पद्मपुराणम्/खण्डः १ (सृष्टिखण्डम्)/विषयानुक्रमणिका

विकिस्रोतः तः

प्रथमं सृष्टिखण्डम् ।। १ ।।

१-- मंगलाचरणम् लोमहर्षणेनोग्रश्रवसऋपीन्प्रति सर्वधर्मकथनायाज्ञादानम्, नैमिषा- रण्योत्पत्तिप्रस्तावः, नैमिषारण्यंप्रतिगतस्योग्रश्रवसस्तत्रन्यमहर्षिभिः सह संवा- दः, पुराणश्रवणाय शौनकप्रार्थना, सूतोत्पत्तिवर्णनम्, व्यासजन्मकथानिरूपणम, पुराणप्रशंसायां पाद्मपुराणस्याधिकप्रशंसावर्णनम्, तत्रत्यमुख्यविषयवर्णनम् श्लोकांकाः ६७ ।।

२-- सूतकृतमंगलाचरणम्, सृष्टिखंडस्थविषयवर्णनम्, पुराणप्रशंसा,गंगाद्वारे पुलस्त्य- भीप्मसंवादः, पुलस्त्येन ब्रह्मणः सृष्टिप्रकारवर्णनम्, महदादिसकलसृष्टिवर्णनम्. श्लोकांकाः ११९ ।।

३-- कालपरिमाणम्, प्रलये जलनिमग्नायाः पृथिव्या उद्धारणाय वाराहरूपस्य जलंप्र- विष्टस्य भगवतः पृथ्वीकृतस्तुतिवर्णनम्, भगवत्कृतपृथिव्युद्धरणम्, ब्रह्मदेवकृत नवविधसृष्टीनां संक्षेपेण वर्णनम्,सुरादिस्थावरांतचतुर्विधप्रजानां विस्तरेण सृष्टिवर्णन म्, मुखाद्यवयवविशेषाद्ब्राह्मणादिवर्णोत्पत्तिवर्णनपुरःसरं यज्ञनिष्पत्त्यर्थमोषध्यादि वर्णनम्, सृष्टप्राणिनां स्थानवर्णनम्, मानससृष्टिकथने भृग्वाद्युत्पत्ति, रुद्रोत्पत्तिः, स्वायंभुवोत्पत्तिः, स्वायंभुवप्रजासर्गवर्णनम् भृगोर्लक्ष्म्युत्पत्तिवर्णनम्, श्लो- कांकाः २०६ ।।

४- समुद्रमंथनप्रस्तावे दुर्वाससइंद्राय शापप्रदानवर्णनम्, देवदैत्यैरेकत्रमिलित्वा समुद्रमन्थनम्, मथ्यमानात्समुद्रात्सुरभ्यादिरत्नोत्पत्तिः, लक्ष्म्युत्पत्तिसमनंतरं लक्ष्म्या विष्णु वरणम्, अमृतोत्पत्तौ देवानाममृतप्राशनम्, पुनर्भृगोः ख्यात्यां लक्ष्म्युत्पत्तिः,नर्मदा तीरे लक्ष्मीपुरयाचनावसरे भृगुणा विष्णोः शापदानम्, ब्रह्मणा पुनःसृष्टिकरणम, ना रदेन ब्रह्मणः सृष्टिस्वरूपवर्णनम, ब्रह्मणा नारदाय वरप्रदानम् श्लोकांकाः १३७ ।।

५-- दक्षयज्ञविध्वंसकथानकम, तत्र दक्षेण यज्ञे समारब्धे सति सत्याः दक्षेण सह संवा दः, दक्षकृतसतीसांत्वनम्, सत्या देहत्यागः, दक्षकृत शंकरस्तुतिः, शिवेन दक्षाय व रप्रदानम, सतीनिमित्तं शिवस्य गंगाद्वारे चिताकरणम्, हिमवदुत्पन्नायाः पार्व त्या शिवेन सह विवाहः। श्लोकाकाः ९५ ।। ।

६-- दक्षात्प्राक् संकल्पदर्शनस्पर्शजन्यासृष्टिः, दक्षादूर्ध्वं मैथुनतः सृष्टिः, हर्यश्वानां श- बलाश्वानां च नारदोपदेशेन मोक्षपथाश्रयणम्, विश्वदेववसुरुद्रादित्यदैत्याना- मुत्पत्तिः, तत्र दैत्योत्पत्तौ संक्षिप्तबाणचरित्रम्, दानवशुक्रादिगरुडादि- । . समुत्पत्तिः ' श्लो० ७९ ।।

७-- मरुदुत्पत्ति-कथानकवर्णनम्, तत्र दितिव्रतकरणम्, कश्यपाद्गर्भप्राप्तिवर्णनम्, गर्भिणीधर्माः, व्रतलोपे सतींद्रेण दित्याः कुक्षीप्रविश्य वज्रेण गर्भस्यैकोनपंचाशत्खं डकरणम् तेषां जीवतांगर्भखंडानां मरुदित्यभिधाकरणम्, तन्निरुक्तिश्च, । प्रतिसर्गवर्णने पृथुप्रभृतीनामाधिपत्यवर्णनम्, स्वारोचिषोत्तमितामसरैवतचाक्षुषवै वस्वतसावर्ण्यरौच्यमेरुसावर्णिऋभुऋतुधामविष्वक्सेनानां चतुर्दशमनूनामुद्देशेन तत्तदंतरवर्णनम् श्लोकांकाः ११५ ।।

८-- पृथुराजकथानकम्, तत्र संक्षिप्तपृथूत्पत्तिसमनंतरं पृथुना वत्सपात्रपयोदोग्धृ भेदेन पृथिवीदोहनम्, दोहनोत्तरं पुरग्रामादिव्यवस्थाकरणपूर्वकं पृथिव्याः पृथुदुहितृत्ववर्णनम्, सूर्यवंशवर्णनम् यमयमुनोत्पत्तिः, सावर्णिमनूत्पत्तिः, छाया याः सूर्यपत्न्याः संक्षिप्तचरित्रम्, संज्ञाया वडवारूपधारणम्, सूर्यतेजःशातनम् सूर्यमूर्त्तेः पादावयवाकरणेहेतुः, अश्विनीकुमारोत्पत्तिः, शनेर्ग्रहत्ववर्णनम्, य मुनातपत्योर्नदीत्वम्, विष्टिघोरयोः कालत्वम्, वैवस्वतमनुवंशवर्णनम्, वैवस्वतपुत्रस्येलस्य शंभूपवनगमनात्स्त्रीत्वप्राप्तौ बुधेन सह संयोगः, इक्ष्वाकादीनामिल भ्रातॄणां शिवाराधनम्, तदाराधनतुष्टशंकरेण वरप्रदानादिलस्य मासप्राप्यपुरु षत्वमासप्राप्यस्त्रीत्ववर्णनम् इलात्पुत्रोत्पत्तिः, इलावृतवर्षनामधेयम्, इलस्य वंश वर्णनम्, इक्ष्वाकुवंशवर्णनम श्लोकांकाः १६१ ।।

९-- पितृवंशानुचरितम्, तत्र मायाव्यभिचाराद्भूलोके मत्स्ययोनिजसत्यवतीत्वप्रा प्तिः, पितॄणांश्राद्ध, श्राद्धीयद्रव्य, श्राद्धकाल, श्राद्धस्थान, श्राद्धविधिवर्णनम, अनु पनीतविधुरयोः साधारणश्राद्धविधिः, शूद्रस्यामंत्रकंश्राद्धम्, आभ्युदयिकश्राद्ध- म् श्लोकांकाः १९२, ।।

१ ०-- एकोद्दिष्टश्राद्धविधिः, वर्णानुपूर्व्येण जननाशौचशावाशौचनिर्णयः, अस्थिसंच चयनादिप्रेतकर्म, लेपभाक्सपिंडपितृगणंनिर्णयः, विप्रादिभोजनेन पितृगणतृ प्तिविषयकशंकानिराकरणम् श्राद्धविषये कौशिकसूनुकथानकम् श्लोकांकाः१२७

११- श्राद्धयोग्यप्रशस्तदेशवर्णनम्, सत्यदयेंद्रियनिग्रहशमानामपि तीर्थत्वम्, श्राद्ध योग्यप्रशस्तकालवर्णनम् श्लोकांकाः ९५ ।।

१२-- सोमवंशवर्णनम्, तत्र चंद्रोत्पत्तिः, चन्द्रकृतयज्ञवर्णनम्, चंद्रेण ताराहरणे कृते सति बृहस्पतियाञ्चयाप्यदत्तायां तस्यां रुद्रकृतयुद्धोत्तरं चंद्रेण बृहस्पतये तारा दानम्, चंद्रवीर्यात्तारायां बुधोत्पत्तिः, बुधात्पुरूरवसोजन्म,पुरूरवसश्चरित्रम् पु रूरवसः पुत्रादिवंशवर्णनम्, बृहस्पतिकृतं रजिपुत्रमोहनम्, कार्तवीर्यनामस्म रणमाहात्म्यम् श्लोकांकाः १४० ।।

१३- क्रोष्टुवंशविस्तारवर्णनम् तत्र वंशानुवंशस्थस्त्रीपुरुषाणां संक्षिप्तचरित्रवर्णन- पुरःसरं स्यमंतकमणिसंक्षिप्तचरित्रम्, कुंतीतः पांडवोत्पत्तिवर्णनम्, देवक्यां कृष्णोत्पत्तिवर्णनम् वसुदेवदेवकीनंदयशोदानां पूर्वजन्मवर्णनम् कृष्णसंतान वर्णनम्, पृथिव्यां भगवदवतारकारणवर्णने देवपराजितदैत्यप्रार्थितशुक्रकृत दैत्योत्कर्षार्थकतपश्चर्याकरणम् दैत्यानां शुक्रमातृकृतरक्षणे विष्णुकृतशुक्रमातृ वधवर्णनम्, भृगुणा विष्णवे शापदानम्, भृगुणा स्वपत्नीसंजीवनम्, इंद्रेण स्वकन्याया जयंत्पाः शुक्रसमीपसेवार्थं प्रेषणम्, जयंत्या शुक्रशुश्रूषणम् शुक्रस्य शिवेन वरप्रदा नम्, जयंत्यासह शुक्रस्य शतवर्षपर्यंतम् गुप्तागारेऽदृश्यतया निवासः, बृहस्पतिना शुक्रवेषेण दैत्यमोहनम्, बृहस्पतिशुक्रयोः सरोषवचनानि, शुक्रस्य दैत्यान्प्र- तिशापः, गुरुणा दैत्यान्प्रति धर्मभ्रंशकरोपदेशदानम्, बृहस्पतिसाहाय्यार्थं विष्णुना मायामोहसमुत्पादनम् दिगंबरेण मायामोहेन दैत्यान्प्रति जनधर्मोपदे- शः, दानवानां मायामोहमोहितानां गुरुणा दिगंबरजैनधर्मदीक्षादानम् गुरोः देवलोकंप्रति गमनोत्तरमिंद्रेण दैत्योपहासकरणम्, पुनः शुक्रेण दैत्यानां बोध- नोत्तरं दैत्यानां त्रैलोक्यहरणोद्योगः. श्लोकांकाः ४१३ ।।

१४-- अर्जुनकर्णयोरुत्पत्तिकथनपुरःसरं वैरकारणकथनम्। तत्र शिवकृतशिर- । श्छेदक्रुद्धब्रह्मस्वेदात्पुरुषोत्पत्तिः, तस्माद्भीतस्य शिवस्य विष्णोः समीपे गमनं प्रार्थना च, स्वेदजविरूपाक्षयाचितेन विष्णुना स्वदक्षिणभुजसमर्पणम्, विरूपाक्षे ण विष्णुभुजच्छेदनोत्तरं तद्रक्तेन तस्य भिक्षापात्रपूर्तिः, मथ्यमानात्तद्रक्तात्पु- रुषोत्पत्तिः, स्वेदजरक्तजयोः पुरुषयोर्युद्धवर्णनम्, बिष्ण्वाज्ञया सूर्यशुक्राभ्यां त- यो रक्षणपुरःसरं द्वापरांते पृथायां कर्णार्जुनरूपेणोत्पत्तिवर्णनम् शिवकृतब्रह्म शिरश्छेदकारणम्, ब्रह्महत्याभीतशंकरकृतब्रह्मस्तोत्रवर्णनम् ब्रह्माज्ञया शिवकृत विष्णुस्तोत्रम्, शिवं प्रति विष्णुना ब्रह्महत्याप्रायश्चित्तकथनम्, शिवकृततीर्थ क्षेत्रपर्यटनम्, पुष्करे शिवकृतकापालिकव्रतम्, ब्रह्मणा शिवाय वरप्रदानम्, कपालमोचनतीर्थस्योत्पत्तिः, संक्षेपतोवाराणसीक्षेत्रमाहात्म्यम्, शंकरस्य वारा- णसीं प्रति गमनम् श्लोकांकाः २१३ ।।

१५- मेरोरुपरि वैराजभवने कांतिमत्याख्यसभायां ब्रह्मदेवस्य चिंताकरणोत्तरं पृथि- व्यां प्राक्स्थानं प्रति गत्वा तत्र वृक्षवरप्रदानप्रसंगेन तत्र वासवर्णनम्, विष्णुना सह सर्वदेवानां गमनम्, देवेभ्यो ब्रह्मणोपदेशकरणम्, पुष्करतीर्थोत्पत्तिकारण- वर्णनम् पुष्करक्षेत्रवासविधिवर्णनम् त्रिविधभक्तिभेदवर्णनम्, पुष्करमरणनिवासफलम् पुष्करस्थितानामाचारव्रतानुष्ठानवर्णनम्, ब्राह्मणानां लक्षणानि, आ- श्रमधर्मवर्णनम् श्लोकांकाः ३९१ ।।

१६-- ब्रह्मदेवकृतयज्ञवर्णनम् तत्र ब्रह्मदेवकृतगोपकन्यारूपगायत्रीपरिणयनम् तत्रेंद्रेण गोपकन्यानयनोत्तरं विष्णुसंमत्या ब्रह्मणा तत्परिणयनम्, ब्रह्मणा सह स्रयुगपर्यन्तयज्ञकरणम्. श्लोकांकाः १९१ ।। ।।

१७-- ब्रह्मदेवकृतयज्ञे शिवस्य भिक्षोद्देशेनागमनम, सदस्यकृतोपहासकुद्धेन शिवेन कपालोद्धरणम्, तत्र भूयोभूयो भवनाश्चर्यम्, ब्रह्मरुद्रसंवादः, उपहासकरब्राह्मणे भ्यः शिवशापवर्णनम्, अन्येभ्यो वरप्रदानम् गोपकन्यया सह यज्ञकृद्ब्रह्माणं प्रति सावित्रीकृतनिर्भर्त्सनम्, ब्रह्मणा सावित्रीसमीपे स्वापराधक्षमापनम्, ब्रह्म- विष्ण्वादिदेवान्प्रति सावित्रीशापः, पर्वते सावित्र्या निर्गमनम्, विष्णुना सावि त्रीस्तोत्रकरणम्, सावित्र्या विष्णवे वरदानम्, गायत्र्या ब्रह्मव्रतकथनम्, सावि त्रीदत्तशापस्योच्छापकरणं च, गायत्र्या सर्वदेवेभ्यो देवीभ्यश्च वरप्रदानम्, रुद्र- कृत गायत्रीस्तोत्रम्, गायत्र्या रुद्राय वरदानम् श्लोकांकाः ३३१ ।।

१८--ब्रह्मदेवकृतयज्ञस्य विस्तरेण वर्णनम्,विप्णुदानववैरवर्णनम्, पुष्करस्नानादृषी- णां मुख्यवैरूप्यनाशनपुरःसरं सुमुखत्वप्राप्तिः, प्राचीसरस्वतीचरित्रम्, तत्र मं कणकब्राह्मणस्यचरित्रम्,प्राचीसरस्वतीमाहात्म्यवर्णनम्, सर्वदेवप्रार्थनया वडवा- ग्निं गृहीत्वा नदीरूपेण सरस्वत्याः क्षारोदसमुद्रगमनेनान्तर्धानेन पुष्करं प्रति गम- नम्, पुष्करस्थसरस्वतीमाहात्म्यम, पुष्करक्षेत्रसंनिहितखर्जूरीवने सरस्वत्युद्भवः, तस्या नंदाभिधानकरणे प्रभंजनराजकथानकम्, खर्जूरीवनान्नंदायागमनम् सरस्वत्यां स्नानदानादिप्रशंसावर्णनम्. श्लोकांकाः ४७३ ।।

१९-- ऋषिभिर्यज्ञोपवीतैः पुष्करस्य तीर्थविभागकरणम, ब्रह्मणा ऋषिभ्यो वरप्रदानम्, पुष्करक्षेत्रस्यमाहात्म्यवर्णनम, पुष्करस्थब्रह्मर्ष्याद्याश्रमवर्णनम् ,अगस्त्यप्रभावक थनम् वृत्रासुरवधाश्रितकथानकम्, तत्र कालेयभीतदेवप्रार्थितब्रह्माज्ञया देवानां दध्यंचमृर्षिप्रतिप्रार्थना, दधीचा देवेभ्यो निजास्थिदानम्, तेनास्थ्ना वज्रनिर्माणम्, तेन वज्रेण शक्रेण वृत्रहननम्, वृत्रहत्याभीतस्य शक्रस्य सरःप्रवेशः, कालेया सुराणां देवत्रस्तानां समुद्रप्रवेशः,कालेयकृतोपद्रववर्णनम्, देवकृतविष्णुस्तोत्रम्, विष्ण्वाज्ञप्तदेवानामगस्त्याश्रमं गत्वागस्त्यप्रार्थनम्, अगस्त्येन विंध्यनमनवर्णनम्, अगस्त्यकृतसमुद्रप्राशनम्, देवकृतकालेयवधः, ब्रह्मणा भागीरथीकृतसमुद्रस्थल पूरणस्य कथनम्, पुष्करक्षेत्रे श्राद्धादिविधिवर्णनम्, अवर्षणदुर्भिक्षत्रस्तऋषिभिर्मृ तकुमारप्रेतपचने राज्ञः संवादः, प्रतिग्रहदोषः,सुवर्णपूर्णौदुंबरदर्शने तद्ग्रहणविषये निषेधविषये च वसिष्ठप्रभृतिमुनीनामभिप्राया; शातिप्रशंसावर्णनम्, द्रव्यसंग्रहतृ ष्णयोर्दोषः, संतोषप्रशंसा, कामदोषवर्णनम्, अप्रतिग्रहफलम् बुभुक्षिताना मवस्थावर्णनम्, अन्नप्रशंसा, अन्नदानस्य प्रशंसावर्णनम्, दमादिवर्णनम् शांत स्य लक्षणानि, शांतिक्षमाप्रशंसा, मध्यपुष्करप्रशंसा, श्लोकाकाः ३६९।।

२०- मध्यपुष्करमाहात्म्यवर्णनम्, तत्र पुष्पवाहननृपत्याख्यानम्, विभूतिद्वाद- श्यादिषष्टिव्रतलक्षणकथनम्, स्नानतर्पणादिविधिः. श्लोकांकाः११२।।

२ १--धर्ममूर्तिराजकथानकम्,धान्यपर्वतादीनां दानविधिः,विशोकद्वादशीव्रतम् , गुडादिदशविधधेनुदानविधिः, धान्यादिदशविधशैलदानविधिः, सौरधर्मवर्णने विशोकशर्कराकमलमंदारशुभाख्यानां सप्तमीनां व्रतविधानादिवर्णनम्. श्लोकांकाः ३१९।।

२२--भूरादिसप्तलोकानामाधिपत्यप्राप्त्युपायवर्णनप्रसंगेऽग्निमारुतयोरिंद्रकृतसमु- द्रशोषाज्ञाया अपरिपालनादिंद्रदत्तशापेन पृथिव्यां जन्मवर्णनम्, संक्षिप्ततया गस्त्यचरित्रवर्णने ब्रह्मादिकृतवरप्रदानम् अगस्त्यार्घ्यदानविधिः, पार्वत्या शिवं प्रत्यात्मनः सावित्र्यपेक्षयाधिक्यप्राप्तिप्रश्ने शिवोक्तरसकल्याणिनीपापनाशिनी गौरी तृतीयाव्रतविधानम्, रुद्रस्य गौरीसमाश्वासनोत्तरं ब्रह्मणो यज्ञं प्रति गमनम् रुद्रं प्रति स्वधर्मख्यापनाय विष्ण्वाज्ञा, सारस्वतव्रतविधानवर्णनम्. श्लोकांकाः ९४ ।।

२३--वैष्णवधर्मवर्णनम्, भीमस्य वैष्णवधर्मप्रवर्तकत्ववर्णनम् माघशुक्लपक्षे भीमद्वा- दशीव्रतविधानवर्णनम्, वर्णाश्रमोत्पत्तिवर्णनम्, तत्र वेश्याधर्मवर्णनप्रस्तावे श्रीकृष्णपत्नीनां दाशोपभुक्तानां द्वारिकायां दाल्भ्यमहर्षिणा सह संवादे दाल्भ्येन समुद्रमंथनसमुद्भूतवेश्याभ्यो भगवदुक्त कल्याणिनीवेश्याव्रतविधानवर्णनम्. श्लोकांकाः १४२ ।।

२४-श्रावणकृष्णपक्षीयद्वितीयायामशून्यशयनव्रतविधानवर्णनम्, अंगारकचतुर्थी व्रतविधानम्, तत्रादौ वीरभद्रस्य मंगलग्रहत्वप्राप्तिवर्णनपुरःसरं व्रतविधिवर्णनम् श्लोकांकाः ६१ ।।

२५-आदित्यशयनव्रतविधानवर्णनम्, तत्रोमामहेश्वरार्चाप्रकारः. श्लो० ।। ३७ ।।

२६--रोहिणीचंद्रशयनव्रतविधानम् श्लोकांकाः ३१ ।।

२७--तटाकारामकूपवापीसरोवरविधानवर्णनम् श्लो० ६० ।।

२८--वृक्षारोपणविधिवर्णनम्, तत्राश्वत्थादिवृक्षाणां पृथक्पृथक्फलवर्णनम् श्लो० ।। ३२ ।।

२९--सौभाग्यशयनव्रतविधानवर्णनम्, तत्र सौभाग्याष्टकोत्पत्तिकथनपुरःसरं ल लिताराधनविधानवर्णनम् श्लो० ५८ ।।

३ ०-पुष्करक्षेत्रे विष्णुपदपद्धतिकारणप्रश्ने वामनावतारचरित्रवर्णनम्, तत्र वाष्कलि- दैत्यत्रस्तदेवप्रार्थितब्रह्मध्यातविप्णुना तद्भयनिवारणार्थमदितिगर्भप्रवेशे सत्य- दित्यामुखान्निर्गतवाणीवर्णनम् वामनोत्पत्तिसमारंभवर्णनम्, वामनस्य शुक्रेण सह बाष्कलिपुरंप्रति गमनम्, तत्र वामनायेंद्रेण पादत्रयभूमियाचनायां बाष्कलींद्रसंवादः, वामनकृतबलिवंचनम्, बलेः पातालप्रवेशः. श्लोकांकाः २०२ ।।

३ १--नागतीर्थवर्णनम्, तत्र ब्रह्मणा सर्पान्प्रति जनमेजयाद्दाहो भविष्यतीति शाप- दानम्, सर्पकृतप्रार्थनया ब्रह्मणा जरत्कन्यातनयादास्तीकाद्वोरक्षणं भविष्यतीत्यु- च्छापदानम् पुष्करक्षेत्रे नागागमनतो नागतीर्थोत्पत्तिवर्णनम्, श्रावणपंचम्यां नागतीर्थे स्नानं श्राद्धादिमाहात्म्यम्, शिवदूतांचरित्रवर्णनम्, तत्र रुरुदैत्यत्र स्तदेवानां नीलगिरौ तपःस्थितां देवीं प्रति गमनम् देवप्रार्थनया देवीवदनादनेकदेवीनामुत्पत्तिः, देवीगणदैत्यगणयुद्धवर्णनम्, ततो देव्याः शिवदूत्याः पुष्करे देवीग णैः सहस्थितौ बुभुक्षितदेवीगणप्रेरणया शिवदूतीप्रेरितरुद्रकृतस्वरूपवच्छागवृषण- कल्पित तद्भोजनप्रकारवर्णनम्, शिवकृतशिवदूतीस्तोत्रम्, शिवदूत्या रुद्राय वरदानम् स्तोत्रमहिमा च. श्लो० १५४ ।।

३२--प्रेतपंचककथानकम्, तत्र पृथुब्राह्मणस्य पुष्करक्षेत्रे पंच प्रेतैः सह समागमे पृथुना प्रेतत्वनिवर्तककर्मकथनम्, प्रेतत्वकरकर्मकथनम्, पृथुसंभाषणात्प्रेत- मुक्तिः, पंचप्रेतकथाफलम् अंतरिक्षपुप्करस्थितौ दक्षिणापथस्थमहर्षिप्रार्थनया तस्य भूमावागमनम् पुष्करे स्नानाद्यर्थकार्तिकीपौर्णिमादिप्रशस्तयोगवर्णनम्, उदुंबरवनादिभ्यः प्रादुर्भूतया सरस्वत्या पुष्करतीर्थपूरणम, सरस्वत्याः पंचस्रोतो- भिधानम्, सरस्वतीतीरमाहात्म्यवर्णनम् सरस्वत्याः प्राङ्मुखत्वेकारणवर्णनम्, पुनः पश्चिमायां गमनम् शुद्धावटतीर्थमाहात्म्यम्, प्राचीनेश्वरदेवाग्रतआदितीर्थ- माहात्म्यम् ब्रह्मादिभिरनेकसखीसमुत्पत्तिपुरःसरं ताभिः सह सरस्वत्याः पश्चिमा- यां गमनम्. श्लो० १५६ ।।

३३--मार्कडेयोत्पत्तिकथानकवर्णनम्, पुष्करक्षेत्रसमीपे मार्कंडेयाश्रमवर्णनम्, अवि- योगवापीं प्रति रामचंद्रस्यगमने मार्कंडेयेन सह समागमः, मार्कडेयाश्रमे रामस्य स्वप्ने दशरथदर्शनम्, ऋष्याज्ञया रामेण श्राद्धकरणम्, श्राद्धे समागतानां द्विजानामंगे सीतायाः प्रत्यक्षदशरथदर्शनाल्लज्जाकारणकथनम् रामादीनां ज्येष्ठपुष्करे गमनपूर्वकं मासपर्यंतं स्थितिः, तत्र लक्ष्मणस्य मतिविपर्ययाल्लक्ष्मणकृतविरोधवर्णनम् अजगंधशिवं प्रति रामादीनां गमने रामकृताजगंधशिवस्तोत्रवर्णनम् अजगंधरुद्र- कृत रामप्रशंसा, लक्ष्मणस्य पश्चात्तापे रामेण पुष्करक्षेत्रस्थजनानां मतिवैपरीत्यपुरःसर स्वार्थतत्परतावर्णनम् श्लो० १८५ ।।

३४-ब्रह्मकृतयज्ञकालर्त्विग्दक्षिणादिसर्वकृत्यवर्णनम् ब्रह्माज्ञया लक्ष्मीसहितविप्णु- ना सावित्रीमोहनम्, गौर्या सह शिवेन सावित्रीप्रार्थनम्,सावित्र्या ब्रह्मसमीपप्रत्यागम नम्, गायत्रीसावित्र्योः संवादः,यज्ञांतस्नाने ब्रह्मणा सर्वदेवेभ्यो वरप्रदानम्, विष्णुकृत ब्रह्मस्तुतिः, रुद्रकृतब्रह्मस्तोत्रम, ब्रह्मणा स्वस्य निवासस्थानकथनम, ब्रह्मस्थान- माहात्म्यवर्णनम्, पुष्करादितीर्थविविधदानमहिमा, पुप्करे गुरुदीक्षादिसविस्त- रविधिवर्णनम, ग्रहाणां सौम्यत्वकरणोपायविधिः, श्वेतराजकथानकप्रसंगेन नाना विधदानादिमहिमा. श्लो० ४१८ ।।

३५- अन्नदानमाहात्म्यवर्णनप्रस्तावाद्रामकथानकवर्णनम्, तत्र रामेण रावणं निह- त्य राज्यशासने क्रियमाणेऽगस्त्यादिकृतप्रशंसनम, रामेण भीमनामकतपस्विशूद्रा- पचारान्मृतस्य ब्राह्मणपुत्रस्य संजीवनार्थं भीमशूद्रं हत्वा ब्राह्मणबालसंजीवनम्. श्लो० १०० ।।

३६--रामस्यागस्त्याश्रमं प्रतिगमनम्, रामागस्त्यसंवादः, प्रतिग्रहविषयविवेके अक्षयराजकथानकम्, अगस्त्यदत्ताभरणस्य रामेण ग्रहणम्, अगस्त्यस्य आभरण रत्नादिप्राप्तिप्रश्रेऽगस्त्येन श्वेतराज्ञो निजशवभक्षणप्रभृतिवृत्तांतनिवेदनपुरःसरसं- वादवर्णनम्, अगस्त्येन श्वेतराज्ञः सकाशाद्रत्नकंकणप्रतिग्रहवर्णनम्. श्लो० १३१ ।।

३७--दंडकारण्योत्पत्तिवर्णने दण्डराजकथानकम्, रामस्य संध्योपासनादि, गृध्रो- लूकयोर्गृहविषयकविवादे रामकृतनिर्णयवर्णनम् गृध्रस्य पूर्वजन्मवृत्तांतः, रामस्या योध्यां प्रत्यागमनोत्तरं राजसूययज्ञविषयकविचारे प्रस्तूयमाने भरतेन युक्त्या तस्मा- न्निवर्तनम् रामस्य कान्यकुब्जे वामनस्थापनप्रतिज्ञा. श्लो० १७१ ।।

३८--विभीषणवृत्तजिज्ञासया भरतेन सह विमानमारुह्य रामचंद्रस्य दक्षिणापथग- मनम्, तत्र च भरतपुत्रराष्ट्रनिरीक्षणानंतरं दक्षिणस्यां दिशि पूर्वं वनवाससमयेऽ ध्युषितस्थलानां भरताय दर्शनम् किष्किंधायां सुग्रीवादिसगंमः, ततः सुग्रीवं गृहीत्वा लंकां प्रति गमने समुद्रतीरादिप्रदेशेषुवृत्तवृत्तांतवर्णनम्, लंकायां विभीषणसंगमः, चतुर्थे दिवसे केकसीनाम्न्या विभीषणमातू रामदर्शने केकसी रामसंवादः, सरमारामसंवादः, रामेण विभीषणाय नीतिशिक्षणम्, विभीषणेन रामाय नानालंकारसमेतश्रीवामनमूर्तिसमर्पणम्, रामेण तां मूर्तिं गृहीत्वा विमाने स्थापयित्वाऽयोध्याभिमुखं गमनावसरे विभीषणप्रार्थनया समुद्रनिबद्धसेतोस्त्रि धा भंगकरणम, रामेश्वरमहादेवस्य श्रीरामकृतस्तुतिः, शिवरामयोः संवादः, पुष्करे विमानप्रतिबंधे जायमाने सुग्रीवेण प्रतिबंधककारणान्वेषणे विमानादुत्तीर्य श्रीरामेण ब्रह्मस्तवनम्, ब्रह्मरामसंवादः, ततो मथुरायां शत्रुघ्नराज्ये गमनम्, ततो महोदयपर्वणि गंगातीरे वामनं प्रतिष्ठाप्य तस्य द्रव्येण वृत्तिं कल्पयित्वा सुग्रीवस्य किष्किंधां प्रति प्रेषणम्, इत्थं वामनप्रतिष्ठावर्णनम्.श्लो० १९४ ।।

३९-भीष्मस्य पुलस्त्यं प्रति विष्णोर्नाभिपद्मोत्पत्तिपूर्वकं जगत्सृष्टिविषयः प्रश्र करणम्, पुलस्त्येन सृष्टिवर्णने प्रस्तूयमाने परब्रह्मतत्त्वनिर्देशपुरःसरं कृतादियुग- तत्कालसंध्यंशादियुगधर्मादिसृष्टितत्संहारवर्णनम्, संहारकालीनभगवत्स्थितिवर्ण नम्,एकार्णवे प्रसुप्तस्य भगवतो मुखं प्रविष्टेन मार्कंडेयमुनिना भगवतो जठरे ऽनेकविधप्रपंचदर्शनम्, भगवता सह मार्कंडेयस्य संवादे भगवता स्वात्मनो मा- हात्म्यवर्णनम्, ततः परमेश्वराद्भूतसंभवः पद्मसंभवश्च. श्लो० १५४ ।।

४०- पद्ममध्याद्ब्रह्मण उत्पत्तिकथनम्, पद्मस्य पृथिवीत्ववर्णनपूर्वकं पद्मकेसराणां हि मवदादिपर्वतत्वम, पद्मपत्रानुसारेण देशवर्णनम्, मधुकैटभोत्पत्तिः, मधुकैटभ विनाशकथनम्, कपिलयोगाचार्योत्पत्तिपूर्वकदक्षादिप्रजापप्युत्पत्तिवर्णनम्, प्रजापतिभ्यः सकाशात्प्राजापत्यानामुत्पत्तिः, तारकामयसंग्रामवर्णनम्. श्लो० १९६।।

४१- देवसैन्यानां तारकासुरसैन्यैः सह तुमुलयुद्धे संप्रवृत्ते उर्वश्योरोः सकाशा- दौर्वानलोत्पत्तिकथानकवर्णनपुरःसरं कालनेमिवधवर्णनम् कालनेमिप्रमुखदै- त्यवधानंतरं ब्रह्मकृतविष्णुस्तुतिः, विष्णुनेंद्रादिभ्यो वरदानादिपूर्वकब्रह्मलोकगम नवर्णनम् श्लो० ३२० ।।

४२--शंकरमाहात्म्यवर्णनारंभः, तत्र दित्या वज्रांगपुत्रोत्पत्तिः वज्रांगेन दित्या- ज्ञयेंद्रं बद्ध्वा मातुः समीपं प्रत्यानयनोत्तरं ब्रह्मकश्यपवचनादिंद्रमोचनम्, ब्रह्म- णा तदर्थं वरांगीनामकन्यामुत्पाद्य वज्रांगाय पत्न्यर्थे कन्यादानम, वज्रांगस्य वरांग्या सह तपोवनं गत्वा तत्र ब्रह्मणः प्रीतये तपश्चरणम्, तत्तपस्तुष्टेन ब्रह्मणा तस्मै वरप्रदानम्, इंद्रत्रस्तायां वरांग्यां वज्रांगात्तारकासुरोत्पत्तिः, तपस्विने तारका सुराय ब्रह्मणा वरप्रदानम्तारकासुरस्य देवैः सह महायुद्धम्, तत्र देवानां परा- जयवर्णनम् श्लो० १११ ।।

४३--इन्द्रविडंबना,सर्वदेवकृतब्रह्मस्तोत्रम्,ततो ब्रह्मणा शंकरसुतात्तारकासुरवधं क- थयित्वा रात्रिदेवीं प्रति शंकरसुरतभंगविषयेऽनुज्ञाकरणपुरःसरं वरप्रदानम्,हिमाच लपत्न्यां मेनायां पार्वतीजन्मकथनानंतरं नारदेन पार्वत्याः सामुद्रिकलक्षणस्पष्टीक रणम्, देवराजाज्ञप्तमदनविद्धमहेश्वरकृतमदनदाहः रतिकृतमहेशस्तोत्रम्, महे- शेन मदनस्यानंगत्ववरदानम्, पार्वतीकृततपश्चर्या, ऋषिपार्वतीसंवादे शंकरेतरं पतिं न करिष्यामीति पार्वतीप्रतिज्ञा, शिवपार्वतीविवाहः, गणेशवर्णनम्, वीरकगणस्य पार्वत्या पुत्रीकरणम् पार्वतीशरीरे ब्रह्माज्ञप्तरात्र्याः प्रवेशः, पार्वत्या- असितांगत्ववर्णनम् श्लो० ५१६ ।।

४४--कृष्णवर्णायाः पार्वत्याः शंकरेण विनोदकरणम्, पार्वत्या शंकरभर्त्सना, शिव- कृतभर्त्सनारुष्टायाः पार्वत्या हिमाचलं प्रतिगमनम्, वीरकगणस्यद्वाररक्षार्थं नियोजनम्, शिवंप्रत्याडिदैत्यस्य पार्वतीरूपधृत्वा योनौ वज्रदंतं प्रवेश्य वीरकगणं सर्परूपेण वंचयित्वा गमनम्, तस्य पार्वतीरूपधरस्याडिदैत्यस्य वामपार्श्वे पार्वती. वामपार्श्ववत्पद्मचिह्नमनिरीक्ष्य पार्वत्यभावं निर्णीय शिवकृताडिदैत्यवधः, वायुमु- खाच्छिवस्मपारदारिकत्वश्रवणतः क्रुद्धया तपःस्थितया पार्वत्या द्वारपालननियुक्त- वीरकगणशापदानः क्रोधेन सिंहोत्पत्तिः, तन्मुखं प्रति प्रवेष्टुकामायाः पार्वत्या ब्रह्मणाविर्भूयनिवारणम् ब्रह्मवरेण पार्वत्या निजदेहकार्ष्ण्यकररात्रित्यागः, रात्रिदेव्याश्च ब्रह्मणा एकानंशेति कौशिकीति च नामकरणपूर्वकं विंध्याद्रिं प्रति- प्रेषणम, स्वमदिरं प्रति प्राप्तायाः पार्वत्या वीरकेण निवारणे पार्वतीकृतवीरक शापपश्चात्तापः, वीरकगणकृतपार्वतीस्तोत्रम् पार्वतीशिवसमागमः, कार्तिकेयोत्पत्तिवणर्नम् देवकृतकार्तिकेयस्तुतिः, कार्तिकेयकृततारकासुरवधः. श्लो० २१८ ।।

४५--श्रीनृसिंहावतारवर्णनम् तत्र हिरण्यकशिपुसभास्थानवर्णनम्, नृसिंहहिरण्य- कशिपुयुद्धे महोत्पातवर्णनम्, नरहरिणा हिरण्यकशिपुविदारणम्, ब्रह्मकृतनरह रिस्तुतिः, क्षीरोदोत्तरकूले भगवता नृसिंहरूपं स्थापयित्वा स्वस्थानंप्रति गमनवर्णनम् श्लो० १९७ ।।

४६--अंधकासुरकथानकम् तत्र शिवकृतादित्यस्तुतिः, अंधककृतं शिवस्तोत्रम् अंधकासुरस्य गणत्वप्राप्तिः, ब्रह्मकथितासंवादे ब्राह्मणानां प्रशस्तिः, ब्राह्मणल- क्षणकथनम् गायत्रीमाहात्म्यम् गायत्रीजपविधिः, गायत्रीजपफलवर्णनम् श्लो० २०८

४७--अधमब्राह्मणलक्षणम्, पंचविधस्नानानि, अधमब्राह्मणवधेऽपिपापकथनम् नष्टब्राह्मण्यपुनःप्राप्तिवर्णनम्, तत्रैकस्य ब्राह्मणपुत्रस्य कथा, तत्प्रसंगेन गरुडकथानकम्, प्रतिदिक्षु यवनोत्पत्तिवर्णनम्., यवनानामस्पृश्यत्वेऽपि कलौ यवनस्पर्शं करिष्यंतीति वर्णनम, गरुडाय विष्णुदत्तवरदानादिप्रसंगवर्णनम् मात्राज्ञया गरुडेनेद्रं पराजित्य स्वर्गादमृतानयनम्, कद्र्वै पीयूषं दत्त्वा मातुर्विनतादासीत्वा- न्मोचनम् इंद्रेण कद्र्वाः सकाशादमृताहरणम् श्लो० १७३ ।।

४८-कश्यपोपदेशेन चांडालपतितद्विजस्य सदाचाराचरणेन स्वर्गप्राप्तिः, ब्राह्म णपीडनादौ नानाविधदुःखप्राप्तिवर्णनम् आतताय्यादिब्राह्मणवधेऽपापत्वम्,व्राह्म णानामुपजीव्यवृत्तिवर्णनम्, स्ववृत्त्योपजीवनाभावे क्षत्त्रियादिवृत्त्यधिकारकथनम्, तुलायामसत्यकरणे नरकवर्णनम् , सत्यस्य स्तुतिः, वाणिज्यकष्टलब्धधनस्य दानेनाक्षयत्वप्राप्तिः, वैश्यवृत्त्योपजीवनाभावे कृषिकर्मतदाचारवर्णनम्, ब्रह्मणो मुखाद्वेदाग्नि गोद्विजोत्पत्तिवर्णनपुरःसरं गोमाहात्म्यम्, गोपूजाविधिः, कपिलादि गोदानविधिः, गोदानस्य फलम् श्लो० १९५ ।।

४९-ब्रह्मतेजोवर्द्धनार्थकनित्यकर्मवर्णनम् स्वर्गागतानां नरकागतानां च नराणां लक्षणम् धर्मबीजपापबीजप्रसूतनरलक्षणम् श्लो. १३४ ।।

५०- पित्रर्चाप्रशंसायां मूकाख्यानम्, पित्रनादरेकृतेसति पापम्, पत्यर्चाप्रशंसायां पतिव्रताख्यानम्, पतिव्रतालक्षणवर्णनम्, सर्वजनसमत्वप्रशंसायां तुलाधारक- थानकम्, मित्राद्रोहप्रशंसायामद्रोहककथानकम् विष्णुभक्तिप्रशंसायां वैष्णवा- ख्यानम, पुत्रस्य कर्तव्यनिरूपणम्, श्राद्धस्य माहात्म्यं फलं च, वाराणस्यादि क्षेत्रेषु श्राद्धस्यविशेषफलकथनयः पवीवेशेर्षषु? श्राद्धविधिः, नांदीश्राद्धविधिः, गणेशस्याग्रपूजावर्णनम् चूडामणियोगवर्णनम्, पितुः पुत्रेण कर्तव्यवर्णनम्, मृतस्य प्रथमादिदिनकर्तव्यकर्मनिर्णयः, आशौचकालनिर्णयः श्राद्धप्रशंसा, श्राद्धासमर्थस्य कर्तव्यनिर्णयः. श्लो० ३१३ ।।

५१--पतिव्रतामाहात्म्यवर्णनम्, तत्र शैब्यापतिव्रतायाः पतिशुश्रूषाकथानकम्, माण्ड- व्यमुनिकथा, सूर्यानुदयवित्रस्तब्रह्मादिदेवैस्तस्याः सांत्वनपूर्वकं तत्पतेः कामसुं दररूपवरप्रदानाश्वासनात्तया शैब्यया सूर्योदयायानुमोदनम्, सूर्योदयः, तत्पतेरुज्जीवनम्, पतिव्रतामाहात्म्यश्रवणपठनफलम्. श्लो० ८८ ।।

५२-माण्डव्यस्य शूलारोपणे पतिव्रतापतेः कुष्ठप्राप्तौ च कारणवर्णनम्, दुष्टस्त्रीदोष वर्णनम् कुलहीनस्त्रीविवाहनिषेधः, पतिव्रतास्त्रीत्यागेन निरयः, रजस्वलादिग मने नरकः, अगम्यागमने दोषः, पत्यासहगमनविषये निर्णयः, विधवाधर्माः, क न्यादानविधिफलवर्णनम् शुल्कग्रहणनिषेधः, अपात्रवराय कन्यादानेदोषः, दा सीदानविधिः. श्लो० १०३ ।।

५३--तुलाधारचरित्रम्, सत्यस्यप्रशंसा, निर्लोभत्वप्रशंसायां शूद्रकथानकम्, वित्ता काम दया संतोषालोभाहिंसाप्रशंसावर्णनम् श्लो० ७७ ।।

५४-कामस्य दुर्जयत्वकथनेऽहल्येंद्रचरित्रम् श्लो० ५१ ।।

५५-कामदुर्जयत्वकथने परमहंसचरित्रम् ब्रह्मणो रेतसः सकाशाद्लौहित्यस्योत्पत्ति पूर्वकं तीर्थराजत्ववर्णनम् लौहित्यतीर्थे परशुरामस्य स्नानमात्रेण क्षत्रवधजनित पापक्षालनम्. श्लो० ५६ ।।

५६--कामाख्याने गंधर्वादिस्त्रीभिः सह शिवक्रीडा, क्षेमंकर्याख्यानम्, मूकादीनां वैकुण्ठागमनकथनम्, पंचाख्यानसमाप्तिवर्णनम् श्लो० ४५ ।।

५७--जलदानमाहात्म्यवर्णनम्, निर्जलदेशेषु खातादिफलम्, जलदानविषयेधनि सुतकथानकम् श्लो० ४६ ।। ।

५८--१७२ अश्वत्थादिवृक्षरोपणविधानफलवर्णनम्। प्रपाविधिः, धर्मघटदानविधिः. । श्लो० ५६ ।।

५९-सेतुबंधनफलम्, पङ्कादौ निर्गमाय पाषाणादिमार्गकरणफलम्, कंटकादिविद्धदु र्मार्गशोधनफलम, तत्राख्यानफलम् गोप्रचारफलम्, गोचारविघ्नकरस्य दण्ड्य त्ववर्णनम्, विष्ण्वादिदेवताप्रासादकरणफलम् दीपाद्यनेकदानानि, देवलकवि प्रवृत्तिवर्णनम्, स्वयंभूलिंगार्चनफलम्, देवमंडपकरणफलम्, श्रोत्रियगृहनिर्मा णफलम, रुद्राक्षमाहात्म्यवर्णनपुरःसरं रुद्राक्षधारणविधिफलवर्णनम्, तत्र रुद्राक्षो त्पत्तिविषयकाख्यायिकाकथनम् श्लो० २११ ।।

६०--धात्रीमाहात्म्यवर्णनम्, तत्रामलकीस्नानधात्रीफलभक्षणफलवर्णनम्, वारादि विशेषेण धात्रीफलभक्षणनिषेधः, प्रेताख्यायिका, तुलसीमाहात्म्यवर्णनम्. श्लो० १४२ ।।

६१-तुलसीस्तोत्रवर्णनम् श्लो० ४३ ।।

६२--गङ्गामाहात्म्यकथनम्, तत्र गङ्गायां स्नानादिविधिवर्णनम्, गङ्गाया भुव्यागमन पूर्वकत्रिस्रोतस्त्वकारणवर्णनम्- श्लो० १२५ ।।

६३--गणपतेरग्रपूज्यतावर्णनम, तत्र पार्वतीप्रेमकथा, गणेशद्वादशनामस्तोत्रम्. क्षो० ३१ ।।

६४--१८२ गणपतेरन्यत्स्तोत्रम् श्लो० ११ ।।

६५--नांदीमुखादिषु प्रथमं गणेशपूजनवर्णनम्, गणेशपूजाविधिः, गणेशस्याग्रपूजा या अकरणाद्देवासुरसंग्रामे देवानां पराजये देवानां शंकरसमीपं प्रत्यागमनम्, शंकरो पदेशेन देवैर्गणेशस्तोत्रपूर्वकपूजाकरणम्, देवेभ्यो गणेशेन वरप्रदानम् गणेशाज्ञया देवानां विष्णुं प्रति गमनम्, विष्ण्वाज्ञया देवानामसुरैः सह संग्रामे चित्ररथकृतकाले यवध. श्लो० १२० ।।

६६--जयंतेन कालेयवधः. श्लो० १९ ।।

६७-इंद्रेण बलनमुचिवधः- श्लो० ५१ ।।

६८-इंद्रेण नमुचिवधः श्लो० ९ ।।

६९-षडाननेन तारेयवधः. श्लो० २३ ।।

७०--यमेन देवांतकदुर्धर्षदुर्मुखवधः. श्लो० २१ ।।

७१-इंद्रेण अन्यनूमुचिवधः. श्लो० २८ ।।

७२-विष्णुना मधुदैत्यवधः श्लो० ३७ ।।

७३--इंद्रेण वृत्रासुरवधः. श्लो० ४० ।।

७४-गणेशेन त्रैपुरिवधः. श्लो० ४५ ।।

७५-देवदैत्यानां द्वंद्वयुद्धम्, तत्र हिरण्याक्षपराजितदेवप्रार्थनया विष्णोर्हिरण्याक्षेण सह युद्धम्, हिरण्याक्षस्य पातालगमने विष्णुना वाराहरूपं धृत्वा हिरण्याक्षस्य वधक रणम्, देवकृतविष्णुविजयस्तोत्रम, श्लो० १०२ ।।

७६-रणे मृतानां दैत्यानामुत्तमगतिप्राप्तिः, रणपराङ्मुखानां च नीचगतिप्राप्तिवर्ण नम्, मनुष्ययोनिगतदैत्यानां स्वभावतो दैत्यत्ववर्णनम्, दैत्यवंश्यानामपि प्रह्ला दादीनां सौम्यस्वभावत्वपूर्वकदेवत्वप्राप्तिवर्णनम् एकेनापि वैष्णवपुत्रेण कोटिकुलो द्धारवर्णनप्रसंग आख्यायिका, मनुप्येष्ववतीर्णानां देवानां लक्षणानि, मनुष्येष्व वतीर्णानां कर्णादीनां दैत्यत्ववर्णनम्, भीष्मद्रोणाश्वत्थामकृष्ण धर्मभीमार्जुन नकुल सहदेवगान्धारीकुन्तीद्रौपदीनां देवत्वम्, पृथिव्युद्धारकपृथिवीक्षयकृतां च लक्ष णवर्णनम् श्लो० १४२ ।।

७७-सूर्यमाहात्म्यवर्णनम्, तत्र सूर्यदर्शनात्पातकनिरसनम्, संक्रान्त्यादिषु दानादिविधिः, तुलाद्यनेकदानानि, सूर्यव्रतानि, अर्कसप्तमीव्रतविधिः. श्लो० १०५ ।।

७८--सूर्यस्यानेकव्रतवर्णनम्, सूर्यस्तोत्रम् श्लो० ६५ ।।

७९-सूर्यमाहात्म्यप्रसंगाद्भद्रेश्वरनामकमध्यदेशनृपतिकथानकम्- श्लो० ३७ ।।

८०-सूर्यपूजाविधिः, सोमस्य च पूजाविधिः, चंद्रार्थदानानि. श्लो० २९ ।।

८१-शंभोः सकाशाद्भौमग्रहस्योत्पत्तिवर्णनम्, अंगारकचतुर्थ्यां भौमपूजनविधिवर्णनम्. श्लो० ४९ ।।

८२--बुधगुरुशुक्रशनिराहुकेतूनां पूजाविधिवर्णनम्, नवग्रहमंत्राः, कृतत्रेताद्वापर- कलियुगानुक्रमेण तपोज्ञानयज्ञदानानां प्रशंसा, अभयदानस्य सर्वदानापेक्षया महत्त्वम्, शूद्रस्य मुख्यत्वेन दानवर्णनम्, पद्मपुराणसृष्टिखण्डपठनश्रवणफ- लम्- श्लो० ४५ ।।

इति पद्मपुराणांतर्गत सृष्टिखण्डस्य विषयानुक्रमणिका संपूर्णा ।। १ ।।