पद्मपुराणम्/खण्डः ७ (क्रियाखण्डः)/अध्यायः ०२

विकिस्रोतः तः
← अध्यायः ०१ पद्मपुराणम्/खण्डः ७ (क्रियाखण्डः)
अध्यायः ०२
वेदव्यासः
अध्यायः ०३ →

व्यास उवाच-
सृष्टेरादौ महाविष्णुः सिसृक्षुः सकलं जगत् ।
स्रष्टा पाता च संहर्ता त्रिमूर्तिरभवत्स्वयम् १।
सृष्ट्यर्थमस्य जगतः ससर्ज ब्रह्मसंज्ञकम् ।
दक्षिणां गतआत्मानमात्मना श्रेष्ठपूरुषः २।
ततस्तु पालनार्थाय जगतो जगतीपतिः ।
विष्णुं ससर्ज वामांशान्निजांशं केशवं मुने ३।
अथ संहरणार्थाय जगतो रुद्रमव्ययम् ।
मुने ससर्ज मध्यांगात्कृतपद्मालयः प्रभुः ४।
रजः सत्वं तमश्चेति पुरुषं त्रिगुणात्मकम् ।
वदंति केचिद्ब्रह्माणं विष्णुं केचिच्च शंकरम् ५।
एको विष्णुस्त्रिधा भूत्वा सृजत्यत्ति च पाति च ।
तस्माद्भेदो न कर्त्तव्यस्त्रिषु लोकेषु सत्तमैः ६।
आद्या प्रकृतिरेतस्य महाविष्णोः परात्मनः ।
निदानंभूतविश्वस्य विद्या विद्येति गीयते ७।
भावाभावस्वरूपा सा जगद्धेतुः सनातनी ।
ब्राह्मी लक्ष्मीरम्बिकेति त्रिमूर्तिः सहसाऽभवत् ८।
सृष्टिस्थितिविनाशेषु यां नियोज्य ततो मुने ।
आद्यां चैवाद्यपुरुषस्तत्रैवांतरधीयत ९।
यस्याज्ञया ततो ब्रह्मा महाभूतान्ससर्ज ह ।
पृथिव्याकाशवाय्वंबु वह्नीन्पञ्चसमाधिना १०।
भूर्भुवः स्वस्तथा चैव महश्चैव जनस्तथा ।
तपश्च सत्यमित्यादीन्सृष्टवान्कमलासनः ११।
अतलं सृष्टवान्ब्रह्मा ततोऽधोवितलं द्विज ।
ततोऽधःसुतलं चैव ततोऽधश्च तलातलम् १२।
महातलमधस्तस्मात्ततोऽधश्च रसातलम् ।
तस्मादधश्च पातालं लोकानेवं यथाक्रमम् १३।
देवतानांनिवासार्थं रत्नसानुं महागिरिम् ।
सृष्टवान्पृथिवीमध्ये जाम्बूनदसमुज्ज्वलम् १४।
मंदरं चरमं चैव त्रिकूटमुदयाचलम् ।
अन्यांश्च पर्वतांश्चैव सृष्टवान्विविधानपि १५।
लोकालोकस्ततश्चैव तन्मध्ये सप्तसागराः ।
सप्तद्वीपाश्च विप्रेन्द्र परमेश स्वयंभुवा १६।
जम्बुद्वीपो द्विजश्रेष्ठ द्वीपश्च प्लक्षसंज्ञितः ।
विज्ञेयो द्विगुणस्तस्माच्छाल्मलो द्विगुणस्ततः १७।
ते च प्लक्षादयो द्वीपाः सर्वभाग समन्विताः ।
समस्तगुणसंयुक्ता देवदेवर्षिमूर्तयः १८।
सप्तद्वीपा इमे विप्र सप्तसागरवेष्टिताः ।
तेषां नामानि वक्ष्यामि सागराणां निशामय १९।
लवणेक्षु सुरा सर्पिर्दधिदुग्धजलांतकाः ।
एते समुद्रा देवर्षे पूर्वस्माच्च परः पराः २०।
विज्ञेया द्विगुणाः सर्व आलोकालोकपर्वताः ।
द्वीपेद्वीपे ततो ब्रह्मा वृक्षगुल्मलतादिकान् २१।
तिर्यग्योनिगताञ्जन्तून्सृष्टवान्द्विजसत्तम ।
अथ देवान्मनुष्यांश्च नागान्विद्याधरांस्तथा २२।
क्रमात्ससर्ज पुत्रांश्च ततो दक्षादिकान्मुनीन् ।
ब्रह्मक्षत्त्रियविट्शूद्रानन्यांश्चैवांत्यजांस्तथा २३।
तेषां च वर्तनादीनि सृष्टवान्स प्रजापतिः ।
हेमाद्रि दक्षिणं यद्वै विंध्याद्रेरुत्तरं तथा २४।
आहुस्तद्भारतं वर्षं शुभाशुभफलप्रदम् ।
आसाद्य भारते वर्षे ये जन्मनि नरोत्तमाः २५।
धर्मकर्माणि कुर्वंति ते सर्वे केशवोपमाः ।
कर्मभूमौ कृतं कर्म शुभं वाशुभमेव वा २६।
तत्फलं भुंजते लोको भोगभूमिषु सत्तम ।
कर्मभूमिं समागत्य यो धर्मकर्मसूद्यतः २७।
न च तेन समः कोऽपि त्रिषुलोकेषु विद्यते ।
तस्य स्यात्सफलं जन्म जीवितं च सुजीवितम् २८।
श्रीनारायणसेवायां मतिर्यस्य न विद्यते ।
जन्मकोट्यर्जितैः पुण्यैः संसारैकाधिनायके २९।
नारायणे देवदेवे भक्तिः स्यात्सुदृढा नृणाम् ।
समस्तसुखदश्चापि स श्लाघ्यो निर्भयोऽपि च ३०।
त्याज्यः स देशः सहसा नातिष्ठेद्यत्र वैष्णवः ।
जन्मांतरार्जितं पापं स्वल्पं वा यदि वा बहु ३१।
तत्क्षणात्क्षयमाप्नोति भगवद्भक्तदर्शनात् ।
वैष्णवांघ्रिजलं यस्तु समस्तपातकापहम् ३२।
वहेत्स्वशिरसा भक्त्या गङ्गास्नानेन तस्य किम् ।
मुहूर्तमपि यः कुर्यात्सड्गं भागवतैः सह ३३।
स मुच्यते सर्वपापैर्ब्रह्महत्यामुखैरपि ।
धर्मकर्माणि विप्रेन्द्र क्रियंते यानि कानि च ३४।
भगवद्भक्तपुरतस्तानि स्युरक्षयाणि च ।
मुहूर्त्तं वा मुहूर्तार्द्धं यत्र तिष्ठंति वैष्णवाः ३५।
सत्यं सत्यं पुनः सत्यं तत्तीर्थं तत्तपोवनम् ।
अन्नं वा सलिलं वापि फलं वा वैष्णवाय च ३६।
यत्किंचिद्दीयते विप्र तद्दानमक्षयं भवेत् ।
समस्तदेवतारूपो वैष्णवः परिकीर्तितः ३७।
स चेत्संतोषितो येन तोषिताः सर्वदेवताः ।
संसारेऽस्मिन्महाघोरे नानादुःखसमन्विते ३८।
भगवद्भक्तपुरुषः कदाचिन्नावसीदति ।
तस्मात्त्वमपि विप्रेन्द्र क्रियायोगेन केशवम् ३९।
समाराध्य सदा भक्त्या व्रज विष्णोः पदं परम् ।
सूत उवाच-
तदेतद्वचनं श्रुत्वा कानीनस्य महात्मनः ४०।
शिरसांजलिमादाय जैमिनिः पर्यपृच्छत ।
जैमिनिरुवाच-
भगवद्भक्तमाहात्म्यं त्वया प्रोक्तं पुनः पुनः ४१।
गुरो किं लक्षणं तेषां तत्सर्वं ब्रूहि सांप्रतम् ।
कथं वा वैष्णवा लोका ज्ञातव्या मुनिसत्तम ४२।
आदितो ब्रूहि तत्सर्वं यदि ते मय्यनुग्रहः ।
व्यास उवाच-।
मधुकैटभयोः पूर्वं हतयोर्वेधसा स्वयम् ४३।
पृष्टो यदाह भगवांस्तन्निशामय वेद्म्यहम् ।
कल्पांते रुद्ररूपेण संहार्य सकलं जगत् ४४।
स्वयमेकश्च भगवान्सुष्वाप योगमायया ।
सुप्ते तस्मिन्भगवति योगनिद्रा विमोहिते ।
अभवत्पृथिवी सर्वा सलिलौघ परिप्लुता ४५।
अतो ब्रह्मा जगत्स्रष्टा तन्नाभिकमलोपरि ।
तमादिपुरुषं ध्यात्वा तस्थौ तद्गतमानसः ४६।
तस्मिन्काले महाघोरे विष्णोः कर्णमलाद्द्विज ।
जातौ महासुरौ घोरौ मधुकैटभसंज्ञितौ ४७।
अंतरिक्षे भ्रमंतौ तौ दानवावतिदारुणौ ।
श्रीविष्णोर्नाभिकमले ब्रह्माणं तावपश्यताम् ४८।
तं हंतुमथ दैत्यौ तौ महाबलपराक्रमौ ।
उद्यमं चक्रतुर्विप्र क्रोधसंरक्तलोचनौ ४९।
ततो ब्रह्मा जगत्स्रष्टा विचिंत्य तद्वधं हृदा ।
योगनिद्रां भगवतीं तुष्टाव श्लक्ष्णया गिरा ५० 7.2.50।
तस्य स्तवं समाकर्ण्य ब्रह्मणः परमेष्ठिनः ।
उवाचेति वचः प्रीत्या किं तेऽभिमतमुच्यताम् ५१।
ब्रह्मोवाच-
अत्युग्रदानवावेतौ हंतुं मां कृतनिश्चयौ ।
मायया मोहय क्षिप्रं त्रातारमच्युतं त्यज ५२।
ततो भागवती निद्रा महाविष्णुं तमत्यजत् ।
दानवाभ्यां ततस्ताभ्यामंतरिक्षे कृपामयः ५३।
युयुधे बाहुयुद्धेन शरणागतवत्सलः ।
पञ्चवर्षसहस्राणि कृत्वा युद्धं सुदारुणम् ५४।
विजयं नागमत्कोऽपि न च कोऽपि पराभवम् ।
अथ तौ दानवौ तत्र महामायाविमोहितौ ५५।
वरं वृण्विति चास्मत्तोऽगदतां केशवं प्रति ।
ततः प्रहस्य देवेश उवाचेति वचो द्विज ५६।
यदि तुष्टौ च वां दैत्यौ मद्वध्यौ भवतं द्रुतौ ।
ततस्तौ दानवौ घोरौ भगवंतं जनार्दनम् ५७।
इत्यूचतुर्महामायौ महामायाविमोहितौ ।
अयमेव वरो दत्तो भवते नात्र संशयः ५८।
मारयावां विना वारि मही यत्र जनार्द्दन ।
महासुरौ ततस्तौ तु आनीय जघनं प्रति ५९।
निहतौ सहसा विप्र चित्रया चक्रधारया ।
चक्रिणा निहतौ दृष्ट्वा दानवौ मधुकैटभौ ।
तुष्टाव देवदेवेशं ब्रह्मा विगतसाध्वसः ६०।
ब्रह्मोवाच-
नमो नमस्ते परमेश्वराय प्रपन्नसर्वार्तिविनाशनाय ।
नमो नमस्ते त्रिगुणात्मकाय नारायणायामितविक्रमाय ६१।
त्वत्पादपाथोजयुगं प्रपन्ना जनाः क्वचिन्नो विपदं मनुष्याः ।
एतन्मया ज्ञातमनंतकीर्ते सद्यो हृतेयं महती ममापत् ६२।
योगेश्वरोऽसि सदयोऽसि जगत्त्रयेश त्वं देवदेवशरणागतपालकेश ।
त्वं निर्द्दयोऽरिनिकरस्य विनाशनेषु यद्रक्षितोऽहमसुरौ निहतौ त्वयैतौ ६३।
यद्यप्यत्यंतकठिनौ मधुकैटभौ तौ मन्ये तथापि स्वजनाविह चेतसाहम् ।
यस्मात्स्वजीवनविनाश वरप्रदानैः संतोषितोऽखिलशुभप्रद ईश्वरस्त्वम् ६४।
रम्यं जगत्त्रयमिदं पुरुषस्य तस्य नश्यंति सर्वरिपवः स्वकुलैः समेताः ।
वृद्धिं व्रजंति सुहृदोऽखिलबांधवाश्च यं पश्यसि त्वममरेश दयाभिरत्र ६५।
लक्ष्मीमुखांबुज मधुव्रत देवदेव संसारलोकभयशोकविनाशकारिन् ।
त्वच्चारुपादकमलद्वयमाश्रयंतं मां पाहि नाथ कृपया सततं नमस्ते ६६।
प्रसीद पुण्डरीकाक्ष प्रसीद कमलेश्वर ।
प्रसीद सर्वभूतेश विश्वंभर नमोस्तु ते ६७।
नमस्ते भक्ततुष्टाय नमस्ते भक्तिदायिने ।
नमस्ते ज्ञानरूपाय शरणं मे भवानघ ६८।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमोनमः ।
परित्राहि परित्राहि परित्राहि जगन्मय ६९।
व्यास उवाच-
एतैरन्यैरपि स्तोत्रैर्ब्रह्मणा लोककारिणा ।
स्तुतः स देवो भगवान्परमां प्रीतिमाययौ ७०।
श्रीभगवानुवाच -
स्तोत्रेणानेन ते भक्त्या तुष्टोऽस्मि कमलासन ।
किमस्त्यभिमतं ब्रूहि तत्ते दास्याम्यहं भुवि ७१।
ब्रह्मोवाच-
यदि तुष्टोऽसि देवेश करुणाब्धे जगन्मय ।
नापदस्तव भक्तानां भवंत्विति वरो मम ७२।
श्रीभगवानुवाच-
एवमस्तु सुरश्रेष्ठ दत्तोऽयं ते मया वरः ।
मद्भक्तस्य कदाप्यापन्न भवेत्क्षितिमण्डले ७३।
वैष्णवानां शरीरेषु सततं निवसाम्यहम् ।
लभंते नापदस्तस्मात्कदाचिद्वैष्णवा नराः ७४।
ब्रह्मोवाच-।
सर्वमेव जगन्नाथ त्वया दत्तं न संशयः ।
यद्येतौ च महादैत्यौ संग्रामे विनिपातितौ ७५।
कियत्कालं समासाद्य स्तोत्रेणानेन वै प्रभो ।
स्तौति त्वां परया भक्त्या तस्य त्राता भविष्यसि ७६।
अहो ध्यानैरपि ध्यातुं देवैस्त्वं न हि शक्यसे ।
स त्वं वैष्णवदेहेषु भ्रमसीत्यद्भुतं महत् ७७।
क्षणमात्रमपि स्वामिंस्त्वयि तुष्टेन किं भवेत् ।
स त्वं वैष्णवसंगेन भ्रमसीत्यद्भुतं महत् ७८।
के वैष्णवाः कैटभारे किं वा तेषां च लक्षणम् ।
कथं ज्ञेयास्तु ते सर्वे तन्मे कथय केशव ७९।
श्रीभगवानुवाच-
वैष्णवानां लक्षणानि कल्पकोटिशतैरपि ।
सम्यग्वक्तुं न शक्तोऽस्मि संक्षेपाच्छृणु सत्तम ८०।
संसारो वैष्णवाधीनो देवा वैष्णवपालिताः ।
अहं च वैष्णवाधीनस्तस्माच्छ्रेष्ठाश्च वैष्णवाः ८१।
क्षणमात्रमपि ब्रह्मन्विहाय वैष्णवं जनम् ।
तिष्ठामि नाहमन्यत्र वैष्णवा मम बांधवाः ८२।
कामक्रोधविहीना ये हिंसादंभविवर्जिताः ।
लोभमोहविहीनाश्च ज्ञेयास्ते वैष्णवा जनाः ८३।
अमत्सरा दयायुक्ताः सर्वभूतहितैषिणः ।
सत्योक्तिभाषिणश्चैव विज्ञेयास्ते च वैष्णवाः ८४।
धर्मोपदेशिनश्चैव धर्माचारधरास्तथा ।
गुरुशुश्रूषिणश्चैव विज्ञेयास्ते च वैष्णवाः ८५।
समानं ये च पश्यन्ति त्वां च मां च महेश्वरम् ।
कुर्वन्ति पूजामतिथेर्ज्ञेयास्ते वैष्णवा जनाः ८६।
वेदविद्यानिरुक्ता ये विप्र भक्तिरताः सदा ।
नपुंसकाः परस्त्रीषु ज्ञेयास्ते वैष्णवा जनाः ८७।
एकादशीव्रतं ये च भक्तिभावेन कुर्वते ।
गायंति मम नामानि ज्ञेयास्ते वैष्णवा जनाः ८८।
देवायतनकर्तारस्तुलसीमाल्यधारकाः ।
पद्माक्षधारिणो ये च ज्ञेयास्ते वैष्णवा जनाः ८९।
शङ्खचक्रगदापद्मैरङ्कितानि ममायुधैः ।
ब्रह्मन्येषां शरीराणि ज्ञेयास्ते वैष्णवा जनाः ९०।
धात्रीफलस्रजो येषां गलेषु कमलासन ।
मां पूजयंति तत्पत्रैर्ज्ञेयास्ते वैष्णवा जनाः ९१।
तुलसीमूलमृद्भिश्च तिलकानि नयंति ये ।
तुलसीकाष्ठपंकैश्च ज्ञेयास्ते वैष्णवा जनाः ९२।
गङ्गास्नानरता ये च गङ्गानामपरायणाः ।
गङ्गामाहात्म्यवक्तारो ज्ञेयास्ते वैष्णवा जनाः ९३।
शालग्रामशिला येषां गृहे वसति सर्वदा ।
शास्त्रं भागवतं चैव ज्ञेयास्ते वैष्णवा जनाः ९४।
संमार्जयंति ये नित्यं मम स्थानानि सत्तम ।
दीपं यच्छंति तत्रैव ज्ञेयास्ते वैष्णवा जनाः ९५।
शीर्णं मन्मंदिरं ये च कुर्वन्ति नूतनं पुनः ।
तत्रायतनशोभां च ज्ञेयास्ते वैष्णवा जनाः ९६।
अभयं ये च यच्छन्ति भीरुभ्यश्चतुरानन ।
विद्यादानं च विप्रेभ्यो ज्ञेयास्ते वैष्णवा जनाः ९७।
मत्पादसलिलैर्येषां सिक्तानि मस्तकानि च ।
मम नैवेद्यमश्नन्ति ज्ञेयास्ते वैष्णवा जनाः ९८।
क्षुत्तृट्प्रपीडितेभ्यश्च ये यच्छंत्यन्नमंबु च ।
कुर्युर्ये योगशुश्रूषां ज्ञेयास्ते वैष्णवा जनाः ९९।
आरामकारिणो ये च पिप्पलारोहिणोऽपि च ।
गोसेवां ये च कुर्वन्ति ज्ञेयास्ते वैष्णवा जनाः १०० 7.2.100।
अत्यन्तभक्ता ये ब्रह्मन्पितृयज्ञं प्रकुर्वते ।
कुर्वन्ति दीनशुश्रूषां ज्ञैयास्ते वैष्णवा जनाः १०१।
तडागग्रामकर्तारः कन्यादानरताश्च ये ।
सेवंते श्वशुरौ ये च ज्ञेयास्ते वैष्णवा जनाः १०२।
सेवंते ज्येष्ठभगिनीं ज्येष्ठभ्रातरमेव च ।
परनिंदां न कुर्वंति ज्ञेयास्ते वैष्णवा जनाः १०३।
वैष्णवेषु गुणाः सर्वे दोषलेशो न विद्यते ।
तस्माच्चतुर्मुख त्वं च वैष्णवो भव सांप्रतम् १०४।
समाराधय मां नित्यं क्रियायोगैः प्रजापते ।
सर्वमेवाशु भद्रं ते भविष्यति न संशयः १०५।
देवस्वं ब्राह्मणद्रव्यं परस्वं च चतुर्मुख ।
पश्यन्ति विषवद्ये च ज्ञेयास्ते वैष्णवा जनाः १०६।
पाखंडभक्तिरहिताः शिवभक्तिपरायणाः ।
चतुर्द्दशीव्रतरता ज्ञेयास्ते वैष्णवा जनाः १०७।
बहुनात्र किमुक्तेन भाषितेन पुनः पुनः ।
ममार्चां ये च कुर्वंति विज्ञेयास्ते च वैष्णवाः १०८।
भूयः पूर्वस्थितमिव सृज्यतां सकलं जगत् ।
इत्युक्त्वांतर्द्दधे देवस्तत्रैव परमेश्वरः १०९।
ततस्तु पूर्ववद्ब्रह्मा सृष्टवान्सकलं जगत् ।
क्रियायोगैर्हरिं चेष्ट्वा जगाम परमं पदम् ११०।
ये पठंती ममध्यायं भक्त्या नारायणाग्रतः ।
सर्वपापविनिर्मुक्ता अन्ते यान्ति हरेर्गृहम् १११।
इति श्रीपाद्मे महापुराणे क्रियायोगसारे द्वितीयोऽध्यायः २ ।