पातञ्जलयोगदर्शनम् व्यासभाष्य-तत्त्ववैशारदी-योगवार्तिक-समेतम्/कैवल्यपादः

विकिस्रोतः तः
पातञ्जलयोगदर्शनम्
(४)
चतुर्थः कैवल्य-पादः ।
(४.१)
जन्मौषधि-मन्त्र-तपः-समाधिजाः सिद्धयः ॥१॥
देहान्तरिता जन्मना सिद्धिः । औषधिभिर् असुर-भवनेषु रसायनेनेत्य्-एवम् -आदि । मन्त्रैर् आकाश-गमनाणिमादि-लाभः । तपसा सङ्कल्प-सिद्धिः काम-रूपी यत्रतत्र कामग इत्य्-एवम् -आदि । समाधिजाः सिद्धयो व्याख्याः ॥१॥
तत्त्व-वैशारदी : तद् एवं प्रथम-द्वितीय-तृतीय-पादैः समाध-तत्-साधन-तद्-विभूतयः प्राधान्येन व्युत्पादिताः । इतरत् तु प्रासङ्गिकम् औप्द्घातिकं चोक्तम् । इहेदानीं तद्-धेतुकं कैवल्यं व्युत्पादनीयम् । न चैतत् कैवल्य-भागीयं चित्तं परलोकं च परलोकिनं विज्ञानातिरिक्तं चित्त-करण-सुखाद्य्-आत्मक-शब्दाद्य्-उपमोक्तारम् आत्मानं च प्रसङ्ख्यान-परम-काष्ठां च विना व्युत्पाद्य शक्यं वक्तुमिति तद् एतत् सर्वम् अत्र पादे व्युत्पादनीयम् इतरच् च प्रसङ्गाद् उपोद्घाताद् वा ।
तत्रप्रथम-सिद्ध-चित्तेषु कैवल्य-भागीयं चित्तं निर्धारयितु-कामः पञ्चतयीं सिद्धिम् आह—जन्मौषधि-मन्त्र-तपः-समाधिजाः सिद्धयः ॥
व्याचष्टे—देहान्तरिता इति । स्वर्गोपभोग-भागीयात् कर्मणो मनुष्य-जातीयाचरितात् कुतश्च् इन् निमित्ताल् लब्ध-परिपाकात् क्वचिद् देव-निकाये जात-मात्रस्यैव दिव्य-देहान्तरिता सिद्धिर् अणिमाद्या भवतीति ।
औषधि-सिद्धिम् आह—असुर-भवनेषु इति । मनुष्यो हि कुतश्चिन् निमित्ताद् असुर-भवनम् उपसम्प्राप्तः कमनीयाभिर् असुर-कन्याभिर् उपनीतं रसायनम् उपयुज्य अजरामरणत्वम् अन्याश् च सिद्धीर् आसादयति । इहैव वा रसायनोपयोगेन यथा माण्डव्यो मुनी रसोपयोगाद् विन्ध्य-वासीति ।
मन्त्र-सिद्धिम् आह—मन्त्रैरिति । तपः-सिद्धिम् आह—तपसेति । सङ्कल्प-सिद्धिम् आह—काम-रूपी इति। यद् एव कामयतेऽणिमादिः तद् एक-पदेऽस्य भवतीति । यत्र कामयते श्रोतुं वा मन्तुं वा तत्रतद् एव शृणोति मनुते वेति । आदि-शब्दाद् दर्शनादयः संगृहीताइति । सिद्धान्तिजाः । समाधिजाः सिद्धयो व्याख्या अधस्तने पादे ॥१॥
योग-वार्तिकम् :हानोपायान्तं व्यूह-त्रयम् अतिविस्तरतः पाद-द्वयेन व्याख्याय हानं तु स्वरूपत एव तत्र संक्षेपाद् उक्तं, न तु तस्याशेष-विशेष-रूपो व्यूह इत्य् अतो हान-विस्तरार्थंचतुर्थ-पादारम्भः । तत्रादौ कैवल्य-योग्यं चित्तं निर्धारयितुं पञ्च-प्रकारां सिद्धिम् आह । अनेनैव प्रसङ्गेन जन्मादि-सिद्ध्य्-अपेक्षया यथोक्ततमासिद्धेर् उत्कर्षोऽपि सेत्स्यति—जन्मौषधि-मन्त्र-तपः-समाधिजाः सिद्धयः ॥
क्रमेण सिद्धीर् व्याचष्टे—देहान्तरिताइति । ऐहिकेन कर्मणा देवादि-देहान्तरे जन्म-मात्रेणभवन्ती अणिमादि-सिद्धिर् जन्मजेत्य् अर्थः । औषधि-सिद्धिम् आह——औषधिभिःिति । असुर-भवनेषुरसायनम्यद् औषधि-द्रव्यं तद्-उद्भवेत्य् एवम् -आदि-सिद्ध्र् औषधिभिर् इत्य् अर्थः । असुर-भवनेष्विति प्रायिकाभिप्रायेणोक्तं, अत्राप्य् औषधिभिः सुवर्णादि-सिद्धीनांभावात् । शेषं सुगमम् ॥१॥
—o)0(o—
(४.२)
तत्र कायेन्द्रियाणाम् अन्य-जातीय-परिणतानां—
जात्य्-अन्तर-परिणामः प्रकृत्य्-आपूरात् ॥२॥
पूर्व-परिणामापाये उत्तर-परिणामोपजनस् तेषाम् अपूर्वावयवानुप्रवेशाद् भवति, कायेन्द्रिय-प्रकृतयश् च स्वं स्वं विकारम् अनुगृह्णन्त्य् आपूरेणधर्मादि-निमित्तम् अपेक्षमाणाइति॥२॥
तत्त्व-वैशारदी : अथ चतसृषु सिद्धिष्व् औषधादि-साधनासु तेषाम् एव कायेन्द्रियाणां जात्य्-अन्तर-परिणतिर् इष्यते । सा पुनर् न तावद् उपादान-मात्रात् । न हि तावन्-मात्रम् उपादानं न्यूनाधिक-दिव्यादिव्य-भावेऽस्य भवति । नो खल्व् अविलक्षणं कारणं कार्य-वैलक्षण्यायालम् । मास्याकस्मिकत्वं भूद् इत्य् आशङ्क्य पूरयित्वा सूत्रं पठति—तत्र कायेन्द्रियाणाम् अन्य-जातीय-परिणतानां, जात्य्-अन्तर-परिणामः प्रकृत्यापूरात् । मनुष्य-जाति-परिणतानां कायेन्द्रियाणां यो देव-तिर्यग्-जाति-परिणामः, स खलु प्रकृत्यापूरात् ।
कायस्य हि प्रकृतिः पृथिव्य्-आदीनि भूतानि, इन्द्रियाणां च प्रकृतिर् अस्मिता, तद्-अवयवानुप्रवेश आपूरस् तस्माद् भवति । तद् इदम् आह—पूर्व-परिणामेति । ननु यद्य् आपूरेणानुग्रहः कस्मात् पुनर् असौ न सदातन इत्य् अत आह—धर्मादीति । तद् अनेन तस्यैवशरीरस्य बाल्य-कौमार-यौवन-वार्धकादीनि च न्यग्रोध-धानाया न्यग्रोध-तरुम् अभावश् च वह्नि-कणिकायास् तृण-राशि-निवेशिताया वा प्रोद्भव-ज्वाला-सहस्र-समालिङ्गित-गगन-मण्डलत्वं च व्याख्यातम् ॥२॥
योग-वार्तिकम् :पञ्च-विध-सिद्धि-साधारण्याय पूर्व-पादो विचारितः । सिद्धि-प्रकारोऽस्मिन्न् एव प्रसङ्गे कियद्भिः सूत्रैः प्रतिपादनीयः । तत्रादौ निर्माण-काय-निर्माणेन्द्रिययोर् उत्पत्ति-प्रकार-प्रतिपादकं सूत्रं पूरयित्वोत्थापयति—तत्र काय-इत्यादि । निर्माण-चित्तोत्पत्ति-प्रकारस्य सूत्रान्तरेण वक्ष्यमाणत्वाद् अत्र कायेन्द्रिययोर् एव ग्रहणम् ।
जात्य्-अन्तर-परिणामः प्रकृत्यापूरात् ॥मनुष्यादि-जाति-रूपः परिणामः । स प्रकृत्य्-आपूराद् भवति, न तु सङ्कल्प-मात्राद् इत्य् अर्थः । मनुष्यादि-जाति-रूपेणपूर्वं परिणम्य स्थितानां कायेन्द्रियाणां काम-रूपता-दशायां यो देव-तिर्यग्-आदि-जाति-परिणामः स प्रकृत्यापूराद् भवति, न तु सङ्कल्प-मात्राद् इत्य् अर्थःितिव्याख्यान्तरम् । अणिमादि-रूप-परिणाम-विशेषश् च प्रकृत्य्-अपगमाद् इत्य् अपि बोध्यम् ।
अत्र च जात्य्-अन्तर-शब्देन योगिनां गज-तुरङ्गादि-वैभवं तथा काय-व्यूहादिकम् अपि ग्राह्यम् । आपूर-शब्देनापि प्रकृतीनां संहननम् अपि ग्राह्यम् । काय-व्यूहे च श्रुतिः—स एकधा भवति, त्रिधा भवति, पञ्चधा शतं दश चैकश् च सहस्राणि च विंशतिः ॥[छा.उ. ७.२६.२]इत्यादिरिति ।
प्रकृत्य्-आपूरे हेतुं वदन् सूत्रं व्याचष्टे—पूर्व-परिणाम- इति । यतो लोके वल्मीकादीनां क्षुद्र-परिणामापाये तद्-उत्तर-महा-परिणामोत्पत्तिर् भूत-प्रकृतीनानुप्रवेशाद् भवतीति दृष्टम् । अतो योगीश्वरादीनाम् अपि देहेन्द्रिययोः परिणामान्तर-काले धर्मादि-सापेक्षाः कायेन्द्रिय-प्रकृतयः स्वंस्वं विकारम् अनुगृह्णन्ति स्व-स्व-जातीयां कायादि-प्रकृतिम् उपकुर्वन्ति आपूरेणानुप्रवेशेनेत्य् अर्थः । तत्र काय-प्रकृतिल्ह् पञ्च-भूतानि, इन्द्रिय-प्रकृतिश् चास्मितेति । दृष्टश् च लोके तृष्ण-राशि-निक्षिप्तस्य वह्नि-कणस्य क्षणाद् एव प्रकृत्य्-आपूरेण गगन-व्यापी परिणाम-विशेषैति । एतेन वासनावतारादीनां क्षणाद् एव त्रिभुवन-व्यापित्व-विश्व-रूपत्वादिकं मार्कण्डेयादिभ्यो विष्णुना माया-प्रदर्शनं च प्रकृत्य्-आपूरेण तडिन्-मालायाम् इव क्षण-भङ्गुरेणेति व्याख्यातम् । अगस्त्यादीनां समुद्र-पानादिकं च तोयादि-प्रकृत्य्-अपसारणेनेति व्याख्येयम् । एवम् एव विश्वं परमेश्वरस्य मायेति गीयते ऐन्द्रजालिकवत् । क्षणेनैव प्रकृत्य्-आपूरापसारणादिभिर् जगद् अन्यथयितुं विलापयितुं च परमेश्वरः सङ्कल्प-मात्रेण शक्नोति । सूक्ष्म-दृष्ट्या तु प्रतिक्षणं तथा करोत्य् एवेति पश्यन्तु योगिनो भगवन्-नृत्यमिति दिक् ॥२॥
—o)0(o—
(४.३)
निमित्तम् अप्रयोजकं प्रकृतीनां वरण-भेदस् तु ततः क्षेत्रिकवत् ॥३॥
न हि धर्मादि निमित्तं प्रयोजकं प्रकृतीनां भवति । न कार्येणकारणं प्रवर्त्यतेइति । कथं तर्हि ? वरण-भेदस् तु ततः क्षेत्रिकवत् । यथा क्षेत्रिकः केदाराद् अपां पूरणात् केदारान्तरं पिप्लावयिषुः समं निम्नं निम्नतरं वा नापः पाणिनापकर्षत्य् आवरणं त्व् आसां भिनत्ति, तस्मिन् भिन्ने स्वयम् एवापः केदारान्तरम् आप्लावयन्ति । तथा धर्मः प्रकृतीनाम् आवरणम् अधर्मं भिनत्ति, तस्मिन् भिन्ने स्वयम् एव प्रकृतयः स्वं स्वं विकारम् आप्लावयन्ति ।
यथा वा, स एव क्षेत्रिकस् तस्मिन्न् एव केदारे न प्रभवत्य् औदकान् भौमान् वा रसान् धान्य-मूलान्य् अनुप्रवेशयितुम् । किं तर्हि ? मुद्ग-गवेधुक-श्यामाकादींस् ततोऽपकर्षति । अपकृष्टेषु तेषु स्वयम् एव रसा धान्य-मूलान्य् अनुप्रविशन्ति । तथा धर्मो निवृत्ति-मात्रे कारणम् अधर्मस्य , शुद्ध्य्-अशुद्ध्योर् अत्यन्त-विरोधात् । न तु प्रकृति-प्रवृत्तौ धर्मो हेतुर् भवतीति । अत्र नन्दीश्वरादय उदाहार्याः । विपर्ययेणाप्य् अधर्मो धर्मं बाधते । ततश् चाशुद्धि-परिणामैति । अत्रापि नहुषाजगरादय उदाहार्याः ॥३॥
तत्त्व-वैशारदी : प्रकृत्यापूराद् इत्य् उक्तम् । तत्रेदं सन्दिह्यते—किम् आपूरः प्रकृतीनांस्वाभाविको धर्मादि-निमित्तो वेति ? किं प्राप्तम् ? सतीष्व् अपि प्रकृतिषु कदाचिद् आपूराद् धर्मादि-निमित्त-श्रवणाच् च तन्-निमित्त एवेति प्राप्तम् । एवं प्राप्त आह—निमित्तम् अप्रयोजकं प्रकृतीनां वरण-भेदस् तु ततः क्षेत्रिकवत् ॥
सत्यं धर्मादयो निमित्तं, न तु प्रयोजकाः, तेषाम् अपि प्रकृति-कार्यत्वात् । न च कार्यं कारणं प्रयोजयति, तस्य तद्-अधीनोत्पत्तितयाकारण-परतन्त्रत्वात् । स्वतन्त्रस्य च प्रयोजकत्वात् । न खलु कुलालम् अन्तरेण मृद्-दण्ड-चक्र-सलिलादय उत्पत्सितेनोत्पन्नेन वा घटेन प्रयुज्यन्ते, किं तु स्वतन्त्रेण कुलालेन । न च पुरुषार्थोऽपि प्रवर्तकः, किं तु तद्-उद्देशेनेश्वरः । उद्देशता-मात्रेणपुरुषार्थः प्रवर्तक इत्य् उच्यते । उत्पत्सोस् त्व् अस्य पुरुषार्थस्याव्यक्तस्य स्थितिनां-कारणत्वं युक्तम् । न चैतावता धर्मादीनाम् अनिमित्तता । प्रतिबन्धापनयन-मात्रेण क्षेत्रिकवद् उपपत्तेः । ईश्वरस्यापिधर्माधिष्ठानार्थं प्रत्बन्धापनय एव व्यापारो वेदितव्यः । तद् एतन् निगद-व्याख्यातेन भाष्येणोक्तम् ॥३॥
योग-वार्तिकम् :ननु योगज-धर्मैर् बलात् प्रकृतय आकृष्यन्तैतिप्रकृति-स्वातन्त्र्य-सिद्धान्त-हानिः । तथा स यदि पितृ-लोक-कामो भवति सङ्कल्पाद् एवास्य पितरः समुत्तिष्ठन्तीत्य्-आदि-श्रुतेर् अपि प्रकृति-स्वातन्त्र्य-हानिर् इत्य् आशङ्कायाम् आह—निमित्तम् अप्रयोजकं प्रकृतीनां वरण-भेदस् तु ततः क्षेत्रिकवत् ॥
व्याचष्टे—न हीति । धर्मादि-रूपाणांनिमित्तानां प्रकृत्य्-आपूरकत्वे युक्तिम् आह— न कार्येण इति । परतन्त्रं स्वतन्त्रस्य प्रवर्तकम् अयुक्तम् इत्य् अर्थः । किं चाकाशे द्रव्याणाम् अनारम्भिकाप्य् अनुक्षणम् अणूनां क्रिया सर्व-सम्मता । न च तत्रधर्मोऽधर्मो वा कारणं, कस्यापि भोगाहेतुत्वात् । नापि तत्रेश्वरादि-सङ्कल्पादिः कारणं, गौरवात् । अतो निरन्तराणुक्रियोपपत्तये लाघवेन गुणत्वेनैव सामान्यतः प्रवृत्ति-कारणत्वात् प्रकृति-स्वातन्त्र्यं सिद्धम् । अपि च कदाचिद् दण्ड-चक्रादिकं विनापि योगि-सङ्कल्पाद् एव घटो जायते, आदि-सर्गे चेश्वर-सङ्कल्पेन बीजान्तराणि विनैव सर्वाणि बीजान्य् उत्पद्यन्तेइतिपरस्पर-व्यभिचान् निमित्तानां न साक्षात्कारणस्य -सम्भवः । तृणारणि-मण्य्-आदिषु चाग्न्य्-आदि-कारणत्वेऽन्योन्य-व्यभिचारो लोक-सिद्ध एवास्ति । अतः सहकार्य-प्रयुक्ता प्रकृतिर् एव परिणामे कारणं स्वतन्त्रेति सिद्धम् ।
ननु प्रकृतिश् चेत् स्वतन्त्रा केन प्रकारेण तर्हि धर्मेश्वर-योगि-सङ्कल्पादीनां प्रकृति-परिणाम-हेतुत्वमिति पृच्छति—कथं तर्हि ?इति । सूत्रार्धेनोत्तरम् आह—वरण-भेदस् तु ततः क्षेत्रिकवत् इति। अपां पूरणाद् अद्भिः पूरणात्, केदारान्तरस्य विशेषणं समम् इत्य् आदि त्रिकम्, अपकर्षति क्षिपति प्रावरणम् आलवालम् ।
स्वं स्वं विकारमिति । स्व-स्व-जातीयं विकारं प्राप्नुवन्ति विकार-प्रसूतीनां परिणामान्तरम् इत्य् अर्थः । प्रकृति-कार्येन्द्रिय-प्रकृत्य्-अभिप्रायेणोक्तं गुणाद् गुणान्तरम् आप्लावयन्तीत्य् अपि बोध्यम् । तथा चाधर्मादि-प्रतिबन्ध-निवृत्ति-द्वारेणैव धर्मादिः परिणाम-कारणमिति सिद्धम् । अयं भावःयथा संस्कार एव स्मृति-हेतुः, सदृशादृष्ट-चिन्तादयस् त्व् अननुगततया संस्कारस्योद्बोधक-मात्राः, उद्बोधश् च निद्रादि-दोष-रूपावरण-भङ्गः, तथैव प्रकृतिर् एव जगत्-कारणं काल-कर्मेश्वरादयस् तु प्रकृतेः कार्य-जनन-शक्त्य्-उद्बोधकाः । तत्रधर्माधर्मौ स्व-धर्म-विरुद्ध-धर्मान्तर-रूपावरण-भङ्गेनोद्बोधकौ, ईश्वरस् तु साम्य-परिणामादि-रूपाखिलावरण-भङ्गेनोद्बोधकः, कालादयस् तु धर्माद्य्-उद्बोधकतया, दण्डादयस् तु कार्यान्तराभिव्यक्ति-प्रतिबन्धकतयेत्य् एवं यथा-योग्यम् ऊहनीयम् । एतद् एव निमित्त-कारणतेति गीयते । अव्यभिचारात् तु संयोगस्य समवायि-कारणत्वम् इष्यत एव, द्वारत्वात् ।
न तेन प्रकृतेः स्वतन्त्र्य-हानिरिति । धर्मस्याधर्म-रूप-प्रतिबन्धापसारणा-द्वारा कायेन्द्रिय-परिणाम-निमित्तत्वौदाहरणम् आह—अत्र नन्दी- इति । नन्दि-नामा मनुष्य ईश्वरो जातैति नन्दीश्वरः । एवं नहुषाजगरादयोऽपि व्याख्येयाः । सिद्धादीनां कायेन्द्रिय-परिणामश् चिन्तितः ॥३॥
—o)0(o—
(४.४)
यदा तु योगी बहून् कायान् निर्मिमीते, तदा किम् एक-मनस्कास् ते भवन्त्य् अथानेक-मनस्काइति ?
निर्माण-चित्तान्य् अस्मिता-मात्रात् ॥४॥
अस्मिता-मात्रं चित्त-कारणम् उपादाय निर्माण-चित्तानि करोति, ततः स-चित्तानि भवन्ति ॥४॥
तत्त्व-वैशारदी : प्रकृत्यापूरेण सिद्धीः समर्थ्यं सिद्धि-विनिर्मित-नाना-काय-वर्ति-चित्तैकत्व-नानात्वे विचारयति—यदा त्विति । तत्र नाना-मनस्त्वे कायानां प्रति-चित्तम् अभिप्राय-भेदाद् एकाभिप्रायानुरोधश् च परस्पर-प्रतिसन्धानं च न स्यातां पुरुषान्तरवत् । तस्माद् एकम् एव चित्तं प्रदीपवद् विसारितया बहून् अपि निर्माण-कायान् व्याप्नोतीति प्राप्त आह—निर्माण-चित्तान्य् अस्मिता-मात्रात् ॥ यद् यावज् जीवच् छरीरं तत् सर्वम् एकैकासाधारण-चित्तान्वितं दृष्टम्, तथा च निर्माण-कायाइति सिद्धं, तेषाम् अपि प्रातिस्विकं मन इत्य् अभिप्रायेणाह—अस्मिता-मात्रमिति ॥४॥
योग-वार्तिकम् :िदानीं सिद्धानां चित्त-परिनाम-निर्णायकं सूत्रम् अवतारयति—यदेति । एकमनस्का निर्मातृ-मनो-मात्रेणैव व्यवहार-भजः, अनेक-मनस्काः निर्मातृ-मनोऽतिरिक्त-प्रातिस्विक-मनो-भाजः ।
निर्माण-चित्तान्य् अस्मिता-मात्रात् ॥ स्व-सङ्कल्पेन निर्मिती-चित्तानि निर्माण-चित्तान्य् उच्यन्ते, तानि बहूनि निर्माण-देह-सम-सङ्ख्यानि भवन्ति । तेषां कारणम् आह—अस्मिता-मात्रादिति । अहङ्काराद् इत्य् अर्थः । मात्र-शब्देन मनो-व्यावृत्तिः, सङ्कल्प-मात्रेण मनसो निमित्त-मात्रत्वादिति । अत्र चित्त-शब्दो मनोत्रवाची, अहङ्कर-प्रकृत् इतिकत्व-वचनात् । बुद्ध्य्-अहङ्कारा अपि अनेके स्व-प्रकृति-प्रधान-बुद्ध्यापूराद् भवन्तीति प्रत्येतव्यं युक्ति-साम्यादिति ।
भाष्ये स-चित्तानि शरीराणीत्य् अर्थः । शेषं सूत्र एव व्याख्यातम् ।
ननु निर्मातृ-चित्तस्य इकस्यैव प्रदीपवद् विसारितया काय-व्यूहेषु वृत्ति-सम्भवात् किम्-अर्थं देह-भेदेनान्तः-करण-भेदोऽभ्युपगम्यते, न हि नैयायिकानाम् इवास्माकम् अन्तः-करण-भेदेनैकदानवहित-नाना-शरीराधिष्ठानं न सम्भवेदिति ?
अत्रोच्यन्ते—समाधि-भोगयोर् ज्ञानाज्ञानयोश् चैकदैकस्मश् चित्ते विरोधेन चित्त-भेदः सिद्ध्यति । अत एवसर्व-ज्ञस्यापिविष्णोः स्व-सङ्कल्प-निर्मित-चित्त-भेदेन राम-शरीरे कियत्कालम् अज्ञानम् उपपन्नमिति । यदा तु योगी जीव-भेदान् एव स्व-देहान् निर्मितेषु देहेन्द्रिय-सङ्घातेष्व् अनेकेषु योजयति, तदा पुनः सुतराम् एवानेकान्तःकरणम् अपेक्षतैति । कदाचित् तु योगिनाम् एकान्तःकरणेनैअ नान-देहेषु व्यवहारं न निराकुर्मः, स्वतन्त्रेच्छस्य नियन्तुम् अशक्यत्वादिति ।
अथैवं सत्यात्म-नानात्व-कल्पना व्यर्था, चित्त-भेदेनैव ज्ञानाज्ञाद्य्-उपपत्तेरिति ? मैवम् । वृत्ति-तन्-निरोधादीनाम् औपाधिकत्वेनाविरोधेऽपिविषयानुभवाननुभवयोः स्व-प्रतिविदित-दुःख-भोग-तद्-अभावयोर् बन्ध-मोक्षयोश् च साक्षाच् चेतन-निष्ठयोर् विरोधेनैवात्मनानात्व-सिद्धेरिति दिक् । तद् एतच् छरीर-भेदेन नाना-चित्तैर् विरुद्ध-नाना-कार्य-कारित्वं योगिनां स्मर्यते—
एकस् तु प्रभु-शक्त्या वै बहुधा भवतीश्वरः ।
भूत्वा यस्मात् तु बहुधा भवत्य् एकः पुनस् तु सः ॥
तस्माच् च मनसो भेदा जायन्ते चैत एव हि ।
एकधा तद् द्विधा चैव त्रिधा च बहुधा पुनः ॥
योगीश्वरः शरीराणि करोति विकरोति च ।
प्राप्नुयाद् विषयान् कैश्चित् कैश्चिद् उग्रं तपश् चरेत् ।
संहरेच् च पुनस् तानि सूर्यो रश्मि-गमान् इव ॥इति ।
—o)0(o—
(४.५)
प्रवृत्ति-भेदे प्रयोजकं चित्तम् एकम् अनेकेषाम् ॥५॥
बहूनां चित्तानां कथम् एक-चित्ताभिप्राय-पुरःसा प्रवृत्तिरितिसर्व-चित्तानां प्रयोजकं चित्तम् एकं निर्मिमीते, ततः प्रवृत्ति-भेदः ॥५॥
तत्त्व-वैशारदी : यद् उक्तम् अनेक-चित्तत्वे एकाभिप्रायानुरोधश् च प्रतिसन्धानं च न स्यातामिति सत्रोत्तरं सूत्रं—प्रवृत्ति-भेदे प्रयोजकं चित्तम् एकम् अनेकेषाम् ॥ अभविष्यद् एष दोषो यदि चित्तम् एकं नाना-काय-वर्ति मनो-नायकं न निरमास्यत, तन्-निर्माणे त्व् अदोषः । न चैकं गृहीत्वा कृतं प्रातिस्विकैर् मनोभिः कृतं वा नायक-निर्माणेन, निजस्यैव मनसो नायकत्वादिति वाच्यं, प्रमाण-सिद्धस्य नियोग-पर्यनुयोगानुपपत्तेरिति । अथ पुराणम् एतत्भवति—
एकस् तु प्रभु-शक्त्या वै बहुधा भवतीनांशरीरः ।
भूत्वा यस्मात् तु बहुधा भवत्य् एकः पुनस् तु सः ॥
तस्माच् च मनसो भेदा जायन्ते चैत एव हि ।
एकधा तद् द्विधा चैव त्रिधा च बहुधा पुनः ॥
योगीनांशरीरः शरीराणि करोति विकरोति च ।
प्राप्नुयाद् विषयान् कैश्चित् कैश्चिद् उग्रं तपश् चरेत् ।
संहरेच् च पुनस् तानि सूर्यो रश्मि-गमान् इव ॥इति ।
तद् एतेनाभिप्रायेणाह—बहूनां चित्तम् एकम् अनेकेषाम् ॥५॥
योग-वार्तिकम् :नेक-चित्त-निर्माणेऽपिविशेषम् आह—प्रवृत्ति-भेदे प्रयोजकं चित्तम् एकम् अनेकेषाम्।
व्याचष्टे—बहूनामिति । तेषां बहूनां कथम् एक-चित्ताभिप्रायानुसारिणी प्रवृत्तिः स्याद् इत्य् आशयेन योगी पूर्व-सिद्धं यच् चित्तं तद् एवसर्व-चित्तानां प्रयोजकं करोति, ततस् तु चित्ताभिप्रायात् तेषाम् अवान्तर-चित्तानां प्रवृत्तिर् इत्य् अर्थः । ऐश्वर्य-निर्वाहार्थम् अनेक-चित्तेष्व् अन्तर्यामि-विषया स्थितम् एकं चित्तं तेषाम् उत्पत्ति-स्थिति-संहारं करोतीति । अत्र च प्रमाणं परं ब्रह्मआनांं प्राग् एव दर्शितम्—संहरेच् च पुनस् तानि सूर्यो रश्मि-गणान् इवैति ।
एतेनविष्ण्व्-आदीनाम् अंशावतारा अपि व्याख्याताः । तेषु आत्मन एकत्वेऽय् अंशांशि-व्यवहार उपाध्योर् अंशांशि-भावेनौपाधिको न पुनर् इतर-जीवेष्व् इव स्वत एवेति ॥५॥
—o)0(o—
(४.६)
तत्र ध्यानजम् अनाशयम् ॥६॥
पञ्च-विधं निर्माण-चित्तं—जन्मौषधि-मन्त्र-तपः-समाधिजाः सिद्धयैति । तत्र यद् एव ध्यानजं चित्तं, तद् एवानाशयं,तस्यैव नास्त्य् आशयो रागादि-प्रवृत्तिः, नातः पुण्य-पापाभिसम्बन्धः, क्षीण-क्लेशत्वाद् योगिनैति । इतरेषां तु विद्यतेकर्माशयः ॥६॥
तत्त्व-वैशारदी : तद् एवम् उदितेषु पञ्चसु सिद्ध-चित्तेष्व् अपवर्ग-भागीयं चित्तं निर्धारयति—तत्र ध्यानजम् अनाशयम् ॥ आशेरत इत्य् आशयाः कर्म-वासनाः क्लेश-वासनाश् च । त एते न विद्यन्ते यस्मस् तद् अनाशयं चित्तम् अपवर्ग-भागीयं भवतीत्य् अर्थः । यतो रागादि-निबन्धना प्रवृत्तिर् नास्त्य् अतो नास्ति पुण्य-पापाभिसम्बन्धः ।
कस्मात् पुना रागादि-जनिता प्रवृत्तिर् नास्तीत्य् अत आह—क्षीण-क्लेशत्वादिति । ध्यानजस्यानाशयस्य मनोऽन्तरेभ्यो विशेषं दर्शयितुम् इतरेषाम् आशयवत्ताम् आह—इतरेषां त्विति ॥६॥
योग-वार्तिकम् :तद् एवम् उक्तेषु पञ्चसु सिद्ध-चित्तेषु मध्येऽपवर्ग-योग्य-चित्तम् अवधारयति—तत्र ध्यानजम् अनाशयम् ॥ध्यानजम् ध्यान-संस्कृतं, आशयाः क्लेश-कर्म-वासना न सन्त्य् अस्मिन्न् इत्य् अनाशयम्, ध्यान-सिद्धं चित्तम् एवानाशयं भवति, योगेनैव ज्ञानोत्पत्त्या वासनोच्छेद-सम्भवात् न मन्त्रादिभिर् इत्य् अर्थः ।
व्याचष्टे—पञ्च-विधमिति । निर्माण-चित्तम् अत्र निर्माण-क्षण-चित्तं न निर्मीयमाणं चित्तं, तस्य सिद्ध-कार्यत्वेन सिद्धत्वानियमात् । अनाशयम् इत्य् अस्यार्थम् आह—तस्य इवेति । रागादेः प्रवृत्तिर् यस्मात् संस्कारात् स रागादि-प्रवृत्तिर् आशयस् तस्यैव नास्टित्य् अनाशयम् इत्य् अर्थः ।
अनाशयत्वस्य किं प्रयोज्यम् इत्य् आकाङ्क्ष् आह—नातैति । सम्बन्ध उत्पत्तिः । ततश् चापुनर्-जन्म-रूपो मोक्षैति शेषः । पाप-पुण्यानुत्पत्तौ हेतुम् आह—क्षीण-क्लेशत्वादिति । दग्ध-क्लेशत्वादिति दग्ध-क्लेश-कर्म-वासनत्वाद् इत्य् अर्थः । अदृष्टोत्पलार्रय् अप्य् अदृष्टान्तरं कारणं, अदृष्ट-रूपस्य कर्माशयस्य कार्य-मात्रे हेतुत्वात् । तत्रेति निर्धारण-सप्तम्य्-अर्थम् आह—इतरेषामिति । मन्त्रादि-सिद्ध-चित्तानाम् इत्य् अर्थः ॥६॥
—o)0(o—
(४.७)
यतः—
कर्माशुक्लाकृष्णं योगिनः, त्रिविधम् इतरेषाम् ॥७॥
चतुष्पदी खल्व् इयं कर्म-जातिः—कृष्णा, शुक्ल-कृष्णा, शुक्ला, अशुक्लाकृष्णा चेति । तत्र कृष्णा दुरात्मनाम् । शुक्ल-कृष्णा बहिः-साधन-साध्या, तत्र पर-पीडानुग्रह-द्वारेणैव कर्माशय-प्रचयः । शुक्ला तपः-स्वाध्याय-ध्यानवताम् । सा हि केवले मनस्यायत्तत्वाद् बहिः-साधनाधीना न परान् पीडयित्वा भवति । अशुक्लाकृष्णा संन्यासिनां क्षीण-क्लेशानां चरम-देहानामिति । तत्राशुक्लं योगिन एव फल-संन्यासाद् अकृष्णं चानुपादानात् । इतरेषां तु भूतानां पूर्वम् एव त्रिविधमिति ॥७॥
तत्त्व-वैशारदी : तत्रैव च हेतु-परं सूत्रम् अवतारयति—यतैति । कर्माशुक्लाकृष्णं योगिनः त्रिविधम् इतरेषाम् ॥पदं स्थानम् । चतुर्षु समम् एता चतुष्पदा । यद् यावद् बहिः-साधन-साध्य तत्रसर्वत्रास्ति कस्य चित् पीडा । न हि ब्रीह्य्-आदि-साधनेऽपि कर्मणि पर-पीडा नास्ति, अवघातादि-समये पिपीलिकादि-वध-सम्भवात् । अन्ततो बीजादि-वधेन स्तम्भादि-भेदोत्पत्ति-प्रतिबन्धात् । अनुग्रहश् च दक्षिणादिना ब्राह्मणादेरिति । शुक्ला तपः-स्वाध्याय-ध्यानवताम् असन्न्यासिनाम् । शुक्लत्वम् उपपादयति—सा हीति । अशुक्लाकृष्णा संन्यासिनाम् । संन्यासिनो दर्शयति—क्षीणेति । कर्म-संन्यासिनो हि न क्वचिद् बहिः-साधन-साध्ये कर्मणि प्रवृत्ताइति न चैषाम् अस्ति कृष्णः कर्माशयः । योगानुष्ठान-साध्य् अस्य कर्माशय-फलस्येश्वरे समर्पणान् न शुक्लः कर्माशयः । निरत्यय-फलो हि शुक्ल उच्यते । यस्य फलम् एव नास्ति, कुतस् तस्य निरत्यय-फलत्वम् इत्य् अर्थः । तद् एवं चतुष्टयीं कर्म-जातिम् उक्त्वा कतमा कस्येत्य् अवधारयति—तत्राशुक्लमिति ॥७॥
योग-वार्तिकम् :त्रैव हेतु-परतयोत्तर-सूत्रम् अवतारयति—यतैति । कर्माशुक्लाकृष्णं योगिनः त्रिविधम् इतरेषाम् ॥ योगिनो निष्पन्न-योगस्य क्षीण-क्लेशस्य कर्म कायादि-व्यापारोऽशुक्लाकृष्णः पुण्य-पाप-हेतुः इतरेषाम् अयोगिनां जन्मादि-सिद्धानाम् अपि त्रिविधं यथा-योग्यं कर्म शुक्ल-कृष्णयोः प्रत्येक-समुच्चयाभ्यां त्रिविधम् इत्य् अर्थः ।
तद् एतद् व्याचष्टे—चतुष्पादिति । कर्म-सामान्यं चतुर्-अंशकम् इत्य् अर्थः । क्रमेण निर्दिशति—कृष्णेति । कृष्णा दुःख-फलदा, तमो-वर्धकत्वात् । शुक्ल-कृष्णा सुख-दुःख-फलदा, रजो-वर्धकत्वात् । शुक्ला सुख-फलदा, सत्त्व-वर्धकत्वात् । अशुक्लाकृष्णा च सुख-दुःख-फल-शून्या, गुणाहेतुत्वादिति । अत्राशुक्लाकृष्णयोः सुख-दुःख-फलस्यैव प्रतिषेधेन योगि-कर्मणाम् अपि सत्त्व-शुद्धिः फलं न निराक्रियते । न च ज्ञानेनैव सत्त्व-शुद्ध्य्-आख्यः पाप-क्षयो भविष्यतीति वाच्यम् । तथापिकर्मणाम् अपि ज्ञानाङ्गतया सत्त्व-शुद्धि-हेतुत्वात्, आत्म-क्रीड आत्म-रतिः क्रियावान् एष ब्रह्म-विदां वरिष्ठः [मु.उ. ३.१.४]इति साहित्य-श्रुतेः ।
कायेन मनसा बुद्ध्या केवलैर् इन्द्रियैर् अपि ।
योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्म-शुद्धये ॥[गीता ५.११]इतिस्मृतेश् च ।
अन्यथा वसिष्ठादीनां ज्ञानिनां कर्मानुपपत्तेश् च । न च लोक-सङ्ग्रहार्थम् तेषां कर्म, लोक-संग्रहस्य स्वतोऽपुरुषार्थतया कैवल्य-हेतुअ-सत्त्व-शुद्धि-द्वारैव पर्यवसानादिति ।
चतुर्विधं कर्म क्रमेणोदाहरति—देहेन्द्रिय-मनोभ्यो बहिर् यानि साधनानि सामान्यम् एवाशुक्लाकृष्णमितिवक्ष्यमाणत्वात् ।
ननु बहिः-साधनासाध्यानाम् अपि वेदोक्ततयाकथं कृष्ण-सङ्करस् तत्राह—तत्र परेति । बहिर् योगोपकरण-सम्पदने पिपीलिकादीनाम् अप्य् अन्ततोऽपरिहार्या पीडा भवतीत्य् अस्ति तत्र पाप-कर्माशयः, देवतादीनाम् आराधनादिनानुग्रहात् पुण्य-कर्माशयस् तु प्रसिद्ध एवेति साङ्कर्यम् इत्य् अर्थः ।
अन्तर्-याग-रूपायां शुक्लायां पापासाङ्कर्ये बीजम् आह—सा हीति । संन्यासिनामिति । संन्यासस् त्यागः, अभिमान-फलयोस् त्यागिनाम् इत्य् अर्थः ।
कार्यम् इत्य् एव यत् कर्म नियतं क्रियतेऽर्जुन ।
सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः ॥[गीता १८.९] इत्यादि-स्मृतेः ।
ननु संन्यासाश्रमि-मात्राणाम् अविद्यादि-क्लेश-सत्त्वे तेषाम् अपि धर्माधर्मोदयात् क्लेश-क्षये च गृहस्थादि-कर्मणाम् अप्य् अशुक्लाकृष्णत्वाच् चेति । संन्यासि-कर्मणाम् अशुक्लाकृष्णत्वे हेतुम् आह—क्षीण-क्लेशानामिति । क्लेश-मूलः कर्माशय इत्य् उक्तादिति भावः । चरम-देहानामितिस्वरूपाक्यानम् । स्वोक्तं संन्यासिनामितिहेतुं विवृणानः सूत्रं व्याचष्टे—तत्रेति । तत्र चतुर्विध-कृत-मध्ये योगिन एवाशुक्लम् अकृष्णं च कर्म, फल-त्यागात्, अहं करोमीत्य् असीकाराच् चेत्य् अर्थः । विहितं हि कामनायां सत्याम् एव स्वर्गादि-फलं ददाति, विहितं निषिद्धं चोभयम् अप्य् उपादानाख्याभिमाने सत्य् एव फलं ददातीति भावः ।
त्यक्त्वा कर्म-फलासङ्गं नित्य-तृप्तो निराश्रयः ।
कर्मण्य् अभिप्रवृत्तोऽपि नैव किंचित् करोति सः ॥[गीता ४.२०]
यस्य नाहंकृतो भावो बुद्धिर् यस्य न लिप्यते ।
हत्वापि स इमान् लोकान् न हन्ति न निबध्यते ॥[गीता १८.१७]
इतिशास्त्रस्य प्रमाणम् ॥७॥
—o)0(o—
(४.८)
ततस्तद्-विपाकानुगुणानाम् एवाभिव्यक्तिर्वासनानाम् ॥८॥
ततैति त्रिविधात् कर्मणः । तद्-विपाकानुगुणानाम् एवेति—यज् जातीयस्य कर्मणो यो विपाकस् तस्यानुगुणा या वासनाः कर्म-विपाकम् अनुशेरते, तासाम् एवाभिव्यक्तिः । न हि दैवं कर्म विपच्यमानं नारक-तिर्यङ्-मनुष्य-वासनाभिव्यक्ति-निमित्तं भवति । किन्तु दैवानुगुणा एवास्य वासना व्यज्यते । नारक-तिर्यङ्-मनुष्येषु चैवं समानश् चर्चः ॥८॥
तत्त्व-वैशारदी : कर्माशयं विविच्य क्लेशाशय-गतिम् आह—ततस् तद्-विपाकानुगुणानाम् एवाभिव्यक्तिर् वासनानाम् ॥ यज् जातीयस्य पुण्य-जातीयस्यापुण्य-जातीयस्य वाकर्मणो यो विपाको दिव्यो वा नारको वा जात्यायुर्-भोगस् तस्य विपाकस्यानुगुणाः । ता एवाह—या वासनाः कर्म-विपाकम् अनुशेरतेऽनुकुर्वन्ति । दिव्य-भोग-जनिता हि दिव्य-कर्म-विपाकानुगुणा वासनाः । न हि मनुष्य-भोग-वासनाभिव्यक्तो दिव्य-कर्म-फलोपभोग-सम्भवः । तस्मात् स्व-विपाकानुगुणा एव वासनाः कर्माभिव्यञ्जनीयैति भाष्यार्थः ॥८॥
योग-वार्तिकम् :ननु त्ष्ठत्व् अयोगिनां कर्म, तथापि वासनाभिव्यक्त्य्-आदिनापि कदाचिन् मोक्षः स्यादिति किम्-अर्थं ध्यानजस्यानाशय-चित्तस्यापेक्षेत्य् अत आह—ततस् तद्-विपाकानुगुणानाम् एवाभिव्यक्तिर् वासनानाम् ॥ ततैति पदं व्याख्याय तद्-विपाकम् अनुशेरतैति । अनुकुर्वन्ति तन्-मुख-निरीक्षकाइति यावत् । विपयमानं फलोन्मुखम् । चर्चो विचारः ॥८॥
—o)0(o—
(४.९)
जाति-देश-काल-व्यवहितानाम् अप्यानन्तर्यं,
स्मृति-संस्कारयोर् एक-रूपत्वात् ॥९॥
वृष-दंश-विपाकोदयः स्व-व्यञ्जकाञ्जनाभिव्यक्तः । स यदि जाति-शतेन वा दूर-देशतया वा कल्प-शतेन वा व्यवहितः पुनश् च स्व-व्यञ्जकाञ्जन एवोदियात् द्राग् इत्य् एव पूर्वणुभूत-वृष-दंश-विपाकाभिसंस्कृता वासना उपादाय व्यज्येत । कस्मात् ? यतो व्यवहितानाम् अप्य् आसां सदृशं कर्माभिव्यञ्जकं निमित्तीभूतम् इत्य् आनन्तर्यम् एव । कुतश् च ? स्मृति-संस्कारयोर् एक-रूपत्वात् । यथानुभवास् तथा संस्काराः । ते च कर्म-वासनानुरूपाः । यथा च वासनास् तथास्मृतिरिति जाति-देश-काल-व्यवहितेभ्यः संस्कारेभ्यः स्मृतिः । स्मृतेश् च पुनः संस्कारा इत्य् एवम् एते स्मृति-संस्काराः कर्माशय-वृत्ति-लाभ-वशाद् व्यज्यन्ते । अतश् च व्यवहितानाम् अपि निमित्त-नैमित्तिक-भावानुच्छेदाद् आनन्तर्यम् एव सिद्धमिति ॥९॥
तत्त्व-वैशारदी : स्याद् एतत् । मनुष्यस्य प्रायणानन्तरम् अधिगत-मार्जार-भावस्यानन्तरतया मनुष्य-वासआया एवाभिव्यक्त्या भवितव्यम् । न खल्व् अस्ति सम्भवो यद् अनन्तर-दिवसानुभूतं न स्मर्यते व्यवहित-दिवसानुभूतं च स्मर्यत इत्य् अत आह—जाति-देश-काल-व्यवहितानाम् अप्य् आनन्तर्यं, स्मृति-संस्कारयोर् एक-रूपत्वात् ॥
भवतु वृष-दंश-वासनाया जात्य्-आदि-व्यवाधः, तथापितस्याःफलत आनन्तर्यम् । वृष-दंश-विपाकेन कर्म्णा तस्या एव स्व-विपाकानुगुणाया अभिव्यक्तौ तत्-स्मरण-समुत्पादा इत्य् आह—वृष-दंश-विपाकोदयःिति । उदेत्य् अस्माद् इत्य् उदयः कर्माशयः । पुनश् च स्व-व्यञ्जकाञ्जन एवोदियात्, अभिव्यञ्ज्येत विपाकारम्भाभिमुखः क्रियेतेत्य् अर्थः । अभिसंस्कार-क्रिया उपादाय गृहीत्वा व्यज्येत । यदि व्यज्येत स्व-विपाकानुगुणा एव वासना गृहीत्वा व्यज्येतेत्य् अर्थः ।
आनन्तर्यम् एव फलतः कारण-द्वारम् उपपाद्य कार्य-द्वारम् उपपादयति—कुतश् च स्मृतीति । एक-रूपतया सादृश्यम् । तद् एवाह—यथाइति ।
नन्व् अनुभव-सरूपाश् चेत् संस्कारास् तथा सत्य् अनुभवा विशरारव इत्य् एतेऽपि विशरारवः कथं चिर-भाविनेऽनुभवाय कल्पेरन्न् इत्य् अत आह—ते च कर्म-वासनानुरूपाइति । यथापूर्वं स्थायि क्षणिक-कर्म-निमित्तम् अपि, एवं क्षणिक-कर्म-निमित्तोऽपि संस्कारः स्थायी । किञ्चिद् भेदाधिष्ठानं च सारूप्यम् । अन्यथाभेदे तत्त्वेन सादृश्यानुपपत्तेर् इत्य् अर्थः । सुगमम् अन्यत् ॥९॥
योग-वार्तिकम् :बहु-जन्म-व्यवहितानाम् अपि वासनानाम् अभिव्यक्तिं कर्म-फलान्यथानुपपत्ति-प्रमाणेन साधयति—जाति-देश-काल-व्यवहितानाम् अप्य् आनन्तर्यं, स्मृति-संस्कारयोर् एक-रूपत्वात् ॥ जात्य्-आद्भिर् व्यवहितानाम् अपि वासनानाम् आनन्तर्यम् अव्यवहितवत् कार्य-कारि भवति, अन्यथाकर्म-फलानुपपत्तेः स्मृति-संस्कारयोर् एक-रूपत्वाद् इत्य् अर्थः । एकरूपत्वम् एकाकारत्वमिति ।
तत्रादौ भाष्य-कारो जात्य्-आदि-व्यवहितत्वम् उदाहरन्न् एवानन्तर्ये कारणं प्रदर्शयति—वृषेत्य्-आदिना । आरम्भ एवाञ्जनस्यापेक्षणाद् उदय-पदम् । तथा च वृष-दंश-विपाकारम्भः । स्व-व्यञ्जकेनैवाभिव्यक्तो वर्तमानावस्थो भवति, न तु पूर्व-देह-त्याग-मात्रेण झटित्य् एवेति नियमोऽतः स यदि जाति-शतादि-व्यवधानेन व्यञ्जकं प्राप्योदियात्, तदा द्राग् इत्य् एव शीघ्रं पूर्व-प्राप्त-वृष-दंश-विपाकेनजानितान् संस्कारान् गृहीत्वैव व्यक्तो भवति, व्यवहितानाम् अपि वासनानां सदृश-कर्म-व्यङ्ग्यत्वाद् इत्य् अत आनन्तरम् एवार्थाद् भवतीत्य् अर्थः । सादृश्यं चात्रैक-जातीय-फलकत्वम् ।
अभ्वियञ्जकम् इत्य् अस्य च विवरणं—निमित्तीभूतमिति । प्रकृतेर् एवोपादानत्वादिति भावः । आनन्तर्यं तत्-कारणं च व्याख्याय तत्र प्रमाणं पृच्छति—कुतैति । कुतः प्रमाणाद् इत्य् अर्थः । सूत्रावयवेनोत्तरम् आह—स्मृति-संस्कारयोरिति ।
ननु मनुष्य-जन्मन्य् एआव्यवहिते वृष-दंश-विपाको भवत्व् अव्यवहितत्वादिति । तत्राह—ते चेति । ते च संस्काराः कर्माशयानुरूपा एवापेक्षिता इत्य् अर्थः ।
नन्व् एवम् अपि मनुष्य-संस्काराद् एव वृष-दंश-विपाक-निर्वाहिका स्मृतिर् अस्तु, तथापिकर्माशयानुरूप-स्मृति-हेतुत्वेन कर्मानुरूपोपपत्तिरिति । तत्राह—यथेति । एक-रूपत्वं प्रासाध्य सूत्र-तात्पर्यार्थं व्याचष्टे— इति जातीति ।
ननु सजातीय-वासनैव चेद् विपाक-निर्वाहिका तर्ह्य् एक-विपाक-काल एव स्मृत्य्-उत्पादेन पूर्व-संस्कार-नाशात् कथं पुनस् तज्-जातीयं विपाकान्तरम् इत्य् आशयेनोक्तं—स्मृतेश् च पुनः संस्काराइति । परमार्थस् तु स्मृतेर् न संस्कार-नाशकत्वम् इत्य् अपि पूर्वोक्तं स्मर्तव्यम् । स्मृति-संस्काराः स्मृति-हेतु-संस्काराः, कर्माशय-वृत्ति-लाभात् कर्माशयोद्बोधादिति॥९॥
—o)0(o—
(४.१०)
तासाम् अनादित्वं चाशिषो नित्यत्वात् ॥१०॥
तासां वासनानाम् आशिषो नित्यत्वाद् अनादित्वम् । येयम् आत्माशीर् "मा न भूवं भूयासम्"१५३इतिसर्वस्य दृश्यते, सा न स्वाभाविकी । कस्मात् ? जात-मात्रस्य जन्तोर् अननुभूत-मरण-धर्मकस्य द्वेषो दुःखानुस्मृति-निमित्तो मरण-त्रासः कथं भवेत् ? न च स्वाभाविकं वस्तु निमित्तम् उपादत्ते । तस्माद् अनादि-वासनानुविद्धम् इदं चित्तं निमित्त-वशात् कश्चिद् एव वासनाः प्रतिलभ्य पुरुषस्य भोगायोपवर्ततैति । घट-प्रासाद-प्रदीप-कल्पं सङ्कोच-विकाशि चित्तं शरीर-परिमाणाकार-मात्रम् इत्य् अपरे प्रतिपन्नाः । तथा चान्तराभावः संसारश् च युक्तैति । वृत्तिर् एवास्य विभुनश् चित्तस्य सङ्कोच-विकाशिनीत्य् आचार्यः । तच् च धर्मादि-निमित्तापेक्षम् । निमित्तं च द्विविधं—बाह्यम् आध्यात्मिकं च । शरीरादि-साधनापेक्षं बाह्यं स्तुति-दानाभिवादनादि । चित्त-मात्राधीनं श्रद्धाद्य् आध्यात्मिकम् । तथा चोक्तं—ये चैते मैत्र्य्-आदयो ध्यायिनां विहारास् ते बाह्य-साधन-निरनुग्रहात्मः प्रकृष्टं धर्मम् अभिनिवर्तयन्ति । तयोर् मानसं बलीयः । कथम् ? ज्ञान-वैराग्ये केनातिशय्येते ? दण्डकारण्यं च चित्त-बल-व्यतिरेकेण कः शरीरेणकर्मणा शून्यं कर्तुम् उत्सहेत, समुद्रम् अगस्त्यवद् वा पिबेत् ? ॥१०॥
तत्त्व-वैशारदी : स्याद् एतत् । व्यज्येरन् पूर्व-पूर्वतर-जन्माभिसंस्कृता वासना यदि पूर्व-पूर्वतर-जन्म-सद्-भावे प्रमाणं स्यात् । तद् एव तु नास्ति । न च जात-मात्रस्य जन्तोर् हर्ष-शोक-दर्शन-मात्रं प्रमाणं भवितुम् अर्हति,पद्मादि-सङ्कोच-विकास-वत् स्वाभाविकत्वेन तद्-उपपत्तेर् इत्य् अत आह—तासाम् अनादित्वं चाशिषो नित्यत्वात् ॥ तासां वासनानाम् अनादित्वं च, न केवलम् आनन्तर्यमिति चार्थःाशिषो नित्यत्वात् । आत्माशिषो वासनानाम् अनादित्वे नित्यत्वाव्यभिचारादिति ।
ननु स्वाभाविकत्वेनापु उपपत्तेर् असिद्धम् आशिषो नित्यत्वम् इत्य् अत आह—एयमिति । नास्तिकः पृच्छति—कस्मात् ? उत्तरं—जात-मात्रस्य जन्तोरिति । अत एवैतस्मिन् जन्मन्य् अनुभूत-मरण-धर्मकस्य मरणम् एव धर्मः, सोऽननुभूतो येन स यथोक्तस् तस्य मातरङ्कात् प्रस्खलतः कम्पमानस्य माङ्गल्य-चक्रादि-लाञ्छितं तद्-उरः-सूत्रम् अतिगाढ-पाणि-ग्राहम् अवलम्ब्यमानस्य बालकस्य कम्प-भेदानुमिता द्वेषानुषक्ते दुःखे या स्मृतिस् तन्-निमित्तो मरण-त्रासः कथं भवेदिति ?
ननूक्त-स्वभावाद् इत्य् अत आह—न च स्वाभाविकं वस्तु निमित्तम् उपादत्ते गृह्णाति स्वोत्पत्तौ । एतद् उक्तं भवति—बलकस्येदृशो दृश्यमानः कम्पो भय-निबन्धन ईदृश-कम्पत्वाद् अस्मद्-आदि-कम्पवत् । बालकस्य भयं द्वेष-दुःख-स्मृति-निमित्तं भयत्वा अस्मद्-आदि-भयवत् । आगामि-प्रत्यवायोत्प्रेक्षा-लक्षणं च भयं न दुःख-स्मृति-मात्राद् भवति, अपि तु यतो बिभेति, तस्य प्रत्यवाय-हेतु-भावम् अनुमाय—सम्प्रत्य् अपि प्रत्यवायं भ्यं च विदध्यादिति । तस्माद् यज् जातीयाद् अनुभूत-चराद् द्वेषानुषक्तं सर्वम् उपपादितं तस्य स्मरणात् तज्-जातीयस्यानुभूयमानस्य तद्-दुःख-हेतुत्वम् अनुमाय, ततो बिभेति । न च बालकेनास्मिन् जन्मनि स्खलनस्यान्यत्र दुःख-हेतुत्वम् अवगतम् । न च तादृशंदुःखम् उपलब्धम्तस्मात् प्राग्-भवीयोऽनुभवः परिशिष्यते । तच् चैतद् एवं पयोगम् आरोहति—जात-मात्रस्य बालस्य स्मृतिः पूर्वानुभव-निबन्धनास्मृतित्वाद् अस्मद्-आदि-स्मृतिवदिति । न च पद्म-सङ्कोच-विकासाव् अपि स्वाभाविकौ । न हि स्वाभाविकं कारणान्तरम् अपेक्षते, वह्नेर् औष्ण्यं प्रत्य् अपि कारणान्तरापेक्षाप्रसङ्गात् । तस्माद् आगन्तुकम् अरुणर-सम्पर्क-मात्रम् एव कमलिनी-विकास-कारणम् । सङ्कोच-कारणं च संस्कारः स्थिति-स्थापकैति । एवं स्मिताद्य्-अनुमित-हर्षादयोऽपि प्राचि भवे हेतवो वेदितव्याः । तद् आस्तां तावत् ।
प्रकृतम् अनुसंहरति—तस्मादिति। निमित्तं लब्ध-विपाक-कालं कर्म । प्रतिलम्भोऽभिव्यक्तिः ।
प्रसङ्गतश् चित्त-परिणाम-विप्रतिपत्तिं निराचिकीर्षुर् विप्रतिपत्तिम् आह—घट-प्रासाद- इति । देह-प्रदेश-वर्तिकार्य-दर्शनाद् देहाद् बहिः-सद्-भावे चित्तस्य न प्रमाणम् अस्ति । न चैतद् अणु-परिमाणं, दीर्घ-शष्कुली-भक्षणादाव् अपर्यायेण ज्ञान-पञ्चकानुत्पाद-प्रसङ्गात्१५४ । न चाननुभूयमान-क्रम-कल्पनायां प्रमाणम् अस्ति । न चैकम् अणु मनो नाना-देशैर् इन्द्रियैर् अपर्यायेण सम्बन्धुम् अर्हति । तत्-पारिशेष्यात् काय-परिमाणंचित्तं घट-प्रासाद-वर्ति-प्रदीपवत् । सङ्कोच-विकासौ पुत्तिका-हस्ति-देहयोर् उत्पयस्येते । शरीर-परिमाणम् एवाकारः परिमाणं यस्येत्य् अपरे प्रतिपन्नाः ।
नन्व् एवं कथम् अस्य क्षेत्र-बीज-संयोगः, न खल्व् एतद् अनाश्रवं मृत-शरीरान् मातृ-पितृ-देह-वर्तिनी लोहित-रेतसी प्राप्नोति, परतन्त्रत्वात् । न हि स्थाण्व्-आदिष्व् आगच्छत्सु तुच्छाया गच्छति । न चागच्छति पदे तद्-आश्रयं चित्तं गच्छति । तथा च न संसार स्याद् इत्य् अत आह—तथा चान्तराभावः संसारश् च युक्तैति । तथा च शरीर-परिमाणत्वे देहान्तर-प्राप्तये पूर्व-देह-त्यागो देहान्तर-प्राप्तिश् चान्तरास्यातिवाधिक-शरीर-संयोगाद् भवतः । तेन खल्व् अयं देहान्तरे सञ्चरेत् । तथा च पुराणं—अङ्गुष्ठ-मात्रं पुरुषं निश्चकर्ष यमो बलात्१५५ [म.भा. ३.२९७.२७] ।
तद् एतद् अमृष्यमाणः स्व-मतम् आह—वृत्तिर् एवास्य विभुनश् चित्तस्य सङ्कोच-विकाशिनीत्य् आचार्यःस्वयम्भूः प्रतिपेदे । इदम् अत्राकूतम्—यद्य् अनाश्रयं चित्तं न देहान्तर-सञ्चारि कथम् एतद्-आतिवादिकम् आश्रयते । तथापि देहान्तर-कल्पनायाम् अनवस्था । न चास्य देहान् निष्कर्षम् आतिवाहिकस्य सम्भवति, निष्कृष्टस्य चेतसस् तत्-सम्बन्धात् । अस्तु तर्हि सूक्ष्म-शरीरम् एवासर्गादाच् च प्रलयान् नियतं चित्तानाम् अधिष्ठानं षाट्कौशिक-शरीरम् अप्य् अवर्ति । तेन हि चित्तमा सत्य-लोकाद् आ चावीचेस् तत्र तत्र शरीरे सञ्चरति । निषकर्षश् चास्योपपन्नः षाट्कौशिकात् कायात् । तत्र हि तद्-अन्तराभावस् तस्य नियतत्वात् । न चास्यापि सद्-भावे प्रमाणम् अस्ति । न खल्व् एतद् अध्यक्ष-गोचरः । न च संसारोऽस्यानुमानं, आचार्य-मतेनाप्य् उपपत्तेः ।
आगमस् तु पुरुषस्य निष्कर्षम् आह । न च चित्तं वा सूक्ष्म-शरीरं वा पुरुषः, किं तु चिति-शक्तिर् अप्रतिसक्रमा । न चास्या निष्कर्षः संभवतीत्य् औपचारिको व्याख्येयः । तथा च चित्तेश् चित्तस्य च तत्र तत्र वृत्त्य्-अभाव एव निष्कर्षार्थः । यच् च शरीरीतिहास-पुराणेषु मरणानन्तरं प्रेत-शरीर-प्राप्तिस् तद्-विमोकश् च स-पिण्डी-करणादिभिर् इत्य् उक्तं तद् अनुजानीमः । आतिवाहिकत्वं तस्य न मृष्यामहे । न चात्रास्ति कश्चिद् आगमः । लब्ध-शरीर एव च यम-पुरुषैर् अपि पाश-बद्धो नीयते न त्व् आतिवाहिक-शरीरः । तस्माहङ्कारिकत्वाचेतसोऽहङ्कारस्यच गगन-मण्डलवत् त्रैलोक्य-व्यापित्वाद् विभुत्वं मनसः । एवं चेद् अस्य वृत्तिर् अत्र विभ्वीति सर्व-ज्ञ-तापात् तरितस्य यत उक्त-वृत्तिर् एवास्येति ।
स्याद् एतत् । चित्त-मात्राधीनाया वृत्तेः सङ्कोच-विकासौ कुतः कादाचित्काव् इत्य् अत आह—तच् च धर्मादि-निमित्तापेक्षम् । वृत्तौ निमित्तं विभजते—निमित्तं च इति । आदि-ग्रहणेनेन्द्रिय-धनादयो गृह्यन्ते । श्रद्धादीति । अत्रापि वीर्य-स्मृत्य्-आदयो गृह्यन्ते । आन्तरत्वे संमतिम् आचार्याणाम् आह—तथा चोक्तम् । विहारो व्यापारः । प्रकृष्टं शुक्लम् । तयोर् बाह्याभ्यन्तरयोर् मध्ये । ज्ञान-वैराग्येतज्-जनितौ धर्मौ केन बाह्य-साध्येन धर्मेणातिशय्येते अभिभूयेते ? ज्ञान-वैराग्यजौ एव धर्मौ तम् अभिभवतः, बीजम् आबाद् अपनयत इत्य् अर्थः । अत्रैअ सुप्रसिद्धम् उदाहरणम् आह—
ददण्डकारण्यमिति॥१०॥
योग-वार्तिकम् :नन्व् एवं सकल-जन्मार्थम् एव वासनास्वीकारेऽनवस्था-प्रसङ्ग इत्य् आशङ्काम् अपाकरोति—तासाम् अनादित्वं चाशिषो नित्यत्वात् ॥
व्याचष्टे—तासामिति । नित्यत्वात् प्रति-जन्म-नियतत्वाद् इत्य् अर्थः । अनादित्वं च प्रवाह—रूपेण बोध्यम् । यद्यप्य् आशीर् नित्यतया तद्-धेतु-वासनया एवानादित्वं सिद्ध्यति, न तु भोग-हेतु-वासनानांतथापि तत्रानस्थायाः प्रामाणिकत्वेनादोषत्वे तद्-दृष्टान्तेनान्यासाम् अप्य् अनादित्वम् अनुमेयम् इत्य् आशयः ।
नन्व् अग्न्य्-औष्ण्यवद् इयम् आशीश् चित्तस्य स्वाभाविक्य् एव भवतु ? तत्राह—येयम् इति । आशीर् नित्यत्वं तद्-वासनानादित्वे तथाशिषोः स्वाभाविकत्वे वा युक्तिं पृच्छति—कस्मात् ?इति । तत्रादाव् आशीर्-नित्यत्वेन वासनानादित्वं यथा सिद्ध्यति तत्राह—जात- इति । जात-मात्रोऽनुमानाद्य्-असमर्थो बालको यदि न पूर्व-जन्मन्य् अननुभूत-मरण-धर्मकः स्यात्, तदा कथं तस्य द्वेष-तत्-कारण-मरण-दुःख-स्मरणाभ्याम् एवोत्पाद्यो मरण-त्रासो यथोक्ताशी-रूपः सम्भवेत् पूर्व-पूर्व-भवीय-मरण-दुःख-वासनां विनेति शेषः ।
अस्वाभाविकत्वे तु युक्तिम् आह—न च इति । नापि स्वाभाविकं वस्तु निमित्त-सापेक्षम् भवति, भय-रूपात् तु यथोकाचीः खड्ग-प्रहार-दर्शनादि-निमित्तम् अपेक्षते, अन्यथानुपपत्तेर् अतो न स्वाभाविकीति शेषः । सूत्र-त्रयार्थं शिष्यावधारणयोपसंहरति—तस्माद् अनादि- इति । निमित्तं विपाकोन्मुखं कर्म, प्रतिलभ्य गृहीत्वा ।
ननु वासनाया अनादित्वं तदा भवेद् यदि तद्-आश्रयं चित्तं नित्यं स्यात् प्रति-शरीरं च भिन्नं न स्यात् । तद् एव तु न, पुं-प्रकृत्य्-अतिरिक्तस्य सर्वस्य कार्यत्वाभ्युपगमात् । अणु-महा-शरीरयोः परिणाम-भेदेन भेदवच् छरीर-तुल्य-परिणाम-चित्तस्यापि भेद-सिद्धेश् चेति ? तत्रादौ साङ्ख्य-परिणामम् आह—घट- इति । प्रति-पुरुषंसर्व-शरीर-साधारणम् एकैकम् एव चित्तं तथापिघट-प्रासाद-रूप-स्वल्प-महाश्रय-भेदेन प्रदीपवत् स्वल्प-महा-शरीर-भेदेन चित्तं स्वल्पं महा-परिमाणं भवति, तथा च नित्यत्वम् अपि तस्य प्रदीप-परमाणुवद् एव द्रष्टव्यम् । तच् च परमाणु-तुल्य-सूक्ष्मावस्थायां प्रकृतेः सत्त्वक-पांशु-विशेषतां प्राप्नोतीति न प्रकृति-पुरुषातिरिक्तस्य नित्यतेति भावः । एअम् अपरे साङ्ख्या आहुर् इत्य् अर्थः ।
ननु बिम्बेन चित्तं कथं नेष्यत इत्य् आकाङ्क्षायाम् आह—तथा चैति । तथा चाणुत्वस्यापि सम्भवात्, पूर्वापर-सर्गयोर् अन्तरा प्रलये भावो लयः सम्भवति, तथा संसारः संसरणम् इहलोक-परलोक-संसारश् च सक्रियत्वात् सम्भवति, विभुत्वे चेद् उभयं न घटतेत्य् अर्थः ।स्व-शास्त्र-सिद्धान्तम् आह—वृत्तिर् एवैति । बिम्बाकारवच् चित्तं प्रतिनियत-पुरुष-भोग्यत्वात्, पुरुष-भेदेनानन्तं च—
चित्ताकाशं चिद्-आकाशम् आकाशं च तृतीयकम् ।
द्वाभ्यां शून्यतमं विद्धि चिद्-आकाशं वरानने ॥[महा.उ. ४.५८]
इत्य् आदिना शास्त्रेषु चित्त-विभुत्वावगमात् । अन्यथा परिच्छिन्नत्वे सतीश्वरोपाधेर् अपि परिच्छिन्नत्वापत्त्येश्वरस्य विभुत्व-श्रुति-स्मृति-युक्ति-विरोधः स्यात् । यथा तु वैशेषिका नैयायिकाश् चाकाशस्य विभु-नित्यस्यापि श्रोत्रादि-रूपेणकार्यतां देहेन सह गमनादिकं चौपाधिकतयाभ्युपगच्छन्ति, तथैव विभु-नित्यानांजीव-चित्तानां मलिन-दर्पणवद् अविद्या-काम-कर्मावृत-प्रकाश-शक्तीनां मन्द-प्रकाश-स्वभावानां वा बाह्य-सत्त्वान्तरोपष्टम्भाज् ज्ञानादि-हेतुः परिणाम-विशेषः सर्गादौ जायते—कार्योपाधिर् अयं जीवः आत्मनोपाधिर् ईश्वरः[शुक-रहस्योपनिषद् ३.१२]इतिश्रुतेः ।
स एव पऋइणामः स्वल्प-महा-शरीर-भेदेन सङ्कोच-विकाश-शीलो भवतीत्य् एवम् आचार्यः पतञ्जलिर् अभ्युपगच्छतीत्य् अर्थः । अत्र च वृत्तिः प्रदीप-शिखावद् द्रव्य-रूपः परिणामैति प्राग् एवोक्तम्, न तु क्षण-द्वयावस्थायी ज्ञानेच्छादि-गुणः । सर्गाद्य्-उत्पन्न-चित्तस्य प्राकृत-प्रलय-पर्यन्तावस्थानस्येह-लोक-गमनादेश् च श्रवणादिभिर् अस्या वृत्तेर् घट-पटाद्य्-आकारतैवात्रेच्छा-ज्ञान-शब्द-वाच्येति । तद् एवं वैशेषिकाणाम् आकाशवद् अस्माकं चित्तम् अपि नित्यानित्योभय-रूपमिति सिद्धम् । विशेषस् त्व् अयं यत् तैर् आकाशस्य श्रोत्र-रूपेण जन्यता कर्म-शष्कुल्य्-औपाधिकीष्यते । अस्माभिस् तु गुणान्तर-सम्भेदाद् यथार्थ एव महद्-आदि-रूपेणप्रकृत्य्-आख्य-सूक्ष्म-चित्तस्य परिणाम इष्यतैति । एतेन विभु-नित्यत्वेप्य् आकाशस्य कार्यत्वम् अपि व्याख्यातम् । शब्दादि-हेतु-परिणाम-विशेष-रूपेणकार्यत्वंश्रुति-स्मृति-सिद्धं विरोधाभावादिति दिक् । ये तु वैशेषिकाश् चित्तम् अण्व् एव सर्वदाभ्युपगच्छन्ति, तन्-मत एकदा पञ्चेन्द्रियैः पञ्च-वृत्त्य्-अनुपपत्तिः, चक्षुः-श्रोत्रादेर् विरुद्ध-देशतयाणोस् तद्-उभय-संबन्धस्य इकदानौचित्याद् इत्य्-आदीनि दूषणान्य् ऊह्यानि । युगपज् ज्ञानानुत्पत्तिर् मनसो लिङ्मिति न्याय-सूत्रे च सदा सर्व-ज्ञत्वाभाव एव मनश् चाक्य-करणे लिङ्गत्वेनोपन्यस्तो न त्व् एकएन्द्रिय-द्वय-वृत्त्य्-अभावः, हेत्व्-असिद्धि-दोषापत्तेरिति ।
वृत्तौ सङ्कोच-विकाशयोः कारणम् आह—तच् चैति । तच् च सङ्कोच-विकाशनं धर्माधर्मादि-रूप-निमित्तापेक्षया भवति, अनादित्वाच् चात्र नान्योन्याश्रयैति ।
ननु धर्मादेर् एअ चेच् चित्त-वृत्ति-विकाशस् तर्हि शरीरादि-धर्मैः स्तुति-दानादिभिर् एव ज्ञानादि-सम्भवे दुष्कर-योगापेक्षा न युक्तेत्य् आशङ्कायाम् आह—निमित्तं च इति । अभिवादनादि इति। आदि-शब्देन निन्दापरस्वादानातिक्रमादीन्य् अधर्म-साधनान्य् अपि गृहीतानि श्रद्धादीनि च । श्रद्धादयः पूर्वं व्याख्याताः श्रद्धा-वीर्य-स्मृति-समाधि-प्रज्ञाः, अद्-विपरीताश् चाश्रद्धादय इत्य् अर्थः ।
ननु श्रद्धादि-मात्रस्य धर्म-निर्वर्तकत्वे किं प्रमाणम् ? तत्राह—तथा चोक्तमिति । विहारा अयत्न-साध्याः । निष्पाद्य-धर्म-निवृत्तौ हेतुः—बाह्य-साधन- इति । बाह्य-साधन-निरपेक्ष-स्वभाव इत्य् अर्थः । तयोरिति । तयोश् च बाह्याध्यात्मिकयोर् मध्ये मानसं कर्म बलीयः, यतो मानसं कर्म ज्ञान-वैराग्य-रूपतया सर्वातिशायीत्य् अर्थः ।
निरतिशयत्वम् उदाहरति—दण्डकारण्यमिति । दण्डक-देशंस् तद्-राजे क्रोधान्विते शुक्रः सप्त-दिन-शिलावृष्ट्या जन-शून्यं चकार । अन्यत् सुगमम् । तथा च श्रद्धादि-साधन-जन्यो योग-धर्मो यथा चित्त-विकास-साधनं तथा बाह्य-धर्मैति योग-धर्मस्यापेक्षेति । तद् उक्तं याज्ञवल्क्येन—
सर्व-धर्मान् परित्यज्य मोक्ष-धर्मं समाश्रयेत् ।
सर्वे धर्माः सदोषाः स्युः पुनर्-आवृत्ति-कारकाः ॥इति ।
इज्याध्ययन-दानानि तपः स्वाध्याय-कर्म च ।
अयं तु परमो धर्मो यद् योगेनात्म-दर्शनम् ॥इति च ।
गीतायाम् अपि—
एषा तेऽभिहिता सांख्ये बुद्धिर् योगे त्व् इमां शृणु ।
बुद्ध्या युक्तो यया पार्थ कर्म-बन्धं प्रहास्यसि ॥[गीता २.३९]इति ।
यतश् च मानसं कर्मैव बलीयोऽत एव जड-भरतादेः समाधि-निष्ठतैव श्रूयते—
सर्व-विज्ञान-सम्पन्नः सर्व-शास्त्रार्थ-तत्त्ववित् ।
अपश्यत् स च मैत्रेय आत्मानं प्रकृतेः परम् ॥[वि.पु. २.१३.३७]
न पपाठ गुरु-प्रोक्तं कृतोपनयनः श्रुतिम् ।
न ददर्श च कर्माणि शास्त्राणि जगृहे न च ॥[वि.पु. २.१३.३९] इत्य् आदिनेति ॥
तद् एवं मोक्ष-योग्यं चित्तं तत्-प्रसङ्गेनेतर-चित्तस्य बन्ध-प्रकारश् च दर्शितः । पुरुषे चित्त-द्वारक-बन्धस्य स्वाभाविकत्वे मोक्षासम्भवात्, कर्म-वासनादि-मूलकत्वे तु तद्-उच्छेदतो मोक्षो घटतैति॥१०॥
—o)0(o—
(४.११)
हेतु-फलाश्रयालम्बनैः संगृहीतत्वाद् एषाम् अभावे तद्-अभावः ॥११॥
हेतुर्धर्मात् सुखम्, अधर्माद् दुःखम् । सुखाद् रागो,दुःखाद् द्वेषः । ततश् च प्रयत्नः । तेन मनसा वाचा कायेन वा परिस्पन्दमानः परम् अनुगृह्णात्य् उपहन्ति वा । ततः पुनर् धर्माधर्मौ सुख-दुःखे, राग-द्वेषाविति प्रवृत्तम् इदं षडरं संसार-चक्रम् ।स्य च प्रतिक्षणम् आवर्तमानस्याविद्या नेत्री, मूलंसर्व-क्लेशानाम् इत्य् एष हेतुः । फलं तु यम् आश्रित्य यस्य प्रत्युत्पन्ना धर्मादेः, न ह्य् अपूर्वोपजनः । मनस् तु साधिकारम् आश्रयो वासनानाम् । न ह्य् अवसिताधिकारे मनसि निराश्रया वासनाः स्थातुम् उत्सहन्ते । यद् अभिमुखीभूतं वस्तु यां वासनां व्यनक्ति, तस्यास् तद्-आलम्बनम् । एवं हेतु-फलाश्रयालम्बनैर् एतैः सङ्गृहीताः सर्वा वासनाः । एषाम् अभावे तत्-संश्रयाणाम् अपि वासनानाम् अभावः ॥११॥
तत्त्व-वैशारदी :थैताश् चित्त-वृत्तयो वासनाश् चानादयश् चेत् कथम् आसाम् उच्छेदः ? न खलु चिति-शक्तिर् अनादिर् उच्छिद्यत इत्य् अत आह—हेतु-फलाश्रयालम्बनैः संगृहीतत्वाद् एषाम् अभावे तद्-अभावः ॥
अनादेर् अपि समुच्छेदो दृष्टः । तद् यथानागतत्वस्येति स्वयभिचारत्वाद् असाधनम् । चिति-शक्तिस् तु विनाश-कारणाभावान् न विनश्यति, न त्व् अनादित्वात् । उक्तं च वासनानाम् अनादीनाम् अपि समुच्छेदे कारणं सूत्रेणेति । अनुग्रहोपघाताव् अपि धर्माधर्मादि-निमित्तम् उपलक्षयतः । तेन सुरापानादयोऽपि संगृहीता भवन्ति ।
नेत्री नायिका । अत्रैव हेतुम् आह—मूलमिति । प्रत्युप्तन्नता वर्तमानता न तु धर्मस्वरूपोत्पादः । अत्रैव हेतुम् आह—न हीति । यद् अभिमुखी-भूतं वस्तु कामिनी-सम्पर्कादि । व्यापकाभावे व्याप्यस्याभावैति सूत्रार्थः ॥११॥
योग-वार्तिकम् :िदानीं मोक्षोपपत्तयेऽनाद्य्-असंख्यानाम् अपि वासनानाम् अत्यन्तोच्छेद उपपाद्यते—हेतु-फलाश्रयालम्बनैः संगृहीतत्वाद् एषाम् अभावे तद्-अभावः ॥
वासना-हेतुः संसार-चक्रम् । तस्यापि हेतुर् अविद्येत्य् अतोऽविद्यैव हेतु-शब्दार्थ इत्य् आह—हेतुर् इत्यादिना इत्य् एष हेतुर् इत्य् अन्तेन । हेतुः संसार-चक्रम् इत्य् अन्वयः । संसार-चक्रस्य ज्ञान-कर्म-वासना-हेतुत्वे हेतु-गर्भ-विशेषणं—प्रवृत्तम् इदं षड् अरमिति । धर्माधर्म-सुख-दुःख-राग-द्वेष-रूपेणार-षट्केणाविद्या-दण्ड-प्रेरितेन भ्रमितं भवतीत्य् अतो वासना-हेतुर् इत्य् अर्थः । कुलाल-चक्रस्य हि दण्डेन शलाका-प्रेरणे कृते वेगाख्यः संस्कारो भवति, येन कियत्-कालं स्वयम् अपि भ्रमति, तद्वद् एव भ्रामितं संसार-चक्रं वासना-हेतुरिति भावः ।
चक्र-प्रवर्तकं दण्डम् आह—अस्य चेति । नेत्री भ्रामिका । तथा च सर्व-वासनोदयेऽविद्यैव मूल-कारणं, अविद्या-क्षये च विहित-निषिद्ध-कर्मणां सत्त्वेऽपि संसार-चक्र-भ्रमणान् न वासनोदय इत्य् आशयः ।
हेतुम् उपसंहरति—इत्य् एष हेतुरिति । अविद्या हेतुर् वासनाया इत्य् अर्थः । फलं त्विति । यं पुरुषार्थम् उद्दिश्य धर्माद्य्-उत्पन्नं तद् एव वासनानाम् अपि फलं, कर्म-वासनयोर् अन्योन्य-सहकारित्वाद् इत्य् अर्थः ।
ननु फलेन कथं कारणस्य नियम-रूपः संग्रहः, कथं वा फलाभावे कारणाभावः ? फलाभाव-कालेऽपि कारणस्य सत्त्वा इत्य् आशङ्कायाम् आह—न ह्य् अपूर्वोपजनैति । अपूर्वस्य सत उपजनो जन्म हि नास्तीत्य् अर्थः । तथा सत्-कार्य-स्वीकारेणानागतावस्थ-फलेन व्याप्तो वर्तमान-हेतुर् भवत्य् एवेति भावः ।
आश्रयम् आह—मनस् त्विति । साधिकारं पुरुषार्थवत् । अत्र प्रलये वासना-सत्त्वस्यानुच्छेदेन वासनाश्रय-मनसो नित्यत्वम् अभिप्रेत्य साधिकारमिति विशेषणम् । अन्यथाधिकार-समाप्तौ मन एव न तिष्ठतीति विशेषणं व्यर्थमिति ।
आलम्बनम् आह—यद् अभिमुखमिति । मोक्ष-काले कामिनी-रूपादीनां राग-वासना-व्यञ्जकानां सत्त्वेऽप्य् आलम्बनाभावोपपादनायाभिमुखमिति विशेषणम् । तथा च सन्निकृष्टं वासना-व्यञ्जकम् अत्रालम्बनम् इत्य् अर्थः ।
हेत्व्-आदीन् व्याख्याय सूत्र-वाक्यार्थम् आह—एवमिति । संगृहीताः व्याप्ताः । अत एषाम् अभावेऽत्यन्तोच्छेदे विदेह-मुक्ति-समये तद्-आश्रयाणां तन्-नियतानां वासनानाम् अत्यन्तोच्छेद इत्य् अर्थः । तथा च वासनानाम् अनादित्वेऽपि मोक्षः सम्भवतीत्य् आशयः ॥११॥
—o)0(o—
(४.१२)
नास्त्य् असतः सम्भवो न चास्ति सतो विनाशैति द्रव्यत्वेन सम्भवत्यः कथं निवर्तिष्यन्ते वासनाः ?इति—
अतीतानागतं स्वरूपतोऽस्त्यध्व-भेदाद् धर्माणाम् ॥१२॥
भविष्यद्-व्यक्तिकम् अनागतम् । अनुभूत-व्यक्तिकम् अतीतम् । स्व-व्यापारोपारूढं वर्तमानम् । त्रयं चैतद् वस्तु ज्ञानस्य ज्ञेयम् । यदि चैतत् स्वरूपतो नाभविष्यन् नेदं निर्विषयं ज्ञानम् उदपत्स्यत । तस्माद् अतीतानागतं स्वरूपतोऽस्तीति । किं च, भोग-भागीयस्य वापवर्ग-भागीयस्य वा कर्मणः फलम् उत्पित्सु यदि निरुपाख्यमिति तद्-उद्देशेन तेन निमित्तेन कुशलानुष्ठानं न युज्येत । सतश् च फलस्य निमित्तं वर्तमानीकरणे समर्थं, नापूर्वोपजनने । सिद्धं निमित्तं नैमित्तिकस्य विशेषानुग्रहणं कुरुते, नापूर्वम् उत्पादयति । धर्मी चानेक-धर्म-स्वभावः । तस्य चाध्व-भेदेन धर्माः प्रत्यवस्थिताः । न च यथा वर्तमानं व्यक्ति-विशेषापन्नं द्रवत्योऽस्त्य् एवम् अतीतम् अनागतं वा । कथं तर्हि ? स्वेनैव व्यङ्ग्येन स्वरूपेणानागतम् अस्ति । स्वेन चानुभूत-व्यक्तित्वेन स्वरूपेणातीतमिति । वर्तमानस्य इवाध्वनः स्वरूप-व्यक्तिरिति। न सा भवत्य् अतीतानागतयोर् अध्वनोः । एकस्य चाध्वनः समये द्वाव् अध्वानौ धर्मि-समन्वागतौ भवत एवेति, नाभूत्वा भावस् त्रयाणाम् अध्वनामिति॥१२॥
तत्त्व-वैशारदी : उत्तरं सूत्रम् अवतारयितुं शङ्कते—नास्तीति । असतैति तु सम्पातायातं निदर्शनाय वा । अतीतानागतं स्वरूपतोऽस्त्य् अध्व-भेदाद् धर्माणाम् ॥ नासताम् उत्पादो न सतां विनाशः । किं तु सताम् एव धर्माणाम् अध्व-भेद-परिणाम एवोदयव्ययाविति सूत्रार्थः ।
अनुभूता प्राप्ता येन व्यक्तिस् तत् तथा, सम्प्रति व्यक्तिर् नास्तीति यावत् । इतश् च त्रैकाल्येऽपि धर्मः सन्न् इत्य् आह—यदि चेति । न ह्य् असज् ज्ञान-विषयः सम्भवतीति निरूपाख्यत्वात् । विषयावभासं हि विज्ञानं नासति विषये भवति । त्रैकाल्य-विषयं च विज्ञानं योगिनाम् अस्मद्-आदीनां च व्ज्ञानम् असति विषये नोत्पन्नं स्यात् । उत्पद्यते च । तस्माद् अतातानागते सान्य-रूपेण समनुगते स्तैति । एवम् अनुभवतो ज्ञानं विषय-सत्त्वे हेतुर् उक्तम् । उद्देश्यत्वाद् अप्य् अनागतस्य विषयत्वेन सत्त्वम् एवेत्य् आह—किं च भोग-भागीयस्येति । कुशलो निपुणः । अनुष्ठेयेऽपि च यद् यन् निमित्तं तत् सर्वं नैमित्तिके सत्य् एव विशेषम् आधत्ते । यथा अवेदाध्यायादयः । न खल्व् एते काण्डलावादयोऽसन्तम् उत्पादयन्ति । सत एव तु तत्-प्राप्ति-विकारो कुर्वन्ति । एवं कुलालादयोऽपि सत एव घटस्य वर्तमानी-भाव-हेतव इत्य् आह—सतश् चेति ।
यदि तु वर्तमानत्वाभावाद् अतीतानागतयोर् असत्त्वं हन्त भो वर्तमानस्याप्य् अभावोऽतीतानागतत्वाभावात्, अध्व-धर्म्य-विशिष्टतया तु सत्त्वं त्रयाणाम् अप्य् अविशिष्टम् इत्य् अभिप्रायेणाह—धर्मी चेति । प्रत्येकम् अवस्थानं प्रत्यवस्थितिरिति । द्रव्यतैति द्रव्ये धर्मिणि । सार्व-विभक्तिकस् तसिः । यद्य् अतीतानागतावतीतानागतत्वेन स्तस् तर्हि वर्तमान-समये तत्त्वाभावान् न स्याताम् इत्य् अत आह—एकस्य चेति । प्रकृतम् उपसंहरति— इति नाभूत्वा भावैति ॥१२॥
योग-वार्तिकम् :सत्-कार्याभ्युपगमाद् वासनानाम् अत्यन्तोच्छेदो न सम्भवत्टि शङ्कयोत्तर-सूत्रम् अवतारयति—नास्तीति । द्रव्यत्वेन सम्भवन्त्यः वस्तुत्वेन तिष्ठन्त्यः—अतीतानागतं स्वरूपतोऽस्त्य् अध्व-भेदाद् धर्माणाम् ॥
भवेद् अप्य् अयं दोषो यदि स्वरूपापायो वासनानाम् अस्माभिर् उच्यते,[न त्व् एतद् अस्ति,] किन्त्व् अत्यन्तातीतता-मात्रं यतोऽतीतानागतं वस्तु स्वरूपतोऽस्ति ।
नन्व् एकदा विरुध्यमानानां धर्माणां कथम् एकत्र सत्ता घटेत ? तत्राह—अध्व-भेदाद् धर्माणामिति । भिन्नाध्वकत्वाद् अविरोध इत्य् अर्थः । वर्तमान-लक्षणानाम् एअ धर्माणाम् एकदा विरोधैति भावः ।
अतीतानागतयोः स्वरूपानपाये प्रमाणं दर्शयति भाष्य-कारः—भविष्यदिति । भविष्यन्ती व्यक्तिर् अभिव्यक्तिर् यस्य तत् तथा । त्रयमिति । त्रयम् अप्य् एतद् वस्तु स्वरूप-सद्, यतो योगिनां प्रत्यक्ष-ज्ञानस्य ज्ञेयं विषयः । अत्र तर्कम् आह—यदि चेति । नेदमिति । शश-शृङ्गादीनां ज्ञानादर्शनादिति भावः । तथा चोक्तं ब्रह्म-मीमांसा-सूत्रेण—नाभाव उपलब्धेः[वे.सू. २.२.२८]इति ।
ननु शुक्ति-रजतादिवद् बुद्धि-परिणाम-विशेष एव योगज-धर्मादि-जन्योऽतीतादि-स्थले साक्षि-ज्ञान-विषयोऽस्त्विति चेत् ? योगिना पूर्वानुभूतातीतादेः कालान्तरेऽपि प्रत्यभिज्ञायमानत्वात्, बाधकाभावेऽपि वस्तूनां बुद्धि-मात्रत्वे वर्तमानावस्थ-वस्तूनाम् अपि बुद्धि-मात्रता-प्रसङ्गाच् च । न चानुपलम्भो बाधकः, योगि-प्रत्यक्ष-सिद्धस्य सौक्ष्म्येणानुपलम्भोपपत्तेः । तथा च साङ्ख्य-सूत्रं सौक्ष्म्यात् तद्-अनुपलब्धिःिति ।
नन्व् अतीताद्य्-अवस्थायां नास्तीति प्रत्ययो बाधकैति ? मैवम् । योगि-प्रत्यक्षेण लौकिक-प्रत्यक्षस्य बाधनात्, इदानीं घटोऽतीत इत्यादि प्रतीति-बलाद् नास्तीति प्रत्ययस्यातीततादि-विषयकत्वाच् चेति । अतीतानागत-सत्त्व-स्वीकारे बीजान्तरम् आह—किं चेति । भोग-भागीयस्य भोग-साधनस्य , निरुपाख्यम् असत् । तद्-उद्देशेनेत्य् अस्य विवरणं—तेन निमित्तेनेति । कुशलो निपुणः । कुशलो योगी अनागतं साक्षाकृत्य तद् वर्तमानत्वाय यतते, यथार्जुनः कृष्ण-शरीरे कालात्मके भीष्मादि-प्रवेशं भाविनं दृष्ट्वा युद्धे प्रवृत्तैति ।
नन्व् एवं कारण-व्यापारो विफलः, कार्यस्य नित्यत्वाद् इत्य् आशङ्कां परिहरन्न् एव परमते पूषणान्तरम् आह—सतश् चेति । तथा चाव्यक्तावस्थया सतो वर्तमानतायां कारण-व्यापार-साफल्यम् । दृष्टं च कारण-व्यापारेण सद् एवाभिव्यज्यतैति । यथा पाषाणेषु सताम् एव प्रतिमा-पट्टादीनां लौकिक-व्यापारेणाभिव्यक्त-मात्रमिति । तद् उक्तं वासिष्ठे—
सुषुप्तावस्थया चक्र-पद्म-रेखा शिलोदरे ।
यथा स्थिता चित्तेर् अन्तस् तथेयं जगदावली ॥इति ।
चैतन्ये च जगदावली प्रकृति-पुरुषयोस् तप्तायः-पिण्डवद् अविवेकेन प्रकृति-द्वारोपासनार्था श्रुति-स्मृत्योर् उच्यते, सर्व-कर्तृत्व-सत्य-सङ्कल्पत्वादिवत् । अथवा गगने वायोर् इवाधारत्वम् असङ्गेऽनेनैव चैतन्ये जगत उच्यतैति ।
ननु तथापि कारण-नित्यत्वेनातीताद्य्-अवस्थाद् अपि कारणात् सदैव कार्याभिव्यक्तिः स्यात् ? तत्राह—सिद्धमिति । सिद्धं वर्तमानम् एव निमित्तम् इत्यादिर् अर्थः । सतः कार्यस्योत्पत्तौ कारण-वैफल्य-शङ्का-निरासायोक्तं विशेषानुग्रहणमिति । परमतं निषेधति—नापूर्वेति । अतो नापूर्वम् उत्पादयतीत्य् अर्थः । अपूर्वोत्पादने च शश-शृङ्गाद्य् अपि कारण-व्यापाराद् उत्पद्येत, उत्पत्तेः प्राक् शश-शृङ्गादिभ्यो घटादीनां वैलक्षण्याभावादिति । अधिकं तु प्राग् उक्तम् ।
अध्व-भेदादिति सूत्रावयवं व्याचष्टे—धर्मी चानेकेति । अतो न विरोध इत्य् आह—न चेति । अभिव्यक्ति-रूपेण विशेषणेनैव धर्माणां विरोधो न स्वरूपतैति वाक्यार्थः । द्रव्यतः स्व-क्रिया-कारित्वेन । पृच्छति—कथं तर्हीति । उत्तरं—स्वेनैवेति । व्यङ्ग्येन भावि-व्यक्तिकेन । वर्तमानस्य इवेत्य्-आदिर् अध्वनोर् इत्य् अन्त उपसंहारः । षष्ठी चात्र सप्तम्य्-अर्थे ।
ननु तथाप्य् एकाध्व-समयेऽपराध्वाभावाद् अध्वन्य् एव सत्-कार्य-हानिर् इत्य् आशङ्कायाम् आह—एकस्य चाध्वनैति । एतच् च एतेनभूतेन्द्रियेषु [३.१३] इत्यादि-सूत्रे सम्यग् उपपादितम् अस्माभिरिति । अभूत्वा अस्थित्वा । त्रयाणाम् अध्वनां लक्षणानामिति ॥१२॥
—o)0(o—
(४.१३)
ते व्यक्त-सूक्ष्मा गुणात्मानः ॥१३॥
ते खल्व् अमी त्र्य्-अध्वानो धर्मा वर्तमाना व्यकात्मानोऽतीतान् आगताः सूक्ष्मात्मानः । सर्वम् इदंगुणानां सन्निवेश-विशेष-मात्रमितिपरमार्थतो गुणात्मानः । तथा च शास्त्रानुशासनम्—
गुणानां परमंरूपं न दृष्टि-पथम् ऋच्छति ।
यत् तु दृष्टि-पथं प्राप्तं तन् मायेव सुतुच्छकम् ॥इति ॥१३॥
तत्त्व-वैशारदी : स्याद् एतत्, अयं तु नाना-प्रकारो धर्मिधर्मावस्था-परिणाम-रूपो विश्व-भेद-प्रपञ्चो न प्रधानाद् एकस्माद् भवितुम् अर्हति, न ह्य् अविलक्षणात् कारणात् कार्य-भेद-सम्भव इत्य् अत आह—ते व्यक्त-सूक्ष्मा गुणात्मानः ॥
ते त्र्य्-अध्वनो धर्मा व्यकाश् च सूक्ष्माश् च गुणात्मानो न त्रैगुण्यातिरिक्तम् एषाम् अस्ति कारणम्, वैचित्र्यं तु तद्-आहैतानादि-क्लेश-वासनानुगताद् वैचित्र्यात् । यथोक्तं वायु-पुराणे—वैश्वरूप्यात् प्रधानस्य परिणामोऽयम् अद्भुतःिति ।
व्यक्तानां पृथिव्य्-आदीनाम् एकादशेन्द्रियाणां च वर्तमानानाम् अतीतानागतत्वं षड् अविशेषा यथा-योगं भवन्ति । सम्प्रति विश्वस्य नित्यानित्य-रूपे विभजन् नित्य-रूपम् आह—सर्वम् इदमितिदृश्यमानम् । संनिवेशः संस्थान-भेदवान् परिणाम इत्य् अर्थः । अत्रैव षष्टि-तन्त्र-शास्त्रस्यानुशिष्टिः । मायेव न तु माया । सुतुच्छकं विनाशि । यथा हि मायाह्नायैवान्यथाभवत्य् एवं विकारा अप्य् आविर्भाव-तिरोभाव-धर्माणः प्रतिक्षणम् अन्यथा । प्रकृतिर् नित्यतयामाया-विधर्मिणी परमार्थेति ॥१३॥
योग-वार्तिकम् :तद् एवं मोक्ष-योग्यं चित्तं तद् अन्य-चित्तानां बन्ध-प्रकार उक्तस् तस्य च मोक्षानुपपत्तिः परिहृता । इतः परं मोक्ष-कारणस्य विवेक-ज्ञानाख्य-सम्यग्-ज्ञानस्य विषयो लक्षणादिकं चातिविस्तरेण प्रतिपादनीयं विशेष-दर्शिन इत्य् आदि-सूत्र-त्रय-पर्यन्तैः सूत्रैः । तत्र चादौ सद्-असत्त्व-वैधर्म्येण कार्य-कारणयोर् विवेकं सम्यग्-ज्ञान-विषयैक-देशं दर्शयति—ते व्यक्त-सूक्ष्मा गुणात्मानः ॥
तेधर्मा यद्यपि काल-भेदेन व्यक्ताः सूक्ष्मा वा भवन्तु, सर्व एव गुणात्मनः सत्त्वादो-गुण-मात्र-स्वरूपा एव भवन्ति, सदा वर्तमानत्वेनगुणा एव तद्-अपेक्षया सत्या इत्य् अर्थः ।
व्याचष्टे—ते खल्विति । अत्र सूक्ष्मात्मान इत्य् अस्यानन्तरं षड्-अविशेषाइति पाठः क्वचित् तिष्ठति, स तु प्रामादिकत्वाद् उपेक्षणीयः । सर्व-विकाराणाम् एव गुणात्मकत्वस्य वक्तव्यतया षड्-अविशेष-मात्र-निर्देशानौचित्यादिति । अयम् अर्थः—ते धर्मा व्यक्त-स्वरूपा सूष्मत्व-रूपाश् च महद्-आदि-घट-पटान्ताः परमार्थतो गुणात्मानो गुण-रूपेणैव सन्तोन तु स्वरूपेण, यतः सर्वम् इदंधर्म-जातं सत्त्वादीनां संनिवेशः संयोगस् तद्-विशेष-मात्रं तद्-विलये विलयात् तद्-वर्तमानतायां वर्तमानत्वान् नियतमिति । तद् उक्तं—आद्य्-अन्तयोर् यद् असद् अस्ति, तद् एव मध्यैति । त्रिगुणात्मकमायैव जगत्-परमार्थैति च । अत्र पारमार्थिकत्वं चानित्यता-मात्र-रूपासत्त्वं, अन्यथा सृष्ट्य्-आदि-प्रतिपादक-सूत्रादि-विरोधात् । अत्रावयव-संयोगातिरिक्तो धर्मो नास्तीति न भाष्यार्थः, अवयवि-द्रवस्यातिरिक्तस्य स्थानंस्थाने व्यवस्थापितत्वादिति ।
उक्तार्थे शास्त्रं प्रमाणयति—तथा चेति । परमं पारमार्थिकं नित्यमिति यावत् । मायेव लौकिक-मायावत् क्षण-भङ्गुरं, अतः सुतुच्छकम् अत्यन्त-तुच्छम् अल्प-सारं स्थिरांशाभावादिति । अत्र सु-शब्देन परिणामितयागुणानाम् अपि तुच्छत्वं सूचितम् । गुणा एव परिणामितया कूटस्थ-नित्यापेक्षया तुच्छाः । गुण-कार्यंतु दृश्यमानं गुणापेक्षयापि तुच्छम् । अतः सुतुच्छमिति । यद्यपि माया-शब्दो मिथ्या-वस्तूनां कारणे मुख्यः, मायां तु प्रकृतिं विद्यादितिश्रुतेः, विश्वस्य बीजं परमासि मायाइतिस्मृतेश् च । मायात्वं हि मृषा-विकारेण व्यामोहकत्वात् । तच् च प्रकृताव् एव मुख्यम्—
प्रकृत्या सर्वम् एवेदं जगद् अन्धीकृतं विभोः ।
जगन्-मोहात्मकं विद्धि अव्यक्तं व्यक्त-संज्ञकम् ॥
इति भारतात् । तथापिकार्य-कारणाभेदान् माया-शब्दः कार्येऽपि प्रयुक्तः—दैवी ह्य् एषा गुणमयी मम माया दुरत्यया[गीता ७.१४] इत्य्-आदाव् इवेति मन्तव्यम् ।
नन्व् एवं प्रपञ्चोऽपिप्रकृत्य्-आख्य-मूल-माया-कार्यत्वान् मायैव, अन्यथा
मम योनिर् महद् ब्रह्मतस्मिन् गर्भं दधाम्य् अहम् ।
मूल-मायाभिधान तत् सा शक्तिर् मयि तिष्ठति ॥
इति कौर्मादिषु मूलेऽतिविशेषण-वैयर्थ्यात् । तत् कथम् इव शब्दः प्रयुक्तः ?इति ।
मैवं, लौकिकस्येन्द्र-जालादेर् एवात्र दृष्टान्तत्वेनेव-शब्दौचित्यादिति । प्रपञ्चस्य मूल-कारण-मात्रत्वे श्रुतिर् अपि वाचारम्भणं विकारो नाम-धेयं मृत्तिकेत्य् एव सत्यम् इत्यादिर् उदाहर्तव्या, तथा विष्णु-पुराणम् अपि—
शिविका दारु-संघातो रचना स्थिति-संस्थितिः ।
अन्विष्यतां नृप-श्रेष्ठ तद्-भेदे शिविका त्वया ॥
एवं छत्र-शलाकादि पृथग्-भावो विमृश्यताम् ।
क्व जातं छत्रम् इत्य् एष न्यायस् त्वयि तथा मयि ॥[वि.पु. २.१३.६५-६६]१५६ इत्य्-आदेः ।
एवं-विधेषु च वाक्येषु विकाराणाम् अनित्यतयैव विवेक-वैराग्ययोस् तात्पर्यं न तु कार्य-खण्डने, कार्य-कारण-भाव-प्रतिपादक-वाक्य-विरोधात् । न च तद्-अनुवाद-मात्रम्, महद्-आदि-सृष्टेर् लौकिक-प्रमाणानधिगतत्वेन अनुवादासम्भवात् । प्रमाणान्तर-सत्त्वे च तेन सहापि विरोधस्यान्यायत्वात् । किं च, सर्व-विकारस्य मिथ्यात्वे प्रमाणस्यापि मिथ्यात्व-निश्चयेन श्रुति-प्रमाणवधृतेऽपिकारणत्वाभिमत-ब्रह्म पुनः संशयः स्यात् प्रामाण्य-संशयादितार्थ-संशयादिवदिति दिक् ॥१३॥
—o)0(o—
(४.१४)
यदा तु सर्वे गुणाः, कथम् एकः शब्द एकम् इन्द्रियमिति ?
परिणामैकत्वाद् वस्तु-तत्त्वम् ॥१४॥
प्रख्या-क्रिया-स्थिति-शीलानां गुणानां ग्रहणात्मकानां करण-भावेनैकः परिणामः श्रोत्रम् इन्द्रियम्, ग्राह्यात्मकानां शब्द-भावेनैकः परिणामः शब्दो विषयैति । शब्दादीनां मूर्ति-समान-जातीयानाम् एकः परिणामः पृथिवी-परमाणुस् तन्मात्रावयवः । तेषां चैकः परिणामः पृथिवी गौर् वृक्षः पर्वत इत्य् एवम् -आदिर् भूतान्तरेष्व् अपि स्नेहौष्ण्य-प्रणामित्वावकाश-दानान्य् उपादाय सामान्यम् एक-विकारारम्भः समाधेयः ।
नास्त्य् अर्थो विज्ञान-विसहचरः, अस्ति तु ज्ञानम् अर्थ-विसहचरः स्वप्नादौ कल्पितमिति अनया दिशा ये वस्तु-स्वरूपम् अपह्नुवते, ज्ञान-परिकल्पना-मात्रं वस्तु स्वप्न-विषयोपमं न परमार्थतोऽस्तीति य आहुः, ते तथेति प्रत्युपस्थितम् इदं स्व-माहात्म्येन वस्तु कथम् अप्रमाणात्मकेन विकल्प-ज्ञान-बलेन वस्तु-स्वरूपम् उत्सृज्य तद् एवापलपन्तः श्रद्धेय-वचनाः स्युः ? ॥१४॥
तत्त्व-वैशारदी : भवतु त्रैगुण्यस्येत्थं परिणाम-वैचित्र्यं, एकस् तु परिणामः पृथिवीति वा । तोयमिति वा कुतः ? नानात्मन एकत्व-विरोधाद् इत्य् आशङ्क्य सूत्रम् अवतारयति—यदा तु सर्वे गुणाइति ।
परिणामैकत्वाद् वस्तु-तत्त्वम् ॥ बहूनाम् अप्य् एकः परिणामो दृष्टः । तद् यथा गवाश्व-महिष-मातङ्गानां रुम-निक्षिप्तानाम् एको लवणत्व-जातीय-लक्षणः परिणामो वर्ति-तैलानलानां च प्रदीपैति । एवं बहुत्वेऽपिगुणानां परिणामैकत्वम् । ततस् तन्-मात्र-भूत-भौतिकानां प्रत्येकं तत्त्वम् एकत्वम् । ग्रहणात्मकानां सत्त्व-प्रधानतयाप्रकाशात्मनाम् अहङ्कारावान्तर-कार्याणां करण-भावेनैकः परिणामः श्रोत्रम् इन्द्रियम् । तेषाम् एव गुणानां तमः-प्रधानतया जडत्वेन ग्राह्यात्मकानांशब्द-तन्मात्र-भावेनैकः परिणामः शब्दो विषयः । शब्दैतिशब्द-तन्मात्रम् विषयैति जडत्वम् आह, न तु तन्मात्रस्य श्रोत्र-विषयत्व-सम्भवैति । शेषं सुगमम् ।
अत् ह विज्ञान-वादिनं वेनाशिकम् उत्थापयति—नास्त्य् अर्थो विज्ञान-विसहचरःिति । यदि हि भूत-भौतिकानि विज्ञान-मात्राद् भिन्नानि भवेयुस् ततस् तद्-उत्पत्ति-कारणम् ईदृशं प्रधानं कल्प्येत, न तु तानि विज्ञानातिरिक्तानि सन्ति परमार्थतः । तत् कथं प्रधान-कल्पनम् ? कथं च ग्रहणानाम् इन्द्रियाणाम् अहङ्कार-विकाराणां कल्पनेति ? तथा हि—जडस्यार्थस्य स्वयम् अप्रकाशत्वान् नास्त्य् अर्थो विज्ञान-विसहचरः । साहचर्यं सम्बन्धः, तद्-अभावो विसहचरत्वम् । विर् अभावार्थः । विज्ञानासम्बन्धी नास्तीति व्यवहार-योग्य इत्य् अर्थः । अस्ति तु ज्ञानम् अर्थ-विसहचरम् । तस्य स्वयं-प्रकाशत्वेन स्व-गोचरास्तिता-व्यवहारे कर्तव्ये जडम् अर्थं प्रत्यपेक्षाभावात् । तद् अनेन वेद्यत्व-सहोपलम्भ-नियमौ सूचितौ विज्ञान-वादिना ।
तौ चैवं प्रयोगम् आरोहतः—यद् वेद्यतेयेन वेदनेन तत्त्वतो न भिद्यते, यथा ज्ञानस्यात्मा । वेद्यन्ते च भूत-भौतिकानीति विरुद्ध-व्याप्तोपलब्धिः । निषेध्य-भेद-विरुद्धेन व्याप्तं वेद्यत्वंदृश्यमानं स्व-व्यापकम् अभेदम् उपस्थापयत् तद्-विरुद्धं भेदं प्रतिक्षिपतीति । तथा यद् येन नियत-सहोपलम्भं तत् ततो न भिद्यते । यथैकस्माच् चन्द्राद् द्वितीयश् चन्द्रः । नियत-सहोपलम्भश् चार्थो ज्ञानेनेति व्यापक-विरुद्धोपलब्धिः । निषेध्य-भेद-व्यापकानियम-विरुद्धो नियमोऽनियमं निवर्तयंस् तद्-व्याप्तं भेदं प्रतिक्षिपतीति ।
स्याद् एतत् । अर्थश् चेन् न भिन्नो ज्ञानात्मकं भिन्नवत् प्रतिभासत इत्य् अत आह—कल्पितमिति । यथाहुर् वैनाशिकाः—
सहोपलम्भ-नियमाद् अभेदो नील-तद्-धियोः ।
भेदश् च भ्रान्ति-विज्ञानैर् दृश्येतेन्दाव् इवोदये ॥१५७ इति ।
कल्पितत्वं विशदयति—ज्ञान-परिकल्पनेति । निराकरोति—तैति । ते कथं श्रद्धेय-वचनाः स्युरिति सम्बन्धः । प्रतिज्ञानम् उपस्थितं प्रत्युपस्थितम् । कथम् ? तथेति । यथा यथावभासत इदं-कारास्पदत्वेन तथातथा स्वयम् उपस्थितं न तु कल्पनोपकल्पितं विज्ञान-विषयतापन्नम् । स्व-माहात्म्येनेति विज्ञान-कारणत्वम् अर्थस्य दर्शयति । यस्माद् अर्थेन स्वकीया ग्राह्य-शक्त्या विज्ञानम् अजनि तस्माद् अर्थस्य ग्राहकम् । तद् एवं भूतं वस्तु कथम् अप्रमाणात्मकेन विकल्प-विज्ञान-बलेनेति । विकल्पस्याप्रामाणिकत्वात् तद्-बलस्यापि तद्-आत्मनोऽप्रमाणात्मकत्वम् । तेन वस्तु-स्वरूप-मृत्-सृज्योपप्लुतं कृत्वा । उपगृह्येति काचित्कः पाठः । तत्रापि स एवार्थः ।
तद् एवापलपन्तः श्रद्धातव्य-वचनाः स्युरिति । इदम् अत्राकूतम्—सहोपलम्भ-नियमश् च वेद्यत्वं च हेतू सन्दिग्ध-व्यतिरेकतयानैकान्तिकौ । तथा हि—ज्ञानाकारस्य भूत-भौतिकादेर् यद् एतद् बाह्यत्वं स्थूलत्वं च भासेते, न ते ज्ञाने सम्भवतः । तथा हि—नाना-देश-व्याइन्ता स्थौल्यम् विच्छिन्न-देशता च बाह्यत्वम् । न चैक-विज्ञानस्य नाना-देश-व्यापिता विच्छिन्न-देशता चोपपद्यते, तद्-देशत्वा-तद्-देशत्व-लक्षण-विरुद्ध-धर्म-संसर्गस्य इकत्रासम्भवात् । सम्भवे वा त्रैलोक्यस्य इकत्व-प्रसङ्गात् ।
अत एवास्तु विज्ञान-भेदैति चेत् ? हन्त भोः ! परम-सूक्ष्म-गोचराणां प्रत्ययानां परस्पर-वार्तानभिज्ञानां स्व-गोचर-मात्र-जागरूकाणां कुतस्त्योऽयं स्थूलावभासः ? न च विकल्प-गोचरोऽभिलापः, संसर्गाभावाद् विशद-प्रतिभासत्वाच् च । न च स्थूलम् आलोचितं यतस् तद्-उपाधिकस्य विशदताभवेत् पृष्ठ-भाविनः । न चाविकल्पवद् विकल्पोऽपि स्वाकार-मात्र-गोचरः, तस्य चास्थूलत्वान् न स्थूल-गोचरो भवितुम् अर्हति । तस्माद् बाह्ये च प्रत्यये स्थूलस्य बाह्य् अस्य चासम्भवाद् अलीकम् एव तद् आस्थातव्यम् ।
न चालीकं विज्ञानाद् अभिन्नम् । विज्ञानस्य तद्वत् तुच्छत्व-प्रसङ्गात् । तथा च वेद्यत्वस्याभेद-व्याप्यत्वाभावात् कुतो भेद-प्रतिपक्षतम् । सहोपलम्भ-नियमश् च सद्-असतोर् इव विज्ञानस्य उल्पयोः सतोर् अपि स्वभावाद् वा कुतश्चित् प्रतिबन्धाद् वोपपत्स्यते । तस्माद् अनैकान्तिकत्वाद् एतौ हेत्व्-आभासौ विकल्प-मात्रम् एव बाह्याभावे प्रसुवाते ।
न च प्रत्यक्ष-माहात्म्यं विकल्प-मात्रेणापोह्यते । तस्मात् साधूक्तं कथम् अप्रमाणात्मकेन विकल्प-ज्ञान-बलेनेति । एतेन प्रत्ययत्वम् अपि स्वप्नादि-प्रत्यय-दृष्टान्तेन निरालम्बनत्व-साधनम् अपास्तम् । प्रमेय-विकल्पस् त्व् अवयवि-व्यवस्थापनेन प्रयुक्तः । विस्तरस् तु न्याय-कणिकायाम् अनुसरणीयैति तद् इह कृतं विस्तरेणेति ॥१४॥
योग-वार्तिकम् :सूत्रान्तरम् अवतारयति—यदेति । यदि सर्वे विकारा अनेक-गुण-मात्राः, तदा कथम् एकंशब्द-तन्मात्रम् एकं चक्षुरिति लोक-शास्त्रयोर् व्यवहारैति शङ्का-वाक्यार्थः । तत्रसिद्धान्त-सूत्रम्—परिणामैकत्वाद् वस्तु-तत्त्वम् ॥
परिणामस्य इकत्वाद् वस्तूनांगुणानां तत्त्वम् एकत्वमिति योजना । परमार्थतो नानात्वेऽपि व्यावहारिकेणानित्येन परिणाम-रूपेण वस्तूनांगुणानाम् एकत्व-व्यवहार इत्य् अर्थः । अत एवश्रुतिर् व्यावहारिकस्याग्न्य्-आद्य्-अवयविन एकस्यावयव-विभागे सति नानात्वम् एव पारमार्थिकम् उक्तवती—यद् अग्ने रोहितं रूपं तेजसस् तद् रूपं यच् छुक्लं तद् अपां यत् कृष्णं तद् अन्नस्यापागाद् अग्नेर् अग्नित्वं वाचारम्भणं विकारो नाम-धेयं त्रीणि रूपाणीत्य् एव सत्यम्[छा.उ. ६.४.१]इति ।
परिणामस्य इकत्वे भाष्य-कारो दर्शयति—प्रख्येति । ग्रहणात्मकानां सात्त्विकान्तः-करण-रूपेण परिणतानां बाह्य-करण-भावेन श्रोत्रम् इत्य् एकः परिणाम इत्य् अर्थः । तेन महद्-अहङ्कार-रूपेणापि परिणामैकत्व-कथनान् न्यूनता ।
अत्र श्रोत्र-शब्देनान्यान्य् अपि ज्ञानेन्द्रियाण्य् उपलक्षणीयानि । ग्राह्यात्मकानामिति तामसान्तःकरण-रूपेण परिणतानाम् इत्य् अर्थः । अत्र शब्दैति शब्द-तन्मात्र-रूपं द्रव्य्मात्र् मूर्ति-समान-जातीयानाम् इत्य् आगामि-भाष्येण द्रव्यत्व-लाभात् । एतद् अपि रसादि-तन्मात्राणाम् उपलक्षणम् । एवं कर्मात्मकानां राजसान्तः-करण-रूपेण परिणतानां कारणान्तर्-भावेनैकैकः परिणामो वागादीनीन्द्रम् इत्य् अपि बोध्यम् । अतः परं स्थूल-भूत-रूपेणैकं परिणामं दर्शयति—शब्दादीनामिति । मूर्तिः काठिन्यं पृथिवीत्वमिति यावत् । मूर्त्या सजातीयानां शब्दादि-तन्मात्राणाम् एकः परिणामः पृथिवी-परमाणुः स्थूल-पृथिव्याः परम-सूक्ष्मावस्थेत्य् अर्थः । इदं चाग्रे प्रतिपादयिष्यामः । अयम् एव सूक्ष्म-शब्देन साङ्ख्ये प्रोक्तः—सूक्ष्मा माता-पितृ-जाः सह प्रभूतैस् त्रिधा विशेषाः स्युः[सां.का. ३९] इत्य् अत्र ॥
अयं च परमाणुर् वैशेषिकैस् त्रसरेणु-शब्देनोच्यते, अस्माभिस् तु प्रत्यक्ष-पृथिव्याः परम-सूक्ष्मत्वात् पृथिवी-परमाणुरिति । गुणेषु पृथिवीत्वादि-व्यवहाराभावेनाणुत्वेऽपि न पृथिव्याम् अणुत्व-व्यवहारैति । तस्य च पार्थिव-परमाणोर् निरवयवत्व-भ्रम-निरासाय पञ्च-तन्मात्राण्य् एवावयवा इत्य् आह—तन्मात्राव्यवैति । बहुव्रीहि-विग्रहः ।
महा-भूतादि-रूप-परिणामेष्व् अप्य् एकत्वं दर्शयति—तेषामिति । एवमिति । एवं भूतान्तरेष्व् अपि जलादिषु स्नेहादि-जातीयानि जलत्व-तेजस्त्व-वायुत्वाकाशत्व-जातीयानि तन्मात्राणि गृहीत्वा सामान्यं सजातीयानाम् अनेकेषां धर्म-भूत एक-विकारारम्भ उपपादनीय इत्य् अर्थः । तद् यथा गन्ध-तन्मात्रं वर्जयित्वा चतुस्-तन्मात्राणां स्नेह-जातीयानाम् एकः परिणामो जल-परमाणुः । तेषां च महा-जलादिः । एवं गन्ध-रसौ वर्जयित्वा औष्ण्य-जातीयानां त्रि-तन्मात्राणां तेजोऽणुस् तेभ्यो महा-तेज-आदि, एवं गन्ध-रस-रूपाणां वर्जनाद् द्वाभ्यां वाय्व्-अणुस् तेभ्यो महा-वाय्व्-आदिः । एवं शब्द-तन्मात्राद् अहङ्कारांश-सहकृताद् आकाशाणुस् तेभ्यो महाकाशादिरिति ।
इदम् अत्रावधेयम्—शब्दादीनां मूर्ति-सजातीयानाम् इत्य् आदि वाक्याद् अत्र दर्शनेञं सिद्धान्तः—शब्दादि-तन्मात्र-पञ्चके काठिन्य-स्नेहादि-व्यङ्ग्याः पृथिवीत्वादि-जातयः सन्ति । तत्र पृथिवी-जातीयैः बादि-गन्धान्त-पञ्च-तन्मात्रैः पृथिवी-परमाणुर् आरभ्यते, पृथिव्यां पञ्च-गुणोपलम्भात् । एवं जल-जातीयैः शब्दादि-रस-पर्यन्तैश् चतुस्-तन्मात्रैर् जल-परमाणुः । एवं तेजो-जातीयैः शब्दादि-रूपान्त-त्रि-तन्मात्रैस् तेजः-परमाणुः । एवं वायु-जातीयाभ्यां शब्द-स्पर्श-तन्मात्राभ्यां वायु-परमाणुः । एवम् आकाश-जातीयाच् छब्द-तन्मात्राद् अहङ्कार-सहकृताद् आकाशाणुर् जायते । एवं परमाणु-गणोत्पत्त्य्-अनन्तरं तेभ्य एवाकाशादि-क्रमेण पञ्च-महा-भावान्य् उत्पद्यन्ते । श्रुतौ चाकाशादि-क्रमेण महा-भूतोत्पत्ति-सिद्धेरिति समान-तन्त्र-न्यायेन च साङ्ख्येऽपीत्थम् एव सिद्धान्त उन्नीयते । विष्णु-पुराणादौ तु शब्द-तन्मात्राद् आकाशम् आकाशात् स्पर्श-तन्मात्रं तस्माद् वायुर् एवं-क्रमेण सृष्टिः स्मर्यते । यथा विशेष्पूर्वेऽहङ्कार-सृष्ट्य्-अनन्तरम्—
यथा प्रधानेन महान् महता स तथावृतः ॥
भूतादिस् तु विकुर्वाणः सर्ग१५८-तन्मात्रकं ततः ।
ससर्ज शब्द-तन्मात्राद् आकाशं शब्द-लक्षणम् ॥
शब्द-मात्रं तथाकाशं भूतादिः स समावृणोत् ।
आकाशस् तु विकुर्वाणः स्पर्श-मात्रं ससर्ज ह ॥
बलवान् अभवद् वायुस् तस्य स्पर्शो गुणो मतः ।[वि.पु. १.२.३६-३८]
इत्य् आदि-क्रमेण पञ्च-भूत-सृष्टिर् उक्ता । तस्या अयम् अर्थः—सोऽहङ्कारो महताकृत आपूरितः यथा पृथिवी जलेनानुविद्धा भवति तद्वत्, ततो महतापूर्णाद् द्वाभ्यां मिलित्वा भूतादिस् तामसाहङ्कारः तन्मात्रिकं सर्गं तन्मात्राणां सृष्टिं ससर्ज चकार, तद्-अनन्तरं स एव भूतादिः शब्द-तन्मात्रात् स्व-द्वितीयात् शब्द-गुणकम् आकाशं ससर्जेत्य् अनुषज्यते । तथा चाहङ्कार-शब्द-तमात्राभ्यां मिलित्वाकाशं सृज्यते, न तु तन्मात्रान्तरम् अपेक्ष्यतैति सिद्धम् । तच् च शब्द-गुणकम् आकाशं भूतादिनाहङ्कारेणापूरितं भूत्वा स्पर्श-मात्रं ससर्ज । अत्र चाकाशेऽहङ्कारस्यापि कारणत्व-वचनाद् अपर-भूत-चतुष्केऽपि तत्-तन्मात्राणाम् अहङ्कार-सहितानाम् एव हेतुत्वम् अवगम्यते, युक्ति-साम्यात् । एतत्-सूचनायैव भूतादि-शब्देनाहङ्कारोपन्यासः । ततश् च स्पर्श-तन्मात्राद् बलवान् महा-वायुर् अभवदिति । एवं क्रमेण तत्-तन्मात्राधिक्येन तेजश् चादि-भूत-पयोत्पत्ति-वाक्यान्य् अपि तत्र व्याख्येयानि ।
कार्य-कारणयोर् विवेक-प्रकारः प्रदर्शितः । इदानीं यथोक्तं कार्य-कारण-रूपं सर्वं वस्त्व् असत् चित्त-कल्पित-मात्रं स्वप्नवदिति य आहुस् तन् निषिध्य चित्त-तद्-अर्थयोर् विवेक-प्रकारं दर्शयिष्यति सूत्रकारः । तत्-सूत्रम् अवतारयितुम् उपक्रमते—नास्त्य् अर्थैति ।
विज्ञान-वादिन आहुः—बाह्य-वस्तुनः प्रातीतिक्य् एव सत्ता । परमार्थस् तु गुणा वा तत्-परिणामो वा अतीतादिकं वा किम् अपि नास्ति—
न निरोधो न चोत्पत्तिर् न बद्धो न च साधकः ।
न मुमुक्षुर् न वै मुक्तः इत्य् एषा परमार्थता ॥
यथा रथादयः स्वप्ने भान्तीव नैव सन्ति ते ।
तथा जाग्रद्-अवस्थायां भूतानि च न सन्ति वै ॥१५९
इत्य् आदि-श्रुति-स्मृति-परम्परयैव बाह्य-वस्तु-निराकरणात् । तथा युक्तिर् अप्य् अस्ति—स्वप्नादौ तावत् विषयं विनापि ज्ञानम् उभय-वादि-सिद्धम्, अनुभव-विषयत्वं विना हि विषयः परैर् अपि न स्वीक्रियते, अत उभय-वादि-सिद्धेन ज्ञानेनैव स्वप्नादिवत्सर्व-व्यवहारोपपत्तौ ज्ञानातिरिक्तार्थ-कल्पने गौरवमिति । ताम् इमां युक्तिं प्रदर्शयन् स्व-मतम् उपन्यस्य ति—नास्त्य् अर्थ इत्य् आदिना । विज्ञान-विसहचरो विज्ञानाभाव-कालीनोऽर्थ उभय-सिद्धो नास्ति, ज्ञानं व्यर्थाभाव-कालीनं स्वप्नादौ कल्पितम् उभय-वादि-सिद्धम् इत्य् अनया दिशा एतद् युक्ति-मार्गेण ये वस्तु-स्वरूपम् अत्यन्तम् अपह्नुवते । य इत्य् आद्य् अपह्नुवत इत्य् अन्तं विवृणोति—ज्ञानेत्य्-आदिना आहुर् इत्य् अन्तेन । दिक्-शब्द-सूचिताश् च पराभिप्रेत-श्रुत्य्-आदयः पूर्वोक्ताः, तथा युक्त्य्-अन्तराणि च—
सहोपलम्भ-नियमाद् अभेदो नील-तद्-धियोः ।
भेदश् च भ्रान्ति-विज्ञानैर् दृश्येतेन्दाव् इवोदये ॥१६०इत्य्-आदीनि ।
तन्-मतं स्वयम् आदौ निराकरोति—ते तथेति । ते विज्ञान-वादिन एवासन्त इत्य् अर्थः । तत्र हेतुम् आह—प्रत्युपस्थितम् इत्य् आदिना स्युर् इत्य् अन्तेन । अस्यार्थः—इदं सर्वं वस्तु स्व-माहात्म्येन सन्निकर्षादिनैवोपस्थितं न तु आर्रयादिना । स्वप्नवद् अत्यन्त-बाधा-दर्शनात् । अतः कथं वस्तु-स्वरूपं गृहीतापि प्रमाण-रूपेण स्वप्न-ज्ञान-रूप-दृष्टान्त-बलेन वस्तु-स्वरूपम् अपलपन्तः श्रद्धेय-आर्रयाः स्युः, तेषां ज्ञानस्यापि भ्रमत्वेन तद्-वाक्यस्य यथार्थ-वाक्यार्थ-ज्ञानाजन्यत्वात् । तद्-वाक्यार्थस्यापलापाच् च तद्-वाक्यस्याश्रद्धेयत्वाद् इत्य् अर्थः । न हि जाग्रज्-ज्ञानस्य स्वप्न-दृष्टान्तेन विषयापलापे क्रियमाणे स्वाभिप्रेतस्य यत् किञ्चिज् ज्ञानस्य विषयः सन्न् इत्य् अप्य् अभ्युपगन्तुं शक्यते प्रामाणिऐर् इत्य् अतस् त एव नास्तिकाः, न पुनर् अर्थो नास्तीति भावः । एतेनाधुनिकानां दृष्टि-सृष्टि-वादिनां वेदान्ति-ब्रुवाणाम् अपि मतं प्रच्छन्न-नास्तिकतयोपेक्षणीयम् स्वप्नादि-दृष्टान्तेन श्रीहर्षादीनाम् असत्-खण्डनेन च वेदान्त-ज्ञान-तज्-जन्य-ज्ञानयोर् अपि भ्रमत्वापत्त्या वेदान्त-प्रामाण्यासिद्धौ तत्-प्रतिपाद्य-ब्रह्मासिद्धि-प्रसङ्गादिति ।
नन्व् अनुभव-स्वरूपस्यात्मनः स्व-प्रकाशत्वात् न तत्र प्रमाणापेक्षेति चेत् ? न तथा सति वेदान्त-श्रवण-वैयर्थ्यापत्तेः । अथापूर्णत्व-स-द्वितीयत्व-भ्रम-निरासार्थं श्रवणापेक्षेति चेत् ? न, अप्रमाणीभूतेन वेदान्तेनापूर्णत्वाद्य्-अभावस्यासिद्ध्य्-आपत्तेः ।
ननु श्रुत्या स्वार्थे बोधिते सति पश्चात्-तद्-बाधेऽप्य् अक्षतिः, श्रुति-प्रवृत्तेः प्राक् अबाधितम् एव सर्वमिति ? मैवं, श्रुति-प्रामाण्य-ग्राहकानुमानादीनाम् अप्य् अप्रामाण्ये स्व-प्रमाण-भूतां बाधितां च श्रुतिम् उत्पादित-ज्ञानाम् अपि प्रामाण्य-संशयाहितः स्वार्थ-संशय कथं नाजागल-स्तनवत् विफलीकुर्यादिति दिक् ॥१४॥
—o)0(o—
(४.१५)
कुतश् चैतद् अन्याय्यम् ?
वस्तु-साम्ये चित्त-भेदात् तयोर्विभक्तः पन्थाः ॥१५॥
बहु-चित्तालम्बिनी-भूतम् एकं वस्तु साधारणम् । तत् खलु नैक-चित्त-परिकल्पितं, नाप्य् अनेक-चित्त-परिकल्पितं, किन्तु स्व-प्रतिष्ठितम् । कथम् ? वस्तु-साम्ये चित्त-भेदात् । धर्मापेक्षं चित्तस्य वस्तु-साम्येऽपि सुख-ज्ञानं भवति । अधर्मापेक्षं तत एवदुःख-ज्ञानं, अविद्यापेक्षं तत एवम् ऊढ-ज्ञानम् । सम्यग्-दर्शनापेक्षं माध्यस्थ्य-ज्ञानमिति ।
कस्य तच्-चित्तेन परिकल्पितम् ? न चान्य-चित्त-परिकल्पितेनार्थेनान्यस्य चित्तोपरागो युक्तः । तस्माद् वस्तु-ज्ञानयोर् ग्राह्य-ग्रहण-भेद-भिन्नयोर् विभक्तः पन्थाः । नानयोः सङ्कर-गन्धोऽप्य् अस्तीति ।
साङ्ख्य-पक्षे पुनर् वस्तु त्रि-गुणम् ।चलं च गुण-वृत्तमितिधर्मादि-निमित्तापेक्षं चित्तैर् अभिसम्बध्यते, निमित्तानुरूपस्य च प्रत्ययस्योत्पद्यमानस्य तेन तेनात्मनाहेतुर् भवति ॥१५॥
तत्त्व-वैशारदी : तद् एवम् उत्सूत्रं भाष्यकृद् विज्ञानातिरिक्त-स्थापने युक्तिम् उक्त्वा सौत्रीं युक्तिम् अवतारयति—कुतश् चैतदिति । वस्तु-साम्ये चित्त-भेदात् तयोर् विभक्तः पन्थाः ॥
यन् नानात्वे यस्य इकत्वं तत् ततोऽत्यन्तं भिद्यते । यथा चैत्रस्य ज्ञानम् एकं भिन्नेभ्यो देवदत्त-विष्णुमित्र-प्रत्ययेभ्यो भिद्यते । ज्ञान-नानात्वेऽपि चार्थो न भिद्यतैति भवति विज्ञानेभ्योऽन्यः । अभेदश् चार्थस्य ज्ञान-भेदेऽपि प्रमातॄणां परस्पर-प्रतिसन्धानाद् अवसीयते । अस्ति हि रक्त-द्विष्ट-विमूढ-मध्यस्थानाम् एकस्यां योष् इति प्रतीयमानायां प्रतिसन्धानं या त्वया दृश्यते सैव मयापीति । तस्माद् वस्तु-साम्ये चित्त-भेदाज् ज्ञान-भेदात् तयोर् अर्थ-ज्ञानयोर् विभक्तः पन्थाः स्वरूप-भेदोपायः । सुख-ज्ञानं कान्तायां कान्तस्य , सपत्नीनां दुःख-ज्ञानं, चैत्रस्य तु ताम् ऐन्दतो मूढ-ज्ञानम् विषादः ।
स्याद् एतत्, य एकस्य चित्तेन परिकल्पितः कामिनी-लक्षणोऽर्थस् तेनैवान्येषाम् अपि चित्तम् उपरज्यतैति साधारणम् उपपद्यत इत्य् अत आह—न चान्येति । तथा सत्य् एकस्मिन् नील-ज्ञानवति सर्व एव नील-ज्ञानवन्तः स्युरिति ।
नन्व् अर्थ-वादिनाम् अप्य् एकोऽर्थः कथं सुखादि-भेद-भिन्न-विज्ञान-हेतुः, न ह्य् अविलक्षणात् कारणात् कार्य-भेदो युक्त इत्य् अत आह—साङ्ख्य-पक्षैति । एकस्यैव बाह्य् अस्य वस्तुनस् त्रैगुण्य-परिणामस्य त्रैगुण्यम् उपपन्नम् । एवम् अपि सर्वेषाम् अविशेषेण सुख-दुःख-मोहात्मकं विज्ञानं स्याद् इत्य् अत आह—धर्मादि-निमित्तापेक्षमिति । रजः-सहितं सत्त्वं धर्मापेक्षं सुख-ज्ञानं जनयति । सत्त्वम् एअ तु विगलित-रजस्कं विद्यापेक्षं माध्यस्थ्य-ज्ञानमिति । ते च धार्मादयो न सर्वे सर्वत्र पुरुषे सन्ति, किं तु कश्चित् किंचित् अत्युपपन्ना व्यवस्थेति ॥१५॥
योग-वार्तिकम् : विज्ञान-वादे दूषणानन्तर-परतयोत्तर-सूत्रम् अवतारयति—कुतश् चेति । च-शब्दो हेत्व्-अन्तरे, कुतोऽपीत्य् अर्थः । वस्तु-साम्ये चित्त-भेदात् तयोर् विभक्तः पन्थाः ॥
एकस्मिन्न् एव विषये चित्तान्तर-वियोगे चित्तान्तरालम्बन-दर्शनात् तयोश् चित्तार्थयोर् विभक्तः पृथग् एव पन्थः स्वरूप-भेदोन्नयन-वर्त्म, विरुद्ध-धर्म-द्वय-रूपम् एकानेकत्व-रूपम् इत्य् अर्थः । क्षणिक-विज्ञानम् एव परेषां चित्तम् इत्य् अतः चित्ताद् भेदेनैव विज्ञान-भेदोऽर्थेषु सिद्धैति भावः ।
तत्रादौ भाष्यकरोऽनुभव-बलाद् हेतुं साधयति—बहु-चित्तालम्बिनी-भूतम् एकं वस्तु साधारणमिति । प्रत्यभिज्ञा-सिद्धमिति शेषः । सौत्रेऽनुमाने तर्कम् आदौ दर्शयति— तत् खलु इत्य् आदिना प्रतिष्ठितम् इत्य् अन्तेन । नैकेति । नैक-मात्रीय-पुरुष-चित्तात्मकं तथा नानेक-पुरुषीय-चित्तात्मकं, अपि तु स्व-प्रतिष्ठं चित्तातिरेकेणैव स्वातन्त्र्येणैव स्थितम् इत्य् अर्थः ।
सिद्ध-हेतुं योजयितुं पृच्छति—कथमिति । उत्तरं—वस्तु- इति । आदाव् एक-पुरुषीय-चित्त-कल्पितत्वानुपपत्तिम् उक्त-हेतुना प्रतिपादयति—धर्मापेक्षमिति । पुरुष-भेदेनैकस्मिन्न् एव योषिद्-वस्तुनि धर्म-निमित्तात् सुख-ज्ञानं दुःखवती स्त्र्य्-आकार-वृत्तिर् इत्य् एवम् आदि-रूपैश् चित्त-भेदोऽस्ति । अतः कस्य पुरुषस्य चित्तेन तत् कल्पितं स्यात् ? न कस्यापीत्य् अर्थः ।
नन्व् एवं भवत्व् अनेक-पुरुष-चित्त-परिकल्पितमिति द्वितीय-पक्षः ? तत्राह—न चान्येति । नाप्य् अन्य-पुरुष-चित्तात्मकेन वस्तुनान्यस्य चित्त उपरागः सम्भवति, पर-स्वप्नस्य परेणाज्ञानाद् इत्य् अर्थः । तर्कं प्रदर्श्य सूत्रार्थं व्याचष्टे—तस्मादिति । ग्राह्य-ग्रहणयोर् भेदेन वैधर्म्येण भिन्नयोर् इत्य् अर्थः ।
ननु चित्तातिरिक्तार्थ-वादिनाम् अर्थस्य स्थिरत्वान् निरन्तरम् एव कथं ज्ञानं न भवति, कथं वा एक एवार्थः स्वप्नादि-भेद-भिन्नासु वृत्तिषु हेतुः स्यात् ? न ह्य् अविलक्षणात् कार्य-भेदो घटत इत्य् आशङ्कायाम् आह—साङ्ख्य-पक्षेइति । साङ्ख्यानुसारि-मते सुख-दुःख-मोहात्मकं भवति वस्तु चित्तं चल-स्वभावम् अतो धर्मादि-निमित्त-वशात् सुखाद्य्-अर्थम् एव चित्तैर् वस्तु सम्बध्यतैति न सर्वदा ज्ञानम् । तथा धर्मादि-निमित्तानुरूपं सुखाद्य्-आत्मक-प्रत्ययं प्रति सुखाद्य्-आत्मकत्वेनैव वस्तु-हेतुर् भवतीति कारणतावच्छेदक-भेदान् न द्वितीयोऽपि दोष इत्य् अर्थः ॥१५॥
—o)0(o—
(४.१६)
केचिद् आहुः—ज्ञान-सहभूर् एवार्थो भोग्यत्वात् सुखादिवदिति । त एतया द्वारा साधारणत्वं बाधमानाः पूर्वोत्तरेषु क्षणेषु वस्तु-स्वरूपम् एवापह्नुवते—
न चैक-चित्त-तन्त्रं वस्तु तद् अप्रमाणकं तदा किं स्यात् ॥१६॥
एक-चित्त-तन्त्रं१६१चेद्वस्तु स्यात्, तदा चित्ते व्यग्रे निरुद्धे वास्वरूपम् एव तेनापरामृष्टम् अन्यस्याविषयी-भूतम् अप्रमाणकम् अगृहीत-स्वभावकं केनचित्, तदानीं किं तत् स्यात् ? सम्बध्यमानं च पुनश् चित्तेन कुत उत्पद्येत ? ये चास्यानुपस्थिता भागास् ते चास्य न स्युः, एवं नास्ति पृष्ठम् इत्य् उदरम् अपि न गृह्येत । तस्मात् स्वतन्त्रोऽर्थः सर्व-पुरुष-साधारणः । स्वतन्त्राणि च चित्तानि प्रति-पुरुषं प्रवर्तन्ते । तयोः सम्बन्धाद् उपलब्धिः पुरुषस्य भोगैति॥१६॥
तत्त्व-वैशारदी : अत्र केचिद् आहुः प्रावादुकाः—ज्ञान-सहभूर् एवार्थोभोग्यत्वात् सुखादिवदिति । एतद् उक्तं भवति—भवत्व् अर्थो ज्ञानाद् व्यतिरिक्तस् तथाप्य् असौ जडत्वान् न ज्ञानम् अन्तरेण शक्यः प्रतिपत्तुम् । ज्ञानेन तु भासनीयः । तथा च ज्ञान-समय एवास्ति नान्यदा, प्रमाणाभावादिति । तद् एतद् उसूत्रं तावद् दूषयति भाष्य-कारः—त एतया द्वाराइति । वस्तु खलु सर्व-चित्त-साधारणम् अनेक-क्षण-परम्परोह्यमानं परिणामात्मकम् अनुभूयते लौकिक-परीक्षकैः । तच् चेद् विज्ञानेन सह भवेन् नूनम् एवं विधम् एवं चेद् इदम् अंशस्योपरि कोऽयम् अनुरोधो येन सोऽपि नापह्नूयेतेत्य् अर्थः ।
मा वा भूद् इदम् अंशस्यापह्नवो ज्ञान-सहभूर् एवास्त्व् अर्थः ? तत्राप्य् आह—न, चैक-चित्त-तन्त्रं वस्तु१६२ तद् अप्रमाणकं तदा किं स्यात् ? ॥
यद् धि घट-ग्राहि चित्तं तद् यदा पट-द्रव्य-व्यग्रतया न घटे वर्तते, यद् वा, विवेक-विषयम् आसीत् तदैव च निरोधं समापद्यते, तदा घट-ज्ञानस्य विवेक-ज्ञानस्य वाभावाद् विवेको वा घटो वा ज्ञान-भेद-मात्र-जीवनस् तन्-नाशान् नष्ट एव स्याद् इत्य् आह—एक-चित्त- इति ।
किं तत् स्यान् न स्याद् इत्य् अर्थः । सम्बध्यमानं च चित्तेन कुत् उत्पद्येत ? ये चास्यानुपस्थिता भागास् ते चास्य न स्युः, एवं नास्ति पृष्ठम् इत्य् उदरम् अपि न गृह्येत । तस्मात् स्वतन्त्रोऽर्थः सर्व-पुरुष-साधारणः । स्वतन्त्राणि च चित्तानि प्रति-पुरुषं प्रवर्तन्ते । तयोः सम्बन्धाद् उपलब्धिः पुरुषस्य भोगैति ॥१६॥
योग-वार्तिकम् : बौद्ध-वादान्तर-निरासक-सूत्रान्तरम् अवतारयितुं तन्-मतम् उपन्यस्य ति—केचिद् आहुःिति । केचिद् आहुः—अस्तु ज्ञानाद् भिन्नोऽर्थः, तथापि ज्ञान-सम-कालीन एव सोऽस्तु, अन्यथा प्रमानाभावात् । प्रयोगश् चायं—ज्ञान-सहभूर् एवार्थोभोग्यत्वात् सुखादिवदिति । असुख-दृष्टान्तस् तन्-मतेनैवेति, अस्मन्-मते सुखस्यापि विषये स्थिरत्वात् । राग-द्वेषादिश् चोभय-सिद्धो दृष्टान्तैति । अर्थस्य ज्ञान-सह-भावित्वेन यत् सिध्यति, तद् आह—त एतयाइति । त एतेनानुमानेन विषयस्य पुरुषान्तर-साधारण्यं बाधमाना ज्ञान-पूर्वोत्तर-क्षणेषु विषयम् अपलपन्तीत्य् अर्थः । ततश् चाननुभूयमानतया न मोक्ष-सिद्धिरिति भावः । तत्र प्रत्युत्तरं सूत्रम् इदम्—न चैक-चित्त-तन्त्रं वस्तु तद् अप्रमाणकं तदा किं स्यात् ॥
न चैक-चित्त-तन्त्रं वस्तु तत्-प्रमाणकं तदा किं स्यात् ? वृत्त्य्-आख्य-ज्ञानातिरिक्तं तेषां चित्तं नास्तीति ज्ञानम् एवात्र चित्तं, तत् तन्त्रं तन् नियतम् । तथा च नापि वस्तु एक-ज्ञान-नियतमिति प्रतिज्ञा । तत्र हेतुः—तद् इत्यादि । तदा तर्हि तच्-चित्त-प्रमाणकं वस्तु किं स्यात्, चित्तापाये कुत्र विलीयेत ? न कुत्रापीत्य् अतो वस्तु स्थिरमिति शेषः । अयं भावः—यदि चित्तस्य कारणे विलीयत इत्य् उच्यते, तदा घटादि-रूपार्थानां लाघवाच् चित्ताभेदापत्त्या विज्ञानवादि-मत एव प्रवेशः, तच् च दूषितम् । यदि च मृद्-आदिषूच्येत, तदा विनाश-कारणाकाङ्क्षायां परिपृष्ठस्य मुद्गर-पातादेर् एअ नाश-कारणत्वेन चित्त-नाश-सम-कालं घटादि-वस्तु-नाशानुपपत्तिरिति ।
हेतु-पदस्येमम् एवार्रय्ं भाष्य-कार आह—एकेति । एक-चित्त-नियतं चेद् वस्तु स्यात्, तदा तच्-चित्ते विषयान्तर-सञ्चारिणि निरुद्धे वा सति अस्वरूपम् एव तद् वस्तु, अतस् तदानीं तत् किं स्यात् ? शेषम् अस्वरूपत्वे हेतुः । तत्-प्रमाणकम् इत्य् अस्य विवरणं—केनचिद् अगृहीत-स्वभावकमिति । स्वयम् अधिकं पूरयति—सम्बध्यमानं चैति । चित्तेन सम-काल-भावित्वात् कुत उत्पद्येत ? न कुतोऽपीत्य् अर्थः ।
पूर्ववद् अयं भावः—यदि चित्तस्य कारणाद् एवोत्पत्तिर् उच्यते, तदा चित्ताभेद एव स्यात् । यदि च बाह्य-कारणात्, भेदाच् चित्त-व्यभिचार्य् अपि स्यात्, स्वतन्त्र-कारणेनोत्पादनात्, परिदृष्टानां दण्ड-चक्रादीनाम् एव कारणौचित्येन चित्त-व्यभिचार-सिद्ध्श् चेति ।
बाधकान्तरम् अह—ये चास्यैति । अस्यार्थस्य गृह्यमाणस्यापर्तीयमाना ये च पृष्ठाद्य्-अंशास् तेऽप्य् अप्रामाणिकत्वाद् असन्तः स्युः । एवं च पृष्ठादि-व्याप्ततया पृष्ठाद्य्-अभावेनोदराभाव-सिद्धेरिति भावः ।
परमतम् अपाकृत्य स्व-मतम् उपपन्नतयोपसंहरति—तस्मादिति । उभयत्र स्वतन्त्र-शब्दोऽन्योन्य-नैरपेक्ष्य-बोधनाय । भोगैति । वियोगाच् चानुपलब्धिर् मोक्षैति शेषः ॥१६॥
—o)0(o—
(४.१७)
तद्-उपरागापेक्षत्वाच् चित्तस्य वस्तु ज्ञाताज्ञातम् ॥१७॥
अयस्कान्त-मणि-कल्पा विषया अयः-सधर्मकं चित्तम् अभिसम्बध्योपरञ्जयन्ति । येन च विषयेणोपरक्तं चित्तं स विषयो ज्ञातस् ततोऽन्यः पुनर् अज्ञातः । वस्तुनो ज्ञाताज्ञात-स्वरूपत्वात् परिणामि चित्तम् ॥१७॥
तत्त्व-वैशारदी : स्याद् एतत् । अर्थश् चेत् स्वतन्त्रः, स च जड-स्वभावैति न कदाचित् प्रकाशेत् । प्रकाशने वा जडत्वम् अप्य् अस्यापगतमितिभावोऽप्य् अपगच्छेत् । न जातु स्वभावम् अपहाय भावो वर्तितुम् अर्हति । न चेन्द्रियाद्य्-आधेयो जड-स्वभावस्यार्थस्य धर्मः प्रकाशैति साम्प्रतम् । अर्थ-धर्मत्वे नीलत्वादिवत् सर्व-पुरुष-साधारण इत्य् एकः शास्त्रार्थज्ञःिति सर्व एव विद्वांसः प्रसज्येरन् जामः कश्चिद् अस्ति । न चातीतानागतयोर् धर्मः प्रत्युत्पन्नो युक्तः । तस्मात् स्वतन्त्रोऽर्थ उपलम्भ-विषयैति मनोरथ-मात्रम् एतद् इत्य् अत आह—तद्-उपरागापेक्षत्वाच् चित्तस्य वस्तु ज्ञाताज्ञातम् ॥
जड-स्वभावोऽप्य् अर्थ इन्द्रिय-प्रणालिकया चित्तम् उपरञ्जयति । तद् एवं-भूतं चित्त-दर्पणम् उपसक्रान्त-प्रतिबिम्बा चिति-शक्तिश् चित्तम् अर्थोपरक्तं चेतयमानार्थम् अनुभवति, न त्व् अर्थे किञ्चित् प्राकट्यादिकम् आधत्ते । नाप्य् असम्बद्धा चित्तेन, तत्-प्रतिबिम्ब-सङ्क्रान्तेर् उक्तत्वाद् इति । यद्यपि च सर्व-गतत्वाच् चित्तस्य चेन्द्रियस्य चाहङ्कारिकस्य विषयेणास्ति सम्बन्धः, तथापि यत्र शरीरे वृत्तमच् चित्तं, तेन सह सम्बन्धो विषयाणाम् इत्य् अयस्कान्त-मणि-कल्पाइत्य् उक्तम् । अयः-सधर्मकं चित्तम् इति । इन्द्रिय-प्रणालिकयाभिसम्बध्योपरञ्जयन्ति । अत एव चित्तं परिणामीत्य् आह—वस्तुनैति॥१७॥
योग-वार्तिकम् : चित्त-तद्-अर्थयोर् विवेक-प्रकारो दर्शितः । इदानीं ज्ञाताज्ञात-विषयत्व-सदाज्ञात-विषयत्वाभ्यां चित्तात्मनोर् विवेक-प्रकारम् आह सूत्राभ्याम् । अस्यैव च मोक्ष-हेतु-ज्ञान-विषयस्य विवेकस्योपोद्घात-सङ्गत्या कार्य-कारणयोश् चित्तार्थयोश् च विवेकः पूर्वं दर्शितः । यावद् धि कार्य-भिन्नं कारणं न सिद्ध्यति न तावद् वृत्ति-कारणतया चित्तं स्थिरं सिध्यति, येन ज्ञाताज्ञात-विषयत्वं चित्तस्य स्यात् । यावद् वा चित्तार्रय्योर् भेदोऽपि न सिध्यति, न तावद् अपि चित्तस्य ज्ञाताज्ञात-विषयत्वं सिध्यति । ततः कुतो ज्ञाताज्ञात-विषयत्व-सदाज्ञात-विषयत्वाभ्यां चित्तात्मनोर् विवेक इति भावः ।
तद्-उपरागापेक्षत्वाच् चित्तस्य वस्तु ज्ञाताज्ञातम् ॥ चित्तस्य काल-भेदेन ज्ञातम् अज्ञातम् च वसु भवति । कुतः ? अर्थाकारता-रूपोपराग-सापेक्षत्वात् । अर्थ-ज्ञान इति शेषः । अतो ज्ञाताज्ञात-विषयतया चित्तं परिणाम्य् अपीति भावः ।
नन्व् अर्थाकारतातिरिक्तं किं बुद्धेर् ज्ञानम् अस्ति यत्र तस्या अपेक्षोच्यत इति चेत् ? न, भूत-प्रकाशवत् सत्त्वस्यापि कश्चन प्रकाशोऽस्ति सुषुप्त्य्-आदि-व्यावृत्तोऽनुभव-सिद्धः । तस्य इवान्याकारावच्छिन्नस्य बुद्धि-धर्म-ज्ञानत्वाद् इति ।
उपराग-कारण-प्रदर्शन-पूर्वकं सूत्रं व्याचष्टे—अयस्कान्त- इति । अयस्कान्त-मणिवद् अक्रिया एव विषयाः । अयोवत् क्रिया-शीलं चित्तं स्व-महिम्नाकृष्य स्वस्मिन् संयोज्य तद् उपरञ्जयन्ति, स्वाकारैर् आकारयन्तीति लाक्षा-रस इव वस्त्रम् । अतो येन विषयेणोपरक्तं तच् चित्तं स विषयस् तस्य ज्ञात इत्य् अर्थः । इतरे चाज्ञाता इत्य् अर्थः । यद्यपि चित्तस्य जडत्वान् न ज्ञानं चैतन्यस्यैव ज्ञानत्वात्, तस्य च पुअरुषेयत्वात्, उभयत्र ज्ञान-कल्पने गौरवात् । सत्त्वस्य प्रकाश-रूपता च प्रतिबिम्ब-ग्रहण-क्षम-नैर्मल्य-मात्रं, तथापि तप्तायोवद् व्यवहारतो बुद्धि-सत्त्व-प्रकाशोऽपि ज्ञान-शब्देनोक्तः ।
सूत्र-तात्पर्य-विषयं पुरुषाद् वैधर्म्यान्तरं हेयताया विवेकस्य च दर्शयति—वस्तुतैति । अतो ज्ञाताज्ञात-वस्तुकत्वान्यथानुपपत्त्या चित्तस्योपरागाख्य-परिणामः सिद्ध इत्य् अर्थः ॥१७॥
—o)0(o—
(४.१८)
यस्य तु तद् एव चित्तं विषयस् तस्य —
सदा ज्ञाताश् चित्त-वृत्तयस् तत्-प्रभोः पुरुषस्यापरिणामित्वात् ॥१८॥
यदि चित्तवत् प्रभुर् अपि पुरुषः परिणमेत, ततस् तद्-विषयाश् चित्त-वृत्तयः शब्दादि-विषयवज् ज्ञाताः१६३ स्युः । सदाज्ञातत्वं तु मनसस् तत्-प्रभोः पुरुषस्यापरिणामित्वम् अनुमापयति ॥१८॥
तत्त्व-वैशारदी : तद् एवं चित्त-व्यतिरेकिणम् अर्थम् अवस्थाप्य् तेभ्यः परिणति-धर्मकेभ्यो व्यतिरिक्तम् आत्मानम् आदर्शयितुं तद् वैधर्म्यम् अपरिणामित्वम् अस्य वक्तुं पूरयित्वा सूत्रं पठति, यस्य तु तद् एव चित्तं विषयस् तस्य —सदा ज्ञाताश् चित्त-वृत्तयस् तत्-प्रभोः पुरुषस्यापरिणामित्वात् ॥
क्षिप्त-मूढ-विक्षिप्तैकाग्रतावस्थितं चित्तम् आ निरोधात् सर्वदा पुरुषेणानुभूयते वृत्तिमत् । तत् कस्य हेतोः ? यतः पुरुषोऽपरिणामी । परिणामित्वे चित्तवत् पुरुषोऽपि ज्ञाताज्ञात-विषयो भवेत् । ज्ञात-विषय एव त्व् अयम् । तस्माद् अपरिणामी । ततश् च परिणामिभ्योऽतिरिच्यत इति ।
तद् एतद् आह—यदि चित्तवतिति । सदा ज्ञातत्वं तु मनसः स-वृत्तिकस्य तस्य यः प्रभुः स्वामी भोक्तेति यावत् । तस्य प्रभोः पुरुषस्यापरिणामित्वम् अनुमापयति । तथा चापरिणामिनस् तस्य पुरुषस्य न परिणामिनश् चित्ताद् भेद इति भावः ॥१८॥
योग-वार्तिकम् : घटादीनाम् अपि साक्षात् पुरुष-विषयत्वे पुरुषस्यापि ज्ञाताज्ञात-विषयत्वं स्याद् इत्य् आशयेन पूरयित्वा ओत्तर-सूत्रम् उत्थापयति—यस्य त्विति। सदा ज्ञाताश् चित्त-वृत्तयस् तत्-प्रभोः पुरुषस्यापरिणामित्वात् ॥
यस्य तु तद् एव विषयोपरक्तम् एव चित्तं विषयो नान्यत्, अतस् तस्य तत्-प्रभोश् चित्त-साक्षिणः पुरुषस्य विषयाश् चित्त-वृत्तयः सदा ज्ञाताः, पुरुषस्यापरिणामाद् इत्य् अर्थः । परिणामित्वे हि कदाचित् पुरुषस्यान्द्यापत्त्या विद्यमानापि चित्त-वृत्तिर् न ज्ञायते, तदा च तस्यापि ज्ञाताज्ञातोभय-रूपत्वे अहं सुखी न वा, दुःखी न वेच्छामि न वेत्य्-आदि-संशयः स्यात् । एतादृशश् च संशयो न दृश्यते । अतो वृत्तेर् अज्ञात-सत्ता नास्ति, ततश् च पुरुषोऽपरिणामीत्य् आयातम् ।
ननु पुरुषस्यापरिणामित्वस्य व्यवस्थापने किम् इति साङ्ख्य-योगयोर् आग्रह इति चेत् ? शृणु, यदि हि पुरुषस्य ज्ञानादि-लक्षण-धर्मः कश्चन मोक्षे नश्येत्, तदा व्यव-दोषेण दारिद्र्यवन् मोक्षो न परम-पुरुषार्थः स्याद् इति । अस्मिन् सूत्रे बुद्धि-वृत्तिर् एव पुरुषस्य विषय इति लब्धम् । अत एव—पुरुषो विषयी नित्यं सत्त्वं च विषयः स्मृतः[म.भा. १४.५०.८] इत्य् अनुगीतायां नित्यम् इत्य् अनेन सत्त्वाख्याया बुद्धि-वृत्तेर् एव पुरुष-विषयत्वम् उक्तम् ।
सूत्र-तात्पर्य-विषयं चित्ताद् वैधर्म्यं भाष्य-कार आह—यदिइति । भाष्यं सुगमम् ।
ननु यदि चित्तम् एव पुरुषस्य विषयः, तर्हि शब्दादि-प्रकाशः कथं स्यात् ? चित्तस्याचेतनत्वेन विषयता-मात्रेण प्रकाशासम्भवाद् इति चेत् ? न, चित्तारूढतयैव शब्दादीनां पुरुषे भावाद् इति ।
ननु सर्व-सम्बद्धत्वाविशेषेऽपि चित्तम् एव पुरुषस्य विषयो नान्य इत्य् अत्र का युक्तिर् इति चेत् ? शृणु, अर्थाकारतैव विषय-विषयि-भावो न तु संयोग-मात्रम् । अतीन्द्रियेषु संयोग-सत्त्वेऽपि चित्त-विषयत्वाभावात् । सा चार्थाकारता प्रतिबिम्ब-रूपैव पुरुषे स्वीकार्या, स्वतोऽपरिणामित्वस्य साधितत्वात् । अतः पुरुषे प्रतिबिम्ब-समर्पण-सामर्थ्यं वृत्तिमत् स्व-चित्तस्यैव फल-बलात् कल्प्यते, यथा जलादौ प्रतिबिम्बन-सामर्थ्यं रूपवत् स्थूल-द्रव्यस्य इवेति । तद् एताभ्यां सूत्राभ्यां चित्त-विधर्मतया चित्तातिर्क्तो मोक्षआर्रय् पुरुषः प्रतिपादितः । आभ्यां च सूत्राभ्याम् अज्ञानम् इच्छादि-विकार-जातं च चित्त-निष्ठम् एव, न तु पुरुष-निष्ठम् इत्य् अवगन्तव्यम् ।
ननु पुरुषस्य सदाज्ञात-विषयत्वेन ज्ञान-परिणामो मास्तु, इच्छा-सुखादि-परिणामे तु किं बाधकम् इति चेत् ? शृणु, पुरुषस्य सदाज्ञात-विषयत्वे सिद्धे लाघवाच् चित्त-प्रकाश-स्वरूपम् एकैकम् एवात्म-द्रव्यं सिध्यति । ततश् चाज्ञानस्य चित्त-धर्मतयाऽज्ञान-कार्यं धर्मादिकं तत्-कार्यं चेच्छा-सुखादिकम् अपि चित्तस्यैव समानाधिकरण्य-प्रत्यासत्तौ लाघवाद् इति भावः ॥१८॥
—o)0(o—
(४.१९)
स्याद् आशङ्का—चित्तम् एव स्वाभासं विषयाभासं च वैनाशिकानां चित्तात्म-वादिनां१६४ भविष्यति अग्निवत् ।
न तत् स्वाभासंदृश्यत्वात् ॥१९॥
यथेतराणीन्द्रियाणि शब्दादयश् च दृश्यत्वान् न स्वाभासानि, तथा मनोऽपि प्रत्येतय्वम् ।
न चाग्निर् अत्र दृष्टान्तः । न ह्य् अग्निर् आत्म-स्वरूपम् अप्रकाशं प्रकाशयति । प्रकाशश् चायं प्रकाश्य-प्रकाशक-संयोगे दृष्टः । न च स्वरूप-मात्रेऽस्ति संयोगः । किं च, स्वाभासं चित्तम् इत्य् अग्राह्यम् एव कस्य चिद् इतिशब्दार्थः । तद् यथा—स्वात्म-प्रतिष्ठम् आकाशं न पर-प्रतिष्ठम् इत्य् अर्थः । स्व-बुद्धि-प्रचार-प्रतिसंवेदनात् सत्त्वानां प्रवृत्तिर् दृश्यते—क्रुद्धोऽहं, भीतोऽहं, अमुत्र मे रोगोऽमुत्र मे क्रोधःिति । एतत् स्व-बुद्धेर् अग्रहणे न युक्तम् इति॥१९॥
तत्त्व-वैशारदी : अत्र वैनाशिकम् उत्थापयति—स्याद् आशङ्काइति । अयम् अर्थः—स्याद् एतद् एवं यदि चित्तम् आत्मनो विषयः स्यात् । न त्व् एतद् अस्ति, अपि तु स्व-प्रकाशम् एतद्-विषयाभासं पूर्व-चित्तं प्रतीत्य समुत्पन्नम् । तत् कुतः पुरुषस्य सदाज्ञात-विषयत्वम् ? कुतस्तरां वापरिणामितया परिणामिनश् चित्ताद् भेद इति ? न तत्-स्वाभासं दृश्यत्वात् । भवेद् एतद् एवं यदि स्व-संवेदनं चित्तं स्यात् । न त्व् एतद् अस्ति । तद् धि परिणामितया नीलादिवत् अनुभव-व्याप्यम् । यच् चानुभव-व्याप्यं न तत्-स्वाभासं भवितुम् अर्हति, स्वात्मनि वृत्ति-विरोधात् । न हि तद् एव क्रिया च कर्म च कारकं च । न हि पाकः पच्यते, छिदा वा छिद्यते । पुरुषस् त्व् अपरिणामी नानुभव-कर्मेतिनास्मिन् स्वयं-प्रकाशता । तस्माद् दृश्यत्वादर्शन-कर्म चित्तं न स्वाभाविकम् । आत्म-प्रकाश-प्रतिबिम्बतस्यैव चित्तस्य तद्-वृत्ति-विषयाः प्रकाशन्त इति भावः ।
ननु दृश्योऽग्निः स्वयं-प्रकाशश् च, न हि यथा घटादयोऽग्निना व्यज्यन्त एवम् अग्निर् अग्न्य्-अन्तरेणेत्य् अत आह—न चाग्निरिति । कस्मात् ? न हिइति । मा नामाग्निर् अग्न्य्-अन्तरात् प्रकाशिष्ट विज्ञानात् तु प्रकाशत इति न स्वयं प्रकाशत इति न व्यभिचार इत्य् अर्थः । प्रकाशश् चायमिति । अयम् इति पुरुष-स्वभावात् प्रकाशाद् व्यवच्छिनत्ति । क्रिया-रूपः प्रकाश इति यावत् ।
एतद् उक्तं भवति—या या क्रिया सा सा सर्वा कर्तृ-करण-कर्म-सम्बन्धेन दृष्टा । यथा पाको दृष्टश् चैत्राग्नि-तण्डुल-सम्बन्धेन । तथा प्रकाशोऽपि क्रियेति तयापि तथा भवितव्यम् । सम्बन्धश् च भेदाश्रयो नाभेदे सम्भवतीत्य् अर्थः । किं च, स्वाभासं चित्तम् इत्य् अग्राह्यम् एव कस्य चिद् इति शब्दार्थः । स्याद् एतत्, मा भूद् ग्राह्यं चित्तम्, न हि ग्रहणस्याकारणस्याव्यापकस्य च निवृत्तौ चित्त-निवृत्तिर् इत्य् अत आह—स-बुद्धिइति । बुद्धिश् चित्तं, प्रचारा व्यापाराः, सत्त्वाः प्राणिनः, चित्तस्य वृत्ति-भेदाः क्रोध-लोभादयः स्वाश्रयेण चित्तेन स्व-विशेषित्य् आह— च सह प्रत्यात्मम् अनुभूयमानाश् चित्तस्याग्राह्यतां विघटयन्तीत्य् अर्थः । स्व-बुद्धि-प्रचार-प्रतिसंवेदनम् एव विशदयति—क्रुद्धोऽहम् इति ॥१९॥
योग-वार्तिकम् : चित्तस्यैव स्व-ग्राहकतया सदाज्ञात-विषयकत्वं चित्त-भोक्तुर् असिद्धम् इत्य् आशङ्का-निरासकं सूत्रान्तरम् अवतारयति—स्याद् आशङ्काइति । वैनाशिकानां चित्तात्म-वादिनाम् इतिशेषः । चित्तम् एव स्वस्य विषयस्य च प्रकाशकम् अग्निवद् भविष्यति, कृतम् अपरिणामिनान्येनेत्य् आशङ्का वैनाशिकानां स्याद् इत्य् अर्थः । अत्राग्नि-चित्तयोः साधारणं प्रकाशकत्वम् अखण्डोपाधिः प्रकाश इति व्यवहार-हेतुः स्वाभासता-रूप-साध्ये प्रवेशनीयः, तेनाग्नि-चेतनयोर् एक-रूप-प्रकाशाभावेऽपि न क्षतिः । तथा च श्रुति-स्मृत्योर् अप्य् आत्मनि नाग्न्य्-आदिर् इत्य् आदि-दृष्टान्तानुपपत्तिर् इति ।
ताम् इमाम् आशङ्कां सूत्रेण परिहरति—न तत् स्वाभा-संदृश्यत्वात् ॥
व्याचष्ट—यथेतराणिइति । अन्तः-करणस्य क्याच् चित्तम् एव मन इत्य् उक्तवान् । अत्रायं प्रयोगः—चित्तं न स्वाभासं स्व-गोचर-वृत्त्य्-अभाव-काले न स्व-प्रकाश्यं दृश्यत्वात् इन्द्रिय-शब्दादिवद् इति । तथा च स्व-गोचर-वृत्त्य्-अभाव-काले चित्त-भानार्थं पुरुषः सिद्ध्यतीति भावः । वृत्ति-भानार्थं न्यमेन वृत्ति-कल्पने चानवस्थां सूत्रकार एव वक्ष्यति । स्व-प्रकाश्यत्वं च पुरुषे प्रसिद्धम् । पुरुषस्य स्व-ज्ञेयतायाः प्राग्-उक्तत्वेन व्यभिचारः स्याद् अतः साध्ये काल इत्य् अन्तम् । अग्न्य्-आदौ च स्वभासत्वम् एव नास्तीति वक्ष्यति । अतो न तत्रापि व्यभिचारः । दृष्टान्ते च सर्वदैव स्व-प्रकाश्यत्वाभावोऽस्तीति । अत्र च कर्म-कर्तृ-विरोधो विपक्ष-बाधकस् तर्कः । कर्म-कर्तृ-विरोधे च स्वस्मिन् स्व-संयोगानुपपत्तिस् तर्कः । तथा च वक्ष्यति—प्रकाशश् चायं प्रकाश्य-प्रकाशक-संयोगेइति । दृष्टोन स्वरूपेऽस्ति संयोगैति । तथा पर-समवेत-क्रिया-फल-भागित्वं रूप-कर्मत्वं न क्रियाश्रये कर्तरि सम्भवतीति । आधुनिक-वेदान्ति-ब्रुवास् तु चित्तादिकं न द्रष्टृ-दृश्यत्वाद् इत्य् एवं प्रयुञ्जते । पुरुषस् तु कर्म-कर्तृ-विरोधाद् दृश्य एव न भवति । पुरुष-गोचरस् तु व्यवहारः पुरुष-सतैव पुरुषेण भवति, प्रकाश-गोचर-व्यवहारे प्रकाशान्तरानपेक्षादर्शनाद् इत्य् आहुः । तन् न चित्त-वृत्ताव् अप्य् एवं परैर् दृश्यत्वस्य सुवचतया चित्तारिक्त-पुरुष-सिद्ध्य्-अनुपपत्तेः । वृत्ति-गोचर-व्यवहारस्यापि स्वरूप-सत्त्या वृत्त्यैव वक्तुं शक्यत्वात् । प्रकाश-गोचर-व्यवहार-मात्रे प्रकाशानपेक्षेत्य् एव हि दृष्टम् । तत्र चित्तं वा पुरुषो वेति न कश्चन विशेषः । अपि च स्व-प्रकाशं निरञ्जनम् इत्य् आदि श्रुति-स्मृत्य्-उक्तं स्व-प्रकाशत्वम् अप्य् अदृश्यत्वे सति पुरुषस्य यथा-श्रुतं नोपपद्येत, यौगिकार्थ-त्यागात् ।
किं च, पुरुष-निष्ठ-फलाजनकत्वेनात्म-तत्त्वाकारा चित्त-वृत्तिः प्रमाणम् एव न स्याद् इत्य् आदि-दोष-प्रसक्तिर् इति। कर्म-कर्तृ-विरोधस् तु पुरुषस्य शेयत्वेऽपि नास्ति चेतन-प्रतिबिम्बित-बुद्धि-वृत्ति-व्याप्यत्व-रूपस्यैव ज्ञेयत्वस्य परादिवद् एव बुद्धि-वृत्त्यारूढ-रूपो दृश्यो दर्पणारूढ-मुखवत् । केवलस्य द्रष्टेति प्रकार-भेदात् कथं कर्म-कर्तृ-विरोध इति दिक् । कर्म-कर्तृ-विरोधस् तु बौद्ध-मत एव भवति, चित्तातिरिक्त-द्रष्ट्र्-अनभ्युपगमेन करणान्तरानभ्युपगमेन न द्रष्टरि साक्षाद् एव स्व-प्रतिबिम्बादेर् अनुपपत्तिर् इति ।
चित्तस्य स्वाभासत्वेऽग्निवद् इति परोक्त-दृष्टान्तस्यासिद्धिम् आह—न चाग्निर् अत्रैति । अत्र स्वाभासत्वे । न ह्य् अग्निर् इति । यद्य् अग्निः पूर्वं तमसा पिहितः पश्चाद् आत्मानं प्रकाश्यतीति क्वचिद् दृष्टं स्यात् तदाग्नेः स्वप्रकाश्यत्वं पुरुषस्येव सिद्ध्येत्, तद् एव तु नास्तीत्य् अर्थः ।
ननु पुरुषोऽपि प्रकाश-स्वरूप एव सर्वदा, तमस् तु बुद्धि-वृत्तेर् एव प्रतिबन्धकम् इति चेत् ? सत्यम्—तथापि बुद्धि-वृत्त्याख्य-करणाभाव-काले सात्मना अविषयीकृत्य करण-काले विषयीकरोतीत्य् अयम् अग्नितो विशेषोऽस्त्य् एवातः प्रकाश-स्वरूपतादि-साम्येऽपि पुरुषह् स्वप्रकाश्यो नाग्निर् इति । न केवलं प्रमाणाभावाद् एवाग्नेः स्व-प्रकाश्यत्वाभावोऽपि तु प्रकाश्यत्व-व्यवहार-कारणाभावाद् अपीत्य् आह—प्रकाशश् चायम् इति । प्रकाशोऽत्र प्रकाश्यत्व-व्यवहारोऽन्यथा प्रकाश-संयोगस्यैव प्रकाश्यत्व-रूपतया तस्य संयोग-जन्यत्वानुपपत्तेर् इति । संयोगे प्रतिबिम्ब-साधारण-सम्बन्धो यदि चाग्नौ साक्षाद् एव स्व-प्रतिबिम्बादिर् इष्यते, तदा दृष्ट-विरोध इति भावः । अग्नेः स्व-प्रकाशत्वं तु प्रकाशान्तर-नैरपेक्ष्येण स्वत एव प्रकाशत्वम्, घटादयस् तु प्रकाश-सम्बन्धाद् एव प्रकाशन्ते, अग्नि-दृष्टान्तेन चेदृशम् एव स्वप्रकाशत्वं पुरुषस्य शास्त्रेषूच्यते चित्ताद् विवेकाय । चित्तस्य हि प्रकाशः पुरुषोपाधिक एवायसो दग्धृत्ववद् इति । यत् तु अवेद्यत्वे सत्य् अपरोक्ष-व्यहार-योग्यत्वं स्व-प्रकाशत्वम् इत्य् आधुनिक-वेदान्ति-ब्रुवाणां प्रलपनं तत्-प्राग् एव निराकृतं, विस्तरतस् तु ब्रह्म-मीमांसायाम् अपीति दिक् ।
नन्व् एवम् अप्रकाश्यत्व-रूपम् एव स्वाभासत्वं चित्तस्यास्माभिर् अभ्युपेयम्, तथा चाग्नि-दृष्टान्त उपपन्नः स्यात् ? तत्राह—किं चेति । शब्दार्थः स्वाभास-शब्दार्थः । सम्भवतीति शेषः । एवं च सतीदं दूषणम् इत्य् आह—स्व-बुद्धि-प्रचार-इत्य् आदिना । बुद्धेः प्रचारो वृत्तिः, तस्याः संवेदनात् क्रोधाद्य्-अनुभवात् तद्-धानाद्य्-अर्थं सत्त्वानां प्राणिनां प्रवृत्तिर् दृश्यते । तच् च स्व-बुद्ध्य्-अग्रहणे युक्तं न भवतीति बुद्धेर् ग्राह्यत्वम् अवश्यं वक्तव्यम् इत्य् अर्थः ।
नन्व् अहं क्रुद्ध इत्य् आदि-प्रत्यये पुरुषस्यापि ग्रहणात् स्वाभासत्वं न स्याद् इति चेत् ? सत्यम् । प्रग्राह्यत्व-रूपस्य स्वाभासत्वस्य पुरुषेऽप्य् अनङ्गीकाराद् इति । यद्यप्य् आदौ क्रोधादीनां स्वरूपतो निर्विकल्प एव बोधः पौर्षेयो भवति, क्रुद्धोऽहम् इत्य्-आदेस् त्व् अहङ्कारस्यैव व्यक्तिः । पुरुषस्याभ्रान्तत्वात् । कूतास्थतया बुद्धि-वृत्त्य्-आकारातिरिक्ताकारासम्भवाच् च । तथापि पौरुषेयेण क्रोध-निर्विकल्पेन जनिता क्रुद्धोऽहम् इति यान्तःकरणस्य विशिष्ट-वृत्तिस् तत्-साक्षिको बोधश् च तद्-ग्राह्यत्वेनैवात्र चित्तस्याग्राह्यत्वं प्रतिषिध्यते । क्रोधादीनां पौरुषेय-निर्विकल्पकस्य शब्दागोचरत्वेनोपन्यसितुम् अशक्यत्वात् । पुरुष-साधकं तु चित्त-ग्रहणं वृत्ति-गोचर-निर्विकल्पकम् अनुमान-गम्यम् एव, तस्य हि चित्त-धर्मत्वं सम्भवति, नियमेन सर्व-वृत्ति-गोचराया जन्य-निर्विकल्पक-धारायाः स्वीकारेऽनवस्थापत्तेः । अज्ञात-वृत्ति-स्वीकारे च क्रुद्धोऽहं न वेत्य् आदि-संशयाद्य्-आपत्तेः क्रोधादि-गोचर-नित्य-निर्विकल्पकैक-ज्ञान-स्वीकारे च विशिष्ट-प्रत्यक्ष-सामग्र्या बलवत्त्याः प्रतिबन्धात् संशयाद्य्-अभावः, सम्प्रज्ञात-योगेऽपि वृत्तिः स्वरूपतो भासत एवेत्य् अभ्युपेयम् इति ॥१९॥
—o)0(o—
एक-समये चोभयानवधारणम् ॥२०॥
न चैकस्मिन् क्षणे स्व-पर-रूपावधारणं युक्तम् । क्षणिक-वादिनो यद् भवनं सैव क्रिया, तद् एव च कारकम् इत्य् अभ्युपगमः ॥२०॥
तत्त्व-वैशारदी : एक-समये चोभयानवधारणम् ॥ स्वभासं विषयाभासं चित्तम् इति ब्रुवाणो न तावद् येनैव व्यापारेणात्मानम् अवधारयति तेनैव विषयम् अपीति वक्तुम् अर्हति । न ह्य् अविलक्षणो व्यापारः कार्य-भेदाय पर्याप्तः । तस्माद् व्यापार-भेदोऽङ्गीकर्तव्यः । न च वैनाशिकानाम् उत्पत्ति-भेदातिरिक्तोऽस्ति व्यापारः । न चैकस्या एवोत्पत्तेर् अविलक्षणायाः कार्य-वैलक्षण्य-सम्भवः, तस्याकस्मिकत्व-प्रसङ्गात् । न चैकस्योत्पत्ति-द्वय-सम्भवः । तस्माद् अर्थस्य च ज्ञान-रूपस्य चावधारणं नैकस्मिन् समय इति । तथा चोक्तं वैनाशिकैः—भूतिर् येषां क्रिया सैव कारकं सैव चोच्यते इति । तस्माद् दृश्यत्वम् एतच् चित्तस्य सदातनं स्वाभासत्वम् अपनयद् द्रष्टारं च द्रष्टुर् अपरिणामित्वं च दर्शयतीति ॥२०॥
योग-वार्तिकम् : चित्तस्य स्वाभासता-वादि-मते तन्-मतम् आलम्ब्यैवान्य-दूषणम् आह—एक-समये चोभयानवधारणम् ॥
सूत्रार्थम् आह—न च इत्य् आदिना युक्तम् इत्य् अन्तेन । न च नाप्य् एकस्मिन्न् उत्पत्ति-क्षण एव स्व-परावधारणंयुक्तम्, पूर्वं सत एव प्रत्यक्षर-गोचरत्वात्, स्वस्य च प्राग्-असत्त्वाद् इत्य् अर्थः ।
नन्व् एवं स्वोत्पत्त्य्-अनन्तरं स्व-ग्रहणम् अस्तु ? तत्राह—क्षणिक-इति । क्षणिक-वादि-मते या वस्तुन उत्पत्तिः सैव क्रिया, तस्य कार्यं सैव च तस्य कर्त्र्-आदि-कारक-वर्गः, तन्-मते सर्वं वस्तूत्पत्ति-मात्र-फलकं निर्हेतुकं स्वयम् एव भवतीति सिद्धान्तः । तथा चोक्तं—भूतिर् येषां क्रिया सैव कारकं सैव चोच्यते इति ।
अत्रोत्पत्त्य्-अननतरं चित्तस्य स्व-ग्रहणार्था क्रिया न सम्भवतीत्य् अर्थः । अस्मन्-मतेऽपि शब्द-बुद्धि-कर्मणा विरम्य व्यापाराभावाद् एकस्या वृत्तेर् द्व्यर्थ-ग्राहकत्वं न सम्भवतीति भावः ॥२०॥
—o)0(o—
(४.२१)
स्यान् मतिः—स्व-रस-निरुद्धं चित्तं चित्तान्तरेण समनन्तरेण गृह्यत इति ।
चित्तान्तर-दृश्ये बुद्धि-बुद्धेर् अतिप्रसङ्गः स्मृति-संकरश् च ॥२१॥
अथ चित्तं चेच् चित्तान्तरेण गृह्येत, बुद्धि-बुद्धिः केन गृह्यते ? साप्य् अन्यया साप्य् अन्ययेत्य् अतिप्रसङ्गः । स्मृति-संकरश् च—यावन्तो बुद्धि-बुद्धीनाम् अनुभवास् तावत्यः स्मृतयः प्राप्नुवन्ति । तत्-सङ्कराच् चैक-स्मृत्य्-अनवधारणं च स्याद् इति । एवं बुद्धि-प्रतिसंवेदिनं पुरुषम् अपलपद्भिर् वैनाशिकैः सर्वम् एवाकुलीकृतम् । ते तु भोक्तृ-स्वरूपं यत्र क्वचन कल्पयन्तो न न्यायेन सङ्गच्छते । केचित् तु सत्त्व-मात्रम् अपि परिकल्प्यास्ति, स सत्त्वो य एतान् पञ्च स्कन्धान् निक्षिप्यान्यांश् च प्रतिसन्दधातीत्य् उक्त्वा, तत एव पुनस् त्रस्य न्ति । तथा स्कन्धानां महा-निर्वेदाय विरागायानुत्पादाय प्रशान्तये गुरोर् अन्तिके ब्रह्म-चर्यं चरिष्यामीत्य् उक्त्वा सत्त्वस्य पुनः सत्त्वम् एवापह्नुवते । साङ्ख्य-योगादयस् तु प्रवादाः, स्व-शब्देन पुरुषम् एव स्वामिनं चित्तस्य भोक्तारम् उपयन्तीति ॥२१॥
तत्त्व-वैशारदी : पुनर् वैनाशिकम् उत्थापयति—स्यान् मतिः । मा भूद् दृश्यत्वेन स्व-संवेदनम्, एवम् अप्य् आत्मा न सिध्यति, स्व-सन्तान-वर्तिना चरम-चित्त-क्षणेन स्व-रस-निरुद्ध-स्वजनक-चित्त-क्षण-ग्रहणाद् इत्य् अर्थः । समं च तज्-ज्ञात्वेन , अनन्तरं चाव्यवहितत्वेन, समनन्तरं तेन । चित्तान्तर-दृश्ये बुद्धि-बुद्धेर् अतिप्रसङ्गः स्मृति-संकरश् च ॥
बुद्धिर् इति चित्तम् इत्य् अर्थः । नागृहीता चरमा बुद्धिः पूर्व-बुद्धि-ग्रहण-समर्था । न हि बुद्ध्यासम्बद्धा पूर्व-बुद्धिर् बुद्धा भवितुम् अर्हति । न ह्य् अगृहीत-दण्डो दण्डिनम् अवगन्तुम् अर्हति । तस्माद् अनवस्थेति । विज्ञान-वेदनासंज्ञा-रूप-संस्काराः स्कन्धाः । साङ्ख्य-योगादयः प्रवादाः । साङ्ख्याश् च योगाश् च त एवादयो येषां वैशेषिकादि-प्रवादानां ते साङ्ख्य-योगादयः प्रवादाः । सुगमम् अन्यत् ॥२१॥
योग-वार्तिकम् : उत्तर-सूत्रम् अवतारयति—स्यान् मतिःिति । मतिर् अभ्युपगमः । ननु स्वाभास-शब्देन स्व-सन्तान-भास्यत्वं वक्तव्यम्, तथा च स्व-रसेन विनाश-स्वभावेन निरुद्धं नष्टम् अपि चित्तम् उत्तरोत्तरम् उत्पन्नेन चित्तान्तरेण ग्राह्यम् इत्य् अभ्युपगमः स्याद् इति कर्म-कर्तृ-विरोधादि-दोष इत्य् अर्थः । तत्र सिद्धान्त-सूत्रम्—चित्तान्तर-दृश्ये बुद्धि-बुद्धेर् अतिप्रसङ्गः स्मृति-संकरश् च ॥
वृत्ति-रूप-चित्तान्तरेण वृत्ति-रूप-चित्ते दृश्येऽभ्युपगम्यमाने तु बुद्धि-बुद्धेर् वृत्ति-वृत्तेर् अतिप्रसङ्गोऽनवस्था ।
एतद् व्याचष्टे—अथैति । बुद्धि-बुद्धिश् चित्त-गोचरं चित्तम्, परेषां वृत्त्य्-अतिरिक्त-चित्ताभावेन वृत्ति-चित्तयोः पर्यायत्वात् ।
ननु नेयम् अनवस्था, सर्वम् एव चित्तं ग्रहीतव्यम् इति नियमाभावाद् इति चेत् ? वृत्तेर् अज्ञात-सत्ताङ्गीकारे जानामि न वेत्य् आदि-संशयापत्तेः, योग्यानुपलब्ध्या य्नाद्य्-अभाव-प्रत्यक्षानुपपत्तेश् च । किं च, मा भवत्व् अनवस्था, वृत्ति-गोचरानन्त-वृत्ति-कल्पना-गौरवं त्व् अपरिहार्यम् एव, अस्माभिर् लाघवेन सकल-वृत्ति-गोचरैक-विभु-ज्ञान-कल्पनाद् इति । एतेन चित्त-नित्यत्वाभ्युपगमिनाम् अपि न्याय-वैशेषिकाणाम् उत्तरोत्तर-ज्ञानेन पूर्व-पूर्व-ज्ञान-ग्रहण-कल्पना परास्ता, अनवस्था-गौरवाभ्याम् इति मन्तव्यम् ।
अतिप्रसङ्गं व्याख्याय स्मृति-सङ्करं व्याचष्टे—स्मृति-संकरश् चैति । बुद्धि-बुद्धेर् इति शेषः । सङ्कर-शब्दार्थम् आह—यावन्त इति । विषयानुभव-काले ज्ञान-धारा जातेति विषय-स्मृति-कालेऽप्य् अनन्तानां तज्-ज्ञानानां स्मृतिर् एकदैव भविष्यति, घटो मया पुरा ज्ञातो घट-ज्ञानं तज्-ज्ञानं चेत्य् एवम् अनन्ताकारः, सोऽयं स्मृति-सङ्करः प्राप्त इत्य् अर्थः । अस्मन्-मते च पौरुषेय-बोधस्य नित्यतया निर्विकल्प-मात्रतया च न स्मृति-हेतुअत्वम् इति ।
नन्व् एतादृश-सङ्करे को दोष इति ? तत्राह—तत्-सङ्कराच् चैति । सङ्कराभ्युपगमे च घटो मया ज्ञात इत्य् एक-मात्राकार-स्मृत्य्-अनुभवो न स्याद् इत्य् अर्थः ।
अन्यान्य् अपि दूषणानि सूत्रयन् नास्तिक-मतं तिरस्करोति—एवं बुद्धि- इति । सर्वं बन्ध-मोक्ष-धर्माधर्मादि-व्यवस्थादिकम् । तद् एवं चित्ताद् विविच्य मोक्षो व्यवस्थापितः, चित्तस्य च स्वाभासत्वं निराकृतम् ।
इदानीं परेषाम् इष्टोक्तात्म-तत्त्वावधारणस्य स्वाभ्युपगम-विरोधेनाप्य् अन्याय्यताम् आह—ते तुइति । न न्यायेन सङ्गच्छन्ते न्याय-विरुद्धा इत्य् अर्थः ।
तेषां विज्ञान-वादः शून्य-वादश् चेति मुख्यं मत-द्वयम् । तत्रादौ विज्ञान-वादिनां क्षणिकताख्य-स्वाभ्युपगम-विरोधान् न्याय-विरुद्धाद् भयं दर्शयति—केचितिति । सत्त्व-मात्रम् क्षणिक-विज्ञान-रूपं चित्त-मात्रं परिकल्प्य स्वीकृत्य तस्यैव मोक्षं वदन्ति । अस्ति स सत्त्व-विशेषो य एतान् सांसारिकान् पञ्च स्कन्धान् हित्वा अन्यांश् च पञ्च-स्कन्धान् युक्तोऽनुभवतीति । ततश् च तत एव स्वाभ्युपगमात् पुनस् त्रस्य न्ति चित्त-स्थैर् यापत्त्येत्य् अर्थः । अतो न्याय-विरुद्धास् त इति । पञ्च-स्कन्धाश् च विज्ञान-वेदनासंज्ञा-रूप-संस्काराख्याश् चित्तस्यैव शाखा-भेदा न तु चित्ताद् भिन्नाः । तत्र विज्ञानं विषयानुभवः, वेदना दुःखं, संज्ञा-रूपे शब्दार्थाव् इति यावत्, संस्कारो वासना । एतेष्व् एषाम् अपि मुखादीनां प्रवेश इत्य् अखिलं वस्तु चित्तम् एवेति ।
शून्य-वादेऽप्य् आह—तथेति । तथान्ये स्कन्धानांमहा-निर्वेदाय महा-निर्वेदाख्य-वैराग्यायापुनर्-जन्म-रूप-प्रशान्तये च जीवन्मुक्तस्य गुरोर् अन्तिकेब्रह्म-चर्यं ब्रह्माभ्यासं साक्षात्कार-पर्यन्तं करिष्यामीत्य् उक्त्वा शिष्यताम् आपन्ना नास्तिका गुरूपदेशात् सत्त्वस्याहं-शब्दार्थस्यापि सत्ताम् अपलपन्ति शून्य-वादिनो भवन्तीत्य् अर्थः । तेऽपि न्याय-विरुद्धाः, भोक्तुः सत्त्वस्यापलापेन स्वामि-प्रेतस्य मोक्षस्याहं-शब्दार्थस्य ब्रह्मचर्यादीनां सत्तास्वीकारात् । सेयम् उद्देश्य-विस्मृतिः कथं मूढान् न लज्जयतीति ?
एतेनाधुनिक-वेदान्ति-ब्रुवा अपि न्याय-विरुद्धा मन्तव्याः । तेऽपि हि मोक्षाद्य्-अर्थं गुरुम् उपसन्ना ब्रह्मातिरिक्तं सर्वं शुक्ति-रजतवद् अत्यन्त-तुच्छम् इति गुरूपदेशान् मोक्ष-तत्साधनादिकम् एवापलपन्तीति । अपि चोपदेशानन्तरम् अकृत-साक्षात्कारस्य मननादि-साधनाद्य्-अनुष्ठानाभ्युपगमोऽपि तेषां न न्याय्यः, असतोपदेशेन फल-तत्-साधनेषु सर्वेष्व् एवाविश्वासात्, अश्रद्धया कृतेनापि फलानुदयाच् च । किं बहुना, श्रुत्य्-आदि-प्रामाण्य-बाधनेन ज्ञान-प्रामाण्य-संशयाद्य्-आहितः संशया योगान्तेऽपि ब्रह्मणि स्यात् । न च स्व-प्रकाशतया ब्रह्मणि न प्रमाणापेक्षेति वाच्यम्, प्रकाशतस् तस्य तत्-सिद्धौ कर्म-कर्तृ-विरोधाद् इति साङ्ख्य-सूत्रोक्त-दोषात्, स्वाभ्युपगत-श्रवणादि-वैयर्थापत्तेश् च, मोक्ष-साधन-विषयस्य विवेकस्यास्व-प्रकाशत्वाच् च । यत् तु अवेद्यत्वेऽपि प्रत्यक्ष-व्यवहार-योग्यत्वं स्व-प्रकाशत्वम् इति प्रलपनं, तत् शश-शृङ्गवन् मन्तव्यम्, वेदनस्य व्यवहारं प्रति सामानाधिकरण्येन हेतुत्वात्, द्रष्टव्यत्वादि-श्रुति-विरोधाच् चेति । सैषातिनास्तिकता दृश्यतेऽपि बहिर्मुखानां यति-मानिनाम् इति । आधुनिकानां वेदान्ते विवर्त-वादो यथा यथा विचार्यते, तथा तथा न्याय-विरोधेन सिकता-सेतुवद् विशीर्यते ।
स्व-मते तु नास्य् अयं न्याय-विरोधः, मोक्ष-भागिनोऽं-शब्दार्थस्य भोक्तुः स्थिरस्य स्वीकाराद् इत्य् आह—साङ्ख्य-योगादयस् तुइति । आदि-शब्देन ब्रह्म-मीमांसादयो ग्राह्याः । प्रकृष्टा वादाः प्रवादाः, स्व-शब्देन अहं-स्वम्-आत्मेत्य्-आदि-शब्द-जातेन न त्व् अन्यः । कथम् अन्यस्यात्माहम् इत्यादि वृत्ति-गोचरः स्यात् ? तत्राह—चित्तस्य स्वामिनमिति । स्वामी ह्य् आत्मा लोके व्यवह्रियते, यच् चाप्नोति यद् आदत्त[लिङ्ग-पु. ७०.९६] इत्य् आदि-शास्त्रे चेति ।
अपरिणामिनि यथेष्ट-विनियोक्तृत्वाभावात् कथं स्वामित्वम् ? तत्राह—भोक्तारमिति । अत्र च स्वतोऽपि पुरुषस्य भोगोऽस्तीत्य् अवधारणीयं, प्रकृतोपपत्तये चित्तस्य स्वाभासत्वं निराकृतम् ॥२१॥
—o)0(o—
(४.२२)
कथम् ?
चितेर् अप्रतिसंक्रमायास् तद्-आकारापत्तौ स्व-बुद्धि-संवेदनम् ॥२२॥
अपरिणामिनी हि भोक्तृ-शक्तिर् अप्रतिसंक्रमा च, परिणामिन्य्-अर्थे प्रतिसंक्रान्तेव तद्-वृत्तिम् अनुपतति । तस्याश् च प्राप्त-चैतन्योपग्रह-स्वरूपाया बुद्धि-वृत्तेर् अनुकार-मात्रतया बुद्धि-वृत्त्य्-अविशिष्टा हि ज्ञान-वृत्तिर् आख्यायते । तथा चोक्तम्—
न पातालं न च विवरं गिरीणां
नैवान्धकारं कुक्षयो नोदधीनाम् ।
गुहा यस्यां निहितं ब्रह्म शाश्वतं
बुद्धि-वृत्तिम् अविशिष्टां कवयो वेदयन्ते ॥ इति ॥२२॥
तत्त्व-वैशारदी : स्याद् एतत् । यदि च्चित्तं न स्वाभासं नापि चित्तान्तर-वेद्यम् आत्मनापि कथं भोक्ष्यते चित्तम् ? न खल्व् आत्मनः स्वयं-प्रकाशस्याप्य् अस्ति काचित् क्रिया । न च ताम् अन्तरेण कर्ता । न चासंबद्धश् चित्तेन कर्मणा तस्य भोक्तातिप्रसङ्गाद् इत्य् आशयवान् पृच्छति—कथमिति । सूत्रेणोत्तरम् आह—चितेर् अप्रतिसंक्रमायास् तद्-आकारापत्तौ स्व-बुद्धि-संवेदनम् ॥
यत् तद् अवोचत् वृत्ति-सारूप्यम् इतरत्र [१.४] इति तद् इतः समुत्थितम् । चितेः स्व-बुद्धि-संवेदनं बुद्धेस् तद्-आकारापत्तौ चिति-प्रतिबिम्बाधारतया तद्-रूपतापत्तौ सत्याम् । यथा हि चन्द्रमसः क्रियामन्तरेणापि सङ्क्रान्त-चन्द्र०प्रतिबिम्बम् अमलं जलम् अचलं चलम् इव चन्द्रमसम् अवभासत्वय् एवं विनापि चिति-व्यापारम् उपसङ्क्रान्त-चिति-प्रतिबिम्बं चित्तं स्व-गतया क्रियया क्रियावतीनांम् असंगताम् अपि सङ्गतां सूत्रार्थः । भास्यम् अप्य् एतद्-अर्थम् असकृत् तत्र तत्र व्याख्यातम् इति न व्याख्याम् अत्र ।
बुद्धि-वृत्त्य्-अविशिष्टत्वे ज्ञान-वृत्तेर् आगमम् उदाहरति—तथा चोक्तं—न पातालम् इति । शाश्वतस्य शिवस्य ब्रह्मणो विशुद्ध-स्वभावस्य चिति-च्छायापन्नां मनो-वृत्तिम् एव चिति-च्छायापन्नत्वाच् चितेर् अप्य् अविशिष्टां गुहां वेदयन्ते । तस्याम् एव गुहायां तद् गुह्यं ब्रह्म, तद्-अपनये तु स्वयं-प्रकाशम् अनावरणम् अनुपसर्गं प्रद्योतते चरम-देहस्य भगवत इति ॥२२॥
योग-वार्तिकम् : इदानीं सदा ज्ञाताश् चित्त-वृत्तयस् तत्-प्रभोः पुरुषस्यापरिणामित्वात्[४.१८] इति सूत्रस्योपपादकं सूत्रम् एतेनैव प्रसङ्गेनोत्थापयति—कथमिति । नन्व् अपरिणामित्वेविषये सञ्चाराभावात् तद्-आकार-परिणामाभावाच् च कथं चित्त-ज्ञातृत्व-रूपं चित्त-भोक्तृत्वं पुरुषस्य स्यात्, चित्त-स्थले हि घटादि-विषय-ग्रहणं चित्तस्य सञ्चारात् तद्-आकार-परिणामाच् च दृष्टम् इत्य् अर्थः ? तत्र सिद्धान्त-सूत्रम्—चितेर् अप्रतिसंक्रमायास् तद्-आकारापत्तौ स्व-बुद्धि-संवेदनम् ॥
अप्रतिसञ्चाराया अपि चितेः स्वीय-बुद्धि-वृत्ति-दर्शनं बुद्धि-वृत्त्य्-आकारतापत्त्यैव भवतीत्य् अर्थः । अयं भावः ज्ञातुः सञ्चारो न साक्षाद् एव ज्ञाने हेतुः किं त्व् अर्थाकारता हेतुः सन्निकर्ष-द्वारा, अन्यथा स्वप्नादौ मनः-सञ्चाराभावेनार्थ-भानायोगात् । अतो विभुत्वेनैव सर्वत्र सन्निकृष्टस्यात्मनः सञ्चारो नापेक्ष्यत इति । आपत्ति-ग्रहणं च पुरुषस्य पारमार्थिकाकार-प्रतिषेधार्थम् । यथा हि विषयासन्निकर्ष-कालेऽपि स्वप्नादौ तद्-भानायागत्या चित्तस्य तद्-आकारः परिणाम इष्यते नैवं पुरुषस्य चित्त-वृत्त्य्-अभावेऽपि तद्-भानं भवति येन पुरुषेऽपि वृत्त्य्-आकारः परिणाम इष्यते, किं तु स्फटिके सन्निकृष्ट-जपा-लौहित्यस्येव चित्त-वृत्तेः प्रतिबिम्बम् एव लाघवाद् इष्यते । उभयत्राकाराख्य-परिणाम-कल्पने गौरवात्, स्फटिक-दर्पणादेः स्व-प्रतिबिम्बित-वस्तु-प्प्रकाशकत्वस्य सिद्धत्वाच् चेति । तद् इदं वृत्ति-प्रतिबिम्बितम् एव वृत्त्य्-आकारापत्तिर् इत्य् उक्तं सूत्रकारेणेति ।
भाष्य-कारः पुरुषस्य बुद्ध्य्-आकारतां प्रतिपादयितुम् आदौ बुद्धेर् एव रूपम् आह—अपरिणामिनीइति । भोक्तृ-शक्तिः पुरुषाख्यापरिणामिनी । अतो नापि गतिमती । ततो न स्वप्न-जाग्रतोश् चित्तस्येव पुरुषस्य ज्ञानं सम्भवति, किं तु वृत्ति-सरूप-परिणामिन्य्-अर्थे चितिः प्रतिसङ्क्रान्तेव प्रतिबिम्ब-रूपेण सञ्चरितेव सती तद्-वृत्तिम् अनुपतति तद्-वृत्तिं चेतनवत् करोतीत्य् अर्थः । अन्यथा हि घटम् अहं जानामीति बुद्धि-वृत्त्य्-अनुपपत्तिः । बुद्धेर् अनर्हत्वाद् अचेतनत्वाच् चेत्य् उत्तर-सूत्रे वक्ष्यति ।
अथाविवेकाद् एवैतादृशी बुद्धि-वृत्तिर् इति चेत् ? सत्यम्—तथाप्य् अविवेक एव प्रतिबिम्ब-मूलको दोषान्तराभावात् । तथा चेतन-भानार्थम् अपि वृत्तौ तत्-प्रतिबिम्बः कल्प्यते, बुद्ध्य्-आरूढतयैव शब्दादिवद् आत्मनोऽपि भानाद् इति । इदम् एव प्रतिबिम्बं बुद्धेश् चिच्-छायापत्तिर् इत्य् उच्यते, तथा बुद्धेर् अर्थाकारतावत् आत्माकारतेत्य् अप्य् उच्यत इति मन्तव्यम् । यद्यपि घटाद्य्-आकार-परिणामवद् आत्माकार-परिणाम एव बुद्धेर् भवति, तथापि प्रतिबिम्ब-तुल्यतया स एव प्रतिबिम्बम् अप्य् उच्यते ।
बुद्धे रूपं प्रदर्श्य पुरुषस्य तद्-आकारतापत्तिं दर्शयति—तस्याश् चैति । हि-शब्दोऽत्रावधारणे । तस्या अपि चित्तेर् ज्ञान-रूपा वृत्तिर् बुद्धि-वृत्त्य्-अविशिष्टैवेत्य् आख्यायते व्यवह्रियते । तत्र हेतुः—प्राप्त-इत्य् आदि । प्राप्तेश् चैतन्योपग्रहश् चैतन्य-प्रतिबिम्बं येनैतादृशं रूपं यस्या बुद्धि-वृत्तेस् तद्-अनुकारि-मात्रतया तत्-प्रतिबिम्बाधारता-मात्रेणेत्य् अर्थः । द्रष्टा दृशि-मात्र इति सूत्रेऽपीदम् एव वाक्यं भाष्य-कारैः प्रमाणत्वेनोपन्यस्तम् । वृत्ति-सारूप्यंितरत्र [१.५] इत्य् अत्राप्य् एतद् उक्तम् इति स्मर्तव्यम् ।
ननु जानाम्य् अहं क्रुद्धोऽहं भीतोऽहम् इत्य् आदि-रूपता वृत्तेर् एवेति प्राग् एवोक्तम् । तर्हि निर्विकल्पकस्य वृत्ति-बोधस्य स्वरूपं कीदृशम् इति ? उच्यते—यादृशं ज्ञान-क्रोधादि-वृत्तीनां रूपं तादृशम् एव, बिम्ब-प्रतिबिम्बोद्ग्रहणात् तद् एव वृत्ति-बोधस्य रूपम्, स च वृत्ति-बोधो वृत्त्य्-अविवेकेन जानामीति वृत्त्य्-अन्तरस्य विषय एव भवति, ज्ञान-चिति-बोधादि-शब्दानां पर्यायत्वाद् इति ।
एकाकारतापत्ताव् आगमम् अपि प्रमाणयति—तथा चोक्तमिति । न पातालम् इत्य्-आदेर् अयम् अर्थः— गुहाहितं गह्वरेष्टं पुराणम्[क.उ. १.२.११] इत्य् आदि-श्रुति-स्मृतिषु यस्यां गुहायां गुह्यं शाश्वतं ब्रह्मांशांश्य्-अभेदाद् आत्म-सामान्यं निहितं सुगुप्तम् इति गीयते, सा गुहान पातालादि किं तु ब्रह्म-वृत्त्य्-अविशिष्टां बुद्धि-वृत्तिम् एव कवयः पण्डिताः पश्यन्तीति । अविशिष्टता च परस्परं प्रतिबिम्बनाद् उभयोर् एव विषयाकारत्वं चेतन-साम्यम् इत्य् उक्तम् । अतो विविच्य ग्रहणायोग्यतयावस्थितिर् एवात्मनः सङ्गोपनं बुद्धाव् इति श्लोक-तात्पर्यार्थः । तद् एतद् एकाकारत्वम् आदित्य-पुराणेऽप्य् उक्तम्—
नित्यः सर्व-गतो ह्य् आत्मा बुद्धि-सन्निधि-सत्तया ।
यथा यथा भवेद् बुद्धिर् आत्मा तद्वद् इहेष्यते ॥ इति ॥२२॥
—o)0(o—
(४.२३)
अतश् चैतद् अभ्युपगम्यते—
द्रष्टृ-दृश्योपरक्तं चित्तं सर्वार्थम् ॥२३॥
मनो हि मन्तव्येनार्थेनोपरक्तम् । तत् स्वयं च विषयत्वाद् विषयिणा पुरुषेणात्मीयया वृत्त्याभिसम्बद्धम् । तद् एतच् चित्तम् एव द्रष्टृ-दृश्योपरक्तं विषय-विषयि-निर्भासं चेतनाचेतन-स्वरूपापन्नम्, विषयात्मकम् अप्य् अविषयात्मकम् इवाचेतनं चेतनम् इव स्फटिक-मणि-कल्पं सर्वार्थम् इत्य् उच्यते ।
तद् अनेन चित्त-सारूप्येण भ्रान्ताः केचित् तद् एव चेतनम् इत्य् आहुः । अपरे चित्त-मात्रम् एवेदं सर्वं नास्ति खल्व् अयं गवादिर् घटादिश् च स-कारणो लोक इति । अनुकम्पनीयास् ते । कस्मात् ? अस्ति हि तेषां भ्रान्ति-बीजं सर्व-रूपाकार-निर्भासं चित्तम् इति ।
समाधि-प्रज्ञायां प्रज्ञेयोऽर्थः प्रतिबिम्बी-भूतस् तस्यालम्बनी-भूतत्वाद् अन्यः । स चेद् अर्थश् चित्त-मात्रं स्यात्, कथं प्रज्ञयैव प्रज्ञा-रूपम् अवधार्येत ? तस्मात् प्रतिबिम्बी-भूतोऽर्थः प्रज्ञायां येनावधार्यते, स पुरुष इति ।
एवं ग्रहीतृ-ग्रहण-ग्राह्य-स्वरूप-चित्त-भेदात् त्रयम् अप्य् एतज्-जातितः प्रविभजन्ते ते सम्यग्-दर्शिनः, तैर् अधिगतः पुरुष इति ॥२३॥
तत्त्व-वैशारदी : तद् एवं दृश्यत्वेन चित्तस्य परिणामिनस् तद्-अतिरिक्तः पुमान् अपरिणति-धर्मोपपादितः । सम्प्रति लोक-प्रत्ययक्षम् अप्य् अत्र प्रमाणयति—अतश् चैतद् इति । अवश्यं चैतद् इत्य् अर्थः । द्रष्टृ-दृश्योपरक्तं चित्तं सर्वार्थम् ॥ यथा हि नीलाद्य्-अनुरक्तं चित्तं नीलाद्य्-अर्थं प्रत्यक्षेणैवावस्थापयत्य् एवं द्रष्टृ-च्छायापत्त्या तद् अनुरक्तं चित्तं द्रष्टारम् अपि प्रत्यक्षेणावस्थापयति । अस्ति हि द्व्य्-आकारं ज्ञानं नीलम् अहं संवेद्मीति । तस्माज् ज्ञेयवत् तज्-ज्ञातापि प्रत्यक्षासिद्धोऽपि न विविच्यावस्थापितो यथा जले चन्द्रमसो बिम्बम् । न त्व् एतावता तद् अप्रत्यक्षम् । न चास्य जल-गतत्वे तद् अप्रमाणम् इति चन्द्र-रूपेऽप्य् अप्रमाणं भवितुम् अर्हति । तस्माच् चित्त-प्रतिबिम्बतया चैतन्य-गोचरापि चित्त-वृत्तिर् न चैतन्य-गोचरेति । तद् इदं सर्वार्थत्वं चित्तस्येति ।
तद् एतद् आह—मनो हिइति । न केवलं तद्-आकारापत्त्या मन्तव्येनार्थेनोपरक्तम् मनोऽपि तु स्वयं चेति । च-कारो भिन्न-क्रमः पुरुषेणेत्य् अस्यानन्तरं द्रष्टव्यः । तच्-छायापत्तिः पुरुषस्य वृत्तिः ।
इयं च चैतन्य-च्छायापत्तिश् चित्तस्य वैनाशिकैर् अभ्युपेतव्या । कथम् अन्यथा चित्ते चैतन्यम् एत आरोरयाम्बभूवुर् इत्य् आह—तद् अनेनैति । केचिद् वैनाशिका बाह्यार्थ-वादिनः, अपरे विज्ञान-मात्र-वादिनः ।
ननु यदि चित्तम् एव द्रष्ट्र्-आकारं दृश्याकारं चानुभूयते, हन्त् चित्ताद् अभिन्नाव् एवास्तां द्रष्टृ-दृश्यौ । यथाहुः—
अभिन्नोऽपि हि बुद्ध्यात्मा विपर्यासित-दर्शनैः ।
ग्राह्य-ग्राहक-संवित्ति-भेदवान् इव लक्ष्यते ॥[?] इति ।
तत् कथम् एतेऽनुकम्पनीया इत्य् अत आह—समाधि-प्रज्ञायाम् इति । ते खलूक्ताभिर् उपपत्तिभिश् चित्तातिरिक्तं पुरुषम् अभ्युपगम्याप्य् अष्टाङ्ग-योगोपदेशेन समाधि-प्रज्ञायाम् आत्म-गोचरायाम् अवतार्य बोधयितव्याः । तद् यथा—समाधि-प्रज्ञायां प्रज्ञेयोऽर्थः आत्मा प्रतिबिम्बी-भूतोऽन्यः । कस्मात् ? तस्य आत्मन आलम्बनी-भूतत्वात् ।
अथ चित्ताद् अभिन्नम् एव कस्मान् नालम्बनं भवतीति यदि युक्ति-बोधितोऽपि वैजात्याद् वदेत्, तत्र हेतुम् आह—स चेद् आत्म-रूपोऽर्थश् चित्त-मात्रं स्यात्, न तु ततो व्यतिरिक्तस् ततः कथं प्रज्ञयैव प्रज्ञा-रूपम् अवधार्येत ? स्वात्मनि वृत्ति-विरोधात् ।
उपसंहरति—तस्मात् इति । समीचीनोपदेशेनानुकम्पिता भवन्तीत्य् आह—एवम् इति । जातितः स्वभावत इत्य् अर्थः ॥२३॥
योग-वार्तिकम् : ननु भवतु चित्तेः स्व-बुद्धि-सवेदनम् । शब्दादि-संवेदनं तु कथं भवेत् ? बुद्धिवच् छब्दादीनाम् अपि चित्तौ प्रतिबिम्बन-सामर्थ्याङ्गीकारे सर्वदैअ सर्वार्थ-भान-प्रसङ्गात् । कथं वा चितेः स्व-संवेदनं, उक्ता ह्य् अनवस्था चित्तवत् पुरुषेऽपि समानेत्य् आशङ्का-निरासायोत्तर-सूत्रं प्रवर्तिष्यते, तत् सूत्रं भाष्य-कारः प्रकारान्तरेणाप्य् उत्थापयति—अतश् चैति । अतो बुद्धि-पुरुषयोर् वेद्य-वेत्तृ-भावाच् च तद्-अन्यथानुपपत्तेश् चेति यावत् । एतद् आगामि-सूत्र-प्रतिपाद्यम् अङ्गीक्रियते इत्य् अर्थः । च-कारोऽस्मद्-उक्त-प्रयोजन-समुच्चयार्थः ।
द्रष्टृ-दृश्योपरक्तं चित्तं सर्वार्थम् ॥ सर्वे ग्रहीतृ-ग्रहण-ग्राह्याः पुरुषस्यार्थाः भोग्या अस्मिन्न् इति सर्वार्थम् । अयं घट इत्य् अनन्तरं घटम् अहं जानामीति बुद्धेर् वृत्त्य्-अन्तरस्य ग्रहीतृ-ग्रहण-ग्राह्याकारस्यायं घट इति वृत्तिवद् एव साक्षि-भास्यस्य प्रायशो दर्शनात् । सर्वार्थत्वे हेतुः—द्रष्टृ-दृश्योपरक्तम् इति । द्रष्टृ-दृश्योभयाकारम् इत्य् अर्थः । बाधकं विना सन्निकृष्ट-वस्त्व्-आकारतास्वाभाव्यस्य चित्ते सर्व-संमतत्वाद् इति भावः । तथा च बुद्धि-संवेदनम् एव बुद्धि-स्थस्य शब्दादेः स्वस्य च स-वेदनं बुद्धि-शब्दादि-पुरुषोभयाकारा बुद्धि-वृत्तिः पुरुषे प्रतिबिम्बिता भासते । इदम् एव शब्दादेः पुरुषस्य च दृश्यत्वं बुद्धेर् दृश्यत्ववद् इत्य् अतो न पुरुष-दर्शनार्थं द्रष्ट्र्-अन्तरापेक्षा नापि कर्म-कर्तृ-विरोधोऽन्तः-करण-द्वारत्वाद् इति भावः । एतेन सर्वार्थत्वेन भाष्य-कारोक्तं बुद्धि-पुरुषयोर् अविशिष्टाकारत्वम् अपि सिद्धम् । बुद्धेः पुरुषाकारताऽतिरेक्ण पुरुषवत्त्वासम्भवात् । पुरुषस्य बुद्ध्याकारतायाश् च पूर्व-सूत्रेणैवोक्तत्वाद् इति ।
वेद्यत्वान्यथानुपपत्त्या यः सिध्यति, तं बुद्धौ पुरुषोपरागं प्रतिपादयन् समग्र-सूत्रं व्याचष्टे—मनो हिइति । उपरक्तं तद्-आकारं, अन्यथा ग्रहणानुपपत्तेः । युक्ति-पूर्वकं द्रष्ट्र्-उपरागम् आह—तत् स्वयंचैति । तन्-मनः स्वयम् अपि पुरुषस्य विषयत्वात् स्वीय-चैतन्य-लक्षण-वृत्ति-विशिष्टेन पुरुषेणविषयिणासम्बद्धम् आकारितं तन्-निकर्षस्य ग्रहण-हेतुत्वात् । बुद्धि-वृत्तौ च पुरुषस्यासङ्गस्य प्रतिबिम्बातिरेकेणानित्य-सन्निकर्षासम्भवाद् इति । तस्माद् एतच् चित्तम् एवोभयोपरक्ततया शब्दादि-विषय-रूपेण विषयि-पुरुष-रूपेण च निर्भासते ।
साक्षिण् प्रतिबिम्बितं सद् इति विषय-विषयि-निर्भासम् । तत्र हेतुः—चेतनाचेतन-स्वरूपापन्नम्, तद्-आकारम् । इव-शब्दार्थं दृष्टान्तेनाह—स्फटिक-मणि-कल्पम् इति । यथा एक एव स्फटिक-मणिः पार्श्व-द्वय-स्थयोर् जपेन्द्र-नीलयोः प्रतिबिम्बनात् स्वीय-रूपेण सह त्रि-रूप इव भवतीति, एवं चित्तम् अपि विषयात्मनोः प्रतिबिम्बनात्ग्रहीतृ-ग्रहण-ग्राह्यात्मक-रूपावयववद् इव भवति, अतः सर्वार्थम् इत्य् उच्यते इत्य् अर्थः ।
चितम् एवेत्य् एव-कारेणान्येषां सन्निकर्ष-सत्त्वेऽप्य् आकार-ग्रहण-सामर्थ्यं नास्तीत्य् उक्तम् । अत्र च स्फटिक-दृष्टान्तो न सर्वंशे, बुद्धेः स्वार्थाकार-परिणामस्यैव स्वप्नानुरोधेनेष्टत्वात्, स्फटिके च प्रतिबिम्ब-मात्रस्य स्वीकारात् । किं तु तत्-तद्-वस्तु-सन्निकर्षेण तत्-तद्-रूपतया प्रतीयमानता-मात्रांशे स्फटिकस्य दृष्टान्त इति मन्तव्यम् ।
यद् एतद् उक्तं चित्तस्य द्रष्ट्र्-दृश्य-सारूप्यम् इदम् एव भव-बीजाविवेकस्य कारणम् इति प्रतिपादयति—तद् अनेनैति । केचिद् बाह्यार्थ-वादिनः चित्तातिरिक्त-चेतनानभ्युपगन्तारो वैनाशिकाः । अपरे विज्ञान-वादिनः । लोक्यत इति लोकः । तद् उक्तं विज्ञान-वादिभिः—
अभिन्नोऽपि हि बुद्ध्यात्मा विपर्यासित-दर्शनैः ।
ग्राह्य-ग्राहक-संवित्ति-भेदवान् इव लक्ष्यते ॥[?] इति ।
तेषां च वादिनाम् अयं भावः—चित्तस्य चेत् सर्व-रूपता स्वीकृता तर्ह्य् अलं पुरुषेण, बाह्यार्थेन वानादि-वासना-वशात् स्वत एव चित्तस्यानन्त-परिणाम-स्वीकार-सम्भवात्, दुग्धस्य दधि-रूपतावद् इति । अनुकम्पा-मुखेन तेषु समाधानम् आह—अस्ति हि इत्य् अन्तम् । बीजम् इत्य् अर्थः । एतेन यद् आधुनिका वेदान्ति-ब्रुवा आहुः—विषय-दोषात् करण-दोषाद् वा चैतन्ये भ्रमो न भवति, विषय-करण-दोषयोर् भ्रम-मात्र-कल्पितत्वेन भ्रमात् पूर्वं तयोर् अभावात् । अपि त्व् अनिर्वचनीयाविद्या-मात्राद् इति । तद् धेयम्—चैतन्येऽपि चित्तवद् एव सकल-वस्तु-प्रतिबिम्बेन सारूप्यस्यैव विषय-गत-दोषस्य प्रपञ्चारोप-हेतुता-लाभात्, सर्व-वस्तूनां भ्रम-मात्र-कल्पितत्वस्य चासिद्धेः । शुक्ति-रजतादि-स्थले कॢप्तेन सारूप्य-दोषेणैवाध्यासोपपत्ताव् अध्यास-हेतुतया तद्-अभिप्रेतानाद्य्-अविद्यायां कल्पनानवकाशाच् चेति ।
तत्रादौ विज्ञान-वादिनं बोधयति—समाधि-इत्य् आदिना, रूपम् अवधार्यत इत्य् अन्तेन । भ्रम-स्थले ज्ञेयार्थस्य चित्त-मात्रताया अस्माभिर् अप्य् अभ्युपगमात् । समाधि-प्रज्ञायां प्रज्ञेय इत्य् उक्तम् अर्थस्य सत्यत्व-लाभाय । तथा चायम् अर्थः—विवाद-गोचरोऽर्थश् चित्ते प्रतिबिम्बितो योऽनुभूयतेम् स तस्य चित्तस्य आलम्बनी-भूतत्वाच् चित्ताद् अन्यः ।
तत्र हेतुः—स चेदिति । स चेद् अर्थश् चित्ताकार-मात्रं स्यात्, कथं तर्हि प्रज्ञयैव प्रज्ञाकारो गृह्येत , कर्म-कर्तृ-विरोधात् पुरुषस्यानङीकारात्, पुरुष-प्रज्ञया पुरुष-सिद्धिर् अर्थ-प्रज्ञयार्थस्यापि सिद्ध्यौचित्याद् इति । अतो विज्ञानातिरिक्तो विज्ञेयोऽर्थः सिद्धः ।
अनयैव युक्त्या पुरुषानभ्युपगन्तारं बाह्यार्थ-वादिनाम् अपि बोधयति—तस्मातिति । तस्मात् प्रज्ञा-रूपस्य प्रज्ञा-ग्राह्यत्वाभावाद् एव प्रज्ञायां प्रतिबिम्बी-भूतः प्रतिबिम्बि-रूपेण जातोऽर्थो ज्ञानाकारो येन गृह्यते, स पुरुष इत्य् अपि सिद्धम् इत्य् अर्थः ।
ननु स्वम् अगृहीतत्वैव स्वस्य प्रज्ञा-रूपं गृह्णातु, आकाशाग्रहणेऽपि शब्दवद् इति चेत् ? न, शब्दवत् केवलस्याकारस्याग्रहणात्, अयं घट इति ज्ञानम् अभूद् इत्य् आदि-रूपेण रूपादिवद् धर्मि-पुरस्कारेणिवाकारानुभवाद् इति ।
ननु कर्म-कर्तृ-विरोधः सूत्रकारेणैवोक्तो न स्वाभासम् इत्य् अनेनातो भाष्य-कारस्य पौनरुक्त्यम् इति ? मैवं, तत्र चित्तस्य चित्त-ग्राह्यत्वं निराकृतम् अत्र चित्ताकारस्य चित्त-ग्राह्यत्वं निराक्रियते इति विशेषाद् इति । पुरुष-चित्त-तद्-अर्थानां यथोक्त-प्रकारैर् विवेक-ज्ञानम् एव तत्त्व-ज्ञानम् इति वेदान्तोक्तोपासनादि-व्यावृत्त्य्-अर्थं आर्रय्स्तिकादि-ज्ञान-निरसनार्थं चावधारयति—एवं ग्रहीतृ- इति । ग्रहीत्र्-आदि-त्रितयं परस्पर-विजातीयतया ये विभजन्ति, विवेचयन्ति, त एव सम्यग्-दर्शिनः, तैर् एव पुरुषो लब्धः, अन्ये तु भ्रान्ता इत्य् अर्थः ।
तथा च श्रुतिः—
यन् मनसा न मनुते येनाहुर् मनो मतम् ।
तद् एव ब्रह्मत्वं विद्धि नेदं यद् इदम् उपासते ।[केन.उ. १.५]
अथात आदेशो नेति नेति न ह्य् एतस्माद् इति नेत्य् अन्यत् परम् अस्ति[बृ.आ.उ. २.३.६] इत्यादिः । स्मृतिश् च—
अव्यक्ताद्येऽविशेषान्ते विकारेऽस्मश् च वर्तिते ।
चेतनाचेतनान्यत्व-ज्ञानेन ज्ञानम् उच्यते ॥[वा.पु. ८५.५४] इत्य् आदि ।
आत्मैवेदं सर्वं[छा.उ. ७.१५.२], ब्रह्मैवेदं सर्वं[मु.उ. २.२.११], वासुदेवः सर्वम् इति[गीता ७.१९] इत्य् आदि-श्रुति-स्मृतयस् तु शक्ति-शक्तिमद्-आद्य्-अभेदेनैवोपासनार्थं प्रवर्तन्त इति न तद्-विरोधः । एतेन जीवात्म-प्रकरणेष्व् आत्मैक्य-श्रुतीनाम् अवैधर्म्य-लक्षणाभेदेन विवेक एव तात्पर्यम् इति द्रष्टव्यम्, विवेक-ज्ञानस्यैव सम्यग्-ज्ञानतया मोक्ष-हेतुत्व-वचनात् । परमात्म-प्रकरणस्य तु जीवाद् अपि विवेकेन परमात्मन एकस्य इवात्मत्वे तात्पर्यम् इति मन्तव्यम् ।
द्वितीय-पादे विवेक-ख्यातिर् अविप्लवा हानोपायः [२.१६]इत्य् एवोक्तं, अत्र तु विवेक-ज्ञानस्यैव सम्य-ज्ञानत्वोपपादनेन मोक्ष-हेतुत्वं प्रभाषितं विवेक-स्वरूपं च परीक्ष्यत इति विवेकः ॥२३॥
—o)0(o—
(४.२४)
कुतश् चैतत् ?
तद् असंख्येय-वासनाभिश् चित्रम् अपि परार्थं संहत्य-कारित्वात् ॥२४॥
तद् एतच् चित्तम् असंख्येयाभिर् वासनाभिर् एव चित्री-कृतम् अपि परार्थं परस्य भोगापवर्गार्थं, न स्वार्थं संहत्य-कारित्वाद् गृहवत् । संहत्य-कारिणा चित्तेन न स्वार्थेन भवितव्यम् । न सुख-चित्तं सुखार्थं, न ज्ञानं ज्ञानार्थम् उभयम् अप्य् एतत् परार्थम् । यश् च भोगेनापवर्गेण चार्थेनार्थवान् पुरुषः, स एव परः । न परः सामान्य-मात्रम् । यत् तु किञ्चित् परं सामान्य-मात्रं स्वरूपेणोदाहरेद् वैनाशिकः, तत् सर्वं संहत्य-कारित्वात् परार्थम् एव स्यात् । यस् त्व् असौ परो विशेषः, स न संहत्य-कारी पुरुष इति ॥२४॥
तत्त्व-वैशारदी : चित्तातिरिक्तात्म-सद्भावे हेत्व्-अन्तरम् अवतारयति—कुतश् च इति । तद् असंख्येय-वासनाभिश् चित्रम् अपि परार्थं संहत्य-कारित्वात् ॥ यद्यप्य् असङ्ख्येयाः कर्म-वासनाः क्लेश-वासनाश् च चित्तम् एवाधिशेरते, न तु पुरुषम्, तथा च वासनाधीना विपाकाश् चित्ताश्रयतया चित्तस्य भोक्तृताम् आवहन्ति, भोक्तुर् अर्थे च भोग्यम् इति सर्वं चित्तार्थं प्राप्तं, तथापि तच्-चित्तम् असङ्ख्येय-वासना-विचित्रम् अपि परार्थम् । कस्मात् ? संहत्य-कारित्वाद् इति सूत्रार्थः ।
व्याचष्टे—तद् एतद् इति । स्याद् एतत्, चित्तं संहत्यापि करिष्यति, स्वार्थं च भविष्यति, कः खलु विरोध इति ? यदि कश्चिद् ब्रूयात् तं प्रत्य् आह—संहत्य-कारिणाइति । सुख-चित्तम् इति भोगम् उपलक्षयति । तेन दुःख-चित्तम् अपि द्रष्टव्यम् । ज्ञानम् इत्य् अपवर्ग उक्तः । एतद् उक्तं भवति—सुख-दुःखे चित्त-प्रतिकूलानुकूलात्मके नात्मनि सम्भवतः, स्वात्मनि वृत्ति-विरोधात् । न चान्योऽपि संहत्य-कारी साक्षात् परम्परया वा सुख-दुःखे विदधानस् ताभ्याम् अनुकूलनीयः प्रतिकूलनीयो वा । तस्माद् यः साक्षात् परम्परया वा न सुख-दुःखयोर् व्याप्रियते, स एवाभ्याम् अनुकूलनीयः प्रतिकूलनीयो वा । स च नित्योदासीनः पुरुषः । एवम् अपवृज्यते येन ज्ञानेन तस्यापि ज्ञेय-तन्त्रत्वात् स्वात्मनि च वृत्ति-विरोधान् न ज्ञानार्थत्वम् । न बाह्य-विषयाद् अस्माद् अपवर्ग-सम्भवोऽस्ति, विदेह-प्रकृति-लयानाम् अपवर्गासम्भवात् । तस्मात् तज्-ज्ञानम् अपि पुरुषार्थम् एव, न तत् स्वार्थं नापि पर-मात्रार्थम् । संहत-परार्थत्वे चानवस्था-प्रसङ्गाद् असंहत-परार्थ-सिद्धिर् इति ॥२४॥
योग-वार्तिकम् : चित्तादात्म्य-विवेकः हेत्व्-अन्तर-प्रदर्शकतया सूत्रम् अवतारयति—कुतश् चैति । कुतश् च चित्तातिरिक्तः पुरुष इति शेषः ।
तद् असंख्येय-वासनाभिश् चित्रम् अपि परार्थं संहत्य-कारित्वात् ॥ यद् उक्तं चित्तस्य सर्वात्मकत्वाङ्गीकारेऽसङ्ख्य-वासना-वशात् स्वत एव चित्तस्यापि परिणामोऽस्तु किं पुरुषेणेति, तन् न, यतस् तच्-चित्तम् असङ्ख्येय-वासनाभिश् चित्रितम् अपि परार्थं परस्यान्यस्य भोगापवर्गायैव, विना तौ न स्थातुं परिणन्तुं वा क्षमते, संहत्य-कारि-पदार्थानां लोके पर-मात्रार्थत्व-दर्शनाद् इत्य् अर्थः । तथा च पुरुषार्थ-समाप्तौ चित्त-विलयेन मोक्षोपपत्तिर् इत्य् अत्रापि सूत्र-तात्पर्यम् ।
सूत्रं व्याचष्टे—तद् एतदिति । भोगापवर्गार्थं, सुखादि-साक्षात्कारार्थम् । संहत्य-कारित्वाद् इतर-साहाय्येनार्थ-क्रिया-कारित्वात्, गृहवद् इति ।गृहं हि शयनादि-कार्यम् आस्तरण-शरीरादि-साहाय्येनैव करोति, पुरुषस् तु नित्य-चैतन्य-रूपतया चैतन्यार्थं नान्यम् अपेक्षते, अन्या चार्थ-क्रिया पुरुषस्य नास्तीति स न संहत्य-कारीत्य् आशयः । यत् तु संघात-पारार्थ्यात् [सां.सू. १.६६]इति साङ्ख्ये प्रोक्तं, तत्र संहननम् आरम्भकं संयोगो विवक्षितः, स चावयआवव्य्-अभेदात् शय्यासन-गृहादिषु सत्त्वादिषु चास्ति, न तु पुरुष इति ।
ननु चित्तं संहत्यापि करिष्यति स्वार्थम् अपि, कः खलु विपक्ष-बाधकस् तर्क इत्य् आकाङ्क्षायाम् आह—संहत्य-कारिणा इति । न सुख-चित्तम् इति । सुख-चित्तं भोग-चित्तं न सुखार्थं न चित्तस्य भोगार्थं, तथातत्त्व-ज्ञान-चित्तम् अपवर्ग-चित्तं न चित्तस्यापवर्गार्थं, चित्तस्य भोगापवर्गयोर् अपि कार्यतया सार्थकत्व-नियमेनानवस्था-प्रसङ्गात् । यत् कार्यं तत् सार्थकम् इति हि सर्व-संमतं, अतश् चित्तस्य तद् उभयम् अपि परार्थम् इत्य् अर्थः । पुरुषस्य च भोगापवर्गौ स्वरूप-चैतन्य-रूपतया न कार्याव् इति नानवस्था पुरुषार्थत्व-वादिनाम् इति भावः । पुरुषस्य भोगो हि सुखादि-साक्षात्कारः, अपवर्गश् च विवेक-ख्याति-साक्षात्कारो वास्वरूपावस्थानं वा, सर्वथैव चैतन्य-मात्र एवापरिणामित्वान् निर्धर्मत्वाच् चेति ।
ननु परार्थता-मात्रेण न पुरुष-सिद्धिर् विनाशादीनाम् अपि परार्थत्व-सम्भवाद् विनाशार्थम् एवोत्पत्तेः परैर् अभ्युपग्माद् इत्य् आशङ्कायाम् आह—यश् च इति । भोगापवर्गार्थवान् एवात्र परे साध्ये प्रविष्टातो न सामान्येन येन केनचित् परेण सिद्ध-साधनम् अपाकरोति—यत् तु किञ्चितिति । स्वरूपेण आत्म-रूपेण, भोक्तृतयेति यावत् । यस् त्व् इति । यस् त्व् असौ विशेषः पुरुषाख्यः परः स कूटस्थ-नित्यत्वात्, न संहत्य-कारीति न तस्य परार्थत्वापत्त्यानवस्थितिर् इत्य् अर्थः ॥२४॥
—o)0(o—
(४.२५)
विशेष-दर्शिन आत्म-भाव-भावना-विनिवृत्तिः ॥२५॥
यथा प्रवृषि तृणाङ्कुरस्योद्भेदेन तद्-बीज-सत्तानुमीयते, तथा मोक्ष-मार्ग-श्रवणेन यस्य रोमहर्षाश्रु-पातौ दृश्येते, तत्रापि अस्ति विशेष-दर्शन-बीजम् अपवर्ग-भागीयं कर्माभिनिर्वर्तितम् इत्य् अनुमीयते । तस्यात्म-भाव-भावना स्वाभाविकी प्रवर्तते । यस्याभावाद् इदम् उक्तम्—स्वभावं मुक्त्वा दोषाद् एषांपूर्व-पक्षे रुचिर् भवत्य् अरुचिश् च निर्णये भवति ।
तत्रात्म-भाव-भावना, « कोऽहम् आसं, कथम् अहम् आसम् ? किं स्विद् इदम् ?कथं स्विद् इदम् ? के भविष्यामः ? कथं वा भविष्यामः ?इति । सा तु विशेष-दर्शिनो निवर्तते । कुतः ? चित्तस्यैवैष विचित्रः परिणामः । पुरुषस् त्व् असत्याम् अविद्यायां शुद्धश् चित्त-धर्मैर् अपरामृष्ट इति । ततोऽस्यात्म-भाव-भावना कुशलस्य निवर्तते इति॥२५॥
तत्त्व-वैशारदी : तद् एवं कैवल्य-मूल-बीज युक्तिमयम् आत्म-दर्शनम् उक्त्वा तद्-उपदेशाधिकृतं पुरुषम् अनधिकृत-पुरुषान्तराद् व्यावृत्तम् आह—विशेष-दर्शिन आत्म-भाव-भावना-विनिवृत्तिः ॥ यस्यात्म-भावे भावनास्ति तस्याष्टाङ्ग-य्गोपदेशाननुतिष्ठतो युञ्जानस्य तत्-परिपाकाच् चित्त-सत्त्व-पुरुषयोर् विशेष-दर्शनाद् आत्म-भाव-भावना निवर्तते । यस्यात्म-भाव-भावनैव नास्तिकस्य , तस्योपदेशानधिकृतस्यापरिनिश्चितात्म-तत्पर-लोक-भावस्य नोपदेशो न विशेष-दर्शनं नात्म-भाव-भावना-निवृत्तिर् इति सूत्रार्थः ।
नन्व् आत्म-भाव-भावनायाश् चित्त-वर्तिन्याः कुतोऽवगम इत्य् अत आह—यथा प्रवृषि इति । प्राग्-भवीयं तत्त्व-दर्शन-बीजम् अपवर्ग-भागीयं यत् कर्माष्टाङ्ग-योगानुष्ठानं तद्-एक-देशानुष्ठानं वा तद्-अभिनिर्वर्तितम् अस्तीत्य् अनुमीयते । तस्य चात्म-भाव-भावनावश्यम् एव स्वाभाविकी वस्त्व् अभ्यासं विनापि प्रवर्तते । अनधिकारिणम् आगमिनां वचनेन दर्शयति—यस्याभावाद् इदमिति ।
पूर्व-पक्षः—नास्ति कर्म-फलं पर-लोकिनोऽभावात् पर-लोकाभाव इति । तत्र रुचिः । अरुचिश् च निर्णये पञ्चविंशति-तत्त्व-विषये । आत्म-भाव०भावना प्राग्-व्याख्याता । विशेष-दर्शिनः परामार्शम् आह—चित्तस्य इवेति । अस्य विशेष-दर्शन-कुशलस्यात्म-भाव-भावना विनिवर्तत इति ॥२५॥
योग-वार्तिकम् : तद् एवं बुद्धि-पुरुष-विषयाणां विवेकं प्रदर्श्यैतज्-ज्ञानाद् आद्यं मोक्षम् आदौ प्रतिपादयति—विशेष-दर्शिन आत्म-भाव-भावना-विनिवृत्तिः ॥ मातृमान् अमेयात्मकस्याखिल-प्रपञ्चस्य तप्तायः-पिण्डवद् एकीभावापन्नस्य यथोक्त-प्रकारैर् अन्योन्यं विशेष-दर्शिनो विवेक-साक्षात्कारिणश् चित्तस्यात्म-भावे भावना स्व-सत्ता-जिज्ञासा—कोऽहम् आसं" इत्य् आदि-रूपा भाष्ये व्याख्येया, अस्या भय-शोक-प्रवृत्ति-निवृत्त्य्-आद्य्-अनर्थ-हेतोर् निवृत्तिर् आद्यो मोक्षो भवतीत्य् अर्थः । स्वर्ग-नरक-मोक्षादिभिर् हि विचित्र-रूपता चित्तस्यैव भवति, न तु सद्-एक-रूप-चिन्-मात्रस्य , न ममेत्य् अवधारणे सति नैवात्म-भाव-चिन्तोदेतीति भावः । तथा च श्रुतिः—एतं ह वाव न तपति किम् अहं साधु नाकरवं किम् अहं पापम् अकरवम्[तै.उ. २.९]इतीत्य्-आदिः ।
तद् एतद् उक्तं पञ्चशिखाचार्यैः—आद्यस् तु मोक्षो ज्ञानेन इति ।
अत्रादौ भाष्य-कार आत्म-भाव-भावनाम् एव सकारणां प्रतिपादयति—यथेत्य्-आदिना । तत्रापि इति । पुरुष इति शेषः । विशेष-दर्शन-बीजम् इति । आत्म-भाव-जिज्ञासा-द्वारेति शेषः । इत्य् अनुमीयत इति । विविदिषन्ति यज्ञेन[बृ.आ.उ. ४.४.२२] इत्यादि श्रुतिः । पाप-क्षयाद् शुद्ध-मतिर् आप्नोति ज्ञानम् उत्तमम्[?] इति स्मृतेश् चेति शेषः ।
यस्य यथोक्त-कर्मवतः, स्वाभाविकी ऐहिक-साधन-निरपेक्षा च । तथ यथोक्तं कर्म आत्म-भाव-भावनायाः कारणं, तत्र च नैहिकत्व-नियम इत्य् आयातम् । ऐहिक-साधन-शून्यस्य प्राक्तन-तथा-विध-कर्माभावे च सा भावना नोदेति, प्रत्युत देहाद्य्-आत्मतायाम् एव रुचिर् भवतीति । अत्र पूर्वाचार्य-वाक्यं प्रमाणयति—यस्याभावादिति । यस्य कर्मणोऽभावाद् इदं वक्ष्यमाणंफलम् उक्तं पूर्वाचार्यैः, तद् एवाह—स्वभावम् इति । सर्वम् आत्म-भावं त्यक्त्वैषां सत्-कर्म-शून्यानां पूर्व-पक्षेऽनित्य-देहाद्य्-आत्मतायाम् एव रुचिः श्रद्धातिशयो भवति, अरुचिश् च तत्त्व-निर्णय इत्य् अर्थः ।
आत्म-भावनायाः कारणम् उक्त्वा स्वरूपम् आह—तत्रात्म- इति । कोऽहम् आसं किं नरादि-रूप आसं कथम् आसं दुःख्न दर्शनवान् आसं, किं स्विद् इदं वर्तमानम् अपि मम स्वरूपं किं देहो वा मन आदिर् वा कथं स्विद् इदं केन वा प्रकारेण पुण्य-पापादिना तिष्ठतीत्य् आदिर् अर्थः । के भविष्याम इत्य् आद्य् एकत्व एव बहु-वचनम् । तथा च यज्-जिज्ञासोत्थ-भयादि-निवृत्तये विशेष-दर्शनं पुरुषः सम्पादयति सैवात्म-भावनेत्य् अर्थः ।
आत्म-भावनाम् अशेषतो व्याख्याय सूत्र-वाक्यार्थम् आह—चित्तस्येति । एष भाव-रूपो विचित्रः परिणाम आत्मनो न भवति, किं तु चित्तस्य इवाविद्या-जन्यत्वात्, अविद्यायाश् च चित्तधर्मत्वात् । पुरुषस् त्व् अविद्या-शून्यत्वाच् छुद्धः पाप-पुण्य-विवर्जितः । ततश् च चित्त-धर्मैर् जन्म-मरण-सुख-दुःखादिभिर् अपरामृष्टः कदाप्य् असम्बद्ध इति । तत इति विशेष-दर्शनाद् अस्य कुशलस्यात्म-भावना निवर्तत इत्य् अर्थः ॥२५॥
—o)0(o—
(४.२६)
तदा विवेक-निम्नं कैवल्य-प्राग्-भारं चित्तम् ॥२६॥
तदानीं यद् अस्य चित्तं विषय-प्राग्-भारम् अज्ञान-निम्नम् आसीत् तद् अस्यान्यथा भवति, कैवल्य-प्राग्-भारं विवेकज-ज्ञान-निम्नम् इति ॥२६॥
तत्त्व-वैशारदी : अथ विशेष-दर्शिनः कीदृशं चित्तम् इत्य् अत आह—तदा विवेक-निम्नं कैवल्य-प्राग्-भारं चित्तम् ॥ निगद-व्याख्यातम् ॥२६॥
योग-वार्तिकम् : तन्-निवृत्तेः स्वर्ग-नरकादिषु राग-द्वेषादि-निवृत्तिः फलम् इति तस्य विशेष-दर्शिनो लक्षणं सम्प्रज्ञात-योगं वक्ष्यमाणम् उक्तेश् च कारण-भूतम् आह—तदा विवेक-निम्नं कैवल्य-प्राग्-भारं चित्तम् ॥ कैवल्ये प्राग्-भारो यस्य तत् कैवल्य-प्राग्-भारम्, कैवल्याभिमुखम् इति यावत् ।
व्याचष्टे—तदानीम् इति । तदानीं विशेष-दर्शनावस्थायां स्वर्गादि-वैराग्य-वशात् चित्तम् अन्यथा भवतीत्य् अनेनान्वयः । विषय-प्राग्-भारं विषयाभिमुखं, अज्ञान-निम्नम् अज्ञान-मार्ग-सञ्चारि । एवम् उत्तरत्र ॥२६॥
—o)0(o—
(४.२७)
तच्-छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः ॥२७॥
प्रत्यय-विवेक-निम्नस्य सत्त्व-पुरुषान्यता-ख्याति-मात्र-प्रवाहिनश् चित्तस्य तच्-छिद्रेषु प्रत्ययान्तराणि "अस्मीति वा, ममेति वा, जानामीति वा, न जानामीति वा" । कुतः ? क्षीयमान-बीजेभ्यः पूर्व-संस्कारेभ्य इति ॥२७॥
तत्त्व-वैशारदी : स्याद् एतत्—विशेष-दर्शनं चेद् विवेक-निष्ठं न जातु चित्तं व्युत्थितं स्यात् । दृश्यते चास्य भिक्षाम् अटतो व्युत्थितम् इत्य् अत आह—तच्-छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः ॥
प्रत्यय- इति । प्रतीयते येन स प्रत्ययश् चित्त-सत्त्वम् । तस्माद् विवेकश् चितेः । तेन निम्नस्य । जानामीति ज्ञानान् मोक्षो विविच्य दर्शितः । न जानामीति मोहः । तन्-मूलावहङ्कार-ममकारावहम् अस्मीति वा ममेति वा दर्शितौ । क्षीयमाणानि च तानि बीजानि चेति समासः । पूर्व-संस्कारेभ्यो व्युत्थान-संस्कारेभ्यः ॥२७॥
योग-वार्तिकम् : न चानेन कोमल-कण्डकवद् उत्पन्न-मात्रेण विशेष-दर्शनेनैव कृत-कृत्यता भवति, पूर्व-संस्कार-वशाद् अन्तरान्तरा मोहाख्यानां भव-दुःख-बीज-वृत्तीनाम् अनुवृत्तेर् इत्य् आह—तच्-छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः ॥
व्याचष्टे—विवेकेति । विवेक-प्रत्यय-निम्नस्य इत्य् अस्य विवरणं सत्त्व-इत्यादि । सत्त्व-पुरुषान्यता-मात्रेण प्रवहण-शीलस्येत्य् अर्थः । तच्-छिद्रेषु स्थानेषु अविद्या-रूपाणां प्रत्ययानाम् आकारा अस्मिताद्याश् च प्रदर्शिताः । अस्मीति देव-मनुष्यादि-रूपोऽस्मीत्य् अर्थः । केवलास्मितायाः सम्प्रज्ञात-योगेऽपि सत्त्वात् । क्षीयमाणेभ्यो बीजेभ्यः क्षीयमाण-बीजेभ्यः, एतस्य विशेष्यं पूर्व-संस्कारेभ्यैति ॥२७॥
—o)0(o—
(४.२८)
हानम् एषां क्लेशवद् उक्तम् ॥२८॥
यथा क्लेशा दग्ध-बीज-भावा न प्ररोह-समर्था भवन्ति, तथा ज्ञानाग्निना दग्ध-बीज-भावः पूर्व-संस्कारो न प्रत्यय-प्रसूर् भवति । ज्ञान-संस्कारास् तु चित्ताधिकार-समाप्तिम् अनुशेरत इति न चिन्त्यन्ते ॥२८॥
तत्त्व-वैशारदी : स्याद् एतत् । सत्य् अपि विवेक-विज्ञानं व्युत्थान-संस्कारा यदि प्रत्ययान्तराणि प्रसुवते कस् तर्हि हान-हेतुर् एषां यतः प्रत्यान्तराणिन पुनः प्रसुवीरन्न् इत्य् आह—हानम् एषां क्लेशवद् उक्तम् ॥ अपरिपक्व-विवेक-ज्ञानस्याक्षीयमाणा व्युत्थान-संस्काराः प्रत्यान्तरं प्रसुवते, न तु परिपक्व-विवेक-ज्ञानस्य क्षीणाः प्रत्यान्तराणि प्रसोतुम् अर्हन्ति । यथा विवेक-च्छिद्र-समुत्पन्ना अपि क्लेशा न संस्कारान्तरं प्रसुवते ।
तत् कस्य हेतोः ? तद् एते क्लेशा विवेक-ज्ञान-वह्नि-दग्ध-बीज-भावा इति । एवं व्युत्थान-संस्कारा अपीति । अथ व्युत्थान-संस्कारा विवेक-ज्ञान-संस्कारैर् निरोद्धव्याः । विवेक-संस्काराश् च निरोध-संस्कारैः । निरोध-संस्काराणां त्व् अबाह्य-विषयत्वं दर्शितम् । निरोधोपायः प्रायश् चिन्तनीय इत्य् अत आह—ज्ञान-संस्कारास् तु इति । पर-वैराग्य-संस्कारा इत्य् अर्थः ॥२८॥
योग-वार्तिकम् : ननु ज्ञाने जातेऽपि चेत् पूर्व-संस्कार-वशाद् व्युत्थान-दशायां कदा चिद्-अविद्योदयः कथं तर्हि सम्प्रज्ञात-प्रवाहेणाप्य् अविद्या-निवृत्तिः स्यात् ? तत्राह—हानम् एषां क्लेशवद् उक्तम् ॥ एषां संस्काराणांहानं दाहः स्व-कार्यासामर्थ्यं क्लेशानाम् इवोक्तं पूर्वाचार्यैर् इत्य् अर्थः । ध्यान-हेयास् तद्-वृत्तयः, ते प्रतिप्रसव-हेयाः सूक्ष्माः [२.११,१०] इति सूत्राभ्यां यथा स्थूल-सूक्ष्म-क्लेशानां तत्त्व-ज्ञान-चित्त-लयाभ्यां दाह—नाशो प्रोक्तौ तथा तत्-संस्काराणाम् अपीति फलितार्थः ।
एतद् एव व्याचष्टे—यथाइति । यथा सम्प्रज्ञात-योगिनो व्युत्थान-दशायां पूर्व-संस्कारजाः क्लेशा अविद्यादि-वृत्तयो दग्ध-बीज-तुल्याः सत्यो न संस्कारं जनयन्ति, तथा पूर्व-संस्कारा अपि सम्प्रज्ञात-परम्परा-जनितेन निष्ठा-रूपेण ज्ञानाग्निना दग्ध-बीज-तुल्याः सन्तः प्रत्ययं न प्रसुवत इत्य् अर्थः ।
पूर्व-संस्कारः प्राचीनः क्लेश-संस्कारः । ज्ञान-काले ज्ञान-संस्कारेण प्रतिबन्धात् संस्कारो नोत्पद्यत इत्य् आशयेन पूर्व-पदम् ।त्र ज्ञान-नाशोऽपि क्ल्शवद् उपलक्षित इति ।
नन्व् एकदा चेद् दृष्टं मम जन्म मरणं दुःखादिकं नास्तीति, तर्हि कदा चिद्-अन्तरान्तरा मोहेऽपि तद्-धानार्थं प्रवृत्तिर् नोपपद्यते, मोहस्यापि चित्त-धर्मतायाः पूर्वं निश्चितत्वाद् इति चेत् ? न, चित्तस्य मोह-सत्त्वे पुनश् चित्तस्य भव-दुःखोत्पत्त्या पुरुषस्य दुःख-भोगः स्याद् इत्य् आशयेनैव ज्ञानिभिर् अपि चित्तस्यात्यन्ततो मोह-निवृत्त्य्-अर्थं यतनात् । भोगश् च चिन्मात्रस्य इवेत्य् असकृद् आवेदितम् इति ।
ननु संस्कारत्वाविशेषात् तत्त्व-ज्ञान-संस्कारा अपि किं सम्प्रज्ञात-निष्ठया नश्यन्ति ? नेत्य् आह—ज्ञान-संस्कारास् तु इति । अविरुद्धत्वाद् इति शेषः । अधिकार-समाप्तौ चित्तेन सहैव तेषां नाशात् तत्-साधन-चिन्ता नास्तीत्य् अर्थः । आशु-मुमुक्षूणां त्व् असम्प्रज्ञातेनापि तन्-नाशच् चिन्तित इति भावः ॥२८॥
—o)0(o—
(४.२९)
प्रसंख्यानेऽप्य् अकुसीदस्य सर्वथा
विवेक-ख्यातेर् धर्म-मेघः समाधिः ॥२९॥
यदायं ब्राह्मणः प्रसंख्यानेऽप्य् अकुसीदः, ततोऽपि न किञ्चित् प्रार्थयते । तत्रापि विरक्तस्य सर्वथा विवेक-ख्यातिर् एव भवतीति संस्कार-बीज-क्षयान् नास्य प्रत्ययान्तराणु उत्पद्यन्ते, तदास्य धर्म-मेघो नाम समाधिर् भवति ॥२९॥
तत्त्व-वैशारदी : तद् एवं व्युत्थान-निरोधोपायं प्रसङ्ख्यान-निरोधोपायम् आह—प्रसंख्यानेऽप्य् अकुसीदस्य सर्वथा विवेक-ख्यातेर् धर्म-मेघः समाधिः ॥ ततः प्रसंख्यानान् न किञ्चित् सर्व-भावाधिष्ठातृत्वादि प्रार्थयते । प्रत्युत तत्रापि क्लिश्नाति, परिणामित्व-दोष-दर्शनेन विरक्तः सर्वथा विवेक-ख्यातिर् एव भवति ।
एतद् एव विवृणोति—तत्रापीति । यदा व्युत्थान-प्रत्यया भवेयुस् तदा नायं ब्राह्मणः सर्वथा विवेक-ख्यातिः । यतस् तस्य न प्रत्ययान्तराणि भवन्ति, ततः सर्वथा विवेक-ख्यातिर् इति । तदास्य धर्म-मेघः समाधिर् भवति ।
एतद् उक्तं भवति—प्रसंख्याने विरक्तस् तन्-निरोधम् इच्छन्द् धर्म-मेघं समाधिम् उपासीत । तद्-उपासने च सर्वथा विवेक-ख्यातिर् भवति । तथा च तं निरोद्धुं पारयतीति ॥२९॥
योग-वार्तिकम् : उक्तस्य संस्कार-हानस्य प्रकारम् आह सूत्र-द्वयेन—प्रसंख्यानेऽप्य् अकुसीदस्य सर्वथा विवेक-ख्यातेर् धर्म-मेघः समाधिः ॥ प्रसङ्ख्यानं विवेक-साक्षात्कारः । तत्रापि योऽकुसीदः कृबीबलवत् सर्व-भावाधिष्ठातृत्वादि-रूपा सिद्धिं न प्रार्थयते तस्य योग-विघ्ना-भावेन सर्वथा निरन्तरं विवेक-ख्यात्य्-उदयाद् धर्म-मेघ-नाम्नी सम्प्रज्ञात-योगस्य पराकाष्ठा भवतीत्य् अर्थः ।
तद् एतद् व्याचष्टे—यदाइति । तत्रापि तत्-कालेऽपि । सर्वथा-शब्दार्थम् आह—संस्कारेति । संस्कार-रूपस्य बीजस्य क्रमेण क्षयाद् दाहाद् धीयम्णाद् धेतोः प्रत्ययान्तराणि अविद्यान्तराणि यदा न जायन्ते, तदा धर्म-मेघ-समाधिर् इत्य् अर्थः । क्लेश-कर्मादीनां निःशेषेणोन्मूलकं धर्मं मेहति वर्षतीति धर्म-मेघः ॥२९॥
—o)0(o—
(४.३०)
ततः क्लेश-कर्म-निवृत्तिः ॥३०॥
तल्-लाभाद् अविद्यादयः क्लेशाः समूल-काषं कषिता भवन्ति । कुशलाकुशलाश् च कर्माशयाः स-मूल-घातं हता भवन्ति । क्लेश-कर्म-निवृत्तौ जीवन्न् एव विद्वान् विमुक्तो भवति । कस्मात् ? यस्माद् विपर्ययो भवस्य कारणम् । न हि क्षीण-विपर्ययः कश्चित् केनचित् क्वचिच् च जातो दृश्यत इति ॥३०॥
तत्त्व-वैशारदी : तस्य च प्रयोजनम् आह—ततः क्लेश-कर्म-निवृत्तिः ॥ कस्मात् पुनर् जीवन्न् एव विद्वान् विमुक्तो भवति ? उत्तरम्—यस्माद् इति । क्लेश-कर्म-वासनेद्धः किल कर्माशयो जात्य्-आदि-निदानम् । न चासति निदाने निदानो भवितुम् अर्हति । यथाहात्र भगवान् अक्षपादः—वीत-राग-जन्मादर्शनात्[न्या.सू. ३.१.२४] इति ॥३०॥
योग-वार्तिकम् : अस्य समाधेर् धर्म-द्वारक-फलं द्वितीय-मोक्षम् आह—ततः क्लेश-कर्म-निवृत्तिः ॥ दाहः समाप्तिः ।
व्याचष्टे—तल्-लाभाद् इति । समूल-काषम् इति । मूलं क्लेश-संस्कारास् तैः सह क्लेशा अभिनिवेशारिक्ताश् छिन्ना भवन्ति, अत एव कर्माशयाश् च प्रारब्धातिरिक्ताः क्लेशाख्य-मूलेन सह हताः स्युः, अतो न पुनर् उत्पद्यन्त इत्य् अर्थः ।
ननु दुःखात्यन्त-निवृत्तिर् एव मोक्षः, जीवतश् चावश्यं दुःखम्, न ह वै स-शरीरस्य प्रियाप्रिययोर् अहतिर् अस्ति[छा.उ. ८.१२.१] इति श्रुतेः । तत् कथं जीवन्मुक्तिर् इत्य् आशयेन पृच्छति—कस्मात् ? इति । उत्तरं—यस्माद् इति । तथा च दुःख-निदानात्यन्तोच्छेदाय गौण-मुक्तित्वम् इति भावः । अत्र प्रमाणम् अनुपलब्धिम् आह—न हि इति । तद् उक्तं गोतमाचार्यैः—वीत-राग-जन्मादर्शनात्[न्या.सू. ३.१.२४] इति ।
अयम् अपि मोक्षः पञ्चशिखाचार्यैर् उक्तः—द्वितीयो राग-सङ्क्षयाद् इति । अत्र जीवन्मुक्तस्य सवासन-क्लेशात्यन्त-दाह—निर्णयाद् आधुनिक-वेदान्तिनाम् अविद्या-क्लेश-स्वीकारोऽविद्या-मूलक एवेति स्मर्तव्यम् ॥३०॥
—o)0(o—
(४.३१)
तदा सर्वावरण-मलापेतस्य ज्ञानस्यानन्त्याज् ज्ञेयम् अल्पम् ॥३१॥
सर्वैः क्लेश-कर्मावरणैर् विमुक्तस्य ज्ञानस्यानन्त्यं भवति । आवरकेण१६५ तमसाभिभूतम् आवृतम् अनन्तं ज्ञान-सत्त्वं क्वचिद् एव रजसा प्रवर्तितम् उद्घाटितं ग्रहण-समर्थं भवति । तत्र यदा सर्वैर् आवरण-मलैर् अपगतम् अमलं भवति, तदा भवत्य् अस्यानन्त्यम् । ज्ञानस्यानन्त्याज् ज्ञेयम् अल्पं सम्पद्यते, यथाकाशे खद्योतः । यत्रेदम् उक्तम्—
अन्धो मणिम् अविध्यत् तम् अनङ्गुलिर् आवयत् ।
अग्रीवस् तं प्रत्यमुञ्चत् तम् अजिह्वोऽभ्यपूजयत् ॥ इति ॥३१॥
तत्त्व-वैशारदी : अथैवं धर्म-मेघे सति कीदृशं चित्तम् इत्य् अत आह—तदा सर्वावरण-मलापेतस्य ज्ञानस्यानन्त्याज् ज्ञेयम् अल्पम् ॥ आव्रियते चित्त-सत्त्वम् एभिर् इत्य् आवरणानि मलाः क्लेश-कर्माणि । सर्वे च त आवरण-मलाश् चेति सर्वावरण-मलाः । तेभ्योऽपेतस्य चित्त-सत्त्वस्य ज्ञानस्य ज्ञायतेऽनेनेत्य् अनया व्युत्पत्त्या, आनन्त्याद् अपरिमेयत्वाज् ज्ञेयम् अल्पम् । यथा हि शरदि घन-पटल-मुक्तस्य चण्डार्चिषः परितः प्रद्योतमानस्य प्रकाशानन्त्यात् प्रकाश्या घटादयोऽल्पाः प्रकाशन्त एवम् अपगतरजस्तमसश् चित्त-सत्त्वस्य प्रकाशानन्त्याद् अल्पं प्रकाश्यम् इति ।
तद् एतद् आह—सर्वैर् इति । एतद् एव व्यतिरेक-मुखेन स्फोरयति—आवरकेणतमसाभिभूतम् इति । क्रिया-शीलेन रजसा प्रवर्तितम् अत एवोद्घाटितम् । प्रदेशाद् अपनीतं तम इत्य् अर्थः । अत एव सर्वान् धर्मान् ज्ञेयान् मेहति वर्षति प्रकाशनेनेति धर्म-मेघ इत्य् उच्यते ।
नन्व् अयम् अस्तु धर्म-मेघः समाधिः स-वासन-क्लेश-कर्माशय-प्रशम-हेतुः, अथ सत्य् अप्य् अस्मिन् कस्मान् न जायते पुनर् जन्तुः ? इत्य् अत आह—यत्रेदम् इति । कारण-समुच्छेदाद् अपि चेत् कार्यं क्रियते हन्त भो मणि-वेधादयोऽन्धादिभ्यो भवेयुः प्रत्यक्षाः । तथा चानुपपन्नार्थतायाम् आणको लौकिक उपपन्नार्थः स्यात्—अविध्यद् अन्धो मणिमिति । आवयद् ग्रथितवान् । प्रत्यमुञ्चत् पिनद्धवान् । अभ्यपूजयत् स्तुतवान् इति ॥३१॥
योग-वार्तिकम् : इदानीं जीवन्मुक्तस्य परम-मुक्ति-प्रकारम् आह सूत्र-द्वयेन—तदा सर्वावरण-मलापेतस्य ज्ञानस्यानन्त्याज् ज्ञेयम् अल्पम् ॥ तदा तस्यां जीवन्मुक्तावस्थायां क्लेश-कर्मणोर् ज्ञानावरक-मलयोर् अपगम-हेतुना ज्ञानस्य सत्त्व-प्रकाशस्यानन्त्याद् इति विभुत्वात् ज्ञेयं प्रकाश्यम् अल्पं तद्-अपेक्षया भवतीत्य् अर्थः । यदि हि पञ्चविंशति-तत्त्वातिरिक्तम् अन्यद् अपि वस्तु तिष्ठेत्, तदा तद् अपि प्रकाश्येत, ज्ञेयस्यैव स्वल्पतयान्यन् न प्रकाश्येत्, न तु सत्त्वस्याल्पतयेति भावः ।
तद् एतद् व्याचष्टे—सर्वैरिति । अनन्तं स्वभावतो व्यापकं, ज्ञानं सत्त्वम् इति भूत-सत्त्व-व्यावर्तनायोक्तं प्रवर्तितम् इति । अस्य विवरणं—उद्घाटितमिति । शेषं भाष्यं सुगमम् ।
अत्र तमोऽभिभवनानन्तरम् एव वृत्त्य्-उत्पत्ति-वचनाद् वृत्तेस् तमो-नाशकत्वम् आधुनिक-वेदान्तिनाम् अपसिद्धान्त इति स्मर्तव्यम् । एतादृशं सर्व-ज्ञत्वं लोकेऽतीवाश्चर्यम् अन्ध-मणि-वेधादिवद् इति बौद्धोपहास-मुखेन दर्शयति—यत्रेदमिति । यत्र क्षुद्राणाम् अपि जीवानां योग-बलाद् एतादृश-सार्वज्ञ्ये बौद्धैर् इदं दृष्टान्त-जातम् असम्भव-दर्शनायोक्तम् उपहसद्भिर् इत्य् अर्थः । किं तत् ? तद् आह—अन्ध इत्य् आदि । अविध्यत् स-च्छिद्रम् अकरोत्, तं मणिम् अङ्गुलि-हीन आवयद् ग्रथितवान् । तं मणिं ग्रीव-शून्यः प्रत्यमुञ्चत् कण्ठाभरणम् अकरोत् । तत् कण्ठाभरणम् जिह्वा-शून्यः स्तुतवान् इत्य् अर्थः ।
दृष्टान्त-चतुष्टयस्यायम् आशयः—अनाद्य्-अविद्या-मूढ-चित्तैः साङ्ख्याद्य्-अभिमत-सूक्ष्मार्थानाम् अवधारण-रूपं वेधनम् एवादाव् अशक्यं ततश् च तस्य सूक्ष्मार्थस्याविरल-वृत्ति-सत्ता च, सूत्रेणग्रन्थनम् अप्य् अशक्यं, ततोऽपि सर्वथा विवेक-ख्यातिर् अतीवाशक्या, ततश् च तादृश-चित्तस्य परिपूर्ण-ज्ञानत्वेन स्तुतिर् अप्य् अशक्येति । आस्तिकैस् तु श्रुति-स्मृति-प्रामाण्येनैतत् सर्वं श्रद्धेयम् इति भावः ॥३१॥
—o)0(o—
(४.३२)
ततः कृतार्थानां परिणाम-क्रम-परिसमाप्तिर् गुणानाम् ॥३२॥
तस्य धर्म-मेघस्योदयात् कृतार्थानां गुणानां परिणाम-क्रमः परिसमाप्यते । न हि कृत-भोगापवर्गाः परिसमाप्त-क्रमाः क्षणम् अप्य् अवस्थातुम् उत्सहन्ते ॥३२॥
तत्त्व-वैशारदी : ननु धर्म-मेघस्य परा काष्ठा ज्ञान-प्रसाद-मात्रं परं वैराग्यंस-मूल-घातम् अपहन्तु व्युत्थान-समाधि-संस्कारान् स-क्लेश-कर्माशयान्, गुणास् तु स्वत एव विकार-करण-शीलाः कस्मात् तादृशम् अपि पुरुषं प्रति देहेन्द्रियादि नारभन्त इत्य् अत आह—ततः कृतार्थानां परिणाम-क्रम-परिसमाप्तिर् गुणानाम् ॥ शोलम् इदं गुणानां यद् अमी यं प्रति कृतार्थास् तं प्रति न प्रवर्तन्त इति भावः ॥३२॥
योग-वार्तिकम् : यथोक्त-सार्वज्ञ्यात् पर-वैराग्योदयेनासम्प्रज्ञात-परम्पर्-जन्यं प्रारब्ध-भोग-समाप्ति-जन्यं वा तृतीयं मुख्य-मोक्षम् आह—ततः कृतार्थानां परिणाम-क्रम-परिसमाप्तिर् गुणानाम् ॥ ततो धर्म-मेघोदयात् क्लेश-कर्म-निवृत्त्या ज्ञानस्यानन्त्ये सति परवैराग्येण पुरुषार्थ-समाप्त्या कृतार्थान् पुरुषान् प्रति गुणानां सत्त्वादीनां परिणाम-क्रमः समाप्येत, कृतार्थ-पुरुषाणां भोगौपायिकः परिणामः पुनर् न भवतीत्य् अर्थः । क्रमश् चाविरल-चारेत्य् उत्तर-सूत्रेण व्याख्यास्यते ।
तत्र इति-पदं व्याचष्टे—तस्य धर्म-मेघस्योदयात् इति । कृतार्थानाम् इति पुरुषाणाम् इति शेषः । तथा च कृतार्थ-पुरुष-स्वामिको गुणानां परिणाम-क्रमः समाप्यते इत्य् अर्थः । न तुगुणानाम् अखिलस्य परिणामकम् अस्य समाप्तिर् अत्रोक्ता कृतार्थं प्रति नष्टम् अप्य् अनष्टम् इत्य् उत्तर-सूत्राद् इति ।
समाप्तौ हेतुम् आह—न हि इति । नहि सत्त्वादयो गुणाः कृत-भोगापवर्गाः, अत एव परिसमाप्त-क्रमाः, तं पुरुषं प्रति क्षणम् अप्य् अवस्थातुम् समर्थाः, स्थिति-हेतु-पुरुषार्थाभावाद् इति । यदि च सूत्र-भाष्ययोर् गुण-शब्देनात्र सौभाग्यादय एव पुरुषोपकरणान्य् उच्यन्ते, तदा यथा-श्रुतम् एव व्याख्येयम् ।
अत्राचेतनानां चेतनार्थतया चैतन्याधीन-सत्ता वेदान्तिभिर् उच्यमाना सिद्धेति स्मर्तव्यम् । इयम् अपि तृतीया मुक्तिः पञ्चशिखाचार्यैर् उक्ता—कृच्छ-क्षयात् तृतीयस् तु व्याख्यातं मोक्ष-लक्षणम् इति । अत एव तत्त्व-समास-सूत्रं—त्रिविधो मोक्ष[त.स.सू. २१]इति ।
इदम् अत्रावधेयम्—यद् एताभ्यां सूत्राभ्यां ज्ञानस्यानन्त्यात् सार्वज्ञ्याख्यान् मोक्ष उच्यते इदं मुख्य-कल्पाभिप्रायेणोक्तं, वैराग्याद् एव सुखेन मोक्ष-सिद्धेः, न तु सार्वज्ञ्यादिकं विना मोक्षो न भवतीत्य् आशयेन, यतः सत्त्व-पुरुषयोः शुद्धि-साम्ये कैवल्यम् [३.५५] इति सूत्रे भाष्य-कृता— ईश्वरस्यानीश्वरस्य वा विवेकज-ज्ञान-भागिन इतरस्य वाइत्य् अनेनासर्व-ज्ञस्यापि अभिमान-निवृत्ति-मात्राद् एव मोक्ष उक्त इति । तथा चोक्तं विवेक-ख्यातिर् अविप्लवा हानोपायः [२.१६] इति। सति मूले तद्-विपाको जात्य्-आयुर्-भोगाः [२.१३] इति च ।
संसार-बीजं ह्य् अनात्मन्य् आत्म-रूपाविद्या, राग-द्वेष-धर्माधर्म-तद्-विपाकादि-हेतुत्वात्, सा चेद् विवेक-ख्यात्या नाशिता, तर्हि तत एव संसारोच्छेदे सार्वज्ञ्याद्य्-अपेक्षा नास्तीति । तथा च विष्णु-पुराणं—
अनात्मन्य् आत्म-बुद्धिर् याऽनार्थे१६६स्वम् इति या मतिः ।
अविद्या१६७-तरु-सम्भूति-बीजम् एतद् द्विधा स्थितम् ॥[वि.पु. ६.७.११] ॥३२॥
—o)0(o—
(४.३३)
अथ कोऽयं क्रमो नामेति ?
क्षण-प्रतियोगी परिणामापरान्त-निर्ग्राह्यः क्रमः ॥३३॥
क्षणानन्तर्यात्मा परिणामस्यापरान्तेनावसानेन गृह्यते क्रमः । न ह्य् अननुभूत-क्रम-क्षणा नवस्य पुराणता वस्त्रस्यान्ते भवति । नित्येषु च क्रमो दृष्टः ।
द्वयी चेयं नित्यता—कूटस्थ-नित्यता, परिणामि-नित्यता च । तत्र कूटस्थ-नित्यता पुरुषस्य , परिणामि-नित्यता गुणानाम् । यस्मिन् परिणम्यमाने तत्त्वं न विहन्यते, तन् नित्यम् । उभयस्य च तत्त्वानभिघातान् नित्यत्वम् । तत्र गुण-धर्मेषु बुद्ध्य्-आदिषु परिणामापरान्त-निर्ग्राह्यः क्रमो लब्ध-पर्यवसानः । नित्येषु धर्मिषु गुणेष्व् अलब्ध-पर्यवसानः । कूटस्थ-नित्येषु स्वरूप-मात्र-प्रतिष्ठेषु मुक्त-पुरुषेषु स्वरूपास्तिता क्रमेणैवानुभूयत इति तत्राप्य् अलब्ध-पर्यवसानः, शब्द-पृष्ठेनास्ति-क्रियाम् उपादाय कल्पित इति ।
अथास्य संसारस्य स्थित्या गत्या च गुणेषु वर्तमानस्यास्ति क्रम-समाप्तिर् न वेति ? अवचनीयम् एतत् । कथम् ? अस्ति प्रश्न एकान्त-वचनीयः—सर्वो जातो मरिष्यतिइति । ओं भो इति । अथ सर्वो मृत्वा जनिष्यत इति । विभज्य-वचनीयम् एतत्—प्रत्युदित-ख्यातिः क्षीण-तृष्णः कुशलो न जनिष्यते, इतरस् तु जनिष्यते ।
तथा मनुष्य-जातिः श्रेयसी ? न वा श्रेयसी ? इत्य् एवं परिपृष्टं विभज्य-वचनीयः प्रश्नः, पशून् अधिकृत्यश्रेयसी, देवान् ऋषींश् चाधिकृत्य नेति ।
अयं त्व् अवचनीयः प्रश्नः—संसारोऽयम् अन्तवान् अथानन्त इति ? कुशलस्यास्ति संसार-क्रम-समाप्तिर् नेतरस्येत्य् अन्यतरावधारणेऽदोषः । तस्माद् व्याकरणीय एवायं प्रश्न इति ॥३३॥
तत्त्व-वैशारदी : अत्रान्तरे परिणाम-क्रमं पृच्छति—अथ कोऽयम् इति । क्षण-प्रतियोगी परिणामापरान्त-निर्ग्राह्यः क्रमः ॥ परिणाम-क्रमः क्षण-प्रतियोगी, क्षणः प्रतिसम्बन्धी यस्य स तथोक्तः । क्षण-प्रचयाश्रय इत्य् अर्थः । न जातु क्रमः क्रमवन्तम् अन्तरेण शक्यो निरूपयितुम् । न चैकस्यैव क्षणस्य क्रमः । तस्मात् क्षण-प्रचयाश्रयः परिशिष्यते ।
तद् इदम् आह—क्षणानन्तर्यात्मा इति । परिणाम-क्रमे प्रमाणम् आह—परिणामस्य इति । नवस्य हि वस्त्रस्य प्रयत्न-संरक्षितस्यापि चिरेण पुराणता दृश्यते । सोऽयं परिणामस्यापरान्तः पर्यवसानम् । तेन हि परिणामस्य क्रमः । ततः प्राग् अपि पुराणतायाः सूक्ष्मतम-सूक्ष्मतर-सूक्ष्म-स्थूल-स्थूलतर-स्थूलतमत्वादीनां परुवापर्यम् अनुमीयते ।
एतद् एव व्यतिरेक-मुखेन दर्शयति—न हिइति । अननुभूतोऽप्राप्तः क्रम-क्षणो अयति३ सा तथोक्ता ।
नन्व् एष क्रमः प्रधानस्य न सम्भवति, तस्य नित्यत्वाद् इत्य् अत आह—नित्येषु च इति । बहु-वचनेन सर्व-नित्य-व्यापितां क्रमस्य प्रतिजानीते ।
तत्र नित्यानां प्रकार-भेदं दर्शयित्वा नित्य-व्यापितां क्रमस्योपपादयति—द्वयीइति । ननु कूटस्थं स्वभावाद् अप्रच्युतम् अस्तु नित्यम् । परिणामि सदैव स्वरूपाच् च्यवमानं कथं नित्यम् ? इत्य् अत आह—यस्मिनिति । धर्म-लक्षणावस्थानाम् उदय-व्यय-धर्मत्वं, धर्मिणस् तु तत्त्वाद् अविघात एवेति । अथ किं परिणामापरान्त-निर्ग्राह्यता सर्व-क्रमस्य ? नेत्य् आह—तत्र गुण-धर्मेषु बुद्ध्य्-आदिषुइति । यतो लब्ध-पर्यवसानो धर्माणां विनाशात् । प्रधानस्य तु परिणाम-क्रमो न लब्ध-पर्यवसानः ।
ननु प्रधानस्य धर्म-रूपेण परिणामाद् अस्तु परिणाम-क्रमः, पुरुषस्य त्व् अपरिणामिनः कुतः परिणाम-क्रमः ? इत्य् अत आह—कूटस्थ- इति । तत्र बद्धानां चित्ताव्यतिरेकाभिमानात् तत्-परिणामेन परिणामाध्यासः । मुक्तानां चास्ति-क्रियाम् उपादायावास्तवोऽपि परिणामो मोह-कल्पितः, शब्दस्य पुरः-सरतया तत्-पृष्ठो विकल्पोऽस्ति-क्रियाम् उपादत्त इति ।
गुणेष्व् अलब्ध-पर्यवसानः परिणाम-क्रम इत्य् उक्तम् । तद्-असहमानः पृच्छति—अथैति । स्थित्याइति महा-प्रलयावस्थायाम् । गत्याइति सृष्टौ । एतद् उक्तं भवति—यद्य् आनान्त्यान् न परिणाम-समाप्तिः संसारस्य , हन्त भोः कथं महा-प्रलय-समये सर्वेषाम् आत्मनां सहसा समुच्छिद्येत, कथं च सृष्ट्य्-आदौ सहस्रोत्पद्येत संसारः ? तस्माद् एकैकस्यात्मनो मुक्ति-क्रमेण सर्वेषां विमोक्षाद् उच्छेदः सर्वेषां संसारस्य क्रमेणेति प्रधान-परिणाम-क्रम-परिसमाप्तिः । एवं च प्रधानस्याप्य् अनित्यत्व-प्रसङ्गः । न चापूर्व-सत्त्व-प्रादुर्भाव इष्यते येनानन्त्यं स्यात्, तथा सत्य् अनादित्व-व्याहतेः सकल-शास्त्रार्थ-भङ्ग-प्रसङ्ग इति भावः ।
उत्तरम् आह—अवचनीयम् अनुत्तरार्हम् एतत् । एकान्तत एव तस्यावचनीयता दर्शयितुम् एकान्त-वचनीयं प्रश्नं दर्शयति—अस्ति प्रश्नैति । सर्वो जातो मरिष्यतिइति प्रश्नः । उत्तरं—ओं भो इति । सत्यं भो इत्य् अर्थः ।
अविभज्य वचनीयम् उक्त्वा प्रविभज्य वचनीयं प्रश्नम् आह—अथ सर्वैति । विभज्य-वचनीयताम् आह—विभज्यैति । विभज्य-वचनीयम् एव प्रश्नान्तरं विस्पष्टार्थम् आह—तथा मनुष्य- इति । अयं त्व् अवचनीय एकान्ततः । न हि सामान्येन कुशलाकुशलपुरुष-संसारस्यान्तवत्त्वम् अनन्तवत्त्वं वा शक्यम् एकान्ततो वक्तुम्, यथा प्राण-भृन्-मात्रस्य श्रेयस्त्वम् अश्रेयस्त्वं वा नैकान्ततः शक्यम् अवधारयितुम् । यथा जात-मात्रस्य मरणम् एकान्तः । विभज्य पुनः शक्यावधारणम् इत्य् आह—कुशलस्य इति ।
अयम् अभिसन्धिः—क्रमेण मोक्षे सर्वेषां मोक्षात् संसारोछेद इत्य् अनुमानम् । तच् चागम-सिद्ध-मोक्षाश्रयम् । तथा चाभ्युपगत-मोक्ष-प्रतिपादकागम-प्रमाण-भावः कथं तम् एवागमं प्रधान-विकार-नित्यतायाम् अप्रमाणीकुर्यात् ? तस्माद् आगम-बाधित-विषयम् एत अनुमानं न प्रमाणम् । श्रूयते हि श्रुति-स्मृतीतिहास-पुराणेषु सर्ग-प्रतिसर्ग-परम्पराया अनादित्वम् अनन्तत्वं चेति ।
अपि च सर्वेषाम् एवात्मनां संसारस्य न तावद् युगपद् उच्छेदः सम्भवी । न हि पण्डित-रूपाणाम् अप्य् अनेक-जन्म-परम्पराभ्यास-परिश्रम-साध्या विवेक-ख्याति-प्रतिष्ठा । किं पुनः प्राणभृन्-मात्रस्य स्थावर-जङ्गमादेर् एकदाकस्माद् भवितुम् अर्हति । न च कारणायौगपद्यं युज्यते । क्रमेण तु विवेक-ख्याताव् असङ्ख्येयानां क्रमेण मुक्तौ न संसारो च्छेदो ऽनन्तत्वाज् जन्तूनाम् असंख्येयत्वाद् इति सर्वम् अवदातम् ॥३३॥
योग-वार्तिकम् : ननु परिणाम-समाप्तिर् इति वक्तव्ये क्रम-शब्दः परिणामानां प्रतिक्षणम् उत्पाद-विनाश-कथनेन वैराग्योत्पादनाय प्रयुक्तः । स चायम् अर्थः कथं क्रम-शब्दस्य पौर्वापर्य-मात्र-वाचित्वाद् इत्य् आशयेन क्रम-शब्दार्थं पृच्छति—अथैति । अयम् एतत्-सूत्रीयः । अत्र प्रत्युत्तरं सूत्रम्—क्षण-प्रतियोगी परिणामापरान्त-निर्ग्राह्यः क्रमः ॥३३॥
क्षण-प्रतियोगी क्षणस्यावसरस्य विरोधी, क्षणेनाप्य् अनन्तरित इति यावत् । एवं-रूपोऽत्र क्रमो विवक्षितो न तु पौर्वापर्य-मात्रम् इति विशेष्य-दलार्थः । परिणामश् च पूर्व-धर्मापाये धर्मान्तरोत्पत्तिर् इत्य् उक्तम् एव । ईदृशे च क्रमे प्रमाण-प्रदर्शन-परं परिणामापरान्त-निर्ग्राह्य इति विशेषणम् ।
भाष्य-कारस् तु क्षण-प्रतियोगीत्य् अस्य पर्यवसितार्थम् आह—क्षणानन्तर्यात्मा इति । क्रम इत्य् उत्तरेणान्वयः । क्षणानन्तर्यात्मा क्षणानन्तर्य-धर्मकः, आनन्तर्यं चाव्यवधानं क्रमस् तु पूर्वापरी-भावः । तथा च क्षणाव्यवहित-परिणाम-धारा पूर्व-सूत्रे परिणाम-क्रम-शब्दार्थः । अनवच्छिन्न-परिणाम-धारायाः प्रमाण-प्रदर्शकं सूत्रावयं व्याचष्टे—प्रणामस्य इति । पूर्वान्तापेक्षया वस्त्रादि-रूपस्य परिणामस्यापरान्तेन चरमावस्थयाऽनवच्छिन्न-परिणाम-धाराऽनुमीयत इत्य् अर्थः ।
अत्र युक्तिम् आह—न हि इति । अननुभूतोऽप्राप्तो यथोक्त-क्रमो यैर् एवं-भूताः क्षणा यस्याः, सानुभूत-क्रम-क्षणा पुराणता । तथा च वस्त्रस्यान्त-काले दृश्यमाना पुराणता न ह्य् अननुभूत-क्रम-क्षणा सम्भवतीत्य् अर्थः । अतः पुराणतायाः सूक्ष्मतम-सूक्ष्मतर-सूक्ष्म-स्थूलादि-रूपैः परिणाम-क्षणेऽप्य् अविरलः क्रमोऽनुमीयत इति ।
नन्व् अपरान्तेनानित्येष्व् एव क्रमः सिद्धो न तु प्रधानेऽपि, तस्य चरमावस्थाया अभावात् । अतो गुणानां परिणाम-क्रमे किं प्रमाणं येन तत्-समाप्तिः पूर्व-सूत्रोक्ता घटेत ? तत्राह—नित्येषु च इति । नित्येषु स्वतोऽपरान्ताभावेऽपि विकाराणाम् अपरान्तैर् एव प्रतिक्षण-परिणामो दृष्टः, अनुमित इत्य् अर्थः ।धर्मि-विक्रियैवैषा धर्म-द्वारा प्रपञ्च्यत इति[३.१३ भाष्ये]प्राग्-उक्तत्वाद् इत्य् अर्थः ।
ननु परिणाम-क्रमाङ्गीकारे नित्यत्व-हानिर् इत्य् आशङ्कायाम् आह—द्वयी च इति । तथा च परिणामित्वेन कूटस्थ-नित्यतैव विरुध्यते न नित्यता-सामान्यम् इत्य् आशयः । नित्यस्य सामान्य-लक्षणम् आह—यस्मिन् इति । तत्त्वं न विहन्यते, स्वरूपं नातीतं भवति । अत्र चातीतता-शून्यत्व-मात्रं नित्यत्वस्य सामान्य-लक्षणम् इति बोध्यम् ।
तच् चोभय-साधारणम् इत्य् आह—उभयस्य इति । गुण-पुरुषयोर् इत्य् अर्थः । पूर्व-सूत्रे परिणाम-शब्देन व्यावर्त्य स्वरूपास्तिता-क्रमं दर्शयितुं क्रम-सामान्यं विभजते—तत्रैति । बुद्ध्य्-आदिषु महद्-आदिषु लब्ध-पर्यवसानो विनाशित्वाद् इत्य् अर्थः । गुणेषुइति। अत्रापि परिणामापरान्त-निर्ग्राह्य इत्य् अन्वेति ।
परिणामस्य क्रमं द्विधा व्याख्याय तृतीयं स्वरूपास्तितायाः क्रमम् असङ्कीर्णोदाहरणेनाह—कूटस्थ- इति । बद्धानां चित्तादि-विवेकेन कदाचित् परिणामाध्यासोऽपि स्याद् इत्य् आशयेन स्वरूप-मात्र-प्रतिष्ठेषु इत्य् उक्तं, तस्यैव स्वरूपाख्यानं—मुक्त-पुरुषेषु इति । स्वरूपास्तिता च तत्-तत्-क्षण-मात्रं तत्-क्रम च पुरुषेष्व् अप्य् अस्ति, इदानीं स्थित्वा पश्चात् स्थास्यतीति व्यवहारात्, अन्यथा सर्व-काल-सम्बन्ध-रूप-नित्यताऽणुपपत्तेश् चेत्य् अतः—तत्राप्य् अलब्ध-पर्यवसानःिति । क्रम इति शेषः ।
नन्व् एवम् आत्मनोऽप्य् अस्तिता-क्रम-स्वीकारे षड्-भाव-विकार-शून्यत्व-सिद्धान्त-विरोध इत्य् आशङ्कां परिहरति—शब्द-पृष्ठेन शब्दानुसारिणा व्यवहर्त्रा कल्पितो भवति, न तु जन्मोत्तर-कालीनम् अस्तिता-परिणामम् आदायेत्य् अर्थः । तथा चास्तित्वाख्य-क्रियैव षड्-भाव-विकारान्तर्गता पुरुषे निषिद्धेत्य् आशयः । सा च क्रिय्-रूपिण्यस्तिता वृद्धि-हेत्व्-अवयवोपचय-रूपेति विभागः ।
गुणेष्व् अलब्ध-पर्यवसानः परिणाम इति श्रुत्वाक्षिपति—अथ इति । अस्य संसारस्य जन्मादि-परिणाम-जातस्य स्थित्या गत्या च गुणेषु वर्तमानस्य सृष्टि-प्रलय-प्रवाहेणावस्थितस्य क्रम-समाप्तिर् अस्ति न वा? आद्ये अलब्ध-पर्यवसानोक्ति-विरोधः, अन्त्ये परिणाम-क्रम-समाप्तिर् गुणानां [४.३२] इति पूर्व-सूत्र-विरोधः । तथा भूयश् चान्ते विश्वम् आमानि-वृत्तिः[श्वे.उ. १.३०] इति श्रुति-विरोधश् चेति । पूर्व-सूत्रे कृतार्थ-पुरुषं प्रत्य् एव परिणाम-क्रम-समाप्तिर् गुणानाम् उक्त्वा न तु सामान्यत इत्य् आशयेन समाधत्ते—अवचनीयम् एतदिति ।
प्रत्युत्तरानर्हम् एतद् भवद्-वचनम् इत्य् अर्थः । उक्त-प्रश्नस्योत्तरानर्हत्वं प्रतिपादयितुम् आदाव् उत्तरार्हं द्विविध-प्रश्नं दर्शयति—अस्ति प्रश्न इति । सर्वो जातो मरिष्यतीत्य् एकान्त-वचनीयोऽविभज्य वचनीयः प्रश्नः । अस्य च ओम् इति प्रतिवचनम्, सत्यं भो इत्य् अर्थः । ओं भो इति पाठस् तु समीचीनः ।
अविभज्य-वचनीयं प्रश्नं प्रदर्श्य विभज्य-वचनीयं प्रण्चान्तरं प्रदर्शयति—अथ सर्वो मृत्वा जनिष्यत इति। विभागेन वचनं प्रत्युत्तरं दर्शयति—प्रत्युदित- इति । विभज्य-वचनीय-प्रश्नं लौकिकम् अपि दर्शयति—तथा मनुष्य- इति । उक्त-प्रश्नस् तु यथा-श्रुत एकान्तत एवावचनीय इत्य् आह—अयं त्व् इति । अयम् इत्य् उक्तं विशिष्याह—संसारैति ।
अवचनीयत्वम् एवोपपादयति—कुशलस्य इत्य् आदिना, दोष इत्य् अन्तेन । कुशलस्य कुशले गुण-कृतस्य संसार-क्रमस्य समाप्तिर् अस्ति नेतरस्मिन् इत्य् अतो गुण-सृष्टि-प्रलय-प्रवाहोच्छेदानुच्छेदान्यतरावधारणे दोषः । आद्ये बाधोऽन्त्ये कस्यापि मुक्तिर् नास्तीति शिष्य-मोहापत्तिर् इत्य् अर्थः । अस्यापि प्रश्नस्य विकल्प्योत्तरं देयम् इत्य् आह—तस्मादिति । तस्माद् उत्तर-दानार्थम् आदौ विकल्पेन व्याख्येयोऽयं प्रश्न इत्य् अर्थः । तद् यथा—यदि च गुणानां सृष्ट्य्-आद्य्-उच्छेदः पृच्छ्यते, तदा नास्तीत्य् एव वक्तव्यम्,
अनादिर् भगवान् कालो नान्तोऽस्य द्विज विद्यते ।
अव्युच्छिन्नास् ततस् त्व् एते सर्ग-स्थित्य्-अन्त-संयमाः ॥[वि.पु. १.२.२६]
इत्य् आदि-वाक्य-शतेभ्यः सृष्टि-प्रवाहस्यानादित्ववद् अनन्तत्वस्यापि सिद्धेः शुष्क-तर्कस्याप्रयोजकत्वात्, अन्यथा संसार-हेत्व्-अदृष्टस्य सर्वस्यैव सादित्वात् संसारस्यानादित्वम् अपि तर्क-विरोधेन न सिध्येत् । भूयश् चान्ते विश्वम् आमानि-वृत्तिः[श्वे.उ. १.३०] इति श्रुतिश् च मायाख्य-प्रकृतेः प्रलये व्यापारोपरमाख्यं निवृत्तिम् एव वदति । एतेन सर्व-मुक्तिर् अप्रामाणिकीति सिद्धम् ॥३३॥
—o)0(o—
(४.३४)
गुणादिकार-क्रम-समाप्तौ कैवल्यम् उक्तम् । तत्-स्वरूपम् अवधार्यते—
पुरुषार्थ-शून्यानां गुणानां प्रतिप्रसवः कैवल्यं,
स्वरूप-प्रतिष्ठा वा चिति-शक्तिर् इति ॥३४॥
इति पतञ्जलि-विरचिते योग-सूत्रे चतुर्थः कैवल्यपादः ।
॥ इति पातञ्जल-योग-सूत्राणि ॥
कृत-भोगापवर्गाणां पुरुषार्थ-शून्यानां यःप्रतिप्रसवः कार्य-कारणात्मनां गुणानां तत् कैवल्यम् । स्वरूप-प्रतिष्ठा पुनर् बुद्धि-सत्त्वानभिसम्बन्धात् पुरुषस्य चिति-शक्तिर् एव केवला, तस्याः सदा तथैवावस्थानं कैवल्यम् इति॥३४॥
इतिश्री-पातञ्जले साङ्ख्य-प्रवचने योग-शास्त्रे श्रीमद्-व्यास-भाष्ये कैवल्य-पादश् चतुर्थः ।
तत्त्व-वैशारदी : कैवल्य-स्वरूपावधारण-परस्य सूत्रस्यावान्तर-सङ्गतिम् आह—गुणाधिकारेति । पुरुषार्थ-शून्यानां गुणानां प्रतिप्रसवः कैवल्यं, स्वरूप-प्रतिष्ठा वा चिति-शक्तिर् इति ॥
कृत-करणीयतया पुरुषार्थ-शून्यानां यः प्रतिप्रसवः स्व-कारणे प्रधाने लयः, तेषां कार्य-कारणात्मकानां गुणानां व्युत्थान-समाधि-निरोध-संस्कारा मनसि लीयन्ते, मनोऽस्मितायां, अस्मिता लिङ्गे, लिङ्गम् अलिङ्ग इति । योऽयं गुणानां कार्य-कारणात्मकानां प्रतिसर्गस् तत् कैवल्यम् । यं कञ्चित् पुरुषं प्रति प्रधानस्य मोक्षः । स्वरूप-प्रतिष्ठा वा पुरुषस्य मोक्ष इत्य् आह—स्वरूपेति । अस्ति हि महा-प्रलयेऽपि स्वरूप-प्रतिष्ठा चिति-शक्तिः, न चासौ मोक्ष इत्य् अत आह—पुनर् इति । सौत्र इति शब्दः शास्त्र-परिसमाप्तौ ॥३४॥
मुक्त्य्-अर्ह-चित्तं पर-लोक-मेयज्ञ-सिद्धयो धर्म-घनः समाधिः ।
द्वयी च मुक्तिः प्रतिपादितास्मिन् पादे प्रसङ्गाद् अपि चन्यद् उक्तम् ॥
निदानं तापानाम् उदितम् अथ तापाश् च कथिताः
सहाङ्गैर् अष्टाभिर् विहितम् इह योग-द्वयम् अपि ।
कृतो मुक्तेर् अध्वा गुण-पुरुष-भेदः स्फुटतरो
विविक्तं कैवल्यं परिगलित-तापा चितिर् असौ ॥
इति श्री-वाचस्पति-मिश्र-विरचितायां पातञ्जल-योग-सूत्र-भाष्य-व्याख्यायां तत्त्व-वैशारद्यां कैवल्य-पादश् चतुर्थः ॥४॥
योग-वार्तिकम् : यदि पुरुषस्य संसारोच्छेदः पृच्छ्यते, तदा कुशलस्यास्ति नेतरस्येति प्रश्न-वाक्यं विकल्प्य प्रतिवचनं सम्भवतीति उत्तर-सूत्रम् अवतारयति—गुणाधिकारेति । गुणाधिकारः परिणाम-विशेषस् तत्-क्रम-परिसमाप्तौ कैवल्यम् इति । ततः कृतार्थानाम् इत्य् आदि-सूत्रेण तात्पर्यतः प्रोक्तम् । तस्य कैवल्यस्य स्वरूपम् अवधार्यत इत्य् अर्थः । पुरुषार्थ-शून्यानां गुणानां प्रतिप्रसवः कैवल्यं, स्वरूप-प्रतिष्ठा वा चिति-शक्तिर् इति ॥
कृत-करतव्यतया पुरुषार्थ-शून्यानां पुरुषोपकरणानां लिङ्ग-शरीरात्मकानां प्रतिप्रसवः स्व-कारण्ऽत्यन्त-विलयः, स बुद्धेः कैवल्यम् । एतद् एव च प्रधानस्यापि ज्ञानिपुरुषं प्रति कैवल्यम् उच्यते । तेन पुरुषेण सह पुनर् संयोगात् । या तु धर्म-धर्म्य्-अभेदाच् चिति-शक्तिः स्वरूपिणी स्वरूप-प्रतिष्ठा बुद्धि-सत्त्वोपाधिक-रूप-शून्यता-रूपा जपापाये स्फटिक-स्वरूप-प्रतिष्ठावत् सा पुरुषस्य कैवल्यम् इत्य् अर्थः । परस्परावियोगी ह्य् उपाध्य्-उपाधिमतोर् उभयोर् एव केवलता एकाकिता भवति, ते चोभ एव दुःख-भोग-निवृत्त्य्-आख्य-पुरुषार्थ-साधने भवत इति द्वे एव कैवल्ये लक्षिते । तयोश् चाद्यं कैवल्यं पुरुषस्योपचरितम् इत्य् उक्तं साङ्ख्य-कारिकायां—
तस्मान् न बध्यतेऽद्धा न मुच्यते नापि संसरति पुरुषः ।
संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः ॥[सा.का. ६२] इति ।
न तु स्वरूप-प्रतिष्ठा-रूपं कैवल्यं दुःख-भोगात्यन्त-निवृत्ति-रूपो वा पुरुषार्थः पुरुषस्य तत्र निराकृतः, मोक्षस्यान्य-मात्र-निष्ठत्वेऽपुरुषार्थत्वे मोक्षार्थं प्रवृत्त्य्-अनुपपत्तेः, पुरुषार्थं हि करणानां प्रवृत्तिर् इति । इति-शब्दः शास्त्र-समाप्ति-सूचनार्थः ।
भाष्ये कार्य-कारणात्मनाम् इति । कार्य-कारण-भावापन्नानां महद्-आदि-सूक्ष्म-भूत-पर्यन्तानां लिङ्ग-शरीर-घटकानाम् इत्य् अर्थः । न तु कार्यम् अत्र स्थूल-शरीरम्, तत्-सत्त्वेऽपि कैवल्योदयाद् इति । ननु स्वस्य स्व-प्रतिष्ठत्वानुपपत्त्या कथं स्व-प्रतिष्ठत्वम् ? तत्राह—स्वरूपेति । पुरुषस्य पुनर् बुद्धि-सत्त्वासम्बन्धात् केवला चिति-शक्तिर् एव स्वरूप-प्रतिष्ठेत्य् अर्थः । तस्य इति । स्वरूप-प्रतिष्ठायां सदैवावस्थानं पुनर् अप्रच्यवः कैवल्यं द्वितीयम् इति शेषः ॥३४॥
योग-ग्रन्थ-सहस्राणां सर्वोपनिषदां तथा ।
सतां च यत्र तात्पर्यं सोऽर्थो व्यासेन भाषितः ॥
व्याख्यातश् च यथा-शक्ति निर्मत्सर-धिया मया ।
एतेन प्रीयताम् ईशो य आत्मासर्व-देहिनाम् ॥
श्री-विज्ञान-भिक्षु-विरचिते पातञ्जल-भाष्य-वार्तिके कैवल्य-पादश् चतुर्थः ॥
—o)0(o—
समाप्तम् इदं तत्त्व-वैशारदी-योग-वार्तिक-विभूषित-व्यास-भाष्य-समेतं पातञ्जल-योग-सूत्रम् ॥