पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः २२९

विकिस्रोतः तः
← अध्यायः २२८ पद्मपुराणम्
अध्यायः २२९
वेदव्यासः
अध्यायः २३० →

पार्वत्युवाच-
विस्तरेण ममाख्याहि देवसर्गमनुत्तमम् ।
ब्रह्मादि त्रिदिवश्रेष्ठाः कथं जाताः सनातनाः ।
ईश्वरस्यावतारांश्च विस्तरेण वदस्व मे १।
रुद्र उवाच-
आकाशानिलतेजोंबु भुवः सृष्टा यथाक्रमम् ।
तासां मध्येऽसृजद्ब्रह्मा अगाधजलमर्णवम् २।
अस्मिन्नेकार्णवीभूते जलमायावटच्छदे ।
आदाय सर्व्वभूतानि योगनिद्रां ययौ हरिः ३।
स जगत्स्रष्टुकामस्तु योगनिद्रामुपेयिवान् ।
तया रेमे चिरं कालं मायया मधुसूदनः ४।
तस्यां तु जनयामास कालात्मानमनुत्तमम् ।
कलाकाष्ठादि भूता ये पक्षमासादिरूपिणः ५।
तस्मिन्काले हरेर्न्नाभिपंकजं मुकुलाकृति ।
विकसत्सर्वजगतो बीजभूतं सुवर्चसम् ६।
उदस्थादुदभूत्तत्र ब्रह्मा च सुमहामतिः ।
स जगत्स्रष्टुकामस्तु रजोगुणविचोदितः ।
तुष्टाव योगनिद्रायां शयानं परमेश्वरम् ७।
ब्रह्मोवाच-
नमोस्तु विष्णवे तुभ्यं सर्गस्थित्यंतहेतवे ।
जगद्भूषणभूषाय श्रीमते विश्वरूपिणे ८।
नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च ।
जगद्धिताय कृष्णाय गोविंदाय नमोनमः ९।
प्रधानकालरूपाय पुरुषायेश्वराय च ।
नमः प्रपंचरूपाय निष्प्रपंचस्वरूपिणे १०।
नारायणाय विश्वाय विश्वेशाय नमोनमः ।
श्रीभूलीलाधिपतये ब्रह्मणे परमात्मने ११।
नमोस्तु वासुदेवाय विश्वरूपाय शार्ङ्गिणे ।
त्रयीनाथाय हरये विश्वनाथस्वरूपिणे १२।
अनंतकल्याणगुणपरिपूर्णाय ते नमः ।
जगच्च सर्व्वं स्वपिति त्वयि सुप्ते जगन्मये १३।
वृतं सर्वं जगन्नाथ प्रपंचे सचराचरम् ।
त्वमेव कारणं कर्त्ता कार्य्यं च त्रिगुणोद्भवम् १४।
स्रष्टा ध्याता विधाता च त्वमेव परमेश्वरः ।
जागर्षिशुद्धसत्वस्थस्तवनिद्रा कुतःप्रभो ।
देवत्वयि स्थितालोकाः समाधिष्ठाः सनातनाः १५।
शिव उवाच-
एवमुक्तो हृषीकेशो ब्रह्मणा परमेश्वरः ।
उत्तस्थौ शयनात्तस्माद्विमुक्तो योगनिद्रया १६।
नियम्य योगनिद्रां तां जगत्स्रष्टुं प्रचक्रमे ।
अचिंत्यस्तत्क्षणाद्देवो जगतां प्रभुरच्युतः १७।
चिंतयित्वा जगत्सर्वमसृजत्स पुमांस्ततः ।
लोकान्सर्व्वांस्तदा ह्यप्सु गतमंडं हिरण्मयम् १८।
सप्तद्वीपान्समुद्रांतान्मेदिनी भूधरैर्युतान् ।
सहैकाण्डकटाहेन नाभिपद्मेऽसृजत्प्रभुः १९।
तदण्डमध्ये चास्थानमीश्वरः कृतवान्हरिः ।
अथ नारायणंकस्तु दध्यावध्यात्मचेतसा २०।
ध्यानांते तस्य भालात्तु स्वेदबिंदुरजायत ।
स बिंदुर्बुद्बुदाकारः पृथिव्यामपतत्क्षणात् २१।
तस्मात्तु बुद्बुदात्सोऽहमुत्पन्नोस्मि वरानने ।
त्र्यक्षस्त्रिशूलहस्तोऽहं जटामुकुटमंडितः २२।
किंकरोमीति देवेशमवोचं विनयान्वितः ।
ततो नारायणो देवो मामित्याह मुदान्वितः २३।
कर्त्तासि जगतो रुद्र संहारं भीमदर्शनम् ।
साक्षात्संकर्षणांशेन संहारार्थे वरानने २४।
तस्मान्नारायणाद्देवि उत्पन्नोस्मि भयंकरः ।
नियोज्य मां तु संहारे पुनरेव जनार्दनः २५।
नेत्राभ्यामसृजच्चंद्रसूर्य्यौ ध्वांतापहारिणौ ।
वायुं दिशश्च श्रोत्राभ्यामिंद्राग्नीमुखतोऽसृजत् २६।
नासाभ्यां वरुणं मित्रमसृजत्पंकजेक्षणः ।
बाहुभ्यामखिलान्देवान्ससाध्यान्समरुद्गणान् २७।
समस्तरोमकूपेभ्यो रत्नान्योषधयस्तथा ।
त्वचि शैलान्समुद्राश्च गवाद्याः पशवस्तथा २८।
मुखतो ब्राह्मणः सृष्टो बाहुभ्यां क्षत्रियस्तथा ।
ऊर्व्वोर्वैश्यस्ततः पद्भ्यां शूद्रश्चैवमजायत २९।
एवं सृष्ट्वा जगत्सर्व्वमचेतनमवस्थितम् ।
विश्वरूपेण देवेशो यस्यांतरमधिष्ठितः ३०।
शक्त्या विना हरेस्तस्य नोन्मेषो विद्यते यतः ।
तस्मात्सर्वजगत्प्राणो विष्णुरेव सनातनः ३१।
स एवाव्यक्तरूपः सन्परमात्मा व्यवस्थितः ।
सर्गस्थितिलयं ब्रह्मा स्वयमेव प्रवर्त्तते ३२।
षाड्गुण्यपरिपूर्णोऽसौ वासुदेवः सनातनः ।
त्रिगुणादात्मनोरूपं चतुर्द्धा कुरुते जगत् ३३।
प्रद्युम्नमूर्त्तिर्भगवान्सर्वैश्वर्य्यसमन्वितः ।
विधेः प्रजापतीनां च कालस्य च जनस्य च ३४।
अंतर्य्यामित्वमापन्नो सर्गं सम्यक्करोति हि ।
सेतिहासांस्ततो वेदान्ददौ तस्मै महात्मने ३५।
प्रद्युम्नस्यांशभागोऽसौ ब्रह्मा लोकपितामहः ।
जगत्सर्गस्थितिं सर्व्वं प्रकरोत्यंशसंभवः ३६।
अनिरुद्धश्च भगवाञ्छक्तितेजः समन्वितः ।
मनूनां पार्थिवानां च कालस्य च जनस्य च ३७।
स्थितिं करोति भगवानंतर्य्यामित्वमास्थितः ।
संकर्षणो महाविष्णुर्विद्याबलसमन्वितः ३८।
कालस्य सर्वभूतानां रुद्रस्य च यमस्य च ।
अंतर्य्यामित्वमास्थाय जगत्संहरते प्रभुः ३९।
इत्यंतर्य्याम्यवस्थायामंतर्य्यामित्वमात्मनः ।
मत्स्यः कूर्म्मो वराहश्च नरसिंहोऽथ वामनः ४०।
रामो रामश्च कृष्णश्च बुद्धः कल्की च ते दश ।
एते तु विभवावस्था ब्रह्मणः परमात्मनः ४१।
नृसिंहरामकृष्णेषु षाड्गुण्यं परिकीर्तितम् ।
परावस्था तु देवस्य दीपादुत्पन्न दीपवत् ४२।
सा ह्यवस्था हरेरस्य शृणुष्व गिरिजे शुभे ।
वैकुंठं परमं लोकं विष्णुलोकमनुत्तमम् ४३।
श्वेतदीपं स्वरूपं तु क्षीरसागरमुत्तमम् ।
एवं चतुर्द्धा व्यूहं तु सम्यगुक्तं महर्षिभिः ४४।
जलावरणमध्ये तु वैकुंठं कारणं शुभम् ।
कोटिवैश्वानरप्रख्यं सर्वं धर्म्मवदव्ययम् ४५।
आमोदमंदारकरैर्वृक्षैर्वह्निभिरास्थितम् ।
नानामणिमयं दिव्यं विमानकोटिभिर्य्युतम् ४६।
यदुक्तं परमं धाम तादृक्लक्षणसंस्थितम् ।
तस्मिन्वैकुंठनगरे नानारत्नसमुज्ज्वले ४७।
मध्ये देवजयारामं पुरं रम्यमनुत्तमम् ।
चतुर्द्वारसमायुक्तं हेमप्राकारतोरणम् ४८।
चंडादिद्वारपालाद्यैः कुमुदाद्यैश्च रक्षितम् ।
नानामणिमयैर्दिव्यैर्गृहैः पंक्तिभिरावृतम् ४९।
विततं पंचपद्माभिर्योजनैश्च समंततः ।
सहस्रयोजनोत्तुंगैः प्रासादैः कोटिभिर्वृतम् ५०।
आरूढयौवनैर्द्दिव्यैः पुंभिः स्त्रीभिश्च शोभितम् ।
स्त्रियश्च पुरुषाश्चास्मिन्सर्वलक्षणशोभिताः ५१।
समरूपाश्च श्रीविष्णोः सर्व्वालंकारभूषिताः ।
दिव्यस्रग्वस्त्रसंछन्ना दिव्यचंदनभूषिताः ५२।
मोदंते तत्र देवेश भक्त्या त्वात्ममनोरमे ।
मंत्राष्टाक्षरसंसिद्धा भक्त्या षोडशरूपया ५३।
वृतास्तत्पदमाविश्य मोदंते मनसीप्सितम् ।
गत्वास्मिन्न निवर्तंते विष्णुना सह संस्थिताः ५४।
अविच्छिन्नात्मना ते वै विष्णुना संगताः शुभाः ।
तत्समानसुखं नित्यं प्राप्नुवंति मनीषिणः ५५।
यत्रतत्र हरेर्लोकानाविश्य शुभचेतसः ।
प्राप्नुवंति पुनः स्वर्गं स्वर्गस्थाइव जंतवः ५६।
यथा सौमित्रि भरतौ यथा संकर्षणादयः ।
तथा तेपि च जायंते सत्यलोके यथेच्छया ५७।
पुनस्तेनैव यास्यंति तत्पदं शाश्वतं परम् ।
न कर्म्मबंधनं जन्म वैष्णवानां च विद्यते ५८।
विष्णोरनुचरत्वं हि मोक्षयाहुर्मनीषिणः ।
न दास्यममरेशस्य बंधनं परिकीर्तितम् ५९।
सर्वबंधननिर्मुक्ता हरिदासा निरामयाः ।
आब्रह्मभुवनाँ लोकाः पुनरावृत्तिलक्षणाः ६०।
कर्मबंधमया दुःखमित्रासख्यभयप्रदाः ।
बह्वाया सफला देवि जनिनाशकहेतवः ६१।
सुखभोगस्तु यन्नॄणां विषमिश्राशनं यथा ।
स्वर्गसंस्थान्नरान्दृष्ट्वा क्षीणे कर्म्मणि देवताः ६२।
कुपिताः पातयन्त्येव संसृतौ कार्य्यबंधने ।
तस्मात्स्वर्गसुखं देवि बहुधायाससाधनम् ६३।
अनित्यं कुटिलं दुःखमिश्रं योगी परित्यजेत् ।
सततं संस्मरेद्विष्णुं सर्वदुःखौघनाशनम् ६४।
नामोच्चारणमात्रेण प्राप्नुवंति परं पदम् ।
तस्मात्तु वैष्णवं लोकं गौरि संप्रार्थयेत्सुधीः ६५।
भक्त्या त्वनन्यया देवं भजेत करुणांबुधिम् ।
स सर्वज्ञानगुणवान्रक्षत्येव न संशयः ६६।
तस्मादष्टाक्षरं मन्त्रं जप्त्वा सुखतरं शुभम् ।
संप्राप्नोति परं लोकं वैष्णवं सर्वकामदम् ६७।
तस्मिन्मणिमये तल्पे सहस्रसूर्य्यरश्मिनि ।
विमाने शुशुभे दिव्ये संस्थितो भगवान्हरिः ६८।
तत्र चाधारशक्त्यादि धृते पीठे हिरण्मये ।
नानारत्नमये दिव्ये नानावर्णसमन्विते ६९।
तस्मिन्नष्टदले पद्मे मंत्राक्षरपदे शुभे ।
कर्णिकायां सुरम्यायां लक्ष्मीबीजशुभाक्षरे ७०।
तस्मिन्वालार्कसाहस्रकोटितुल्य समप्रभे ।
दिव्ये नारायणः श्रीमानासीनः पंकजासने ७१।
तस्य दक्षिणके पार्श्वे जगन्माता हिरण्मयी ।
गृहीत्वा चामरान्दिव्यान् दिव्यमाल्यविभूषणा ७२।
वसुपात्रं मातुलुंगं स्वर्णपद्मं धृतं करैः ।
वामतः पृथिवीदेवी नीलोत्पलदलद्युतिः ७३।
नानाभरणसंयुक्ता विचित्रांबरभूषिता ।
सा धृत्वा चोर्द्ध्वबाहुभ्यां रम्यं रक्तोत्पलद्वयम् ७४।
इतराभ्यां धृतं देव्या धान्यपात्रयुगं तथा ।
गृहीत्वा चामरान्दिव्यान्शक्तयो विमलादिकाः ७५।
दलाग्रेषु समासीनाः सर्वलक्षणशोभिताः ।
तासां मध्ये समासीनो भगवानच्युतो हरिः ७६।
शंखचक्रगदापद्मपाणिभिर्दिव्यभूषणैः ।
केयूरांगदहाराद्यैर्भूषणै रूपशोभितः ७७।
प्रातरुद्यत्सहस्रांशु कुण्डलाभ्यां विराजितः ।
पूर्वोक्तैस्त्रिदशैर्न्नित्यैः सेवितः परमेश्वरः ७८।
आस्ते वैकुण्ठनगरे नित्ये सत्ये च भोगवान् ।
श्रीमदष्टाक्षरं मंत्रं सिद्धानां वै मनीषिणाम् ७९।
गम्यं तद्वैष्णवं लोकं नेतरेषां कथंचन ।
इत्येवं प्रथमं व्यूहं कथितं ते वरानने ८०।
द्वितीयं वैष्णवं लोकं शृणु वक्ष्यामि सुव्रते ।
योऽयं नित्य इति ख्यातो लोकाग्र्यो वैष्णवः स्मृतः ८१।
तं लोकं विपुलं पुण्यं शुद्धं सत्वमयं शुभम् ।
मध्याह्नसूर्य्यसाहस्रयुगपद्भासितं तदा ८२।
कल्पांतेऽपि न लीयेत तत्वलोकं महत्तरम् ।
मम ब्रह्मादिदेवानां न द्रष्टुमपि शक्यते ८३।
सर्वं कल्पद्रुमवनैः परिपूर्णं समंततः ।
सुधाम्बुपरिपूर्णाभिर्दीर्घिकाभिः समन्वितम् ८४।
स्वर्णरत्नमयैर्दिव्यैः पंकजैरुपशोभितम् ।
जलदग्निनिभैर्दिव्यैर्भूषणैः कोटिभिर्वृतम् ८५।
निरंतरं सामभिश्च कूजितैः कोकिलादिभिः ।
ऊह्यमानैर्गन्धर्वृक्षैः पुष्पकैरपि शोभितम् ८६।
ऊनषोडशवर्षाब्दैर्दिव्यनारीनरैर्वृतम् ।
सर्वलक्षणशोभाढ्यैर्दिव्यकल्पविभूषणैः ८७।
तत्रप्रदेशे रम्येषु देशेषु कमलापतिम् ।
मुदितैः पतिभिः सार्द्धमर्चयंति स्म योषितः ८८।
तत्प्रसादोपलभ्यं वै सुखमश्नन्ति सर्वदा ।
गायंति परमानंदं कृष्णस्य चरितं महत् ८९।
पद्मेक्षणाः पद्महस्ताः पद्मया सदृशः शुभाः ।
दिव्यस्रग्वसनोपेताः क्रीडंति स्म सुयोषितः ९०।
शंखचक्रगदापद्मधरा भूषणभूषिताः ।
स्रग्विणः पीतवसनाः पुरुषास्तत्र संस्थिताः ९१।
अनन्यस्पर्शनात्तत्र स्त्रीपुंसोः क्रीडमानयोः ।
भवत्यनुदिनं वृद्धं हरिभक्तिसुखं रसम् ९२।
तन्मध्येंतःपुरं रम्यं वासुदेवस्य शोभितम् ।
चंदनागुरुकर्प्पूरकुंकुमोदकसंयुतम् ९३।
नानापुष्पविमानाद्यैः सर्वतः समलंकृतम् ।
तन्मध्ये कल्पवृक्षस्य च्छायायां कमलासने ९४।
विचित्रश्लक्ष्णपर्यंके शुभास्तरणसंवृते ।
दिव्यगंधसुशोभाढ्यैर्नानापुष्पपरिच्छदैः ९५।
तस्मिन्मनोरमे दिव्ये समासीनः श्रिया सह ।
ईश्वर्य्या सह देवेशो वासुदेवः सनातनः ९६।
सुधांशुकोटिसंकाशो दिव्याभरणभूषितः ।
सुवर्णशुभ्रयुगल श्लक्ष्णनासांचिताननः ९७।
स्निग्धायतसुलावण्यकपोलाभ्यां विराजितः ।
नीलकुंचितकेशाढ्यो रक्ताब्जदललोचनः ९८।
मंदारकेतकीजाती कैरवीकृतशेखरः ।
स्निग्धबिम्बफलाभौष्ठः सुस्मिताननपंकजः ९९।
अनर्घ्यमौक्तिकाभासदंतावलिविराजितः ।
हरिचंदनलिप्तांगः कस्तूरीतिलकांकितः १००।
उन्नतांसभुजैर्दीर्घैश्चतुर्भिरुपशोभितः ।
जपाकुसुमसंकाशकरपल्लवशोभितः १०१।
श्रीवत्सकौस्तुभाभ्यां च शोभितः पृथुवक्षसा १०२।
मुक्तामयैः सुशोभाढ्यैर्दिव्यस्रग्भिरलंकृतः ।
बालार्कसदृशज्योत्स्ना पीतवस्त्रेण वेष्टितः १०३।
माणिक्यनूपुरोपेत पद्मपत्रविराजितः ।
अकलंकितचंद्राभ नखपंक्तिविराजितः १०४।
रक्तोत्पलनिभश्लक्ष्ण शुभ्रांघ्रिकरपंकजः ।
पांचजन्यरथांगाभ्यां बाहुयुग्मविराजितः १०५।
इतराभ्यां श्रियो गात्रमाश्लिष्यन्निजवक्षसि ।
श्लिष्यद्विद्युल्लतोद्गीथ शिताभ्र इव राजते १०६।
सप्तजांबूनदश्लक्ष्ण शुभांघ्रियुगपंजकः ।
अत्र क्रीडति देवेशो वासुदेवः सनातनः १०७।
तप्तकांचनसंकाशा सर्वाभरणभूषिता ।
सुस्निग्धनीलकुटिलचंद्रराविविराजिता १०८।
मंदारपारिजातादि दिव्यपुष्पविराजिता ।
कर्णावतंस शोभाढ्या चिकुरांतालिसन्निभा १०९।
पीनोन्नतस्तनाभ्यां च पीडंति हरिवक्षसि ।
केयूरांगदहाराद्यैर्भूषणैरुपशोभिता ११०।
आरूढयौवना नित्यं सर्वलोकेशसुंदरी ।
तत्र क्रीडति लोकेश पत्या सह निरंतरम् १११।
स एव वासुदेवोऽत्र सर्वभूतमनोहरः ।
क्रीडते सर्वलोकेस्मिन्सर्वकामप्रदो नृणाम् ११२।
अत्राष्टशक्तयो लक्ष्म्यास्तनवः परितः स्थिताः ।
रमा च रुक्मिणी सीता पद्मा पद्मालया शिवा ११३।
सुलक्षणा सुशीला च रतिकामप्रदाश्च ताः ।
शंखचक्रगदापद्म शार्ङ्गाद्यैर्हेतिभिस्तथा ११४।
परितः पुष्कराकारैस्तं लोकं परिरक्षते ।
एवं द्वितीयं रूपं च सम्यक्ते शुभदर्शने ११५।
संक्षेपतो मया प्रोक्तं न शक्यं विस्तरेण हि ।
द्वादशाक्षरमंत्रं वै ये जपंति सुखाह्वयम् ११६।
ते प्राप्नुवंति सततं शाश्वतं शुभमक्षयम् ।
न वेदाध्ययनैर्यज्ञैर्न व्रतैर्नोपवासतः ११७।
न प्राप्यं वैष्णवं लोकं विना दास्येन कुत्रचित् ।
तस्माद्दास्यं हरेर्भक्तं भजेतानन्यमानसः ११८।
प्राप्नोति परमां सिद्धिं कर्मबंधविमोचनीम् ।
एवं संप्रोच्यते देवि द्वितीयं व्यूहमव्ययम् ११९।
तृतीयं तु परं व्यूहं शृणु वक्ष्यामि पार्वति ।
तोयाब्धेरुत्तरं कूलं श्वेतद्वीपे महामते १२०।
संदर्शनाय योगानां सनकादि महात्मनाम् ।
सनकश्च सनंदश्च तृतीयश्च सनातनः १२१।
सनत्कुमारजाताश्च वोढुः पंचशिखस्तथा ।
सप्तैते ब्रह्मणः पुत्रा योगिनः सुमहौजसः १२२।
विरक्ताः सर्वभोगेषु शुद्धाः सत्वगुणाः सदा ।
भगवद्दर्शनोद्भूतसुखैकरससेविनः १२३।
नरनारायणाद्याश्च श्वेतद्वीपे वसंति ये ।
तेषां संदर्शनार्थाय तत्र संनिहितो हरिः १२४।
शुभ्रांशुकोटिसंकाशे नानारत्नमयोज्ज्वले ।
श्वेतद्वीपे महायोगि सेविते भयवर्जिते १२५।
तत्रोद्यानानि रम्याणि पारिजातसमानि वै ।
संतानकलताकीर्णं चन्दनद्रुममंडितम् १२६।
फुल्लपद्मोत्पलोपेतं नानातोयालयैर्युतम् ।
तन्मध्ये नगरी रम्या नाम्ना चैरावती शुभा १२७।
नानारत्नमयैर्दिव्यैर्विमानैरुपशोभिता ।
दिव्यस्त्रीपुंभिराक्रांता बहुप्रासादसंकुला १२८।
तन्मध्येऽन्तपुरं रम्यं रत्नद्रुमसमाकुलम् ।
बालसूर्यनिभैस्तुंगैः प्रासादैर्बहुभिर्वृतम् १२९।
तन्मध्ये मंडपं दिव्यं मणिकांचनशोभितम् ।
चंदनागुरुकर्पूरकुंकुमामोदवाशितम् १३०।
नानाकुसुमशोभाढ्यैर्वितानैः समलंकृतम् ।
दिव्याप्सरः समाकीर्णं सामगानोपशोभितम् १३१।
मध्ये सिंहासनं तत्र सूर्यवैश्वानरप्रभम् ।
तन्मध्येऽष्टदलं पद्मं चंद्रबिंबमिवापरम् १३२।
तन्मध्ये कर्णिकायां तु समासीनो जनार्दनः ।
शुद्धजांबूनदप्रख्यो मुक्ताहारविभूषितः १३३।
शंखचक्रगदापद्मशक्तिहस्तचतुष्टयः ।
हारकेयूरकटकैरंगुलीयैश्च शोभितः १३४।
सुवर्णपंकजप्रख्यः पदयुग्मविराजितः ।
संतानकनिभैः शुभ्रैर्नखपंक्तिविराजितः १३५।
षोडशाब्दवयो रूपयौवनेन विराजितः ।
विशालभालदेशे तु कुंकुमेन सुगंधिना १३६।
रचितेनोर्ध्वपुंड्रेण सीमंतेनोपशोभितः ।
मथितामृतफेनाभ शुक्लवस्त्रसुवेष्टितः १३७।
मुक्तामयाभ्यां शुभ्राभ्यां कुंडलाभ्यां विराजितः ।
पद्मासनसमासीनो जगन्मोहनविग्रहः १३८।
वामांके संस्थिता देवी तस्य दिव्यस्वरूपिणी ।
तस्यैव सदृशी लक्ष्मीः शीलसुष्टुगुणादिभिः १३९।
पद्मकिंजल्कसंकाशा यौवनारंभशोभिता ।
सर्वलक्षणसंपन्ना तप्तकांचनभूषणा १४०।
दिव्यस्रग्वसनोपेता नीलकुंचितमूर्धजा ।
चतुर्भुजैर्विराजंती केयूराङ्गदभूषिता १४१।
मुक्ताहारैर्विराजंती मंदारांचितशीर्षजा ।
श्लक्ष्णनासापुटयुता लसद्दंतिवरा जिता १४२।
कस्तूरीतिलकोपेता नासाग्रांचित मौक्तिका ।
स्वर्णकुंभसमप्रख्य पीनोन्नतपयोधरा १४३।
दिव्यकुंकुमलिप्तांगी पद्ममालोपशोभिता ।
वस्त्रपात्रं मातुलिड्गं दर्पणं हेमपंकजम् १४४।
करपद्मधृता देवी चेतसाभीष्टदायिनी ।
तस्यैताः सदृशास्तत्र शक्तयः परितो हरेः १४५।
ईशावास्या महादेवी जाह्नवी कमलालया ।
सावित्री सर्वगा पद्मा शक्तयः परिकीर्तिताः १४६।
श्रद्धा मेधा धृतिः प्रज्ञा धारणा शांतिरेव च ।
श्रुतिस्मृतिर्धृतिर्मेधा वृद्धिर्बुद्धिर्मनीषिणी १४७।
दास्यस्ते ताः श्रियः प्रोक्ताः सर्वकार्यस्य कारिकाः ।
अनंतवैनतेयादि देवता नित्यकिंकराः १४८।
साध्या मरुद्गणाश्चैव सेवंते नित्यदेवताः ।
प्रासादेषु विमानेषु वनेषु नगरेषु च १४९।
तत्प्रसादोपलब्धेषु भोगेष्वत्रानुरंजिताः ।
क्रीडंती सततं नित्या हेयनिष्फलवर्जिताः १५०।
ये विष्णुमंत्रजप्तारः सततं श्रद्धयान्विताः ।
ये द्वादशीव्रते युक्तास्तत्पदं यांति तेऽव्ययम् १५१।
न वेदैर्न च दानैश्च न यज्ञैर्न व्रतैरपि ।
प्राप्तुं च शक्यं गिरिजे विष्णुलोकं सनातनम् १५२।
भक्त्या चानन्यया प्राप्तुं शक्यं विष्णुपदं नृणाम् ।
तस्मात्संपूजयेन्नित्यं भक्त्या देवं जनार्दनम् १५३।
कीर्तनं नाममात्रं च ध्यायन्मंत्रं जपेत्सदा ।
जुहुयात्तर्पयेद्भक्त्या सर्वगं सर्वकामदम् १५४।
एवमुक्तं तृतीयं तु व्यूहं तु परमात्मनः ।
स्वरूपं तव सुश्रोणि यथाप्रोक्तं पुरातनैः १५५।
अतः परं प्रवक्ष्यामि चतुर्थं व्यूहमुत्तमम् ।
दिवौकसां रक्षणार्थं दुग्धाब्धौ परमेश्वरः १५६।
सुधांशुकोटिसंकाशः सहस्राक्षेण शोभिते ।
पुरंदरसयूथैस्तु च्छादिते दुग्धवारिधौ १५७।
तस्मिन्ननंतपर्यंके शेतेऽसौ विस्तृते शुभे ।
दिव्यासनसमासीनः पद्मनाभोऽच्युतो हरिः १५८।
नीलजीमूतसंकाशः पद्मपत्रायतेक्षणः ।
विवस्वत्कोटिसंकाश किरीटेन विराजितः १५९।
नानारत्नोज्ज्वलद्दिव्यं कुंडलाभ्यां विराजितः ।
बालार्कसदृशज्योत्स्ना पीतवस्त्रेण वेष्टितः १६०।
स्फुरद्रक्तारविंदाभ हस्तांघ्रितलशोभितः ।
हारकेयूरकटकैरंगुलीयैर्विराजितः १६१।
शंखचक्रगदाशार्ङ्गखड्गहस्तैर्विभूषितः ।
सुपुष्पफलशाखाढ्यकल्पवृक्षैर्विराजितः १६२।
विश्वस्य जन्ममरण नाभिपंकजशोभितः ।
हरिचंदनलिप्तांगः सर्वाभरणभूषितः १६३।
मंदारपारिजातादि दिव्यपुष्पैर्मनोरमैः ।
सुस्निग्धनीलकुटिलकबरीकृतकेशवान् १६४।
श्लक्ष्णोन्नतसुनासांस जानुयुग्मविराजितः ।
मणिविद्रुमशाखाढ्य नूपुराङ्घ्रिविराजितः १६५।
अकलंकितचंद्राभ नखपंक्तिविराजितः ।
अशोकपुष्पसंकाश रक्तोष्ठमुखपंकजः १६६।
अनर्घ्यमुक्तिकाभास दंतपंक्तिविराजितः ।
संपूर्णचंद्रप्रतिम स्मितवक्त्रसुशोभितः १६७।
आरूढयौवनः श्रीमान्कोमलावयवोज्ज्वलः ।
शरण्यः सर्वलोकानां सर्वलोकफलप्रदः १६८।
सदृशी तस्य देवी तु रूपशीलगुणादिभिः ।
तप्तकांचनसंकाशा तप्तकांचनभूषणा १६९।
तरुणी रूपलावण्या कान्तिशीलगुणान्विता ।
दुग्धाब्धिफेनसंकाश शुभवस्त्रेण वेष्टिता १७०।
मंदारकेतकी जाती पुष्पार्चितशिरोरुहा ।
कस्तूरीतिलकोपेता रत्नसीमंतशोभिता १७१।
नानावर्णसुशोभाढ्या कर्णभूषणभूषिता ।
प्रवालसदृशज्योत्स्ना रक्तधारसुविस्मिता १७२।
मत्तभृङ्गोपमैः स्निग्धैरलकैः सुविराजिता ।
तनुमध्या विशालाक्षी पीनोन्नतपयोधरा १७३।
चतुर्हस्तैर्विराजंती सर्वाभरणभूषिता ।
उद्बाहुभ्यां धृता देवी हेमपद्मयुगं शुभम् १७४।
इतराभ्यां समाश्लिष्य भर्तारं निबिडं स्थिता ।
आलोकयंती सततं त्रिदशांश्च कटाक्षकै १७५।
निरीक्षितास्तया देव्या धन्यास्ते सततं शिवे ।
तत्र देवा विमानस्थाः सिद्धचारणकिन्नराः १७६।
गायंति सततं देवीमानंदाश्रुपरिप्लुताः ।
दैतेयैर्बाध्यमानैस्तु ब्रह्मरुद्रादिभिः सुरैः १७७।
संस्तूयमानस्तत्रेशो देवानामभयं ददौ ।
देवानामभयं दत्त्वा सर्वदेवेश्वरो हरिः १७८।
राक्षसान्हंतुमारेभे जगत्संरक्षणाय वै ।
एवं चतुर्थं व्यूहं तु हरेः प्रोक्तं तवानघे १७९।
किमन्यच्छ्रोतुकामासीत्तद्ब्रवीमि वरानने ।
धन्यासि कृतकृत्यासि भक्तासि पुरुषोत्तमे १८०।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे विष्णुव्यूहभेदवर्णनंनाम एकोनत्रिंशदधिकद्विशततमोऽध्यायः २२९।