पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ११६

विकिस्रोतः तः
← अध्यायः ११५ पद्मपुराणम्
अध्यायः ११६
वेदव्यासः
अध्यायः ११७ →

ऋषय ऊचुः।
अस्पृश्यत्वे कथं जातः सूत बोधितरुस्त्वयम् ।
स्पृश्यत्वं च कथं प्राप्तस्तथा च शनिवासरे ।
एतद्विस्तरतः सर्वं वक्तुमर्हति नो भवान् १।
सूत उवाच।
समुद्रमथनाद्यानि रत्नान्यापुः सुरेश्वराः ।
श्रियं च कौस्तुभं तेषां विष्णवे प्रददुः सुराः २।
यावदंगीचकारासौ लक्ष्मीं भार्यार्थमात्मनः ।
तावद्विज्ञापयामास लक्ष्मीस्तं चक्रपाणिनम् ३।
लक्ष्मीरुवाच।
असंस्कृत्य कथं ज्येष्ठां त्वं कनिष्ठां प्रणीयसे ।
तस्मान्ममाग्रजामेतामलक्ष्मीं मधुसूदन ४।
विवाह्य नय मां पश्चादेष धर्मः सनातनः ५।
सूत उवाच।
इति तद्वचनं श्रुत्वा स विष्णुर्लोकभावनः ।
उद्दालकाय मुनये सुदीर्घतपसे तदा ६।
आत्मवाक्यानुरोधेन तामलक्ष्मीं ददौ किल ।
स्थूलास्यां शुभ्रदशनां राजतीं बिभ्रतीं तनुम् ७।
विततां रक्तनयनां रूक्षपिंगशिरोरुहाम् ।
समुनिर्विष्णुवाक्यात्तामंगीकृत्य स्वमाश्रमम् ८।
वेदध्वनिसमायुक्तमानयामास धर्मवित् ।
होमधूमसुगंधाढ्यं विद्याघोषविनादितम् ९।
आश्रमं तं समालोक्य व्यथिता साब्रवीदिदम् ।
ज्येष्ठोवाच।
न हि वासोऽनुरूपोऽयं वेदध्वनियुतो मम ।
नात्रागमिष्ये भो ब्रह्मन्नयस्वान्यत्र मा चिरम् १०।
उद्दालक उवाच।
कथं नायासि किंवात्र वर्त्तते संमतं तव ।
तव योग्या च वसतिः का भवेच्च वदस्व तत् ११।
ज्येष्ठोवाच।
वेदध्वनिर्भवेद्यस्मिन्नतिथीनां च पूजनम् ।
यज्ञदानादिकं वापि नैव तत्र वसाम्यहम् १२।
परस्परानुरागेण दांपत्यं यत्र वर्तते ।
पितृदेवार्चनं यत्र नैव तत्र वसाम्यहम् १३।
दुरोदररता यत्र परद्रव्यापहारिणः ।
परदाररताश्चापि तत्र स्थाने रतिर्मम १४।
गोवधो मद्यपानं च यत्र संजायतेनिशम् ।
ब्रह्महत्यादिपापानि तस्मिन्स्थाने रतिर्मम ।
वृद्धसज्जनविप्राणां यत्र स्यादपमाननम् ।
निष्ठुरं भाषणं यत्र तत्र नित्यं वसाम्यहम् १५।
सूत उवाच।
इति तद्वचनं श्रुत्वा विषण्णवदनोऽभवत् ।
उद्दालकमुनिर्विष्णोर्वाक्यं स्मृत्वा न चोचिवान् १६।
सोऽगच्छद्यत्र तत्रास्य पूजामालोक्य साब्रवीत् ।
नायामीति ततः सोऽपि भ्रमादत्यातुरोऽभवत् ।
उद्दालकस्ततो वाक्यं तामलक्ष्मीमुवाच ह १७।
उद्दालक उवाच।
अश्वत्थवृक्षमूलेऽस्मिन्नलक्ष्मि स्थीयतां क्षणम् ।
आवासस्थानमालोक्य यावदायाम्यहं पुनः १८।
सूत उवाच।
इति तत्र स संस्थाप्य जगामोद्दालकस्तदा ।
प्रतीक्षंती चिरं तत्र यदा तन्न ददर्श सा १९।
तदा रुरोद करुणं भर्तृत्यागेन दुःखिता ।
तत्रस्थां रुदतीलक्ष्मीर्वैकुंठभुवनेऽशृणोत् २०।
तदा विज्ञापयामास विष्णुमुद्विग्नमानसा २१।
लक्ष्मीरुवाच।
स्वामिन्मद्भगिनी ज्येष्ठा भर्तृत्यागेन दुःखिता ।
तामाश्वासयितुं याहि कृपालो यद्यहं प्रिया २२।
सूत उवाच।
लक्ष्म्या सह ततो विष्णुस्तत्रागच्छत्कृपान्वितः ।
आश्वासयदलक्ष्मीं तामिदं वचनमब्रवीत् २३।
श्रीविष्णुरुवाच।
अश्वत्थवृक्षमासाद्य सदाऽलक्ष्मि स्थिरा भव ।
ममांशसंभवो ह्येष आवासस्ते मया कृतः २४।
प्रत्यहं येऽर्चयिष्यंति त्वां ज्येष्ठां गृहधर्मिणः ।
तेष्वियं श्रीः कनिष्ठा ते भगिनी निश्चलास्तु वै २५।
सूत उवाच।
इत्यूर्जस्य च माहात्म्यं ये शृण्वंति पठंति च ।
तेषां विष्णुपुरे वासो भवेदाभूतसंप्लवम् २६।
रोगापहं पातकनाशकृत्परं सुबुद्धिदं पुत्रधनादिसाधनम् ।
मुक्तेर्निदानं न हि कार्तिकाद्वै विष्णुप्रियादन्यदिहास्ति भूतले २७।
विष्णुप्रियं सकलकल्मषनाशनं च सत्पुत्रपौत्रधनधान्यसमृद्धिकारि ।
ऊर्जव्रतं सनियमं कुरुते मनुष्यः किं तस्य तीर्थपरिशीलनसेवया च २८।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे अलक्ष्म्युपाख्यानंनाम षोडशाधिकशततमोऽध्यायः११६।