पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०२०

विकिस्रोतः तः
← अध्यायः ०१९ पद्मपुराणम्
अध्यायः ०२०
वेदव्यासः
अध्यायः ०२१ →

सुमतिरुवाच।
अथ प्रयाते भूपाले सर्वलोकसमन्विते ।
महाभागैर्वैष्णवैश्च गायकैः कृष्णकीर्तनम् १।
शुश्रावासौ महाराजो मार्गे गोविंदकीर्तनम् ।
जय माधव भक्तानां शरण्य पुरुषोत्तम २।
मार्गे तीर्थान्यनेकानि कुर्वन्पश्यन्महोदयम् ।
तापसब्राह्मणात्तेषां महिमानमथा शृणोत् ३।
विचित्रविष्णुवार्ताभिर्विनोदितमना नृपः ।
मार्गेमार्गे महाविष्णुं गापयामास गायकान् ४।
दीनांधकृपणानां च पंगूनां वासनोचितम् ।
दानं ददौ महाराजो बुद्धिमान्विजितेंद्रियः ५।
अनेकतीर्थविरजमात्मानं भव्यतां गतम् ।
कुर्वन्ययौ स्वीयलोकैर्हरिध्यानपरायणः ६।
नृपो गच्छन्ददर्शाग्रे नदीं पापप्रणाशिनीम् ।
चक्रांकितग्रावयुतां मुनिमानस निर्मलाम् ७।
अनेकमुनिवृंदानां बहुश्रेणिविराजिताम् ।
सारसादिपतत्रीणां कूजितैरुपशोभिताम् ८।
दृष्ट्वा पप्रच्छ विप्राग्र्यं तापसं धर्मकोविदम् ।
अनेकतीर्थमाहात्म्य विशेषज्ञानजृंभितम् ९।
स्वामिन्केयं नदी पुण्या मुनिवृन्दनिषेविता ।
करोति मम चित्तस्य प्रमोदभरनिर्भरम् १०।
इति श्रुत्वा वचस्तस्य राजराजस्य धीमतः ।
वक्तुं प्रचक्रमे विद्वांस्तीर्थमाहात्म्यमुत्तमम् ११।
ब्राह्मण उवाच।
गंडकीयं नदी राजन्सुरासुरनिषेविता ।
पुण्योदकपरीवाह हतपातकसंचया १२।
दर्शनान्मानसं पापं स्पर्शनात्कर्मजं दहेत् ।
वाचिकं स्वीय तोयस्य पानतः पापसंचयम् १३।
पुरा दृष्ट्वा प्रजानाथः प्रजाः सर्वा विपावनीः ।
स्वगंडविप्रुषोनेक पापघ्नीं सृष्टवानिमाम् १४।
एनां नदीं ये पुण्योदां स्पृशंति सुतरंगिणीम् ।
ते गर्भभाजो नैव स्युरपि पापकृतो नराः १५।
अस्यां भवा ये चाश्मानश्चक्रचिह्नैरलंकृताः ।
ते साक्षाद्भगवंतो हि स्वस्वरूपधराः पराः १६।
शिलां संपूजयेद्यस्तु नित्यं चक्रयुतां नरः ।
न जातु स जनन्या वै जठरं समुपाविशेत् १७।
पूजयेद्यो नरो धीमाञ्छालग्रामशिलां वराम् ।
तेनाचारवता भाव्यं दंभलोभवियोगिना १८।
परदार परद्रव्यविमुखेन नरेण हि ।
पूजनीयः प्रयत्नेन शालग्रामः सचक्रकः १९।
द्वारवत्यां भवं चक्रं शिला वै गंडकीभवा ।
पुंसां क्षणाद्धरत्येव पापं जन्मशतार्जितम् २०।
अपि पापसहस्राणां कर्ता तावन्नरो भवेत् ।
शालग्रामशिलातोयं पीत्वा पूतो भवेत्क्षणात् २१।
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वेदपथि स्थितः ।
शालग्रामं पूजयित्वा गृहस्थो मोक्षमाप्नुयात् २२।
न जातु चित्स्त्रिया कार्यं शालग्रामस्य पूजनम् ।
भर्तृहीनाथ सुभगा स्वर्गलोकहितैषिणी २३।
मोहात्स्पृष्ट्वापि महिला जन्मशीलगुणान्विता ।
हित्वा पुण्यसमूहं सा सत्वरं नरकं व्रजेत् २४।
स्त्रीपाणिमुक्तपुष्पाणि शालग्रामशिलोपरि ।
पवेरधिकपातानि वदंति ब्राह्मणोत्तमाः २५।
चंदनं विषसंकाशं कुसुमं वज्रसंनिभम् ।
नैवेद्यं कालकूटाभं भवेद्भगवतः कृतम् २६।
तस्मात्सर्वात्मना त्याज्यं स्त्रिया स्पर्शः शिलोपरि ।
कुर्वती याति नरकं यावदिंद्राश्चतुर्दश २७।
अपि पापसमाचारो ब्रह्महत्यायुतोऽपि वा ।
शालग्रामशिलातोयं पीत्वा याति परां गतिम् २८।
तुलसीचंदनं वारि शंखो घंटाथ चक्रकम् ।
शिला ताम्रस्य पात्रं तु विष्णोर्नामपदामृतम् २९।
पदामृतं तु नवभिः पापराशिप्रदाहकम् ।
वदंति मुनयः शांताः सर्वशास्त्रार्थकोविदाः ३०।
सर्वतीर्थपरिस्नानात्सर्वक्रतुसमर्चनात् ।
पुण्यं भवति यद्राजन्बिंदौ बिंदौ तदद्भुतम् ३१।
शालग्रामशिला यत्र पूज्यते पुरुषोत्तमैः ।
तत्र योजनमात्रं तु तीर्थकोटिसमन्वितम् ३२।
शालग्रामाः समाः पूज्याः समेषु द्वितयं नहि ।
विषमा एव संपूज्या विषमेषु त्रयं नहि ३३।
द्वारावती भवं चक्रं तथा वै गंडकीभवम् ।
उभयोः संगमो यत्र तत्र गंगा समुद्रगा ३४।
रूक्षाः कुर्वंति पुरुषा नायुः श्रीबलवर्जितान् ।
तस्मात्स्निग्धा मनोहारि रूपिण्यो ददति श्रियम् ३५।
आयुष्कामो नरो यस्तु धनकामो हि यः पुमान् ।
पूजयन्सर्वमाप्नोति पारलौकिकमैहिकम् ३६।
प्राणांतकाले पुंसस्तु भवेद्भाग्यवतो नृप ।
वाचि नाम हरेः पुण्यं शिला हृदि तदंतिके ३७।
गच्छत्सु प्राणमार्गेषु यस्य विश्रंभतोऽपि चेत् ।
शालग्रामशिला स्फूर्तिस्तस्य मुक्तिर्न संशयः ३८।
पुरा भगवता प्रोक्तमंबरीषाय धीमते ।
ब्राह्मणा न्यासिनः स्निग्धाः शालग्रामशिलास्तथा ३९।
स्वरूपत्रितयं मह्यमेतद्धि क्षितिमंडले ।
पापिनां पापनिर्हारं कर्तुं धृतमुदं च ता ४०।
निंदंति पापिनो ये वा शालग्रामशिलां सकृत् ।
कुंभीपाके पचंत्याशु यावदाभूतसंप्लवम् ४१।
पूजां समुद्यतं कर्तुं यो वारयति मूढधीः ।
तस्य मातापिताबंधुवर्गा नरकभागिनः ४२।
यो वा कथयति प्रेष्ठं शालग्रामार्चनं कुरु ।
सकृतार्थो नयत्याशु वैकुंठं स्वस्य पूर्वजान् ४३।
अत्रैवोदाहरंतीममितिहासं पुरातनम् ।
मुनयो वीतरागाश्च कामक्रोधविवर्जिताः ४४।
पुरा कीकटसंज्ञे वै देशे धर्मविवर्जिते ।
आसीत्पुल्कसजातीयो नरः शबरसंज्ञितः ४५।
नित्यं जंतुवधोद्युक्तः शरासनधरो मुहुः ।
तीर्थं प्रति यियासूनां बलाद्धरति जीवितम् ४६।
अनेकप्राणिहत्याकृत्परस्वे निरतः सदा ।
सदा रागादिसंयुक्तः कामक्रोधादिसंयुतः ४७।
विचरत्यनिशं भीमे वने प्राणिवधंकरः ।
विषसंसक्तबाणाग्र रूढचापगुणोद्धुरः ४८।
सैकदा पर्यटन्व्याधः प्राणिमात्रभयंकरः ।
कालं प्राप्तं न जानाति समीपेऽप्युग्रमानसः ४९।
यमदूतास्तु संप्राप्ताः पाशमुद्गरपाणयः ।
ताम्रकेशा दीर्घनखा लंबदंष्ट्रा भयानकाः ५०।
श्यामा लोहस्यनिगडान्बिभ्रतो मोहकारकाः ।
बध्नंतु पापिनं ह्येनं प्राणिमात्रभयंकरम् ५१।
कदाचिन्मनसा नायं प्राणिमात्रोपकारकः ।
परदार परद्रव्य परद्रोहपरायणः ५२।
एतस्य जिह्वां महतीमहं निष्कासयाम्यतः ।
एको वदति चैतस्य चक्षुरुत्पाटयाम्यहम् ५३।
एको वदति चैतस्य करौ कृंतामि पापिनः ।
अन्यो वदत्यहं कर्णौ कर्तयामि दुरात्मनः ५४।
एवं वदंतः सुभृशं दन्तैर्दन्तनिपीडकाः ।
आगत्य तं दुरात्मानं सायुधास्तस्थुरुन्मदाः ५५।
एको दूतस्तदा सर्परूपं धृत्वादशत्पदे ।
स दष्टमात्रः सहसा गतासुः पर्यजायत ५६।
तदा तं लोहपाशेन बद्ध्वा ते यमकिंकराः ।
कशाभिस्ताडयामासुर्मुद्गरैः प्राहरन्क्रुधा ५७।
अहो दुष्ट दुरात्मंस्त्वं कदाचिन्नाचरः शुभम् ।
मनसापि यतस्त्वां वै क्षेप्स्यामो रौरवेषु च ५८।
त्वङ्मांसं वायसा रौद्रा भक्षयिष्यंति वै क्रुधा ।
आजन्मतस्तु भवता न कृतं हरिसेवनम् ५९।
त्वया कलत्रपुत्राद्या द्रोहं कृत्वा सुपोषिताः ।
न कदाचित्स्मृतो देवः पापहारी जनार्दनः ६०।
तस्मात्त्वां लोहशंकौ वा कुंभीपाके च रौरवे ।
धर्मराजाज्ञया सर्वे नेष्यामो बहुताडनैः ६१।
एवमुक्त्वा यदानेतुं समैच्छन्यमकिंकराः ।
तावत्प्राप्तो महाविष्णुचरणाब्जपरायणः ६२।
यमदूतास्तदा दृष्टा वैष्णवेन महात्मना ।
पाशमुद्गरदंडादिदुष्टायुधधरा गणाः ६३।
पुल्कसं लोहनिगडैर्बद्ध्वा यातुं समुद्यताः ।
बन्ध बन्ध ग्रसच्छिन्धि भिन्धि भिन्धीति वादिनः ६४।
तदा कृपालुस्तं प्रेक्ष्य पद्मनाभपरायणः ।
अत्यंतकृपयायुक्तं चेतस्तत्र तदाकरोत् ६५।
असौ महादुष्ट पीडां मा यातु मम सन्निधौ ।
मोचयाम्यहमद्यैव यमदूतेभ्य एव च ६६।
इति कृत्वा मतिं तस्मिन्कृपायुक्तो मुनीश्वरः ।
शालग्रामशिलां हस्ते गृहीत्वास्य गतोंऽतिके ६७।
तस्य पादोदकं पुण्यं तुलसीदलमिश्रितम् ।
मुखे विनिक्षिपन्कर्णे रामनाम जजाप ह ६८।
तुलसीं मस्तके तस्य धारयामास वैष्णवः ।
शिलां हृदि महाविष्णोर्धृत्वा प्राह स वैष्णवः ६९।
गच्छंतु यमदूता वै यातनासु परायणाः ।
शालग्रामशिलास्पर्शो दहतात्पातकं महत् ७०।
इत्युक्तवति तस्मिन्वै गणा विष्णोर्महाद्भुताः ।
आययुस्तस्य सविधे शिलास्पर्शाद्गतांहसः ७१।
पीतवस्त्राः शंखचक्रगदापद्मविराजिताः ।
आगत्य मोचयामासुर्लोहपाशाद्दुरासदात् ७२।
मोचयित्वा महापापकारकं पुल्कसं नरम् ।
ऊचुः किमर्थं बद्धोऽयं वैष्णवः पूज्यदेहभृत् ७३।
कस्याज्ञाकारका यूयं यदधर्मप्रकारकाः ।
मुंचंतु वैष्णवं त्वेनं किमर्थं विधृतो ह्ययम् ७४।
इति वाक्यं समाकर्ण्य जगदुर्यमकिंकराः ।
धर्मराजाज्ञया प्राप्ता नेतुं पापिनमुद्यताः ७५।
नासौ कदाचिन्मनसा प्राणिमात्रोपकारकः ।
प्राणिहत्या महापापकारी दुष्टशरीरभृत् ७६।
नॄन्बहूंस्तीर्थयात्रायां गच्छतोऽसौ व्यलुंठयत् ।
परदाररतो नित्यं सर्वपापाधिकारकः ७७।
तस्मान्नेतुं वयं प्राप्ताः पापिनं पुल्कसं नरम् ।
भवद्भिर्मोचितः कस्मादकस्मादागतैर्भटैः ७८।
विष्णुदूता ऊचुः।
ब्रह्महत्यादिकं पापं प्राणिकोटिवधोद्भवम् ।
शालग्रामशिलास्पर्शः सर्वं दहति तत्क्षणात् ७९।
रामेति नाम यच्छ्रोत्रे विश्रंभादागतं यदि ।
करोति पापसंदाहं तूलं वह्निकणो यथा ८०।
तुलसी मस्तके यस्य शिला हृदि मनोहरा ।
मुखे कर्णेऽथवा राम नाम मुक्तस्तदैव सः ८१।
तस्मादनेन तुलसी मस्तके विधृता पुरा ।
श्रावितं रामनामाशु शिला हृदि सुधारिता ८२।
तस्मात्पापसमूहोऽस्य दग्धः पुण्यकलेवरः ।
यास्यते परमं स्थानं पापिनां यत्सुदुर्ल्लभम् ८३।
वर्षायुतं तत्र भुक्त्वा भोगान्सर्वमनोहरान् ।
भारते जन्म संप्राप्य समाराध्य जगद्गुरुम् ८४।
प्राप्स्यते परमं स्थानं सुरासुरसुदुर्ल्लभम् ।
न ज्ञातो महिमा सम्यक्छिलायाः परमेष्ठिनः ८५।
दृष्टा स्पृष्टार्चिता वापि सर्वपापहरा क्षणात् ।
इत्युक्त्वा विरताः सर्वे महाविष्णोर्गणा मुदा ८६।
याम्यास्ते किंकरा राज्ञे कथयामासुरद्भुतम् ।
वैष्णवो हर्षमापेदे रघुनाथपरायणः ८७।
मुक्तोऽसौ यमपाशाच्च गमिष्यति परं पदम् ।
तदाजगाम विमलं किंकिणीजालमंडितम् ८८।
विमानं देवलोकात्तु मनोहारि महाद्भुतम् ।
तत्रारुह्य गतः स्वर्गं महापुण्यैर्निषेवितम् ८९।
भोगान्भुक्त्वा स विपुलानाजगाम महीतलम् ।
काश्यां जन्म समासाद्य शुचिवाडवसत्कुले ९०।
आराध्य जगतामीशं गतवान्परमं पदम् ।
स पापी साधुसंगत्या शालग्रामशिलां स्पृशन् ९१।
महापीडाविनिर्मुक्तो गतवान्परमं पदम् ।
मया तेऽभिहितं राजन्गंडकीचरितं महत् ९२।
श्रुत्वा विमुच्यते पापैर्भुक्तिं मुक्तिं च विंदति ९३।
इति श्रीपद्मपुराणे पातालखंडे रामाश्वमेधे शेषवात्स्यायनसंवादे गंडकीमाहात्म्यंनाम विंशोऽध्यायः २० ।