पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०७२

विकिस्रोतः तः
← अध्यायः ०७१ पद्मपुराणम्/खण्डः २ (भूमिखण्डः)
अध्यायः ७२
अज्ञातलेखकः
अध्यायः ०७३ →


पिप्पल उवाच-
मातलेश्च वचः श्रुत्वा स राजा नहुषात्मजः ।
किं चकार महाप्राज्ञस्तन्मे विस्तरतो वद १।
सर्वपुण्यमयी पुण्या कथेयं पापनाशिनी ।
श्रोतुमिच्छाम्यहं प्राज्ञ नैव तृप्यामि सर्वदा २।
सुकर्मोवाच-
सर्वधर्मभृतां श्रेष्ठो ययातिर्नृपसत्तमः ।
तमुवाचागतं दूतं मातलिं शक्रसारथिम् ३।
ययातिरुवाच-
शरीरं नैव त्यक्ष्यामि गमिष्ये न दिवं पुनः ।
शरीरेण विना दूत पार्थिवेन न संशयः ४।
यद्यप्येवं महादोषाः कायस्यैव प्रकीर्तिताः ।
पूर्वं चापि समाख्यातं त्वया सर्वं गुणागुणम् ५।
नाहं त्यक्ष्ये शरीरं वै नागमिष्ये दिवं पुनः ।
इत्याचक्ष्व इतो गत्वा देवदेवं पुरंदरम् ६।
एकाकिना हि जीवेन कायेनापि महामते ।
नैव सिद्धिं प्रयात्येवं सांसारिकमिहैव हि ७।
नैव प्राणं विना कायो जीवः कायं विना नहि ।
उभयोश्चापि मित्रत्वं नयिष्ये नाशमिंद्र न ८।
यस्य प्रसादभावाद्वै सुखमश्नाति केवलम् ।
शरीरस्याप्ययं प्राणो भोगानन्यान्मनोनुगान् ९।
एवं ज्ञात्वा स्वर्गभोग्यं न भोज्यं देवदूतक ।
संभवंति महादुष्टा व्याधयो दुःखदायकाः १०।
मातले किल्बिषाच्चैव जरादोषात्प्रजायते ।
पश्य मे पुण्यसंयुक्तं कायं षोडशवार्षिकम् ११।
जन्मप्रभृति मे कायः शतार्धाब्दं प्रयाति च ।
तथापि नूतनो भावः कायस्यापि प्रजायते १२।
मम कालो गतो दूत अब्दा प्रनंत्यमनुत्तमम् ।
यथा षोडशवर्षस्य कायः पुंसः प्रशोभते १३।
तथा मे शोभते देहो बलवीर्यसमन्वितः ।
नैव ग्लानिर्न मे हानिर्न श्रमो व्याधयो जरा १४।
मातले मम कायेपि धर्मोत्साहेन वर्द्धते ।
सर्वामृतमयं दिव्यमौषधं परमौषधम् १५।
पापव्याधिप्रणाशार्थं धर्माख्यं हि कृतम्पुरा ।
तेन मे शोधितः कायो गतदोषस्तु जायते १६।
हृषीकेशस्य संध्यानं नामोच्चारणमुत्तमम् ।
एतद्रसायनं दूत नित्यमेवं करोम्यहम् १७।
तेन मे व्याधयो दोषाः पापाद्याः प्रलयं गताः ।
विद्यमाने हि संसारे कृष्णनाम्नि महौषधे १८।
मानवा मरणं यांति पापव्याधि प्रपीडिताः ।
न पिबंति महामूढाः कृष्ण नाम रसायनम् १९।
तेन ध्यानेन ज्ञानेन पूजाभावेन मातले ।
सत्येन दानपुण्येन मम कायो निरामयः २०।
पापर्द्धेरामयाः पीडाः प्रभवंति शरीरिणः ।
पीडाभ्यो जायते मृत्युः प्राणिनां नात्र संशयः २१।
तस्माद्धर्मः प्रकर्तव्यः पुण्यसत्याश्रयैर्नरैः ।
पंचभूतात्मकः कायः शिरासंधिविजर्जरः २२।
एवं संधीकृतो मर्त्यो हेमकारीव टंकणैः ।
तत्र भाति महानग्निर्द्धातुरेव चरः सदा २३।
शतखंडमये विप्र यः संधत्ते सबुद्धिमान् ।
हरेर्नाम्ना च दिव्येन सौभाग्येनापि पिप्पल २४।
पंचात्मका हि ये खंडाः शतसंधिविजर्जराः ।
तेन संधारिताः सर्वे कायो धातुसमो भवेत् २५।
हरेः पूजोपचारेण ध्यानेन नियमेन च ।
सत्यभावेन दानेन नूत्नः कायो विजायते २६।
दोषा नश्यंति कायस्य व्याधयः शृणु मातले ।
बाह्याभ्यंतरशौचं हि दुर्गंधिर्नैव जायते २७।
शुचिस्ततो भवेत्सूत प्रसादात्तस्य चक्रिणः ।
नाहं स्वर्गं गमिष्यामि स्वर्गमत्र करोम्यहम् २८।
तपसा चैव भावेन स्वधर्मेण महीतलम् ।
स्वर्गरूपं करिष्यामि प्रसादात्तस्य चक्रिणः २९।
एवं ज्ञात्वा प्रयाहि त्वं कथयस्व पुरंदरम् ।
सुकर्मोवाच-
समाकर्ण्य ततः सूतो नृपतेः परिभाषितम् ३०।
आशीर्भिरभिनंद्याथ आमंत्र्य नृपतिं गतः ।
सर्वं निवेदयामास इंद्राय च महात्मने ३१।
समाकर्ण्य सहस्राक्षो ययातेस्तु महात्मनः ।
तस्याथ चिंतयामासानयनार्थं दिवं प्रति ३२।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने मातापितृतीर्थवर्णने ययातिचरिते द्विसप्ततितमोऽध्यायः ७२।