पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०४७

विकिस्रोतः तः

सप्तचत्वारिंशोऽध्यायः
सुकलोवाच-
सुदेवा चारुसर्वांगी तामुवाचाथ सूकरीम् ।
पशुयोनिं गता त्वं हि कथं वदसि संस्कृतम् १।
एवंविधं महाज्ञानं कस्माद्भूतं वदस्व मे ।
कथं जानासि वै भर्तुश्चरित्रमात्मनः शुभे २।
शूकर्युवाच-
पशोर्भावेन मोहेन मुष्टाहं वरवर्णिनि ।
निहता खड्गबाणैश्च पतिता रणमूर्धनि ३।
मूर्च्छयाभिपरिक्लिन्ना ज्ञानहीना वरानने ।
त्वयाभिषिक्ता येनाहं पुण्यहस्तेन सुंदरि ४।
पुण्योदकेन शीतेन तव हस्तगतेन वै ।
अभिषिक्ते हि मे काये मोहो नष्टो विहाय माम् ५।
यथा विनाशं तेजोभिरंधकारः प्रयाति सः ।
तथा तवाभिषेकेण मम पापं गतं शुभे ६।
प्रसादात्तव चार्वंगि लब्धं ज्ञानं पुरातनम् ।
पुण्यां गतिं प्रयास्यामि इति ज्ञातं मया शुभे ७।
श्रूयतामभिधास्यामि पूर्वं वृत्तांतमात्मनः ।
यत्कृतं तु मया भद्रे पापया दुष्कृतं बहु ८।
कलिंगाख्ये महादेशे श्रीपुरंनाम पत्तनम् ।
सर्वसिद्धिसमाकीर्णं चतुर्वर्णनिषेवितम् ९।
वसति स्म द्विजः कोपि वसुदत्त इति श्रुतः ।
ब्रह्माचारपरोनित्यं सत्यधर्मपरायणः १०।
वेदवेत्ता ज्ञानवेत्ता शुचिमान्गुणवान्धनी ।
धनधान्यसमाकीर्णः पुत्रपौत्रैरलंकृतः ११।
तस्याहं तनया भद्रे सोदरैः स्वजनबांधवैः ।
अलंकारैस्तु शृंगारैर्भूषितास्मि वरानने १२।
सुदेवानाम मे तातश्चकार स महामतिः ।
तस्याहं दयिता नित्यं पितुश्चापि महामते १३।
रूपेणाप्रतिमा जाता संसारे नास्ति तादृशी ।
रूपयौवनगर्वेण मत्ताहं चारुहासिनी १४।
अहं कन्या सुरूपा वै सर्वालंकारशोभिता ।
मां च दृष्ट्वा ततो लोकाः सर्वे स्वजनवर्गकाः १५।
मामेवं याचमानास्ते विवाहार्थे वरानने ।
याचिताहं द्विजैः सर्वैर्न ददाति पिता मम १६।
स्नेहाच्चैव महाभागे मुमोह स महामतिः ।
न दत्ताहं तदा तेन पित्रा चैव महात्मना १७।
संप्राप्तं यौवनं बाले मयि भावसमन्वितम् ।
रूपं मे तादृशं दृष्ट्वा मम माता सुदुःखिता १८।
पितरं मे उवाचाथ कस्मात्कन्या न दीयते ।
त्वं कस्मै सुद्विजायैव ब्राह्मणाय महात्मने १९।
देहि कन्यां महाभाग संप्राप्ता यौवनं त्वियम् ।
वसुदत्तो द्विजश्रेष्ठः प्रत्युवाच द्विजोत्तमः २०।
मातरं मे महाभागे श्रूयतां वचनं मम ।
महामोहेनमुग्धोऽस्मि सुताया वरवर्णिनि २१।
यो मे गृहस्थो विप्रो वै भविष्यति शुभे शृणु ।
तस्मै कन्यां प्रदास्यामि जामात्रे तु न संशयः २२।
मम प्राणप्रिया चैषा सुदेवा नात्र संशयः ।
एवमूचे मदर्थे स वसुदत्तः पिता मम २३।
कौशिकस्य कुले जातः सर्वविद्याविशारदः ।
ब्राह्मणानां गुणैर्युक्तः शीलवान्गुणवाञ्छुचिः २४।
वेदाध्ययनसंपन्नं पठमानं हि सुस्वरम् ।
भिक्षार्थं द्वारमायांतं पितृमातृविवर्जितम् २५।
तं दृष्ट्वासमनुप्राप्तं रूपं वीक्ष्य महामतिः ।
तं प्रोवाच पिता एवं को भवान्वै भविष्यति २६।
किं ते नाम कुलं गोत्रमाचारं वद सांप्रतम् ।
समाकर्ण्य पितुर्वाक्यं वसुदत्तमुवाच सः २७।
कौशिकस्यान्वये जातो वेदवेदांगपारगः ।
शिवशर्मेति मे नाम पितृमातृविवर्जितः २८।
संति मे भ्रातरश्चान्ये चत्वारो वेदपारगाः ।
एवं कुलं समाख्यातमाचारः कुलसंभवः २९।
एवं सर्वं समाख्यातं पितरं शिवशर्मणा ।
शुभे लग्ने तिथौ प्राप्ते नक्षत्रे भगदैवते ३०।
पित्रा दत्तास्मि सुभगे तस्मै विप्राय वै तदा ।
पितृगेहे वसाम्येका तेन सार्धं महात्मना ३१।
नैव शुश्रूषितो भर्ता मया स पापया तदा ।
पितृमातृसुद्रव्येण गर्वेणापि प्रमोहिता ३२।
अंगसंवाहनं तस्य न कृतं हि मया कदा ।
रतिभावेन स्नेहेन वचनेन मया शुभे ३३।
क्रूरबुद्ध्या हि दृष्टोसौ सर्वदा पापया मया ।
पुंश्चलीनां प्रसंगेन तद्भावं हि गता शुभे ३४।
मातापित्रोश्च भर्तुश्च भ्रातॄणां हितमेव च ।
न करोम्यहमेवापि यत्रयत्र व्रजाम्यहम् ३५।
एवं मे दुष्कृतं दृष्ट्वा शिवशर्मा पतिर्मम ।
स्नेहाच्छ्वशुरवर्गस्य मम भर्त्ता महामतिः ३६।
न किंचिद्वक्ति मां सोपि क्षमते दुष्कृतं मम ।
वार्यमाणा कुटुंबेन अहमेवं सुपापिनी ३७।
तस्य शीलं विदित्वा ते साधुत्वं शिवशर्मणः ।
पितामाता च मे सर्वे मम पापेन दुःखिताः ३८।
भर्त्ता मे दुष्कृतं दृष्ट्वा स्वगृहान्निर्गतो बहिः ।
तं देशं ग्राममेनं च परित्यज्य गतस्ततः ३९।
गते भर्तरि मे तातः संजातश्चिंतयान्वितः ।
मम दुःखेन दुःखात्मा यथा रोगेण पीडितः ४०।
मम माता उवाचैनं भर्तारं दुःखपीडितम् ।
कस्माच्चिंतयसे कांत वद दुःखं ममाग्रतः ४१।
वसुदत्त उवाचैनां मातरं मम नंदने ।
सुतां त्यक्त्वा गतो विप्रो जामाता शृणु वल्लभे ४२।
इयं पापसमाचारा निर्घृणा पापचारिणी ।
अनया हि परित्यक्तः शिवशर्मा महामतिः ४३।
समस्तस्य कुटुंबस्य दाक्षिण्येन महामतिः ।
ममायं स द्विजः कांते सुदेवां नैव भाषते ४४।
वसते सौम्यभावेन नैव निंदति कुत्सति ।
सुदेवां पापसंचारां स वै पंडितबुद्धिमान् ४५।
भविष्यति त्वियं दुष्टा सुदेवा कुलनाशिनी ।
अहमेनां परित्यज्य व्रजामि गृहवासिनि ४६।
ब्राह्मण्युवाच-
अद्य ज्ञातं त्वया कांत सुताया गुणदूषणम् ।
तव मोहेन स्नेहेन नष्टेयं शृणु सांप्रतम् ४७।
तावद्विलाडयेत्पुत्रं यावत्स्यात्पंचवार्षिकः ।
शिक्षाबुद्ध्या सदा कांत पुनर्मोहेन पोषयेत् ४८।
स्नानाच्छादनकैर्भक्ष्यैर्भोज्यैः पेयैर्न संशयः ।
गुणेषु योजयेत्कांत सद्विद्यासु च तं सुतम् ४९।
गुणशिक्षार्थंनिर्मोहः पिता भवति सर्वदा ।
पालने पोषणे कांत संमोहः परिजायते ५०।
सगुणं न वदेत्पुत्रं कुत्सयेच्च दिनेदिने ।
काठिन्यं च वदेन्नित्यं वचनैः परिपीडयेत् ५१।
यथाहि साधयेन्नित्यं सुविद्यां ज्ञानतत्परः ।
अभिमानेच्छलेनापि पापं त्यक्त्वा प्रदूरतः ५२।
नैपुण्यं जायते नित्यं विद्यासु च गुणेषु च ।
माता च ताडयेत्कन्यां स्नुषां श्वश्रूर्विताडयेत् ५३।
गुरुश्च ताडयेच्छिष्यं ततः सिध्यंति नान्यथा ।
भार्यां च ताडयेत्कांत अमात्यं नृपतिस्तथा ५४।
हयं च ताडयेद्धीरो गजं मात्रो दिनेदिने ।
शिक्षाबुद्ध्या प्रसिध्यंति ताडनात्पालनाद्विभो ५५।
त्वयेयं नाशिता नाथ सर्वदैव न संशयः ।
सार्धं सुब्राह्मणेनापि भवता शिवशर्मणा ५६।
निरंकुशा कृता गेहे तेन नष्टा महामते ।
तावद्धि धारयेत्कन्यां गृहे कांतवचः शृणु ५७।
अष्टवर्षान्विता यावत्प्रबलां नैव धारयेत् ।
पितुर्गेहस्थिता पुत्री यत्पापं हि प्रकुर्वती ५८।
उभाभ्यामपि तत्पापं पितृभ्यामपि विंदति ।
तस्मान्न धार्यते कन्या समर्था निजमंदिरे ५९।
यस्य दत्ता भवेत्सा च तस्य गेहे प्रपोषयेत् ।
तत्रस्था साधयेत्कांतं सगुणं भक्तिपूर्वकम् ६०।
कुलस्य जायते कीर्तिः पिता सुखेन जीवति ।
तत्रस्था कुरुते पापं तत्पापं भुंजते पतिः ६१।
तत्रस्था वर्द्धते नित्यं पुत्रैः पौत्रैः सदैव सा ।
पिता कीर्तिमवाप्नोति सुतायाः सुगुणैः प्रिय ६२।
तस्मान्न धारयेत्कांत गेहे पुत्रीं सभर्तृकाम् ।
इत्यर्थे श्रूयते कांत इतिहासो भविष्यति ६३।
अष्टविंशतिके प्राप्ते युगे द्वापरके महान् ।
उग्रसेनस्य वीरस्य यदुज्येष्ठस्य यत्प्रभो ६४।
चरित्रं ते प्रवक्ष्यमि शृणुष्वैकमना द्विज ६५।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने सुकलाचरित्रे।
सप्तचत्वारिंशोऽध्यायः ४७।