पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः ०८

विकिस्रोतः तः

ऋषय ऊचुः-।
जंबूखंडस्त्वया प्रोक्तो यथावदिह सत्तमः ।
विष्कंभस्य च प्रब्रूहि परिमाणं हि तत्त्वतः १।
समुद्रस्य प्रमाणं च सम्यगच्छिद्र दर्शनः ।
शाकद्वीपं च नो ब्रूहि कुशद्वीपं च धार्मिकम् २।
शाल्मलं चैव तत्त्वेन क्रौंचद्वीपं तथैव च ।
सूत उवाच-।
विप्राः सुबहवो द्वीपाः यैरिदं संततं जगत् ।
सप्तद्वीपान्प्रवक्ष्यामि शृणुध्वं द्विजपुंगवाः ३।
अष्टादशसहस्राणि योजनानि द्विजोत्तमाः ।
षट्शतानि च पूर्णानि विष्कंभो जंबुपर्वतः ४।
लवणस्य समुद्रस्य विष्कंभो द्विगुणः स्मृतः ।
नानाजनपदाकीर्णो मणिविद्रुमचित्रितः ५।
नैकधातुविचित्रैश्च पर्वतैरुपशोभितः ।
सिद्धचारणसंकीर्णैः सागरः परिमंडलः ६।
शाकद्वीपं च वक्ष्यामि यथावदिह सत्तमाः ।
शृणुताद्य यथान्यायं ब्रुवतो मम धार्मिकाः ७।
जंबुद्वीपप्रमाणेन द्विगुणः स द्विजर्षभाः ।
विष्कंभेन महाभागाः सागरोऽपि विभागशः ८।
क्षीरोदो मुनिशार्दूला येन संपरिवारितः ।
तत्र पुण्याजनपदास्तत्र न म्रियते जनः ९।
कुत एव हि दुर्भिक्षं क्षमा तेजोयुता हि ते ।
शाकद्वीपस्य संक्षेपो यथावन्मुनिसत्तमाः ।
उक्त एष महाभागाः किमन्यत्कथयामि वः १०।
ऋषय ऊचुः-।
शाकद्वीपस्य संक्षेपो यथावदिह धार्मिक ।
उक्तस्त्वया महाप्राज्ञ विस्तरं ब्रूहि तत्त्वतः ११।
सूत उवाच-।
तथैव पर्वता विप्राः सप्तात्र मणिपर्वताः ।
रत्नाकरास्तथा नद्यस्तेषां नामानि वर्णये १२।
अतीवगुणवत्सर्वं तत्त्वं पृच्छथ धार्मिकाः ।
देवर्षिगंधर्वयुतः प्रथमो मेरुरुच्यते १३।
प्रागायतो महाभागा मलयोनाम पर्वतः ।
ततो मेघाः प्रवर्त्तंते प्रभवंति च सर्वशः १४।
ततः परेण मुनयो जलधारो महागिरिः ।
ततो नित्यमुपादत्ते वासवः परमं जलम् १५।
ततो वर्षं प्रभवति वर्षाकाले द्विजोत्तमाः ।
उच्चैर्गिरी रैवतको यत्र नित्यं प्रतिष्ठितम् १६।
रेवती दिवि नक्षत्रं पितामहकृतो विधिः ।
उत्तरेण तु विप्रेंद्राः श्यामो नाम महागिरिः १७।
नवमेघप्रभः प्रांशुः श्रीमानुज्ज्वलविग्रहः ।
यतः श्यामत्वमापन्नाः प्रजा मुदितमानसाः १८।
ऋषय ऊचुः-।
सुमहान्संशयोऽस्माकं प्राप्तोयं सूत यत्त्वया ।
प्रजाः कथं सूत सम्यक्संप्राप्ताः श्यामतामिह १९।
सूत उवाच-।
सर्वेष्वेव महाप्राज्ञा द्वीपेषु मुनिपुंगवाः ।
गौरः कृष्णश्च पतगस्तयोर्वर्णांतरे द्विजाः २०।
श्यामो यस्मात्प्रवृत्तो वै तस्मात्श्यामगिरिः स्मृतः ।
ततः परं मुनिश्रेष्ठा दुर्गशैलो महोदयः २१।
केशरी केशरयुतो यतो वातः प्रवर्त्तते ।
तेषां योजनविष्कंभो द्विगुणः प्रविभागशः २२।
वर्षाणि तेषु विप्रेंद्राः संप्रोक्तानि मनीषिभिः ।
महामेरुर्महाकाशो जलदः कुमुदोत्तरम् २३।
जलधारो महाप्राज्ञः सुकुमार इति स्मृतः ।
रेवतस्य तु कौमारः श्यामश्च मणिकांचनः २४।
केशरस्याथ मौदाकी परेण तु महान्पुमान् ।
परिवार्य्यं तु विप्रेंद्रा दैर्घ्यं ह्रस्वत्वमेव च २५।
जंबूद्वीपेन संख्यातस्तस्य मध्ये महाद्रुमः ।
शाको नाम महाप्राज्ञाः प्रजास्तस्य सहानुगाः २६।
तत्र पुण्या जनपदाः पूज्यते तत्र शंकरः ।
तत्र गच्छंति सिद्धाश्च चारणा दैवतानि च २७।
धार्मिकाश्च प्रजाः सर्वाः चत्वारो गतमत्सराः ।
वर्णाः स्वकर्मनिरता न च स्तेनोऽत्र दृश्यते २८।
दीर्घायुषो महाप्राज्ञा जरामृत्युविवर्जिताः ।
प्रजास्तत्र विवर्द्धंते वर्षास्विव समुद्रगाः २९।
नद्यः पुण्यजलास्तत्र गंगा च बहुधा गता ।
सुकुमारी कुमारी च शीता शीतोदका तथा ३०।
महानदी च भो विप्रास्तथा मणिजला नदी ।
इक्षुवर्द्धनिका चैव नदी मुनिवराः स्मृताः ३१।
ततः प्रवृत्ताः पुण्योदा नद्यः परमशोभनाः ।
सहस्राणां शतान्येव यतो वर्षति वासवः ३२।
न तासां नामधेयानि परिस्मर्तुं तथैव च ।
शक्यंते परिसंख्यातुं पुण्यास्ता हि सरिद्वराः ३३।
ततः पुण्या जनपदाश्चत्वारो लोकविश्रुताः ।
मृगाश्च मशकाश्चैव मानसा मल्लकास्तथा ३४।
मृगाश्च ब्रह्मभूयिष्ठाः स्वकर्मनिरता द्विजाः ।
मशकेषु तु राजन्या धार्मिकाः सर्वकामदाः ३५।
मानसाश्च महाभागा वैश्यधर्मोपजीविनः ।
सर्वकामसमायुक्ताः शूरा धर्मार्थनिश्चिताः ३६।
शूद्रास्तु मल्लका नित्यं पुरुषा धर्मशीलिनः ।
न तत्र राजा विप्रेंद्रा न दंडो न च दंडिकाः ३७।
स्वधर्मेणैव धर्मज्ञास्ते रक्षंति परस्परम् ।
एतावदेव शक्यं तु तत्र द्वीपे प्रभाषितुम् ३८।
एतदेव च श्रोतव्यं शाकद्वीपे महौजसि ३९।
इति श्रीपाद्मे महापुराणे स्वर्गखंडेऽष्टमोऽध्यायः ८।