पञ्चविंशब्राह्मणम्/अध्यायः १३

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
स्तोमक्लृप्तिविधानम्

13.1
[१]गोवित् पवस्व वसुविद्धिरण्यविद् इति पञ्चमस्याह्नः प्रतिपद्भवति
गोविद्वा एतद्वसुविद्धिरण्यविद्यच्छक्वर्यः
पशवश्शक्वर्यः सर्वं पशुभिर्विन्दते
त्वं सुवीरो असि सोमविश्वविद्"इत्येष वाव सुवीरो यस्य पशवस्तदेव तदभिवदति
तास्ते क्षरन्तु मधुमद्घृतं पय"इति मधुमद्वै घृतं पयः पशवः क्षरन्ति तदेव तदभिवदति
[२]पवमानस्य विश्वविद्"इत्यनुरूपो भवति
विश्वमेव तद्वित्तमभिवदति विश्वं हि पशुभिर्विन्दते
प्र ते सर्गा असृक्षत"इति सृष्टानीव ह्येतर्ह्यहानि
पूर्वमु चैव तद्रूपमपरेण रूपेणानुवदति यत् पूर्वं रूपेणानुवदति तदनुरूपस्यानुरूपत्वम्, अनुरूप एनं पुत्रो जायते य एवं वेद स्तोत्रीयानुरुपौ तृचौ भवतः प्राणापानानामवरुध्यै
सप्तर्चौ भवतः छन्दसां धृत्यै
चतुरृचो भवति प्रतिष्ठायै
तृच उत्तमो भवति येनैव प्राणेन प्रयन्ति तमभ्युद्यन्ति
त्रिणव एव स्तोमो भवति प्रतिष्ठायै पुष्ट्यै त्रिवृद्वा एष पुष्टः
13.2
[३]तव श्रियो वर्षस्येव विद्युत"इत्याग्नेयमाज्यं भवति
श्रीर्वै पशवः श्रीः शक्वर्यः तदेव तदभिवदति
अग्नेश्चिकित्र उषसामिवेतय"इतीतानीव ह्येतर्ह्यहानीति
आ ते यतन्ते रथ्यो यथा पृथग्"इत्येव ह्येतर्ह्यहानि यतन्ते
[४]पुरूरुणा चिद्ध्यस्त्यवो नूनं वां वरुण"इति मैत्रावरुणम्
यद्वै यज्ञस्य दुरिष्टं तद्वरुणो गृह्णाति तदेव तदवयजति
[५]उत्तिष्ठन्नोजसा सह"इत्यैन्द्रम्
पञ्च वा ऋतव उत्थानस्य रूपमोजसा सहेत्योजसैव वीर्येण सहोत्तिष्ठन्ति
[६]इन्द्राग्नी युवामिम"इति राथन्तरमैन्द्राग्नम्
रथन्तरमेतत् परोक्षं यच्छक्वर्यो राथन्तरमेव तद्रूपं निर्द्योतयति स्तोमः
13.3
[७]अर्षा सोम द्युमत्तम"इति विष्णुमत्यो गायत्र्यो भवन्ति
ब्रह्म वै गायत्री यज्ञो विष्णुर्ब्रह्मण्येव तद्यज्ञं प्रतिष्ठापयति
[८]सोम उष्वाणस्सोतृभिर्"इति सिमानां रूपं स्वेनैवैतास्तद्रूपेण समर्धयति
यत् सोम चित्रमुक्थ्यम्"इति गायत्र्यः सत्यस्त्रिष्टुभो रूपेण तस्मात् त्रिष्टुभां लोके क्रियन्ते
गायत्रं भवति यदेव गायत्रस्य ब्राह्मणम्
यण्वं भवति पशवो वै यण्वं पशूनामवरुध्यै
सन्ततं गायति यज्ञस्य सन्तत्ये
अध्यर्धेडं तथा ह्येतस्याह्नो रूपम्
शाकलं भवति
एतेन वै शकलः पञ्चमेऽहनि प्रत्यतिष्ठत् प्रतितिष्ठति शाकलेन तुष्टुवानः
वार्शं भवति
वृशो वैजानस्त्र्यरुणस्य त्रैधातवस्यैक्ष्वाकस्य पुरोहित आसीत् स ऐक्ष्वाकोऽधावयत् ब्राह्मणकुमारं रथेन व्यच्छिनत् स पुरोहितमब्रवीत् तव मा पुरोधायामिदमीदृगुपागादिति तमेतेन साम्ना समैरयत् तद्वाव स तर्ह्यकामयत कामसनि साम वार्शं काममेवैतेनावरुन्धे
अध्यर्धेडं तथा ह्येतस्याह्नो रूपम्
मानवं भवति
एतेन वै मनुः प्रजापतिं भूमानमगच्छत् प्रजायते बहुर्भवति मानवेन तुष्टुवानः
आनूपं भवति
एतेन वै वध्र्यश्व आनूपः पशूनां भूमानमाश्नुत पशूनां भूमानमश्नुत आनूपेन तुष्टुवानः
वाम्रं भवति
मामार्षेयेण प्रशस्तं यं वै गामश्वं पुरुषं प्रशंसन्ति वाम इति तं प्रशंसन्त्यहरेवैतेन प्रशंसन्ति
अध्यर्धेडं तथा ह्येतस्याह्नो रूपम्
त्रिणिधनमाग्नेयं भवति प्रतिष्ठायै
अग्रिः सृष्टो नोददीप्यत तं प्रजापतिरेतेन साम्नोपाधमत् स उददीप्यत दीप्तिश्च वा एतत् साम ब्रह्मवर्चसं च दीप्तिश्चैवैतेन ब्रह्मवर्चसं चावरुन्धे
शैशवं भवति
शिशुर्वा आङ्गिरसो मन्त्रकृतां मन्त्रकृदासीत् स पितॄन् पुत्रका इत्यामन्त्रयत, तं पितरोऽब्रुवन्नधर्मं करोषि यो नः पितॄन् सतः पुत्रका इत्यामन्त्रयस इति, सोऽब्रवीदहं वाव वः पितास्मि यो मन्त्रकृदस्मीति, तं देवेष्वपृच्छन्त ते देवा अबुवन्नेष वाव पिता यो मन्त्रकृदिति तद्वै स उदजयदुज्जयति शैशवेन तुष्टुवानः
गायत्रीषु स्तुवन्ति प्रतिष्ठायै ब्रह्मवर्चसाय येनैव प्राणेन प्रयन्ति तमभ्युद्यन्ति
विष्णुमत्यो गायत्र्यो भवन्ति तदु त्रैष्टुभाद्रूपान्न यन्ति स्तोमः
13.4
इन्द्रः प्रजापतिमुपाधावद्वृत्रं हनानीति तस्मा एतच्छन्दोभ्य इन्द्रियं वीर्यं निर्माय प्रायच्छदेतेन शक्नुहीति तच्छक्वरीणां शक्वरीत्वं सीमानमभिनत् तत् सिमा मह्न्यमकरोत् तन्मह्न्या महान् घोष आसीत् तन्महानाम्न्यः
दिशः पञ्चपदा दाधारर्तून् षट्पदा छन्दांसि सप्तपदा पुरुषं द्विपदा
द्व्योपशाः संस्तुता भवन्ति तस्माद्द्व्योपशाः पशवः
इडे अभितोऽथकारं तस्माच्छृङ्गे तीक्ष्णीयसी स्तूपात्
उपक्षुद्रा गायति तस्मादुपक्षुद्राः पशवः
अंसश्लिष्टा गायति तस्मादसंश्लिष्टाः पशवः
नानारूपा गायति तस्मान्नानारूपाः पशवः
आपो वै क्षीररसा आसंस्ते देवाः पापवसीयसादबिभयुर्यदप उपनिधाय स्तुवते पापवसीयसो विधृत्यै
विधृतिः पापवसीयसो भवति य एवं वेद
गायत्रमयनं भवति ब्रह्मवर्चसकामस्य स्वर्णिधनं मधुनामुष्मिंल्लोक उपतिष्ठते, त्रैष्टुभमयनं भवत्योजस्कामस्याथकारणिधन माज्येनामुष्मिंल्लोक उपतिष्ठते, जागतमयनं भवति पशुकामस्येडानिधनं पयसामुष्मिंल्लोक उपतिष्ठते
अञ्जसार्यो माल्यः शक्वरीः प्रारौत्सीदिति होवाचालम्मं पारिजानतं रजनः कौणयो यद्येनाः प्रतिष्ठापं शक्ष्यतीत्येतद्वा एतासामञ्जयति प्रतिष्ठिता य आभिः क्षिप्रं प्रस्तुत्य क्षिप्रमुद्गायति
शक्वरीभिः स्तुत्वा पुरीषेण स्तुवते
पशवो वै शक्वर्यो गौष्ठः पुरीषं गोष्ठमेव तत् पशुभ्यः पर्यस्यन्ति तमेवैनान् प्रवर्त्यन्त्यविस्रंसाय
इन्द्रो मदाय वावृध इत्यवर्धन्त ह्येतर्हि
तासु बार्हद्गिरम्
स्वादोरित्था विषूवत इति विषुवान् वै पञ्चममहस्तासु रायोवाजीयम्
इन्द्रो यतीन् सालावृकेभ्यः प्रायच्छत् तेषां त्रय उदशिष्यन्त पृथुरश्मिर्बृहद्गिरी रायोवाजस्तेऽब्रुवन् को न इमान् पुत्रान् भरिष्यतीत्यहमितीन्द्रोऽब्रवीत् तानाधिनिधाय परिचार्यं चरद्(?) वर्धयंस्तान् वर्धयित्वाब्रवीत् कुमारका वरान् वृणीध्वमिति, क्षत्रं मह्यमित्यब्रवीत् पृथुरश्मिस्तस्मा एतेन पार्थुरश्मेन क्षत्रं प्रायच्छत् क्षत्रकाम एतेन स्तुवीत क्षत्रस्यैवास्य प्रकाशो भवति, ब्रह्मवर्चसं मह्यमित्यब्रवीत् बृहद्गिरिस्तस्मा एतेन बार्हद्गिरेण प्रायच्छत् ब्रह्मवर्चसकाम एतेन स्तुवीत ब्रह्मवर्चसी भवति, पशून्मह्यमित्यब्रवीद्रायोवाजस्तस्मा एतेन रायोवाजीयेन पशून् प्रायच्छत् पशुकाम एतेन स्तुवीत पशुमान् भवति
पार्थुरश्मं राजन्याय ब्रह्मसाम कुर्यात् बार्हद्गिरं ब्राह्मणाय रायोवाजीयं वैश्याय स्वेनैवेनांस्तद्रूपेण समर्धयति स्तोमः
13.5
[९]असाव्यंशुर्मदाय इति गायत्री भवति मदवद्वै रसवत् तृतीयसवनं मदमेव तद्रसं दधाति
[१०]अभि द्युम्नं बृहद्यश"इत्यभीति रथन्तरस्य रूपं बृहदिति बृहत उभयोस्सह रूपमुपैत्युभौ हि वर्णावेतदहः
[११]प्राणा शिशुर्महीनाम्"इति सिमानां रूपं मह्यो हि सिमाः स्वेनैवैनास्तद्रूपेण समर्धयति
[१२]पवस्व वाजसातय"इति वैष्णव्योऽनुष्टुभो भवन्ति
यज्ञो वै विष्णुर्यदत्र नापि क्रियते तद्विष्णुना यज्ञेनापि करोति
[१३]इन्दुर्वाजी पवते गोन्योघा"इति सिमानां रूपं स्वेनैवैनास्तद्रूपेण समर्धयति
त्रिष्टुभः सत्यो जगत्यो रूपेण तस्माज्जगतीनां लोके क्रियन्ते
गायत्रं भवति यदेव गायत्रस्य ब्राह्मणम्
सन्तनि भवति पञ्चमस्याह्नस्सन्तत्यै
वाग्वा एषा प्रतता यद्द्वादशाहस्तस्या एष विषुवान् यत् पञ्चममहस्तामेवैतेन सन्तनोति
च्यावनं भवति
प्रजातिर्वै च्यावनं प्रजायते बहुर्भवति च्यावनेन तुष्टुवानः
एभ्यो वै लोकेभ्यो वृष्टिरपाक्रामत् तां प्रजापतिश्च्यावनेनाच्यावयद्यदच्यावयत् तच्च्यावनस्य च्यावनत्वं च्यावयति वृष्टिं च्यावनेन तुष्टुवानः
क्रोशं भवति
एतेन वा इन्द्र इन्द्रक्रोशे विश्वामित्रजमदग्नी इमा गाव इत्याक्रोशत् पशूनामवरुध्यै क्रोशं क्रियते
गौरीवितं भवति यदेव गौरीवितस्य ब्राह्मणम्
ऋषभः शाक्वरो भवति
पशवो वै शक्वर्यः पशुष्वेव तन्मिथुनमप्यर्जति प्रजात्यै न ह वा अनृषभाः पशवः प्रजायन्ते
पार्थं भवति
एतेन वै पृथुर्वैन्य उभयेषां पशूनामाधिपत्यमाश्नुतोभयेषां पशूनामाधिपत्यमश्नुते पार्थेन तुष्टुवानः
अष्टेडः पदस्तोभो भवति
इन्द्रो वृत्राय वज्रमुदयच्छत् तं षोडशभिर्भोगैः पर्यभुजत् स एतं पदस्तोभमपश्यत् तेनापावेष्टयदपावेष्टयन्निव गायेत् पाप्मनोऽपहत्यै
पाप्मा वाव स तमगृह्णात् तं पदस्तोभेनापाहताप पाप्मानं हते पदस्तोभेन तुष्टुवानः
पदोरुत्तममपश्यत् तत् पदस्तोभस्य पदस्तोभत्वम्
द्वादशनिधनो भवति प्रतिष्ठायै
दाशस्पत्यं भवति
यां वै गां प्रशंसन्ति दाशस्पत्येति तां प्रशंसन्त्यहरेवैतेन प्रशंसन्ति
निधनान्ताः पवमाना भवन्त्यह्नो धृत्यै स्तोमः
13.6
[१४]आते अग्न इधीमहि"इति
अपच्छिदिव वा एतद्यज्ञकाण्डं यदुक्थानि यदेति सलोमत्वायैव
[१५]"इन्द्राय साम गायत" इति पूर्णाः ककुभस्तेनानशनायुको भवति
पुरुषो वै ककुप्पुरुषमेव तन्मध्यतः प्रीणाति
[१६]"असावि सोम इन्द्र त"इति सिमानां रूपं स्वेनैवैनांस्तद्रूपेण समर्धयति
सञ्जयं भवति
देवाश्च वा असुराश्च समदधत यतरे नः सञ्जयांस्तेषां नः पशवोऽसानिति ते देवा असुरान् सञ्जयेन समजयन् यत् समजयंस्तस्मात् सञ्जयं पशूनामवरुध्यै सञ्जयं क्रियते
सौमित्रं भवति
दीर्घजिह्वी वा इदं रक्षो यज्ञहा यज्ञियानवलिहत्यचरत् तामिन्द्रः कयाचन मायया हन्तुं नाशंसताथ ह सुमित्रः कुत्सः कल्याण आस तमब्रवीदिमामच्छा ब्रूष्वेति तामच्छा ब्रूत सैनमब्रवीन्नाहैतन्नु शुश्रुव प्रियमिव तु मे हृदयस्येति तामज्ञपयत् तां संस्कृतेऽहतां तद्वाव तौ तर्ह्यकामयेतां कामसनि साम सौमित्रं काममेवैतेनावरुन्धे
सुमित्रः सन् क्रूरमकरित्येनं वागभ्यवदत् तं शुगार्च्छत् स तपोऽतप्यत स एतत् सौमित्रमपश्यत् तेन शुचमपाहतापशुचं हते सौमित्रेण तुष्टुवानः
महावैश्वामित्रं भवति
पाप्मानं हत्वा यदमहीयन्त तन्महावैश्वामित्रस्य महावैश्वामित्रत्वम्
हाया इहया ओहा ओहेति पशूनेवैतेन न्यौहन्त
त्रीडं भवति त्रिरात्रस्य धृत्यै
द्रवन्तीमिडामुत्तमामुपयन्ति षष्ठस्याह्नः सन्तत्यै
त्रिणव एव स्तोमो भवति प्रतिष्ठायै पुष्ट्यै त्रिवृद्वा एष पुष्टः
13.7
[१७]ज्योतिर्यज्ञस्य पवते मधुप्रियम्"इति षष्ठस्याह्नः प्रतिपद्भवति
ज्योतिर्वै गायत्री छन्दसां ज्योतिः रेवती साम्नां ज्योतिस्त्रयस्त्रिंशः स्तोमानां ज्योतिरेव तत् सम्यक्संदधास्यपि ह पुत्रस्य पुत्रो ज्योतिष्मान् भवति
मधु प्रियम् इति पशवो वै रेवत्यो मधुप्रियं तदेव तदभिवदति
मदिन्तमो मत्सर इन्द्रियो रस"इतीन्द्रियं वै वीर्यं रसः पशवस्तदेव तदभिवदति
[१८]असृक्षत प्र वाजिन"इत्यनुरूपो भवति
सृष्टानीव ह्येतर्ह्यहानि
पूर्वमु चैव तद्रूपमपरेण रूपेणानुवदति यत् पूर्वं रूपमपरेण रूपेणानुवदति तदनुरूपस्यानुरूपत्वमनुरूप एनं पुत्रो जायते य एवं वेद स्तोत्रीयानुरूपौ तृचौ भवतः प्राणापानानामवरुध्यै
दशर्चौ भवतो दशाक्षरा विराट्वैराजमन्नमन्नाद्यस्यावरुध्यै
उत्तरो दशर्चो भवति सोदर्क इन्द्रियस्य वीर्यस्य रसस्यानतिक्षाराय
यत्र वे देवा इन्द्रियं वीर्यं रसमपश्यंस्तदनुन्यतुदन्
चतुरृचो भवति प्रतिष्ठायै
ध्वस्रे वै पुरुषन्ती तरन्तपुरुमीढाभ्यां वैतदश्विभ्यां सहस्राण्यदित्सतां तावैक्षेतां कथं नाविदमात्तमप्रतिगृहीतं स्यादिति तौ प्रत्येतां ध्वस्रयोः पुरुषन्त्योरा सहस्राणि दद्महे (दप्रहे) [१९]तरत्स मन्दी धावतीति ततो वै तत् तयोरात्तमप्रतिगृहीतमभवत्
आत्तमस्याप्रतिगृहीतं भवति य एवं वेद
विनाराशंसो भवत्युभयस्यान्नाद्यस्यावरुध्यै मानुषस्य च दैवस्य च
तृच उत्तमो भवति येनैव प्राणेन प्रयन्ति तमभ्युद्यन्ति
त्रयस्त्रिंश एव स्तोमो भवति प्रतिष्ठायै देवतासु वा एष प्रतिष्ठितः
13.8
[२०]इमं स्तोममर्हते जातवेदस"इत्याग्नेयमाज्यं भवति सोदर्कमिन्द्रियस्य वीर्यस्य रसस्यानतिक्षाराय यत्र वै देवा इन्द्रियं वीर्यं रसमपश्यंस्तदनुन्यतुदन्
[२१]प्रतिवां सूर उदित"इति सूरवन्मैत्रावरुणम्
अन्तो वै सूरोऽन्त एतत् षष्ठमहरह्नामन्त एव तदन्ते स्तुवते प्रतिष्ठायै
[२२]भिन्धि विश्वा अपद्विष"इत्यैन्द्रं सोदर्कमिन्द्रियस्य वीर्यस्य रसस्यानतिक्षाराय यत्र वै देवा इन्द्रियं वीर्यं रसमपश्यंस्तदनुन्यतुदन्
[२३]यज्ञस्य हि स्थ ऋत्विज"इत्यैन्द्राग्नं सोदर्कमिन्द्रियस्य वीर्यस्य रसस्यानतिक्षाराय यत्र वै देवा इन्द्रियं वीर्यं रसमपश्यंस्तदनुन्यतुदन् स्तोमः
13.9
[२४]इन्द्रायेन्दो मरुत्वत"इति मरुत्वत्यो गायत्र्यो भवन्ति
मरुत्वद्धि माध्यन्दिनं सवनम्
[२५]मृज्यमानः सुहस्त्य इति सिमानां रूपम्
समानं वै सिमानां रूपं रेवतीनां च सिमाभ्यो ह्यधिरेवत्यः प्रजायन्ते
[२६]एतमु त्यं दश क्षिप इत्यादित्या आदित्या वा इमाः प्रजास्तासामेव मध्यतः प्रतितिष्ठति
गायत्र्यः सत्यस्त्रिष्टुभो रूपेण तस्मात् त्रिष्टुभां लोके क्रियन्ते
गायत्रं भवति यदेव गायत्रस्य ब्राह्मणम्
इषोवृधीयं भवति
पशवो वा इषोवृधीयं पशूनामवरुध्या इषे वै पञ्चममहर्वृधे षष्ठमवर्धन्त ह्येतर्हि यजमानमेवैतेन वर्धयन्ति
क्रौञ्चं भवति
क्रुङ्ङेष्यमहरविन्ददेष्यमिव वै षष्ठमहरेवैतेन विन्दन्ति
वाजदावर्यो भवन्ति
अन्नं वै वाजोऽन्नाद्यस्यावरुध्यै यदा हि वा अन्नमथ गौरथाश्वोऽथ पुरुषो वाजी
रेवत्यो भवन्ति प्रतिष्ठायै
षण्णिधनी षड्रात्रस्य धृत्यै
आपो वै रेवत्यस्ता यत् पृष्ठं कुर्युरपशुर्यजमानः स्यात् पशूनस्य निर्दहेयुर्यत्र वा आपो विवर्तन्ते तदोषधयो जायन्तेऽथ यत्रावतिष्ठन्ते निर्मृतुकास्तत्र भवन्ति तस्मात् पवमाने कुर्वन्ति पराचा हि पवमानेन स्तुवते
मेथी वा इषोवृधीयं रज्जुः क्रौञ्चं वत्सो वाजदावर्यो रेवत्यो मातरो यदेतान्येवं सामानि क्रियन्त एवमेव प्रत्तां दुग्धे
औक्ष्णोरन्ध्रे भवतः
उक्ष्णोरन्ध्रो वा एताभ्यां काव्योऽञ्जसा स्वर्गं लोकमपश्यत् स्वर्गस्य लोकस्यानुख्यात्यै स्वर्गाल्लोकान्न च्यवते तुष्टुवानः
वाजजिद् भवति सर्वस्याप्त्यै सर्वस्य जित्यै सर्वं वा एते वाजं जयन्ति ये षष्ठमहरागच्छन्ति
अन्नं वै वाजोऽन्नाद्यस्यावरुध्यै
वरुणसाम भवति
एतेन वै वरुणो राज्यमाधिपत्यमगच्छद्यशोऽभवद्राज्यमाधिपत्यं गच्छति यशो भवति वरुणसाम्ना तुष्टुवानः
अङ्गिरसां गोष्ठो भवति
पशवो वै रेवत्यो गौष्ठमेव तत् पशुभ्यः पर्यस्यन्ति तमेवैनान् प्रवर्तयन्त्यविस्रंसाय
इहवद्वामदेव्यं भवति
एतेन वै वामदेवोऽन्नस्य पुरोधामगच्छदन्नं वै ब्रह्मणः पुरोधा अन्नस्यावरुध्यै
गायत्रीषु स्तुवन्ति प्रतिष्ठायै ब्रह्मवर्ञ्चसाय येनैव प्राणेन प्रयन्ति तमभ्युद्यन्ति
मरुत्वत्यो गायत्र्यो भवन्ति तदु त्रैष्टुभाद्रूपान्न यन्ति स्तोमः
13.10
यातयामान्यन्यानि छन्दांस्ययातयामा गायत्री तस्माद्गायत्रीषु स्तुवन्ति
[२७]सुरूप कृत्नुमूतय इत्यभ्यारम्भेण षट्पदाः षष्ठस्याह्नो रूपं तेन षष्ठमहरारभन्ते सन्तत्यै
[२८]उभे यदिन्द्र रोदसी इति षट्पदाः षष्ठस्याह्नो रूपं तेन षष्ठमहरारभन्ते सन्तत्यै
रेवतीषु वारवन्तीयं पृष्ठं भवति
अपां वा एष रसो यद्रेवत्यो रेवतीनां रसो यद्वारवन्तीयं सरसा एव तद्रेवतीः प्रयुङ्क्ते यद्वारवन्तीयेन पृष्ठेन स्तुवते
रेवद्वा एतद्रैवत्यं यद्वारवन्तीयमास्य रेवान् रैवत्यो जायते
रेवान् भवति य एवं वेद
केशिने वा एतद्दाल्भ्याय सामाविरभवत् तदेनमब्रवीदगातारो मा गायन्ति मा मयोद्गासिषुरिति कथं त आगा भगव इत्यब्रवीदागेयमेवास्म्यागायन्निव गायेत् प्रतिष्ठायै तदलम्मं पारिजानतं पश्चादक्षं शयानमेतामागां गायन्तमजानात् तमब्रवीत् पुरस्त्वा दधा इति तमब्रुवन् को न्वयं कस्मा अलमित्यलं नु वै मह्यमिति तदलम्मस्यालम्मत्वम्
इहेहेति गायेत् प्रतिष्ठायै
ऋषभो रैवतो भवति
पशवो वै रैवत्यः पशुष्वेव तन्मिथुनमप्यर्जति प्रजात्यै न ह वा अनृषभाः पशवः प्रजायन्ते
श्येनो भवति
श्येनो ह वै पूर्वप्रेतानि वयांस्याप्नोति पूर्वप्रेतानीव वै पूर्वाण्यहानि तेषामाप्त्यै श्येनः क्रियते
श्येनो वा एतदहः सम्पारयितुमर्हति स हि वयसामाशिष्ठस्तस्यानपहननाय सम्पारणायैतत् क्रियतेऽन्तो हि षष्ठं चाहः सप्तमं च
ब्रह्मवादिनो वदन्ति यद्बृहदायतनानि पृष्ठान्यथैते द्वे गायत्र्यौ द्वे जगत्यौ क्व तर्हि बृहत्यो भवन्तीति
ये द्वे जगत्योः पदे ते गायत्र्या उपसम्पद्येते तत् सर्वा बृहत्यो भवन्त्यायतने पृष्ठानि यातयत्यायतनवान् भवति
षट्पदासु स्तुवन्ति षड्रात्रस्य धृत्यै
सप्तपदया यजति सप्तमस्याह्नः सन्तत्यै स्तोमः
13.11
[२९]परिस्वानो गिरिष्ठा इति परिवत्यो गायत्र्यो भवन्ति सर्वस्य पर्याप्त्यै
[३०]स सुन्वे यो वसूनाम् इति पशवो वै वसु पशूनामवरुध्यै
[३१]तं वस्सखायो मदाय इति वालखिल्याः
वालखिल्यावेतौ तृचौ षष्ठे चाहनि सप्तमे च
यदेतौ वालखिल्यौ तृचौ भवतोऽह्नोरेव व्यतिषङ्गयाव्यतिस्रंसाय सन्तत्यै
[३२]सोमाः पवन्त इन्दव इत्यनुष्टुभो निभसदो भवन्ति प्रतिष्ठायै
[३३]अया पवा पवस्वैना वसूनि"इति त्रिष्टुभस्सत्यो जगत्यो रूपेण तस्माज्जगतीनां लोके क्रियन्ते
गायत्रं भवति यदेव गायत्रस्य ब्रह्माणम्
वैदन्वातानि(तृतीयम्, आद्यम्, चतुर्थम्), भवन्ति
विदन्वान् वै भार्गव इन्द्रस्य प्रत्यहंस्तं शुगार्च्छत् स तपोऽतप्यत स एतानि वैदन्वतान्यपश्यत् तैः शुचमपाहतापशुचं हते वैदन्वतैस्तुष्टुवानः
भरद्वाजस्य लोमत भवति
पशवो वै लोम पशूनामवरुध्यै
तदु दीर्घमित्याहुरायुर्वै दीर्घमायुषोऽवरुध्यै
कार्णश्रवसं भवति शृण्वन्ति तुष्टुवानम्
कर्णश्रवा वा एतदाङिगरसः पशुकामः सामापश्यत् तेन सहस्रं पशूनसृजत यदेतत् साम भवति पशूनां पुष्ट्यै
गौरीवितं भवति गौरिवितस्य ब्राह्मणम्
मधुश्च्युन्निधनं भवति
परमस्यान्नाद्यस्यावरुध्यै परमं वा एतदन्नाद्य यन्मधु
प्रजापतेर्वा एतौ स्तनौ यद्घृतश्च्युन्निधनं च मधुश्च्युन्निधनं च यज्ञो वै प्रजापतिस्तमेताभ्यां दुग्धे यं कामं कामयते तं दुग्धे
क्रौञ्चे (वाङ्निधनं क्रौ़ञ्चम्, ऐडं क्रौञ्चम् ) भवतः
श्नौष्टं भवति
श्नुष्टिर्वा एतेनाङ्गिरसोऽञ्जसा स्वर्गं लोकमपश्यत् स्वर्गस्य लोकस्यानुख्यात्यै स्वर्गात् लोकान्न च्यवते तुष्टुवानः
अग्नेर्वा एतद्वैश्वानरं साम दीदिहीति निधनमुपयन्ति दीदा एव ह्यग्निर्वैश्वानरः
निधनान्ताः पवमाना भवन्त्यह्नो धृत्यै स्तोमः
13.12
ब्रह्मवादिनो वदन्ति प्रायणतो द्विपदाः कार्या उदयनता३ इति
उदयनत एव कार्याः पुरुषो वै द्विपदाः प्रतिष्ठायै
वाचा वै सर्वं यज्ञं तन्वते तस्मात् सर्वां वाचं पुरुषो वदति सर्वा ह्यस्मिन् संस्तुता प्रतितिष्ठति
गूर्दो भवति
गोपायनानां वै सत्त्रमासीनानां किरातकुल्यावसुरमाये अन्तःपरिध्यसून् प्राकिरतां तेऽऽग्रे त्वन्नो अन्तम"इत्यग्निमुपासीदंस्तेनासूनस्पृण्वंस्तद्वाव ते तर्ह्यकामयन्त कामसनि साम गूर्दः काममेवैतेनावरुन्धे
गोतमस्य भद्रं भवति
आशिषमेवास्मा एतेनाशास्ते साम हि सत्याशीः
एतेन वै गोतमो जेमानं महिमानमगच्छत् तस्माद्ये च पराञ्चो गोतमाद्ये चार्वाञ्चस्त उभये गोतमा ऋषयो ब्रुवते
उद्वंशपुत्रा भवति
यद्वा उद्वंशीयं तदुद्वंशपुत्रः
अर्धेडामतिस्वरति
तस्मादूधर्धारा अति चरन्तीडायामन्ततः पशुषु प्रतितिष्ठति
कॢप्त उपरिष्टादृक्साम च विमुच्येते अभ्यु स्वरेण सप्तममहः स्वरति सन्तत्यै
ऊहुषीव वा एतर्हि वाग्यदा षडहः सन्तिष्ठते न बहु वदेन्नान्यं पृच्छेन्नान्यस्मै प्रब्रूयात्
मधु वाशयेद्घृतं वा यथेहुषो बहं प्रत्यनक्ति तथा तत्
त्रयस्त्रिंश एव स्तोमो भवति प्रतिष्ठायै देवतासु वा एष प्रतिष्ठितः

१३.१.१ स्तोत्रीय तृचः

ऽऽगोवित्पवस्व वसुविद्धिरण्यविद्ऽऽ इति पञ्चमस्याह्नः प्रतिपद्भवति

१३.१.२ तृच सङ्गतिः

गोविद्वा एतद्वसुविद्धिरण्यविद्यच्छक्वर्यः

१३.१.३ शक्वरीणां(शर्करीणां) हिरण्यादिलम्भकत्वं

पशवश्शक्वर्यः सर्वं पशुभिर्विन्दते

१३.१.४ लिङ्गान्तरानुगुण्यं

ऽऽत्वं सुवीरो असि सोमविश्वविद्ऽऽ इत्येष याव सुवीरो यस्य पशवस्तदेव तदभिवदति

१३.१.५ लिङ्गान्तरं सङ्गतिः

तास्ते क्षरन्तु मधुमद्घृतं पयऽऽ इति मधुमद्वै घृतं पयः पशवः क्षरन्ति तदेव तदभिवदति

१३.१.६ द्वितीय तृचविधानं

ऽऽपवमानस्य विश्वविद्ऽऽ इत्यनुरूपो भवति

१३.१.७ अहः सङ्गतिः

विश्वं एव तद्वित्तं अभिवदति विश्वं हि पशुभिर्विन्दते

१३.१.८ आनुगुण्यं प्रदर्शनं

ऽऽप्र ते सर्गा असृक्षत-ऽऽ इति सृष्टानीव ह्येतर्ह्यहानि

१३.१.९ विशिष्टफल हेतुता

पूर्वं उ चैव तद्रूपं अपरेण रूपेणानुवदति यत्पूर्वं रूपेणानुवदति तदनुरूपस्यानुरूपत्वम्, अनुरूप एनं पुत्रो जायते य एवं वेद स्तोत्रीयानुरुपौ तृचौ भवतः प्राणापानानां अवरुध्यै

१३.१.१० सप्तर्च्च-द्वय विधानं

सप्तर्चौ भवतः छन्दसां धृत्यै

१३.१.११ चतुर्ऋच विधानं

चतुरृचो भवति प्रतिष्ठायै

१३.१.१२ तृचसूक्त विधानं

तृच उत्तमो भवति येनैव प्राणेन प्रयन्ति तं अभ्युद्यन्ति त्रिणव एव स्तोमो भवति प्रतिष्ठायै पुष्ट्यै त्रिवृद्वा एष पुष्टः

१३.२.१ स्तोत्रीयतृचप्रदर्शनम्

ऽऽतव श्रियो वर्षस्येव विद्युतऽऽ इत्याग्नेयं आज्यं भवति

१३.२.२ तृच सङ्गतिः

श्रीर्वै पशवः श्रीः शक्वर्यः तदेव तदभिवदति

१३.२.३ आनुगुण्यं कथनं

ऽऽअग्नेश्चिकित्र उषसां इवेतयऽऽ इतीतानीव ह्येतर्ह्यहानीति ऽऽआ ते यतन्ते रथ्यो यथा पृथग्ऽऽ इत्येव ह्येतर्ह्यहानि यतन्ते

१३.२.४ द्वितीयाज्य स्तोत्रीयं तृचः

ऽऽपुरूरुणा चिद्ध्यस्त्यवो नूनं वां वरुण-ऽऽ इति मैत्रावरुणम् यद्वै यज्ञस्य दुरिष्टं तद्वरुणो गृह्णाति तदेव तदवयजति

१३.२.५ तृतीयाज्यस्तोत्रं

ऽऽउत्तिष्ठन्नोजसा सह-ऽऽ इत्यैन्द्रम्

१३.२.६ सङ्गति कथनं

पञ्च वा ऋतव उत्थानस्य रूपं ओजसा सहेत्योजसैव वीर्येण सहोत्तिष्ठन्ति

१३.२.७ चतुर्थाज्य स्तोत्रं

ऽऽइन्द्राग्नी युवां इमऽऽ इति राथन्तरं ऐन्द्राग्नम्

१३.२.८ विशेष सङ्गति कथनं

रथन्तरं एतत्परोक्षं यच्छक्वर्यो राथन्तरं एव तद्रूपं निर्द्योतयति स्तोमः

१३.३.१ माध्यन्दिनपवमानस्य स्तोत्रीया ऋक्

ऽऽअर्षा सोम द्युमत्तमऽऽ इति विष्णुमत्यो गायत्र्यो भवन्ति

१३.३.२ विष्णुमत्य गायत्र्योः स्तुतिः

ब्रह्म वै गायत्री यज्ञो विष्णुर्ब्रह्मण्येव तद्यज्ञं प्रतिष्ठापयति

१३.३.३ पवमान तृचान्तरं

ऽऽसोम उष्वाणस्सोतृभिर्ऽऽ इति सिमानां रूपं स्वेनैवैतास्तद्रूपेण समर्धयति

१३.३.४ पवमान तृचान्तरं

ऽऽयत्सोम चित्रं उक्थ्यम्ऽऽ इति गायत्र्यः सत्यस्त्रिष्टुभो रूपेण तस्मात्त्रिष्टुभां लोके क्रियन्ते

१३.३.५ इतिकर्त्तव्यता प्रतिपादक ब्राह्मणातिदेशः

गायत्रं भवति यदेव गायत्रस्य ब्राह्मणम्

१३.३.६ सामान्तरविधानं

यण्वं भवति पशवो वै यण्वं पशूनां अवरुध्यै

१३.३.७ सान्तत्यविधानं

सन्ततं गायति यज्ञस्य सन्तत्ये

१३.३.८ अहः सङ्गतिः

अध्यर्धेडं तथा ह्येतस्याह्नो रूपम्

१३.३.९ पुनरावृत्ति सामान्तरविधानं

शाकलं भवति

१३.३.१० प्रतिष्ठा हेतुत्वेन स्तुतिः

एतेन वै शकलः पञ्चमेऽहनि प्रत्यतिष्ठत्प्रतितिष्ठति शाकलेन तुष्टुवानः

१३.३.११ पुनरावृत्ति सामान्तरविधानं

वार्शं भवति

१३.३.१२ प्राप्ति साधनत्वेन स्तुतिः

वृशो वैजानस्त्र्यरुणस्य त्रैधातवस्यैक्ष्वाकस्य पुरोहित आसीत्स ऐक्ष्वाकोऽधावयत्ब्राह्मणकुमारं रथेन व्यच्छिनत्स पुरोहितं अब्रवीत्तव मा पुरोधायां इदं ईदृगुपागादिति तं एतेन साम्ना समैरयत्तद्वाव स तर्ह्यकामयत कामसनि साम वार्शं कामं एवैतेनावरुन्धे

१३.३.१३ अनुरूप प्रदर्शनं

अध्यर्धेडं तथा ह्येतस्याह्नो रूपम्

१३.३.१४ सामान्तरविधानं

मानवं भवति

१३.३.१५ स्तुतिः

एतेन वै मनुः प्रजापतिं भूमानं अगच्छत्प्रजायते बहुर्भवति मानवेन तुष्टुवानः

१३.३.१६ सामान्तरविधानं

आनूपं भवति

१३.३.१७ पशुबाहुल्य स्तुतिः

एतेन वै वध्र्यश्व आनूपः पशूनां भूमानं आश्नुत पशूनां भूमानं अश्नुत आनूपेन तुष्टुवानः

१३.३.१८ सामान्तरविधानं

वाम्रं भवति

१३.३.१९ अह्नः प्रशंसा

मामार्षेयेण प्रशस्तं यं वै गां अश्वं पुरुषं प्रशंसन्ति वाम इति तं प्रशंसन्त्यहरेवैतेन प्रशंसन्ति

१३.३.२० अह्नः सारूप्यं

अध्यर्धेडं तथा ह्येतस्याह्नो रूपम्

१३.३.२१ गेय सामान्तरं

त्रिणिधनं आग्नेयं भवति प्रतिष्ठायै

१३.३.२२ एतत् सामप्रशंसा

अग्रिः सृष्टो नोददीप्यत तं प्रजापतिरेतेन साम्नोपाधमत्स उददीप्यत दीप्तिश्च वा एतत्साम ब्रह्मवर्चसं च दीप्तिश्चैवैतेन ब्रह्मवर्चसं चावरुन्धे

१३.३.२३ गातव्य सामप्रदर्शनं

शैशवं भवति

१३.३.२४ आख्यायिका कथनं

शिशुर्वा आङ्गिरसो मन्त्रकृतां मन्त्रकृदासीत्स पित्.ऋन्पुत्रका इत्यामन्त्रयत, तं पितरोऽब्रुवन्न धर्मं करोषि यो नः पित्.ऋन्सतः पुत्रका इत्यामन्त्रयम इति, सोऽब्रवीदहं वाव वः पितास्मि यो मन्त्रकृदस्मीति, तं देवेष्वपृच्छन्त ते देवा अबुवन्नेष वाव पिता यो मन्त्रकृदिति तद्वै स उदजयदुज्जयति शैशवेन तुष्टुवानः

१३.३.२५ संख्याद्वारेण प्रशंसा

गायत्रीषु स्तुवन्ति प्रतिष्ठायै ब्रह्मवर्चसाय येनैव प्राणेन प्रयन्ति तं अभ्युद्यन्ति

१३.३.२६ माध्यन्दिनसवने गायत्रतृचः

विष्णुमत्यो गायत्र्यो भवन्ति तदु त्रैष्टुभाद्रूपान्न यन्ति स्तोमः

१३.४.१ शाक्वरसामस्य संज्ञाचतुष्ट्यं

इन्द्रः प्रजापतिं उपाधावद्वृत्रं हनानीति तस्मा एतच्छन्दोभ्य इन्द्रियं वीर्यं निर्माय प्रायच्छदेतेन शक्नुहीति तच्छक्वरीणां शक्वरीत्वं सीमानं अभिनत्तत्सिमा मह्न्यं अकरोत्तन्मह्न्या महान्घोष आसीत्तन्महानाम्न्यः

१३.४.२ शक्क्वर्य्याः पादसंख्यानं

दिशः पञ्चपदा दाधारर्तून्षट्पदा छन्दांसि सप्तपदा पुरुषं द्विपदा

१३.४.३ शक्वर्य्याः प्रकारान्तरेण प्रशंसा

द्व्योपशाः संस्तुता भवन्ति तस्माद्द्व्योपशाः पशवः

१३.४.४ शक्वर्य्याः प्रकारान्तरेण प्रशंसा

इडे अभितोऽथकारं तस्माच्छृङ्गे तीक्ष्णीयसी स्तूपात्

१३.४.५ शक्वर्य्याः गान विधानं

उपक्षुद्रा गायति तस्मादुपक्षुद्राः पशवः

१३.४.६ गाने गुणविधानं

अंसश्लिष्टा गायति तस्मादसंश्लिष्टाः पशवः

१३.४.७ शक्वर्य्याः पृथक् स्तुतिः

नानारूपा गायति तस्मान्नानारूपाः पशवः

१३.४.८ गाने उद्घोषविधानं

आपो वै क्षीररसा आसंस्ते देवाः पापवसीयसादबिभयुर्यदप उपनिधाय स्तुवते पापवसीयसो विधृत्यै

१३.४.९ एतद्वेदन प्रशंसा

विधृतिः पापवसीयसो भवति य एवं वेद

१३.४.१० काम्य निधन प्रदर्शनं

गायत्रं अयनं भवति ब्रह्मवर्चसकामस्य स्वर्णिधनं मधुनामुष्मिंल्लोक उपतिष्ठते, त्रैष्टुभं अयनं भवत्योजस्कामस्याथकारणिधन माज्येनामुष्मिंल्लोक उपतिष्ठते, जागतं अयनं भवति पशुकामस्येडानिधनं पयसामुष्मिंल्लोक उपतिष्ठते

१३.४.११ प्रस्तावोद्गानयोः क्षिप्रत्वविधानं

अञ्जसार्यो माल्यः शक्वरीः प्रारौत्सीदिति होवाचालम्मं पारिजानतं रजनः कौणयो यद्येनाः प्रतिष्ठापं शक्ष्यतीत्येतद्वा एतासां अञ्जयति प्रतिष्ठिता य आभिः क्षिप्रं प्रस्तुत्य क्षिप्रं उद्गायति

१३.४.१२ पञ्चपुरीषपदानां गानं

शक्वरीभिः स्तुत्वा पुरीषेण स्तुवते

१३.४.१३ तत् प्रशंसा

पशवो वै शक्वर्यो गौष्ठः पुरीषं गोष्ठं एव तत्पशुभ्यः पर्यस्यन्ति तं एवैनान्प्रवर्त्यन्त्यविस्रंसाय

१३.४.१४ ब्रह्मपृष्ठस्य स्तोत्रीय तृचः

ऽऽइन्द्रो मदाय वावृधऽऽ इत्यवर्धन्त ह्येतर्हि

१३.४.१५ गेय सामविधानं

तासु बार्हद्गिरम्

१३.४.१६ विशिष्ट स्तोत्रीय सामान्तरं

ऽऽस्वादोरित्था विषुवतऽऽ इति विषुवान्वै पञ्चमं अहस्तासु रायोवाजीयम्

१३.४.१७ कामनाभेदे ब्रह्म सामविधानं

इन्द्रो यतीन्सालावृकेभ्यः प्रायच्छत्तेषां त्रय उदशिष्यन्त पृथुरश्मिर्बृहद्गिरी रायोवाजस्तेऽब्रुवन्को न इमान्पुत्रान्भरिष्यतीत्यहं इतीन्द्रोऽब्रवीत्तानाधिनिधाय परिचार्यं चरद्(?) वर्धयंस्तान्वर्धयित्वाब्रवीत्कुमारका वरान्वृणीध्वं इति, क्षत्रं मह्यं इत्यब्रवीत्पृथुरश्मिस्तस्मा एतेन पार्थुरश्मेन क्षत्रं प्रायच्छत्क्षत्रकाम एतेन स्तुवीत क्षत्रस्यैवास्य प्रकाशो भवति, ब्रह्मवर्चसं मह्यं इत्यब्रवीत्बृहाद्गिरिस्तस्मा एतेन बार्हद्गिरेण प्रायच्छत्ब्रह्मवर्चसकाम एतेन स्तुवीत ब्रह्मवर्चसी भवति, पशून्मह्यं इत्यब्रवीद्रायोवाजस्तस्मा एतेन रायोवाजीयेन पशून्प्रायच्छत्पशुकाम एतेन स्तुवीत पशुमान्भवति

१३.४.१८ कर्त्तृ विशेषे व्यवस्थापनं

पार्थुरश्मं राजन्याय ब्रह्मसाम कुर्यात्बार्हद्गिरं ब्राह्मणाय रायोवाजीयं वैश्याय स्वेनैवेनांस्तद्रूपेण समर्धयति स्तोमः

१३.५.१ आर्भवपवमानीद्य तृचः

ऽऽअसाव्यंशुर्मदाय-ऽऽ इति गायत्री भवति मदवद्वै रसवत्तृतीयसवनं मदं एव तद्रसं दधाति

१३.५.२ तृचान्तरविधानं

ऽऽअभि द्युम्नं बृहद्यशऽऽ इत्यभीति रथन्तरस्य रूपं बृहदिति बृहत उभयोस्सह रूपं उपैत्युभौ हि वर्णावेतदहः

१३.५.३ तृचान्तरविधानं

ऽऽप्राणा शिशुर्महीनाम्ऽऽ इति सिमानां रूपं मह्यो हि सिमाः स्वेनैवैनास्तद्रूपेण समर्धयति

१३.५.४ तृचान्तरविधानं

ऽऽपवस्व वाजसातयऽऽ इति वैष्णव्योऽनुष्टुभो भवन्ति

१३.५.५ तृचान्तर प्रशंसा

यज्ञो वै विष्णुर्यदत्र नापि क्रियते तद्विष्णुना यज्ञेनापि करोति

१३.५.६ पुनस्तृचान्तरविधानं

ऽऽइन्दुर्वाजी पवते गोन्योघाऽऽ इति सिमानां रूपं स्वेनैवैनास्तद्रूपेण समर्धयति

१३.५.७ त्रैष्टुभ तृच सङ्गतिः

त्रिष्टुभः सत्यो जगत्यो रूपेण तस्माज्जगतीनां लोके क्रियन्ते

१३.५.८ ब्राह्मणातिदेशः

गायत्रं भवति यदेव गायत्रस्य ब्राह्मणम्

१३.५.९ सामान्तरविधानं

सन्तनि भवति पञ्चमस्याह्नस्सन्तत्यै

१३.५.१० सन्तानहेतुता कथनं

वाग्वा एषा प्रतता यद्द्वादशाहस्तस्या एष विषुवान्यत्पञ्चमं अहस्तां एवैतेन सन्तनोति

१३.५.११ गेयसाम प्रदर्शनं

च्यावनं भवति

१३.५.१२ तस्य स्तुतिः

प्रजातिर्वै च्यावनं प्रजायते बहुर्भवति च्यावनेन तुष्टुवानः

१३.५.१३ च्यावनस्य वृष्टिहेतुता

एभ्यो वै लोकेभ्यो वृष्टिरपाक्रामत्तां प्रजापतिश्च्यावनेनाच्यावयद्यदच्यावयत्तच्च्यावनस्य च्यावनत्वं च्यावयति वृष्टिं च्यावनेन तुष्टुवानः

१३.५.१४ गेयसाम प्रदर्शनं

क्रोशं भवति

१३.५.१५ पशुप्राप्ति साधनता

एतेन वा इन्द्र इन्द्रक्रोशे विश्वामित्रजमदग्नी इमा गाव इत्याक्रोशत्पशुनां अवरुध्यै क्रोशं क्रियते

१३.५.१६ ब्राह्मणातिदेशः

गौरीवितं भवति यदेव गौरीवितस्य ब्राह्मणम्

१३.५.१७ सामान्तरविधानं

ऋषभः शाक्वरो भवति

१३.५.१८ सामान्तर प्रशंसा

पशवो वै शक्वर्यः पशुष्वेव तन्मिथुनं अप्यर्जति प्रजात्यै न ह वा अनृषभाः पशवः प्रजायन्ते

१३.५.१९ पुनः सामान्तरं

पार्थं भवति

१३.५.२० पशुप्राप्ति साधनता

एतेन वै पृथुर्वैन्य उभयेषां पशूनां आधिपत्यं आश्नुतोभयेषां पशुनां आधिपत्यं अश्नुते पार्थेन तुष्टुवानः

१३.५.२१ आवृत्ते सामान्तरं

अष्टेडः पदस्तोभो भवति

१३.५.२२ गुणविधानं

इन्द्रो वृत्राय वज्रं उदयच्छत्तं षोडशभिर्भोगैः पर्यभुजत्स एतं पदस्तोभं अपश्यत्तेनापावेष्टयदपावेष्टयन्निव गायेत्पाप्मनोऽपहत्यै

१३.५.२३ एतद्विवरणं

पाप्मा वाव स तं अगृह्णात्तं पदस्तोभेनापाहताप पाप्मानं हते पदस्तोभेन तुष्टुवानः

१३.५.२४ पदस्तोभ संज्ञा

पदोरुत्तमं अपश्यत्तत्पदस्तोभस्य पदस्तोभत्वम्

१३.५.२५ प्रतिष्ठा हेतुता कथनं

द्वादशनिधनो भवति प्रतिष्ठायै

१३.५.२६ अन्तिमतृचे गेय सामविधानं

दाशस्पत्यं भवति

१३.५.२७ संज्ञाद्वारेण स्तुतिः

यां वै गां प्रशंसन्ति दाशस्पत्येति तां प्रशंसन्त्यहरेवैतेन प्रशंसन्ति

१३.५.२८ पवमान स्तोत्रोपसंहारः

निधनान्ताः पवमाना भवन्त्यह्नो धृत्यै स्तोमः

१३.६.१ उक्थीय प्रथमतृचः

ऽऽआते अग्न इधीमहि-ऽऽ इति

१३.६.२ तत् प्रशंसा

अपच्छिदिव वा एतद्यज्ञकाण्डं यदुक्थानि यदेति सलोमत्वायैव

१३.६.३ द्वितीयोक्थ स्तोत्रं

ऽऽइन्द्राय साम गायत-ऽऽ इति पूर्णाः ककुभस्तेनानशनायुको भवति

१३.६.४ प्रकारान्तर स्तुतिः

पुरुषो वै ककुप्पुरुषं एव तन्मध्यतः प्रीणाति

१३.६.५ तृतीयोक्थ स्तोत्रं

ऽऽअसावि सोम इन्द्र तऽऽ इति सिमानां रूपं स्वेनैवैनांस्तद्रूपेण समर्धयति

१३.६.६ प्रथम तृच गेयसाम

सञ्जयं भवति

१३.६.७ अस्य पशु साधनता

देवाश्च वा असुराश्च समदधत यतरे नः सञ्जयांस्तेषां नः पशवोऽसानिति ते देवा असुरान्सञ्जयेन समजयन्यत्समजयंस्तस्मात्सञ्जयं पशूनां अवरुध्यै सञ्जयं क्रियते

१३.६.८ द्वितीयोक्थ सामविधानं

सौमित्रं भवति

१३.६.९ अस्य सर्व्वप्राप्तिसाधनता

दीर्घजिह्वी वा इदं रक्षो यज्ञहा यज्ञियानवलिहत्यचरत्तां इन्द्रः कयाचन मायया हन्तुं नाशंसताथ ह सुमित्रः कुत्सः कल्याण आस तं अब्रवीदिमां अच्छा ब्रूष्वेति तां अच्छा ब्रूत सैनं अब्रवीन्नाहैतन्न शुश्रुव प्रियं इव तु मे हृदयस्येति तां अज्ञपयत्तां संस्कृतेऽहतां तद्वाव तौ तर्ह्यकामयेतां कामसनि साम स्ॐइत्रं कामं एवैतेनावरुन्धे

१३.६.१० प्रकारान्तर स्तुतिः ।

सुमित्रः सन्क्रूरं अकरित्येनं वागभ्यवदत्तं शुगार्च्छत्स तपोऽतप्यत स एतत्स्ॐइत्रं अपश्यत्तेन शुचं अपाहतापशुचं हते स्ॐइत्रेण तुष्टुवानः

१३.६.११ तृतीयोक्थ सामविधानं

महावैश्वामित्रं भवति

१३.६.१२ संज्ञाविधानं

पाप्मानं हत्वा यदमहीयन्त तन्महावैश्वामित्रस्य महावैश्वामित्रत्वम्

१३.६.१३ स्तोभग्रहण स्तुतिः

हाया इहया ओहा ओहेति पशूनेवैतेन न्यौहन्त

१३.६.१४ स्तोभग्रहणं

त्रीडं भवति त्रिरात्रस्य धृत्यै

१३.६.१५ इडाया गुणविशेषविधानं

द्रवन्तीं इडां उत्तमां उपयन्ति षष्ठस्याह्नः सन्तत्यै

१३.६.१६ स्तोमक्लृप्ति प्रदर्शनं

त्रिणव एव स्तोमो भवति प्रतिष्ठायै पुष्ट्यै त्रिवृद्वा एष पुष्ठः

१३.७.१ बहिष्पवमानीय स्तोत्रीयतृचः

ऽऽज्योतिर्यज्ञस्य पवते मधुप्रियम्ऽऽ इति षष्ठस्याह्नः प्रतिपद्भवति

१३.७.२ ज्योतिः शब्दार्थ प्रदर्शनं

ज्योतिर्वै गायत्री छन्दमां ज्योतिः रेवती साम्नां ज्योतिस्त्रयस्त्रिंशः स्तोमानां ज्योतिरेव तत्सम्यक्संदधास्यपि ह पुत्रस्य पुत्रो ज्योतिष्मान्भवति

१३.७.३ अन्त्य पदान्तरानुवादः

ऽऽमधु प्रियम्ऽऽ इति पशवो वै रेवत्यो मधुप्रियं तदेव तदभिवदति

१३.७.४ तस्य स्तुतिः

ऽऽमदिन्तमो मत्सर इन्द्रियो रसऽऽ इतीन्द्रियं वै वीर्यं रसः पशवस्तदेव तदभिवदति

१३.७.५ बहिष्पवमानीय द्वितीयतृचः

ऽऽअमृक्षत प्रवाजिनऽऽ इत्यनुरूपो भवति

१३.७.६ अहः संगतिः

सृष्टानीव ह्येतर्ह्यहानि

१३.७.७ स्तोत्रीयानुरूप तृचद्वयमेलनं

पूर्वं उ चैव तद्रूपं अपरेण रूपेणानुवदति यत्पूर्वं रूपं अपरेण रूपेणानुवदति तदनुरूपस्यानुरूपत्वं अनुरूप एनं पुत्रो जायते य एवं वेद स्तोत्रीयानुरूपौ तृचौ भवतः प्राणापानानां अवरुध्यै

१३.७.८ दशर्च द्वयविधानं

दशर्चौ भवतो दशाक्षरा विराट्वैराजं अन्नं अन्नाद्यस्यावरुध्यै

१३.७.९ दशर्च्च गुणविधानं

उत्तरो दशर्चो भवति सोदर्क इन्द्रियस्य वीर्यस्य रसस्यानतिक्षाराय

१३.७.१० दशर्च्च पादावृत्ति कथनं

यत्र वे देवा इन्द्रियं वीर्यं रसं अपश्यंस्तदनुन्यतुदन्

१३.७.११ स्तोत्र चतुष्टय विधानं

चतुरृचो भवति प्रतिष्ठायै

१३.७.१२ एतत् प्रशंसा

ध्वस्रे वै पुरुषन्ती तरन्तपुरुमीढाभ्यां वैतदश्विभ्यां सहस्राण्यदित्सतां तावैक्षेतां कथं नाविदं आत्तं अप्रतिगृहीतं स्यादिति तौ प्रत्येतां ध्वस्रयोः पुरुषन्त्योरा सहस्राणि दद्महे (दप्रहे) तरत्स मन्दी धावतीति ततो वै तत्तयोरात्तं अप्रतिगृहीतं अभवत्

१३.७.१३ एतत् वेदन प्रशंसा

आत्तं अस्याप्रतिगृहीतं भवति य एवं वेद

१३.७.१४ मन्त्रचतुष्टय स्तुतिः

विनाराशंसो भवत्युभयस्यान्नाद्यस्यावरुध्यै मानुषस्य च दैवस्य च

१३.७.१५ बहिष्पवमानीयान्त्य तृचः

तृच उत्तमो भवति येनैव प्राणेन प्रयन्ति तं अभ्युद्यन्ति

१३.७.१६ स्तोत्रविधान स्तुतिः

त्रयस्त्रिंश एव स्तोमो भवति प्रतिष्ठायै देवतासु वा एष प्रतिष्ठितः

१३.८.१ प्रथमाज्यस्तोत्रं

ऽऽइमं स्तोमं अर्हते जातवेदसऽऽ इत्याग्नेयं आज्यं भवति सोदर्कं इन्द्रियस्य वीर्यस्य रसस्यानतिक्षाराय यत्र वै देवा इन्द्रियं वीर्यं रसं अपश्यंस्तदनुन्यतुदन्

१३.८.२ द्वितीयाज्यस्तोत्रं

ऽऽप्रतिवां सूर उदितऽऽ इति सूरवन्मैत्रावरुणम्

१३.८.३ स्तोत्र प्रशंसा

अन्तो वै सूरोऽन्त एतत्षष्ठं अहरह्नां अन्त एव तदन्ते स्तुवते प्रतिष्ठायै

१३.८.४ तृतीयाज्यस्तोत्रं

ऽऽभिन्धि विश्वा अपद्विषऽऽ इत्यैन्द्रं सोदर्कं इन्द्रियस्य वीर्यस्य रसस्यानतिक्षाराय यत्र वै देवा इन्द्रियं वीर्यं रसं अपश्यंस्तदनुन्यतुदन्

१३.८.५ चतुर्थाज्यस्तोत्रं

ऽऽयज्ञस्य हि स्थ ऋत्विजऽऽ इत्यैन्द्राग्नं सोदर्कं इन्द्रियस्य वीर्यस्य रसस्यानतिक्षाराय यत्र वै देवा इन्द्रियं वीर्यं रसं अपश्यंस्तदनुन्यतुदन्स्तोमः

१३.९.१ माध्यन्दिनपवमानीयप्रथमतृचः

ऽऽइन्द्रायेन्दो मरुत्वतऽऽ इति मरुत्वत्यो गायत्र्यो भवन्ति

१३.९.२ माध्यन्दिन सवने सङ्गतिः

मरुत्वद्धि माध्यन्दिनं सवनम्

१३.९.३ पृथक्तृचविधानं

ऽऽमृज्यमानः सुहस्त्य-ऽऽ इति सिमानां रूपम्

१३.९.४ रैवतपृष्ठाह्नेः षष्ठाहः सङ्गति

समानं वै सिमानां रूपं रेवतीनां च सिमाभ्यो ह्यधिरेवत्यः प्रजायन्ते

१३.९.५ तृचान्तरविधानं

ऽऽएतं उ त्यं दश क्षिपऽऽ इत्यादित्या आदित्या वा इमाः प्रजास्तासां एव मध्यतः प्रतितिष्ठति

१३.९.६ गायत्र तृचसङ्गतिः

गायत्र्यः सत्यस्त्रिष्टुभो रूपेण तस्मात्त्रिष्टुभां लोके क्रियन्ते

१३.९.७ स्तावकब्राह्मणातिदेशः

गायत्रं भवति यदेव गायत्रस्य ब्राह्मणम्

१३.९.८ आवृत्य सामान्तर विधानं

इषोवृधीयं भवति

१३.९.९ सामान्तरस्तुतिः

पशवो वा इषोवृधीयं पशूनां अवरुध्या इषे वै पञ्चमं अहर्वृधे षष्ठं अवर्धन्त ह्येतर्हि यजमानं एवैतेन वर्धयन्ति

१३.९.१० पुनः सामान्तरविधानं

क्रौञ्चं भवति

१३.९.११ तस्य स्तुतिः

क्रुङ्ङेष्यं अहरविन्ददेष्यं इव वै षष्ठं अहरेवैतेन विन्दन्ति

१३.९.१२ सामान्तर विधानं

वाजदावर्यो भवन्ति (रेवतीर्नः इत्यस्यां योनौ वेदसामाख्ये ग्रन्थे गीयमानं साम वत्सो वाजदावर्य्यो)

१३.९.१३ सामान्तरप्रशंसनं

अन्नं वै वाजोऽन्नाद्यस्यावरुध्यै यदा हि वा अन्नं अथ गौरथाश्वोऽथ पुरुषो वाजी

१३.९.१४ तृचसामान्तर विधानं

रेवत्यो भवन्ति प्रतिष्ठायै

१३.९.१५ गातव्यसामोपपत्तिः

षण्णिधनी षड्रात्रस्य धृत्यै

१३.९.१६ निधनसंख्यानुवादः

आपो वै रेवत्यस्ता यत्पृष्ठं कुर्युरपशुर्यजमानः स्यात्पशूनस्य निर्दहेयुर्यत्र वा आपो विवर्तन्ते तदोषधयो जायन्तेऽथ यत्रावतिष्ठन्ते निर्मृतुकास्तत्र भवन्ति तस्मात्पवमाने कुर्वन्ति पराचा हि पवमानेन स्तुवते

१३.९.१७ विहितसामचतुष्टय स्तुतिः

मेथी वा इषोवृधीयं रज्जुः क्रौञ्चं वत्सो वाजदावर्यो रेवत्यो मातरो यदेतान्येवं सामानि क्रियन्त एवं एव प्रत्तां दुग्धे

१३.९.१८ सामान्तरविधानं

औक्ष्णोरन्ध्रे भवतः

१३.९.१९ ऋषिसम्बन्ध प्रदर्शनं

उक्ष्णोरन्ध्रो वा एताभ्यां काव्योऽञ्जसा स्वर्गं लोकं अपश्यत्स्वर्गस्य लोकस्यानुख्यात्यै स्वर्गाल्लोकान्न च्यवते तुष्टुवानः

१३.९.२० आवृत्त सामान्तरविधानं

वाजजिद्भवति सर्वस्याप्त्यै सर्वस्य जित्यै सर्वं वा एते वाजं जयन्ति ये षष्ठं अहरागच्छन्ति

१३.९.२१ एतद्विवरणं

अन्नं वै वाजोऽन्नाद्यस्यावरुध्यै

१३.९.२२ तृच सामान्तरविधानं

वरुणसाम भवति

१३.९.२३ एतत् प्रशंसनं

एतेन वै वरुणो राज्यं आधिपत्यं अगच्छद्यशोऽभवद्राज्यं आधिपत्यं गच्छति यशो भवति वरुणसाम्ना तुष्टुवानः

१३.९.२४ सामान्तरविधानं

अङ्गिरसां गोष्ठो भवति

१३.९.२५ एतत् प्रशंसनं

पशवो वै रेवत्यो गौष्ठं एव तत्पशुभ्यः पर्यस्यन्ति तं एवैनान्प्रवर्तयन्त्यविस्रंसाय

१३.९.२६ गातव्यसाम प्रदर्शनं

इहवद्वामदेव्यं भवति

१३.९.२७ अन्न प्राप्ति साधनता

एतेन वै वामदेवोऽन्नस्य पुरोधां अगच्छदन्नं वै ब्रह्मणः पुरोधा अन्नस्यावरुध्यै

१३.९.२८ छन्दोद्वारा स्तुतिः

गायत्रीषु स्तुवन्ति प्रतिष्ठायै ब्रह्मवर्ञ्चसाय येनैव प्राणेन प्रयन्ति तं अभ्युद्यन्ति

१३.९.२९ ज्योतिष्टोमीय गायत्र सङ्गतिः

मरुत्वत्यो गायत्र्यो भवन्ति तदु त्रैष्टुभाद्रूपान्न यन्ति स्तोमः

१३.१०.१ पृष्ठस्तोत्रीय छन्दोविशेषविधानं

यातयामान्यन्यानि छन्दांस्ययातयामा गायत्री तस्माद्गायत्रीषु स्तुवन्ति

१३.१०.२ ब्रह्मपृष्ठीय स्तोत्रीया ऋक्

ऽऽसुरूप कृत्नुं ऊतयऽऽ इत्यभ्यारम्भेण षट्पदाः षष्ठस्याह्नो रूपं तेन षष्ठं अहरारभन्ते सन्तत्यै

१३.१०.३ अच्छावाक पृष्ठस्तोत्रीया ऋक्

ऽऽउभे यदिन्द्र रोदसीऽऽ इति षट्पदाः षष्ठस्याह्नो रूपं तेन षष्ठं अहरारभन्ते सन्तत्यै

१३.१०.४ आद्यपृष्ठ स्तोत्र सामविधानं

रेवतीषु वारवन्तीयं पृष्ठं भवति

१३.१०.५ पशूनां अव्विकारत्वं ।

अपां वा एष रसो यद्रेवत्यो रेवतीनां रसो यद्वारवन्तीयं सरसा एव तद्रेवतीः प्रयुङ्क्ते यद्वारवन्तीयेन पृष्ठेन स्तुवते

१३.१०.६ धनप्राप्ति हेतुता

रेवद्वा एतद्रैवत्यं यद्वारवन्तीयं अस्य रेवान्रेवात्या जायते

१३.१०.७ एतद्वेदन प्रशंसा

रेवान्भवति य एवं वेद

१३.१०.८ आख्यायिका कथनं

केशिने वा एतद्दाल्भ्याय सामाविरभवत्तदेनं अब्रवीदगातारो मा गायन्ति मा मयोद्गासिषुरिति कथं त आगा भगव इत्यब्रवीदागेयं एवास्म्यागायन्निव गायेत्प्रतिष्ठायै तदलम्मं पारिजानतं पश्चादक्षं शयानं एतां आगां गायन्तं अजानात्तं अब्रवीत्पुरस्त्वा दधा इति तं अब्रुवन्को न्वयं कस्मा अलं इत्यलं नु वै मह्यं इति तदलम्मस्यालम्मत्वम्

१३.१०.९ प्रतिष्ठा हेतुता कथनं

इहेहेति गायेत्प्रतिष्ठायै

१३.१०.१० गायत्र साम प्रदर्शनं

ऋषभो रैवतो भवति

१३.१०.११ अस्य प्रजापति हेतुता

पशवो वै रैवत्यः पशुष्वेव तन्मिथुनं अप्यर्जति प्रजात्यै न ह वा अनृषभाः पशवः प्रजायन्ते

१३.१०.१२ अच्छावाकस्य स्तोत्रसामप्रदर्शनं

श्येनो भवति

१३.१०.१३ एतस्य क्षिप्रकारिता

श्येनो ह वै पूर्वप्रेतानि वयांस्याप्नोति पूर्वप्रेतानीव वै पूर्वाण्यहानि तेषां आप्त्यै श्येनः क्रियते

१३.१०.१४ षष्ठाहस्य पारप्राप्ति साधनता

श्येनो वा एतदहः सम्पारयितुं अर्हति स हि वयसां आशिष्ठस्तस्यानपहननाय सम्पारणायैतत्क्रियतेऽन्तो हि षष्ठं चाहः सप्तमं च

१३.१०.१५ ब्रह्मवादिनां कथनं

ब्रह्मवादिनो वदन्ति यद्बृहदायतनानि पृष्ठान्यथैते द्वे गायत्र्यौ द्वे जगत्यौ क्व तर्हि बृहत्यो भवन्तीति

१३.१०.१६ तत् कथनोत्तरं

ये द्वे जगत्योः पदे ते गायत्र्या उपसम्पद्येते तत्सर्वा बृहत्यो भवन्त्यायतने पृष्ठानि यातयत्यायतनवान्भवति

१३.१०.१७ बृहती गानं

षट्पदासु स्तुवन्ति षड्रात्रस्य धृत्यै

१३.१०.१८ एतस्मिन् याज्याद्यपादसंख्या विधानं

सप्तपदया यजति सप्तमस्याह्नः सन्तत्यै स्तोमः

१३.११.१ आर्भवपवमानीय प्रथमस्तोत्रीयाऋक्

ऽऽपरिस्वानो गिरिष्ठाऽऽ इति परिवत्यो गायत्र्यो भवन्ति सर्वस्य पर्याप्त्यै

१३.११.२ तृचान्तर प्रदर्शनं

ऽऽससुन्वेयो वसूनाम्ऽऽ इति पशवो वै वसु पशूनां अवरुध्यै

१३.११.३ तृचान्तर विधानं

ऽऽतं वस्सखायो मदाय-ऽऽ इति वालखिल्याः

१३.११.४ चतुर्थतृचसंयोगद्वारेणानुवादः

वालखिल्यावेतौ तृचौ षष्ठे चाहनि सप्तमे च

१३.११.५ फलितार्थ कथनं

यदेतौ वालखिल्यौ तृचौ भवतोऽह्नोरेव व्यतिषङ्गयाव्यतिस्रंसाय सन्तत्यै

१३.११.६ अपर तृच प्रदर्शनं

ऽऽसोमाः पवन्त इन्दवऽऽ इत्यनुष्टुभो निभसदो भवन्ति प्रतिष्ठायै

१३.११.७ तृचान्तर प्रदर्शनं

ऽऽअया पवा पवस्वैना वसूनि-ऽऽ इति त्रिष्टुभस्सत्यो जगत्यो रूपेण तस्माज्जगतीनां लोके क्रियन्ते

१३.११.८ पूर्व्वकथित ब्राह्मणातिदेशः

गायत्रं भवति यदेव गायत्रस्य ब्रह्माणम्

१३.११.९ गातव्य सामत्रय विधानं

वैदन्वातानि भवन्ति

१३.११.१० विशिष्टफल साधनता कथनं

विदन्वान्वै भार्गव इन्द्रस्य प्रत्यहंस्तं शुगार्च्छत्स तपोऽतप्यत स एतानि वैदन्वतान्यपश्यत्तैः शुचं अपाहतापशुचं हते वैदन्वतैस्तुष्टुवानः

१३.११.११ गेयसाम प्रदर्शनं

भरद्वाजस्य लोमत भवति

१३.११.१२ एतस्य आयुस्कारिता

पशवो वै लोम पशूनां अवरुध्यै

१३.११.१३ सामान्तरविधानं

तदु दीर्घं इत्याहुरायुर्वै दीर्घं आयुषोऽवरुध्यै

१३.११.१४ पशुसाधनता

कार्णश्रवसं भवति शृण्वन्ति तुष्टुवानम्

१३.११.१५ ब्राह्मणातिदेशः

कर्णश्रवा वा एतदाङिगरसः पशुकामः सामापश्यत्तेन सहस्रं पशूनसृजत यदेतत्साम भवति पशूनां पुष्ट्यै

१३.११.१६ आवृत्तौ सामान्तरविधानं

गौरीवितं भवति गौरःइवितस्य ब्राह्मणम्

१३.११.१७ एतत् प्रशंसा

मधुश्च्युन्निधनं भवति

१३.११.१८ निधनाख्य साम प्रशंसा

परमस्यान्नाद्यस्यावरुध्यै परमं वा एतदन्नाद्य यन्मधु

१३.११.१९ एतत्तृच सामद्वय विधानं

प्रजापतेर्वा एतौ स्तनौ यद्घृतश्च्युन्निधनं च मधुश्च्युन्निधनं च यज्ञो वै प्रजापतिस्तं एताभ्यां दुग्धे यं कामं कामयते तं दुग्धे

१३.११.२० एतयोः स्तुतिः

क्रौञ्चे भवतः

१३.११.२१ अन्तिमतृचस्य सामान्तरविधानं

श्नौष्ठं भवति

१३.११.२२ एतस्य स्तुतिः

श्नुष्टिर्वा एतेनाङ्गिरसोऽञ्जसा स्वर्गं लोकं अपश्यत्स्वर्गस्य लोकस्यानुख्यात्यै स्वर्गात्लोकान्न च्यवते तुष्टुवानः

१३.११.२३ निधन विधानं

अग्नेर्वा एतद्वैश्वानरं साम दीदिहीति निधनं उपयन्ति दीदा एव ह्यग्निर्वैश्वानरः

१३.११.२४ पवमान स्तोत्रोपसंहारः

निधनान्ताः पवमाना भवन्त्यह्नो धृत्यै स्तोमः

१३.१२.१ ब्रह्मवादिकृतविचारः

ब्रह्मवादिनो वदन्ति प्रायणतो द्विपदाः कार्या उदयनता३ इति

१३.१२.२ निर्णीतपक्ष कथनं

उदयनत एव कार्याः पुरुषो वै द्विपदाः प्रतिष्ठायै

१३.१२.३ प्रकारान्तर स्तुतिः

वाचा वै सर्वं यज्ञं तन्वते तस्मात्सर्वां वाचं पुरुषो वदति सर्वा ह्यस्मिन्संस्तुता प्रतितिष्ठति

१३.१२.४ मैत्रावरुणोक्थ सामप्रदर्शनं

गूर्दो भवति

१३.१२.५ अस्य सर्व्वकाम साधनता

गोपायनानां वै सत्त्रं आसीनानां किरातकुल्यावसुरमाये अन्तःपरिध्यसून्प्राकिरतां तेऽऽअग्रे त्वन्नो अन्तमऽऽ इत्यग्निं उपासीदंस्तेनासूनस्पृण्वंस्तद्वाव ते तर्ह्यकामयन्त कामसनि साम गूर्दः कामं एवैतेनावरुन्धे

१३.१२.६ उक्थ स्तोत्र साम प्रदर्शनं

गोतमस्य भद्रं भवति

१३.१२.७ एतस्य चाशीःप्रापकता

आशिषं एवास्मा एतेनाशास्ते साम हि सत्याशीः

१३.१२.८ एतस्य महत्त्व प्रापकता

एतेन वै गोतमो जेमानं महिमानं अगच्छत्तस्माद्ये च पराञ्चो गोतमाद्ये चार्वाञ्चस्त उभये गोतमा ऋषयो ब्रुवते

१३.१२.९ अच्छावाकोक्थ सामप्रदर्शनं

उद्वंशपुत्रा भवति

१३.१२.१० उद्वंश पुत्रस्यातिदेशः

यद्वा उद्वंशीयं तदुद्वंशपुत्रः

१३.१२.११ तस्य धर्म्म कथनं

अर्धेडां अतिस्वरति

१३.१२.१२ एतस्य स्तुतिः

तस्मादूधर्धारा अति क्षरन्तीडायां अन्ततः पशुषु प्रतितिष्ठति

१३.१२.१३ सप्तमस्याह्नः संसारहेतुता

क्ळृप्त उपरिष्टादृक्साम च विमुच्येते अभ्यु स्वरेण सप्तमं अहः स्वरति सन्तत्यै

१३.१२.१४ षडहः समाप्त्यनन्तरं बहुभाषणविधानं

ऊहुषीव वा एतर्हि वाग्यदा षडहः सन्तिष्ठते न बहु वदेन्नान्यं पृच्छेन्नान्यस्मै प्रब्रूयात्

१३.१२.१५ अस्मिन् समये ऋत्विजो बहुभोजनविधानं

मधु वाशयेद्घृतं वा यथोहुषो बहं प्रत्यनक्ति तथा तत्

१३.१२.१६ उक्थ त्रयस्तोमविधानं

त्रयस्त्रिंश एव स्तोमो भवति प्रतिष्ठायै देवतासु वा एष प्रतिष्ठितः

  1. गोवित्पवस्व वसुविद्धिरण्यविद्रेतोधा इन्दो भुवनेष्वर्पितः ।
    त्वं सुवीरो असि सोम विश्ववित्तं त्वा नर उप गिरेम आसते ।। ९५५ ।।
    त्वं नृचक्षा असि सोम विश्वतः पवमान वृषभ ता वि धावसि ।
    स नः पवस्व वसुमद्धिरण्यवद्वयं स्याम भुवनेषु जीवसे ।। ९५६ ।।
    ईशान इमा भुवनानि ईयसे युजान इन्दो हरितः सुपर्ण्यः ।
    तास्ते क्षरन्तु मधुमद्घृतं पयस्तव व्रते सोम तिष्ठन्तु कृष्टयः ।। ९५७ ।।
  2. पवमानस्य विश्ववित्प्र ते सर्गा असृक्षत ।
    सूर्यस्येव न रश्मयः ।। ९५८ ।।
    केतुं कृण्वं दिवस्परि विश्वा रूपाभ्यर्षसि ।
    समुद्रः सोम पिन्वसे ।। ९५९ ।।
    जज्ञानो वाचमिष्यसि पवमान विधर्मणि ।
    क्रन्दं देवो न सूर्यः ।। ९६० ।।
  3. तव श्रियो वर्ष्यस्येव विद्युतोग्नेश्चिकित्र उषसामिवेतयः ।
    यदोषधीरभिसृष्टो वनानि च परि स्वयं चिनुषे अन्नमासनि ।। ९८२ ।।
    वातोपजूत इषितो वशां अनु तृषु यदन्ना वेविषद्वितिष्ठसे ।
    आ ते यतन्ते रथ्यो३ यथा पृथक्शर्धांस्यग्ने अजरस्य धक्षतः ।। ९८३ ।।
    मेधाकारं विदथस्य प्रसाधनमग्निं होतारं परिभूतरं मतिं ।
    त्वामर्भस्य हविषः समानमित्तवां महो वृणते नान्यं त्वत् ।।९८४ ।।
  4. पुरूरुणा चिद्ध्यस्त्यवो नूनं वां वरुण ।
    मित्र वंसि वां सुमतिं ।। ९८५ ।।
    ता वां सम्यगद्रुह्वाणेषमश्याम धाम च ।
    वयं वां मित्रा स्याम ।। ९८६ ।।
    पातं नो मित्रा पायुभिरुत त्रायेथां सुत्रात्रा ।
    साह्याम दस्यूं तनूभिः ।। ९८७ ।।
  5. उत्तिष्ठन्नोजसा सह पीत्वा शिप्रे अवेपयः ।
    सोममिन्द्र चमूसुतं ।। ९८८ ।।
    अनु त्वा रोदसी उभे स्पर्धमानमददेतां ।
    इन्द्र यद्दस्युहाभवः ।। ९८९ ।।
    वाचमष्टापदीमहं नवस्रक्तिमृतावृधं ।
    इन्द्रात्परितन्वं ममे ।। ९९० ।।
  6. इन्द्राग्नी युवामिमे३ऽभि स्तोमा अनूषत ।
    पिबतं शम्भुवा सुतं ।। ९९१ ।।
    या वां सन्ति पुरुस्पृहो नियुतो दाशुषे नरा ।
    इन्द्राग्नी ताभिरा गतं ।। ९९२ ।।
    ताभिरा गच्छतं नरोपेदं सवनं सुतं ।
    इन्द्राग्नी सोमपीतये ।। ९९३ ।।
  7. अर्षा सोम द्युमत्तमोऽभि द्रोणानि रोरुवत् ।
    सीदन्योनौ वनेष्वा ।। ९९४ ।।
    अप्सा इन्द्राय वायवे वरुणाय मरुद्भ्यः ।
    सोमा अर्षन्तु विष्णवे ।। ९९५ ।।
    इषं तोकाय नो दधदस्मभ्यं सोम विश्वतः ।
    आ पवस्व सहस्रिणं ।। ९९६ ।।
  8. सोम उ ष्वाणः सोतृभिरधि ष्णुभिरवीनां ।
    अश्वयेव हरिता याति धारया मन्द्रया याति धारया ।। ९९७ ।।
    अनूपे गोमान्गोभिरक्षाः सोमो दुग्धाभिरक्षाः ।
    समुद्रं न संवरणान्यग्मन्मन्दी मदाय तोशते ।। ९९८ ।।
  9. असाव्यंशुर्मदायाप्सु दक्षो गिरिष्ठाः ।
    श्येनो न योनिमासदत् ।।१००८ ।।
    शुभ्रमन्धो देववातमप्सु धौतं नृभिः सुतं ।
    स्वदन्ति गावः पयोभिः ।। १००९ ।।
    आदीमश्वं न हेतारमशूशुभन्नमृताय ।
    मधो रसं सधमादे ।। १०१० ।।
  10. अभि द्युम्नं बृहद्यश इषस्पते दीदिहि देव देवयुं ।
    वि कोशं मध्यमं युव ।। १०११ ।।
    आ वच्यस्व सुदक्ष चम्वोः सुतो विशां वह्निर्न विश्पतिः ।
    वृष्टिं दिवः पवस्व रीतिमपो जिन्वन्गविष्टये धियः ।। १०१२ ।।
  11. प्राणा शिशुर्महीनां हिन्वन्नृतस्य दीधितिं ।
    विश्वा परि प्रिया भुवदध द्विता ।। १०१३ ।।पवस्व वाजसातये पवित्रे धारया सुतः ।
    इन्द्राय सोम विष्णवे देवेभ्यो मधुमत्तरः ।। १०१६ ।।
    त्वां रिहन्ति धीतयो हरिं पवित्रे अद्रुहः ।
    वत्सं जातं न मातरः पवमान विधर्मणि ।। १०१७ ।।
    त्वं द्यां च महिव्रत पृथिवीं चाति जभ्रिषे ।
    प्रति द्रापिममुञ्चथाः पवमान महित्वना ।। १०१८ ।।
    उप त्रितस्य पाष्यो३रभक्त यद्गुहा पदं ।
    यज्ञस्य सप्त धामभिरध प्रियं ।। १०१४ ।।
    त्रीणि त्रितस्य धारया पृष्टेष्वैरयद्रयिं ।
    मिमीते अस्य योजना वि सुक्रतुः ।। १०१५ ।।
  12. पवस्व वाजसातये पवित्रे धारया सुतः ।
    इन्द्राय सोम विष्णवे देवेभ्यो मधुमत्तरः ।। १०१६ ।।
    त्वां रिहन्ति धीतयो हरिं पवित्रे अद्रुहः ।
    वत्सं जातं न मातरः पवमान विधर्मणि ।। १०१७ ।।
    त्वं द्यां च महिव्रत पृथिवीं चाति जभ्रिषे ।
    प्रति द्रापिममुञ्चथाः पवमान महित्वना ।। १०१८ ।।
  13. इन्दुर्वाजी पवते गोन्योघा इन्द्रे सोमः सह इन्वन्मदाय ।
    हन्ति रक्षो बाधते पर्यरातिं वरिवस्कृण्वन्वृजनस्य राजा ।। १०१९ ।।
    अध धारया मध्वा पृचानस्तिरो रोम पवते अद्रिदुग्धः ।
    इन्दुरिन्द्रस्य सख्यं जुषाणो देवो देवस्य मत्सरो मदाय ।। १०२० ।।
    अभि व्रतानि पवते पुनानो देवो देवान्त्स्वेन रसेन पृञ्चन् ।
    इन्दुर्धर्माण्यृतुथा वसानो दश क्षिपो अव्यत सानो अव्ये ।। १०२१ ।।
  14. आ ते अग्न इधीमहि द्युमन्तं देवाजरं ।
    युद्ध स्या ते पनीयसी समिद्दीदयति द्यवीषं स्तोतृभ्य आ भर ।। १०२२ ।।
    आ ते अग्न ऋचा हविः शुक्रस्य ज्योतिषस्पते ।
    सुश्चन्द्र दस्म विश्पते हव्यवाट्तुभ्यं हूयत इषं स्तोतृभ्य आ भर ।। १०२३ ।।
    ओभे सुश्चन्द्र विश्पते दर्वी श्रीणीष आसनि ।
    उतो न उत्पुपूर्या उक्थेषु शवसस्पत इषं स्तोतृभ्य आ भर ।। १०२४ ।।
  15. इन्द्राय साम गायत विप्राय बृहते बृहत् ।
    ब्रह्मकृते विपश्चिते पनस्यवे ।। १०२५ ।।
    त्वमिन्द्राभिभूरसि त्वं सूर्यमरोचयः ।
    विश्वकर्मा विश्वदेवो महां असि ।। १०२६ ।।
    विभ्राजं ज्योतिषा त्व३रगच्छो रोचनं दिवः ।
    देवास्त इन्द्र सख्याय येमिरे ।। १०२७ ।।
  16. असावि सोम इन्द्र ते शविष्ठ धृष्णवा गहि ।
    आ त्वा पृणक्त्विन्द्रियं रजः सूर्यो न रश्मिभिः ।। १०२८ ।।
    आ तिष्ठ वृत्रहन्रथं युक्ता ते ब्रह्मणा हरी ।
    अर्वाचीनं सु ते मनो ग्रावा कृणोतु वग्नुना ।। १०२९ ।।
    इन्द्रमिद्धरी वहतोऽप्रतिधृष्टशवसं ।
    ऋषीणां सुष्टुतीरुप यज्ञं च मानुषाणां ।। १०३० ।।
  17. ज्योतिर्यज्ञस्य पवते मधु प्रियं पिता देवानां जनिता विभूवसुः ।
    दधाति रत्नं स्वधयोरपीच्यं मदिन्तमो मत्सर इन्द्रियो रसः ।। १०३१ ।।
    अभिक्रन्दन्कलशं वाज्यर्षति पतिर्दिवः शतधारो विचक्षणः ।
    हरिर्मित्रस्य सदनेषु सीदति मर्मृजानोऽविभिः सिन्धुभिर्वृषा ।। १०३२ ।।
    अग्रे सिन्धूनां पवमानो अर्षत्यग्रे वाचो अग्रियो गोषु गच्छसि ।
    अग्रे वाजस्य भजसे महद्धनं स्वायुधः सोतृभिः सोम सूयसे ।। १०३३ ।।
  18. असृक्षत प्र वाजिनो गव्या सोमासो अश्वया ।
    शुक्रासो वीरयाशवः ।। १०३४ ।। ऋ. ९.६४.४
    शुम्भमाना ऋतायुभिर्मृज्यमाना गभस्त्योः ।
    पवन्ते वारे अव्यये ।। १०३५ ।।
    ते विश्वा दाशुषे वसु सोमा दिव्यानि पार्थिवा ।
    पवन्तामान्तरिक्ष्या ।। १०३६ ।।
  19. तरत्स मन्दी धावति धारा सुतस्यान्धसः ।
    तरत्स मन्दी धावति ।। १०५७ ।।
    उस्रा वेद वसूनां मर्त्तस्य देव्यवसः ।
    तरत्स मन्दी धावति ।। १०५८ ।।
    ध्वस्रयोः पुरुषन्त्योरा सहस्राणि दद्महे ।
    तरत्स मन्दी धावति ।। १०५९ ।।
    आ ययोस्त्रिंशतं तना सहस्राणि च दद्महे ।
    तरत्स मन्दी धावति ।। १०६० ।।
  20. इमं स्तोममर्हते जातवेदसे रथमिव सं महेमा मनीषया ।
    भद्रा हि नः प्रमतिरस्य संसद्यग्ने सख्ये मा रिषामा वयं तव ।। १०६४ ।।
    भरामेध्मं कृणवामा हवींषि ते चितयन्तः पर्वणापर्वणा वयं ।
    जीवातवे प्रतरं साधया धियोऽग्ने सख्ये म रिषामा वयं तव ।। १०६५ ।।
    शकेम त्वा समिधं साधया धियस्त्वे देवा हविरदन्त्याहुतं ।
    त्वमादित्यां आ वह तान्ह्यू३श्मस्यग्ने सख्ये मा रिषामा वयं तव ।। १०६६ ।।
  21. प्रति वां सूर उदिते मित्रं गृणीषे वरुणं ।
    अर्यमणं रिशादसं ।। १०६७ ।।
    राया हिरण्यया मतिरियमवृकाय शवसे ।
    इयं विप्रामेधसातये ।। १०६८ ।।
    ते स्याम देव वरुण ते मित्र सूरिभिः सह ।
    इषं स्वश्च धीमहि ।। १०६९ ।।
  22. भिन्धि विश्वा अप द्विषः परि बाधो जही मृधः ।
    वसु स्पार्हं तदा भर ।। १०७० ।।
    यस्य ते विश्वमानुषग्भूरेर्दत्तस्य वेदति ।
    वसु स्पार्हं तदा भर ।। १०७१ ।।
    यद्वीडाविन्द्र यत्स्थिरे यत्पर्शाने पराभृतं ।
    वसु स्पार्हं तदा भर ।। १०७२ ।।
  23. यज्ञस्य हि स्थ ऋत्विजा सस्नी वाजेषु कर्मसु ।
    इन्द्राग्नी तस्य बोधतं ।। १०७३ ।।
    तोशासा रथयावाना वृत्रहणापराजिता ।
    इन्द्राग्नी तस्य बोधतं ।। १०७४ ।।
    इदं वां मदिरं मध्वधुक्षन्नद्रिभिर्नरः ।
    इन्द्राग्नी तस्य बोधतं ।। १०७५ ।।
  24. इन्द्रायेन्दो मरुत्वते पवस्व मधुमत्तमः ।
    अर्कस्य योनिमासदं ।। १०७६ ।।
    तं त्वा विप्रा वचोविदः परिष्कृण्वन्ति धर्णसिं ।
    सं त्वा मृजन्त्यायवः ।। १०७७ ।।
    रसं ते मित्रो अर्यमा पिबन्तु वरुणः कवे ।
    पवमानस्य मरुतः ।। १०७८ ।।
  25. मृज्यमानः सुहस्त्य समुद्रे वाचमिन्वसि ।
    रयिं पिशङ्गं बहुलं पुरुस्पृहं पवमानाभ्यर्षसि ।। १०७९ ।।
    पुनानो वारे पवमानो अव्यये वृषो अचिक्रदद्वने ।
    देवानां सोम पवमान निष्कृतं गोभिरञ्जानो अर्षसि ।। १०८० ।।
  26. एतमु त्यं दश क्षिपो मृजन्ति सिन्धुमातरं ।
    समादित्येभिरख्यत ।। १०८१ ।।
    समिन्द्रेणोत वायुना सुत एति पवित्र आ ।
    सं सूर्यस्य रश्मिभिः ।। १०८२ ।।
    स नो भगाय वायवे पूष्णे पवस्व मधुमान् ।
    चारुर्मित्रे वरुणे च ।। १०८३ ।।
  27. सुरूपकृत्नुमूतये सुदुघामिव गोदुहे ।
    जुहूमसि द्यविद्यवि ।। १०८७ ।।
    उप नः सवना गहि सोमस्य सोमपाः पिब ।
    गोदा इद्रेवतो मदः ।। १०८८ ।।
    अथा ते अन्तमानां विद्याम सुमतीनां ।
    मा नो अति ख्य आ गहि ।। १०८९ ।।
  28. उभे यदिन्द्र रोदसी आपप्राथोषा इव ।
    महान्तं त्वा महीनां सम्राजं चर्षणीनां ।
    देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् ।।१०९० ।।
    दीर्घं ह्यङ्कुशं यथा शक्तिं बिभर्षि मन्तुमः ।
    पूर्वेण मघवन्पदा वयामजो यथा यमः ।
    देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् ।।१०९१ ।।
    अव स्म दुर्हृणायतो मर्त्तस्य तनुहि स्थिरं ।
    अधस्पदं तमीं कृधि यो अस्मां अभिदासति ।
    देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् ।।१०९२ ।।
  29. परि स्वानो गिरिष्ठाः पवित्रे सोमो अक्षरत् ।
    मदेषु सर्वधा असि ।। १०९३ ।।
    त्वं विप्रस्त्वं कविर्मधु प्र जातमन्धसः ।
    मदेषु सर्वधा असि ।। १०९४ ।।
    त्वे विश्वे सजोषसो देवासः पीतिमाशत ।
    मदेषु सर्वधा असि ।। १०९५ ।।
  30. स सुन्वे यो वसूनां यो रायामानेता य इडानां ।
    सोमो यः सुक्षितीनां ।। १०९६ ।।
    यस्य त इन्द्रः पिबाद्यस्य मरुतो यस्य वार्यमणा भगः ।
    आ येन मित्रावरुणा करामह एन्द्रमवसे महे ।। १०९७ ।।
  31. तं वः सखायो मदाय पुनानमभि गायत ।
    शिशुं न हव्यैः स्वदयन्त गूर्तिभिः ।। १०९८ ।।
    सं वत्स इव मातृभिरिन्दुर्हिन्वानो अज्यते ।
    देवावीर्मदो मतिभिः परिष्कृतः ।। १०९९ ।।
    अयं दक्षाय साधनोऽयं शर्धाय वीतये ।
    अयं देवेभ्यो मधुमत्तरः सुतः ।। ११०० ।।
  32. सोमाः पवन्त इन्दवोऽस्मभ्यं गातुवित्तमाः ।
    मित्राः सुवाना अरेपसः स्वाध्यः स्वर्विदः ।। ११०१ ।।
    ते पूतासो विपश्चितः सोमासो दध्याशिरः ।
    सूरासो न दर्शतासो जिगत्नवो ध्रुवा घृते ।। ११०२ ।।
    सुष्वाणासो व्यद्रिभिश्चिताना गोरधि त्वचि ।
    इषमस्मभ्यमभितः समस्वरन्वसुविदः ।। ११०३ ।।
  33. अया पवा पवस्वैना वसूनि मांश्चत्व इन्दो सरसि प्र धन्व ।
    ब्रघ्नश्चिद्यस्य वातो न जूतिं पुरुमेधाश्चित्तकवे नरं धात् ।।११०४ ।।
    उत न एना पवया पवस्वाधि श्रुते श्रवाय्यस्य तीर्थे ।
    षष्टिं सहस्रा नैगुतो वसूनि वृक्षं न पक्वं धूनवद्रणाय ।। ११०५ ।।
    महीमे अस्य वृष नाम शूषे मांश्चत्वे वा पृशने वा वधत्रे ।
    अस्वापयन्निगुतः स्नेहयच्चापामित्रां अपाचितो अचेतः ।। ११०६ ।।