पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १२५

विकिस्रोतः तः
← अध्यायः १२४ पद्मपुराणम्
अध्यायः १२५
वेदव्यासः
अध्यायः १२६ →

ऋषय ऊचुः।
सूतसूत महाभाग त्वया लोकहितैषिणा ।
कथितं कार्तिकाख्यानं भुक्तिमुक्तिप्रदायकम् १।
अधुना माघमाहात्म्यं वद नो लोमहर्षणे ।
श्रुतेन येन लोकानां संशयः क्षीयते महान् २।
पुरा केन महाभाग लोकेऽस्मिन्संप्रकाशितम् ।
माघस्नानस्य माहात्म्यं सेतिहासं तदादिश ३।
सूत उवाच।
साधुसाधु मुनिश्रेष्ठा यूयं कृष्णपरायणः ।
यत्पृच्छथ मुदायुक्ता भक्त्या कृष्णकथा मुहुः ४।
कथयिष्यामि माघस्य माहात्म्यं पुण्यवर्धनम् ।
पापघ्नं शृण्वतां पुंसां स्नातानां चारुणोदये ५।
एकदापार्वती विप्राः शंकरं लोकशंकरम् ।
पप्रच्छ विनयोपेता स्पृष्ट्वा तच्चरणांबुजम् ६।
पार्वत्युवाच।
देवदेव महादेव भक्तानामभयप्रद ।
प्रसीद नाथ विश्वेश यत्पृच्छे तद्वदाधुना ७।
श्रुता नानाविधा धर्मास्त्वत्तः पूर्वं मया विभो ।
अधुना श्रोतुमिच्छामि माहात्म्यं माघजं वद ८।
तत्तु केन पुरा चीर्णं को विधिः का च देवता ।
तत्सर्वं विस्तराद्ब्रूहि यतस्त्वं भक्तवत्सलः ९।
महेश उवाच।
अध्वराऽवभृथस्नात ऋषिभिः कृतमंगलः ।
पूजितो नागरैः सर्वैः स्वपुरान्निर्गतो बहिः १०।
दिलीपो भूभृतां श्रेष्ठो मृगयारसिको नृपः ।
कौतूहलसमाविष्ट आखेटव्यूहसंवृतः ११।
उपानद्रूढपादस्तु नीलोष्णीष उरच्छदी ।
बद्धगोधांगुलित्राणो धनुष्पाणिः सरीसृपः १२।
बद्धक्षुद्रासिधानुष्कैस्तथाभूतैश्च पत्तिभिः ।
गांधारेषु सुरम्येषु वनेषु विपुलेषु च १३।
उल्लंघितमहास्रोता युवा पंचास्यविक्रमः ।
मुदा क्रीडति तैः सार्द्धं कुंजेषु मृगयन्मृगान् १४।
हन्यतां हन्यतामेष मृगो वैष पलायते ।
इति जल्पन्स्वभृत्येषु स्वयमुत्पत्त्य हंति च १५।
इतस्ततः पुनर्याति क्वचित्पश्यन्वनस्थलीम् ।
विटपोड्डीनसंत्रस्त लीन केकिकुलाकुलाम् १६।
हरिणीगणवित्रस्तां धावच्छावकदिङ्मुखाम् ।
क्वचित्फेरवफेत्कारतारारावविभीषणाम् १७।
खड्गयूथैः क्वचिल्लक्ष्मीं दधानामिव दंतिनाम् ।
क्वचित्कोटरसंदष्टोलूकनादविनादिनीम् १८।
मृगारिपदमुद्राभिर्मुद्रितां च क्वचित्क्वचित् ।
शार्दूलनखनिर्भिन्न रोहिद्रक्तारुणां क्वचित् १९।
पीवरस्तनभारार्त सुस्निग्धमहिषीगणैः ।
अवरोधाजिरक्षोणीं सूचयंती मनः क्वचित् २०।
क्वचिद्वृक्षघनच्छन्नां वन्यपुष्पसुगंधिनीम् ।
क्वचिल्लतागृहद्वारां भृंगशब्दसुशोभनाम् २१।
अर्धनिःसृतनिर्मोक नागभीमबृहद्विलाम् ।
बिलेषु लीनाजगरैर्भीमां निर्मोकसर्पिणीम् २२।
क्वचिद्दावानलज्वालां शिलाज्योतिः सुशोभनाम् ।
फूत्कारशब्दसंपूर्णां मृगव्याघ्रसमाकुलाम् २३।
प्रविमुंचञ्छुनां यूथं शशकेषु क्वचित्क्वचित् ।
पल्वलेषु च विश्रम्य पुनर्याति वनान्तरम् २४।
एवं व्रजति राजेन्द्रे व्याधवर्गे च वल्गति ।
कुर्वन्कोलाहलं तत्र सारंगो निर्गतो वनात् २५।
स्फालवेगक्रमाक्रांत दुर्गमार्गमहीतलः ।
कदाचिद्गगनारूढः कदाचिद्भूमिगोचरः २६।
वक्रस्रोतोऽतिगंभीरं कण्टकद्रुमसंकुलम् ।
प्रविष्टो विषमारण्यं राजाऽसौ तत्पदानुगः २७।
दूराद्दूरतरं गत्वा देशाद्देशं च निर्जनम् ।
मृगादर्शनसंरम्भ संशुष्कगलकन्धरः २८।
ताम्रतालुमुखः स्विन्नः श्रांतपत्तिः स्खलद्ध्वनिः ।
अतीत्य दीर्घमार्गान्स तृषार्तो मध्यगे रवौ २९।
ददर्शाग्रे तु कासारं स्पर्धयंतमपांपतिम् ।
घनपादपतीरस्थं सुतीर्थं विमलं शुभम् ३०।
विशालं विकचांभोजं मधुमत्तमधुव्रतम् ।
पद्मिनीपत्रपालाशच्छन्नं मरकतैरिव ३१।
स्वच्छंदमुच्छलन्मत्स्यं स्वच्छं साधुमनो यथा ।
चलज्जलचरैर्मिश्रं वीचिराजिविराजितम् ३२।
अंतर्ग्राहगणक्रूरं खलानामिव मानसम् ।
क्वचिच्छैवालदुर्गम्यं कृपणस्यैव मंदिरम् ।
नानाविहङ्गसर्वार्तिं शमयंतं दिवानिशम् ३३।
दातारमिव सर्वस्वैरापन्नार्तिप्रणाशनम् ।
तर्पयंतं निजांभोभिः श्वापदान्स्वपितॄनिव ३४।
हरंतं सर्वसंतापं हिमांशुरिव चाह्निकम् ।
तं दृष्ट्वाभूद्गतग्लानिश्चातको जलदं यथा ३५।
तत्र पीतजलो राजा कृतमाध्याह्निकक्रियः ।
भुक्त्वा खेटकमांसानि सहायैः सहितो नृपः ३६।
उवास सरसस्तीरे सुरम्यां कथयन्कथाम् ।
ततः शरासने बाणं कृत्वा रात्रौ स्थितस्तरौ ३७।
व्याधाः संधानमास्थाय रुरुधुः ककुभां पथः ।
एवं स्थितेषु वीरेषु वने विस्तार्य वागुराम् ३८।
निशार्धे निर्गतं यूथं सूकराणां तटे तटे ।
चरित्वा सरसीकंदान्पपात व्याधसंकुले ३९।
राज्ञा विद्धाश्च ते क्रोडा व्याधैश्च बहवो हताः ।
क्षणेनैव वराहास्ते विद्धाः पेतुर्महीतले ४०।
तान्दृष्ट्वा तुमुलं नादं व्याधाश्चक्रुः सुदर्पिताः ।
धावंतः प्रमुदायुक्ता मिलिता यत्र भूपतिः ४१।
तानादाय भटैर्भूयो निःसृतः सरसीतटात् ।
स्वपुरं गंतुकामोऽसौ दृष्टवान्पथि तापसम् ४२।
ब्राह्मणं वृद्धहारीतं शंखचक्रसुशोभितम् ।
नियमैर्दुष्करैरुग्रैः परिक्षीणकलेवरम् ४३।
अस्थिशेषं महद्दांतं विस्फुरत्कर्कशत्वचम् ।
दधानं हारिणं चर्म वसानं मृदुवल्कलम् ४४।
कुर्वाणं नैगमं जाप्यं नखलोमजटाधरम् ।
तं वनाश्रमिणं दृष्ट्वा मार्गं दत्त्वा ससंभ्रमः ४५।
प्रणम्य शिरसा राजा कृतपद्मांजलिस्थितः ।
अथ चैनमलंकारैर्द्विजो निश्चित्य भूमिपम् ४६।
उवाच श्रेयसे हेतोः परोपकृतिवांच्छया ।
किमर्थं गम्यते राजन्काले पुण्यतमे शुभे ४७।
माघमासे विहायैव प्रातःस्नानं सरोवरे ।
प्रत्युवाच ततो राजा नाहं जाने द्विजोत्तम ४८।
माघस्नानफलं कीदृक्तन्मे कथय विस्तरात् ।
इति भूपवचः श्रुत्वा प्राह वैखानसो मुनिः ४९।
भगवान्द्युमणिः शीघ्रमभ्युदेति तमोपहा ।
स्नानकालोऽयमस्माकं न कथाऽवसरो नृप 6.125.५०।
स्नात्वा गच्छ वसिष्ठं तं पृच्छस्व स्वकुलप्रभुम् ।
इत्युक्त्वा तापसो मौनी प्रातःस्नानाय निर्गतः ५१।
प्रत्यावृत्य दिलीपोऽपि तत्र स्नात्वा यथाविधि ।
पुनः स्वनगरीं वीरो गतोऽसौ हर्षपूरितः ५२।
अन्तःपुरे निवेद्याथ वानप्रस्थकथां पुनः ।
श्वेताश्वरथमारुह्य सुश्वेतच्छत्रचामरः ५३।
सालंकारः सुवासाश्च संवृत्तो मंत्रिभिः सह ।
जयशब्दान्पुनः शृण्वन्स्तुतो मागधबंदिभिः ५४।
वसिष्ठस्याश्रमं यात ऋषिवाक्यमनुस्मरन् ।
तत्रैव नत्वा ब्रह्मर्षिं विनयाचारपूर्वकम् ५५।
दत्तासनो गृहीतार्घ्य आशीर्भिः समलंकृतः ।
सानंदं मुनिना पृष्टः कुशलं भूपतिर्यदा ५६।
तदाब्रवीद्वचो राजा हर्षयन्मुनिमानसम् ।
सोऽपि वैखानसेनोक्तं पप्रच्छ मधुराकृतिः ५७।
दिलीप उवाच।
भगवंस्त्वत्प्रसादेन श्रुता विस्तरतो मया ।
आचारो दंडनीतिश्च राजधर्माश्च ये परे ५८।
चतुर्णामपि वर्णानामाश्रमाणां च याः क्रियाः ।
दानानि तद्विधानानि यज्ञाश्च विधयस्तथा ५९।
व्रतानि तत्प्रदिष्टानि विष्णोराराधनं तथा ।
अधुना श्रोतुमिच्छामि माघस्नाने च यत्फलम् ।
विधेयं यद्विधानेन तन्मे ब्रह्मन्मुने वद ६०।
वसिष्ठ उवाच।
सम्यगुक्तं परं श्रेयो लोकत्रयहितावहम् ।
निर्मलीकरणं तेन मुनिना वनवासिना ६१।
कटाक्षैः कामिनीनां ते प्रत्यासन्नमखंडिताः ।
कामयंते मृगार्के ते स्रोतसि स्नातुमेव च ६२।
विना वह्निं विना यज्ञमिष्टापूर्तं विना प्रिये ।
वांच्छंति सद्गतिं स्नातुं प्रातर्माघे बहिर्जले ६३।
गोभूहिरण्यमाणिक्य स्वर्ण धेन्वादिकानि ये ।
अदत्त्वेच्छंति चैकार्णे माघं स्नाता नराधिप ६४।
त्रिःसप्ताहव्रतैः कृच्छ्रैः पराकैश्च निजां तनुम् ।
अशोष्येच्छंति ये स्वर्गं तपसि स्नांतु ते सदा ६५।
हरेः पूजा च वैशाखे तपः पूजा च कार्तिके ।
तपोहोमस्तथा दानं त्रयं माघे विशिष्यते ६६।
सानुबंधोऽतिपर्यासो धराधीशो भवेद्ध्रुवम् ।
कैवल्योत्पादका बुद्धि यया वा न भवेत्पुनः ६७।
पदध्र्या वरिवस्या सा विहिता दिव्यलोचनैः ।
तदनन्नं तपो दानं माघेमासि नृपोत्तम ६८।
सकामो वा प्रजा ये वा हरये तद्विनापि वा ।
कायशुद्धिव्रती भूत्वा चतुर्द्धास्नानजं फलम् ६९।
निरन्ना अदितिः सस्नौ माघे द्वादशवत्सरे ।
पुत्रांश्च द्वादशादित्यान्लभे त्रैलोक्यदीपकान् ७०।
सुभगा रोहिणी माघा दानशीलात्वरुंधती ।
शची च रूपसंपन्ना प्रासादे सप्तभूमिके ७१।
विमलीकृतशोभाढ्यो नर्तकी ललिताजिरे ।
द्वीपवर्णसमुच्छिन्ने रूपवत्स्त्रीजनाकुले ७२।
गीतवादित्रनिर्घोषे मंगलाचारशोभिते ।
वेदध्वनिपवित्रे च विद्वद्विप्रैरलंकृते ७३।
सुरार्चनरते रम्ये सदातिथिनिषेविते ।
मुदितांस्ते वसंतीह यैः स्नानं मकरे रवौ ७४।
यैर्दत्तं बहु माघे च मुरारिश्चार्चितः स्तुतः ।
इष्टवस्तुपरित्यागान्नियमस्य तु पालनात् ७५।
धर्मसूतिः सदा माघः पापमूलं निकृंतति ।
काममूलः फलद्वारा निष्कामो ज्ञानदः सदा ७६।
ये लोका ज्ञानशीलानां ये लोका विपिनौकसाम् ।
ये लोका विष्णुभक्तानां ते माघस्नायिनां सदा ७७।
देवलोकान्निवर्तंते पुण्यैरन्यैः परंतप ।
कदाचिन्न निवर्तंते माघस्नानरता नराः ७८।
माघे स्नात्वा तु यो धेनुं दद्यान्मर्त्यः पयस्विनीम् ।
तस्या यावंति रोमाणि सर्वांगे च नृपोत्तम ७९।
तावद्वर्षसहस्राणि स्वर्गलोके महीयते ।
माघस्नानं प्रकुर्वाणो यो दद्यात्सगुडांस्तिलान् ८०।
पातकं तस्य प्रक्षाल्य निर्मलो भाति वै नरः ।
सर्वेषां धान्यराशीनां तिलाः पापप्रणाशनाः ८१।
तस्मान्माघे प्रयत्नेन तिला देया नृपोत्तम ।
माघस्नानं प्रकुर्वाणो दद्याद्ब्राह्मणभोजनम् ८२।
पितॄन्संतर्प्य शुद्धात्मा याति विष्णोः परंपदम् ।
तस्मात्सर्वप्रयत्नेन माघो दानेन नीयते ८३।
अदानं न क्षिपेन्माघं सर्वदा नृपसत्तम ।
वित्तानुसारं ज्ञात्वा वै माघे दानं सदा ददेत् ८४।
माघस्नानं तु यः कुर्यादुपानहकमंडलून् ।
ददाति ब्राह्मणेभ्यश्च स स्वर्गे तिष्ठति ध्रुवम् ८५।
माघस्नानमयं राजन्कुर्वाणस्तप उत्तमम् ।
दानं विना क्षिपेन्नैव दानात्स्वर्गमवाप्यते ८६।
दानेन प्राप्यते स्वर्गो दानेन प्राप्यते सुखम् ।
दानेन हीयते पापं महापातकजं नृप ८७।
अदानं न तपो भाति ह्यसूर्यं गगनं यथा ।
असंततिकुलं यद्वादाचारेण विना गृहम् ८८।
नातः परतरं किंचित्पवित्रं पापनाशनम् ।
विद्याधराय संगीतं भृगुणा मणिपर्वते ८९।
राजोवाच।
ब्रह्मन्कदा भृगुर्विप्रो निजगाद महीधरे ।
तस्मै धर्मोपदेशं च कथ्यतां मे कुतूहलात् ९०।
वसिष्ठ उवाच।
द्वादशाब्दं पुरा राजन्न ववर्ष बलाहकः ।
तेनोद्विग्नाः प्रजाः क्षीणा गताः सर्वा दिशो दश ९१।
खिलीभूते तदा मध्ये हिमवद्विंध्ययोर्नृप ।
स्वाहास्वधावषट्कारवेदाध्ययनवर्जिते ९२।
सोपप्लवे तदा लोके लुप्तधर्मे च निष्प्रभे ।
फलमूलान्नपानीय शून्ये वै भूमिमंडले ९३।
विंध्यपादतरुच्छन्न रम्यरेवातटाश्रमात् ।
सहशिष्यैश्च निर्गम्य हिमाद्रिं स गतो भृगुः ९४।
तत्र तिष्ठति कैलासगिरेः पश्चिमतो गिरिः ।
मणिकूट इति ख्यातो हेमरत्नशिलोच्चयः ९५।
अधोऽधस्फटिकश्वेतो मध्ये नीलशिलो गिरिः ।
भूतिभिः सर्वतः शुक्लो नीलकंठ इवाबभौ ९६।
सर्वत्रासौ नीलशिलो हेमरेखांतरांतरः ।
स्फुरद्विद्युल्लतः कृष्णो जीमूतइव राजते ९७।
मूर्ध्नि नीलशिलः शैल अधः कांचनमेखलः ।
नारायण इवाभाति परिवीत इवांबरः ९८।
अमेखला सुनीलाभो मध्ये मध्ये सितोपलः ।
सतारकमिव व्योम शुशुभे स महीधरः ९९।
लब्ध्वात्मनस्तनुं शुभ्रां दीप्तदिव्यौषधीधरः ।
बहुद्योतकरो भाति द्वितीय इव चंद्रमाः 6.125.१००।
अधित्यकासु संगीतैः किन्नरीणां सकीचकैः ।
रंभापत्रपताकाभिः शोभते स सदाऽचलः १०१।
हरितोपलवैदूर्य पद्मरागशिताश्मनाम् ।
रुग्रश्मिमंडलैः सोऽग इंद्रचापैरिवावृतः १०२।
सर्वधातुमयैर्हेमैर्नानारत्नैः प्रशोभितः ।
सोऽग्निज्वालैरिवात्युच्चैः शृंगैः सर्वत्र वेष्टितः १०३।
तस्यागत्य नितंबेषु सतृणा सुशिलासु च ।
विद्याधर्यः प्रदेवंते स्वपतीन्कामविक्लवाः १०४।
निरुद्धांतर्मरुन्मार्गा जितक्लेशा विरागिणः ।
ध्यायंत्यहर्निशं ब्रह्म रम्यसानुगुहासु च १०५।
साक्षसूत्रकराः सिद्धा अर्धोन्मीलितलोचनाः ।
आराधयंति भूतेशं सुंदरीषु दरीषु च १०६।
मंदारकुसुमामोद सुरभीकृतदिङ्मुखः ।
एष निर्झरिणी वारि झंकारमुखरः सदा १०७।
उपत्यकासु खेलद्भिर्वनस्थैः कलभैर्गजैः ।
कस्तूरीमृगयूथैश्च चारुचित्रमृगैस्तथा १०८।
विलसच्चामरीवृंदैर्विचित्रैः श्वापदैस्तथा ।
नदत्पारावतैश्चैव चकोरैश्चापि कोकिलैः १०९।
राजहंसमयूरैश्च सदा रम्यः स पर्वतः ।
सेव्यमानः सदा देवैर्गुह्यकैरप्सरोगणैः ११०।
राजोवाच।
बह्वाश्चर्यमयः शैलः सर्वसिद्धिसमाश्रयः ।
भगवन्कियदुच्छ्रायः कियदायामविस्तरः १११।
ऋषिरुवाच।
षट्त्रिंशद्योजनोच्छ्रायो मस्तके दशयोजनः ।
आयामविस्तराभ्यां स मूले षोडशयोजनः ११२।
हरिचंदनमंदारचूतराजिविराजितः ।
देवदारुद्रुमाकीर्णः सरलार्जुनशोभितः ११३।
कालागरुलवंगैश्च निकुंजैश्च लतागृहैः ।
विराजते गिरिश्रेष्ठः सदा पुष्पफलप्रदः ११४।
तं दृष्ट्वा पर्वतं रम्यं तदा दुर्भिक्षपीडितः ।
भृगुश्चकार तत्रैव वसतिं हृष्टमानसः ११५।
तस्मिन्मनोहरे शैले कंदरेषु वनेषु च।
चिरकालं तपस्तेपे तपःसु निरतो भृगुः ।
एवं तिष्ठति राजेंद्र द्विजे स्वाश्रमवासिनि ११६।
अवतीर्यागतौ शैलाद्द्वौ विद्याधरदंपती ।
समागम्य मुनिं नत्वा स्थितौ तावतिदुःखितौ ११७।
तथाविधौ च तौ दृष्ट्वा मंजुवाक्यं द्विजोऽब्रवीत् ।
वद विद्याधर प्रीत्या युवां किमतिदुःखितौ ११८।
श्रुत्वा तस्य मुनेर्वाक्यं प्राह विद्याधरो द्विजम् ।
श्रूयतां तापसश्रेष्ठ मम दुःखस्य कारणम् ११९।
सुकृतस्य फलं प्राप्य प्राप्तोऽस्मि त्रिदशालयम् ।
लब्ध्वाऽपि देवतादेहं मुखं व्याघ्रस्य मेऽभवत् १२०।
न जाने कर्मणः कस्य विपाकोऽयमुपस्थितः ।
इति संस्मृत्य संस्मृत्य न लेभे शर्म मे मनः १२१।
अन्यच्च श्रूयतां विप्र येन मे ह्याकुलं मनः ।
जायेयं मम कल्याणी मधुवाणी सुरूपिणी १२२।
नृत्यगीतकलाभिज्ञा सर्वसद्गुणशालिनी ।
यस्मिन्काले कुमारीयं तदा चाऽमलयानया १२३।
विपंचीं परिवादिन्या तंत्रीभिः सप्तभिर्भृशम् ।
वीणावादरसाभिज्ञस्तोषितो नारदो मुनिः १२४।
मुग्धभावेपि गायंत्या त्वनया रक्तकंठया ।
विचित्रस्वरनादज्ञो देवराजोऽपि तोषितः १२५।
अस्याः कौतुकभिन्नांग्या वादयंत्या विपंचिकाम् ।
नानावक्रगतिस्निग्धं श्रुत्वा तं पंचमध्वनिम् १२६।
तुतोषोद्भिन्नरोमांचो धुन्वन्मौलि महेश्वरः ।
शीलौदार्यगुणग्रामरूपयौवनसंपदा १२७।
नानया सदृशी नाके काचिदस्ति नितंबिनी ।
क्वेयं देवमुखी रामा क्वाहं व्याघ्रमुखः पुमान् १२८।
इति ब्रह्मन्सदाचिंत्य दह्यामि हृदि सर्वदा ।
इति विद्याधरप्रोक्तं श्रुत्वा चेक्ष्वाकुनंदनः १२९।
त्रिकालज्ञो भृगुः प्राह प्रहसन्दिव्यलोचनः ।
शृणु विद्याधरश्रेष्ठ विचित्रं कर्मणां फलम् १३०।
प्राप्य प्राज्ञा न मुह्यंति मुह्यंत्यज्ञानचेतसः ।
मक्षिकापदमात्रं तु यथा हि विषमं विषम् १३१।
क्रियात्वविहिताल्पापि विपाके दारुणा तथा ।
उपोष्यैकादशीं माघे तैलाभ्यंगः कृतस्त्वया १३२।
द्वादश्यां प्राग्भवे देहे तेन व्याघ्रमुखोभवान् ।
उपोष्यैकादशीं पुण्यां द्वादश्यां तैलसेवनात् १३३।
कुरूपं प्राप्तवान्देहं पुराह्येवं पुरूरवाः ।
दृष्ट्वात्मनः कुकायं स तेन दुःखेन दुःखितः १३४।
गिरिराजं समागम्य देवतासरसस्तटे ।
स्थित्वा च परमप्रीत्या शुचिः स्नातः कुशासने १३५।
नवनीलघनश्यामं नलिनायतलोचनम् ।
शंखचक्रगदापद्मधरं पीतांबरावृतम् १३६।
कौस्तुभेन विराजंतं वनमालाधरं हरिम् ।
चिंतयन्हृदये राजा निग्रहीताखिलेंद्रियः १३७।
मासत्रयं निराहारस्तपस्तेपे सुदारुणम् ।
अल्पेन तपसा तुष्टः सप्तजन्मकृतार्चनः १३८।
संस्मरंस्तस्य भूपस्य तदा प्रादुरभूत्स्वयम् ।
माघस्य शुक्लपक्षे तु द्वादश्यां मकरे रवौ १३९।
शंखाद्भिरभिषिच्याशु मुदा तं चक्रवर्तिनम् ।
वासुदेवो ददौ तस्मै स्मारयंस्तैलचेष्टितम् १४०।
अतीव सुंदरं रूपं कमनीयं मनोहरम् ।
येन तं चकमे देवी उर्वशी देवनायिका १४१।
इत्थं लब्धवरो राजा कृतकृत्यः पुरं गतः ।
इति कर्मगतिं ज्ञात्वा किं विद्याधर खिद्यते १४२।
भवान्परिजिहीर्षुश्चेद्दानवस्य विरूपताम् ।
शीघ्रं मद्वचनादेव प्राचीनाघविनाशनम् १४३।
माघमासे कुरु स्नानं मणिकूटनदीजले ।
मुनिसिद्धसुरैर्जुष्टे कथयिष्यामि तद्विधिम् १४४।
तवभाग्यवशान्माघो निकटः पंचमेऽहनि ।
पौषस्यैकादशीं शुक्लामारभ्य स्थंडिलेशयः १४५।
मासमेकं निराहारस्त्रिकालं स्नानमाचर ।
त्रिकालमर्चयन्विष्णुं त्यक्तभोगो जितेंद्रियः १४६।
माघस्यैकादशीशुक्ला यावद्विद्याधरोत्तम ।
ततो निर्दग्धपापं त्वां द्वादश्यां पुण्यवासरे १४७।
अभिषिच्य शिवैस्तोयैर्मंत्रपूतैरहं सुर ।
कामवक्त्रोपमं वक्त्रं करिष्यामि तवानघ १४८।
देवतावदनोभूत्वा त्वं विद्याधरसत्तम ।
अनया वरवर्णिन्या सार्द्धं क्रीड यथासुखम् १४९।
ज्ञातमाघप्रभावस्त्वं माघस्नानं सदा कुरु ।
यथामनोरथावाप्तिर्जायते तव सर्वदा 6.125.१५०।
इत्युक्तं भृगुणा तस्मै सर्वज्ञेन महात्मना ।
विद्याधराय राजेंद्र पुनर्गाथा उदाहृता १५१।
माघस्नानैर्विपन्नाश माघस्नानैरघक्षयः ।
सर्वयज्ञाधिको माघः सर्वदानफलप्रदः १५२।
माघो गर्जति यज्ञेभ्यो माघो योगाच्च गर्जति ।
तीव्राच्च तपसो माघो भो विद्याधर गर्जति १५३।
पुष्करे च कुरुक्षेत्रे ब्रह्मावर्ते पृथूदके ।
अविमुक्ते प्रयागे च गंगासागरसंगमे १५४।
यत्फलं दशभिर्वर्षैः प्राप्यते नियमैर्नरैः ।
तत्फलं प्राप्यते माघे त्र्यहस्नानान्न संशयः १५५।
स्वर्गलोके चिरं रागो येषां मनसि वर्तते ।
यत्र क्वापि जले तैस्तु स्नातव्यं मकरे रवौ १५६।
आयुरारोग्यसंपत्तिरूपसौभाग्यता गुणाः ।
येषां मनोरथस्तैस्तु न त्याज्यं माघमज्जनम् १५७।
ये च बिभ्यंति नरकाद्ये दरिद्राच्च संचितात् ।
सर्वथा तैः प्रयत्नेन माघे कार्यं निमज्जनम् १५८।
दारिद्र्य पापदौर्भाग्य पंकप्रक्षालनाय च ।
माघस्नानान्न चान्योऽस्ति उपायो राजसत्तम १५९।
श्रद्धाहीनानि कर्माणि तथात्यल्पफलानि वै ।
फलं ददाति संपूर्णं माघस्नानं यथा तथा १६०।
अकामो वा सकामो वा यत्र क्वापि बहिर्जले ।
इहामुत्र च दुःखानि माघस्नायी न विंदति १६१।
पक्षद्वये यथा चंद्रो वर्द्धते क्षीयते तथा ।
पातकं क्षीयते माघे पुण्यराशिश्च वर्धते १६२।
यथा च खन्या जायंते रत्नानि विविधानि च ।
स्नानात्पुण्यानि जायंते नराणां माघतस्तथा १६३।
कामधेनुर्यथा कामं चिंतामणिस्तु चिंतितम् ।
माघस्नानं ददातीह तद्वत्सर्वान्मनोरथान् १६४।
कृते तपः परं ज्ञानं त्रेतायां यजनं तथा ।
द्वापरे तु कलौ ज्ञानं माघः सर्वयुगेषु च १६५।
सर्वेषामेव वर्णानामाश्रमाणां च भूपते ।
माघस्नानं तु धर्मस्य धाराभिरभिवर्षति १६६।
वसिष्ठ उवाच।
इति वाक्यं भृगोः श्रुत्वा तस्मिन्नेवाश्रमे सुरः ।
सहैव भृगुणा माघे गिरौ निर्झरिणी तटे १६७।
यथोक्तविधिना स्नानमकरोद्भार्यया सह ।
भृगोरनुग्रहात्सोऽथ संप्राप्य मनसेप्सितम् १६८।
देवतावदनो भूत्वा मुमुदे मणिपर्वते ।
आजगाम भृगुर्विध्यं तमनुग्राह्य हर्षितः १६९।
मणिमयगिरिराजे स्नानमात्रेण माघे मदनवदनरूपस्तत्र विद्याधरोऽभूत् ।
क्षपितनियमदेहो विंध्यपादावतीर्णो भृगुरपि सहशिष्यैराजगामाथ रेवाम् १७०।
अखिलभुवनसारं माघमाहात्म्यमेतद्द्विजवरभृगुणोक्तं भूपविद्याधराय ।
विविधफलविचित्रं यः शृणोतीह नित्यं रुचिरसकलकामान्देववत्प्राप्नुयात्सः १७१।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे माघमाहात्म्ये वसिष्ठदिलीपसंवादे पंचविंशत्यधिकशततमोऽध्यायः १२५।