पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०३७

विकिस्रोतः तः
← अध्यायः ३६ पद्मपुराणम्
अध्यायः ३७
वेदव्यासः
अध्यायः ३८ →

सप्तत्रिंशोऽध्यायः 2.37
ऋषय ऊचुः-
एवं वेनस्य चैवासीत्सृष्टिरेव महात्मनः ।
धर्माचारं परित्यज्य कथं पापमतिर्भवेत् १।
सूत उवाच-
ज्ञानविज्ञानसंपन्ना मुनयस्तत्त्ववेदिनः ।
शुभाशुभं वदंत्येवं तन्न स्यादिह चान्यथा २।
तप्यमानेन तेनापि सुशंखेन महात्मना ।
दत्तः शापः कथं विप्रा न यथावच्च जायते ३।
वेनस्य पातकाचारं सर्वमेव वदाम्यहम् ।
तस्मिञ्छासति धर्मज्ञे प्रजापाले महात्मनि ४।
पुरुषः कश्चिदायातश्छद्म लिंगधरस्तदा ।
नग्नरूपो महाकायः शिरोमुंडो महाप्रभः ५।
मार्जनीं शिखिपत्राणां कक्षायां स हि धारयन् ।
गृहीतं पानपात्रं तु नालिकेरमयं करे ६।
पठमानो ह्यसच्छास्त्रं वेदधर्मविदूषकम् ।
यत्र वेनो महाराजस्तत्रायातस्त्वरान्वितः ७।
सभायां तस्य वेनस्य प्रविवेश स पापवान् ।
तं दृष्ट्वा समनुप्राप्तं वेनः प्रश्नं तदाकरोत् ८।
भवान्को हि समायात ईदृग्रूपधरो मम ।
सभायां वर्तमानस्य पुरः कस्मात्समागतः ९।
को वेषः किं नु ते नाम को धर्मः कर्म ते वद ।
को वेदस्ते क आचारः किं तपः का प्रभावना १०।
किं ज्ञानं कः प्रभावस्ते किं सत्यं धर्मलक्षणम् ।
तत्त्वं सर्वं समाचक्ष्व ममाग्रे सत्यमेव च ११।
श्रुत्वा वेनस्य तद्वाक्यं पापो वाक्यमुदाहरत् ।
पातक उवाच-
करोष्येवं वृथा राज्यं महामूढो न संशयः १२।
अहं धर्मस्य सर्वस्वमहं पूज्यतमोसुरैः ।
अहं ज्ञानमहं सत्यमहं धाता सनातनः १३।
अहं धर्मं अहं मोक्षः सर्वदेवमयो ह्यहम् ।
ब्रह्मदेहात्समुद्भूतः सत्यसंधोऽस्मि नान्यथा १४।
जिनरूपं विजानीहि सत्यधर्मकलेवरम् ।
मामेव हि प्रधावंति योगिनो ज्ञानतत्पराः १५।
वेन उवाच-
तवैव कीदृशं कर्म किं ते दर्शनमेव च ।
किमाचारो वदस्वैहि इत्युक्तं तेन भूभुजा १६।
पातक उवाच-
अर्हंतो देवता यत्र निर्ग्रंथो दृश्यते गुरुः ।
दया चैव परो धर्मस्तत्र मोक्षः प्रदृश्यते १७।
दर्शनेस्मिन्न संदेह आचारान्प्रवदाम्यहम् ।
यजनं याजनं नास्ति वेदाध्ययनमेव च १८।
नास्ति संध्या तपो दानं स्वधास्वाहाविवर्जितम् ।
हव्यकव्यादिकं नास्ति नैव यज्ञादिका क्रिया १९।
पितॄणां तर्पणं नास्ति नातिथिर्वैश्वदेविकम् ।
क्षपणस्य वरा पूजा अर्हतो ध्यानमुत्तमम् २०।
अयं धर्मसमाचारो जैनमार्गे प्रदृश्यते ।
एतत्ते सर्वमाख्यातं निजधर्मस्यलक्षणम् २१।
वेन उवाच-
वेदप्रोक्तो यथा धर्मो यत्र यज्ञादिकाः क्रियाः ।
पितॄणां तर्पणं श्राद्धं वैश्वदेवं न दृश्यते २२।
न दानं तप एवास्ति क्वास्ते धर्मस्य लक्षणम् ।
वद सत्यं ममाग्रे तु दयाधर्मं च कीदृशम् २३।
पातक उवाच-
पंचतत्त्वप्रवृद्धोयं प्राणिनां काय एव च ।
आत्मा वायुस्वरूपोयं तेषां नास्ति प्रसंगता २४।
यथा जलेषु भूतानामपिसंगमवेहि तत् ।
जायते बुद्बुदाकारं तद्वद्भूतसमागमः २५।
पृथ्वीभावो रजःस्थस्तु चापस्तत्रैव संस्थिताः ।
ज्योतिस्तत्र प्रदृश्येत सुवायुर्वर्तते त्रिषु २६।
आकाशमावृणोत्पश्चाद्बुद्बुदत्वं प्रजायते ।
अप्सुमध्ये प्रभात्येव सुतेजो वर्तुलं वरम् २७।
क्षणमात्रं प्रदृश्येत क्षणान्नैव च दृश्यते ।
तद्वद्भूतसमायोगः सर्वत्र परिदृश्यते २८।
अंतकाले प्रयात्यात्मा पंच पंचसु यांति ते ।
मोहमुग्धास्ततो मर्त्या वर्तंते च परस्परम् २९।
श्राद्धं कुर्वंति मोहेन क्षयाहे पितृतर्पणम् ।
क्वास्ते मृतः समश्नाति कीदृशोऽसौ नृपोत्तम ३०।
किं ज्ञानं कीदृशं कायं केन दृष्टं वदस्व नः ।
मिष्टान्नं भोजयित्वा च तृप्ता यांति च ब्राह्मणाः ३१।
कस्य श्राद्धं प्रदीयेत सा तु श्रद्धा निरर्थिका ।
अन्यदेवं प्रवक्ष्यामि वेदानां कर्म दारुणम् ३२।
यदातिथिर्गृहे याति महोक्षं पचते द्विजः ।
अजं वा राजराजेंद्र अतिथिं परिभोजयेत् ३३।
अश्वमेधमखे अश्वं गोमेधे वृषमेव च ।
नरमेधे नरं राजन्वाजपेये तथा ह्यजान् ३४।
राजसूये महाराज प्राणिनां घातनं बहु ।
पुंडरीके गजं हन्याद्गजमेधेऽथ कुंजरम् ३५।
सौत्रामण्यां पशुं मेध्यं मेषमेव प्रदृश्यते ।
नानारूपेषु सर्वेषु श्रूयतां नृपनंदन ३६।
नानाजातिविशेषाणां पशूनां घातनं स्मृतम् ।
यच्चापि दीयते दानं किं तद्दानस्य लक्षणम् ३७।
ज्ञेयं तदन्नमुच्छिष्टं क्रियते भूरिभोजनम् ।
अत्यंतदोषहीनांस्तान्हिंसंति यन्महामखे ३८।
तत्र किं दृश्यते धर्मः किं फलं तत्र भूपते ।
पशूनां मारणं यत्र निर्दिष्टं वेदपंडितैः ३९।
तस्माद्विनष्टधर्मं च न पुण्यं मोक्षदायकम् ।
दयां विना हि यो धर्मः स धर्मो विफलायते ४०।
जीवानां पालनं यत्र तत्र धर्मो न संशयः ।
स्वाहाकारः स्वधाकारस्तपः सत्यं नृपोत्तम ४१।
दयाहीनं चापलं स्यान्नास्ति धर्मस्तु तत्र हि ।
एते वेदा न वेदाः स्युर्दया यत्र न विद्यते ४२।
दयादानपरो नित्यं जीवमेव प्ररक्षयेत् ।
चांडालोऽप्यथ शूद्रो वा स वै ब्राह्मण उच्यते ४३।
ब्राह्मणो निर्दयो यो वै पशुघातपरायणः ।
स वै सुनिर्दयः पापी कठिनः क्रूरचेतनः ४४।
वंचकैः कथितो वेदो यो वेदो ज्ञानवर्जितः ।
यत्र ज्ञानं भवेन्नित्यं तत्र वेदः प्रतिष्ठति ४५।
दयाहीनेषु वेदेषु विप्रेषु च महामते ।
नास्ति सत्यं क्रिया तत्र वेदविप्रेषु वै तदा ४६।
वेदा न वेदा राजेंद्र ब्राह्मणाः सत्यवर्जिताः ।
दानस्यापि फलं नास्ति तस्माद्दानं न दीयते ४७।
यथा श्राद्धस्य वै चिह्नं तथा दानस्य लक्षणम् ।
जिनस्यापि च यद्धर्मं भुक्तिमुक्तिप्रदायकम् ४८।
तवाग्रेऽहं प्रवक्ष्यामि बहुपुण्यप्रदायकम् ।
आदौ दया प्रकर्तव्या शांतभूतेन चेतसा ४९।
आराधयेद्धृदा देवं जिनं येन चराचरम् ।
मनसा शुद्धभावेन जिनमेकं प्रपूजयेत् ५०।
नमस्कारः प्रकर्तव्यस्तस्य देवस्य नान्यथा ।
मातापित्रोस्तु वै पादौ कदा नैव प्रवंदयेत् ५१।
अन्येषामपि का वार्ता श्रूयतां राजसत्तम ।
वेन उवाच-
एते विप्राश्च आचार्या गंगाद्याः सरितस्तथा ५२।
वदंति पुण्यतीर्थानि बहुपुण्यप्रदानि च ।
तत्किं वदस्व सत्यं मे यदि धर्ममिहेच्छसि ५३।
पातक उवाच-
आकाशाद्वै महाराज मेघा वर्षंति वै जलम् ।
भूमौ हि पर्वतेष्वेवं सर्वत्र पतिते जलम् ५४।
स आप्लाव्य ततस्तिष्ठेद्दयां सर्वत्र भावयेत् ।
नद्यः पापप्रवाहास्तु तासु तीर्थं श्रुतं कथम् ५५।
जलाशया महाराज तडागाः सागरास्तथा ।
पृथिव्याधारकाश्चैव गिरयो अश्मराशयः ५६।
नास्त्येतेषु च वै तीर्थं जलैर्जलदमुत्तमम् ।
स्नाने यदा महत्पुण्यं कस्मान्मत्स्येषु वै नहि ५७।
दृष्टा स्नानेन वै सिद्धिर्मीनाः शुद्ध्यंति नान्यथा ।
यत्र जिनस्तत्र तीर्थं तत्र धर्मः सनातनः ५८।
तपोदानादिकं सर्वं पुण्यं तत्र प्रतिष्ठितम् ५९।
एको जिनः सर्वमयो नृपेंद्र नास्त्येव धर्मं परमं हि तीर्थम् ।
अयं तु लाभः परमस्तु तस्माद्ध्य्यास्व नित्यं सुसुखो भविष्यसि ६०।
विनिंद्य धर्मं सकलं सवेदं दानं सपुण्यं परयज्ञरूपम् ।
पापस्वभावैर्बहुबोधितो नृपस्त्वंगस्य पुत्रो भुवि तेन पापिना ६१।
इति श्रीपद्मपुराणे पंचपंचाशत्सहस्रसंहितायां भूमिखंडे वेनोपाख्याने सप्तत्रिंशोऽध्यायः ३७।