पद्मपुराणम्/खण्डः १ (सृष्टिखण्डम्)/अध्यायः ०१

विकिस्रोतः तः
Jump to navigation Jump to search
पद्मपुराणम्/खण्डः १ (सृष्टिखण्डम्)
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२

श्रीविष्णवे नमः

स्वच्छं चंद्रावदातं करिकरमकरक्षोभसंजातफेनं
ब्रह्मोद्भूतिप्रसक्तैर्व्रतनियमपरैः सेवितं विप्रमुख्यैः
कारालंकृतेन त्रिभुवनगुरुणा ब्रह्मणा दृष्टिपूतं
संभोगाभोगरम्यं जलमशुभहरं पौष्करं वः पुनातु१
सूतमेकांतमासीनं व्यासशिष्यं महामतिः
लोमहर्षणनामा वा उग्रश्रवसमाह तत्२
ऋषीणामाश्रमांस्तात गत्वा धर्मान्समासतः
पृच्छतां विस्तराद्ब्रूहि यन्मत्तः श्रुतवानसि३
वेदव्यासान्मया पुत्र पुराणान्यखिलानि च
तवाख्यातानि प्राप्तानि मुनिभ्यो वद विस्तरात्४
प्रयागे मुनिवर्यैश्च यथापृष्टः स्वयं प्रभुः
पृष्टेन चानुशिष्टास्ते मुनयो धर्मकांक्षिणः५
देशं पुण्यमभीप्संतो विभुना च हितैषिणा
सुनाभं दिव्यरूपं च सत्यगं शुभविक्रमं६
अनौपम्यमिदं चक्रं वर्तमानमतंद्रिताः
पृष्टतो यातनियमात्पदं प्राप्स्यथ यद्धितम्७
गच्छतो धर्मचक्रस्य यत्र नेमिर्विशीर्यते
पुण्यः स देशो मंतव्य इत्युवाच स्वयं प्रभुः८
उक्त्वा चैवमृषीन्सर्वानदृश्यत्वमगात्पुनः
गंगावर्तसमाहारो नेमिर्यत्र व्यशीर्यत९
ईजिरे दीर्घसत्रेण ऋषयो नैमिषे तदा
तत्र गत्वा तु तान्ब्रूहि पृच्छतो धर्मसंशयान्१०
उग्रश्रवास्ततो गत्वा ज्ञानविन्मुनिपुंगवान्
अभिगम्योपसंगृह्य नमस्कृत्वा कृतांजलिः११
तोषयामास मेधावी प्रणिपातेन तानृषीन्
ते चापि सत्रिणः प्रीताः ससदस्या महात्मने१२
तस्मै समेत्य पूजां च यथावत्प्रतिपेदिरे
ऋषय ऊचुः
कुतस्त्वमागतः सूत कस्माद्देशादिहागतः१३
कारणं चागमे ब्रूहि वृंदारकसमद्युते
सूत उवाच
पित्राहं तु समादिष्टो व्यासशिष्येण धीमता१४
शुश्रूषस्व मुनीन्गत्वा यत्ते पृच्छंति तद्वद
वदंतु भगवंतो मां कथयामि कथां तु यां१५
पुराणं चेतिहासं वा धर्मानथ पृथग्विधान्
तां गिरं मधुरां तस्य शुश्रुवुर्ऋषिसत्तमाः१६
अथ तेषां पुराणस्य शुश्रूषा समपद्यत
दृष्ट्वा तमतिविश्वस्तं विद्वांसं लौमहर्षणिं१७
तस्मिन्सत्रे कुलपतिस्सर्वशास्त्राविशारदः
शौनको नाम मेधावी विज्ञानारण्यके गुरुः१८
इत्थं तद्भावमालंब्य धर्माञ्छुश्रूषुराह तम्
त्वया सूत महाबुद्धे भगवान्ब्रह्मवित्तमः१९
इतिहासपुराणार्थं व्यासः सम्यगुपासितः
दुदोहिथमतिं तस्य त्वं पुराणाश्रयां शुभां२०
अमीषां विप्रमुख्यानां पुराणं प्रति सम्प्रति
शुश्रूषाऽस्ते महाबुद्धे तछ्रावयितुमर्हसि२१
सर्वे हीमे महात्मानो नानागोत्राः समागताः
स्वान्स्वानंशान्पुराणोक्ताञ्छृण्वन्तु ब्रह्मवादिनः२२
संपूर्णे दीर्घसत्रेस्मिंस्तांस्त्वं श्रावय वै मुनीन्
पाद्मं पुराणं सर्वेषां कथयस्व महामते२३
कथं पद्मं समुद्भूतं ब्रह्म तत्र कथं न्वभूत्
प्रोद्भूतेन कथं सृष्टिः कृता तां तु तथा वद२४
एवं पृष्टस्ततस्तांस्तु प्रत्युवाच शुभां गिरम्
सूक्ष्मं च न्यायसंयुक्तं प्राब्रवीद्रौमहर्षणिः२५
प्रीतोस्म्यनुगृहीतोस्मि भवद्भिरिह चोदनात्
पुराणार्थं पुराणज्ञैः सर्वधर्मपरायणैः२६
यथाश्रुतं सुविख्यातं तत्सर्वं कथयामि वः
धर्म एष तु सूतस्य सद्भिर्दृष्टः सनातनः२७
देवतानामृषीणां च राज्ञां चामिततेजसाम्
वंशानां धारणं कार्यं स्तुतीनां च महात्मनाम्२८
इतिहासपुराणेषु दृष्टा ये ब्रह्मवादिनः
न हि वेदेष्वधीकारः कश्चित्सूतस्य दृश्यते२९
वैन्यस्य हि पृथोर्यज्ञे वर्त्तमाने महात्मनः
मागधश्चैव सूतश्च तमस्तौतां नरेश्वरम्३०
तुष्टेनाथ तयोर्द्दत्तो वरो राज्ञा महात्मना
सूताय सूतविषयो मगधो मागधाय च३१
तत्र सूत्यां समुत्पन्नः सूतो नामेह जायते
ऐन्द्रे सत्रे प्रवृत्ते तु ग्रहयुक्ते बृहस्पतौ३२
तमेवेंद्रं बार्हस्पत्ये तत्र सूतो व्यजायत
शिष्यहस्तेन यत्पृक्तमभिभूतं गुरोर्हविः३३
अधरोत्तरधारेण जज्ञे तद्वर्णसंकरम्
येत्र क्षत्रात्समभवन्ब्राह्मण्याश्चैव योनितः३४
पूर्वेणैव तु साधर्म्याद्वैधर्मास्ते प्रकीर्तिताः
मध्यमो ह्येष सूतस्य धर्मः क्षेत्रोपजीविनः३५
पुराणेष्वधिकारो मे विहितो ब्राह्मणैरिह
दृष्ट्वा धर्ममहं पृष्टो भवद्भिर्ब्रह्मवादिभिः३६
तस्मात्सम्यग्भुवि ब्रूयां पुराणमृषिपूजितम्
पितॄणां मानसी कन्या वासवं समपद्यत३७
अपध्याता च पितृभिर्मत्स्यगर्भे बभूव सा
अरणीव हुताशस्य निमित्तं पुण्यजन्मनः३८
तस्यां बभूव पूतात्मा महर्षिस्तु पराशरात्
तस्मै भगवते कृत्वा नमः सत्याय वेधसे३९
पुरुषाय पुराणाय ब्रह्मवाक्यानुवर्तिने
मानवच्छद्मरूपाय विष्णवे शंसितात्मने४०
जातमात्रं च यं वेद उपतस्थे ससंग्रहः
मतिमंथानमाविध्य येनासौ श्रुतिसागरात्४१
प्रकाशो जनितो लोके महाभारत चंद्रमाः
भारतं भानुमान्विष्णुर्यदि न स्युरमी त्रयः४२
ततोऽज्ञानतमोंधस्य कावस्था जगतो भवेत्
कृष्णद्वैपायनं व्यासं विद्धि नारायणं प्रभुम्४३
को ह्यन्यः पुंडरीकाक्षान्महाभारतकृद्भवेत्
तस्मादहमुपाश्रौषं पुराणं ब्रह्मवादिनः४४
सर्वज्ञात्सर्वलोकेषु पूजिताद्दीप्ततेजसः
पुराणं सर्वशास्त्राणां प्रथमं ब्रह्मणा स्मृतम्४५
उत्तमं सर्वलोकानां सर्वज्ञानोपपादकम्
त्रिवर्गसाधनं पुण्यं शतकोटिप्रविस्तरम्४६
निःशेषेषु च लोकेषु वाजिरूपेण केशवः
ब्रह्मणस्तु समादेशाद्वेदानाहृतवानसौ४७
अंगानि चतुरो वेदान्पुराणन्यायविस्तरम्
असुरेणाखिलं शास्त्रमपहृत्यात्मसात्कृतम्४८
मत्स्यरूपेणाजहार कल्पादावुदकार्णवे
अशेषमेतदवददुदकांतर्गतो विभुः४९
श्रुत्वा जगाद च मुनीन्प्रतिवेदांश्चतुर्मुखः
प्रवृत्तिस्सर्वशास्त्राणां पुराणस्याभवत्तदा५० 1.1.50
कालेनाग्रहणं दृष्ट्वा पुराणस्य तदा विभुः
व्यासरूपस्तदा ब्रह्मा संग्रहार्थं युगे युगे५१
चतुर्लक्षप्रमाणेन द्वापरे द्वापरे जगौ
तदाष्टादशधा कृत्वा भूलोकेस्मिन्प्रकाशितं५२
अद्यापि देवलोकेषु शतकोटिप्रविस्तरम्
तदेवात्र चतुर्लक्षं संक्षेपेण निवेशितम्५३
प्रवक्ष्यामि महापुण्यं पुराणं पाद्मसञ्ज्ञितम्
सहस्रं पञ्चपञ्चाशत्पंचखण्डैस्समन्वितम्५४
तत्रादौ सृष्टिखण्डं स्याद्भूमिखण्डं ततः परम्
स्वर्गखण्डं ततः पश्चात्ततः पातालखण्डकम्५५
पञ्चमं च ततः ख्यातमुत्तरं खण्डमुत्तमम्
एतदेव महापद्ममुद्भूतं यन्मयं जगत्५६
तद्वृत्तान्ताश्रयं यस्मात्पाद्ममित्युच्यते ततः
एतत्पुराणममलं विष्णुमाहात्म्यनिर्मलम्५७
देवदेवो हरिर्यद्वै ब्रह्मणे प्रोक्तवान्पुरा
ब्रह्मणाभिहितं पूर्वं यावन्मात्रं मरीचये५८
एतदेव च वै ब्रह्मा पाद्मं लोके जगाद वै
सर्वभूताश्रयं तच्च पाद्ममित्युच्यते बुधैः५९
पाद्मं तत्पंचपंचाशत्सहस्राणीह पठ्यते
पंचभिः पर्वभिः प्रोक्तं संक्षेपाद्व्यासकारितात्६०
पौष्करं प्रथमं पर्व यत्रोत्पन्नः स्वयं विराट्
द्वितीयं तीर्थपर्व स्यात्सर्वग्रहगणाश्रयम्६१
तृतीयपर्वग्रहणा राजानो भूरिदक्षिणाः
वंशानुचरितं चैव चतुर्थे परिकीर्तितम्६२
पंचमे मोक्षतत्वं च सर्वतत्वं निगद्यते
पौष्करे नवधा सृष्टिः सर्वेषां ब्रह्मकारिता६३
देवतानां मुनीनां च पितृसर्गस्तथापरः
द्वितीये पर्वताश्चैव द्वीपाः सप्त ससागराः६४
तृतीये रुद्रसर्गस्तु दक्षशापस्तथैव च
चतुर्थे संभवो राज्ञां सर्ववंशानुकीर्त्तनम्६५
अन्त्येपवर्गसंस्थानं मोक्षशास्त्रानुकीर्त्तनम्
सर्वमेतत्पुराणेऽस्मित्कथयिष्यामि वो द्विजाः६६
इदं पवित्रं यशसो निधानमिदं पितॄणामतिवल्लभं स्यात् इदं च देवस्य सुखाय नित्यमिदं महापातकभिच्च पुंसाम्६७

इति श्री पद्मपुराणे प्रथमे सृष्टिखंडे पुराणावतारे प्रथमोऽध्यायः१