पद्मपुराणम्/खण्डः १ (सृष्टिखण्डम्)/अध्यायः ०३

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
← अध्यायः ०२ पद्मपुराणम्
अध्यायः ०३
वेदव्यासः
अध्यायः ०४ →

भीष्म उवाच
निर्गुणस्याप्रमेयस्य शुद्धस्याथ महात्मनः
कथं सर्गादिकर्त्तृत्वं ब्रह्मणो ह्युपपद्यते १
पुलस्त्य उवाच
शक्तयः सर्वभावानामचिंत्या ज्ञानगोचराः
यत्ततो ब्रह्मणस्तास्तुसर्गाद्या भावशक्तयः २
उत्पन्नः प्रोच्यते विद्वान्नित्य एवोपचारतः
निजेन तस्य मानेन आयुर्वर्षशतं स्मृतम् ३
तत्पराख्यं परार्द्धं च तदर्द्धं परिकीर्त्तितम्
काष्ठा पंचदशाख्या ता निमेषा नृपसत्तम ४
काष्ठा स्त्रिंशत्कला त्रिंशत्कला मौहूर्त्तिको विधिः
तावत्संख्यैरहोरात्रं मुहूर्त्तैर्मानुषं स्मृतम् ५
अहोरात्राणि तावंति मासः पक्षद्वयात्मकः
तैष्षड्भिरयनं वर्षमयने दक्षिणोत्तरे ६
अयनं दक्षिणं रात्रिर्देवानामुत्तरं दिनम्
दिव्यैर्वर्षसहस्रैस्तु कृतत्रेतादिसंज्ञितम् ७
चतुर्युगं द्वादशभिस्तद्विभागं निबोध मे
चत्वारि त्रीणिद्वे चैकं कृतादिषु यथाक्रमम् ८
दिव्याब्दानां सहस्राणि युगेष्वाहुः पुराविदः
तत्प्रमाणैः शतैः संध्या पूर्वा तत्राभिधीयते ९
संध्यांशकश्च तत्तुल्यो युगस्यानंतरो हि यः
संध्यासंध्यांशयोरंतः कालो यो नृपसत्तम १०
युगाख्यः स तु विज्ञेयः कृतत्रेतादिसंज्ञितः
कृतं त्रेता द्वापरं च कलिश्चैव चतुर्युगम् ११
प्रोच्यते तत्सहस्रं तु ब्रह्मणो दिवसं नृप
ब्रह्मणो दिवसे राजन्मनवश्च चतुर्दश १२
भवंति परिमाणं च तेषां कालकृतं शृणु
सप्तर्षयः सुराः शक्रो मनुस्तत्सूनवो नृप १३
एककाले हि सृज्यंते संह्रियंते च पूर्ववत्
चतर्युगानां संख्याता साधिका ह्येकसप्ततिः १४
मन्वंतरं मनोः कालः सुरादीनां च पार्थिव
अष्टौ शतसहस्राणि दिव्यया संख्यया स्मृतः १५
द्विपंचाशत्तथान्यानि सहस्राण्यधिकानि च
त्रिंशत्कोट्यस्तु संपूर्णाः संख्याताः संख्यया नृप १६
सप्तषष्टिस्तथान्यानि नियुतानि महामते
विंशतिश्च सहस्राणि कालोयमधिकं विना १७
मन्वंतरस्य संख्येयं मानुषैरिह वत्सरैः
चतुर्द्दशगुणो ह्येष कालो ब्राह्ममहः स्मृतम् १८
ब्राह्मो नैमित्तिको नाम तस्यांते प्रतिसंचरः
तदाहि दह्यते सर्वं त्रैलोक्यं भूर्भुवादिकम् १९
जनं प्रयांति तापार्त्ता महर्लोकनिवासिनः
एकार्णवे तु त्रैलोक्ये ब्रह्मा ब्रह्मविदां वरः २०
भोगिशय्यागतः शेते त्रैलोक्यग्रासबृंहितः
जनस्थैर्योगिभिर्द्देवश्चिंत्यमानो जगद्विभुः २१
तत्प्रमाणां हि तां रात्रिं तदंते सृजते पुनः
एवं तु ब्रह्मणो वर्षमेवं वर्षशतं च तत् २२
शतं हि तस्य वर्षाणां परमायुर्महात्मनः
एकमस्य व्यतीतं तु परार्धं ब्रह्मणोनघ २३
तस्यान्तेभून्महाकल्पः पाद्म इत्यभिविश्रुतः
द्वितीयस्य परार्धस्य वर्तमानस्य वै नृप २४
वाराह इति कल्पोयं प्रथमः परिकल्पितः
ब्रह्मा नारायणाख्योसौ कल्पादौ भगवान्यथा २५
ससर्ज सर्वभूतानि तदाचक्ष्व महामुने
पुलस्त्य उवाच
प्रजाः ससर्ज भगवाननादिस्सर्वसंभवः २६
अतीतकल्पावसाने निशासुप्तोत्थितः प्रभुः
सत्वोद्रिक्तस्तथा ब्रह्मा शून्यं लोकमवैक्षत २७
तोयान्तस्स महीं ज्ञात्वा निमग्नां वारिसंप्लवे
प्रविचिंत्य तदुद्धारं कर्तुकामः प्रजापतिः २८
विष्णुरूपं तदा ज्ञात्वा पृथ्वीं वोढुं स्वतेजसा
मत्स्यकूर्मादिकां चान्यां वाराहीं तनुमाविशत् २९
वेदयज्ञमयं रूपमाश्रित्य जगतः स्थितौ
स्थितः स्थिरात्मा सर्वात्मा परमात्मा प्रजापतिः ३०
प्रविवेशे तदा तोयं तोयाधारे धराधरः
निरीक्ष्य तं तदा देवी पातालतलमागतम् ३१
तुष्टाव प्रणता भूत्वा भक्तिनम्रा वसुंधरा
पृथिव्युवाच
नमस्ते सर्वभूताय नमस्ते परमात्मने ३२
मामुद्धरास्मादद्य त्वं त्वत्तोहं पूर्वमुत्थिता
परमात्मन्नमस्तेस्तु पुरुषात्मन्नमोस्तु ते ३३
प्रधानव्यक्तरूपाय कालभूताय ते नमः
त्वं कर्त्तासर्वभूतानां त्वं पाता त्वं विनाशकृत् ३४
सर्गादौ यः परोब्रह्मा विष्णुरुद्रात्मरूपधृक्
भक्षयित्वा च सकलं जगत्येकार्णवीकृते ३५
शेषे त्वमेव गोविन्द चिन्त्यमानो मनीषिभिः
भवतो यत्परं रूपं तन्न जानाति कश्चन ३६
अवतारेषु यद्रूपं तदर्चन्ति दिवौकसः
त्वामाराध्य परं ब्रह्म याता मुक्तिं मुमुक्षवः ३७
वासुदेवमनाराध्य को हि मोक्षमवाप्स्यति
यद्रूपं मनसा ग्राह्यं यद्ग्राह्यं चक्षुरादिभिः ३८
बुद्ध्या च यत्परिछेद्यं तद्रूपमखिलं तव
त्वन्मय्यहं त्वदाधारात्वत्सृष्टा त्वामुपाश्रिता ३९
माधवीमिति लोकोयमभिधत्ते ततो हि माम्
एवं संस्तूयमानस्तु पृथिव्या पृथिवीधरः ४०
सामस्वरध्वनिः श्रीमान्जगर्ज परिघर्घरम्
ततः समुत्क्षिप्य धरां स्वदंष्ट्रया महावराहः स्फुटपद्मलोचनः
रसातलादुत्पलपत्रसन्निभः समुत्थितो नील इवाचलो महान् ४१
उत्तिष्ठता तेन मुखानिलाहतं तदाप्लवांभो जनलोक संश्रयान्
सनंदनादीनपकल्मषान्मुनींश्चकार भूयोपि पवित्रतास्पदम् ४२
प्रयांति तोयानि खुराग्रविक्षते रसातलेऽधकृतशब्दसंततिः
बलाहकानां च तति स्तुतस्य श्वासानिलास्ता परितः प्रयाति ४३
उत्तिष्ठतस्तस्य जलार्द्रकुक्षेर्महावराहस्य महीं विदार्य
विधून्वतो वेदमयं श(शि?)रीरं रोमांतरस्था मुनयो जुषंति ४४
जनेश्वराणां परमेश केशव प्रभुर्गदा शंखदरासिचक्रधृक्
प्रभूति नाश स्थिति हेतुरीश्वरस्त्वमेव नान्यत्परमं च यत्पदम् ४५
पादेषु वेदास्तव यूपदंष्ट्रा दंतेषु यज्ञाः श्रुतयश्च वक्त्रे
हुताश जिह्वोसि तनूरुहाणि दर्भाः प्रभो यज्ञपुमांस्त्वमेव ४६
द्यावापृथिव्योरतुलप्रभाव यदंतरं तद्वपुषा तवैव
व्याप्तं जगद्वापि समस्तमेतद्धिताय विश्वस्य विभो भवत्वम् ४७
परमात्मा त्वमेवैको नान्योस्ति जगतः पते ४८
तवैष महिमा येन व्याप्तमेतच्चराचरं
ज्ञानस्वरूपमखिलं जगदेतदबुद्धयः ४९
अर्थस्वरूपं पश्यंतो भ्राम्यंते तमसः प्लवे
ये तु ज्ञानविदश्शुद्धचेतसस्तेऽखिलं जगत् ५० 1.3.50
ज्ञानात्मकं प्रपश्यंति त्वद्रूपं परमेश्वर
प्रसीद सर्वभूतात्मन्भवाय जगतस्त्विमाम् ५१
उद्धरोर्वीममेयात्मन्निमग्नामब्जलोचन
सत्वोद्रिक्तोसि भगवन्गोविंद पृथिवीमिमाम् ५२
समुद्धर भवायेश कुरु सर्वजगद्धितं
एवं संस्तूयमानश्च परमात्मा महीधरः ५३
उज्जहार क्षितिं क्षिप्रं न्यस्तवान्स महार्णवे
तस्योपरि जलौघेस्य महती नौरिवस्थिता ५४
ततः क्षितिं समां कृत्वा पृथिव्यामचिनोद्गिरीन्
यथाविभागं भगवाननादिः पुरुषोत्तमः ५५
भूविभागं ततः कृत्वा सप्तद्वीपान्यथातथं
भूताद्यांश्चतुरोलोकान्पूर्ववत्समकल्पयत् ५६
ब्रह्मणे विष्णुना पूर्वमेतदेव प्रदर्शितं
तुष्टेन देवदेवेन त्वं देवः पुरुषोत्तमः ५७
त्वया मया जगच्चेदं धार्यं पाल्यं च यत्नतः
येषां त्वसुरमुख्यानां वरो दत्तो मयाधुना ५८
देवानां हितकामेन हंतव्यास्ते त्वया विभो
अहं सृष्टिं करिष्यामि सा च पाल्या त्वया विभो ५९
एवमुक्तो गतो विष्णुर्देवादीनसृजद्विभुः
अबुद्धिपूर्वकस्तस्य प्रादुर्भूतस्तमोमयः ६०
तमो मोहो महामोहस्तामिस्रो ह्यन्धसंज्ञकः
पंचधावस्थितः सर्गो ध्यायतस्तु महात्मनः ६१
बहिरंतश्चाप्रकाशः संवृतात्मा नगात्मकः
मुख्यानागायतश्चोक्ता मुख्यसर्गस्ततस्त्वयं ६२
तं दृष्ट्वा साधकं सर्गममन्यदपरं प्रभुः
तस्याभिध्यायतस्सर्गस्तिर्यक्स्रोतोभ्यवर्तत ६३
यस्मात्तिर्यक्प्रवृत्तिः स्यात्तिर्यक्स्रोतस्ततः स्मृतः
पश्वादयस्ते विख्यातास्तमः प्राया ह्यवेदिनः ६४
उत्पथग्राहिणश्चैव ते ज्ञाने ज्ञानमानिनः
अहंकृतास्त्वहंमाना अष्टाविंशद्विधात्मकाः
अंतःप्रकाशास्ते सर्व आवृतास्ते परस्परम् ६५
तमप्यसाधकं मत्वा ध्यायतोन्यस्ततोभवत्
ऊर्द्ध्वस्रोतस्तृतीयस्तु सात्विकोर्ध्वमवर्तत ६६
ते सुखप्रीतिबहुला बहिरंतरनावृताः
प्रकाशा बहिरंतश्च ऊर्द्ध्वस्रोतास्ततः स्मृताः ६७
तुष्टात्मनस्तृतीयस्तु देवसर्गस्तु संस्मृतः
तस्मिन्सर्गे भवत्प्रीतिर्निष्पन्ने ब्रह्मणस्तदा ६८
ततोन्यं स तदा दध्यौ साधकं सर्गमुत्तमम्
असाधकांस्तुतान्ज्ञात्वा मुख्यसर्गादिसंभवान् ६९
तथाभिध्यायतस्तस्य सत्याभिध्यायिनस्ततः
प्रादुर्भूतस्तदाव्यक्तादर्वाक्स्रोतस्तु साधकः ७०
यस्मादर्वाक्प्रवर्तंते ततोऽवाक्स्रोतसस्तु ते
ते च प्रकाशबहुलास्तमोद्रिक्ता रजोधिकाः ७१
तस्मात्ते दुःखबहुला भूयोभूयश्च कारिणः
प्रकाशा बहिरंतश्च मनुष्याः साधकाश्च ते ७२
पंचमोनुग्रहः सर्गः स चतुर्द्धा व्यवस्थितः
विपर्ययेण सिद्ध्या च शक्त्या तुष्ट्या तथैव च ७३ (तुलनीय - ब्रह्माण्ड पुराणम् १.१.५.६१, लिङ्ग पुराणम् १.७०.१५८)
विवृत्तं वर्त्तमानं च ते न जानंति वै पुनः
भूतादिकानां भूतानां षष्ठः सर्गः स उच्यते ७४
ते परिग्राहिणः सर्वे सविभागतरास्तु ते
चोदना जाप्यशीलाश्च ज्ञेया भूतादिकास्तु ते ७५
इत्येते कथिताः सर्गाः षडत्र नृपसत्तम
प्रथमो महतस्सर्गो द्वितीयो ब्रह्मणस्तु यः ७६
तन्मात्राणां द्वितीयस्तु भूतसर्गोहि स स्मृतः
वैकारिकस्तृतीयस्तु सर्गश्चैंद्रियकः स्मृतः ७७
इत्येष प्राकृतः सर्गः संभूतो बुद्धिपूर्वकः
मुख्यसर्गश्चतुर्थस्तु मुख्या वै स्थावराः स्मृताः ७८
तिर्यक्स्रोतश्च यः प्रोक्तस्तिर्यग्योन्यस्स उच्यते
ततोर्ध्वस्रोतसां षष्ठो देवसर्गस्तु स स्मृतः ७९
ततोर्वाक्स्रोतसां सर्गः सप्तमः स तु मानुषः
अष्टमोनुग्रहः सर्गः सात्विकस्तामसस्तु सः ८०
पंचैते वैकृताः सर्गाः प्राकृतास्तु त्रयः स्मृताः
प्राकृतो वैकृतश्चैव कौमारो नवमः स्मृतः ८१
एते तव समाख्याता नवसर्गाः प्रजापतेः
प्राकृता वैकृताश्चैव जगतो मूलहेतवः ८२
सृजतो जगदीशस्य किमन्यच्छ्रोतुमर्हसि
भीष्म उवाच
संक्षेपात्कथिताः सर्गा देवादीनां गुरोस्तथा ८३
विस्तराच्छ्रोतुमिच्छामि त्वत्तो मुनिवरोत्तम
पुलस्त्य उवाच
कर्मभिर्भाविताः सर्वेकुशलाकुशलैस्तु ते ८४
ख्यात्या तया ह्यनिर्मुक्ताः संहारे ह्युपसंहृताः
स्थावरान्तास्सुराद्यास्तु प्रजा राजंश्चतुर्विधाः ८५
ब्रह्मणः कुर्वतः सृष्टिं जज्ञिरे मानसाः स्मृताः
ततो देवासुरपितॄन्मानुषांस्तु चतुष्टयं ८६
सिसृक्षुरंभांस्येतानि स्वमात्मानमयूयुजत्
मुक्तात्मनस्ततो जाता दुरात्मानः प्रजापतेः ८७
सिसृक्षोर्जघनात्पूर्वं जज्ञिरे त्वसुरास्ततः
तत्याज तां ततो दुष्टान्तमोमात्रात्मिकां तनुं ८८
सा तु त्यक्ता तनुस्तेन राजेंद्राभूद्विभावरी
सिसृक्षुरन्यदेहस्थः प्रीतिमापुस्ततः सुराः ८९
सत्वोद्रिक्ताः समुद्भूता मुखतो ब्रह्मणो नृप
त्यक्ता सापि तनुस्तेन सत्वप्रायमभूद्दिनं ९०
ततो हि बलिनो रात्रावसुरा देवतादि वा
सत्वमात्रात्मिकां चैव ततोन्यां जगृहे तनुम् ९१
पितृवन्मन्यमानस्य पितरस्तस्य जज्ञिरे
उत्ससर्ज पितॄन्कृत्वा ततस्तामपि स प्रभुः ९२
सा चोत्सृष्टा भवत्संध्या दिननक्तांतरा स्थितिः
रजोमात्रात्मिकामन्यां जगृहे स तनुं ततः ९३
रजोमात्रोत्कटा जाता मनुष्याः कुरुसत्तम
तामप्याशु स तत्याज तनुमाद्यां प्रजापतिः ९४
ज्योत्स्ना समभवच्चापि प्राक्संध्या याभिधीयते
ज्योत्स्नागमे तु बलिनो मनुष्याः पितरस्तथा ९५
राजेंद्र संध्यासमये तस्मात्ते प्रभवंति वै
ज्योत्स्ना रात्र्यहनी सन्ध्या चत्वार्येतानि वै विभोः ९६
ब्रह्मणस्तु शरीराणि त्रिगुणोपाश्रयाणि च
रजोमात्रात्मिकामेव ततोन्यां जगृहे तनुं ९७
ततः क्षुद्ब्रह्मणोजाता जज्ञे कोपस्तया कृतः
क्षुत्क्षामो ह्यंधकारे तु सोसृजद्भगवांस्ततः ९८
विरूपा अत्तुकामास्ते समधावंत तं प्रभुम्
रक्षतामेष यैरुक्तं राक्षसास्ते ततोभवन् ९९
ऊचुः खादाम इत्यन्ये ये ते यक्षास्तु तेभवन्
अतिभीतस्य तान्दृष्ट्वा केशाः शीर्यन्ति वेधसः १०० 1.3.100
हीनाश्च शिरसो भूयः समारोहंति ते शिरः
सर्पणात्तेभवन्सर्पा हीनत्वादहयः स्मृताः १०१
ततः क्रुद्धेन वै स्रष्ट्रा क्रोधात्मानो विनिर्मिताः
वर्णेन कपिशेनोग्रा भूतास्ते पिशिताशिनः १०२
धयतो गां समुद्भूता गंधर्वास्तस्य तत्क्षणात्
पिबंतो जज्ञिरे वाचं गंधर्वास्तेन तेऽभवन् १०३
एतानि सृष्ट्वा भगवान्ब्रह्मा तच्छक्तिचोदितः
ततः स्वच्छंदतोऽन्यानि वयांसि वयसोऽसृजत् १०४
अवयो वक्षसश्चक्रे मुखतोजांश्च सृष्टवान्
सृष्टवानुदराद्गाश्च महिषांश्च प्रजापतिः १०५
पद्भ्यां चाश्वान्स मातंगान्रासभान्गवयान्मृगान्
उष्ट्रानश्वतरांश्चैव न्यंकूनन्याश्च जातयः १०६
ओषध्यः फलमूलिन्यो रोमभ्यस्तस्य जज्ञिरे
त्रेतायुगमुखे ब्रह्मा कल्पस्यादौ नृपोत्तम १०७
सृष्ट्वा पश्वोषधीस्सम्यक्युयोज स तदाध्वरे
गामजं महिषम्मेषमश्वाश्वतरगर्दभान् १०८
एतान्ग्राम्यपशूनाहुरारण्यांश्च निबोधमे
श्वापदो द्विखुरो हस्ती वानरः पञ्चमः खगः १०९
उष्ट्रकाः पशवष्षष्ठास्सप्तमास्तु सरीसृपाः
गायत्रं च ऋचश्चैव त्रिवृत्सोमं रथन्तरम् ११०
अग्निष्टोमं च यज्ञानां निर्ममे प्रथमान्मुखात्
यजूंषि त्रैष्टुभं छन्दः स्तोमं पञ्चदशं तथा १११
बृहत्साम तथोक्थं च दक्षिणादसृजन्मुखात्
सामानि जगतीच्छन्दः स्तोमं सप्तदशं तथा ११२
वैरूपमतिरात्रं च पश्चिमादसृजन्मुखात्
एकविंशमथर्वाणमप्तोर्यामाणमेव च ११३
आनुष्टुभं सवैराजमुत्तरादसृजन्मुखात्
उच्चावचानि भूतानि गात्रेभ्यस्तस्य जज्ञिरे ११४
सुरासुरपितॄन्सृष्ट्वा मनुष्यांश्च प्रजापतिः
ततः पुनः ससर्जासौ स कल्पादौ पितामहः ११५
यक्षान्पिशाचान्गंधर्वांस्तथैवाप्सरसां गणान्
सिद्धकिन्नररक्षांसि सिंहान्पक्षिमृगोरगान् ११६
अव्ययं च व्ययं चैव यदिदं स्थाणुजंगमम्
तत्ससर्ज तदा ब्रह्मा भगवानादिकृद्विभुः ११७
तेषां ये यानि कर्माणि प्राक्सृष्ट्यां प्रतिपेदिरे
तान्येव प्रतिपद्यंते सृज्यमानाः पुनः पुनः ११८
हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मावृतानृते
तद्भाविताः प्रपद्यंते तस्मात्तत्तस्य रोचते ११९
इंद्रियार्थेषु भूतेषु शरीरेषु च स प्रभुः
नानात्त्वं विनियोगं च धातैव व्यसृजत्स्वयं १२०
नामरूपं च भूतानां कृत्यानां च प्रपंचनम्
वेदशब्देभ्य एवादौ देवादीनां चकार सः १२१
ऋषीणां नामधेयानि यथा वेदे श्रुतानि वै
यथानियोगं योग्यानि अन्येषामपि सोकरोत् १२२
यथर्तावृतुलिंगानि नानारूपाणि पर्यये
दृश्यंते तानितान्येव तथा भावा युगादिषु १२३
करोत्येवंविधां सृष्टिं कल्पादौ स पुनःपुनः
सिसृक्षुश्शक्तियुक्तोसौ सृज्य शक्तिप्रचोदितः १२४
भीष्म उवाच
अर्वाक्स्रोतास्तु कथितो भवता यस्तु मानुषः
ब्रह्मन्विस्तरतो ब्रूहि ब्रह्मा तमसृजद्यथा १२५
यथा सवर्णानसृजद्गुणांश्च स महामुने
यच्च तेषां स्मृतं कर्म विप्रादीनां तदुच्यताम् १२६
पुलस्त्य उवाच
सत्वाभिध्यायिनः पूर्वं सिसृक्षोर्ब्रह्मणः प्रजाः
अजायंत कुरुश्रेष्ठ सत्वोद्रिक्ता मुखात्प्रजाः १२७
वक्षसो रजसोद्रिक्तास्तथान्या ब्रह्मणोभवन्
रजसस्तमसश्चैव समुद्रिक्तास्तथोरुतः १२८
पद्भ्यामन्याः प्रजा ब्रह्मा ससर्ज कुरुसत्तम
तमःप्रधानास्ताः सर्वाश्चातुर्वर्ण्यमिदं ततः १२९
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च नृपसत्तम
पादोरुवक्षस्थलतो मुखतश्च समुद्गताः १३०
यज्ञनिष्पत्तये सर्वमेतद्ब्रह्मा चकार ह
चातुर्वर्ण्यं महाराज यज्ञसाधनमुत्तमम् १३१
यज्ञेनाप्यायिता देवा वृष्ट्युत्सर्गेण मानवाः
आप्यायंते धर्मयज्ञा यतः कल्याणहेतवः १३२
निष्पद्यंते नरैस्ते तु सुकर्मनिरतैः सदा
विरुद्धाचरणापेतैः सद्भिः सन्मार्गगामिभिः १३३
स्वर्गापवर्गं मानुष्यात्प्राप्नुवंति नरा नृप
यच्चाभिरुचितं स्थानं तद्यांति मनुजा विभो १३४
प्रजास्ता ब्रह्मणा सृष्टाश्चातुर्वर्ण्यव्यवस्थितौ
सम्यक्शुद्धाः समाचारा चरणा नृपसत्तम १३५
यथेच्छावासनिरताः सर्वबाधाविवर्जिताः
शुद्धांतःकरणाः शुद्धा धर्मानुष्ठाननिर्मलाः १३६
शुद्धे च तासां मनसि शुद्धांतःसंस्थिते हरौ
शुद्धज्ञानं प्रपश्यंति ब्रह्माख्यं येन तत्पदं १३७
ततः कालात्मको योसौ विरिंचा वा स उच्यते
संसारपातमत्यर्थं घोरमल्पाल्पसारवत् १३८
अधर्मबीजभूतं तत्तमोलोभसमुद्गतम्
प्रजासु तासु राजेंद्र रागादिक्रमसाधनम् १३९
ततः सा सहजासिद्धिस्तेषां नातीव जायते
राजन्वश्यादयश्चान्याः सिद्धयोष्टौ भवंति याः १४०
तासु क्षीणास्वशेषासु वर्द्धमाने च पातके
द्वंद्वाभिभवदुःखार्तास्ता भवंति ततः प्रजाः १४१
ततो दुर्गाणि ताश्चक्रुर्वार्क्षं पार्वतमौदकम्
धान्वनं च तथा दुर्गं पुरं खार्वटकादि यत् १४२
गृहाणि च यथान्यायं तेषु चक्रुः पुरादिषु
शीततापादिबाधानां प्रशमाय महामते १४३
प्रतिहारमिमं कृत्वा शीतादेस्ताः प्रजाः पुनः
वार्तोपायं ततश्चक्रुर्हस्तसिद्धिं च कर्मजाम् १४४
व्रीहयश्च यवाश्चैव गोधूमा अणवस्तिलाः
प्रियंगुकोविदाराश्च कोरदूषाः सचीनकाः १४५
माषा मुद्गा मसूराश्च निष्पावाः सकुलत्थकाः
अढकाश्चणकाश्चैव शणास्सप्तदश स्मृताः १४६
इत्येता ओषधीनां तु ग्राम्याणां जातयो नृप
ओषध्यो यज्ञियाश्चैव ग्राम्यावन्याश्चतुर्दश १४७
व्रीहयः सयवा माषा गोधूमा अणवस्तिलाः
प्रियंगुसप्तमा ह्येता अष्टमास्तु कुलुत्थकाः १४८
श्यामाकस्त्वथ नीवारो वर्तुलस्स गवेधुकः
अथ वेणुयवाः प्रोक्तास्तद्वन्मर्कटका नृप १४९
ग्राम्या वन्याः स्मृता ह्येता ओषध्यश्च चतुर्दश
यज्ञनिष्पत्तये तद्वत्तथासां हेतुरुत्तमः १५० 1.3.150
एताश्च सहयज्ञेन प्रजानां कारणं परम्
परापरविदः प्राज्ञास्ततो यज्ञान्वितन्वते १५१
अहन्यहन्यनुष्ठानं यज्ञानां पार्थिवोत्तम
उपकारकरं पुंसां क्रियमाणं फलार्थिनाम् १५२
येषां चकालसृष्टोसौ पपा(?)बिंदुर्महामते
मर्यादां स्थापयामास यथास्थानं यथागुणम् १५३
वर्णानामाश्रमाणां च धर्मान्धर्मभृतांवर
लोकांश्च सर्ववर्णानां सम्यग्धर्मानुपालिनाम् १५४
प्राजापत्यं ब्राह्मणानां स्मृतं स्थानं तु पार्थिव
स्थानमैंद्रं क्षत्रियाणां सङ्ग्रामेष्वनिवर्तिनाम् १५५
वैश्यानाम्मारुतं स्थानं स्वधर्ममनुवर्तिनाम्
गान्धर्वं शूद्रजातीनां परिचर्या सुवर्तिनाम् १५६
अष्टाशीतिसहस्राणां यतीनामूर्द्ध्वरेतसाम्
स्मृतं तेषां तु यत्स्थानं तदेव गुरुवासिनाम् १५७
सप्तर्षीणां च यत्स्थानं स्मृतं तद्वै वनौकसाम्
प्राजापत्यं गृहस्थानां न्यासिनां ब्राह्मसंज्ञितम् १५८
योगिनाममृतं स्थानं ब्रह्मणः परमं पदं
एकांतिनः सदोद्युक्ता ध्यायिनो योगिनो हि ये१५९
तेषां तत्परमं स्थानं यत्तत्पश्यंति सूरयः
गतागतानि वर्त्तंते चंद्रादित्यादयो ग्रहाः १६०
अद्यापि न निवर्तंते नारायणपरायणाः
तामिस्रमंधतामिस्रं महारौरव रौरवम् १६१
असिपत्रवनं घोरं कालसूत्रमवीचिमत्
विनिंदकानां वेदस्य यज्ञव्याघातकारिणाम् १६२
स्थानमेतत्समाख्यातं स्वधर्मत्यागिनश्च ये
ततोभिध्यायतस्तस्य जज्ञिरे मानसाः प्रजाः १६३
तच्छरीरसमुत्पन्नैः कायस्थैः करणैः सह
क्षेत्रज्ञाः समवर्त्तंत गात्रेभ्यस्तस्य धीमतः १६४
ते सर्वे समवर्तंत ये मया प्रागुदाहृताः
देवाद्याः स्थावरां ताश्च त्रैगुण्यविषयेस्थिताः १६५
एवं भूतानि सृष्टानि स्थावराणि चराणि च
यदास्य ताः प्रजाः सर्वानव्यवर्द्धंतधीमतः १६६
अथान्यान्मानसान्पुत्रान्सदृशानात्मनोऽसृजत्
भृगुं मां पुलहं चैव क्रतुमंगिरसं तथा १६७
मरीचिं दक्षमत्रिं चवसिष्ठंचैवमानसान्
नवब्रह्माण इत्येतेपुराणे निश्चयं गताः १६८
सनंदनादयो ये च पूर्वं सृष्टास्तु वेधसा
न ते लोकेष्वसज्जंत निरपेक्षाः प्रजासुते १६९
सर्वे ह्यागतविज्ञाना वीतरागा विमत्सराः
तेष्वेवं निरपेक्षेषु लोकसृष्टौ महात्मनः १७०
ब्रह्मणोभून्महान्क्रोधस्त्रैलोक्यदहन क्षमः
तस्य क्रोधात्समुद्भूतं ज्वालामालावदीपितम् १७१
ब्रह्मणस्तु तदा ज्योतिस्त्रैलोक्यमखिलं दहत्
भ्रकुटी कुटिलात्तस्य ललाटात्क्रोधदीपितात् १७२
समुत्पन्नस्तदा रुद्रो मध्याह्नार्कसमप्रभः
अर्द्धनारीनरवपुः प्रचण्डोति शरीरवान् १७३
विभजात्मानमित्युक्त्वा तं ब्रह्मांतर्दधेः ततः
तथोक्तोसौ द्विधा स्त्रीत्वं पुरुषत्वं तथाकरोत् १७४
बिभेद पुरुषत्वं च दशधा चैकधा च सः
सौम्यासौम्यैस्तथा रूपैः शांतैः स्त्रीत्वं च स प्रभुः १७५
बिभेद बहुधा चैव स्वरूपैरसितैः सितैः
ततो ब्रह्मा स्वयंभूतं पूर्वं स्वायंभुवं प्रभुम् १७६
आत्मानमेव कृतवान्प्रजापत्ये मनुं नृप
शतरूपां च तां नारीं तपोनिर्द्धूतकल्मषाम् १७७
स्वायंभुवो मनुर्नाम पत्नीत्वे जगृहे प्रभुः
तस्माच्च पुरुषाद्देवी शतरूपा व्यजायत १७८
प्रियव्रतोत्तातनपाद प्रसूत्याकूति संज्ञितम्
ददौ प्रसूतिं दक्षाय आकूतिं रुचये पुरा १७९
प्रजापतिः स जग्राह तयोर्जज्ञे स दक्षिणः
पुत्रो यज्ञो महाभाग दंपत्योर्मिथुनं ततः १८०
यज्ञस्य दक्षिणायां तु पुत्रा द्वादश जज्ञिरे
यामा इति समाख्याता देवाः स्वायंभुवे मनौ १८१
प्रसूत्यां च तथा दक्षश्चतस्रो विंशतिं तथा
ससर्ज कन्यास्तासां तु सम्यङ्नामानि मे शृणु १८२
श्रद्धा लक्ष्सीर्धृतिः पुष्टिस्तुष्टिर्मेधा क्रिया तथा
बुद्धिर्लज्जावपुः शांतिर्ऋद्धिः कीर्तिस्त्रयोदशी १८३
पत्न्यर्थं प्रतिजग्राह धर्मो दाक्षायिणीः प्रभुः
ताभ्यः शिष्टा यवीयस्य(स्प?) एकादश सुलोचनाः १८४
ख्यातिः सत्यथ संभूतिः स्मृतिः प्रीतिः क्षमा तथा
सन्नतिश्चानसूया च ऊर्ज्जा स्वाहा स्वधा तथा १८५
भृगुर्भवो मरीचिश्च तथा चैवांगिरा मुनिः
अहं च पुलहश्चैव क्रतुर्मुनिवरस्तथा १८६
अत्रिर्वसिष्ठो वह्निश्च पितरश्च यथाक्रमम्
ख्यात्याद्या जगृहुः कन्या मुनयो राजसत्तम १८७
श्रद्धा कामं बलं लक्ष्मीर्नियमं धृतिरात्मजम्
संतोषं च तथा तुष्टिर्लोभं पुष्टिरसूयत १८८
मेधा श्रुतं क्रिया दण्डं नयं विनयमवे च
बोधं बुद्धिस्तथा लज्जा विनयं वपुरात्मजम् १८९
व्यवसायं प्रजज्ञे वै क्षेमं शान्तिरसूयत
सुखमृद्धिर्यशः कीर्तिरित्येते धर्मसूनवः १९०
कामान्नंदी सुतं हर्षं धर्मपौत्रमसूयत
हिंसा भार्यात्वधर्मस्य तस्य जज्ञे तदानृतं १९१
कन्या च निकृतिस्ताभ्यां भयं नरक एव च
माया च वेदना चैव मिथुनं द्वंद्वमेव च १९२
तयोर्जज्ञेथ वै माया मृत्युं भूतापहारिणम्
वेदनायास्ततश्चापि दुःखं जज्ञेथ रौरवात् १९३
मृत्योर्व्याधिजराशोक तृष्णाक्रोधाश्च जज्ञिरे
दुःखोत्तराः स्मृता ह्येते सर्वे चाधर्मलक्षणाः १९४
नैषां भार्यास्ति पुत्रो वा ते सर्वे ह्यूर्द्ध्वरेतसः
रौद्राण्येतानि रूपाणि ब्रह्मणो नृवरात्मज १९५
नित्यं प्रलयहेतुत्वं जगतोस्य प्रयांति वै
रुद्रसर्गं प्रवक्ष्यामि यथा ब्रह्मा चकार हा(?) १९६
कल्पादावात्मनस्तुल्यं सुतं प्रध्यायतस्ततः
प्रादुरासीत्प्रभोरंके कुमारो नीललोहितः १९७
रुदन्वै सुस्वरं सोथ द्रवंश्च नृपसत्तम
किं रोदिषीति तं देवो रुदंतं प्रत्युवाच ह १९८
नामधेहीति तं सोथ प्रत्युवाच प्रजापतिम्
रोदनाद्रुद्रनामासि मा रोदीर्धैर्यमावह १९९
एवमुक्तः पुनस्सोथ सप्तकृत्वो रुरोद ह
ततोन्यानि ददौ तस्मै सप्तनामानि वै प्रभुः २०० 1.3.200
मूर्त्तीनां चैवमष्टानां स्थानान्यष्टौ चकार ह
भवं शर्वमथेशानं तथा पशुपतिं नृप २०१
भीममुग्रं महादेवमुवाच स पितामहः
सूर्यो जलं मही वह्निर्वायुराकाशमेव च २०२
दीक्षितो ब्राह्मणः सोम इत्येते तनवः कमात्
एवं प्रकारो रुद्रोसौ सतीं भार्यामविंदत २०३
दक्षकोपाच्च तत्याज सा सती स्वं कलेवरम्
हिमवद्दुहिता साभून्मेनायां नृपसत्तम २०४
उपयेमे पुनश्चैव याचित्वा भगवान्भवः
दाक्षी धातृविधातारौ भृगोः ख्यातिरसूयत २०५
श्रियं च देवदेवस्य पत्नी नारायणस्य या २०६

इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे तृतीयोध्यायः ३