पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०९७

विकिस्रोतः तः
← अध्यायः ०९६ पद्मपुराणम्/खण्डः २ (भूमिखण्डः)
अध्यायः ९७
अज्ञातलेखकः
अध्यायः ०९८ →

सप्तनवतितमोऽध्यायः ।
कुंजल उवाच-
एवमाकर्ण्य तां राजा मुनिना भाषितां तदा ।
धर्माधर्मगतिं सर्वां तं मुनिं समभाषत १।
सुबाहुरुवाच-
सोहं धर्मं करिष्यामि सोहं पुण्यं द्विजोत्तम ।
वासुदेवं जगद्योनिं यजिष्ये नितरां मुने २।
होमेन तु जपेनैव पूजयेन्मधुसूदनम् ।
यष्ट्वा यज्ञं तपस्तप्त्वा विष्णुलोकं स भूपतिः ३।
पूजितः सर्वकामैश्च प्राप्तवान्सत्वरं मुदा ।
गते तस्मिन्महालोके देवदेवं न पश्यति ४।
क्षुधा जाता महातीव्रा तृष्णा चाति प्रवर्तते ।
तयोश्चापि महाप्राज्ञ जीवपीडाकरा बहु ५।
राजापि प्रियया सार्द्धं क्षुधातृष्णाप्रपीडितः ।
न पश्यति हृषीकेशं दुःखेन महतान्वितः ६।
सूत उवाच-
एवं स दुःखितो राजा प्रियया सह सत्तम ।
आकुल व्याकुलो जातः पीडितः क्षुधया भृशम् ७।
इतश्चेतश्च वेगैश्च धावते वसुधाधिपः ।
सर्वाभरणशोभांगो वस्त्रचंदनभूषितः ८।
पुष्पमालाप्रशोभांगो हारकुंडलकंकणैः ।
रत्नदीप्तिप्रशोभांगः प्रययौ स महीपतिः ९।
एवं दुःखसमाचारः स्तूयमानश्च पाठकैः ।
दुःखशोकसमाविष्टः स्वप्रियां वाक्यमब्रवीत् १०।
विष्णुलोकमहं प्राप्तस्त्वया सह सुशोभने ।
ऋषिभिः स्तूयमानोपि विमानेनापि भामिनि ११।
कर्मणा केन मे चेयं क्षुधातीव प्रवर्द्धते ।
विष्णुलोकं च संप्राप्य न दृष्टो मधुसूदनः १२।
तत्किं हि कारणं भद्रे न भुनज्मि महत्फलम् ।
कर्मणाथ निजेनापि एतद्दुःखं प्रवर्त्तते १३।
सैवं श्रुत्वा च तद्वाक्यं राजानमिदमब्रवीत् १४।
भार्योवाच-
सत्यमुक्तं त्वया राजन्नास्ति धर्मस्य वै फलम् ।
वेदशास्त्रपुराणेषु ये पठंति च ब्राह्मणाः १५।
दुःखशोकौ विधूयेह सर्वदोषैः प्रमुच्यते ।
नामोच्चारेण देवस्य विष्णोश्चैव सुचक्रिणः १६।
पुण्यात्मानो महाभागा ध्यायमाना जनार्दनम् ।
त्वयैवाराधितो देवः शंखचक्रगदाधरः १७।
अन्नादिदानं विप्रेभ्यो न प्रदत्तं द्विजोदितम् ।
फलं तस्य प्रजानामि न दृष्टो मधुसूदनः १८।
क्षुधा मे बाधते राजंस्तृष्णा चैव प्रशोषयेत् ।
कुंजल उवाच-
एवमुक्तस्तु प्रियया राजा चिंताकुलेंद्रियः १९।
ततो दृष्ट्वा महापुण्यमाश्रमं श्रमनाशनम् ।
दिव्यवृक्षसमाकीर्णं तडागैरुपशोभितम् २०।
वापीकुंडतडागैश्च पुण्यतोयप्रपूरितैः ।
हंसकारंडवाकीर्णं कह्लारैरुपशोभितम् २१।
आश्रमः शोभते पुत्र मुनिभिस्तत्त्ववेदिभिः ।
दिव्यवृक्षसमाकीर्णं मृगव्रातैश्च शोभितम् २२।
नानापुष्पसमाकीर्णं हृद्यगंधसमाकुलम् ।
द्विजसिद्धैः समाकीर्णमृषिशिष्यैः समाकुलम् २३।
योगियोगेंद्र संघुष्टं देववृंदैरलंकृतम् ।
कदलीवनसंबाधैः सुफलैः परिशोभितम् २४।
नानावृक्षसमाकीर्णं सर्वकामसमन्वितम् ।
श्रीखंडैश्चारुगंधैश्च सुफलैः शोभितं सदा २५।
एवं पुण्यं समाकीर्णं ब्रह्मलक्ष्मसमायुतम् ।
स सुबाहुस्ततो राजा तया सुप्रियया सह २६।
प्रविवेश महापुण्यं तद्वनं सर्वकामदम् ।
भासमानो दिशः सर्वा यत्रास्ते सूर्यसंनिभः २७।
राजमानो महादीप्त्या परया सूर्यसंनिभः ।
योगासनसमारूढो योगपट्टेन संवृतः २८।
वामदेवऋषिश्रेष्ठो वैष्णवानां वरस्तथा ।
ध्यायमानो हृषीकेशं भुक्तिमुक्तिप्रदायकम् २९।
वामदेवं महात्मानं तं दृष्ट्वा मुनिसत्तमम् ।
त्वरं गत्वा प्रणम्यैव स राजा प्रियया सह ३०।
वामदेवस्ततो दृष्ट्वा प्रणतं राजसत्तमम् ।
आशीर्भिरभिनंद्यैव राजानं प्रिययान्वितम् ३१।
उपवेश्यासने पुण्ये सुबाहुं राजसत्तमम् ।
आसनादि ततः पाद्यैरर्घपूजादिभिस्तथा ३२।
मुनिना पूजितो भूपः प्रियया सह चागतः ।
अथ पप्रच्छ राजानं महाभागवतोत्तमम् ३३।
वामदेव उवाच-
त्वामहं विष्णुधर्मज्ञं विष्णुभक्तं नरोत्तमम् ।
जाने ज्ञानेन राजेंद्र दिव्येन चोलभूमिपम् ३४।
निरामयश्चागतोसि तार्क्ष्यया भार्यया सह ।
राजोवाच-
निरामयश्चागतोऽस्मि प्राप्तो विष्णोः परं पदम् ३५।
मया हि परया भक्त्या देवदेवो जनार्दनः ।
आराधितो जगन्नाथो भक्तिप्रीतः सुरेश्वरम् ३६।
कस्मात्पश्याम्यहं तात न देवं कमलापतिम् ।
क्षुधा मे बाधते तात तृष्णातीव सुदारुणा ३७।
ताभ्यां शांतिं न गच्छाव सुखं विंदाव नैव च ।
एतन्मेकारणं दुःखं संजातं मुनिसत्तम ३८।
तन्मे त्वं कारणं ब्रूहि प्रसादात्सुमुखो भव ।
वामदेव उवाच-
त्वं तु भक्तोसि राजेंद्र श्रीकृष्णस्य सदैव हि ३९।
आराधितस्त्वया भक्त्या परया मधुसूदनः ।
भक्त्योपचारैः स्नानाद्यैर्गंधपुष्पादिभिस्तथा ४०।
न पूजितोऽथ नैवेद्यैः फलैश्च जगतांपतिः ।
दशमीं प्राप्य राजेंद्र त्वयैव च सदा कृतम् ४१।
एकभक्तं न दत्तं तु ब्राह्मणाय सुभोजनम् ।
एकादशीं तु संप्राप्य न कृतं भोजनं त्वया ४२।
विष्णुमुद्दिश्य विप्राय न दत्तं भोजनं त्वया ।
अन्नं चामृतरूपेण पृथिव्यां संस्थितं सदा ४३।
अन्नदानं विशेषेण कदा दत्तं न हि त्वया ।
ओषध्यश्च महाराज नानाभेदास्तु ताः शृणु ४४।
कटु तिक्त कषायाश्च मधुराम्लाश्च क्षारकाः ।
हिंग्वाद्योपस्कराः सर्वे नानारूपाश्च भूपते ४५।
अमृताज्जज्ञिरे सर्वा ओषध्यः पुष्टिहेतवः ।
अन्नमेव सुसंस्कृत्य औषधव्यंजनान्वितम् ४६।
देवेभ्यो विष्णुरूपेभ्य इति संकल्प्य दीयते ।
पितृभ्यो विष्णुरूपेभ्यो हस्ते च ब्राह्मणस्य हि ४७।
अतिथिभ्यस्ततो दत्वा परिजनं प्रभोजयेत् ।
स्वयं तु भुंजते पश्चात्तदन्नममृतोपमम् ४८।
प्रेत्य दुःखं न चैवास्ति तस्य सौख्यं तु भूपते ।
ब्राह्मणाः पितरो देवाः क्षत्ररूपाश्च भूपते ४९।
यथा हि कर्षकः कश्चित्सुकृषिं कुरुते सदा ।
तद्वन्मर्त्यः कृषिं कुर्यात्क्षेत्रे विप्रास्यके नृप ५०।
स्वभावलांगलेनापि श्रद्धा शस्त्रेण भेदयेत् ।
वृषभौ तु मतौ नित्यं बुद्धिश्चैव तपस्तथा ५१।
सत्यज्ञानानुभावीशः शुद्धात्मा तु प्रतोदकः ।
विप्रनाम्नि महाक्षेत्रे नमस्कारैर्विसर्जयेत् ५२।
स्फोटयेत्कल्मषं नित्यं कृषिको हि यथा नृप ।
क्षेत्रस्य उद्यमे युक्तो विष्णुकामः प्रसादयेत् ५३।
तद्वद्वाक्यैः शुभैः पुण्यैर्विप्रांश्चापि प्रसादयेत् ।
पर्वतीर्थाप्तिकालश्च घनरूपोभिवर्षणे ५४।
वप्तुकामो भवेत्क्षेत्री ततः क्षेत्रे प्रवापयेत् ।
तद्वद्भूपप्रसन्नाय विप्राय परिदीयते ५५।
क्षेत्रस्य उप्तबीजस्य यथा क्षेत्री प्रभुंजति ।
फलमेव महाराज तथा दाता भुनक्ति च ५६।
प्रेत्य चात्रैव नित्यं च तृप्तो भवति नान्यथा ।
ब्राह्मणाः पितरो देवाः क्षेत्ररूपा न संशयः ५७।
मानवानां महाराज वापिताः प्रददंति च ।
फलमेवं न संदेहो यादृशं तादृशं ध्रुवम् ५८।
कटुकाद्धि न जायेत राजन्मधुर एव च ।
तद्वच्च मधुराख्याच्च न जायेत्कटुकः पुनः ५९।
यादृशं वपते बीजं तादृशं फलमश्नुते ।
न वापयति यः क्षेत्रं न स भुंजति तत्फलम् ६०।
तद्वद्विप्राश्च देवाश्च पितरः क्षेत्ररूपिणः ।
दर्शयंति फलं राजन्दत्तस्यापि न संशयः ६१।
यादृशं हि कृतं कर्म त्वयैव च शुभाशुभम् ।
तादृशं भुंक्ष्व वै राजन्नन्यथा तन्न जायते ६२।
न पुरा देवविप्रेभ्यः पितृभ्यश्च कदाचन ।
मिष्टान्नपानमेवापि दत्तं सुमनसा तदा ६३।
सुभोज्यैर्भोजनैर्मृष्टैर्मधुरैश्चोष्यपेयकैः ।
सुभक्ष्यैरात्मना भुक्तं कस्मै दत्तं न च त्वया ६४।
स्वशरीरं त्वया पुष्टमन्नैरमृतसन्निभैः ।
यस्मात्कृतं महाराज तस्मात्क्षुधा प्रवर्तते ६५।
कर्मैव कारणं राजन्नराणां सुखदुःखयोः ।
जन्ममृत्य्वोर्महाभाग भुंक्ष्व तत्कर्मणः फलम् ६६।
पूर्वेपि च महात्मानो दिवं प्राप्ताः स्वकर्मणा ।
पुनः प्रयाता भूर्लोकं कर्मणः क्षयकालतः ६७।
नलो भगीरथश्चैव विश्वामित्रो युधिष्ठिरः ।
कर्मणैव हि संप्राप्ताः स्वर्गं राजन्स्वकालतः ६८।
दिष्टं हि प्राक्तनं कर्म तेन दुःखं सुखं लभेत् ।
तदुल्लंघयितुं राजन्कः समर्थोपि हीश्वरः ६९।
अथ तस्मान्नृपश्रेष्ठ स्वर्गतस्यापि तेऽभवत् ।
क्षुत्तृष्णासंभवो वेगस्ततो दुष्टं हि कर्म ते ७०।
यदि ते क्षुत्प्रतीकारो ह्यभीष्टो नृपसत्तम ।
तद्गत्वा भुंक्ष्व कायं स्वमानंदारण्यसंस्थितम् ७१।
तव चेयं महाराज्ञी क्षुत्क्षामातीव दृश्यते ।
सुबाहुरुवाच-
कियत्कालमिदं कर्म कर्तव्यं प्रियया सह ७२।
तन्मे ब्रूहि महाभागानुग्रहो दृश्यते कदा ।
कस्य दानेन किं पुण्यं द्रव्यस्य मुनिसत्तम ७३।
तत्प्रब्रूहि महाप्राज्ञ यदि तुष्टोसि सांप्रतम् ।
वामदेव उवाच-
अन्नदानान्महासौख्यमुदकस्य महामते ७४।
भुंजंति मर्त्याः स्वर्गं वै पीड्यंते नैव पातकैः ।
यदा दानं न दत्तं तु भवेदपि हि मानवैः ७५।
मृत्युकालेपि संप्राप्ते दानं सर्वे ददंति च ।
आदावेव प्रदातव्यमन्नं चोदकसंयुतम् ७६।
सुच्छत्रोपानहौ दद्याज्जलपात्रं सुशोभनम् ।
भूमिं सुकांचनं धेनुमष्टौ दानानि योऽर्पयेत् ७७।
स्वर्गे न जायते तस्य क्षुधातृष्णादिसंभवः ।
क्षुधा न बाधते राजन्नन्नदानात्स तृप्तिमान् ७८।
तृष्णा तीव्रा नहि स्याद्वै तृप्तो भवति सर्वदा ।
पादुकायाः प्रदानेन च्छत्रदानेन भूपते ७९।
छायामाप्नोति दाता वै वाहनं च नृपोत्तम ।
उपानहप्रदानेन अन्यदेवं वदाम्यहम् ८०।
भूमिदानान्महाभाग सर्वकामानवाप्नुयात् ।
गोदानेन महाराज रसैः पुष्टो भवेत्सदा ८१।
सर्वान्भोगान्प्रभुंजानः स्वर्गलोके वसेन्नरः ।
तृप्तो भवति वै दाता गोदानेन न संशयः ८२।
नीरुजः सुखसंपन्नः संतुष्टस्तु धनान्वितः ।
कांचनेन सुवर्णस्तु जायते नात्र संशयः ८३।
श्रीमांश्च रूपवांस्त्यागी रत्नभोक्ता भवेन्नरः ।
मृत्युकाले तु संप्राप्ते तिलदानं प्रयच्छति ८४।
सर्वभोगपतिर्भूत्वा विष्णुलोकं प्रयाति सः ।
एवं दानविशेषेण प्राप्यते परमं सुखम् ८५।
गोदानं भूमिदानं तु अन्नोदके च वै त्वया ।
जीवमानेन राजेंद्र न दत्तं ब्राह्मणाय वै ८६।
मृत्युकालेपि नो दत्तं तस्मात्क्षुधा प्रवर्तते ।
एतत्ते कारणं प्रोक्तं जातं कर्मवशानुगम् ८७।
यादृशं तु कृतं कर्म तादृशं परिभुज्यते ।
सुबाहुरुवाच-
कथं क्षुधा प्रशांतिं मे प्रयाति मुनिसत्तम ८८।
अनया शोषितः कायो ह्यतीव परिदूयते ।
क्षुधां प्रति द्विजश्रेष्ठ प्रायश्चित्तं वदस्व नौः ८९।
कर्मणश्चास्यघोरस्य यथा शांतिर्भवेन्मम ।
वामदेव उवाच-
प्रायश्चित्तं न चैवास्ति ऋतेभोगान्नृपोत्तम ९०।
कर्मणोस्य फलं सर्वं भवान्स्वस्थः प्रभोक्ष्यति ।
यत्र ते पतितः कायः प्रियायाश्चैव भूपते ९१।
युवाभ्यां हि प्रगंतव्यमितश्चैव न संशयः ।
उभाभ्यामपि भोक्तव्यं कायमक्षयमेव तत् ९२।
स्वंस्वं राजन्न संदेहस्त्वया वै प्रियया सह ।
राजोवाच-
कियत्कालं प्रभोक्तव्यं मयैवं प्रियया सह ९३।
तदादिश महाभाग प्रमाणं तद्वचो मम ।
वामदेव उवाच-
वासुदेव महास्तोत्रं महापातकनाशनम् ९४।
यदा त्वं श्रोष्यसे पुण्यं तदा मोक्षं प्रयास्यसि ।
एतत्ते सर्वमाख्यातं गच्छ राजन्प्रभुंक्ष्वहि ९५।
एवं श्रुत्वा ततो राजा भार्यया सह वै पुनः ।
स्वशरीरस्य वै मांसं भक्षते प्रियया सह ९६।
नित्यमेव महाप्राज्ञ तद्वत्पूर्णं भवेद्वपुः ।
नित्यं प्रभक्षते राजा राज्ञी तस्य च पुत्रक ९७।
यथायथा च राजा च भक्षते च कलेवरम् ।
हसेते वै सदा नार्यौ तयोर्भावं वदाम्यहम् ९८।
प्रज्ञा सार्द्धं महासाध्वी चरित्रं तस्य भूपतेः ।
हास्यं हि कुरुते नित्यं तस्य श्रद्धानपायिनी ९९।
प्रज्ञया प्रेर्यमाणेन न दत्तं श्रद्धयान्वितम् ।
ब्राह्मणेभ्यः सुसंकल्प्य अन्नमुद्दिश्य वैष्णवे १००।
एवं स भक्षते मांसं स्वस्य कायस्य नित्यदा ।
योषिदप्यात्मकायं च रसैश्चामृतसन्निभैः १०१।
ततो वर्षशतांते तु वामदेवं महामुनिम् ।
स्मृत्वा स गर्हयामास आत्मानं प्रति सुव्रत १०२।
न दत्तं पितृदेवेभ्यो ब्राह्मणेभ्यः कदा मया ।
न दत्तमतिथिभ्यो हि वृद्धेभ्यश्च विशेषतः १०३।
दीनेभ्यो हि न दत्तं च कृपया चातुराय च ।
एवं स भुंक्ते स्वं मांसं गर्हयन्स्वीय कर्म च १०४।
एवं स्वमांसं भुंजानं सुबाहुं प्रियया सह ।
हसेते च तदा दृष्ट्वा प्रज्ञा श्रद्धा च द्वे स्त्रियौ १०५।
तस्य कर्मविपाकस्य शुभात्मा हसते नृप ।
मम संगप्रसंगेन न दत्तं पापचेतन १०६।
प्रज्ञा च वचनैस्तैस्तु राजानं हसते पुनः ।
क्वगतोसौ महामोहो येन त्वं मोहितो नृप १०७।
लोभेन मोहयुक्तेन तमोगर्ते निपात्यते ।
तत्रापतित्वा मामैव पतितं दुःखसंकटे १०८।
दानमार्गं परित्यज्य लोभमार्गं गतो नृप ।
भार्यया सह भुंक्ष्व त्वं व्यापितः क्षुधया भृशम् १०९।
एवं तं हसते प्रज्ञा सुबाहुं प्रिययान्वितम् ।
एतद्धि कारणं सर्वं तयोर्हासस्य पुत्रक ११०।
भक्ष्यमाणस्य भूपस्य देहं स्वं दुःखिते तदा ।
ऊचतुर्देहिदेहीति याच्यमानः सदैव हि १११।
क्षुधातृष्णामहाप्राज्ञ भीमरूपे भयानके ।
पयसा मिश्रितं भक्षं याचेते नृपतीश्वरम् ११२।
एतत्ते सर्वमाख्यातं यत्त्वया परिपृच्छितम् ।
अन्यत्किं ते प्रवक्ष्यामि तद्वदस्व महामते ११३।
विज्वल उवाच-
वासुदेवाभिधानं तत्स्तोत्रं कथय मे पितः ।
येन मोक्षं व्रजेद्राजा तद्विष्णोः परमं पदम् ११४।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे सप्तनवतितमोऽध्यायः ९७।