पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः १०९

विकिस्रोतः तः
← अध्यायः १०८ पद्मपुराणम्
अध्यायः १०९
वेदव्यासः
अध्यायः ११० →

शंभुरुवाच-
अत्र ते कीर्तयिष्यामि कथां पापप्रणाशिनीम् ।
श्रुत्वा यां प्राप धर्मात्मा शिवभक्तिमनुत्तमाम् १।
इक्ष्वाकुर्नाम विप्रेंद्रो महाविद्यो महामतिः ।
बहुशास्त्रप्रवीणश्च नीतिशास्त्रविशारदः २।
न यष्टा न च दाता च न देवानां च पूजकः ।
न चाध्यापयिता वेदं न व्याख्याता श्रुतस्य च ३।
न पुराणेतिहासानां श्रुतीनामागमस्य वा ।
यत्नाद्भोक्ता तथा देहसंस्कारैकप्रवर्तकः ४।
तादृशस्य द्विजस्याथ समालक्ष्यायुरत्यगात् ।
लक्षांतरे तथैकस्मिन्वत्सरे मासि पंचमे ५।
तृतीय दिवसे रात्र्यां पुराणं श्रुतवानिदम् ।
स्वसंपादितवित्तस्य येन दानं न वै कृतम् ६।
दिनेदिने भुज्यमानं निःसारं स्यात्क्रमेण हि ।
वर्षाण्येव च तावंति नरके पच्यते ध्रुवम् ७।
कृमियोनिसहस्रं च अनुभूय ततः परम् ।
दरिद्रो व्याधितोऽबंधुर्दुष्टभार्यो बहुप्रजः ८।
दिनेदिने भिक्षितेन याचितेन च जीवनम् ।
यन्न क्वापि च बीजानां मग्नानामथ मार्गणात् ९।
लब्धेनजीवनं कर्म भृत्यानामथ जीवनम् ।
मध्ये श्रोत्रविहीनश्च नेत्रहीनः स्खलन्मलः १०।
एवं पुराणं श्रुत्वा साविक्ष्वाकुर्भृशदुःखितः ।
मनसा चिंतयच्चेदं स्मारं स्मारं द्विजाधमः ११।
रूपपुष्पैर्माहिष्मयी दुर्गापि फलवर्जिता ।
तथा पुराणरहिता विद्या नो गतिदर्शनी १२।
बहुशास्त्रं समभ्यस्य बहुवेदान्सविस्तरान् ।
पुंसोश्रुतपुराणस्य सम्यग्याति न दर्शनम् १३।
शंभुरुवाच-
एवं चिंतयतस्तस्य अकालमरणं त्वभूत् ।
यमलोकं गतश्चाथ यमेन परिभाषितः १४।
यम उवाच-
अनेकपापयुक्तोसि पुण्यं नैव महत्तव ।
न वेदाध्यापनात्प्राप्तं पापं च विदितं तव १५।
कोटिवर्षाणि नरके तवस्थितिरिति द्विज ।
आयुरस्ति तवात्यल्पं गम्यतां पौर्विकीं तनुम् १६।
कुरु पुण्यं हितं दानं देवतापूजनं जपम् ।
सांगमध्यापनं विप्र भोजनं भस्मधारणम् १७।
भज विश्वेश्वरं देवं देवदेवमुमापतिम् ।
तस्य प्रयत्नमात्रेण मम लोकं न गच्छसि १८।
यत्किंचित्प्रत्यहं पापिन्पुराणं शृणु सादरम् ।
ततस्तच्छ्रवणादेव नेक्षसे मम यातनाः १९।
यमस्य वचनं श्रुत्वा ब्राह्मणः स्वां ययौ तनुम् ।
अथेशपूजनकृते यत्नमास्थाय स द्विजः २०।
अगमन्मुनिवर्यं तु जाबालिशिवपूजकम् ।
तपः स्वाध्यायसंपन्नं श्रुतिस्मृतिविवेचकम् २१।
पुराणतत्त्ववेत्तारं लक्षशिष्यसमावृतम् ।
जराशिथिलसर्वांगं वेदवेदांगपारगम् २२।
द्रष्टुकामो ययौ शैलं मंदरं चारुकंदरम् ।
नानाविहंगसंपूर्णं नानापुष्पलतावृतम् २३।
सर्वर्तुकुसुमोपेतं नानागंधोपशोभितम् ।
किन्नराणां च मिथुनैर्गीतपूर्णमहागुहम् २४।
अनेकरूपलावण्य वनितोषितपादपम् ।
लंबमानविचित्राभिस्ताभिः शोभितपादपम् २५।
रतिश्रमप्रसुप्तानां बोधनादितषट्पदम् ।
कूजंति च पिकाः कामं वियुक्तानां युजे किल २६।
नानामुनिगणाकीर्णं प्रशांतमृगचारिणम् ।
अप्सरोगणसंकीर्णं गंधर्वगणसेवितम् २७।
नानासिद्धमुखोद्भूतगीतपूर्णवनांतरम् ।
विचित्रफलसंपूर्णं नानादेवालयान्वितम् २८।
प्रासादशतसंबाधं नानागृहसमन्वितम् ।
सिंहाननैर्गजमुखैरुलूकवदनैरथ २९।
अमुखैर्विमुखैरुग्रैरर्द्धवक्त्रैर्मृगीमुखैः ।
रुरुजंतुकगोधाहि वानरर्क्षमुखैरपि ३०।
व्याघ्रवृश्चिकभल्लूष्ट्रश्वानगर्दभतुंडकैः ।
समस्तजीववदनसदृशास्यैर्गणेश्वरैः ।
वल्लीमुखैर्वृक्षमुखैः शिलावक्त्रैरयोमुखैः ३१।
शंखमुक्तादिजलजवदनैरुपशोभितम् ।
अधिकांगैरनंगैश्च जटिलैः शिखिमुंडितैः ३२।
पत्रिवक्त्रैर्द्विषड्वक्त्रैस्त्रिविग्रहमुखैरपि ।
घंटास्यैः शूर्पवदनकर्णपादमुखैरपि ३३।
घंटामुखैर्वेणुमुखैः किंकिणीवदनैरपि ।
यादृग्वस्तु जगत्यस्ति तादृशास्यैरयोमुखैः ३४।
कैश्चिन्निभृतकंदर्परूपलावण्यकोमलैः ।
कोटिसूर्यप्रतीकाशैश्चंद्र कोटिसमप्रभैः ३५।
नानावर्णैर्विश्वमुखैर्विश्वरूपैश्चतुर्मुखैः ।
द्विमुखैः पंचवक्त्रैश्च त्रिमुखैः षण्मुखैरपि ३६।
एकानेकमुखैः शांतैः सर्वदा सुखिभिर्युतम् ।
नानाभोगसमृद्धैश्च रतिकामसमैरपि ३७।
लक्ष्मीनारायणमुखैरुमेशसमविग्रहैः ।
नानारूपधरैश्चान्यैः सेवितं मंदराचलम् ३८।
धेनवो यत्र वेदाश्च मीमांसावत्स संयुताः ।
धर्मादयः सवर्ष्माणः पुराणानि च कर्मणा ३९।
स्मृतीतिहासजातानि आगमाश्च शरीरिणः ।
स्थिताश्च मंदरे यत्र सशैलः पापनाशनः ४०।
तस्य मध्ये महापुण्यं पुरं परमशोभितम् ।
वापीतडागोपवनप्रासादशतशोभितम् ४१।
सप्तप्राकारपरिखं रत्नाट्टालकसंयुतम् ।
गोपुरैर्नवभिर्युक्तं विचित्रगृहसंयुतम् ४२।
यस्य चाप्रतिमं तेज उष्णशीतादिवर्जितम् ।
तन्मध्ये नगरी पुण्या तन्मध्ये च सभा शुभा ४३।
तस्यां भद्रासनं मध्ये वेदपादविचित्रितम् ।
सर्वोपनिषदाकॢप्तं पादपीठं सुशोभनम् ४४।
पुराणान्यागमास्तस्य स्वस्तीति शिवपादयोः ।
तत्रासीनो महायोगी गोक्षीरसदृशाकृतिः ४५।
मंदस्मितसुचार्वास्योद्व्यष्टवर्षवयाः प्रभुः ।
दधान उरसामालां मणिरुद्राक्षकल्पिताम् ४६।
बिभ्राण उपवीतं च कर्णिकारसमद्युतिः ।
सुरत्नकुंडलो देवः किरीटकनकांबरः ४७।
नानाभूषणसंयुक्तो नानागंधविलेपनः ।
वामांकन्यस्तगिरिजो वीक्षमाणस्तदाननम् ४८।
मुग्धां च सुमुखीं बालां नवयौवनशोभिताम् ।
भूषितां चारुसर्वांगीं बिभ्रतीं कनकांबुजम् ४९।
आलिंग्य वामेनकरेण देवीं दक्षेण तस्या मुखमुन्नमय्य ।
स्पृष्ट्वा शिरो वामकरेण तस्या दक्षेण कुर्वंस्तिलकं च देवः ५०।
भक्तिर्वीजयते देवं प्रणव व्यजनेन च ।
पूजाकांतापि कुसुमैर्मालां देवाय बिभ्रती ५१।
ज्ञप्तिर्विरक्तिर्वनिते बिभ्रत्यौ योगचामरे ।
समाधिः कार्यकर्तास्य धारणायोषिदस्य च ५२।
यमाश्चनियमाश्चैव किंकरास्तस्य कीर्तिताः ।
प्राणायामः पुरोधास्तु प्रत्याहारः सुवर्णधृक् ५३।
ध्यानं च द्रविणाध्यक्षः सत्यं सेनापतिस्तथा ।
ब्रह्मप्रभृतिकीटांताः पशवस्तत्पतिः शिवः ५४।
पशूनां पालको धर्मः स्यादधर्मश्च तस्करः ।
मायापाशेन ते बद्धा मोचनी काशिका मृतिः ५५।
नानाविधाश्च प्रमदा देवदेवमुमापतिम् ।
एतादृशमुमानाथं कोटिजंतुरनुस्मरेत् ५६।
इष्टान्भोगानवाप्याथ शिवलोके महीयते ।
ब्रह्मविष्णुमहेंद्राद्यास्तत्पुरद्वारपालकाः ५७।
लक्ष्मीसरस्वतीदेव्यौ देहल्याद्यर्च्चनेक्षितेः ।
नियुक्ते देवदेवस्य देवाश्च सुरयोषितः ५८।
दास्यो देवाः समस्ताश्च दासा यस्य महात्मनः ।
एतादृशमहाशैलमिक्ष्वाकुः संददर्श ह ५९।
मुनिं प्रणम्य जाबालिमिदमाह वचस्तदा ।
गंतुकामो महाशैलं शक्तोस्यस्मिन्न वा मुने ६०।
ममायुरल्पं कथितं यमेन ज्ञानिना पुरा ६१।
नरकश्च बहुःप्रोक्तः कथं श्रेयो भविष्यति ।
जाबालिरुवाच-
मयापि सर्वमेतत्ते ज्ञातं दिव्येन चक्षुषा ६२।
आयुर्दशदिनं ब्रह्मन्विद्वानपि न धर्मकृत् ।
न तपस्ते ह्यनभ्यासान्न च योगोऽल्पकालतः ६३।
न दानं द्रविणाभावादसामर्थ्यात्तथार्हणा ।
न यज्ञो न व्रतं पूर्तं न च पुण्यमनायुषः ६४।
न चाध्यापनतीर्थादि सेवाकालविरोधतः ।
तस्मात्तत्पापनाशाय प्रायश्चित्तं न विद्यते ६५।
गतिप्रदं तथा धर्मं गच्छ वा तिष्ठ वा मुने ।
इक्ष्वाकुरुवाच-।
यावज्जीवं प्रतिज्ञाय क्रियते यो वृषो द्विज ६६।
तेन पापपरीहारो भविष्यति सुनिश्चितम् ।
तं ब्रूहि येन धर्मेण मम पापं प्रणश्यति ६७।
केन वा पुण्ययोगेन स्वर्गतिश्च भविष्यति ।
शरणं भव विप्रर्षे नरकादतिबिभ्यतः ६८।
सर्वधर्मफलं प्राहुः शरणागतपालनम् ।
जाबालिरुवाच-
सत्यं स्वल्पेन कालेन न तादृग्लभ्यते वृषः ६९।
अमृतेत्वनृते शक्यं वक्तुं स्वप्नांतरेष्वपि ।
रहस्यमेकं किंचित्तु यस्य कस्यापि नोच्यते ७०।
इक्ष्वाकुरुवाच-
शरणं पालय मुने कालो मे निर्गमिष्यति ।
जाबालिरुवाच-
मम प्राणाधिकं विप्र रहस्यं श्रुतिचोदितम् ७१।
शिवलिंगार्चनं नाम ब्रह्मादिभिरनुष्ठितम् ।
समस्तपापशमनं सर्वोपद्रवनाशनम् ७२।
भुक्तिमुक्तिप्रदं तस्माच्छिवपूजां समाचर ।
नातिक्रामेद्यदि मुने शिवलिंगार्चनं शुभम् ७३।
यः शंभुपूजां विच्छिंद्यात्तेन च्छिन्नं हि मे शिरः ।
वरं शूलविनिक्षेपो वरं शाल्मलिकर्षणम् ७४।
वरं प्राणपरित्यागो नैव पूजाव्यतिक्रमः ।
वरं वह्निप्रपतनं वरं चाधःशिरः कृतम् ७५।
वरं स्वमलभुक्तिर्वा नेशपूजाव्यतिक्रमः ।
अपूजयित्वा चेशानं यो हि भुंक्ते नराधमः ७६।
पापानामन्नरूपाणां तस्य भोजनमुच्यते ।
अनुच्चार्य पदं शंभोर्भुङ्क्ते यदि च खादति ७७।
शिवेति मंगलं नाम यस्य वाचि प्रवर्तते ।
भस्मीभवंति तस्याशु महापातककोटयः ७८।
शिवं प्रदक्षिणीकृत्य यो नमस्यति मानवः ।
भूमेः प्रदक्षिणं कृत्वा यत्तत्पुण्यमवाप्नुयात् ७९।
प्रदक्षिणत्रयं कृत्वा नमस्कारं च पंचधा ।
पुनः प्रदक्षिणं कृत्वा नत्वा मुच्येत पातकैः ८०।
सर्ववाद्यानि यः कुर्यात्कारयेद्वा शिवालये ।
बलेन महता युक्तो वेदसेव्यत्र जायते ८१।
श्रावयेद्यः पुराणानि देवदेवं त्रिलोचनम् ।
सर्वपापविनिर्मुक्तो वसेच्छिवपुरे कृती ८२।
तं नित्यमादरेणेशो वक्ति वाक्यं प्रियं सदा ।
एतत्संक्षेपतः प्रोक्तमीशपूजनमुत्तमम् ८३।
अल्पायुश्च भवान्विप्र शिवपूजनमाचर ।
त्रिकालं वा द्विकालं वा एककालमथापि वा ८४।
यामं यामार्धमथवा शिवपूजनमाचर ।
वानप्रस्थाश्रमो भूत्वा वानप्रस्थकृताश्रयः ८५।
वानप्रस्थप्रसूनैश्च प्रातःपूजय शंकरम् ।
श्रीफलैः शतपत्रैश्च पद्मसौगंधिकैरपि ८६।
नीपैर्जपाभिः पुन्नागैः करवीरैश्च पाटलैः ।
तुलस्याच रविदलैरपराजितया तथा ८७।
अपामार्गदलै रुद्र जटादमनकेन च ।
सर्वैरेभिः समफलैर्बिल्वपत्रैश्च धूर्तकैः ८८।
द्रोणैः शिरीषैः शक्तैश्च दूर्वया कोरकैरपि ।
नंद्यावर्तैरक्षतैश्च तिलमिश्रैश्च केवलैः ८९।
अन्यैरपि यथाशक्ति प्रातः संपूजयेच्छिवम् ।
कर्णिकारैश्च सौवर्णर्दूवर्ययापि शिवार्चनम् ९०।
मुकुलैर्नार्चयेद्देवं चंपकैर्जलजं विना ।
जलजानां च सर्वेषां पत्राणामक्षतस्य च ९१।
कुशपुष्पस्य रजतसुवर्णकृतयोरपि ।
अन्यत्कृत्वा यथा यत्तु तैलपक्वं भवेन्नृप ९२।
न तत्पर्युषितं प्रोक्तमपूपादि गमिष्यति ।
उक्षितं यत्फलायुक्तं तैलक्षाराम्लजीरकैः ९३।
जले तत्प्रोक्षितं मूलफलशाकादिकं नृप ।
न च पर्युषितं प्रोक्तं गंगातोयं च सागरम् ९४।
महानदीजलं सर्वं केदारजलमेव च ।
ह्रदरूपेण यत्तीर्थं कूपतीर्थेन राघव ९५।
तडागवापीसरसां कूपेनापां च यद्भवेत् ।
तत्तीर्थतोयं सर्वं च न च पर्युषितं भवेत् ९६।
न रात्रौ जलमाहार्यं दिवा संपादयेज्जलम् ।
ससैकतं तथा धार्यं न च पर्युषितं हि तत् ९७।
एवं विदित्वा पूजां त्वं शिवलिंगे समाचर ।
शंभुरुवाच-
एवमुक्तोथ मुनिना इक्ष्वाकुर्ब्राह्मणप्रियः ९८।
शिवपूजापरो भूत्वा दिनाष्टकमतिष्ठत ।
नवमेऽथ दिने प्राप्ते प्रातःकाले कृतार्चनः ९९।
मरणावसरे प्राप्ते शिवपूजां विधाय सः ।
स्वान्प्राणानुपहाराय तत्याजैव महेशितुः १००।
मृतं तमथ विज्ञाय यमदूताः समागताः ।
यमलोकप्रापका ये यतमास्थाय तस्थिरे १०१।
शैवाश्चापि समायाता दूता वह्निमुखादयः ।
तेषामन्योन्यवादोभून्मामको मामकस्त्विति १०२।
अथ यामः पाशपाणिः शिवदूतमथार्दयत् ।
अथ वह्निमुखः क्रुद्धो यमदूतशतं ततः १०३।
महाकायस्तथा भूत्वा गृहीत्वा च करेण तत् ।
शिरांसि च तथैकेनापीड्य चिच्छेद शष्पवत् १०४।
मारयित्वा ततो दूतानादायेक्ष्वाकुमभ्यगात् ।
निवेदयामास च तं वीरभद्राय धीमते १०५।
स चापि शंकरायाथ तं प्राह च महेश्वरः ।
त्वयाष्टदिनपूजैव कृता कृष्णा दिने दिने १०६।
त्वमनिंदः पुरा मां च लिंगं शिश्नाग्रमित्युत ।
तेनैव पापयोगेन शिश्नवक्त्रो भविष्यसि १०७।
शिश्नाग्रे विवरं चक्रं जिह्वानासादिवर्जितः ।
पूर्वं मन्नामवक्तृत्वाद्वक्ता चापि भविष्यसि १०८।
अथेशवचनात्सोपि तथाभूतोभवत्क्षणात् ।
शंभुरुवाच-
य इदं शृणुयान्नित्यं पुराणाख्यानमुत्तमम् १०९।
विमुक्तपापबंधश्च शिवभक्तो भविष्यति ।
स याति च शिवस्थाने वक्ता चापि तथा भवेत् ११०।
यश्च वक्ति कथामेनां हरेण सदृशो भवेत् ।
उक्त्वा कथामिमां पूर्वमधीरो नाम भूमिपः १११।
स्वर्गं स गतवान्राजा कृतपापोथ भार्यया ११२।
इति श्रीपद्मपुराणे पातालखंडे शिवराघवसंवादे विभूतिमाहात्म्येन।
नवोत्तरशततमोऽध्यायः १०९ ।