पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०६४

विकिस्रोतः तः
← अध्यायः ०६३ पद्मपुराणम्
अध्यायः ०६४
वेदव्यासः
अध्यायः ०६५ →

शेष उवाच।
शत्रुघ्नं पतितं वीक्ष्य सुरथः प्रवरो नृपः ।
प्रययौ मणिना सृष्टे रथे तिष्ठन्महाद्भुते १।
पुष्कलस्तु रणे पूर्वं पातितः स विचारयन् ।
लवं ययौ तदा योद्धुं महावीरबलोन्नतम् २।
सुरथः कुशमासाद्य बाणान्मुंचन्ननेकधा ।
व्यथयामास समरे महावीरशिरोमणिः ३।
सुरथं विरथं चक्रे बाणैर्दशभिरुच्छिखैः ।
धनुश्चिच्छेद तरसा सुदृढं गुणपूरितम् ४।
अस्त्रप्रत्यस्त्रसंहारैः क्षैपणैः प्रतिक्षेपणैः ।
अभवत्तुमुलं युद्धं वीराणां रोमहर्षणम् ५।
अत्यंतं समरोद्युक्ते सुरथे दुर्जये नृपे ।
कुशः संचिंतयामास किंकर्तव्यं रणे मया ६।
विचार्य निशितं घोरं सायकं समुपाददे ।
हननाय नृपस्यास्य महाबलसमन्वितः ७।
तमागतं शरं दृष्ट्वा कालानलसमप्रभम् ।
छेत्तुं मतिं चकाराशु तावल्लग्नो महाशरः ८।
मुमूर्च्छ समरे वीरो महावीरबलस्ततः ।
पपात स्यंदनोपस्थे सारथिस्तमुपाहरत् ९।
सुरथे पतिते दृष्ट्वा कुशं जयसमन्वितम् ।
त्रासयंतं वीरगणानियाय पवनात्मजः १०।
समीरसूनुं प्रबलमायांतं वीक्ष्य वानरम् ।
जहास दर्शयन्दंतान्कोपयन्निव तं क्रुधा ११।
उवाच च हनूमंतमेहि त्वं मम संमुखम् ।
भेत्स्ये बाणसहस्रेण मृतो यास्यसि यामिनीम् १२।
इत्युक्तो हनुमाञ्ज्ञात्वा रामसूनुं महाबलम् ।
स्वामिकार्यं प्रकर्तव्यमिति कृत्वा प्रधावितः १३।
शालमुत्पाट्य तरसा विशालं शतशाखिनम् ।
कुशं वक्षसि संलक्ष्य ययौ योद्धुं महाबलः १४।
शालहस्तं समायांतं हनूमंतं महाबलम् ।
त्रिभिः क्षुरप्रैर्विव्याध हृदि चंद्रोपमैर्बली १५।
स बाणविद्धस्तरसा कुशेन बलशालिना ।
शालेन हृदि संजघ्ने दंतान्निष्पिष्य मारुतिः १६।
शालाहतस्तदा बालः किंचिन्नाकंपत स्मयात् ।
तदा वीराः प्रशंसां तु प्रचक्रुस्तस्य बाल्यतः १७।
स शालेन हतो वीरः संहारास्त्रं समाददे ।
संहन्तुं वैरिणं कोपात्कुशः स परमास्त्रवित् १८।
संहारास्त्रं समालोक्य दुर्जयं कुशमोचितम् ।
दध्यौ रामं स्वमनसा भक्तविघ्नविनाशकम् १९।
तदा मुक्तं कुशेनाशु तदस्त्रं हृदि मारुतेः ।
लग्नं महाव्यथाकारि तेन मूर्च्छामितः पुनः २०।
मूर्च्छां प्राप्तं तु तं दृष्ट्वा प्लवंगं बलसंयुतः ।
विव्याध सायकैस्तीक्ष्णैः सैन्यं तत्सकलं महत् २१।
तस्य बाणायुतैर्भग्नं बलं सर्वं रणांगणे ।
पलायनपरं जातं चतुरंगसमन्वितम् २२।
तदा कपिपतिः कोपात्सुग्रीवो रक्षको महान् ।
अभ्यधावन्नगान्नैकानुत्पाट्य कुशमुद्भटम् २३।
कुशः सर्वान्प्रचिच्छेद लीलया प्रहसन्नगान् ।
पुनरप्यागतान्वृक्षांश्चिच्छेद तरसा बली २४।
अनेकबाणव्यथितः सुग्रीवः समरांगणे ।
जग्राह पर्वतं घोरं कुशमस्तकमध्यतः २५।
कुशस्तं नगमायांतं वीक्ष्य बाणैरनेकधा ।
निष्पिपेष चकाराशु महारुद्रांगयोग्यताम् २६।
सुग्रीवस्तन्महत्कर्म दृष्ट्वा बालेन निर्मितम् ।
जयाशाप्रतिनिर्वृत्तो बभूव समरांगणे २७।
रणमध्ये दुराक्रांतं कुशं लांगूलताडकम् ।
अत्यमर्षीरुषाक्रांतस्तं हंतुं नगमाददे २८।
आत्मानं हंतुमुद्युक्तं वीक्ष्य सुग्रीवमादरात् ।
ताडयामास बहुभिः सायकैः शितपर्वभिः २९।
स ताडितो बहुविधैः शरैः पीडासमन्वितः ।
कुशं हंतुं समारब्धो ययौ शालं समाददे ३०।
तदापि च कुशो वीरो वारुणास्त्रं समाददे ।
बबंध तं च पाशेन दृढेन स लवाग्रजः ३१।
स बद्धः पाशकैः स्निग्धैः कुशेन बलशालिना ।
पपात रणमध्ये वै महावीरैरलंकृते ३२।
सुग्रीवं पतितं दृष्ट्वा वीराः सर्वत्र दुद्रुवुः ।
जयमाप लवभ्राता महावीरशिरोमणिः ३३।
तावल्लवो भटाञ्जित्वा पुष्कलं चांगदं तथा ।
प्रतापाग्र्यं वीरमणिं तथान्यानपि भूभुजः ३४।
जयं प्राप्य रणे वीरो लवो भ्रातरमागमत् ।
संग्रामे जयकर्तारं वैरिकोटिनिपातकम् ३५।
परस्परं प्रहृषितौ परिरंभं प्रकुर्वतः ।
जयं प्राप्तौ तदा वार्तां मुने चक्रतुरुन्मदौ ३६।
लव उवाच।
भ्रातस्तव प्रसादेन निस्तीर्णो रणतोयधिः ।
इदानीं वीररणकं शोधयावः सुशोभितम् ३७।
इत्युक्त्वा त्वरितं वीरो जग्मतुस्तौ कुशीलवौ ।
राज्ञो मौलिमणिं चित्रं जग्राह कनकाचितम् ३८।
पुष्कलस्य लवो वीरो जग्राह मुकुटं शुभम् ।
अंगदे च महानर्घ्ये शत्रुघ्नस्यापरस्य च ३९।
गृहीत्वा शस्त्रसंघातं हनूमंतं कपीश्वरम् ।
सुग्रीवं सविधे गत्वा उभावपि बबंधतुः ४०।
पुच्छे वायुसुतस्यायं गृहीत्वा तु कुशानुजः ।
भ्रातरं प्रत्युवाचेदं नेष्यामि स्वकमंदिरम् ४१।
आवयोर्जननी प्रीत्यै गृहीत्वा पुच्छके त्वहम् ।
क्रीडार्थमृषिपुत्राणां कौतुकार्थं ममैव च ४२।
एतच्छ्रुत्वा ततो वाक्यमुवाच च कुशो लवम् ।
अहमेनं ग्रहीष्यामि वानरं बलिनं दृढम् ४३।
इत्येवं भाषमाणौ तौ बद्ध्वा तौ बलिनां वरौ ।
पुच्छयोर्बलिनौ धृत्वा जग्मतुः स्वाश्रमं प्रति ४४।
स्वाश्रमाय प्रगच्छंतौ वीक्ष्य तौ कपिसत्तमौ ।
कंपमानौ जगदतुरन्योन्यं भीतया गिरा ४५।
हनूमान्कपिराजानं प्रत्युवाच भयार्द्रधीः ।
एतौ रामसुतावस्मान्नेष्यतः स्वाश्रमं प्रति ४६।
मया पूर्वं कृतं कर्म जानकीं प्रतिगच्छता ।
तत्र मे जानकी देवी संमुखाभून्मनोहरा ४७।
सा मां द्रक्ष्यति वैदेही बद्धं पाशेन वैरिणा ।
तदा हसिष्यति वरा त्रपा मेऽत्र भविष्यति ४८।
मया किमत्र कर्तव्यं प्राणत्यागो भविष्यति ।
महद्दुःखं चापतितं स रामः किं करिष्यति ४९।
सुग्रीवस्तद्वचः श्रुत्वा ममाप्येवं महाकपे ।
नेष्यते यदि मामेवं निधनं तु भविष्यति ५०।
एवं कथयतोरेव ह्यन्योन्यं भयभीतयोः ।
कुशो लवश्च भवनं मातुः प्रापतुरोजसा ५१।
तावायातौ समीक्ष्यैव जहर्ष जननी तयोः ।
अन्योन्यं परमप्रीत्या परिरेभे निजौ सुतौ ५२।
ताभ्यां पुच्छगृहीतौ तौ वानरौ वीक्ष्य जानकी ।
हनूमंतं च सुग्रीवं सर्ववीरं कपीश्वरम् ५३।
जहास पाशबद्धौ तौ वीक्षमाणा वरांगना ।
उवाच च विमोक्षार्थं वदंती वचनं वरम् ५४।
पुत्रौ प्रमुंचतं कीशौ महावीरौ महाबलौ ।
ईक्षंतौ मां यदि स्फीतौ प्राणत्यागं करिष्यतः ५५।
अयं वै हनुमान्वीरो यो ददाह दनोः पुरीम् ।
अयमप्यृक्षराजो हि सर्ववानरभूमिपः ५६।
किमर्थं विधृतौ कुत्र किं वा कृतमनादरात् ।
पुच्छे युवाभ्यां विधृतौ स महान्विस्मयोऽस्ति मे ५७।
इति मातुर्वचः श्लक्ष्णं वीक्ष्यतां पुत्रकौ तदा ।
ऊचतुर्विनयश्रेष्ठौ महाबलसमन्वितौ ५८।
मातः कश्चन भूपालो रामो दाशरथिर्बली ।
तेन मुक्तो हयः स्वर्णभालपत्रः सुशोभितः ५९।
तत्रैवं लिखितं मातरेकवीराप्रसूर्मम ।
ये क्षत्रियास्ते गृह्णन्तु नोचेत्पादतलार्चकाः ६०।
तदा मया विचारो वै कृतः स्वांते पतिव्रते ।
भवती क्षत्रिया किं न वीरसूः किं न वा भवेत् ६१।
धार्ष्ट्यं तद्वीक्ष्य भूपस्य गृहीतोऽश्वो मया बलात् ।
जितं कुशेन वीरेण सैन्यं तत्पातितं रणे ६२।
मुकुटोऽयं भूमिपतेर्जानीहि पतिदेवते ।
अयमप्यन्यवीरस्य पुष्कलस्य महात्मनः ६३।
जानीहि मुकुटं त्वन्यं मणिमुक्ताविराजितम् ।
अश्वोऽयं मे मनोहारी कामयानो हि भूपतेः ६४।
आरोहणाय मद्भ्रातुर्जानीहि बलिनो वरे ।
इमौ कीशौ मया रंतुमानीतौ बलिनां वरौ ६५।
कौतुकार्थं तवैवैतौ संग्रामे युद्धकारकौ ।
इति वाक्यं समाकर्ण्य जानकी पतिदेवता ६६।
जगाद पुत्रौ तौ वीरौ मोचयेथां पुनः पुनः ।
सीतोवाच।
युवाभ्यामनयः सृष्टो हृतो रामहयो महान् ६७।
अनेके पातिता वीरा इमौ बद्धौ कपीश्वरौ ।
पितुस्तव हयो वीरो यागार्थं मोचितोऽमुना ६८।
तस्यापि हृतवंतौ किं वाजिनं मखसत्तमे ।
मुंचतं प्लवगावेतौ मुंचतं वाजिनां वरम् ६९।
क्षाम्यतां भूपतेर्भ्राता शत्रुघ्नः परकोपनः ।
जनन्यास्तद्वचः श्रुत्वा ऊचतुस्तां बलान्वितौ ७०।
क्षात्रधर्मेण तं भूपं जितवंतौ बलान्वितम् ।
नास्माकमनयोर्भावि क्षात्रधर्मेण युध्यताम् ७१।
वाल्मीकिना पुरा प्रोक्तमस्माकं पठतां पुरः ७२।
कण्वस्याश्रमकेवाहं धृत्वा यागक्रियोचितम् ।
तस्मात्सुतः स्वपित्रापि युध्येद्भ्रात्रापि चानुजः ७३।
गुरुणा शिष्य एवापि तस्मान्नो पापसंभवः ।
त्वदाज्ञातो ऽधुना चावां दास्यावो हयमुत्तमम् ७४।
मोक्ष्यावः कीशावेतौ हि करिष्यावो वचस्तव ।
इत्युक्त्वा मातरं वीरौ गतौ रणे कपीश्वरौ ७५।
अमुंचतां हयं चापि हयमेधक्रियोचितम् ।
सीतादेवी स्वपुत्राभ्यां श्रुत्वा सैन्यं निपातितम् ७६।
श्रीरामं मनसा ध्यात्वा भानुमैक्षत साक्षिणम् ।
यद्यहं मनसा वाचा कर्मणा रघुनायकम् ७७।
भजामि नान्यं मनसा तर्हि जीवेदयं नृपः ।
सैन्यं चापि महत्सर्वं यन्नाशितमिदं बलात् ७८।
पुत्राभ्यां तत्तु जीवेत मत्सत्याज्जगतांपते ।
इति यावद्वचो ब्रूते जानकीपतिदेवता ७९।
तावद्बलं च तत्सर्वं जीवितं रणमूर्द्धनि ८०।
इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे।
सैन्यजीवनंनाम चतुःषष्टितमोऽध्यायः ६४।