पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः ०५

विकिस्रोतः तः

ऋषय ऊचुः-।
वर्षाणां चैव नामानि पर्वतानां च सत्तम ।
आचक्ष्व नो यथातत्वं ये च पर्वतवासिनः १।
सूत उवाच-।
दक्षिणेन तु श्वेतस्य निषधस्योत्तरेण तु ।
वर्षं रमणकं नाम जायंते तत्र मानवाः २।
शुक्लाभिजनसंपन्नाः सर्वे ते प्रियदर्शनाः ।
निःसपत्नाश्च ते सर्वे जायंते तत्र मानवाः ३।
दशवर्षसहस्राणि शतानि दशपंच च ।
जीवंति ते महाभागा नित्यं मुदितमानसाः ४।
दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु ।
वर्षं हिरण्मयं नाम यत्र हैरण्वती नदी ५।
यत्र चायं महाप्राज्ञाः पक्षिराट्पतगोत्तमः ।
यज्ञानुगा विप्रवरा धन्विनः प्रियदर्शनाः ६।
महाबलास्तत्र जना विप्रा मुदितमानसाः ।
एकादशसहस्राणि वर्षाणां ते तपोधनाः ७।
आयुःप्रमाणं जीवंति शतानि दश पंच च ।
शृंगाणि च पवित्राणि त्रीण्येव द्विजपुंगवाः ८।
एकं मणिमयं तत्र तथैकं रुक्ममद्भुतम् ।
सर्वरत्नमयं चैकं भवनैरुपशोभितम् ९।
तत्र स्वयं प्रभादेवी नित्यं वसति शंडिनी ।
उत्तरेण तु शृंगस्य समुद्रांते द्विजोत्तमाः १०।
वर्षमैरावतं नाम तस्माच्छृंगवतः परम् ।
न तु तत्र सूर्यगतिर्जीर्यंते न च मानवाः ११।
चंद्रमाश्च सनक्षत्रो ज्योतिर्भूत इवावृतः ।
पद्मप्रभाः पद्मवर्णाः पद्मपत्रनिभेक्षणाः १२।
पद्मपत्रसुगंधाश्च जायंते तत्र मानवाः ।
अनिष्पन्ना नष्टगंधा निराहारा जितेंद्रियाः १३।
देवलोकच्युताः सर्वे तथा विरजसो द्विजाः ।
त्रयोदशसहस्राणि वर्षाणां ते द्विजोत्तमाः १४।
आयुःप्रमाणं जीवंति नरा धार्मिकपुंगवाः ।
क्षीरोदस्य समुद्रस्य तथैवोत्तरतः प्रभुः १५।
हरिस्तिष्ठति वैकुंठः शकटे कनकामये ।
अष्टचक्रं हि तद्यानं भूतयुक्तं मनोजवम् १६।
अग्निवर्णं महातेजो जांबूनदविभूषितम् ।
स प्रभुः सर्वभूतानां विभुश्च द्विजसत्तमाः १७।
संक्षेपे विस्तरे चैव कर्ता कारयिता तथा ।
पृथिव्यापस्तथाकाशं वायुस्तेजश्च सत्तमाः १८।
स यज्ञः सर्वभूतानामास्यं तस्य हुताशनः १९।
इति श्रीपाद्मे महापुराणे स्वर्गखंडे पंचमोऽध्यायः ५।