पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः १५

विकिस्रोतः तः
Jump to navigation Jump to search

नारद उवाच-
यन्मां पृच्छसि कौंतेय तन्निबोध च तच्छृणु
एतस्मिन्नंतरे रुद्रो नर्मदातटमास्थितः १
नाम्ना हरेश्वरं स्थानं त्रिषु लोकेषु विश्रुतम्
तस्मिन्स्थाने महादेवश्चिंतयंस्त्रैपुरं वधम् २
गां(गा?)डीवं मंदरं कृत्वा गुणं कृत्वा तु वासुकिम्
स्थानं कृत्वा तु वैशाखं विष्णुं कृत्वा शरोत्तमम् ३
अग्रे चाग्निं प्रतिष्ठाप्य मुखे वायुः समर्पितः
हयाश्च चतुरो वेदाः सर्वदेवमयं रथम् ४
चक्रगौ चाश्विनौ देवावक्षं चक्रधरः स्वयम्
स्वयमिंद्रश्च चापांते बाणे वैश्रवणः स्थितः ५
यमस्तु दक्षिणे हस्ते वामे कालस्तु दारुणः
चक्राणामारके न्यस्ता गंधर्वा लोकविश्रुताः ६
प्रजापती रथश्रेष्ठे ब्रह्मा चैव तु सारथिः
एवं कृत्वा तु देवेशः सर्वदेवमयं रथम् ७
सोतिष्ठत्स्थाणुभूतो हि सहस्रं परिवत्सरान्
यदा त्रीणि समेतानि अंतरिक्षचराणि च ८
त्रिपुराणि त्रिशल्येन तदा तानि बिभेद सः
शरः प्रचोदितस्तत्र रुद्रेण त्रिपुरं प्रति ९
भ्रष्टतेजा स्त्रियो जाता बलं तेषां व्यशीर्यत
उत्पाताश्च पुरे तस्मिन्प्रादुर्भूता सहस्रशः १०
त्रिपुरस्य विनाशाय कालरूपोभवत्तदा
अट्टहासं प्रमुंचंति रूपाः काष्ठमयास्तथा ११
निमेषोन्मेषणं चैव कुर्वंति चित्रकर्मणा
स्वप्ने पश्यंति चात्मानं रक्तांबरविभूषितम् १२
स्वप्ने पश्यंति ते चैवं विपरीतानि यानि तु
एतान्पश्यति उत्पातांस्तत्र स्थाने तु ये जनाः १३
तेषां बलं च बुद्धिश्च हरक्रोधेन नाशितम्
संवर्तको नाम वायुर्युगांतप्रतिमो महान् १४
समीरितोनलश्रेष्ठ उत्तमांगेषु बाधते
ज्वलंति पादपास्तत्र पतंति शिखराणि च १५
सर्वं तद्व्याकुलीभूतं हाहाकारमचेतनम्
भग्नोद्यानानि सर्वाणि क्षिप्रं तु प्रज्वलंति च १६
तेनैव दीपितं सर्वं ज्वलते विशिखैः शिखैः
द्रुमा आरामगंडानि गृहाणि विविधानि च १७
दशदिक्षु प्रवृत्तोयं समिद्धो हव्यवाहनः
ततः शिलाः प्रमुंचंति दिशो दश विभागशः १८
शिखासहस्रैरत्युग्रैः प्रज्वलंति हुताशनैः
सर्वं किंशुकसंप्रख्यं ज्वलितंदृश्यते पुरम् १९
गृहाद्गृहांतरे नैव गंतुं धूमैश्च शक्यते
हरकोपानलादग्धं क्रंदमानं सुदुःखितम् २०
प्रदीप्तं सर्वतो दिक्षु दह्यते त्रिपुरं पुरम्
प्रासादशिखराग्राणि विशीर्यंति सहस्रशः २१
नानारत्नविचित्राणि विमानान्यप्यनेकधा
गृहाणि चैव रम्याणि दह्यंते दीप्तिवह्निना २२
बाधंते द्रुमखंडेषु जनस्थाने तथैव च
देवागारेषु सर्वेषु प्रज्वलंते ज्वलंत्यपि २३
सीदंति चानलस्पृष्टाः क्रंदंति विविधै स्वरैः
गिरिकूटनिभास्तत्र दृश्यंतेंऽगारराशयः २४
स्तुवंति देवदेवेशं परित्रायस्व मां प्रभो
अन्योन्यं च परिष्वज्य हुताशनप्रपीडिताः २५
दह्यंते दानवास्तत्र शतशोथ सहस्रशः
हंसकारंडवाकीर्णा नलिनी सह पंकजा २६
दह्यंतेनलदग्धानि पुरोद्यानानि दीर्घिकाः
अम्लानैः पंकजैश्छन्ना विस्तीर्णा योजनैः शतैः २७
गिरिकूटनिभास्तत्र प्रासादारत्नभूषिताः
पतंत्यनलनिर्दग्धा निस्तोया जलदा इव २८
सह स्त्रीबालवृद्धेषु गोषु पक्षिषु वाजिषु
निर्दयो दहते वह्निर्हरकोपेन प्रेरितः २९
सपत्नीकाश्चैव सुप्ताः संसुप्ता बहवो जनाः
पुत्रमालिंग्यते गाढं दह्यंते त्रिपुरारिणा ३०
अथ तस्मिन्पुरे दीप्ते स्त्रियश्चाप्सरसोपमाः
अग्निज्वालाहतास्तत्र पतंति धरणीतले ३१
काचिद्बाला विशालाक्षी मुक्तावलि विभूषिता
धूमेनाकुलिता सा तु प्रतिबुद्धा शिखार्द्दिता ३२
सुतं संचिंत्यमाना सा पतिता धरणीतले
काचित्सुवर्णवर्णाभा नीलरत्नैर्विभूषिता ३३
धूमेनाकुलिता सा तु पतिता धरणीतले
अन्या गृहीतहस्ता तु सखी दहति बालकैः ३४
अनेन दिव्यरूपान्यादृष्टा मदविमोहिता
शिरसा प्रांजलिं कृत्वा विज्ञापयति पावकम् ३५
यदि त्वमिच्छसे वैरं पुरुषेष्वपकारिषु
स्त्रियः किमपराध्यंते गृहपंजरकोकिलाः ३६
पापनिर्दय निर्ल्लज्ज कस्ते कोपः स्त्रियोपरि
न दाक्षिण्यं न ते लज्जा न सत्यं शौचवर्जितः ३७
अनेकरूपवर्णाढ्या उपलभ्या वदस्व ह
किं त्वया न श्रुतं लोके अवध्याः सर्वयोषितः ३८
किं तु तुभ्यं गुणा ह्येते दहनस्त्र्यर्दनं प्रति
न कारुण्यं दया वापि दाक्षिण्यं वा स्त्रियोपरि ३९
दयां कुर्वंति म्लेच्छापि दहनं प्रेक्ष्य योषितः
म्लेच्छानामपि कष्टोसि दुर्निवार्यो ह्यचेतनः ४०
एते चैव गुणास्तुभ्यं दहनोत्सादनं प्रति
आसामपि दुराचार स्त्रीणां किं विनिपातसे ४१
दुष्ट निर्घृण निर्लज्ज हुताश मंदभाग्यक
निराशस्त्वं दुराचार बालान्दहसि निर्दय ४२
एवं प्रलपमानास्ता जल्पमाना बहुस्वरम्
अन्याः क्रोशंति संक्रुद्धा बालशोकेन मोहिताः ४३
दहते निर्दयो वह्निः संक्रुद्धः सर्वशत्रुवत्
पुष्करिण्यां जले ज्वाला कूपेष्वपि तथैव च ४४
अस्मान्संदह्य म्लेच्छ त्वं कां गतिं प्रापयिष्यसि
एवं प्रलपतां तासां वह्निर्वचनमब्रवीत् ४५
वैश्वानर उवाच-
स्ववशो नैव युष्माकं विनाशं तु करोम्यहम्
अहमादेशकर्ता वै नाहं कर्त्तास्म्यनुग्रहम् ४६
अत्र क्रोधसमाविष्टो विचरामि यदृच्छया
ततो बाणो महातेजास्त्रिपुरं वीक्ष्य दीपितम् ४७
आसनस्थोऽब्रवीदेवमहं देवैर्विनाशितः
अल्पसारैर्दुराचारैरीश्वरस्य निवेदितः ४८
अपरीक्ष्य ह्यहं दग्धः शंकरेण महात्मना
नान्यः शत्रुस्तु मां हंतुं वर्ज्जयित्वा महेश्वरम् ४९
उत्थितः शिरसा कृत्वा लिगं त्रिभुवनेश्वरम्
निर्गतः स पुरद्वारात्परित्यज्य सुहृत्स्वयम् ५०
रत्नानि सुविचित्राणि स्त्रियो नानाविधास्तथा
गृहीत्वा शिरसा लिंगं न्यस्तं नगरमंडले ५१
स्तुवते देवदेवेशं त्रैलोक्याधिपतिं शिवम्
हर त्वयाहं निर्दग्धो यदि वध्योसि शंकर ५२
त्वत्प्रसादान्महादेव मा मे लिंगं विनश्यतु
अर्चितं हि महादेव भक्त्या परमया सदा ५३
त्वया यद्यपि वध्योहं मा मे लिंगं विनश्यतु
प्राप्यमेतन्महादेव त्वत्पादग्रहणं मम ५४
जन्मजन्म महादेव त्वत्पादनिरतो ह्यहम्
तोटकच्छंदसा देवं स्तुत्वा तु परमेश्वरम् ५५
ॐशिवशंकरसर्वकराय नमो भवभीममहेशशिवाय नमः
कुसुमायुध देहविनाशकर त्रिपुरांतकरांधक चूर्णकर ५६
प्रमदाप्रियकामविभक्त नमो हि नमः सुरसिद्धगणैर्नमितः
हयवानरसिंहगजेंद्रमुखैरति ह्रस्वसुदीर्घमुखैश्च गणैः ५७
उपलब्धुमशक्यतरैरसुरैर्व्यथितो न शरीरशतैर्बहुभिः
प्रणतो भगवन्बहुभक्तिमता चलचंद्र कलाधर देव नमः ५८
सहपुत्रकलत्रकलापधनैः सततं जय देहि अनुस्मरणम्
व्यथितोस्मि शरीरशतैर्बहुभिर्गमिताद्य महानरकस्य गतिः ५९
न निवर्तति यन्ममपापगतिः शुचिकर्म्मविशुद्धमपि त्यजति
अनुकंपति दिग्भ्रमति भ्रमति भ्रम एष कुबुद्धि निवारयति ६०
यः पठेत्तोटकं दिव्यं प्रयतः शुचिमानसः
बाणस्यैव यथारुद्रस्तस्यैव वरदो भवेत् ६१
इमं स्तवं महादिव्यं श्रुत्वा देवो महेश्वरः
प्रसन्नस्तु तदा तस्य स्वयं देवो महेश्वरः ६२
ईश्वर उवाच-
न भेतव्यं त्वया वत्स सौवर्णे तिष्ठ दानव
पुत्रपौत्रसपत्नीनां भार्याभृत्यजनैः सह ६३
अद्यप्रभृति बाण त्वमवध्यस्त्रिदशैरपि
भूयस्तस्य वरो दत्तो देवदेवेन पांडव ६४
अक्षयश्चाव्ययो लोके विचचार ह निर्भयः
ततो निवारयामास रुद्र सप्तशिखं तथा ६५
तृतीयं रक्षितं तस्य शंकरेण महात्मना
भ्रमते गगने नित्यं रुद्रतेजः प्रभावतः ६६
एवं तु त्रिपुरं दग्धं शंकरेण महात्मना
ज्वालामालाप्रदीप्तं तु पतितं धरणीतले ६७
एकं निपातितं तस्य श्रीशैले त्रिपुरांतके
द्वितीयं पातितं तत्र पर्वतेऽमरकंटके ६८
दग्धे तु त्रिपुरे राजन्रुद्रकोटिः प्रतिष्ठिता
ज्वलंतं पातितं तत्र तेन ज्वालेश्वरः स्मृतः ६९
ऊर्ध्वेन प्रस्थिता तस्य दिव्या ज्वाला दिवं गता
हाहाकारस्तदा जातो सदेवासुरकिंनरान् ७०
तं शरं स्तंभयेद्रुद्रो माहेश्वरपुरोत्तमे
एवं व्रजेत यस्तस्मिन्पर्वतेऽमरकंटके ७१
चतुर्द्दशभुवनानि सुभुक्त्वा पांडुनंदन
वर्षकोटिसहस्रं तु त्रिंशत्कोट्यस्तथा पराः ७२
ततो महीतलं प्राप्य राजा भवति धार्मिकः
पृथिव्यामेकच्छत्रेण भुंक्ते नास्त्यत्र संशयः ७३
एष पुण्यो महाराज सर्वतोऽमरकंटकः
चंद्र सूर्योपरागेषु गच्छेद्योऽमरकंटकम् ७४
अश्वमेधाद्दशगुणं प्रवदंति मनीषिणः
स्वर्गलोकमवाप्नोति दृष्ट्वा तत्र महेश्वरम् ७५
संनिहत्या गमिष्यंति राहुग्रस्ते दिवाकरे
तदेव निखिलं पुण्यं पर्वतेऽमरकंटके ७६
पुंडरीकस्य यज्ञस्य फलं प्राप्नोति मानवः
तत्र ज्वालेश्वरो नाम पर्वतेऽमरकंटके ७७
तत्र स्नात्वा दिवं यांति ये मृतास्तेऽपुनर्भवाः
ज्वालेश्वरे महाराज यस्तु प्राणान्परित्यजेत् ७८
चंद्र सूर्योपरागे तु भक्त्यापि शृणु तत्फलम्
अमरा नाम देवास्ते पर्वतेऽमरकंटके ७९
रुद्रलोकमवाप्नोति यावदाभूतसंप्लवम्
अमरेश्वरस्य देवस्य पर्वतस्य तटे जले ८०
कोटिश ऋषिमुख्यास्ते तपस्तप्यंति सुव्रताः
समंताद्योजनं राजन्क्षेत्रं चामरकंटकम् ८१
अकामो वा सकामो वा नर्मदायां शुभे जले
स्नात्वा मुच्येत पापेभ्यो रुद्रलोकं स गच्छति ८२

इति श्रीपाद्मे महापुराणे स्वर्गखंडे पंचदशोऽध्यायः १५