरुषाः सर्व-गुणानाम् अविशेषेण स्वामिनः, तथापि पापादि-प्रतिबन्धात् सर्वे गुणाः सर्वदा सर्व-पुरुषान् न भोग्यत्वेनोपतिष्ठन्तैति भावः । तथा च श्रुतिः—स यदि पितृ-लोक-कामः संकल्पादेवास्य पितरः समुत्तिष्ठन्तिइत्यादिरिति ।
क्रियैश्वर्य-रूपां सिद्धिं व्याख्याय ज्ञानैश्वर्य-रूपां व्याचष्टे—सर्व-ज्ञातृत्वम् इति ।सर्वात्मनां सर्व-पुरुषाणां बद्ध-मुक्तेश्वराणां शान्तादि-रूप-धर्म-विशिष्ट-गुणानांचैकदैव ज्ञानं सर्व-ज्ञातृत्वम् इत्य् अर्थः । तस्य संज्ञा विवेकजम् इति ।विवेकेन जायमानं यथाऽर्थ-साक्षात्कारैति यावत् । अथ वा प्रकृति-पुरुष-विवेकाज्जायमानम् इत्य् अर्थः । सान्वयेयं संज्ञेति, विशेष-संज्ञाया अन्वर्थताम् आह—यां प्राप्येति ।क्षीण-क्लेश-बन्धनत्वात् शोक-शून्यतेति भावः ॥४९॥
—o)0(o—
(३.५०)
तद्-वैराग्यादपि दोष-बीज-क्षये कैवल्यम् ॥५०॥
यदास्यैवं भवति क्लेश-कर्म-क्षये सत्त्वस्यायं विवेक-प्रत्ययो धर्मः । सत्त्वं च हेय-पक्षे न्यस्तं,पुरुषश् चापरिणामी शुद्धोऽन्यः सत्त्वादिति । एवम् अस्य ततो विरज्यमानस्य यानि क्लेश-बीजानि दग्ध-शालि-बीज-कल्पान्य-प्रसव-समर्थानि तानि सह मनसा प्रत्यस्तं गच्छन्ति । तेषु प्रलीनेषु पुरुषः पुनर् इदं ताप-त्रयं न भुङ्क्ते । तद् एतेषांगुणानां मनसि कर्म-क्लेश-विपाक-स्वरूपेणाभिव्यक्तानां चरितार्थानां प्रतिप्रसवे पुरुषस्यात्यन्तिको गुण-वियोगः कैवल्यम् । तदा स्वरूप-प्रतिष्ठा चिति-शक्तिर् एव पुरुष इति॥५०॥
तत्त्व-वैशारदी : संयमान्तराणां पुरुषार्थाभास-फलत्वाद् विवेक-ख्याति-संयमस्य पुरुषार्थतां दर्शयितुं विवेक-ख्यातेः पर-वैराग्योपजनन-द्वारेण कैवल्यं फलम् आह—तद्-वैराग्याद् अपि दोष-बीज-क्षये कैवल्यम् ॥यदास्य योगिनः क्लेश-कर्म-क्षयः,तदैवं ज्ञानं भवति । किम्-भूतम् ? इत्य् आह—सत्त्वस्यायं विवेक-प्रत्ययो धर्मः ।शेषं तत्र तत्र व्याख्यातत्वात् सुगमम् ॥५०॥
योग-वार्तिकम् :सर्व-सिद्धि-मूर्धन्यंविवेक-ख्याति-रूप-संयमस्य पर-वैराग्यद् द्वारा मोक्षाख्यं सिद्ध्य्-अन्तरम् आह—तद् वैराग्याद् अपि दोष-बीज-क्षये कैवल्यम् ॥ अपि-शब्दः कैवल्यम् इत्य् अनेनान्वेति । तथा च विवेक-ख्याति-निष्ठात एव विवेक-ख्यातौ तस्या यथोक्त-सिद्धौ च वैराग्ये सत्यसम्प्रज्ञात-योगेन दुःख-दोषस्य बीजानाम् अखिल-वासना-कर्मणां चित्तेन सह लये सति पुरुषस्य कैवल्यं पुनर् गुणासंयोग-रूपम् अपि भवतीत्य् अर्थः ।
वैराग्य-कारणम् आह—यदेति । क्लेश-कर्म-क्षय-रूप-कर्तव्य-समाधौ यदा योगिन एवं भवति, एवं विचारो भवति, एवं शब्दार्थम् आह—सत्त्वस्येत्य्-आदिना,सत्त्वादीत्य्-अन्तेन । वैराग्य-कारणम् उक्त्वा कैवल्ये पुरुषार्थ प्रतिपादयति—एवम् अस्येत्य्-आदिना,न भुङ्क्तैत्यन्तेन । अत्र न भुङ्क्त इति वचनाद् भोगाभाव एव पुरुषार्थ इति स्मर्तव्यम्, दुःखाभावस्तु परम्परया पुरुषार्थ इति भावः ।
इदानीं सूत्रार्थं व्याचष्टे—तद् एतेषाम् इति । तत् तदा यदेत्य् उक्तेनान्वयः । तदा पर-वैराग्यावस्थायां संस्कार-रूपाणां दुःख-बीज-गुणानां सत्त्वादि-गुण-स्थानां कार्यावस्थ-मनसि क्लेशादि-रूपेणाभिव्यक्ति-स्वभावकानां चरितार्थानां समाप्त-पुरुषार्थानां प्रतिप्रसवे मनसा सह लये सति, पुरुषस्यात्यन्तिको गुण-वियोगः कैवल्याख्यो भवतीत्य् अर्थः ।मोक्षेण पुरुषस्य परिणाममपाकरोति—तदेति ॥५०॥
—o)0(o—
(३.५१)
स्थान्य्-उपनिमन्त्रणे सङ्ग-स्मयाकरणं
पुनर् अनिष्ट-प्रसङ्गात् ॥५१॥
चत्वारः खल्व् अमी योगिनः । प्रथम-कल्पिको मधु-भूमिकः प्रज्ञा-ज्योतिर् अतिक्रान्त-भावनीयश् चेति । तत्राभ्यासी प्रवृत्त-मात्र-ज्योतिः प्रथमः । ऋतम्भर-प्रज्ञो द्वितीयः । भूतेन्द्रिय-जयी तृतीयः,सर्वेषु भावितेषु भावनीयेषु कृत-रक्षा-बन्धः कृत-कर्तव्य-साधनादिमान् । चतुर्थो यस् त्व् अतिक्रान्त-भावनीयस् तस्य चित्त-प्रतिसर्ग एकोऽर्थः । सप्त-विधास्य प्रान्त-भूमि-प्रज्ञा ।
तत्र मधुमतीं भूमिंसाक्षात्-कुर्वतो ब्राह्मणस्य स्थानिनो देवाः सत्त्व-शुद्धिम् अनुपश्यन्तः स्थानैर् उपनिमन्त्रयन्ते—« भोः ! इहास्यताम् इह रम्यतां, कमनीयोऽयं भोगः । कमनीयेयं कन्या । रसायनम् इदं जरा-मृत्यू बाधते । वैहायसम् इदं यानम् । अमी कल्प-द्रुमाः, पुण्या मन्दाकिनी, सिद्धा महर्षयः, उत्तमा अनुकूला अप्सरसो, दिव्ये श्रोत्र-चक्षुषी, वज्रोपमः कायः । स्व-गुणैःसर्वम् इदम् उपार्जितम् आयुष्मता । प्रतिपद्यताम् इदम् अक्षयम् अजर-स्थानं देवानां प्रियम् »इति ।
एवम् अभिधीयमानः सङ्ग-दोषान् भावयेत् घोरेषु । « संसाराङ्गारेषु पच्यमानेन मया जनन-मरणान्धकारे विपरिवर्तमानेन कथञ्चिद् आसादितः क्लेश-तिमिर-विनाशो योग-प्रदीपः । तस्य चैते तृष्णा-योनयो विषय-वायवः प्रतिपक्षाः । स खल्व् अहं लब्धालोकः कथम् अनया विषय-मृगतृष्णाया वञ्चितः ?तस्यैव पुनः प्रदीप्तस्य संसाराग्नेर् आत्मानम् इन्धनीकुर्याम् इति । स्वस्ति वः स्वप्नोपमेभ्यः कृपण-जन-प्रार्थनीयेभ्यो विषयेभ्यः » इत्य् एवं निश्चित-मतिः समाधिं भावयेत् ।
सङ्गम् अकृत्वा स्मयम् अपि न कुर्याद् « एवम् अहं देवानाम् अपि प्रार्थनीयः » इति । स्मयादयं सुस्थितं-मन्यतया मृत्युना केशेषु गृहीतम् इवात्मानं न भावयिष्यति । तथा चास्य च्छिद्रान्तर-प्रेक्षी नित्यं यत्नोपचर्यः प्रमादो लब्ध-विवरः क्लेशानुत्तम्भयिष्यति । ततः पुनर् अनिष्ट-प्रसङ्गः, एवम् अस्य सङ्ग-स्मयावकुर्वतो भावितोऽर्थो दृढी-भविष्यति । भावनीयश् चार्थोऽभिमुखी-भविष्यतीति ॥५१॥
तत्त्व-वैशारदी : सम्प्रति कैवल्य-साधने प्रवृत्तस्य योगिनः प्रत्यूह-सम्भवे तन्-निराकरण-कारणम् उपदिशति—स्थान्य्-उपनिमन्त्रणे सङ्ग-स्मयाकरणं पुनर् अनिष्ट-प्रसङ्गात् ॥स्थानानि येषां सन्ति, ते स्थानिनो महेन्द्रादयः, तैर् उपनिमन्त्रणं, तस्मिन् सङ्गश् च स्मयश् च न कर्तव्यः,पुनरनिष्ट-प्रसङ्गात्।
तत्र यद् देवाः स्थानैरुपमन्त्रयन्ते तं योगिनम् एकं निर्धारयितुं यावन्तो योगिनः सम्भवन्ति, तावत एवाह—चत्वारैति ।
तत्र प्रथम-कल्पिकस्यस्वरूपम् आह—तत्राभ्यासी इति ।प्रवृत्त-मात्रं न पुनर् वशीकृतं ज्योतिःज्ञानं परि चित्तादि-विषयं यस्य स तथा ।
द्वितीयम् आह—ऋतम्भर-प्रज्ञ इति ।यत्रेदमुक्तम्—ऋतम्भरा तत्र प्रज्ञा[१.४८] इति । स हि भूतेन्द्रियाणि जिगीषुः ।
तृतीयम् आह—भूतेन्द्रिय-जयीइति । तेन हि स्थूलादि-संयमेन ग्रहणादि-संयमेन च भूतेन्द्रियाणि जितानि । तम् एवाह—सर्वेषुइति। सर्वेषु भावितेषु निष्पादितेषु भूतेन्द्रिय-जयात् पर-चित्तादि-ज्ञानादिषु पर-वैराग्य-पर्यन्तेषु कर्तव्य-साधनवान् पुरुष-प्रयत्नस्य साधन-विषयस्यैव साध्य-निष्पादकत्वात् ।
चतुर्थम् आह—चतुर्थ इति । तस्य हि भगवतो जीवन्-मुक्तस्य चरम-देहस्य चित्त-प्रतिसर्ग एकोऽर्थः ।
तदेतेषु यागिषूपनिमन्त्रण-विषयं योगिनमवधारयति—तत्र मधुमतीम् इति । प्रथम-कल्पिके तावन् महेन्द्रादीवां तत्-प्राप्ति-शङ्कैव नास्ति, तृतीयोऽपि तैर्नोपनिमन्त्रणीयः, भूतेन्द्रिय-वशित्वेनैव तत्-प्राप्तेः, चतुर्थेऽपि पर-वैराग्य-सम्पत्तेरासङ्गाशङ्का दूरोत्सारितैवेति, पारिशेष्याद् द्वितीय एव ऋतम्भर-प्रज्ञस्तद्-उपनिमन्त्रण-विषय इति ।वैहायसम् आकाश-गामि, अक्षयमविनाशि, अजरंसदाऽभिनवम् । स्मय-करणे दोषम् आह—स्मयादयम् इति। स्मयात्सुस्थितं-मन्यो नानित्यताम्भावयिष्यति, न तस्यां प्रणिधास्यतीत्यर्थः ।सुगमम् अन्यत् ॥५१॥
योग-वार्तिकम् : कैवल्याख्य-सिद्ध्य्-अर्थिनो योगिनो यथोक्त-वैराग्यवद् एव साधनान्तरम् आह—अथ वा सम्प्रति कैवल्य-प्रसङ्गतः कैवल्य-साधने प्रवृत्तस्य योगिनस् तत्-प्रात्यूह-सम्भवे तन्-निराकरण-प्रकारम् आह—स्थान्य्-उपनिमन्त्रणे सङ्ग-स्मयाकरणं पुनरनिष्ट-प्रसङ्गात् ।
स्थानिनः स्वर्गादि-लोकाधिकारिणो देवा इन्द्रादयः । तेषां स्वर्-लोके नयनाय योगिनो निमन्त्रणे सति, तत्र सङ्ग-समयाकरणमुपायः, सङ्गेस्मये च का क्षतिः ? तत्राह—सङ्ग-स्मायाभ्यां पुनर् अपि संसार-प्रसङ्गात् । सङ्गः प्रीतिः । स्मयश् च देवानां प्रार्थनेनात्मनि कृतार्थताऽभिमान इत्य् अर्थः ।
तत्र यस्यां भूमिकायां स्थान्य्-उपनिमन्त्रणं भवति, तां वक्तुं योगिनां भूमिका-चतुष्टयम् आह—चत्वार इति । प्रथम-कल्पिकस्य स्वरूपम् आह—तत्राभ्यासीति । प्रवृत्त-मात्रं न तु निष्पन्न-ज्योतिर्ज्ञानं यस्य स तथा स-वितर्कादि-रूपापर-प्रत्यक्षवान्, न तु ऋतम्भर-प्रज्ञ इत्य् अर्थः ।
मधु-भूमिकस्य स्वरूपम् आह—ऋतम्भरेति । ऋतंसत्यम् एव बिभर्तीति व्युत्पत्त्या पर-प्रत्यक्षम् एव ऋतम्भरा प्रज्ञाऽत्र विवक्षिता । सा च परिशेषात् निर्वितर्क-रूपा भूमिकैव तद्-उत्तर-भूमिकानां तृतीयादावेवान्तर्-भावाद् इति ।
प्रज्ञा-ज्योतिषः स्वरूपम् आह—भूतेति । ऋतम्भर-प्रज्ञातोऽस्य विशेषम् आह—सर्वेष्व् इति । सर्वेषु भावितेषूत्पादितेषु निर्वितर्कादि-योगेषु कृतो रक्षा-रूपो बन्धो येन, स तथा । तथा भावनीयेषूत्पादनीयेषु विशोकादि-सिद्ध्यादिष्व् असम्प्रज्ञात-पर्यन्तेषु विहित-साधनवानित्य् अर्थः ।
अतिक्रान्त-भावनीयस्य स्वरूपम् आह—चतुर्थ इति । चित्त-प्रतिसर्गोऽसम्प्रज्ञात-समाधिना चित्त-विलय-मात्रं कर्तव्यम् अवशिष्यत इत्य् अर्थः । प्रज्ञा-ज्योतिषोऽस्य विशेषम् आह—सप्त-विधेति । प्रज्ञा जातेति शेषः ।
युक्तासु योग-भूमिषु स्थान्य्-उपनिमन्त्रणस्य भूमिमवधारयति—तत्र इति । प्रथम-भूमिकायां तावन्महेन्द्रादीनाम् एतादृशानुग्रह एव न भवति । तृतीय-चतुर्थ-भूमिकयोस्तु देवादय उपेक्षणीया एव भवन्ति । अतोमधु-भूमिकायां द्वितीयायाम् एव निमन्त्रणं भवतीत्याशयः । साक्षात्-कुर्वतः स्वस्येयं मधुमती भूमिका जातेत्यनुभवतः, अनेन भूमि-निष्पत्तिरुक्ता, निष्पन्न-मधु-भूमिकस्येत्यर्थः ।
उपनिमन्त्रण-प्रकारम् आह—भो इह इत्यादिना देवानां प्रियमित्यन्तेन ।
सङ्ग-स्मयाकरणं व्याचष्टे—एवम् अभिधीयमान इति । सङ्ग-दोषान् विषय-प्रीतिजान् । दोष-चिन्तन-प्रकारम् आह—घोरेष्वित्य्-आदिना, कुर्यामित्यन्तेन । सङ्गं त्यक्त्वा यत् कर्तव्यं तदाह—स्वस्ति इत्यादिना ।भावयेत् कुर्यात् । स्वयं विवृण्वानस् तत्-कारण-दोषम् आह—एवम् अहमिति । न भावयिष्यति न चिन्तयिष्यति । यत्नोपचर्यः यत्न-प्रतीकार्यः । सङ्ग-स्मयाकरणस्य फलम् आह—एवम् अस्येति ॥५१॥
—o)0(o—
(३.५२)
क्षण-तत्-क्रमयोः संयमाद्विवेकजं ज्ञानम् ॥५२॥
यथापकर्ष-पर्यन्तं परं ब्रह्माणुर् एवं परमापकर्ष-पर्यन्तः कालः क्षणः । यावता वा समयेन चलितः परमाणुः पूर्व-देशं जह्यात् उत्तर-देशम् उपसम्पद्येत, स कालः क्षणः । तत्-प्रवाहाविच्छेदस् तु क्रमः । क्षण-तत्-क्रमयोर् नास्ति वस्तु-समाहारैतिबुद्धि-समाहारो मुहूर्ताहो-रात्रादयः ।स खल्व् अयं कालो वस्तु-शून्यो बुद्धि-निर्माणः शब्द-ज्ञानानुपाती लौकिकानां व्युत्थित-दर्शनानां वस्तु-स्वरूप इवावभासते । क्षणस् तु वस्तु-पतितः क्रमावलम्बी, क्रमश् च क्षणानन्तर्यात्मा । तं काल-विदः काल इत्य् आचक्षते योगिनः ।
न च द्वौ क्षणौ सह भवतः । क्रमश् च न द्वयोः सह-भुवोर् असम्भवात् । पूर्वस्माद् उत्तर-भाविनो यद् आनन्तर्यं क्षणस्य स क्रमः । तस्माद् वर्तमान एवैकः क्षणो न पूर्वोत्तर-क्षणाः सन्तीति । तस्मान् नास्ति तत्-समाहारः । ये तु भूत-भाविनः क्षणास् ते परिणामान्विता व्याख्येयाः । तेनैकेन क्षणेन कृत्स्नो लोकः परिणामम् अनुभवति । तत्-क्षणोपारूढाः खल्व् अमी धर्माः । तयोः क्षण-तत्-क्रमयोः संयमात् तयोः साक्षात्-करणम् । ततश् च विवेकजं ज्ञानं प्रादुर्भवति ॥५२॥
तत्त्व-वैशारदी : उक्ता क्वचित् क्वचित् संयमात्सर्वज्ञता । सा च न निःशेषज्ञता, अपि तु प्रकार-मात्र-विवक्षया, यथा सर्वैर् व्यञ्जनैर् भुक्तम् इति । अत्र हि यावन्तो व्यञ्जन-प्रकारास् तैर् भुक्तमिति गम्यते, न तु निःशेषैर् इति । अस्ति च निःशेष-वचनः सर्व-शब्दः, यथा—उपनीतम् अन्नं सर्वम् अमितं प्राशकेनेति, तत्र हि निःशेषमिति गम्यते । तद् इह निःशेषज्ञाता-लक्षणस्य विवेकज-ज्ञानस्य साधनं संयमम् आह—क्षण-तत्-क्रमयोः संयमाद् विवेकजं ज्ञानम्॥
क्षण-पदार्थं निदर्शन-पूर्वकम् आह—यथा इति । लोष्ठस्य हि प्रविभज्यमानस्य यस्मिन्नवयवेऽल्पत्व-तारतम्यं व्यवतिष्ठते, सोऽपकर्ष-पर्यन्तः परमाणुर् यथा तथाऽपकर्ष-पर्यन्तः कालः क्षणः, पूर्वापर-भाग-विकल-काल-कलेति यावत्, तम् एव क्षणं प्रकारान्तरेण दर्शयति—यावता वा इति । परमाणु-मात्रं देशमतिक्रामेदित्य् अर्थः । क्रम-पदार्थम् आह—तत्-प्रवाह इति। तत्-पदेन क्षणः परामृश्यते ।
न चेदृशः क्रमो वास्तवः, किन्तु काल्पनिकः । तस्य समाहार-रूपस्यायुगपद्-उपस्थितेषु वास्तवत्वेन विचारासहत्वाद् इत्य् आह—क्षण-तत्-क्रमयोःिति । अयुगपद्-भावि-क्षण-धर्मत्वात्क्रमस्य क्षण-समाहारस्यावास्तवत्वात् क्षण-तत्-क्रमयोरप्य् अवास्तवत्वं समाहारस्य । नैसर्गिक-वैतण्डिक-बुद्ध्य्-अतिशय-रहिता लौकिकाः, प्रतिक्षणम् एव व्युत्थित-दर्शना भ्रान्ता ये कालमीदृशं वास्तवमभिमन्यन्त इति ।
तत् किं क्षणोऽप्यवास्तवः? नेत्याह—क्षणस्तुवस्तु-पतितःवास्तव इत्य् अर्थः । क्रमस्यावलम्बनम् अवलम्बः सोऽस्यास्तीति, क्रमेणावलम्ब्यते वैकल्पिकेनेत्यर्थः । क्रमस्य क्षणावलम्बनत्वे हेतुम् आह—क्रमश् च इति । क्रमस्यावास्तवत्वे हेतुम् आह—न च इति ।चो हेत्व्-अर्थे । यस् तु वैयात्यात् सह-भावम् उपेयात्तं प्रत्याह—क्रमश् च न द्वयोरिति । कस्माद् असम्भवः ? इत्य् अत आह—पूर्वस्मादिति । उपसंहरति—तस्माद् इति । तत् किम् इदानीं शशविषाणायमाना एव पूर्वोत्तर-क्षणाः ? नेत्याह—ये तु इति । अन्विताःसामान्येन[साम्येन] समन्वागता इत्य् अर्थः । उपसंहरति—तेनैति । वर्तमानस्यैवार्थ-क्रियासु स्वोचितासु सामर्थ्याद् इति ॥५२॥
योग-वार्तिकम् :सर्व-ज्ञत्वेऽपि वैराग्यान् मोक्ष इत्य् उक्तम्। यदि च रागस्तिष्ठति, तदा तद्-राग-निवृत्तये पूर्ववत् सर्वज्ञता-साधकं संयमान्तरम् आह—क्षण-तत्-क्रमयोः संयमाद्विवेकजं ज्ञानम् ।
विवेकात्पूर्व-सूत्रोक्तात् सत्त्व-पुरुषान्यताख्याज् जायमानं विवेकजं ज्ञानम्, इतर-व्यावृत्ततया सर्व-वस्तूनामशेष-विशेषैः साक्षात्-करणम् इति यावत् । तत् क्षण-तत्-क्रमयोः संयमाद् अपि भवतीत्य् अर्थः । प्रतिक्षणं सर्वं वस्तु परिणमते । अतः क्षणेषु तत्-क्रमेषु च संयमेन साक्षात्-कारे सति सर्व-वस्तूनां सर्व-परिणाम-तत्-क्रमयोर् अपि ज्ञानात् सर्वस्य वस्तुनोविवेकेन ज्ञानं भवतीति भावः । यद्यप्यपि-शब्दः सूत्रे नास्ति,तथापि ततश् च विवेकजं ज्ञानम् इत्य् आगामि-भाष्य-गम्यः ।
क्षण-शब्दार्थं दृष्टान्तेन प्रतिपादयति—यथेति । यथा लोष्ट्रादेर्भिद्यमानस्य यस्मिन्नवयवे परिमाणापकर्ष-काष्ठा सोऽपकर्षावधिः सत्त्वादि-गुण-विशेषः परमाणुः, एवं-कालस्यापकर्षावधि-भूतोऽवयव-विशेषः पूर्वापरांश-शून्यः क्षण इत्य् अर्थः । क्षणस्य लक्षणान्तरम् आह—यावता वेति । जह्याद् इत्य् अनेनैकं लक्षणम् । सम्पद्येतेति च लक्षणान्तरम्, अन्यथा वैयर्थ्यात्, अवयवि-द्रव्यस्य देश-त्यागो बहु-क्षणेनापि कदाचिद्भवत्यवयवानां क्रमेण सञ्चाराद् इत्य् उक्तम् ।
परमाणुर् इति । अवयविनो देशस्य क्रिययाऽनेक-क्षणेन जनितं देश-त्यागादिकं व्यवर्तयितुं चलित इत्य् उक्तम् । अत्र दृष्टान्तादिना पर-सूत्रेण च साक्षाद् एवाचार्येण परमाणु-वचनाद्, वैशेषिकोक्त-परमाणवोऽप्यस्माभिरभ्युपगम्यन्ते । ते चास्मद्-दर्शने गुण-शब्द-वाच्या इत्य् एव विशेषः । न चानेकात्मक-पृथिव्य्-आदि-भूत-परमाणुरेवात्र वाक्ये परमाणु-शब्दार्थो युक्तः, अत्र भूत-रूप-विशेषस्याप्रकृततया द्रव्य-शब्दस्य विशेष-परत्वे प्रमाणाभावात्, सावयवस्य पृथिव्य्-आदि-परमाणोर् निरवयव-काल-परमाणु-दृष्टान्तानुपपत्तेश् च ।
न च प्रकृतेरणु-परिमाणासिद्धिः, परम्परया पृथिव्य्-आदि-भावापन्नानां गुणानां परिमाणाकाङ्क्षायां न्याय-वैशेषिक-सिद्धाणु-परिमाणस्यैव ग्रहणौचित्यात्, स्व-शास्त्रानुक्ततया परोक्तमविरोधि चेति न्यायेन परोक्त-परिमाणस्य इवादर्तव्यत्वात् । न चास्मद्-दर्शने गुणाख्य-प्रकृतेर्विभुत्वम् एवावगम्यतैति वाच्यम्, अन्तः-करणाकाश-हेतु-गुणानां विभुत्वेन तद्-उपपत्तेः,सर्व-गुणानां विभुत्वे सत्याद्य-परिणाम-हेतु-क्षोभ-संयोगाद्य्-असम्भवादिति । तस्मात्सिद्धमणु-परिमाणा अपि गुणाः सन्तीति, तेषु पृथिवीत्व-व्यञ्जक-गन्धाद्य्-अनङ्गीकारेणास्मत्-सिद्धान्ते पृथिवीत्वादिकं नास्तीति विशेषैति ।
क्षणं व्याख्याय क्रमं व्याचष्टे—तत्-प्रावाह- इति । तेषां क्षणानां यः प्रवाह उत्तरोत्तर-भावेनावस्थानं तस्याविरलता क्रम इत्य् अर्थः ।
इदानीं क्षणातिरिक्तः कालो नास्ति मुहूर्तादि-रूपो महाकाल-पर्यन्तैति प्रसङ्गात्स्व-शास्त्र-सिद्धान्तमवधारयति—क्षण तत्-क्रमयोरिति । क्षणेषु तत्-क्रमेषु चाव्यवहितानन्तर्य-रूपेषु वस्तु-भूतः समाहरो मिलनं नास्ति॑ अतो मुहूर्ताहो-रात्रादयो बुद्धि-कल्पित-समाहार एवेत्य् अर्थः ।
नन्व् एवं स्थूल-कालाभावे कथं लोकानां तद्यथाऽर्थ-बुद्धिरिति ? तत्र विकल्पतया समाधत्ते—सखल्वयम् इति ।नन्व् एवं क्षणोऽपि विकल्प-मात्रो भवतु काल-व्यवहाराविशेषात्क्षण-व्यवहारस्य च परमाणु-क्रियादिभ्य एव सम्भवाद् इति? तत्राह—क्षणस् त्व् इति । क्षणाख्यस्तु कालो वस्तु-कोटौ प्रविष्टः, यतः क्रमावलक्षी क्रमेण लक्ष्यतआश्रीयते क्षण-रूप-प्रतियोग्य्-अनुयोगि-घटितत्वात्क्रमस्येत्य् अर्थः । तत्र हेतुम् आह—क्रमश्च इति ।क्रमोह्यानन्तर्य-रूप इत्य् अर्थः ।
ननु यः क्षणो वस्तु-भूतः स किं-स्वरूपः ?इत्य् आकाङ्क्षायाम् आह—तं कालैति । तस्य च कालस्य क्षण-द्वयावस्थायि-द्रव्यान्तरेभ्यो विभागैति भावः । काल-नित्यत्व-श्रुति-स्मृतयश् च प्रवाह-रूप-काल-पराः । स च क्षणाख्यः कालः सत्त्वादीनां द्रव्य-रूपः परिणाम-विशेष इति ।बौद्ध-मताच्चास्माकमयं विशेषो यदस्माभिर्धर्मि-ग्राहक-प्रमाण-बलात् क्षण एवास्थिर इष्यते, तैस् तु क्षण-मात्र-स्थाय्य् एव पदार्थः सर्व इष्यत इति। न क्षणातिरिक्तः क्षणिकः पदार्थः कश्चिदिष्यते, तैस्तु क्षण-मात्र-स्थाय्य् एव पदार्थः सर्व इष्यत इति । तच् च स्थाने स्थाने निराकृतं कार्य-कारण-व्यवस्थाऽनुपपत्त्य्-आदिभिर् इति । तदस्मिन् शास्त्रे क्षण एव काल इति सिद्धान्तः । कालोऽत्र नाभ्युपगम्यत इति कस्यचित् प्रलापस् तु भाष्यार्थाविवेक-मूल इति ।
यत्तु पूर्व-देश-संयोगाद्य्-अवच्छिन्नः परमाणु-क्रियादिर् एव क्षणः, कालस्तु तद्-अतिरिक्तो नित्यैति वैशेषिका आहुः, तन्न, विशिष्टस्यातिरेकानतिरेकयोरुभयोरुभयतः पाशादतिरेके स्व-सिद्धान्त-विरोधाद् अस्मन्-मत-प्रवेशाच्च, अस्माभिस् तादृशस्यैव गुण-परिणामस्य क्षणत्व-वचनात्, अनतिरेके विशेषण-विशेष्य-तत्-सम्बन्धानां त्रयाणाम् अपि स्थिरत्वेन क्षण-व्यवहार-जननाक्षमत्वात् ।
नित्य-कालेऽपि च प्रमाणं नास्ति । इदानीमित्य्-आद्यखिल-व्यवहाराणां खण्ड-काल-मात्र-विषयकत्वात् कार्य-कारण-भावादीनाम् अपि क्षण-घटितत्वाद् इति। एतेन नित्या दिगप्यप्रामाणिकी व्याख्याता, सामान्यतो दिग्-व्यवहाराभावात्, पूर्वादि-व्यवहारस्य च पराभ्युपगत-दिग्-उपाधिभिरेव सम्भवात् सामान्यतः काल-दिग्-व्यवहार-सत्त्वेऽप्य् आकाशाद् एव तद्-उपपत्तेश् च । अन्यथा पृथिवी-जल-तेज-आदिभिरुपाधिभिर् देशाद्य्-अतिरिक्त-पदार्थः स्याद् इति ।
कालाच् च दिश्ययं विशेषः—यत्कालः क्षण-रूप इष्यते, दिक् तु सर्वथैव नेष्यतैति। शास्त्रे दिक्सामान्य-व्यवहारस् तु पूर्व-पश्चिमनिया मकोपाध्य्-अवच्छिन्नाकाशेन बोध्यः स्थित्य्-आधारत्वेन देश-व्यवहारवद् इति। इत एव श्रुत्य्-आदिषु कुत्रचिदाकाशाच् छ्रोत्रं, क्वचिच् च दिशः श्रोत्रम् इति वचनमन्योन्यमविरुद्धं दिग्-आकाशयोरेकत्वाद् इतिदिक् ।
क्षण-तत्-क्रमयोर्नास्ति वस्तु-समाहारैति यत्प्रागुक्तं, तत् प्रपञ्चयति—न च इत्यादिना, नास्तितत्-समाहार इत्यन्तेन । सहभावाभ्युपगमेऽपि क्रमे न सम्भवतीत्याह—क्रमश्च इति । असम्भवे हेतुम् आह—पूर्वस्मादिति । तस्मात् सर्वदैव वर्तमान-लक्षणः, स त्वेक एव क्षणस्तिष्ठति, न पूर्वोत्तरे क्षणाइत्यतो नास्ति तयोः क्षण-तत्-क्रमयोर्वास्तवं मिलनं मुहूर्तादि-रूपम् इत्य् अर्थः ।
वक्ष्यमाणोपपादकमादौ वक्ति—ये त्वित्य्-आदिना, सर्वेधर्मा इत्य् अन्तेन, ये पुनर् भूत-भाविनः क्षणास्ते सर्वेऽपि सर्व-वस्तु-परिणामाधारा एकदैव वार्धकाद्य्-अदर्शनतः क्षण-पर्याय-कालत्वेनैव परिणाम-हेतुत्वाद् इत्युत्तर-पादे क्षण-प्रतियोगी[४.३३]१५१ इत्य्-आद्य्-उत्तर-सूत्रे व्याख्येयाः । तेन हेतुनैकेन क्षणेन कृत्स्नो लोकः परिणामम् अनुभवति प्राप्नोति यतस् तत्-क्षणोपारूढाः एकैक-क्षणोपारूढा धर्माः इत्य् अर्थः । ततः किम् ? इत्यत आह—तयोः क्षण- इति । ततश्च इति । ततश् च क्षण-तत्-क्रम-साक्षात्कारादखिल-परिणाम-तत्-क्रम-साक्षात्कार-द्वारा सर्व-वस्तूनामन्योन्य-व्यावृत्ततया स्वरूपावधारणं भवतीति सूत्रार्थ उक्तः ॥५२॥
—o)0(o—
(३.५३)
तस्य विषय-विशेष उपक्षिप्यते—
जाति-लक्षण-देशैरन्यत्वानवच्छेदात् तुल्ययोस्ततः प्रतिपत्तिः ॥५३॥
तुल्ययोर् देश-लक्षण-सारूप्ये जाति-भेदोऽन्यताया हेतुर् गौर् इयं, बडवेयमिति । तुल्य-देश-जातीयत्वे लक्षणम् अन्यत्व-करं—कालाक्षी गौः, स्वस्तिमती गौरिति । द्वयोर् आमलकयोर् जाति-लक्षण-सारूप्याद् देश-भेदोऽन्यत्व-करः—« इदं पूर्वम् इदम् उत्तरम् »इति । यदा तु पूर्वम् आमलकम् अन्य-व्यग्रस्य ज्ञातुर् उत्तर-देश उपावर्त्यते, तदा तुल्य-देशत्वे « पूर्वम् एतद् उत्तरम् एतद् »इति प्रविभागानुपपत्तिः । असन्दिग्धेन च तत्त्व-ज्ञानेन भवितव्यम् इत्य् अत इदम् उक्तं, ततः प्रतिपत्तिर् विवेकज-ज्ञानादिति ।
कथम् ?पूर्वामलक-सहक्षणो देश उत्तरामलक-सह-क्षण-देशाद् भिन्नः । ते चामलके स्व-देश-क्षणानुभव-भिन्ने । अन्य-देश-क्षणानुभवस् तु तयोर् अन्यत्वे हेतुरिति । एतेनदृष्टान्तेन परमाणोस् तुल्य-जाति-लक्षण-देशस्य पूर्व-परमाणु-देश-सह-लक्षण-साक्षात्-करणाद् उत्तरस्य परमाणोस् तद्-देशानुपपत्ताव् उत्तरस्य तद्-देशानुभवो भिन्नः सहक्षण-भेदात् तयोर् ईश्वरस्य योगिनोऽन्यत्व-प्रत्ययो भवतीति । अपरे तु वर्णयन्ति—येऽन्त्या विशेषास् तेऽन्यता-प्रत्ययं कुर्वन्तीति । तत्रापि देश-लक्षण-भेदो मूर्ति-व्यवधि-जाति-भेदश् चान्यत्व-हेतुः । क्षण-भेदस् तु योगि-बुद्धि-गम्य एवेति । अत उक्तं—मूर्ति-व्यवधि-जाति-भेदाभावान् नास्ति मूल-पृथक्त्वं इति वार्षगण्यः ॥५३॥
तत्त्व-वैशारदी : यद्यप्य् एतद् विवेकजं ज्ञानं निःशेष-भाव-विषयम् इत्य् अग्रे वक्ष्यते, तथाप्य् अतिसूक्ष्मत्वात् प्रथमंतस्य विषय-विशेष उपक्षिप्यते—जाति-लक्षण-देशैर् अन्यत्वानवच्छेदात् तुल्ययोस् ततः प्रतिपत्तिः ॥
लौकिकानां जाति-भेदोऽन्यताया ज्ञापक-हेतुः । तुल्या जातिर् गोत्वं, तुल्यश् च देशः पूर्वादिः । कालाक्षी-स्वस्तिमत्योर् लक्षण-भेदः परमिति । द्वयोर् आमलकयोस् तुल्यामलकत्व-जातिः, वर्तुलत्वादि-लक्षणं तुल्यं । देश-भेदः परमिति । यदा तु योगि-ज्ञानं जिज्ञासुना केनचित् पूर्वामलकमन्य-व्यग्रस्य योगिनो ज्ञातुर् उत्तर-देश उपावर्त्यते, उत्तर-देशम् आमलकं ततोऽपसार्य पिधाय वा, तदा तुल्य-देशत्वे पूर्वम् एतद् उत्तरम् एतद् इति प्रविभागानुपपत्तिः, प्राज्ञस्य लौकिकस्य त्रि-प्रमाणी-निपुणस्य१५२ । असन्दिग्धेन च तत्त्व-ज्ञानेन भवितव्यं, विवेकज-ज्ञानवतो योगिनः सन्दिग्धत्वानुपपत्तेः । अत उक्तं सूत्र-कृता—ततः प्रतिपत्तिः इति । ततैति व्याचष्टे—विवेकज-ज्ञानादिति ।
क्षण-तत्-क्रम-संयमाज्जातं ज्ञानं कथमामलकं तुल्य-जाति-लक्षण-देशादामलकान्तराद्विवेचयतीति पृच्छति—कथमिति । उत्तरम् आह—पूर्वामलक-सहक्षणो देशःपूर्वामलकेनैक-क्षणो देशः, तेन सह निरन्तर-परिणाम इति यावद्, उत्तरामलक-सहक्षणाद् देशादुत्तरामलक-निरन्तर-परिणामाद् भिन्नः ।
भवतु देशयोर् भेदः, किम् आयातमामलक-भेदस्य ? इत्य् अत आह—ते चामलकेस्व-देश-क्षणानुभव-भिन्नेइति। स्व-देश-सहितोयः क्षणः,तस्यामलकसय कालकला स्व-देशेन सहौत्तराधर्य-रूप-परिणाम-लक्षिता सा स्व-देश-क्षणः, तस्यानुभवःप्राप्तिर्वा ज्ञानं वा, तेन भिन्ने आमलके । ययोरामलकयोः पूर्वोत्तराभ्यां देशाभ्यामौत्तराधर्य-परिणाम-क्षण आसीत्, तयोर्देशान्तरौत्तराधर्य-परिणाम-क्षण-विशिष्टत्वम् अनुभवन् संयमी ते भिन्ने एव प्रत्येति, सम्प्रति तद्-देश-परिणामेऽपि पूर्व-परिणामाद्विशिष्टस्य चैतद्देश-परिणाम-क्षणस्य संयमतः साक्षात्-करणात् । तदिदमुक्तम्—अन्य-देश-क्षण-भिन्न-देश-क्षणानुभवस्तु तयोरन्यत्वे हेतुः इति ।
अनेनैव निदर्शनेन लौकिक-परीक्षक-संवादादिना परमाणोरपीदृशस्य भेदो योगीश्वर-बुद्धि-गम्यः श्रद्धेयैत्य् आह—एतेन इति । अपरे तु वर्णयन्तिवर्णनमुदाहरति—ये इति वैशेषिका हि नित्य-द्रव्य-वृत्तयोऽन्त्या विशेषा इत्याहुः, तथा हि—योगिनोमुक्तान् तुल्य-जाति-देश-कालान् व्यवधि-रहितान् परस्परतो भेदेन प्रत्येकं तत्त्वेन प्रतिपद्यन्ते । तस्मादस्ति कश्चिद् अन्त्यो विशेष इति ।
तथा च, स एव नित्यानां परमाण्व्-आदीनां द्रव्याणां भेदक इति । तदेतद् दूषयति—तत्रापि इति ।जाति-देश-लक्षणान्युदाहृतानि ।मूर्तिःसंस्थानं । यथैकं विशुद्धावयव-संस्थानोपपन्नमपसार्य तस्मिन्नेव देशेऽन्य-व्यग्रस्य द्रष्टुः कुत्सितावयव-सन्निवेश उपावर्त्यते, तदा तस्य संस्थान-भेदेन भेद-प्रत्ययः । शरीरं वा मूर्तिः, तत्-तत्-संबन्धेनात्मनां संसारिणां मुक्तात्मनां वा भूत-चरेण यादृश-तादृशेन भेद इति सर्वत्र भेद-प्रत्ययस्यान्यथा-सिद्धिर्नान्त्य-विशेष-कल्पना, व्यवधि-भेद-कारणं, यथा कुश-पुष्कर-द्वीपयोर्देश-स्वरूपयोर् इति ।यतो जाति-देशादि-भेदा लोक बुद्धि-गम्याः । अत उक्तं—क्षण-भेदस् तु योगि-बुद्धि-गम्य एवेति । एव-कारः क्षण-भेदमवधारयति, न योगि-बुद्धि-गम्यत्वम् । तेन भूत-चरेण देह-सम्बन्धेन मुक्तात्मनाम् अपि भेदो योगि-बुद्धि-गम्य उन्नेय इति ।यस्य तूक्ता भेद-हेतवो न सन्ति तस्य प्रधानस्य प्रभेदो नास्तीत्याचार्यो मेने, यस्मादूचे—कृतार्थं प्रति नष्टमप्य् अनष्टं तदन्य-साधारणत्वाद् इति । तदाह—मूर्ति-व्यवधि इति ।ुक्त-भेद-हेतूपलक्षणम् एतद्, जगन्-मूलस्य प्रधानस्य पृथक्त्वं भेदो नास्तीत्यर्थः॥५३॥
योग-वार्तिकम् :ुत्तर-सूत्रमवतारयति—तस्येति । तस्य विवेकज-ज्ञानस्य सर्व-विषयकस्य शिष्य-व्युत्पादनाय एकमुदाहरणम् उपन्यस्यत इत्य् अर्थः । जाति-लक्षण-देशैरन्यताऽनवच्छेदात्तुल्ययोस् ततः प्रतिपत्तिः ॥जाति-लक्षण-देशैर् अन्यताऽनवच्छेदाद् भेदावधारणस्यासंभवात् । ततो विवेक-ज्ञानाद् एव प्रतिपत्तिर्विवेकेन साक्षात्-कारः पौरुषेयो भवतीत्यर्थः ।
तत्रादौ जात्याऽन्यताऽवच्छेदस्यासङ्कीर्णमुदाहरणम् आह—तुल्ययोर्देश- इति । काल-भेदेन समान-देश-स्थयोर्हि समान-रूपयोर् गो-गवययोर् भेदो जाति-भेदादेवानुमातुं शक्यत इति । अत्र बडवा-शब्देनातिसारूप्याद्गवयो लक्षितः सारूप्याधिका बडवैवेति ।
लक्षणेनान्यत्वावच्छेदनस्यासंकीर्णोदाहरणम् आह—तुल्य-देश- इति । लक्षणमभिव्यक्तो धर्म-भेदः देशेनान्यत्वावच्छेदनस्यासंकीर्णोदाहरणम् आह—द्वयोर् इति । देश-भेद-प्रकारम् आह—पूर्वमिदमुत्तरम् इति इति । इदानीं जात्य्-आदिभिर्यत्रान्यताऽनुमानं न संभवति तादृश-विवेकज-ज्ञानस्यासंकीर्णमुदाहरणम् आह—यदा त्व् इति । यदा तु पूर्व-देश-स्थितमामलकं विषयान्तर-व्यग्रस्य ज्ञातुर्विवेकं करिष्यतो योगिन उत्तरस्मिन् देश उपावर्तते संबध्यते देवादिना, तदा द्वयोर् आमलकयोर् एक-देशत्वे सति पूर्व-देशोपलक्षितमिदमुत्तर-देशोपलक्षितं चेदम् इति विवेकानुपपत्तिः, आमलकयोर् जात्य्-आदि-त्रिक-साम्यात्, असन्दिग्ध-तत्त्व-ज्ञानं चोद्देश्यम् इत्यत उक्तं सूत्र-कारेण ततो विवेकज-ज्ञानात्प्रातिपत्तिरितीत्य् अर्थः ।
ननु क्षण-तत्-क्रमयोः संयमात् कथमामलकयोर् विवेक-ज्ञानमिति पृच्छति—कथम् ? इति । उत्तरं—पूर्वेति । आमलकस्य क्षणेन सह वर्तत इति आमलक-सह-क्षणः, चैत्र-सहोदर इतिवत् ।ेवं-विधः पूर्वो देश आमलकान्तरेण सह-क्षणादुत्तर-देशाद्भिन्नोऽतः स्व-देश-क्षण-प्राप्त्या ते आमलके भिन्ने, एकस्य एकदा विरुद्ध-देश-संबन्धासंभवाद् इति । एवं तयोर् भेदं प्रसाध्यैक-देश-संबन्ध-दशायां विवेक-ग्रहणोपायम् आह—अन्येति । अन्ययोर् भिन्नयोः पूर्वोत्तर-देश-संबन्ध-क्षणयोर् अनुभवः साक्षात्-कारस्त्वामलकयोरन्यत्वे हेतुर्यथोक्त-विवेक-ग्रहे कारणम् इत्य् अर्थः । अत्र चोदाहरणे क्षण-संयमाद् एव विवेकजं ज्ञानं दर्शितम् । एतद्-अनुसारेण क्षण-क्रम-संयमादपि विवेकज-ज्ञानस्योदाहरणमुन्नेयमिति भावः । तद्यथा द्वि-त्रि-क्षण-मात्रेण ज्येष्ठ-कनिष्ठयोर् ज्येष्ठ-कनिष्ठता विवेक-ज्ञानं क्षण-क्रम-साक्षात्कारं विना न संभवति । अतः क्षण-क्रम-संयमो मूल-कारणमिति ।
एतेनैव स्थूल-दृष्टान्तेन परम-सूक्ष्मेष्वपि क्षण-तत्-क्रमानुभवाद् विवेकज-ज्ञानमनुमेयमित्य् आह—एतेनेति । तुल्य-जाति-लक्षण-देशस्य परमाणु-सामान्यस्यान्योन्यम् अन्यत्व-प्रत्ययो विवेक-प्रत्ययः पूर्वयोः परमाणु-देश-साहित्य-क्षणयोः साक्षात्-करणाद् ईश्वरस्य प्रकृत्य्-आदि-प्रेरणम् अभीप्सोर् योगिनो भवतीत्यन्वयः । तत्र हेतुरुक्तः—उत्तरस्य परमाणोरित्य्-आदिना । यत उत्तरस्य परमाणोः पूर्व-देशानुपपत्त्योत्तरस्य स्व-देश-प्राप्तिः पूर्वस्य सर्व-देश-प्राप्तितो भिन्ना, तयोः सह-क्षण-भेदात्साहित्य-क्षणयोर् भिन्नत्वादित्यर्थः।
तद् एवं जात्य्-आदि-भेदात् देश-संबन्ध-क्षण-भेदाच् चतुल्ययोर् अन्यता-प्रत्ययं प्रतिपाद्य पर-मतेऽप्येतत्समानमिति प्रतिपादयितुं तन्-मतम् आह—अपरे त्व् इति । अपरे वैशेषिका वदन्ति नित्य-द्रव्य-वृत्तयोऽन्त्या विशेषा इति । अन्त्याः प्रलय-काल-स्थाः। मुक्तेषु ह्य् आत्मसु सर्वेषु तुल्य-जाति-लक्षण-देशेष्व् अन्योन्यं विभाजकान्तरासंभवेन विशेष-नामा भेदकः कश्चन पदार्थोऽवश्यं वाच्यः । तथा च परमाण्व्-आदिष्व् अपि स एवान्यता-प्रत्ययं करोतीति तेषामाशयः । तत्रापीति, तन्-मतेऽपि देशादीनां योग-बुद्धि-गम्य-क्षणान्तानां भेदोऽप्यण्व्-आदीनामन्यत्वे हेतुरस्त्येवेति समानम् इत्य् अर्थः । मूर्तिः संस्थानं । व्यवधिर् व्यवहितता । एतद् द्वयमधिकमत्रोक्तम्—अत इति।
यतो मूर्ति-व्यवधि-जात्य्-आदिर् नित्य-द्रव्येष्व् अप्य् अस्ति भेदकोऽतः परैर् उक्तं मूल-पृथक्त्वं मूलेषु नित्य-द्रव्येषु विशेष-पदार्थो नास्ति, मूर्ति-व्यवधि-जातिभ्यो भेदेनातिरेकेण पृथक्त्वस्याभावात् तैर् एव पृथक्त्व-व्यवहारोपपत्तेर् इति वार्षगण्य आचार्यो मन्यत इत्य् अर्थः ।
ननु वार्षगण्य-मते मुक्त-पुरुषेषु मूर्त्य्-आद्य्-अभावात्कथं विभाग-व्यवहारः स्याद् ?इति चेन्न, बद्धावस्थायां ये मूर्त्य्-आदयः स्थितास्त एव मुक्त्य्-अवस्थायाम् अपि योगिभिर् गृह्यमाणाअन्योन्य-भेद-व्यवहारं जनयन्तीत्यभ्युपगम-संभवात् । अन्य-देशादि-रूपाणां तु परमाण्व्-आदीनां प्रलये भेद-व्यवहारः स्वगत-सुक्ष्म-कार्य-भेदाद् यथोक्त-क्षण-भेदादिभ्यश्चेति । अत्र वार्षगण्य-मतस्याप्रतिषेधादिदम् एव स्व-मतम् इति मन्तव्यम्॥५३॥
—o)0(o—
(३.५४)
तारकं सर्व-विषयं सर्वथा-विषयम् अक्रमं चेति
विवेकजं ज्ञानम् ॥५४॥
तारकमिति स्व-प्रतिभोत्थम् अनौपदेशिकम् इत्य् अर्थः । सर्व-विषयं नास्य किञ्चिद् अविषयीभूतम् इत्य् अर्थः । सर्वथा-विषयम् अतीतानागत-प्रत्युत्पन्नं सर्वं सर्वथा जानातीत्य् अर्थः । अक्रमम् इत्य् एक-क्षणोपरूढं सर्वं सर्वथा गृह्णातीत्य् अर्थः । एतद्विवेकजं ज्ञानं परिपूर्णम् । अस्यैवांशो योग-प्रदीपो मधुमती-भूमिम् उपादाय यावद् अस्य परिसमाप्तिरिति॥५४॥
तत्त्व-वैशारदी : तद् एवं विषयैक-देशं विवेकज-ज्ञानस्य दर्शयित्वा विवेकजं ज्ञानं लक्षयति—तारकं सर्व-विषयं सर्वथा-विषयम् अक्रमं चेति विवेकजं ज्ञानम् ॥ विवेकजं ज्ञानमिति लक्ष्य-निर्देशः । शेषं लक्षणम्, संसार-सागरात् तारयतीति तारकम् ।
पूर्वस्मात् प्रातिभाद्विशेषयति—सर्वथा-विषयम् इति । पर्याया अवान्तर-विशेषाः, अतएव विवेकजं ज्ञानं परिपूर्णं, नास्य क्वचित्किञ्चित्कथञ्चित् कदाचिदगोचर इत्य् अर्थः । आसतां तावज्ज्ञानान्तरं, सम्प्रज्ञातोऽपि तावद् अस्यांशः ।
तस्मादतः परं किं परिपूर्णम् ? इत्य् आह—अस्यैवांशे योग-प्रदीप इति । योग-प्रदीपः सम्प्रज्ञातः ।
किम्-उपक्रमः किम्-अवसानश्चासौ ? इत्य् आह—मधु-मती- इति । ऋतम्भरा प्रज्ञैव मधु मोद-कारणत्वाद्, यथोक्तं प्रज्ञा-प्रसादमारूह्य इति । तद्वती मधुमती तामुपादाय, यावदस्य परिसमाप्तिः सप्तधा प्रान्त-भूमिः प्रज्ञा, अत एव विवेकजं ज्ञानं तारकं भवति, तदृशस्य योग-प्रदीपस्य तारकत्वाद् इति ॥५४॥
योग-वार्तिकम् :विवेकज-ज्ञानसयैकं विषयं प्रदर्श्येदानीं स-हेतुकां विवेकज-ज्ञानस्य मोक्षोपयोगितम् आह—तारकं सर्व-विषयं सर्वथा-विषयमक्रमं चेति विवेकजं ज्ञानम् ॥इति शब्दो हेत्व्-अर्थे, यतो विवेकजं ज्ञानं सर्व-विषयादि-रूपम्, अतः सर्वत्र दोष-साक्षात्कारेणोक्त-वैराग्य-द्वारा संसार-तारकं भवतीत्य् अर्थः । एतेन विवेकज-ज्ञानस्येदं लक्षणं बोध्यम्, अत एवानेन लक्षणेन सत्त्व-पुरुषान्यता-ख्याति-जन्य-सर्वज्ञताया अपि संग्रहात् तत्र सूत्रे सापि विवेकज-ज्ञान-शब्देन भाष्य-कारैरुक्तेति । तत्र भाष्य-कारः प्रत्येकं विशेषणानि व्याचक्षाणः तारक-शब्दस्यार्थापत्ति-लब्धमर्थम् आह—तारकमितीति । लौकिक-सामग्री विनैव यथाऽर्थ-ज्ञान-सामर्थ्यं सत्त्व-पुरुषान्यता-संयम-क्षण-तत्-क्रम-संयमाभ्यामुद्बोधितं प्रतिभा, तद्-उत्थं स्व-प्रतिभोत्थं, तद् एव हि संसार-तारकं घटते । अतोऽर्थापत्त्या स्व-प्रतिभोत्थम् एव तारक-शब्दार्थः ।
प्रतिभोत्थत्वे हेतुम् आह—अनौपदेशिकम् इति । न हि सर्वथा सर्व-विषयकं ज्ञानं शाब्दं भवितुं युज्यते, शब्दस्य सामान्य-मात्र-विषयकत्वात्, परिच्छिन्न-विषयकत्वाच्चेति । सर्व-विषयमित्यत्र सर्व-शब्दोऽसङ्कुचित इत्य् आह—सर्व-विषयम् इति। सर्व-विषयकत्व-वचनाद् इत्य् अर्थः ।
अतीतेति । अतीतादि-रूपं सर्वमित्यनुवादोऽन्वयार्थः पर्यायैः स्व-गत-विशेषे सर्वथा निःशेषैर् विषयीकरोतीत्य् अर्थः । नास्ति क्रमः पौर्वापर्य यत्र ज्ञान इत्यक्रमम् । अक्रमान्त विशेषणैर्लब्धं वाक्य-तात्पर्यार्थम् आह—एक-क्षणोपारूढमित्य्-आदिना । आरोहोऽत्रार्थाद् बुद्धि-वृत्ताव् इति ।विवेकज-ज्ञानस्याखिल-सिद्धान्ते निर्वचनस्य बीजम् आह—एतदिति । परिपूर्ण-शब्दार्थ स्वयं व्याचष्टे—अस्य इवांशैति। अस्यैव सूर्य-तुल्यस्य विवेकज-ज्ञानस्यांशो योग-प्रदीपः, क इत्य् आकाङ्क्षायाम् आह—मधुमतीति, स्थान्य्-उपनिमन्त्रण-सूत्रे ऋतम्भर-प्रज्ञाऽऽख्य-द्वितीय-भूमौ योगी मधु-भूमिक इत्य् उक्तम् । सैव च भूमिकाऽत्र मधुमतीति निर्दिष्टा । तामादाय सप्तधा प्रान्त-भूमि-प्रज्ञेति पूर्वोक्तं सम्प्रज्ञात-समाप्ति-पर्यन्त-भूमिका-जातं योग-प्रदीप इत्य् अर्थः । ते हि भूमि-व्यूहा विवेकज-ज्ञान-विषयैक-देश-प्रकाशका अतोऽंशा इति भावः ।
ननु स-वितर्कादि-रूपास्तथा परिणाम-त्रय-संयमादि-रूपाश् च याः सम्प्रज्ञात-योग-भूमयः पूर्वोक्तास्ताः कथं योग-प्रदीपतया विवेकज-ज्ञानांशतया च न निर्दिष्टा ?इति चेन्, न, योग-वह्नि-कणत्वेन तेषामत्यल्पत्वस्य विवक्षितत्वात् । प्रकृष्ट-भूमितया योग-प्रदीपानामासामंशत्वेनैव च कण-तुल्य-भूमीनाम् अंशांशत्वम् अपि प्राप्तम् इति भावः । विष्णु-पुराणे च सर्वेषां एवेतर-ज्ञानानां प्रदीप-तुल्यत्व-विवक्षया ब्रह्म-विवेकज-ज्ञानस्य सूर्य-तुल्यत्वं प्रोक्तम्—
अन्धं तम इवाज्ञानं दीपवच् चेन्द्रियोद्भवम् ।
यथा सूर्यस् तथा ज्ञानं यद् विप्रर्षे विवेकजम् ॥[वि.पु. ६.५.६२]इति ।
इन्द्रियोद्भवम् इत्य् अन्येषां अपि ज्ञानानाम् उपलक्षणम् ॥५४॥
—o)0(o—
(३.५५)
प्राप्त-विवेकज-ज्ञानस्याप्राप्त-विवेकज-ज्ञानस्य वा—
सत्त्व-पुरुषयोः शुद्धि-साम्ये कैवल्यमिति ॥५५॥
यदा निर्धूत-रजस्-तमो-मलं बुद्धि-सत्त्वं सत्त्व-पुरुषस्यान्यता-प्रत्यय-मात्राधिकारं दग्ध-क्लेश-बीजं भवति, तदा पुरुषस्य शुद्धि-सारूप्यम् इवापन्नं भवति । तदा पुरुषस्योपचरित-भोगाभावः शुद्धिः । एतस्याम् अवस्थायांकैवल्यं भवतीश्वरस्यानीश्वरस्य वा, विवेकज-ज्ञान-भागिन इतरस्य वा । न हि दग्ध-क्लेश-बीजस्य ज्ञाने पुनर् अपेक्षा काचिद् अस्ति । सत्त्व-शुद्धि-द्वारेणैतत्-समाधिजम् ऐश्वर्यं च ज्ञानं चोपक्रान्तम् ।परमार्थतस् तु ज्ञानाद् अदर्शनं निवर्तते । तस्मिन् निवृत्ते न सन्त्य् उत्तरे क्लेशाः । क्लेशाभावात् कर्म-विपाकाभावः । चरिताधिकाराश् चैतस्याम् अवस्थायांगुणाः, न पुरुषस्य दृश्यत्वेन पुनर् उपतिष्ठन्ते । तत् पुरुषस्य कैवल्यम् । तदा पुरुषः स्वरूप-मात्र-ज्योतिर् अमलः केवली भवति ॥५५॥
इति पतञ्जलि-विरचिते योग-सूत्रे तृतीयो विभूति-पादः
तत्त्व-वैशारदी : तद् एवम् परम्परया कैवल्यस्य हेतून् स-विभूतीन् संयमान् उक्त्वा, सत्त्व-पुरुषान्यता-ज्ञानं साक्षात्-कैवल्य-साधनमित्य् अत्र सूत्रमवतारयति—प्राप्तैति । विवेकजं ज्ञानं भवतु मा वा भूत्, सत्त्व-पुरुषान्यता-ख्यातिस् तु कैवल्य-प्रयोजिकेत्य् अर्थः—
सत्त्व-पुरुषयोः शुद्धि-साम्ये कैवल्यमिति । इतिःसूत्र-समाप्तौ ।
ईश्वरस्य पूर्वोक्तैः संयम-ज्ञान-क्रिया-शक्तिमतः, अनीश्वरस्य वा समनन्तरोक्तेन संयमेन विवेकज-ज्ञान-भागिनः, इतरस्य वानुत्पन्न-ज्ञानस्य न विभूतिषु काचिदपेक्षाऽस्तीत्याह—न हि इति ।
ननु यद्यनपेक्षिता विभूतयः कैवल्ये, व्यर्थस्तर्हि तासामुपदेशः ? इत्यत आह—सत्त्व-शुद्धि-द्वारेणैति । इत्थम्-भूत-लक्षणे तृतीया, नात्यन्तमहेतवः कैवल्ये विभूतयः, किन्तु न साक्षादित्य् अर्थः । ज्ञानं विवेकजमुपक्रान्तं । यच् च पारम्पर्येण कारणं तदौपचारिकं, नमुख्यम् । परमार्थतस् तु ख्यातिर् एव मुख्येत्य् अर्थः ।ज्ञानादितिप्रसङ्ख्यानादित्य् अर्थः ॥५५॥
अत्रान्तरङ्गाण्यङ्गानि परिणामा प्रपञ्चिताः ।
संयमाद् भूति-संयोगस्तासु ज्ञानं विवेकजम्॥
इति पादार्थ-संग्रहः श्लोकः।
इति श्रीमद्-वाचस्पति-मिश्र-विरचितायां पातञ्जल-भाष्य-व्याख्यायां
तत्त्व-वैशारद्यां विभूति-पादस्तृतीयः समाप्ताः ॥३॥
योग-वार्तिकम् :तद् एवं संयमानां सिद्धि-रूपा विभूतयोऽतीतानागत-ज्ञानाद्या विवेकज-ज्ञानान्त्ता ज्ञान-क्रियैश्वर्य-रूपा विस्तरेणोक्ताः । तत्रायं संशयः—किम् एतासां विभूतीनां अनन्तरम् एव मोक्षो भवति, आहो स्विद् एतद् व्यतिरेकेणापीति ?तत्र निर्णायकतयोत्तर-सूत्रम् अवतारयति—प्राप्त-विवेकज- इति । सूत्रेण सहान्वयः ।विवेकज-ज्ञानाख्योत्तम-सिद्ध्य्-अपेक्षयैव सुतरामितर-सिद्ध्य्-अनपेक्षा कैवल्य इति भाष्याशयः ।
सत्त्व-पुरुषयोः शुद्धि-साम्ये कैवल्यम् ॥ बुद्धि-सत्त्वस्य पुरुषेण सह समाना यदा शुद्धिर्वक्ष्यमाण-रूपा विवेक-साक्षात्काराद्भवति, तदैव मोक्षो न तत्र सिद्ध्य्-अपेक्षाइत्यर्थः । क्वचिदिति-शब्दः सूत्रान्ते तिष्ठति, सच हानोपाय-व्यूह-समाप्ति-सूचनार्थः ।
शुद्धि-साम्यं हेतुतः स्वरूपतश् च व्याचष्टे—यदाइति । निर्धूतो रजस्-तमो-द्रव्य-रूपो मलो यस्य तत्तथा । अत एव विवेक-ख्याति-मात्रेऽधिकारः कर्तव्यता यस्य,न तु सिद्ध्य्-आदौ तत्तथा । ततश् च दग्धान्यनागत-क्लेश-रूपाणि विपाकाख्य-संसार-बीजानि यत्र तत्तथा । एवं यदा बुद्धि-सत्त्वं भवति, तदा शुद्ध्या पुरुषस्य स्वरूपमिव तद् भवति । अनेन शुद्धि-साम्ये हेतुरुक्तः । बुद्धेर्दुःखाद्य्-आत्मकत्वान्नात्यन्तं शुद्धि-साम्यं कदाऽपीत्येतत्-प्रातिपादनाय इव-शब्द-प्रयोगः ।
यस्मिन्न् अंशे साम्यं तदाह—पुरुषस्येति । बुद्धि-धर्मत्वात्पुरुष उपचरित-मात्रस्य प्रत्यय-विशेषाख्य-भोगस्याभावः पुरुषस्य शुद्धिः । बुद्धेर् अपि जीवन्मुक्त-दशायां विवेकित्वेन तादृशो भागो नास्तीति शुद्धि-साम्यम् इत्य् अर्थः । अत्र साक्षिता-मात्र-रूप-भोग-व्याववर्तनायोपचरितेत्य् उक्तम् । पुरुषस्य प्रत्ययाविशेष-रूप एव हि भोग उपचरितः, अविवेकस्योपाधि-धर्मत्वात् । चिद्-अवसानता-रूपस् तु साङ्ख्य-सूत्रोक्तो भोगः स्वतैति । तथा च साक्षी निरभिमानः । एवं च चित्तस्य निरभिमानत्वम् एव मोक्ष-हेतुर् नैश्वर्यादिकमिति पर्यवसितोऽर्थः ।ेतस्यामिति । एतस्यां शुद्धि-साम्यावस्थायांजातायां प्रारब्ध-प्रतिबन्ध-निवृत्त्य्-अनन्तरं कैवल्यं भवति,ईश्वरस्यानीश्वरादि-साधारण्येणेत्य् अर्थः । स्वतन्त्र-ज्ञान-क्रिया-शक्तिमान् ईश्वरः ।
ज्ञाने पुनरिति । ज्ञानान्तरे काप्य् अपेक्षा नास्तीत्य् अर्थः ।
ननु विवेक-साक्षात्कार-हेतौ तत्-संयमे सत्य् अवश्यम् एव सार्वज्ञ्यादिकं भविष्यति, तत् कथम् ईश्वरस्य वेत्य् उच्यते ?इति चेत्, कैवल्ये सिद्ध्य्-अपेक्षा नास्ति, तर्हि किम्-अर्थं मोक्षाख्य-हानस्योपाय-मध्ये सिद्धीनां कथनम् ? इत्य् आशङ्कायाम् आह—सत्त्व-शुद्धि-द्वारेणैति । सत्त्वस्य बुद्धि-सत्त्वस्यशुद्धिर् वैराग्यादि, तद्-द्वारेण, मोक्षोपयोगितयेति शेषः। ऐश्वर्यंक्रिया-शक्तिर् अणिमादि, ज्ञानंविवेक-ज्ञानान्तं उपक्रान्तं प्रोक्तं सूत्र-जातेन । परमार्थतस् तुसत्त्व-पुरुषान्यता-ज्ञानाद् एवाज्ञान-निवृत्त्य्-आदि-दृष्ट-द्वाराकैवल्यम् इत्य् अर्थः ।
अत्र चरिताधिकारा इत्यादिना कैवल्य-स्वरूपम् उक्तम् । कैवल्ये पुरुषार्थम् आह—तदाइति । तदा सुख-दुःख-मोहात्मक-सत्त्वादि-गुणादर्शने चित्त-ज्योतिर्-वियोगात् स्वरूप-मात्र-ज्योतिरतो दुःखादि-प्रतिबिम्ब-रूप-मल-रहितः सन् केवली भवति, केवलेषु मुक्तेषु नित्य-मुक्त ईश्वरे वाऽविभागं गच्छतीत्य् अर्थः । तथा च दुःख-भोग-निवृत्तिर् एव पुरुषार्थैति । व्याख्यानि हानोपायस्य विवेक-ख्यातेः साधानानियोगस्य चाङ्गानि यमादीनि स-सिद्धीनि॥५५॥
इति श्री-पातञ्जल-भाष्य-वार्त्तिके श्री-विज्ञान-भिक्षु-निर्मिते विभूति-पादस्तृतीयः॥३॥