पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०४४

विकिस्रोतः तः

चतुश्चत्वारिंशत्तमोऽध्यायः
सुकलोवाच-
स्वसैन्यं दुर्धरं दृष्ट्वा निर्जितं दुर्धरेण तम् ।
चुकोप भूपतिः क्रूरं दुःसहं शूकरं प्रति १।
धनुरादाय वेगेन बाणं कालानलोपमम् ।
तस्याभिमुखमेवासौ हयेनाभिससार सः २।
स यदा नृपतिं हयपृष्ठगतं वरपौरुषयुक्तममित्रहणम् ।
परिपश्यति शूकरयूथपतिः प्रगतोभिमुखं रणभूमितले ३।
निशितेन शरेण हतो हि यदा नृपतेर्हयपादतले प्रगतः ।
तमिहैव विलंघ्य च वेगमनाः प्रखरेण जवेन च कोलवरः ४।
व्यथितस्तुरगः सकिरिःकिटिना न हि याति क्षितौ स हि विद्धगतिः ।
तुरगः पतितो भुवि तुंडहतो लघुस्यंदनमेव गतो नृपतिः ५।
स हि गर्जति शूकरजातिरवैरथसंस्थितकोशल येन जवैः ।
गदया निहतः किल भूपतिना रणमध्यगतः स हि यूथपतिः ६।
परित्यज्य तनुं च स्वकां हि तदा गत एव हरेर्गृहमेव वरम् ७।
कृत्वा हि युद्धं समरे हितेन राज्ञा समं शूकरराजराजः ।
पपात भूमौ च हतो यदा तु ववर्षिरे देववराः सुपुष्पैः ८।
तस्योर्ध्वगः पुष्पचयः सुजातः संतानकानामिव सौरभश्च ।
सकुंकुमैश्चंदनवृष्टिमेव कुर्वंति देवाः परितुष्यमाणाः ९।
विमृश्यमानः स हि तेन राज्ञा चतुर्भुजः सोपि बभूव राजन् ।
दिव्यांबरोभूषणदिव्यरूपः स्वतेजसा भाति दिवाकरो यथा १०।
दिव्येन यानेन दिवं गतो यदा सुपूज्यमानः सुरराजदेवैः ।
गंधर्वराजः स बभूव भूयः पूर्वं स्वकं कायमिहैव हित्वा ११।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने सुकलाचरित्रे।
चतुश्चत्वारिंशत्तमोऽध्यायः ४४।