पद्मपुराणम्/खण्डः १ (सृष्टिखण्डम्)/अध्यायः ७९

विकिस्रोतः तः
← अध्यायः ७८ पद्मपुराणम्/खण्डः १ (सृष्टिखण्डम्)
अध्यायः ७९
वेदव्यासः
अध्यायः ८० →

व्यास उवाच-
मध्यदेशे स्वराट् सम्राट् भद्रेश्वर इति श्रुतः।
तपोभिर्बहुभिः पूतो व्रतैर्नानाविधैरपि१।
देवांस्तु पूजयेन्नित्यं सुभावेन सदा खलु।
तस्य सव्येऽभवत्कुष्ठं करे श्वेतमजायत२।
ततो भिषक्प्रयोगाच्च लक्षणं दृश्यते पुरा।
आहूय द्विजमुख्यांश्च मंत्रिणः सोब्रवीद्वचः३।
राजोवाच-।
किल्बिषं मे करे विप्रा दुःसहं लोकगर्हितं।
तस्मात्पुण्यं महाक्षेत्रं यत्र त्यक्ष्यामि विग्रहं४।
आज्ञापयत धर्मज्ञाः परलोकहिताय वै।
वंशहीनस्य मे वीराः प्रेत्यामुत्र हितं च यत्५।
तद्ब्रूत सुप्रसन्ना म उद्दिष्टं यत्करोम्यहं।
द्विजा ऊचुः।
परित्यक्ते त्वया राष्ट्रे धर्मशीलेन धीमता६।
नष्टं जगदिदं राजंस्तस्मान्नो वक्तुमर्हसि।
अयमस्य प्रतीकारो ह्यस्माभिरवगम्यते७।
सूरं मंत्रैर्महादेवं यत्नादाराधय प्रभो।
राजोवाच-
केनोपायेन विप्रेंद्रास्तोषयिष्यामि भास्करं८।
अमेध्येनाथ कुष्ठेन लोकानां गर्हितेन च।
अदृश्यः सर्वभूतानां गर्हितोस्मि द्विजातयः९।
किं करिष्यामि राज्यं च किं स्यादाराधनेन तु।
द्विजा ऊचुः-।
अत्र स्थित्वा स्वराज्ये तु समुपास्य विरोचनं१०।
प्रमुच्य किल्विषाद्घोरात्स्वर्गं मोक्षं च लप्स्यसे।
एतच्छ्रुत्वा तु राजेंद्रः प्रणिपत्य द्विजोत्तमान्११।
आकार्षीत्तस्य सूर्यस्य परमाराधनं च यत्।
नित्यपूजां तथा मंत्रैरुपहारैर्विलेपनैः१२।
फलैर्नानाविधैरर्घैरक्षतातप तंडुलैः।
जपापुष्पार्कपर्णैश्च करवीरकरंजकैः१३।
रक्तकुंकुमसिन्दूरैस्तथा वासंतिकादिभिः।
सुगंधकदलीपत्रैस्तत्फलैः सुमनोहरैः१४।
अर्घ्यमौदुंबरे कृत्वा सदा सूर्याय पार्थिवः।
आदित्यसंमुखो दत्ते सदा मंत्रिपुरोहितैः१५।
महिषीभिस्तथा चार्घो भोगिनीभिः समंततः।
सर्वैरंतःपुरस्थैश्च सपत्नीकैश्च रक्षिभिः१६।
चेटवर्गैस्तथान्यैश्च दीयतेऽर्घो दिनेदिने।
अर्कशांतिभिरत्युग्रैः स्तोत्रमंत्रादिभिः परैः१७।
मूलमंत्रान्यमंत्रैश्च यजंति स्म दिवाकरं।
तथार्कांगव्रतं चान्यत्कृतं तैः सुसमाहितैः१८।
क्रमात्समांसमासाद्य रोगस्यांतं गतो नृपः।
बाधिते चामये घोरे स राजा निखिलं जगत्१९।
नियम्य कारयामास कल्ये च याजनव्रतम्।
एवमेव जपापुष्पं सुगंधं कदलीफलम्२०।
बाणैर्जायाभिरालभ्यमर्कपर्णान्यपुष्पकं।
एवमेव महापुण्यं कृत्वा सर्वजनप्रियं२१।
हविष्यान्नो निराहारो जनो यजति भास्करम्।
एवमेव त्रिभिर्वर्गैरर्चितस्तैर्विभाकरः२२।
संतुष्टो भूपमागम्य कृपया चाब्रवीद्वचः।
वरं वरय चाभीष्टं यस्ते मनसि वर्तते२३।
सर्वेषां वो हितार्थाय सानुगः पुरवासिनाम्।
राजोवाच-।
यदीच्छसि वरं दातुं सर्वलोचनमत्प्रियम्२४।
सर्वेषां नः परं स्वर्गं त्वत्सकाशे भवत्विति।
सूर्य उवाच-।
अमात्यास्ते द्विजा विप्राः सदारास्सपरिच्छदाः२५।
नवीनयौवनाः शुद्धा यावदाभूतसंप्लवम्।
तिष्ठंतु मत्पुरे रम्ये सर्वभोगैर्निरामयाः२६।
सुरद्रुमैः सुसंपूर्णैः प्रासादैर्द्रुमकल्पकैः।
प्रमदाभिर्महाभाग नृत्यगीतादिभिः परैः२७।
पंचकल्पांतरे राजा मन्वादौ त्वं भविष्यसि।
अमी ते मनुजा भूप पुरस्थाश्च पुरोधसः२८।
तथा जनपदस्थाश्च विद्वांसो धनिनो नराः।
तत्र मत्तो वरं लब्ध्वा सुखं स्वर्गमवाप्स्यथ२९।
एवमुक्त्वा जगच्चक्षुस्तत्रैवांतरधीयत।
ततो भद्रेश्वरो राजा सपुरो दिवि मोदते३०।
तत्र कीटादयो ये च ते पीताः ससुतादयः।
स्वर्गे देवद्रुमे भोग्यं कुर्वंति महदद्भुतम्३१।
एवमेव नृपा विप्रा मुनयश्शंसितव्रताः।
ये च क्षत्रादयो वर्णास्सूर स्वर्गं ययुर्द्रुतम्३२।
कैश्चिदभ्यर्थितं वित्तं पुत्रदारास्तथापरैः।
सुखं स्वर्गं तथारोग्यं भास्करस्य प्रसादतः३३।
पुण्यकूटमिदं भद्रं यः पठेन्मानवः शुचिः।
सर्वपापक्षयस्तस्य रुद्रवत्पूजितो भुवि३४।
सर्वसाक्षी भवेत्स्वर्गे वरदो भास्करप्रियः।
शृणोति संयतो मर्त्यः सोभीष्टं फलमाप्नुयात्३५।
पारगः सर्वपापानां भास्करस्यैव संसदि।
वावदूको भवेन्नित्यं श्रवणात्पुण्यवान्धनी३६।
इदं गुह्यातिगुह्यं च भास्करेण प्रचारितं।
इदं यमाय कथितं क्षितौ व्यासेन कीर्तितम्३७।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे भद्रेश्वराख्यानं नामैकोनाशीतितमोऽध्यायः७९।