न्यायवार्त्तिकतात्पर्यटीका/प्रथमाध्यायस्य द्वितीयाह्निकम्

विकिस्रोतः तः

न्या.सू._१,२.१: प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहो वादः ॥

नितान्तदक्षिणश्लक्ष्णधियो गृह्णन्त्वमत्सराः ।
वाचस्पतिगिरामर्थतत्त्वानि विबुधा इव ॥

उद्देशक्रमप्राप्तं वादलक्षणपरं सूत्रम् अवतारयितुं भाष्यम्तिस्रः कथा भवन्तीति । तदयुक्तम्, बृहत्कथादीनां तिसृषु कथासु अनन्तर्थावात् । न च सामान्यलक्षणाभिधानमन्तरेण विशेषलक्षणावसरोऽस्ति, वादादयश्च कथाविशेषा इत्यत आह वार्त्तिककारःतिस्रः कथा भवन्तीति । नायं कथामात्रनियमो येन बृहत्कथादीनाम् अकथात्वं स्यात्, अपि तु यन्नानाप्रवक्तृके विचारे वसति तद् विचारवस्तु । विचारविषया वाक्यसंदृब्धिः कथेति यावत् । तस्याः कथाया एष नियमः तिस्र एवेति । तथा च नानाप्रवक्तृकविचारविषया वाक्यसंदृब्धिः कथेति सामान्यलक्षणं पक्षप्रतिपक्षपरिग्रह

इति सूत्रावयवेन सूचितमित्येतदप्यर्थादुक्तं भवतीति द्रष्टव्यम् ।
यद् वस्तु विचार्यते इत्यर्थाभिधानमात्रम्, न तु विचारवस्त्वित्यस्य विवरणम् ।
वादादिष्वधिकारिणः पुरुषानाहतत्र गुर्वादिभिरिति ।
वादलक्षणस्यानन्तर्ये हेतुमाहतत्र यथोद्देशमिति ॥

सूत्रमिति । सामान्यलक्षणमप्यनेन सूच्यत इत्युक्तं भवति । एकाधिकरणस्थसवित्यादि भाष्यं प्रश्नपूर्वकं व्याचष्टेकाविति । वस्तुधर्माविति विभजतेवस्तुधर्मावितीति । धर्मशब्दो विशेषे । तदनवसायाद् वस्तुनः सामान्यतोऽवसाय उक्तो भवति । तदिदमाहवस्तुनः सामान्येनेति । अविरुद्धावप्येवं न विचारं प्रयोजयत इत्यर्थः । प्रमाणतर्कसाधनोलम्भपदस्य तात्पर्यमाहअस्येति । अनेन तस्य विशेषणम्

इत्यादि भाष्यं व्याख्यातम् ।
यद्यपि वितण्डायामपि पक्षप्रतिपक्षपरिग्रहोऽस्ति, तथापि प्रतिपक्षसाधनं नास्ति तस्याः स्थापनाहीनत्वात् ।
यद्यपि च जल्पेऽपि पक्षप्रतिपक्षसाधनमस्ति, तथापि न प्रमाणमूलैरवयवैस्तर्केण च साधनोपालम्भाविति जल्पवितण्डभ्यां प्रमाणतर्कसाधनोपालम्भग्रहणेन व्यवच्छेदः ।
यथा चैतत् तथोपरिष्टादुपपादयिष्यते ॥

आक्षिपतिकथं पुनस्तर्केणेति । समाधत्तेन ब्रूम इति । तर्कस्येतिकर्त्तव्यतारूपस्य प्रमाणानुग्राहकतया प्रमाणमूला अवयवास्तर्कमूला अपि भवन्ति । तथा च तर्कस्यापि साधनोपालम्भहेतुभावः सिद्धो भवतीत्यर्थः । विकल्प्याक्षिपतिसाधनम् उपालम्भश्चास्मिन्निति । परं प्रति हि सिद्धयुपालब्धी विवक्षिते । न च ते प्रमाणतर्काभ्याम्, तयोः स्वप्रतिपत्तिहेतुत्वात् । अवयवार्थस्य अवयवशब्दार्थस्येत्यर्थः । उभयथाभिमतत्वेऽपि

करणसाधनपक्षं कक्षीकृत्य तावत् समाधत्तेन, अन्यार्थत्वादिति । अन्यप्रयोजनत्वादित्यर्थः । यदा तु भावसाधनौ तदा पृच्छतिअथैताविति । विप्रतिपन्नस्य प्रश्नः । न प्रतिपक्षविषय उपालम्भो नापि तत्साधनविषयः, तयोर्वस्तुनोः स्वकारणादुत्पन्नयोः सदा तद्रूपत्वेन पुरुषधर्मोपालम्भानास्पदत्वादित्याक्षेपार्थः । समाधत्तेएवमेतदिति । धर्मी धर्मविशिष्टः पक्षः प्रतिपक्षो वा कर्म, तस्य विषयः । तस्य धर्मिणो वास्तवं तादृशत्वमतादृशत्वं वा करणस्य तु कर्मैव विषयः । तत्र च कर्मकरणे समर्थे एव, नासमर्थे । अन्यविषये तु पुरुषस्ते नियु।जानोऽसमर्थीकरोतीति । सोऽयं पुरुषस्यापराधो न कर्मकरणयोः । यथा आकाशे निशातमसिं व्यापारयतः पुरुषस्यापराधो नाकाशस्य शब्दे समर्थस्य, असेर्वा निशातस्य दारुणि समर्थस्य । तस्मादौपचारिकः साधनस्योपालम्भो न मुख्यः ।

मुख्यस्तु पुरुषस्यैव ।
वचनद्वारेण तूद्भाव्यते पुरुषस्येति ।
वचन उपचर्यते न तु पक्षे पक्षद्वारेणानुद्भावनादिति सिद्धम् ।
यथायमर्थः सूत्रपदेभ्यो लभ्यते तथा प्रश्नपूर्वकं दर्शयतिकथं पुनरिति ॥

यदुक्तं प्रमाणतर्कसाधनोपालम्भग्रहणं वादस्य जल्पवितण्डाभ्यां विशेषणार्थमिति, तत्र प्रकारं पृच्छतिअथेति । प्रष्टैवाहनन्विदमपीति । उत्तरम्न समानमिति । नियममाहप्रमाणतर्कसाधनोपालम्भ एव वादः । एवकारेण

छलादिसाधनोपालम्भत्वं वादस्य व्यवच्छिद्यते, तथा च जल्पवितण्डाभ्यां व्यवच्छेदः । एतदुक्तं भवति, तर्कानुगृहीतप्रमाणमूला अवयवाः परमार्थतो भवन्तु मा भूवन्, वादिप्रतिवादिनोस्त्वभिप्रायो भवतु प्रमाणमूला अवयवा इति । एतावतैव प्रमाणतर्कसाधनोपालम्भता वादस्य वीतरागकथात्वेन तत्त्वनिर्णयावसानत्वात् ।

जल्पवितण्डयोस्त्वप्रमाणमूलत्वं विदुषापि प्रतिवादिना छलादिभिः प्रत्यवस्थेयम्, एकान्तपराजयाद् वरं संशयोऽस्त्वितीच्छता विजिगीषुणा ।
यथा चास्य शास्त्रे व्युत्पादनं नासदृशं यथा चैष सतामाचारः, तथा जल्पलक्षणे वक्ष्यामः ॥

जल्पे निग्रहत्थानविनियोगाद् इत्यादि भाष्यम् । तदनुपपन्नम् । उपालम्भग्रहणादेव वादेऽपि निग्रहस्थानस्य लब्धत्वादित्यत आह वार्त्तिककारःछलजातीति । असत्युपालम्भग्रहण इत्यभिप्रायः । चोदयतिसमस्तेति । यद्युपालम्भग्रहणस्य निग्रहस्थानविधानं प्रयोजनम्, हन्त भो न जल्पाद् वादस्य विशेषः, कृतं चोत्तराभ्यां पदाभ्यामित्यर्थः । परिहरतिनोत्तरयोरिति । नियमः परिसंख्या । तदनेन कस्यचिदभ्यनुज्ञानार्थमिति भाष्यं

व्याख्यातम् । सिद्धान्ताविरुद्ध इत्यत्र भाष्यव्याख्यानमुपन्यस्य दूषयतिसिद्धान्ताविरुद्ध इत्यनेन किलेति । भाष्यमते दूषिते पृष्ट्वा स्वमतेन व्याचष्टेअथ किमिदं पदमिति । पृच्छतिकस्मात् पुनरिति । उत्तरम्गुर्वादिभिरिति । न खल्वप्रतिभाद्युद्भावना तत्वप्रतिपत्तावपयुज्यते, अधिकं तु न यद्यपि तत्त्वप्रतिपत्तिं साक्षाद् व्याहन्ति, तथापि तत्प्रयोजनानुसरणे परः प्रतिपत्ता समाकुलितबुद्धिर्न तत्त्वं प्रतिपत्तुमर्हतीत्यधिकस्यापि तत्त्वप्रतिपत्तिविधातहेतुत्वमिति । तत्त्वबुभुत्सुरिति जिगीषुतां निराकरोति, न हि गुर्वादिषु जिगीषासंभवः, त्रिविधं फलमिति । अनधिगततत्त्वावबोधः संशयनिवृत्तिरध्यवसिताभ्यनुज्ञानमिति फलानि त्रीणि । प्रतिद्वन्द्विनि तु न वादः, अपि तु जल्पवितण्डे । चोदयतिप्रमाणतर्केति । पारमार्थिकात् तर्कसहितात् प्रमाणादेकस्मिन् विषये साधनोपालम्भयोः संभवे विरुद्धधर्मसमालिङ्गितमेकदा वस्तु प्रसज्यत इत्यर्थः । परिहरतिनैष दोष इति । वादेऽभिप्रायो नियम्यते वादिप्रतिवादिनोः प्रामाणिकधिया साधनोपालम्भौ ताभ्यां प्रयोक्तव्यौ, नाप्रामाणिकधिया जल्पवितण्डयोरिव । न पुनर्वस्तु नियम्यत इति । तथा च वादे अबुद्धिपूर्वं छलादिप्रयोगे तदुद्भावनमपि संभवति, तावदेवचोद्भाव्यं यावत्यनुद्भाविते तत्त्वप्रतिपत्तिव्याघातः,

यस्मिस्त्वनुद्भावितेऽपि न तत्त्वप्रतिपत्तेर्व्याघातः, तत्प्रयुक्तमपि नोद्भावनीयम् ।
एतच्च पञ्चमेऽध्याये निपुणतरमुपपादयिष्यते ॥

साधनोक्तं प्रकारं दूषणेऽप्यतिदिशतिदूषणमप्येवम् । पूर्वस्मिन् प्रयोजने स्थिते भाष्यकारः प्रयोजनान्तरमन्वाचिनोतिअवयवेष्विति । न हि पञ्चावयवोपपन्नत्वं प्रमाणं च तदनुग्राहकं च तर्कमन्तरेण भवतीति पञ्चावयवोपपन्नत्वादेव प्रमाणतर्कप्रतिलम्भे साधनोपालम्भयोर्व्यतिषङ्गज्ञापनायावश्यं साधनोपालम्भग्रहणं तावत् कर्तव्यम्, अन्यथैकः स्वस्थानस्थित एव शब्दस्यानित्यत्वं प्रति पञ्चावयवोपपन्नं वाक्यं प्रयुङ्क्ते, अपरोऽपि तादृशः शब्दनित्यता प्रति तादृशमेव वाक्यं प्रयुङ्क्ते इति सोऽपि वादः प्रसज्येत ।

साधनोपालम्भविशेषणाय च प्रमाणतर्कग्रहणं कृतमिति भावः । प्रयोजनान्तरम् अन्वाचिनोतिअन्तरेणापि चेति वादः पञ्चावयवोपपन्न इत्येकः कल्पः । प्रमाणतर्कसाधनोपालम्भ इति च द्वितीय इत्यर्थः । प्रयोजनान्तरमन्वाचिनोतिछलजातीति । विनिग्रहो जल्पो मा विज्ञायि । वादगतनिग्रहस्थानरहितो मा विज्ञायित्यर्थः । तद्विज्ञाने कीदृशोऽर्थो भवतीत्यत आहछलजातिनिगहस्थानेति ।

वादगतो निग्रहो न जल्पे, जल्पगतश्च निग्रहो न वाद इति स मा विज्ञायति ।
इष्यते हि वादगतोऽपि निग्रहो जल्पे ।
सोऽयमिष्टोऽर्थो ग्रन्थाधिक्यात् प्रमाणतर्कग्रहणात् लभ्यत इत्यर्थः ॥

तदेवं स्वाभिमतं वादलक्षणं व्याख्याय वासुबन्धवं लक्षण दूषयितुमुपन्यस्यतिअपरे त्विति स्वपक्षस्य सिद्धिः परपक्षस्य चासिद्धिः, तदर्थं वचनं वाद इत्यर्थः । दूषयतिअत्र चेति । प्रथमं हेतुं विभजतेएताविति । पूर्वः पक्षोऽयुक्तः, पक्ष उत्तरस्तु युक्त इत्यर्थः । एकस्य वा शब्दस्य धर्मिनोऽनेकनित्यानित्यविशेषणाभिसंबन्धिनः पुरुषाभिसन्धिभेदात् अनेकशब्दाभिधानम्, स्वपरशब्दाभिधानमित्यर्थः । एतदेव चिन्त्यते किं तत्स्वीकरणमिति । न

तावद् भूमिधनादिष्विव स्वोचितासु अर्थक्रियासु यथेष्टविनियोगयोग्यत्वं स्वत्वमर्जनापादितमनित्यत्वादिना प्रतिज्ञाते शब्दादौ संभवतीत्यर्थः । चोदयतिममेति प्रत्ययोत्पत्तिकारणत्त्वं स्वत्वम्, अकारणत्वम् अस्वत्वमिति । दूषयतिनिर्दिष्ट इति । यथेष्टविनियोगयोग्यत्वमेव ममेति प्रत्ययकारणत्वम्, नान्यत् । न चैतन्नित्यत्वादिना प्रतिज्ञाते शब्देऽस्ति शास्त्रकारस्येत्यर्थः । अपि चोपकारकत्वेन व्याप्तं सत्वं गोघटादिषु तथा दर्शनात्, पक्षात् निवर्तमानमुपकारकत्वं स्वत्वमपि स्वव्पाप्यं निवर्तयति वृक्षत्वमिव शिंशपात्वमित्याहयच्च यस्येति । द्वितीयं कल्पम् आशङ्कतेसाधनीयेति । निराकरोतिअहो शब्दार्थेति ।

विशेष्यपदात् अनतिरिक्तार्थं विशेषणपदमित्यर्थः । अपि चेदं विशेषणपदं विशेष्यं सामान्यतः प्रसृतं विशेषेऽवस्थापयति न वा? अवस्थापयतीति चेत्? न साधनीयमात्रार्थता स्वपक्षशब्दस्य, न चेद् विशेषणं व्यर्थमित्याहव्यवच्छेदार्थं चेदमिति । ननु च विशेष्यशब्दो विशेषणयोगात् विशेषे वर्तमानोऽपि सामान्यशब्द एव, ततश्च शक्नोति समानमर्थं वक्तुमिति चोदयतिसामान्यशब्दा अपीति । परिहरतिन ते सामान्यशब्दा इति । अपि च साधनीयः पक्ष इति । वरुद्धोपदर्शनेन स्फुटा प्रतीतिर्भवतीति अयुक्तप्रतिपादनार्थं युक्तस्याप्युपन्यास इति । यदि न पक्षेण दूषणं संबध्यते कस्तर्हि तस्य विषय इति शङ्कतेअथ दूषणस्येति । उत्तरम्कस्यचिदिति । उत्तरदोषः जात्युद्भावनम् । आक्षिप्यन्त इत्याक्षेपाः । के ते भावाः? अप्रतिभाविक्षेपादयः । नैते स्वपरपक्षाभ्यां संबध्यन्ते नापि स्थापनयेति ।

चोदयतिसत्यमिति । परिहरतिउपयरितेति ।

नर्ते प्रयोजनादिष्टं मुख्यशब्दार्थलङ्घनम्

इति हि गाथा भवतामित्यर्थः । अपि चोपचारश्चेत् । लक्षणे ततो वरमेवं क्रियतां लक्षणं लाघवायेत्याहयदि चेति । शङ्कतेअथेति । निराकरोतिस्वरूपत इति । मुख्यत इत्यर्थः । चोदयतिस्थापनयापीति । परिहरतिन दोषेति । ननु न दूषणमात्रं संबध्यते, असिद्ध्यर्थमिति च दूषणमात्राभिधानम्, तत् कुतो विशेषप्रतिलम्भ इत्यत आहसामान्याभिधानेऽपीति । तृतीयं कल्पं दूषयितुमुपन्यस्यतिस्वपरशब्दाविति । एतदपि । सूत्रान्तरविरोधेन दूषयतिन युक्त मेतदपीति ।

ते साधनदूषणैः स्वपरशब्दाः संबध्यन्ते

इति सूत्रे हि नियमेव स्वपक्षे साधनं परपक्षे दूषणमुक्तम्, तथा चोत्तरपक्षे दूषणीय एवेति उत्तरपक्षवादिनापि दूषणीयः । एवं पूर्वपक्षोऽति साधनीय एवेति, उत्तरपक्षवादिनोऽपि साधनीयो न दूषणीयः स्यादित्यर्थः । अपि चायुक्तस्य पूर्वपक्षस्य साधणं युक्तस्य चोत्तरपक्षस्य दूषणमिति विपरीतप्रसङ्ग इत्याहस्वपक्षश्चोत्तरपक्षवादिनः पूर्वपक्षात् अयुक्तपक्षात् अन्यः युक्त इत्यर्थः । न पदार्थः नावयवार्थः ।

एतेन सूत्रान्तरनियमाभिधानव्याघातेनेत्यर्थः ।
व्याख्याता निराकार्यत्वेन ।
षष्ठं कल्पं दूषयितुमुपन्यस्यतिएक एवायमिति ।
दूषयतियुक्तमेतत् एकस्यानेकं विशेषणम् ॥

द्वितीयं हेतुमुपन्यस्तं व्याखातुं स्मारयतिसमासेति । न केवलं विशेष्यात् पृथक् स्वार्थो विशेषणं नावधार्यते, अपि त्वन्यस्मादपि न भिद्यते इत्याशयवानाहभेदाच्चेति । चोदयतिअसत्यपि भेद इति । न केवलं पत्युर्विशेष्यात् सेना न भिद्यतेऽपि तु ततोऽन्येभ्योऽपि हास्तिकाश्वीयरथपदातिभ्य इति । एवं पानकमपि

न केवलं तदङ्गेभ्यो जीरकादिभ्यः, अपि त्वन्येभ्योऽपि फलसलिलादिभ्य इति । परिहरतितच्च नेति । उक्तं निस्मृत्य शङ्कतीअथ मन्यसे स्वार्थ इति । उक्तस्मारणेन निराकरोतितन्नेति । एतेनैव च कर्मधारयबहुव्रीही

अपीत्याहएतेनेति ।
अपि च स्वः पक्षो यस्य साधयितुः स तथोक्तः ।
तथा च साधयितृविषयं स्मादित्याहसाधयितृविषयं चेति ॥

ननु मा भूद् यथेष्टविनियोगयोग्यार्थता स्वशब्दस्य,

साधनीयार्थता तु भविष्यति, यथा च समासोपपत्तिरिति चोदयतिननु चेति ।
षष्ठीसमासपक्षोक्तं दोषं स्मारयतिन संभवतीति ।
अपि च पक्षात् स्वपक्षभेदे सूत्रान्तरव्याघातोऽभेदे वा एतस्य व्याघात इत्याहविरोधाच्चेति ॥

अपि च वाक्यसमासयोः समासो ज्यायान् लाघवादित्याहआस्तां तावदिति । न ह्यं समर्थः समास इति ।

सिद्ध्यसिद्ध्यर्थमित्ययं समासः स्वपरपक्षयोः प्रत्येकं न संबन्धार्थ इत्यर्थात् कस्यचित् सिद्धिः कस्यचिदसिद्धिरित्यर्थः ।
परिहरतियद्यसामर्थ्यात् न समासः सिद्ध्यसिद्ध्यर्थमिति ।
समासेऽपि तर्हिति ।
स्वपक्षपरपक्षसिद्ध्यसिद्ध्ययर्थमिति समासेऽपीत्यर्थः ॥

एकवचनबहुवचनप्रसङ्गोऽपि नास्त्यसामर्थ्यादिति चोद्यसमाधानाभ्यां दर्शयति एकवचनेति । अनित्यत्वेऽपि समासविधेः समास एव विग्रहात् ज्यायानिति चोद्यसमाधानाभ्यां दर्शयतिअनित्य इति । भवतु गोरवमेवमपि को दोष इत्यत आहअर्थङ्गत्यर्थं चेति । लघुनोपायेनाशुसिद्धौ गुर्वभिधानमनर्थकम् । यथाहुः,

अक्के चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत् ।

इष्टस्यार्थस्य संसिद्धौ को विद्वान् यत्नमाचरेत् ॥

इति अतर्थकप्रयोगश्चानपेक्षितः शिष्यैरिति तेषामशासनात् न शास्त्रं स्यात्, तदिदम् उक्तम्शास्त्रत्वेनेति ॥

सिद्ध्यसिद्ध्यर्थमित्येतदपि दूषयतिसिद्ध्यसिद्ध्यर्थमित्येतदपि न युक्तमिति । तन्न तावदितितदिति तयोर्मध्य इत्यर्थः । अधिकारणप्रत्यायनमिति प्राश्निकप्रत्यायनमित्यर्थः । कुतो व्याहतमित्यत आहये चैते इति । चो यस्मादर्थे, अधिकरणे वर्तते पक्षस्येति व्याहतमित्यर्थः । चोदयतिनायमिति । सिद्धिर्ज्ञानं तस्य पक्षो विषयः, आश्रयास्तु प्राश्निका इत्यर्थः । विकल्प्य दूषयतिन युक्तमेतदिति । न तावत् ज्ञानं पक्षविषयं प्राश्निकाधिकरणं चेति बौद्धराद्धान्ते संभवति, ज्ञानस्यानाधारत्वात् विषयिविषयभावस्य चातात्त्विकत्वात् । तस्मादन्या सिद्धिः । तत्रेदमुपतिष्ठतेकिं तर्हीति । सिद्धियोगात् सिद्धः पक्षो भवति । प्रमाणयोगस्य सिद्धिः । सैवार्थस्य तथाता ।

तस्यास्तु प्राश्निकानां प्रतीतिर्भवति । तस्मात् न प्राश्निकप्रतीतिः पक्षस्यासिद्धिरिति विरोधः । यस्मात् सोऽर्थस्तथा भवति तस्मात् तथाभावादधिकरणप्रत्यायनं भवतीति द्वितीयं कल्पमाशङ्कतेअथासिद्ध इति । यावत् पक्षविषयं साधनं न प्रयुज्यते तावद्यद्यधिकरणप्रत्यायनं ततः साधनप्रयोगात् प्रागधिकरणप्रत्यायनमस्तीति वादवैयर्थं साधनदूषणप्रयोगोऽनर्थकः । दूषणान्तरमाहपक्षस्येति । न प्रयोजनमन्तरेणेदानीन्तनानामस्मदादीनां मुख्यार्थशब्दस्यातिक्रमोऽवाचकपदप्रयोगेण लभ्यते इत्यर्थः । यथाहुः,

अस्मादायत्ते शब्दप्रयोग किमित्यवायकं प्रयोक्ष्यामहे इति ॥

स्यादेतत् । मञ्चस्थाः क्रोशन्तीति वक्तव्ये विनापि प्रयोजनं मञ्चाः क्रोशन्तीत्युपचारो दृष्ट इत्यत आहअपि तु प्रमाणासंभवेनेति ।

प्रमाणासंभवेनापि त्विति योजना ।
नन्विहापि विनापि प्रयोजनं प्रमाणासंभवमात्रेणोपचारो मञ्चाः क्रोशन्तीतिवद्भविष्यतीत्यत आदलोकप्रयुक्तेति लोकप्रयुक्तशब्दार्थवत् ।
उपचारोऽपि लौकिको न प्रयोजनाभावेन शक्योऽपवदितुं न लोकः पर्यनुयोज्यो यतः ।
इदानीन्तनस्तु अस्मदादिप्रयोगः प्रयोजनाभावे न शक्यः पर्यनुयोक्तुमित्याशयेनाहन चेदं लौकिकमिति ॥

अपरे त्विति । न दूषणविषयत्वमसिद्धिर्येन न पक्षेण संबध्येत, अपि त्वज्ञानम् । तच्च पक्षविषयमेवेति न मुख्यार्थलङ्घनमित्यर्थः । अत्रापि पूर्वोक्तं प्रसङ्गमाहतद् यदीति । तस्मात् पक्षस्येतीच्छता सिद्ध्यसिद्धिज्ञानाज्ञाने पक्षधर्मावेवाभ्युपगन्तव्ये । यतः तयोः पक्षधर्मत्वात् एतद्भवति सिद्धः पक्षोऽसिद्धश्चेति । अस्तु तर्ह्येवमित्यत आहएवं सतीति । नैव द्रष्ट्राधारता ज्ञानस्य विषयता च बौद्धराद्धान्ते संभवतीति भावः । शङ्कते अथ मा भूदिति । अस्ति खल्वालयज्ञानं यदुपाश्रित्य षडपि प्रवृत्तिज्ञानानि जायन्ते । तस्मादालयप्रत्ययो द्रष्टा । तत्स्थे एव सिद्ध्यसिद्धी । न पक्षस्य तद्विषयत्वात् तस्यापीति चेत्, कः पुनरयं विषयभावः?

तत्कारणत्वमिति चेत्? चक्षुरादीनामपि ज्ञानकारणानां विषयत्वप्रसङ्गः । असतश्चाकारणस्य अविषयत्वप्रसङ्गः । ज्ञानप्रकाश्यत्वं विषयत्वमिति चेत्न, ज्ञानेनार्थे प्रकाशाजननात् तस्मात् ज्ञानस्य तदसमवायिनः तदविषयस्य च द्रष्टृस्थतैवेति सिद्धम् । निराकरोतितथापीति । पुनः शङ्कतेअथ तथातथाने इति प्रमाणयोग इत्यर्थः । निराकरोतितथापीति । तत्त्वं जिज्ञासुः पृच्छतिके पुनरेते इति । सुहृद्भावेनोत्तरमाहवस्तुधर्माविति । यद्यपि प्रमाणयोगायोगौ प्रमेयस्य च प्रमातुश्च, साधनासंबन्धे कर्तृत्वानुपपत्तेः, तथापि प्रमेयस्य प्राधान्यात् तत्रैवाभिधानप्रत्ययाविति प्रमेयधर्मावुच्येते व्यक्त्यव्यक्ती, न तु प्रमातृधर्माविति । सिद्ध्यसिद्ध्यर्थमिति अर्थशब्दानुपपत्तिः । कस्मात्? विकल्पानुपपत्तेः । विकल्पमाहअर्थशब्दः खल्विति ।

इह सूत्रे धननिमित्तादिवचनतार्थशब्दस्य न संभवतीति त्रयमवशिष्यत इति त्रेधा प्रवर्तत इत्युक्तम् ।
साधनं साधनाभासो दूषणं दूषणाभास इति चतुर्विधं वाक्यम् ।
प्रथमकल्पमपाकरोतितन्न तावदिति ।
तदिति तेषु मध्य इत्यर्थः ॥

ग्रन्थान्तरे युक्तायुक्तत्वेन विशेषणात् चतुर्विधवाक्यसंग्रहार्थो ह्युद्देशे अर्थशब्दो व्याख्यातः । न च युक्तायुक्तत्वविशेषणे चतुर्विधवाक्यसंग्रहो भवति साधनाभाससंबन्धिनः पक्षस्य युक्तत्वाभावात् दूषणाभासंबन्धिनश्च प्रतिपक्षस्यायुक्तत्वाभावादित्यर्थः । अथ न साधनादियोगोऽपि तु साध्यधर्म एव साधनानपेक्षो युक्तायुक्तत्वमिति शङ्कतेअथ पुनरिति । निराकरोतितथापीति । कुतो व्याघात इत्यत आहन हीति । यदि प्रत्यायनं सिद्धिः प्रतीतिः, तथापि सा प्रत्याय्या न संभवति । अथ करणम्? तथापि कर्म करणं न संभवतीति व्याघात इत्यर्थः । द्वितीयं कल्पमाशङ्क्य निराकरोतिअथ प्रयोजन इति । प्रयोजनं कार्यम् । तन्न कारणाभासाद् भवितुमर्हति । न हि वह्निरिति गृहीतः खद्योतो दहति पचति वेत्यर्थः । तृतीयं कल्पमाशङ्क्य निराकरोतिअथाभिधेय इति । ग्रन्थकारः सूत्रकारः । एवं त्विति । एवं सति सिद्धिशब्दोऽसिद्धिशब्दश्च वादः स्यात् । ननु धननिमित्तादयः अप्यर्थशब्दवाच्याः सन्ति, ते कस्मादिह न गृह्यन्ते इत्यत

आहतत्र सूत्रे । न चान्योऽर्थशब्दस्य विषयः संभवति, न हि सिद्धिर्धनं वा स्वपरपक्षयोः साधनं वा निवृत्तिर्वा संभवतीत्यर्थः । अपि च वचनविशेषणपक्षे स्वशात्रव्याघात इत्याहसिद्ध्यसिद्ध्यर्थं वचनं वाद इति ब्रुवाणेनेति । नैयायिकहेतुदूषणं पूर्वमिदं सूत्रम् उत्तरम् ।

उपसंहरतितदेवमिति ।
तन्त्रं शास्त्रम् ।
लोकं च बाधन्त इति ।
अवाचकपदप्रयोगात् साधनदूषणाभासवादिनश्च वादित्वेन लोकसिद्धस्यावादित्वापादनात् सिद्ध्यसिद्धिशब्दयोश्च वादत्वापादनार्थत्वादित्यर्थः ॥

सूत्रं दूषयित्वा वृत्तिं दूषयतियथा चेति । स्वस्य पक्षस्येति । स्वस्यात्मीयस्य पक्षस्य । न हि

पक्षव्यतिरेकेणं पक्षाधारं साध्यं ज्ञानमन्यद् वा सिद्धिशब्दाभिधेयं संभवति, ज्ञानस्य पुरुषाधारतया अनाधारतया वा पक्षाधारत्वानुपपत्तेः, पक्षस्य तु भवेत् केनचित् संबन्धेन यादृशतादृशेनेत्यर्थः । ते साधनदूषणैः इत्यत्र पृथगुक्ते साधनदूषणे । युक्तायुक्तत्वाभ्यां ते युक्तायुक्तत्वे । साधनदूषणैरिति । न हि कर्म करणं भवतीत्यर्थः । अपि च युक्तायुक्तार्थाभ्यामभेदे साधनदूषणपदमनर्थकं ते इत्यनेनैव युक्तायुक्तत्वावमर्षिणा गतार्थत्वादित्याहयुक्तायुक्तत्वशब्दाभ्यां चेति । अथ न पर्यायता, अपि तु सामान्यविशेषभावः युक्तायुक्तत्वे सामान्यम्, साधनदूषणे च विशेष इति शङ्कतेअथ मन्यसे इति । निराकरोतिन प्रथमेति । उभयव्यभिचारे विशेषणाविशेष्यभावे कामचारादुत्पलैरित्युक्तम् । द्वितीयं कल्पमाशङ्क्य दूषयतियोग इति चेदिति । न खलु योगो नाम बौद्धानां साध्यसाधनवृत्तिर्दूष्यदूषणवृत्तिर्वा कश्चिदस्तीत्यर्थः । अपि च सांवृतोऽपि योगः साध्यसाधनज्ञानाधीननिरूपणतया नानिरूपिते साध्ये निरूपितो भवति, निरूपणं च निर्णय इति योगनिरूपणात् प्राक् साध्यनिर्णयात् कृतं योगनिरूपणेन साध्यनिर्णयार्थेनेति । युक्तायुक्तत्वेन करणेनाधिकरणप्रत्यायनमिति व्याघात इत्याहसाधनेनेति । भवति ज्ञायते । तृतीयं कल्पमाशङ्क्य निराकरोतिअथ पदार्थस्येति ।

युक्तायुक्तत्वेनाधिकरणप्रत्यायनमिति युक्तायुक्तत्वयोः करणत्वं दर्शितम् तत् तथात्वातथात्वपक्षे न संभवति, कर्मत्वात् ।
तदिदमुक्तम्ते व्यवच्छेद्ये परिच्छेद्ये, न तु व्यवच्छेदस्य परिच्छेदस्य साधने इति ॥

अधिकरणप्रत्यायनमिति दूषयतिअधिकरणेति । शास्त्रसंबन्धः प्रयोजनेनेति । चोदयतिप्राश्निकप्रत्यायनादिति । कश्चित् चोदकं पृच्छतिकिं कारणम्? तत्प्रत्यायनादिति ।

चोदकस्योत्तरम्प्रतिवादि किलेति । सिद्धान्त्याहसन्तमप्यर्थं न प्रतिपद्यत इति । न खल्वाध्यात्मिकशक्तिसंपन्नः समाहितः समग्रे साधनप्रयोगे सति सन्तमर्थं न प्रतिपद्यत इति संभवतीत्यर्थः । तथाविधेनापि चेत् प्रतिपत्त्रा सोऽर्थोऽन्यथा प्रतिपन्नः, कथमसौ तथा सिन्नत्यभिधीयते इत्याहकथं चेति । शङ्कतेअथ जिगीषुतया प्रतिपद्यमानोऽपीति । कामकारोऽनुज्ञा । निराकरोतितथापीति । न प्रतिपद्यते प्रतिपद्यमान इति व्याहतम् । न चायमुनज्ञानिषेधो न प्रतिपद्यते इति वादे वीतरागकथात्वेन जिगीषाया अभावादिति भावः । यच्च प्राश्निकप्रत्यायनादिति । अन्यदीयेन करणेनान्यः प्रतिपद्यत इति सुभाषितम् । अन्यविषयस्येति अन्याश्रितस्येत्यर्थः । न चायं नियम इति । न वादे प्राश्निकानामुपादानम्, दैवागतानां तु न वर्जनमित्यर्थः । वादस्य जल्पवितण्डाभ्यामभेदम् अभिप्रेत्य चोदयतियदा तु नायमिति ।

आशयस्थितमर्थमनभ्युपगच्छन् परिहरतिसत्यमिति ।
स्वाभिप्रायं दर्शयतिन त्रैविध्येति ।
दूषयतिन भवद्भिरेव प्रतिषेधादिति ।
त्रैविध्यानभ्युपगमादिति दूषयतियदपीति ॥

यच्चोक्तं वृत्तौ पक्षसिद्धिविषयम्, एतदपि दूषयितुमुपन्यस्यतियच्चोक्तमिति । न कामतः विना प्रयोजनमिति । विनापि प्रयोजनं प्रमाणासंभवेनापीति योजना । सूत्रोक्तं दूषणं वृत्तौ आहतदर्थं वचनं सिद्ध्यसिद्ध्यर्थमित्यर्थः । अधिकरणं दूषयतिअधिकरणमिति । न हि वादे प्राश्निकाधारमिति । प्राश्निका एव तावद् वादे न सन्ति, अभ्युपेत्य उक्तमिति । शङ्कतेप्रत्यायनाधारत्वादिति । सिद्धिः प्रत्यायनं तदाधाराः प्राश्निका इत्यर्थः । निराकरोतिनेति । शङ्कतेतस्मिन्निति । दैवमिलिते प्राश्निके सतीत्यर्थः । निराकरोतिनेति । न हि दैवमिलितं कारणम्, मा भूद् गर्दभोऽपि धूमस्य कारणमिति भावः । चोदयति, यदि प्राश्निका न सन्ति तद्वाद इति । तयोर्वादिप्रतिवादिनोर्वादस्य परीक्षा का कस्य च तयोर्वादस्य क्व च, असौ परीक्षा प्राश्निकाभावे हि वादतत्परीक्षातदधिकरणानामज्ञानमित्यर्थः । परिहरतिसाधनेति । वीतरागौ हि वादिप्रतिवादिनावेव वादस्वरूपज्ञानं च तत्परीक्षां च कर्तुं शक्नुतः, तत् किमत्र प्राश्निकैः? साधनप्रयोगः पक्षविषयः, दूषणप्रयोगः स्थापनाविषयः इति वादस्वरूपम् । साधनदूषणतदाभासानां परितो ज्ञानं परीक्षा ।

तदर्थं परीक्षार्थं तस्मिन् वादेऽधिकारो वीतरागयोरेव वादिप्रतिवादिनोः ।
तदिदं क्वेति विप्रश्नस्योत्तरम् ।
तस्मात् सप्तम्यर्थोऽधिकरणार्थः पराभिमतः प्राश्निक इति यावत् ।
स नास्ति वादिप्रतिवादिनोरेव वीतरागयोः कथासमाप्तेरित्यर्थः ॥

यदपि वृत्तौ चोदितं यदि सिद्ध्यसिद्ध्यर्थं वचनं वादः, ततः प्राश्निकप्रतिवादिनोः प्रियाप्रियवचसि रथ्यावादे प्रसङ्ग इति तदप्यतिनिर्बीजमित्याहयदपीति । न हि प्रियाप्रियवचसः साक्षात् पारम्पर्येण वा सिद्ध्यसिद्ध्यर्थता, नापि साधनदूषणयुक्तायुक्तत्वविशेषणसंबन्धः तस्मादेवंवादी नोत्तरार्हः । न ह्युन्मत्ताय

कश्चिदनुन्मत्त उत्तरमाह, ब्रुवाणो वा सोऽप्युन्मत्तः स्यात् । तदिदमुक्तम्दत्तः स्वहस्त इति । पूर्वं सिद्ध्यसिद्ध्यर्थमिति, अपरं युक्तायुक्तत्वमिति, उभयोरप्यनेन चोद्येनासंबन्धात् । यदि त्ववश्यम् उत्तरं वाच्यम्, ततो वरमेवं वक्तव्यमित्याहयदि त्विति । सेयं सूक्ष्मेक्षिका परैरिह कृतेति तदनुबन्धेन वार्त्तिककृतापि कृतेति॥१ ॥

न्या.सू._१,२.२: यथोक्तोपपन्नः छलजातिनिग्रहस्थानसाधनोपालम्भः जल्पः ॥

उद्देशक्रमानुरोधेन वादलक्षणानन्तरं जल्पं लक्षयतियथोल्पः ॥ २ ॥

अत्रापि समानजातीयाभ्यां वादवितण्डाभ्यामसमानजातीयेभ्यः प्रमाणादिभ्यो व्यवच्छेदो जल्पस्य सूत्रार्थः । यथोक्तोपपन्नपदार्थं व्याचष्टेसमस्तमिति । चोदयतियथोक्तोपपन्न इति न युक्तमिति । निग्रहस्थाननियमस्य प्रमाणतर्कसाधनोपालम्भाभिप्रायनियमस्य च जल्पेऽभावात्, भावे वा वादजल्पयोरभेदप्रसङ्गात्, वादलक्षणस्य च जल्पव्यापकत्वेन व्यभिचारप्रसङ्गाद् यथोक्तोपपन्न इत्येतदनुपपन्नमित्यर्थः । परिहरतिनैष दोष इति । उक्तमात्रमिह संभवात् योग्यतासंभवाद् गृह्यते, न त्वनुक्तोऽर्थलभ्यो नियमः । न ह्यसौ सूत्रपदश्रवणमात्रात् प्रतीयते, अपि तु तदर्थे प्रतीते तस्यान्यतः सिद्धौ सत्यां गम्यत इति प्रमाणतर्कसाधनोपालम्भ इत्येतदतिदिश्यत इति उक्तमात्रोपलक्षणपरम् । तेन प्रमाणतर्कसाधनोपालम्भ पञ्चावयवोपपन्नः सिद्धान्ताविरुद्धः पक्षप्रतिपक्षपरिग्रह इत्येतस्य वादपदवर्जं समस्तस्य लक्षणस्यातिदेशः । नियमस्त्वार्थो न संबध्यत इति सिद्धम् ।

लक्षणमात्रस्येति उक्तमात्रस्य, नार्थस्य नापि लक्ष्यपदस्येत्यर्थः ।
अत्रैव दृष्टान्तमाहयथान्यत्र वैशेशिकतन्त्रे ।
न नियमार्थे पदे इत्युपलक्षणम्, न प्रमाणतर्कसाधनोपालम्भपदलभ्योऽभिप्रायनियम इत्यपि द्रष्टव्यम् ॥

पक्षान्तरमाहअथ वेति । यथा गोभिर्युक्तो रथो गोरथ इति युक्तपदलोप इति । न हि नियमार्थयोरिति एतदप्युपलक्षण पूर्ववदेव । इह वादलक्षणं पठता भाष्यकारेण नियमोऽप्यतिदिष्ट इति मन्वानश्चोदयतिभाष्यम् इदानीमिति । परिहरतिन सेत्रेति । जल्पलक्षणानुकूलो यः पाठक्रमः, ततोऽर्थस्वरूपमात्रं प्रतीयते न त्वार्थोऽर्थ इत्यर्थः । यदुपपन्नम् उक्तमात्रमित्यर्थः । अत्र भाष्यकारेण छलादीनां निषेधार्थतया साधनाङ्गभावमाक्षिप्य परपक्षविघातेन स्वपक्षरक्षणादङ्गभाव इति दर्शितम् । तदेतद् वार्त्तिककार आक्षिपतिछलजातिनिग्रहस्थानैरिति । तत् किं निग्रहस्थानान्यप्ययुक्तानि, च चैतच्छक्यमित्यत आहछलं तावदिति । छलजात्योराक्षेप्तव्ययोः संपातायातानि निग्रहस्थानानीत्यभिप्रायः ।

भाष्योक्तं समाधिमाशङ्कतेअङ्गभाव इति चेत् इति ।
निराकरोतिएतदपीति ।
न हि सहस्रेणाप्यन्धैः पाटच्चरेभ्यो गृहं रक्ष्यत इत्यर्थः ॥

एवमाक्षिप्ते पार्श्वस्थः पृच्छतिकिमर्थ तर्हीति । सिद्धान्तिन उत्तरं साधनेति । वादे तावद् यद्यपि न साधनविधातसमर्थानि, तथापि तेषां तत्त्वम् अविद्वान् एभिरहं साधनं विहनिष्यामीत्यनया बुद्ध्या उपहृतः व्यामोहितः प्रवर्तते । तस्माद् वादे भ्रमेणोपादानमेतेषामित्यर्थः । यत्र त्वेषां तत्त्वं विद्वान् प्रवर्तते, न स वादः, किं तु जल्पो

वितण्डा वेत्याहयत्र चैतानीति । ननु जल्पवितण्डयोः प्रयोगात् साधनमङ्गं वा स्यादत आहन पुनरिति । ननु यदि न साधनमङ्गं वा, कस्मात् तर्हि जल्पवितण्डयोरेषां प्रयोग इत्यत आहसाधुसाधनोपादाने चेति । साधुसाधनोपादाने च वादिना कृते परेण प्रतिवादिना जिगीषुणाकुलितबुद्धिर्द्राक् पारमार्थिकमुत्तरमप्रतिपद्यमानश्च्छलादीनि प्रयुङ्क्ते । किमर्थमित्यत आहकदाचिदिति । यथाकथञ्चित् प्रयोगेण । तदनेन प्रकारेण तत्त्वसंरक्षणार्थत्वात् नासदाचारः । न च शास्त्रक्राराणां छलादिव्युत्पादनमसदृशम्,

न च खटचपेटाद्यभिधानप्रसङ्गः, वाग्युद्धे तेषामप्रसङ्गादिति ।
न बाधेति ।
नैकेनापरं तदैवापोद्यत इत्यर्थः ।
रोषं सुगमम् ॥२ ॥

न्या.सू._१,२.३: स प्रतिपक्षस्थापनाहीनः वितण्डा ॥

उद्देशक्रमानुरोधेन जल्पानन्तरं वितण्डालक्षणमाहसण्डा ॥३ ॥

पूर्ववादिपक्षापेक्षया प्रतिवादिन आत्मीय एव पक्षः प्रतिपक्षः । तस्य स्थापना साधनम् । तया हीनः । तदनेन जल्पाद् व्यवच्छिनत्ति । तदेतदाह भाष्यकारःस जल्प इति । तयोरेकतरं प्रतिवादी आत्मीयं पक्षं न स्थायपतीति ।

परपक्षप्रतिषेधेनेति । तत्स्थापनाप्रतिषेधेनेत्यर्थः । स्यादेतत् । यथा प्रतिवादिनः पक्षो वादिपक्षापेक्षया

प्रतिपक्षः, एवं वादिपक्षोऽपि प्रतिवादिपक्षापेक्षया प्रतिपक्ष इत्युभयपक्षस्थापनाहीना वितण्डेति स्यात्, इत आहवार्त्तिककारःप्रतिपक्षस्थापनाहीन इति, द्वितीयपक्षस्थापनाहीन इति । प्रथमपक्षवादिनो हि स्थापनाया अभावे किं वैतण्डिक आहन्ति? न च पक्षः शक्य आहन्तुम् । तस्मात् प्रथमपक्षवादिनोऽस्ति स्थापनेति द्वितीय एव पक्षः स्थापनाहीन इति समार्थ्याद् युक्तमिति । अत्र चोद्यभाष्यम् अस्तु तर्हिति । स्थापनाया अभावे स्थाप्यः पक्षोऽपि नास्ति । न ह्यन्यथा पक्षस्य पक्षत्वमिति भावः । परिहरतियद् वै खलु तदिति । वैतण्डिकोऽपि हि वादी पारिशेष्यात् मत्पक्षः सेत्स्यतीति बुद्ध्या स्वपक्षमस्थापयन् परपक्षस्थापनामाहन्ति । तस्मात् परपक्षप्रतिषेधलक्षणं वाक्यम् अस्य पक्षः परपक्षनिषेधेन पारिशेष्यात् पक्षसिद्धिहेतुत्वादुपचारतः । तस्मादस्ति वैतण्डिकस्य पक्षः । न तु परपक्षप्रतिषेधादन्या स्थापना । तेनास्य पक्षोऽस्ति,

नास्ति च पक्षस्थापना ।
तदिदमुक्तम्न कञ्चिदर्यं प्रतिज्ञाय स्थापयतीति ।
पक्षत्वं तु योग्यतामात्रेण, न तु स्थाप्यमानतयेति ॥

अस्तु तर्हिति भाष्यार्थमाहवार्त्तिककारः अपरे त्विति । तस्मात् प्रतिपक्षहीनो वितण्डेति वक्तव्यमित्यर्थः ।

परिहरतिअयुक्तं चैतदिति । न तावदस्थाप्यमानस्यापि स्थापनार्हतालक्षणा पक्षता न युज्यते, तस्मात् न वैतण्डिको दूषणादन्यत् किञ्चिदभ्युपगच्छतीति । अनभ्युपगमात् पक्षोऽस्य नास्तीति वक्तव्यम् । तथा च चतुर्वर्गाभ्युपगमे विरोधोऽनभ्युपगमे वा नायं लौकिको न परीक्षक इति प्रसङ्ग इति भावः । प्रतिपादयितुरयथार्थावबोधं प्रतिपत्तारं चात्मानमित्यर्थः । यस्तु मन्यते चतुर्वर्गाभ्युपगमेऽपि दूषणमात्रं वितण्डेत्येव वक्तव्यं लाघवायेति,

तन्मतमुपन्यस्यातिप्रसङ्गापादनेन दूषयतिदूषणमात्रेति ।
समाख्यानिर्वचनसामर्थ्यादेव गम्यत इत्यर्थः ।
उपसंहरतितस्मादिति ।
तदनेनार्थतो यद् वै खल्वित्यादि भाष्यं व्याख्यातम् ॥३ ॥

न्या.सू._१,२.४: सव्यभिचारविरुद्धप्रकरणसमसाध्यसमकालातीता हेत्वाभासाः ॥

उद्देशक्रमानुरोधेन वितण्डानन्तरं हेत्वाभासेसु लक्षयितव्येषु अर्थाक्षिप्तसामान्यलक्षणमेषां विभागोद्देशपरं सूत्रम्सव्यसाः ॥ ४ ॥

तद्व्याख्यानपरं भाष्यं समाख्यानिरुक्तिवशेन सामान्यलक्षणं प्रतिपादयन् वार्त्तिकारः पठतिहेतुलक्षणाभावादिति । पृच्छतिकिं पुनरिति । न ह्यन्यस्यान्यत्वमात्रेण सादृश्यम्, मा भूत् सर्वस्य सर्वेण सादृश्यमिति भावः ।

उत्तरम्प्रतिज्ञेति ।
प्रयोगगतं सामान्यमुक्त्वा प्रयोज्यगतमाहअन्यतमेति ।
अबाधितविषयतासत्प्रतिपक्षत्वे सती अप्यविवक्षित्वा त्रैलक्षण्यद्वैलक्षण्याभिधानं द्रष्टव्यम् ।
शेषमतिरोहितम् ॥

षट्संप्तं शतं गणयतितत्र साध्यव्यापकेति । एतस्यां त्रिषोडश्यां साध्यव्यापकसाध्यैकदेशवृत्तिधर्मभेदात् षोडशीद्वयं विशेषणविशेष्यासिद्धिभेदात् चतुःषष्टिः । एवं समर्थासमर्थविशेषणविशेष्यभोदात् चतुःषष्टि । तदेतत् चतुःषष्टिद्वितयमष्टाविंशं शतं पूर्वया त्रिषोडश्या सह षट्सप्तं शतम् । साध्यव्यापकानां धर्मविशेषाणामुदाहरणान्याहतत्रेति । विपक्षव्याप्त्यव्याप्तिभ्यां प्रथमद्वितीयौ साधारणौ, तृतीयोऽन्वयव्यतिरेकी साध्यतज्जातीयव्यापको हेतुरेव । विपक्षव्याप्त्यव्याप्तिभ्यां चतुर्थपञ्चमौ विरुद्धौ हेत्वाभासौ । यत्र विपक्षे न वृत्तिस्तं दर्शयतिद्व्यणुकवदिति । षष्ठोऽविद्यमानसपक्षविपक्षोऽसाधारणः, अत एवाहघटादिवदिति । सप्तमाष्टमौ विपक्षव्याप्त्यव्याप्तिभ्यां साधारणौ । नवमस्तु सपक्षैकदेशवृत्तिरन्वयव्यतिरेकी हेतुरेव । दशमैकादशौ सपक्षव्याप्त्यव्याप्तिभ्यामन्वयिनौ हेतू ।

द्वादशस्तु अविद्यमानविपक्षः असाधारणः ।
त्रयोदशचतुर्दशौ त्वविद्यमानसपक्षो विपक्षव्याप्त्यव्याप्तिभ्यां विरुद्धौ ।
पञ्चदशोऽपि व्यतिरेकी हेतुरेव ।
षोडशस्तु अविद्यमानसपक्षविपक्षोऽसाधारणः ॥

यदि बाह्यकरणप्रत्यक्षे वाङ्मनसे इति साध्येत तदा नानित्यत्वं सपक्षव्यापकं स्यात्, सामान्ये

बाह्यकरणप्रत्यक्षेऽभावात् ।

अतः साध्यधर्मं विशिनष्टिसामान्यविशेषवदिति ।
अनित्ये रूपविज्ञाने अमूर्तत्वादिति ।
रूपविज्ञानस्कन्धातिरिक्तानां वेदनासंज्ञासंस्कारस्कन्धानामनित्यतया सपक्षाणां व्यापकममूर्तत्वमिति ।
तज्जातीयैकदेशवृत्तित्वममूर्तत्वस्य दर्शयितुं यत्र न वर्तते तत्पुरःसरमुदाहरणं रूपादिवदिति ॥

अनित्यः शब्दोऽश्रावणत्वात् इति नित्ये शब्दत्वे न वर्तते । अर्थः शब्द इति, शब्दो धर्मी । अर्थ इति साध्यो धर्मः, द्रव्यगुणकर्मणामन्यतम इत्यर्थः । यद्यश्रोत्रग्राह्यत्वादित्युच्येत, ततः सामान्यादिष्वनर्थेषु विपक्षेष्वपि वर्तेत । अत उक्तमश्रोत्रग्राह्यसामान्यवत्त्वादिति । अश्रोत्रग्राह्यं च तत् सामान्यवच्चेति विग्रहः । ननु चाक्षुषत्वं विपक्षवृत्ति

समवायस्यानाश्रितस्य चाक्षुषत्वादित्यत उक्तमौलूक्यपक्षे इति । सिद्धान्तभेद इति, सोत्रान्तिकानाम् इत्यर्थः । असमर्थविशेष्यस्योदाहरणम्कृतकत्वे सति प्रमेयत्वादिति । असमर्थविशेषणस्योदाहरणम्प्रमेयत्वे सति कृतकत्वादिति । निरपेक्षं खलु कृतकत्वमनित्यत्वे साध्ये समर्थम्, प्रमेयत्वं त्वन्यापेक्षम् असमर्थमित्यर्थः । तदेवं त्रिषोडश्या प्रकृत्याष्टचत्वारिंशदृ भवन्ति हेतुहेत्वाभासाः ।

व्यापकाव्यापकभेदेन तु द्विषोडशी यदा विशेषणविशेष्यासिद्ध्या चोभयसंप्रतिपन्नया असमर्थविशेषणविशेष्यतया सन्दिग्धविशेषणविशेष्यतया चोभयसंप्रतिपन्नया विक्रियते तदा चतुःषष्ठित्रयेण द्वानवतं शतं भवति ।
वाद्यसिद्धप्रतिवाद्यसिद्धतया उभयान्यतरसन्दिग्धतया च चतुःषष्ठिद्वयेनाष्टाविशकं शतमपरम् ।
तदिदम् अन्यतरासिद्धा इत्यनेन वार्त्तिककृता सूचितम्, द्वाभ्यामूना त्रिंशद् द्वात्रिंशदिति कथञ्चिद् व्युत्पत्त्या ।
ते पुनर्व्यापकाव्यापका व्यधिकरणविशेषणविशेष्यव्यधिकरणसन्दिग्दधविशेषणविशेष्यव्यधिकरणासमर्थविशे षणविशेष्यभेदेन चतुःषष्टित्रयेण द्वानवतं शतमपरम् ॥

एवमप्रसिद्धाश्रयविशेषणविशेष्या उभयान्यतरपक्षाप्रसिद्ध्या अष्टाविंशकं शतम् । अत्रापि द्वात्रिंशकमिति पूर्ववद् व्याख्येयम् । अन्यतरमात्रमत्र विवक्षितं न तु वादिप्रतिवादिभेदः । ते पुनरप्रसिद्धाश्रयाः पूर्ववद्भेदेन व्यधिकरणविशेषणविशेष्यसन्दिग्धविशेषणविशेष्यसमर्थविशेषणविशेष्यभेदेन चतुःषष्टित्रये सति द्वानवतं शतम् । तदेवमनन्तराभ्यां द्वानवतशताभ्यां शतत्रयं चतुरशीतं यत् तदेवाष्टाविंशकशताभ्यां द्वानवतेन च शतेन संपिण्डितं द्वात्रिंशदुत्तराष्टशती विकारभूता भवति । अष्टाचत्वारिशत् प्रकृतयः पश्चात् निवेशनीया इति ।

उभयाप्रसिद्धाश्रयविशेष्यम् उदाहरतियथा अग्निमान् देशो धूमवत्त्वात् । उक्तं हि प्राग् यथा न देशोऽग्निमत्तया साध्योऽपि तु धूमविशेष एवेति । अन्यतरासिद्धाश्रयोदाहरणमाहअस्ति चात्मा इच्छादिगुणत्वादिति । आश्रयासिद्धविशेषणादयोऽप्युहनीयाः । असमर्थाव्यापकासिद्धविशेषणानामुदाहरणम् । असमर्थाश्च तेऽव्यापकाश्च, व्यधिकरणतया असिद्धाश्चेति विग्रदः । अनित्यः शब्दः प्रयत्नानन्तरीयकत्वे सति कृतकत्वादिति कृतकत्वस्यैव विशेष्यस्य सामर्थ्यादसमर्थमनित्यत्वे प्रयत्नानन्तरीयकत्वम्, अव्यापकं च स्तनयित्नुशब्दानामव्यापकत्वात् । व्यधिकरणतया असिद्धं च कोष्ठवायुताल्वादिक्रियायां एव प्रयत्नानन्तरीयकत्वम्,

न त्वाद्यस्यापि शब्दस्य, प्रागेव तु श्रोत्रसमवायिन इति ।
कृतकत्वे सति प्रयत्नानन्तरीयकत्वादिति चासमर्थाव्यापकासिद्धविशेष्याणामुदाहरणं द्रष्टव्नयम् ॥

वैभवेन त्वसिद्धतावर्जमुदाहरतिअव्यापकासमर्थविशेष्याणामुदाहरणमनित्यः शब्दः प्रत्ययभेदभेदित्वेनोपलभ्यमानत्वात् । उपलभ्यमानत्वं हि नित्येऽप्यस्तीति व्यभिचारादसमर्थम् । कारणभेदभेदित्वमेव तु विशेषणं समर्थमव्यभिचारादिति । केवलव्यधिकरणविशेष्याणामुदाहरणम् अस्ति प्रधानं भेदानां गोघटादीनां सुखदुःखमोहात्मकत्वेनान्वयदर्शनादिति । अन्वयदर्शनं हि भेदाधिकरणतया न प्रधानधिकरणमिति, व्यधिकरणमिति व्यधिकरणं विशेष्यम् ।

केवलव्यधिकरणविशेषणानामुदाहरम्रूपरसगन्धस्पर्शशब्दाः चन्दनशब्दादत्यन्तं विभिन्नार्थाः समुदायसमुदाय्यसंभवे सति रूपादीनामर्थानां रूपादिशब्दानां च तेन चन्दनशब्देन व्यपदिश्यमानत्वात् ।
चन्दनस्य रूपादय इति समुदायसमुदाय्यसंभवो रूपादिषु व्यपदेशश्च रूपादिशब्देष्विति व्यधिकरणं विशेषणमित्यर्थः ।
तदनेन प्रपञ्चेन द्वात्रिंशदुत्तराष्टशती दर्शिता ॥

संप्रति द्वानवतशतयुग्मान्तरं दर्शयितुमुदाहरणमाहअन्यथासिद्धोदाहरणं नित्यः शब्दोऽभ्यासात् । सेयं क्रियाभ्यावृत्तिर्यथा शब्दानित्यत्वेऽप्युपपद्यते तथा द्वितीये दर्शयिष्यते । सिंहावलोकितन्यायेन व्यधिकरणविशेष्यं सन्दिग्धविशेषणमुदाहरतिसन्दिग्धाप्रतिद्धेति । विशेषणशब्दः तन्त्रेण विशेषणे विशेष्ये च कर्मकरणसाधनतया प्रयुक्तो वर्तते । तेन सन्दिग्धं विशेषणम् अप्रसिद्धं व्यधिकरणतया विशेष्यं येषां तेषामुदाहरणमित्यर्थः । यथा सन्दिह्यमाने धूमादिभावेऽग्निमान् देशो धूमवत्त्वे सति प्रकाशकत्वात्, धूमवत्त्वं विशेषणं सन्दिग्दधम् । प्रकाशकत्वं च विशेष्यं व्यधिकरणम् ।

तत् खलु वह्नेर्धर्मो न देशस्येति ।
अप्रसिद्धविशेषणसन्दिग्धविशेष्याणामुदाहरणं दर्शयतिविपर्ययेणेति ।
अप्रसिद्धेत्यपि द्रष्टव्यम् ।
अग्निमान् देशः प्रकाशकत्वे सति धूमवत्त्वादिति ॥

संप्रति द्वानवतशतयुग्मान्तरं दर्शयितुं भूमिरचनां करोतिएवमिति । ये ये सन्दिग्धासिद्धा व्यापकाव्यापकभेदेन द्वात्रिंशत् त एवोभयान्यतरासिद्ध्या चतुःषष्टिर्भवन्ति ततः किमित्यत आहते चतुःषष्टितामापन्नाः पूर्ववद्भेदेन व्यधिकरणविशेषणविशेष्यसन्दिग्धविशेषणविशेष्यासमर्थविशेषणविशेष्यभेदेन तावच्चतुःषष्टित्रयमित्येकं द्वानवतं शतम् । अपरे चाश्रयासिद्धव्यधिकरणविशेषणविशेष्यसन्दिग्धविशेषणविशेष्यासमर्थविशेषणविशेष्यभेदेन द्वानवतं शतम् । तदिदं

चतुरशीतं शतत्रयं सन्दिग्धासिद्धमाश्रित्य ।
अपरमपि द्वानवतशतयुग्मान्तरमन्यथासिद्धमाश्रित्याहएवमन्यथासिद्धभेदो द्रष्टव्यः ॥

अन्यथासिद्धभेदोऽपि हि व्यधिकरणविशेषणविशेष्यसन्दिग्धासमर्थविशेषणविशेष्यभेदात् चतुःषष्टित्रयमिति । पुनश्च स एवान्यथासिद्ध आश्रयासिद्धव्यधिकरणविशेषणविशेष्यसन्दिग्धासमर्थविशेषणविशेष्यभेदात् चतुःषष्टित्रयमिति द्वानवतशतयुग्मेव शतत्रयं चतुरशीतम् । अपरमपि द्वानवतशतयुग्मकमाहएवं विरुद्धविशेषणा विरुद्धविशेष्याश्चेति । विरुद्धविशेषणविशेष्या अपि हि व्यधिकरणविशेषणविशेष्यसन्दिग्धासमर्थविशेषणविशेष्यभेदाच्चाश्रयासिद्धव्यधि

करणविशेषणविशेष्यसन्दिग्धासमर्थविशेषणविशेष्यभेदाच्च शतत्रयं चतुरशीतम् ।
तदेवमेभिस्त्रिभिश्चतुरशीतैः शतत्रयैर्द्विपञ्चाशच्छतोत्तरं सहस्रमेकम्, द्वात्रिंशदुत्तरया अष्टशत्या सहस्रमेकं चतुरशीतिसहिता च नवशती ।
तदेवं प्रकृतिभूताष्टा चत्वारिंशत्प्रक्षेपेण संपिण्डितं द्वात्रिंशे द्वे सहस्रे भवत इति ॥

तन्न असत्वादिति । पञ्चानां चतुर्णां वा रूपाणां संपत्तिरव्यभिचारः । स चैकस्मिन् विषये विरुद्धयोर्न संभवति, अन्ततोऽसत्प्रतिपक्षस्यैव रूपस्याभावादित्यर्थः । पञ्चानां हेतूनामिति । सपक्षव्याप्त्यव्याप्तिभ्यामन्वयी द्वेधा,

व्यतिरेक्येकः, अन्वयव्यतिरेक्यपि सपक्षव्याप्त्पव्याप्तिभ्यां द्वेधेति पञ्च हेतवः । पञ्चानां हेतूनां सरूपासरूपप्रतिबन्धात् पञ्च पञ्चका भवन्ति । सरूपः अन्वयिनोऽन्वयी, व्यतिरेकिणो व्यतिरेकी, अन्वयव्यतिरेकिणोऽन्वयव्यतिरेकी । असरूपश्चान्वय्यादेर्व्यतिरेक्यादिः, तेन प्रतिबन्धः, एतदुक्तं भवति, अन्वय्यादावेकैकस्मिन् सरूपासरूपाः पञ्च हेतवः प्रतिबन्धका इति पञ्चभिः पञ्चकैः पञ्चविंशतिर्विरुद्धाव्यभिचारिण इति ।

चोदयतिलक्षणत एवेति ।
परिहरतिनानर्थकमिति ।
यत्परो हि शब्दस्तत्रासौ प्रमाणम्, समानासमानजातीयव्यवच्छेदकं च लक्षणसूत्रमिति तत्रैव प्रमाणम् न त्वियत्तायामतत्परत्वात् ।
न चासावार्थी सतोऽप्यनुपयोगादलक्ष्यमाणत्वोपपत्तेः प्रमेयान्तरवदिति ॥ ४ ॥

न्या.सू._१,२.५: अनैकान्तिकः सव्यभिचारः ॥

तदेवमर्थाक्षिप्तसामान्यलक्षणं विभागं दर्शयित्वा विशेषलक्षणमवतारयति भाष्यकारः, तेषां हेत्वाभासानां मध्ये अनैरः ॥ ५ ॥

अत्र चानैकान्तिकसव्यभिचारशब्दौ पर्यायौ पुरुषभेदापेक्षया लक्ष्यलक्षणत्वेनावस्थितौ । यस्यानैकान्तिकपदार्थोऽप्रसिद्धः प्रसिद्धश्च सव्यभिचारपदार्थः, तं प्रत्यनैकान्तिक इति लक्ष्यतिर्देशः, सव्यभिचार इति लक्षणम् । यस्य तु सव्यभिचारपदार्थोऽप्रसिद्धः प्रसिद्धश्चानैकान्तिकपदार्थस्तं प्रति सव्यभिचार इति लक्ष्यनिर्देशः, अनैकान्तिक इति लक्षणम् । तत्र सव्यभिचार इति लक्षणपदं कक्षीकृत्याह भाष्यकारः व्यभिचार एकत्राव्यवस्थितिः । एतदुक्तं भवति । सव्यभिचारपदं निर्वचनसामर्थ्यात् लक्षणपदमिति । अनैकान्तिकपदलक्षणपक्षे भाष्यकारोक्तम् अनित्यत्वमप्येकोऽन्त इत्यादि । तद् वार्त्तिककारः पर्युदासाभिप्रायेण व्याचष्टेएकस्मिन्नन्ते नियत ऐकान्तिक इति । न हेतुरैकान्तिको येन तदन्यत्वेन हेत्वाभासमात्रसंग्रहादेकजातीयत्वेन हेत्वाभासानां विभागसूत्रविरोधः स्यात्, किं त्वेकस्मिन्नन्ते यो नियतः स ऐकान्तिकः, तद्विपर्ययादनैकान्तिकोऽनियतोऽनित्यत्वे च नित्यत्वे चान्वयेन च व्यतिरेकेण चोभयपक्षगामीति यावत् । न चैवंभूता विरुद्धादयो हेत्वाभासा इत्यभिप्रायः । तदेवम् अनैकान्तिकः सव्यभिचारः इति स्थिते पृच्छतिकः पुनरिति ।

उत्तरम्साध्यतज्जातीयेति ।
अवगत एष व्यभिचार इति, अनैकान्तिकपदवाच्यतास्य कथमित्यत आहअन्यत्र सर्वोऽयमिति ।
प्रमेयपदार्थस्य तु सर्वव्यापिनो नान्तो व्यतिरेकोऽस्तीत्यत उक्तमन्यत्र प्रमेयादिति ॥

अत्र बौद्धैः यद् विकल्प्य दूषणमुक्तम्, तदुपन्यस्यतिअनैकान्तिक इति । किं पुनरयमिति । ऐकान्तिको हेतुः । ततोऽन्यः सर्व एव हेत्वाभास इत्यर्थः । द्वितीयं कल्पं दूषयतिअथ प्रसज्येति । तथापि हेतोरभावोऽनैकान्तिकः । न चासौ सव्यभिचारः । भावधर्मौ हि व्यभिचाराव्यभिचारौ नाभावे सर्वोपाख्याविरहिणि युज्येते इत्यर्थः । तदेतत् शाक्यदूषणं निराकरोतिनायं पर्युदासपक्ष इति । पर्युदासपक्षस्तावदस्माकमभिमत उपपन्नतरश्च, केवलमयं प्रसज्यप्रतिषेधवल्लभस्तमास्थाय सर्वं दूषयतीति तमेवाङ्गीकृत्य सर्वत्र ब्रूम

इत्याशयवतः समाधानम् ।

न पुनरब्राह्मणादावपि वार्तिककारस्य प्रसज्यप्रतिषेधोऽभिमतः, किं तु पर्युदास एवेति ।
अभ्युपेत्य तु तत्रापि प्रसज्यप्रतिषेधाभिधानम् ।
न हि प्रसज्यप्रतिषेधोऽपि तुच्छः, अपि तु कस्यचिद् वस्तुनोऽभावेन विशिष्टं किञ्चिदेव वस्त्वित्यर्थः ॥

अत्र भाष्यम्निदर्शनं नित्यः शब्दोऽस्पर्शत्वात् इति । वैधर्म्ये दृष्टान्तम् आहस्पर्शवानिति । अनित्यः

कुम्भः स्पर्शवान् दृष्ट इति योजना । वैधर्म्ये व्याप्यव्यापकभावस्य वैपरीत्यादिति वैधर्म्यव्यभिचारमाहदृष्टान्ते स्पर्शवत्त्वमनित्यत्वं च धर्मौ न साध्यसाधनभूतौ गृह्येते । न हि यदनित्यं तत् सर्वं स्पर्शवद् बुद्ध्यादिभिर्व्यभिचारात् । साधर्म्येऽपि चैभिरेव व्यभिचारो वक्ष्यत इतीह नोक्तः । ननु मा भून्नित्यत्वं साध्यम्,

अस्पर्शत्वमेवास्तु नित्यत्वस्य साध्यमित्यत आहस्पर्शवांश्चाणुर्नित्यश्चेति ।
तथापि यदस्पर्शवन्न भवति तन्नित्यमपि न भवतीति वैधर्म्यं व्यभिचरति, स्पर्शवतोऽप्यणोर्नित्यत्वादित्यर्थः ।
साधर्म्यव्यभिचारमाहआत्मादौ चेति ॥

अत्र वार्त्तिककारोऽस्पर्शवत्त्वस्य हेतोः प्रश्नपूर्वकं स्वरूपं निष्कर्षतिकिं पुनस्तत् अस्पर्शत्वं शब्दाद् भिन्नत्वमित्यर्थः । सत्ताविशेषणो वा समवायः, समवायविशेषणा वा सत्ता, अन्वयव्यतिरेकाभ्यामित्यर्थः । वाक्यार्थे च पदप्रयोगोऽस्पर्श इति श्रोत्रियपदवदित्याहवाक्यार्थेति । अनैकान्तिक इति लक्षणमिति पक्षे चोदयतिअतिदेशेति । यदि हि क्वचित् शास्त्रप्रदेशे अनैकान्तिकः कथितः, तद्देशातिलङ्घनेन अत्रातिदिश्यमानो विदितरूप इह सव्यभिचारं लक्षयेत्, न त्वस्य शास्त्रप्रदेशे क्वचिदपि कीर्तनमस्तीत्यर्थः । परिहरतिनेदमिति । लोकप्रसिद्धत्वेनोक्तप्रायमित्यर्थः । अन्वयेनैवोभयान्तसन्नियतोऽनैकान्तिक इति मन्वानः शङ्तेअव्यापकत्वादिति । परिहरतिनेति । व्यावृत्तीति । क्वचिदन्वयस्योभयान्तसंनियतता, क्वचिद् व्यतिरेकस्येत्यर्थः । एकेषां मतमुपन्यस्यतिअपरे त्विति । दूषयतितैस्त्विति । नोदाहरणे व्यभिचाराल्लक्षणव्यभिचारो भवत्यन्यत्वात् । नो खलूदाहरणमाद्रियन्ते परीक्षकाः किं तु लक्षणमित्यर्थः॥ ५ ॥

न्या.सू._१,२.६: सिद्धान्तम् अभ्युपेत्य तद्विरोधी विरुद्धः ॥

सिद्धाद्धः ॥ ६ ॥ पृच्छतिकोऽस्य सूत्रस्येति । न खलु हेतुरचेतनः सिद्धान्तमभ्युपगच्छति, यश्चाभ्युपगच्छति चेतनो नासावन्यतमेन हेतुलक्षणेन युज्यते इति न हेत्वाभासः । न च पक्षः सिद्धान्त इति तद्विरोधी न विरुद्धः स्यादिति भावः । उत्तरमभ्युपगतार्थविरोधी विरुद्धः हेतुद्वारेण पुरुषस्याभ्युपगमो हेतावुपचरितः । अभ्युपगमविषयमात्रविवक्षया च सिद्धान्तशब्दः प्रयुक्तो न पुनः सिद्धान्त एवेह विवक्षितः । तेन पेक्षोऽभ्युपगमविषय इति तद्विरोधी हेत्वाभासः संगृहीतो भवति विशेषविरुद्धस्य च न हेत्वाभासतेत्युक्तं भवति । न हि विशेषोऽभ्युपगमस्य विषयः, न खल्वयं प्रतिज्ञापदगोचरः, किं तु प्रतिज्ञार्थस्य सिद्ध्यनुषङ्गीति नाभ्युपगमगोचर इति भावः । ईदृशस्य सूत्रव्याख्यानस्य फलमाहएवं चेति । ईदृशं व्याख्यानमन्तरेणानुक्तस्य विरुद्धस्येत्यर्थः । अभ्युपगतेन वा बाध्यत इति, स्वरूपेण हेतुत्वेन वेत्यर्थः । तदनेन तं विरुणद्धीत्यादि भाष्यं व्याख्यातम् । चोदयतिनन्वेवमिति । यदि हेतुत्वबाधाद् विरुद्ध इत्युक्तः, हन्त, सव्यभिचारादयोऽपि विरुद्धाः । तेषामपि हि हेतुत्वं बाधितम् । अबाधे वा न हेत्वाभासा इति भावः । परिहरतिसत्यमेक एवेति । ईदृशाविरुद्धत्वेन तुल्यत्वेऽप्यवान्तरभेदविवक्षया पञ्चत्वम् । यथा प्रमाणादीनां प्रमेयत्वेन तुल्यत्वेऽपि प्रमाणप्रमेयादीनामवान्तरभेदविवक्षया षोडशत्वम्, यथा वा तृणविशेष एवासाधारणतया तृणोलप इत्याख्यायते,

एवं विरुद्धविशेष एवासावनैकान्तिकादिर्विरुद्धानैकान्तिकादिपदवाच्य इत्यर्थः ॥

अत्रोदाहरणभाष्यम्यथा सोऽयं विकार इति । महदहङ्कारपञ्चतन्मात्रैकादेशेन्द्रियभूतसूक्ष्ममहाभूतानि विकारः । तस्य व्यक्तिः धर्मलक्षणावस्थापरिणामः, तस्मादपाय इति । अत्र हेतुः नित्यत्वप्रतिषेधादिति । तस्य व्याख्यानम्न नित्यो विकार उपपद्यत इति । अपेतोऽपि विकारोऽस्ति विनाशप्रतिषेधात् । सोऽयं नित्यत्वप्रतिषेधादिति हेतुर्व्यक्तेरपेतोऽपि विकारोऽस्तीत्यनेन स्वसिद्धान्तेन विरुध्यते । एतदेव प्रश्नपूर्वकं विभजतेकथमित्यादिना । विरोधस्य द्व्याश्रयत्वात् सिद्धान्तेन विरुध्यते इत्यभिसंघाय सिद्धान्तं व्याहन्तीत्युक्तमित्यर्थः । तदेतद् भाष्यं व्याचष्टेउदाहरणमिति । ननु नित्यत्वप्रतिषेधादिति हेतुर्विनाशप्रतिषेधेन सिद्धान्तेन विरुद्ध इति ब्रुवाणः शास्त्रविरोधमापादयति । तथा च कालात्ययापदिष्टो हेत्वाभासो न विरुद्ध इत्यत आहएते ते वाक्ये परस्परार्थबाधिते इति । दृढतरप्रमाणबाधितो हि हेतुः कालात्ययापदिष्टो भवति, यथा ब्राह्मणेन सुरा पेया द्रवद्रव्यत्वात् क्षीरवदित्ययं हेतुः

गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा ।

यथैबैका तथा सर्वा न पेया ब्रह्मवादिभिः ॥

इत्यादिभिरागमैरतिदृढैर्बाधितः कालात्ययापदिष्टतया हेत्वाभासो भवति ।
प्रकृते तु वाक्ये परस्परविरुद्धार्थतया न प्रतिष्ठां लभेते, न पुनरन्यतरदन्यतरेण शक्यं बाधितुं द्वयोस्तुल्यबलत्वात् तस्मात् नायं कालात्ययापदिष्ट इत्यर्थः ॥

व्याख्यानान्तरमाहप्रतिज्ञाहेत्वोर्वा विरोध इति । सोऽयं विकारो व्यक्तेरपैतीति प्रतिज्ञा नित्यत्वप्रतिषेधादिति हेतुना विरुध्यते । व्यक्तिमात्रादपैति, न तु विनश्यतीति हि प्रतिज्ञार्थः अपेतोऽप्यस्ति विनाशप्रतिषेधादित्यनेन व्याख्यातः । तथा च व्यक्तेरपैतीत्येनन विकारस्य नित्यत्वं प्रतिज्ञातं नित्यत्वप्रतिषेधादित्यनेन हेतुना विरुद्धं भवति । खसिद्धान्तेनेति स्वपक्षेणेत्यर्थः । अत्र चार्थे सुगमं भाष्यम् । अत्र वार्त्तिककार चोदयतिननु प्रतिज्ञाविरोध इति । प्रतिज्ञाहेत्वोर्विरोधः प्रतिज्ञाविरोध इत्यर्थः । परिहरतिनैष दोष इति । प्रतिज्ञाश्रितत्वं विरोधस्य विवक्षित्वा निग्रहस्थानेषु प्रतिज्ञाविरोधस्योपादानम्, हेत्वाश्रितत्वं तु तस्यैव विरोधस्य विवक्षित्वा हेत्वाभासेऽन्तर्भाव इति । यदा

प्रतिज्ञया हेतुविरोध इति हेतोरप्यन्यतरासिद्धतया प्रतिज्ञाया तुल्यबलत्वाभिप्रायम् । यदा तु हेतुरुभयसिद्धो भवति, तदा हेतोर्वा प्रतिज्ञाविरोधकत्वमिति । उपसंहरतिअत इति । हेतोर्विरोधोदाहरणम् । विरोधकत्वं विरोधः । शब्दस्योत्पत्तिधर्मकत्वं प्रमाणविनिश्चितं नित्यत्वप्रतिज्ञां बाधत इत्यर्थः । प्रसङ्गात् हेत्वाभासातिरिक्तस्य प्रतिज्ञापदयोर्विरोधस्य निग्रहस्थानस्योदाहरणमाहप्रतिज्ञाविरोधस्येति । तृतीयेऽध्याये चैष विरोध उपपादयिष्यते । हेतोरन्यतरासिद्धतया समानबलयोः प्रतिज्ञाहेत्वोर्विरोधोदारणं गुणेति । हेतुविरोधोदाहरणं नास्त्येको भाव इति । उत्पत्तिमत्त्वं ह्यन्यतरासिद्धमपि शक्यसाधनमिति प्रतिज्ञार्थं व्याहन्ति, समूहे भावशब्दप्रयोगादिति तु उभयसिद्धमेव प्रतिज्ञार्थं व्याहन्तीत्येतावता भेद इत्यर्थः॥ ६ ॥

न्या.सू._१,२.७: यस्मात् प्रकरणचिन्ता सः निर्णयार्थमपदिष्टः प्रकरणसमः ॥

यस्मामः ॥ ७॥ प्रकरणशब्दार्थमाह भाष्यकारः विमर्शाधिष्ठानाविति । विमर्शः संशयः । तस्य विषयौ । अनवसितौ अनिर्णीतौ, तादृशयोरेव पक्षप्रतिपक्षशब्दवाच्यत्वात्, प्रक्रियते साध्यत्वेनाधिक्रियत इत्यनया व्युत्पत्या प्रकरणम् । चिन्तापरं व्याचष्टेतस्य प्रकरणस्य चिन्ता विमर्शात् प्रभृति प्राग् निर्णयात् समीक्षणम् आलोचनं जिज्ञासा । सा खलु तत्त्वानुपलब्ध्या कृता । नो खल्वयं नित्यधर्मान् नित्यत्वाविनाभाविनोऽनित्यधर्मान् वा अनित्यत्वाविनाभाविन उपलभमानस्तत्र सन्दिग्धे तद् वा जिज्ञासते । सैव नित्यधर्मानुपलब्धिरनित्यधर्मानुपलब्धिर्वा विचित्राभिसन्धितया वादिना निर्णयायापदिश्यमाना प्रकरणसमो हेत्वाभासः । कुतः? उभयपक्षसाभ्यात् यथा नित्यत्वपक्षेऽनित्यधर्मानुपलब्धिरेवमनित्यत्वपक्षेऽपि नित्यधर्मानुपलब्धिः । सेयं तत्त्वानुपलब्धिमात्रविवक्षयोभयपक्षसमा,

प्रकरणसमा तु यथाप्रकरणमनिश्चायकम् एवमियमपीत्यर्थः ।
व्युत्पत्तिनिमित्तमात्रं चैतत् प्रकरणसमपदस्य, प्रवृत्तिनिमित्तं तु सत्प्रतिपक्षत्वम्, अन्यथानैकान्तिकस्यापि प्रकरणसमत्वप्रसङ्गादिति ।
प्रज्ञापनं प्रज्ञाप्यते अनेनेति व्युत्पत्त्या निदर्शनमुक्तम् ॥

अनैकान्तिकत्वशङ्का सत्प्रतिपक्षस्यास्य व्यवच्छिनत्तियत्र समान इति, संशयेन समः अनिश्चायकत्वादिति । एतदुक्तं भवति, न हि नित्यधर्मानुपलब्धिरुभयसिद्धे नित्येऽस्ति येन सव्यभिचारो भवेत्, नाप्यनित्यधर्मानुपलब्धिरुभयसंमतेऽनित्येऽस्ति येन सव्यभिचारो भवेत् । अपि तु परस्परमनयोः सत्प्रतिपक्षतयैव

हेत्वाभासत्वमिति । यस्मात् प्रकरणचिन्तेत्युक्तं सूत्रकृता, तत्र यस्मादर्थं प्रश्तपूर्वकं दर्शयति वार्त्तिककारःकस्मादिति । कारणत्वं तत्त्वानुपलब्धेर्व्यतिरेकेण देशयतियस्मादिति । अत एवेति तत्त्वानुपलब्धेरित्यर्थः । चोदयतिनन्वयमिति । पक्षप्रतिपक्षौ हि प्रकरणम् । तौ च साध्यौ । ताभ्यां च समः साध्यसमः । तथा च साध्यसमात् हेत्वाभासात् न पृथग् निर्देश्यः प्रकरणसम इत्यर्थः । परिहरतिनाविशिष्ट इति ।

यद्यपि प्रकरणसमशब्दो व्युत्पत्त्या साध्याविशिष्टेन समानार्थः, तथापि प्रवृत्तिनिमित्तमस्य सत्प्रतिपक्षत्वम् ।
न च तत्त्वानुपलब्धिः स्वयमसिद्धा, सा ह्युपलम्भनाभावेन सुलभेति भाव ॥

परमतमनुभाष्यातिप्रसङ्गापादनेन दूषयतिये तु संशयहेतुत्वादिति । चोदयतिसमूह इति । यस्मिन् सति भवत्येव तत् कारणम्, समूहे सति च भवत्येव नैकैकस्मिन्, तत्त्मात् नैकैकं कारणमिति भावः । परिहरतिसमूहः कारणमितीति । न ह्यकारणानां समूहः कारणं भवितुमर्हति, अतिप्रसङ्गात् ।

न च समूहिवैलक्षण्यमन्तरेणाजानतः समूहस्य वैलक्षण्यम् ।
तस्मात् समूहिन एवान्योन्यसमवधानवन्तः कारणम् ।
तथा च प्रत्यक्षस्योपपन्नं संशयकारणत्वम् ।
न च यस्मिन् सति भवत्येव तत् कारणम्, अपि तु यस्मिन् सत्येव न त्वसतीति लक्षणभङ्गभङ्गे वक्ष्याम इति ॥

ननूभयधर्मानुपलब्धिरुभयपक्षसाधारणीति सव्यभिचार एवेत्यत आहौभयधर्मानुपलब्धाविति । नोभयधर्मानुपलब्धिरत्र हेतुः, अपि तु एकधर्मानुपलब्धिः । न चासौ साधारणी, किं तु तत्प्रतिपक्षेत्यर्थः । उभयविशेषानुपलब्धेः प्रकरणसमत्वेन अभिधानाशक्यत्वात् प्रकरणसमस्योदाहरणान्तरं दूषयतिशरीरादन्यत्वं त्विति । परेषां किलोदाहरणं नित्य

आत्मा शरीरादन्यत्वाद् आकाशवदिति । तत्र शरीरादन्यत्वम् उपलभमानो यदा तत्त्वं नित्यत्वमात्मनः प्रत्येति, न हि तदा जिज्ञासितुं नित्यत्वं प्रवर्तते । यदा तु तत्त्वं नित्यत्त्वं नोपलभते शरीरादन्यत्वमुपलभमानोऽपि तदा प्रवर्तते । तस्मादन्वयव्यतिरेकाभ्यां तत्त्वानुपलब्धिरेव प्रकरणचिन्ताप्रवर्तिका न शरीरादन्यत्वम् । तस्मात् नैतत् प्रकरणसमस्योदाहरणम् । अपि तु तत्त्वानुपलब्धिरेव । इतश्चैतन्न प्रकरणसमस्योदाहरणमित्याहशरीरादन्यत्वं चानैकान्तिकम् ।

उपसंहरतिअतश्च न सूत्रार्थः न सूत्रविषयः ।
एवमन्यान्यपि सत्प्रतिपक्षोदाहरणान्यूहनीयानि ॥ ७ ॥

न्या.सू._१,२.८: साध्याविशिष्टः साध्यत्वात् साध्यसमः ॥

साध्यामः ॥ ७॥ अत्र साध्यसम इति लक्ष्यनिर्देशः । साध्याविशिष्ट इति लक्षणम् । तदनेन स्वरूपासिद्धैकदेशासिद्धाश्रयासिद्धान्यथासिद्धानां संग्रहः, तेषामसिद्धत्वेन साध्याविशिष्टत्वात् । अत्र चासिद्धः साध्यसम इति वक्तव्ये साध्याविशिष्टग्रहणमन्यतरासिद्धस्यापि सिद्धेः प्रागहेतुत्वज्ञापनार्थम् । अन्यथात्यन्तासिद्ध एव साध्यसमो नान्यतरासिद्धः तस्य कदाचित् सिद्धेरिति भ्रान्तिः स्यात् । साध्याविशिष्टेन तु सोऽपि संगृहीत इति । नन्वेवं साध्याविशिष्टत्वेनान्यतरासिद्ध एव स्यात् नेतरे, नेषामसिद्धत्वेन साध्याविशेषाभावादित्यत उक्तं सूत्रकृता साध्यत्वादिति । यदि हि साध्यं नासिद्धं भवेत् साध्यत्वादेव च्यवेत, न खलु सिद्धं साध्यते । तस्मात् साध्यत्वादसिद्धता । सा च कस्यचित् सर्वदा, कादाचित्की कश्चिदिति सर्वेषामविशिष्टत्वमिति नाव्याप्तिः ।

नापि साध्यत्वस्यातिप्रसक्त्यातिव्याप्तिः हेत्वाभाससामान्यलक्षणापेक्षत्वात् तद्विशेषलक्षणस्येति सूत्रार्थः ।
साध्नीयत्वादिति भाष्यगतं न साध्यत्वादित्यस्य व्याख्यानम्, अपि तु गतिमत्त्वस्यासिद्धत्वपरम् ॥

अत्र वार्त्तिककारः सूत्रार्थं व्याचष्टेसाध्येनाविशिष्टो य इति । साध्येन व्यभिचारो मा भूदित्यत आहसाधनधर्म इति हेत्वाभाससामान्यलक्षणयोगे सति एतल्लक्षणमिति न व्यभिचार इति भावः । अत्र भाष्यकारेण स्वरूपासिद्धाश्रयासिद्धान्यथासिद्धानां साधारणमुदाहरणमुक्तम्द्रव्यं छाया गतिमत्त्वादिति । तद्विभजते वार्त्तिककारः द्रव्यं छायेति । अत्र स्वरूपासिद्धतां तावदाहयथैवेति । आश्रयासिद्धतामवतारयितुं गतिमत्तं छायायाः पञ्चावयवेन वाक्येन साध्यतिगतिमत्त्वमिति । आश्रयासिद्धतामाहनाश्रयासिद्धत्वादिति । सत्या एव छायाया देशान्तरे दर्शनाद् योऽस्या गतिमत्त्वमनुभिनोति तं प्रत्याश्रयासिद्धं देशान्तरे दर्शनम्, तदाश्रयस्यासिद्धत्वात् । तदिदमुक्तम्सति द्रव्याभाव इति, सति सत्त्व इत्यर्थः, न तावत् छाया सामान्यविशेषसमवायान्तर्भूता तस्या नित्यताभावात् । नापि कर्म, संयोगविभागासमवायिकारणत्वाभावात् । न गुणो द्रव्यासमवायात् । न मनोदिक्कालगुणः, तद्गुणानामप्रत्यक्षत्वात् । नाप्यात्मगुणो बाह्येन्द्रियप्रत्यक्षत्वात् । नापि नभोनभस्वतोः, तद्गुणानामचाक्षुषत्वात् । नापि तेजसः, तद्विरोधित्वात् तत्सहचरितगुणान्तरानुपलब्धेश्च । अत एव न पृथिवीपाथसोरपि । अपि च तद्गुणश्चाक्षुषो नालोकमन्तरेण शक्यग्रहः । छाया तु तमन्तरेण गृह्यते,

तस्मिंस्तु सति न गृह्यते इति दुर्घटम् । नापि द्रव्यम्, तद्धि पृथिव्यादीनाममन्यतमद् भवेद् अन्यद् वा दशमम् । न

तावदन्यतमम्,

तद्गुणानामनुपलब्दधेः, नाप्यन्यद् रूपवदिति युज्यते, तस्याद्रव्यस्य प्रत्यक्षत्वानुपपत्तेः, अस्पर्शवत्वादनाम्भकत्वेनानेकद्रव्यत्वाभावात् ।
तस्माद् भाभाव एव छाया न तु सतीति सिद्धम् ॥

यस्तु मन्यते मा भूत् छाया सती, भवतु भाभावः तथापि नाश्रयासिद्धता देशान्तरदर्शनस्य भाभावाश्रयत्वादेवेति तं प्रत्यभ्युपेत्यान्यथासिद्धतया साध्यसमत्वमापादयतिअभ्युपेत्येति । स्वाभाविको हि संबन्धो हेतोः साध्येन सहानुमानाङ्गं नौपाधिक इति विवेचितमनुमानलक्षणे । तदयमन्यथासिद्ध औपाधिकसंबन्धो भवति हेत्वाभासः । सेयं हेतोरसिद्धिर्द्विधा स्वरूपतो हेतुत्वेन च । स्वरूपतोऽपि द्वेधा, स्वत आश्रयासिद्ध्या च । न चैतावता सव्यभिचारादीनामपि हेतुत्वासिद्धेरसिद्ध एवान्तर्भावः सव्यभिचारत्वादिविशेषणेन तेषामतो भेदात् । अन्यथासिद्धस्य तु तद्विशेषणत्वायोगिनो हेतुत्वासिद्धिमात्रेण साध्यसमेऽन्तर्भाव इति सर्वमवदातम् । संकलयतिसोऽयमिति । त एतेऽसिद्धभेदा उदाहरणभेदेष्वपि द्रष्टव्याः, यथा नित्यः शब्दः चाक्षुषत्वादिति स्वयमसिद्धः । तनुभुवनादीनां न कर्ता ईश्वरोऽशरीरत्वादित्याश्रयासिद्धः ।

स श्यामो मैत्रतनयत्वात् परिदृश्यमानमैत्रतनयस्तोमवदित्यन्यथासिद्धः, अन्नपानपरिणतिभेदनिबन्धनत्वात् रूपभेदस्यान्यथासिद्धत्वमिति ।
अयमप्यसिद्धत्वात् इति भाष्ये अपिशब्देन आश्रयस्य छायाया अपि सत्त्वेनासिद्धिः सूचिता ॥

अत्र भदन्तेन इदं साध्यसमलक्षणमुदाहरणान्तरं कल्पयित्वा दूषितम् । इदं किलास्योदाहरणम्, नित्यः

शब्दोऽस्पर्शत्वाद् बुद्धिवदिति । तदेतत् त्रिधाप्यसिद्धं न भवतीति दूषयित्वा भदन्तेन शङ्कितम्, अथ साध्येनाविशिष्टो दृष्टान्तो यस्मिन् स साध्याविशिष्टो हेत्वाभास इति बुद्धेर्दृष्टान्तस्य नित्यत्वेनासिद्धत्वात्

इत्याशङ्क्य बहुव्रीह्यभावेन दूषितम् । तदेतत् सर्वमनभ्युपगमेन वार्त्तिककारो दूषयतिनित्यः शब्द इति । यद्येतत् नोदाहरणं किमुदाहरणं को वा सूत्रार्थ इत्यत आहयथा त्वस्माभिरिति । अयं भदन्तोक्तो दोष इत्यर्थः । कस्मादित्यत आहभदन्तेन सूत्रार्थो न विज्ञातः, न हि सव्यभिचारोऽनेन लक्ष्यते येन सव्यभिचारमस्पर्शवत्त्वमस्योदाहरणं स्यात्, किं तु साध्यसमः । नापि व्यधिकरणबहुव्रीहिदूषणेनाक्षरार्थो ज्ञातः । नापि बुद्धिवदिति दृष्टान्ताभासमेव हेत्वाभासं कुर्वता हेत्वाभासदृष्टान्ताभासौ ज्ञातौ भदन्तेनेत्यर्थः ॥ ८ ॥

न्या.सू._१,२.९: कालात्ययापदिष्टः कालातीतः ॥

कालातः ॥ ९ ॥ अत्र कालातीत इति लक्ष्यनिर्देशः, कालात्ययापदिष्ट इति लक्षणम् । हेतोरपदेशस्य हि साध्यसन्देहविशिष्टः कालः । यथाहुः

नानुपलब्धे न निर्णीते न्यायः प्रवर्तते, अपि तु सन्दिग्धे इति । परेऽप्याहुः

सन्दिग्धे हेतुवचनात्

इति । यत्र च प्रत्क्षानुमानागमविरोधः, अनुष्णोऽग्निर्द्रव्यत्वादिति च अश्रावणः शब्दो गुणत्वादिति च, शुचि नरशिरःकपालं प्राण्यङ्गत्वादिति च, स सर्वः प्रमाणतो विपरीतनिर्णयेन सन्देहविशिष्टं कालमतिपततीति सोऽयं कालस्यात्ययेनापदिश्यमानः कालातीत इति । तथा चोदाहृतं

यत्तु प्रत्यक्षागमविरुद्धं न्यायाभासः सः ।

इत्यत्र वार्त्तिककृता बाधाविनाभावयोः सहासंभव इति चात्र बौद्धानामाक्षेपोऽस्माभिः समाहितः । एवं व्यवस्थिते भाष्यकारः सूत्रं स्वपरमतश्लिष्टं व्याचष्टेकालात्ययेन संशयकालात्ययेन युक्तो यस्य हेतोरपदिश्यमानस्याथैङ्कदेशः । धर्मविशिष्टो हि धर्मी हेतोरपदिश्यमानस्यार्थः । सर् ह्यति हेतुना, तस्यैकदेशः साध्यधर्मः । स हि धर्मिणि बलबला प्रमाणेन तद्विपरोतधर्मनिर्णयं कुर्वता संशयकालमतिपातितः । स तादृशो हेतुः कालात्ययापदिष्टः कालातीत इति स्वमतेनास्यार्थः । अत्र च पूर्वमेवोदाहृतमिति पौनरुक्त्यात् नोदाहृतम् ।

परमते च कालात्ययेन युक्तो यस्य हेतोरर्थरूप एकदेशो हेतुविशेषणमिति यावत्, स कालात्ययापदिष्ट इति योजना । परमतेनैव निदर्शनमाहनिदर्शनमिति । नित्यत्वं चात्रावस्थानमात्रमभिमतमिति, न

घटादिभिरालोकसंयोगव्यङ्ग्यैर्व्यभिचारः ।
तदेतत् पञ्चावयवं वाक्यमुपन्यस्य संयोगव्यङ्ग्यत्वस्य हेतोरेकदेशस्य विशेषणस्य संयोगस्य व्यक्तिकालात्ययेन हेत्वाभासतामाहअयमहेतुरिति ।
स पुनरयमसिद्धविशेषणतया हेत्वाभासः साध्यसम एवेति न पृग्वाच्य इति स्थूलतया एष दोषो भाष्यकारेण नोद्भावितः ॥

यत् पुनः भदन्तेन कालातीतसय व्याख्यानं कृतं प्रतिज्ञानन्तरं हि हेतोः कालः । तमतीत्य हेतुः पश्चादपदिश्यमानः कालातीतो भवति । तद् यथा, अनित्यः शब्दः घटादिवदित्युक्ते कस्मादित्यनुयुक्तो हेतुं ब्रूते कृतकत्वादिति स कालातीत इति । तच्चैवं तेन दूषितम्किं निराकाङ्क्षे वादिनि एष प्रतिवादिनः प्रश्नः, आहो साकाङ्क्षे? यदि निराकाङ्क्षे तदा न्यूनमेवास्य निग्रहस्थानम्, न हेत्वाभासस्तस्याप्रयोगात् । प्रयुक्तो हि हेतुस्तदाभासो वा स्यात् नाप्रयुक्तः । अथ साकाङ्क्ष एव वादिनि प्रतिवादिनः प्रश्नः, तथापि पश्चादप्यसौ हेतुः प्रयुक्तो हेतुरेव, न ह्यसौ तदा न स्वसाध्याविनाभूतः, अपक्षधर्मो वेति । तस्मात् न कालतीतो नामास्ति हेत्वाभास

इति । तदेतद् भदन्तदूषणम् एतद्व्याख्यानानभ्युपगमेन परिहरतिअवयवविपर्यासवचनं त्विति । अनभ्युपगमहेतु पृच्छतिकस्मादिति ।

उत्तरम्यस्येति ।
अर्थेन सामर्थ्येन संबन्धोऽर्थसंबन्धः ।
अपि च पौनरुक्त्यादपि नाभ्युपगम्यत इत्याहअवयवेति ॥

यस्यापदिश्यमानस्य इत्यादि पुनरुच्यत इत्यन्तं वार्त्तिकं भाष्यव्याख्यानेनैव व्याख्यातम् । शङ्कतेसमीकृतेऽभिधानादिति । अयमर्थः नैतदप्राप्तकालेन निग्रहसथानेन पुनरुक्तम्, अपि तु हेत्वाभास एव । स ह्यवयवविपर्यास उच्यते यत्रैकग्रन्थेनैव वादी प्रतिज्ञोदाहरणादि प्रयुज्य पश्चात् हेतुं प्रयुङ्क्ते, एष तु प्रतिज्ञोदाहरणे प्रयुज्य विरतः प्रतिवादिनानुयुक्तः पश्चात् हेतुं प्रयुङ्क्ते । तस्मात् न्यूनतादूषणेन पक्षे समीकृते

पक्षमात्रतां नीते सिद्धावस्थातः प्रच्याविते पश्चादभिधानात् हेतारेष कालातीतो हेत्वाभासः, न पुनरप्राप्तकालम् । निग्रहस्थानमिति चेदिति । निराकरोतिकेनेति । यदि हेत्वभिधानेन न्यूनतया समीकृतः पक्षः किमत्रहेतोरसामर्थ्यम्? न ह्यन्यदोषेणान्यो युज्यत इत्यर्थः । शङ्किता ब्रूतेएतदस्येति । निराकरोतिनैतदिति ।

न्यूनतया निगृहीतो यदि पश्चादभिधानेन निग्रहीतव्यः ततो वाद्येव निगृह्यतां न त्वयं पश्चादभिहित इति समर्थः शक्यो हेतुर्निग्रहीतुमिति नायं समीकृताभिहितत्वेनापि हेत्वाभास इत्यर्थः ।
उभयनिराकरणमुपसंहरतितस्मादिति ॥ ९ ॥

न्या.सू._१,२.१०: वचनविधातोऽर्थविकल्पोपत्या छलम् ॥

उद्देशक्रमानुरोधेन लक्षणक्रमस्य हेत्वाभासानन्तरं छलस्योद्देशात् छललक्षणस्यापि हेत्वाभासलक्षणानन्तर्यमाह भाष्यकारःअथ छलम् ॥

वचलम् ॥ १० ॥ यथा वक्तुरभिमतोऽर्थः ततो विरुद्धः अर्थः तस्य कल्पः कल्पना, सैवोपपत्तिः तया । अथ लक्षणान्तर इव छलस्य सामान्यलक्षणे कस्मादुदाहरणं न दीयत इत्यत आहन सामान्यलक्षणे इति । सामान्यविशेषवत् सर्वमुदाहरणम्, निर्विशेषस्य सामान्यस्यासत्त्वेन केवलस्य सामान्यस्योदाहरणमशक्यमित्यर्थः । विभागे त्विति । विभज्यत इति विभागो विशेषलक्षणम्, तस्मिन् उदाहरणानि॥ १० ॥

न्या.सू._१,२.११: तत् त्रिविधं वाक्छलं सामान्यच्छलमुपचारच्छलं च ॥

छलसामान्यलक्षणमभिधाय तद्विशेषलक्षणान्यभिधातुं प्रथमं तावत् न्यूनाधिकसंख्याव्यवच्छेदार्थं विभाग लक्षणसूत्रमवत्तारयतिविभागश्चेति ।
विभज्यतेऽनेति विभागः सूत्रमुच्यते ।
तत् त्रिच ॥ ११ ॥

न्या.सू._१,२.१२: अविशेषाभिहितेऽर्थे वक्तुरभिप्रायादर्थानतरकल्पना वाक्छलम् ॥

तत्र च विशेषलक्षणमवतारयति । तेषां छलानां मध्ये वाक्छलं लक्ष्यतेअविलम् ॥ १२ ॥ नवः कम्बलोऽस्येति एकत्र विग्रहः, नव कम्बला अस्येति अपरत्र इति विग्रहे विशेषः । वाक्छलमिति शब्दार्थं व्युत्पादयतिवाचि निमित्ते छलं वाक्छलमिति । नवकम्बल इत्युभयत्रापि समानायां वाचि निमित्तभूतायामित्यर्थः । तदेतच्छलं पराजयावस्थायां जल्पे प्रयोक्तव्यमित्युक्तम् ।

परवाक्ये पर्यनुयोगोऽस्येति चोक्तम् ।
तदत्र यथा पर्यनुयोगः, तथा दर्शयति शिष्यहिततया भाष्यकारःअस्य प्रत्यवस्थानमिति ।
उभयार्थप्रतिभाने संभवत्पदार्थपरित्यागेनासंभवत्पदार्थकल्पनम् अयुक्तमित्यर्थः ॥

अथ प्रयोक्तापि कथं साधारणेन शब्देनार्थविशेषं बोधयति? अबोधयंश्च कथं प्रतिपादको नाम इत्यत आहप्रसिद्धश्चेति । संबन्धस्वरूपमाहअभिधानामिधेययोर्यो नियमः, अयमेव शब्दोऽस्यैवार्थस्येति । तत्र यः पुरुषस्य नियोगः अस्मादयमेव बोद्धव्य इत्येवमाकारः, किमतो यद्येवमित्यत आहप्रयुक्तपूर्वाश्चेति । तथापि किमित्यत आहप्रयोगश्चेति । तामिमां भूमिरचनां प्रकृते योजयतितत्रैवमर्थगत्यर्थ इति । एतदुक्तं भवति, न सङ्केतकरणावस्थायां वृद्धव्यवहारे वा कश्चित् शब्दः कञ्चिदर्थ शृङ्गग्राहिकया बोधयति, अपि तु

सामान्यद्वारेणार्थप्रकरणादिसहकारी विशेषे वर्तते ।

तस्मात् नैष प्रतिपादयितुरपराधो यदेष विशेषशब्दैर्विशेषं न प्रतिपादयति, किं तु सङ्केतस्यापराधो यो विशेषमपहाय सामान्ये शब्दानां वर्तते ।
तस्माद् यथासङ्केतं बोधयन् नापराध्यः प्रयोक्तेति सिद्धम् ।
सामर्थ्यमेव दर्शयतियत्रार्थे क्रिया चोदनेति ॥

स्यादेतत् । अविशेषाभिहितेऽर्थे इति न युक्तम् न हि नवकम्बल इति पदं प्रकरणादिनिरपेक्षं कञ्चिदर्थमविशेषेणाभिधत्ते गवादिशब्दवत् । न हि संख्याविशेषे च नवीनत्वे चास्ति कश्चित् सामान्यविशेषो बाहुलेयादिष्विव गोत्वं यमभिदधीतेत्यत आह वार्त्तिककारःसामान्यश्रुतीति । अभिहितिः अभिहितम् ऊच्चारणमिति

यावत् । समानः शब्दो नार्थे सामान्यमित्यर्थः । अश्व इति नामपदमश्वत्वस्य वाचकम्, आख्यातपदं यदा कस्यचिदभिमुखं प्रयुज्यते अश्व इति, तदा वृद्धिं गतोऽसीति प्रतीयते । चोदयतिअविशेषेति । समानो हि शब्दोऽभिधेये संशयमाधत्ते न त्वर्थमभिधत्त इत्यर्थः । परिहरतिन प्रकरणादीन् इति । श्वेतो धावतीति इतः सारमेयो द्रुततरं याति, श्वित्री प्रक्षालयतीत्यर्थसन्देह इत्यर्थः । अर्थ इत्यस्य प्रयोजनमाहअर्थग्रहणमिति । अविशेषश्रुतौ शब्दे सति अर्थे अर्थान्तरकल्पना,

न शब्द इत्यर्थः । अस्य

प्रत्यवस्थानमित्यादि भाष्यं व्याचष्टेतस्येति ।
सुगमम् ॥ १२ ॥

न्या.सू._१,२.१३: सम्भवतोऽर्थस्यातिसामान्ययोगाद् असम्भूतार्थकल्पना सामान्यच्छलम् ॥

संभवलम् ॥ १३ ॥ संभवतोऽर्थस्य ब्राह्मणविशेषस्य विद्याचरणसंपद्विषयत्वेन विद्याचरणसंपदमत्येति यत् सामान्यं ब्राह्मणत्वं व्रात्ये ब्राह्मणे, तस्य ब्राह्मणत्वस्यातिसामान्यस्य योगादसंभूतार्थकल्पनया यः प्रतिषेधः तत् सामान्यच्छलम् । अहो न खल्वयं ब्राह्मणो विद्याचरणसंपन्न इति हि स्तुत्यर्थं वाक्यमभ्यनुजानतोक्तं संभवति ब्राह्मणे विद्याचरणसंपदिति तदेतदपि वाक्यं स्तुत्यर्थमेव, न त्वस्य ब्राह्मणत्वात् हेतोर्विद्याचरणसंपद् विवक्षितेति । तत्र परो हेत्वर्थमस्या विवक्षितमारोप्य वचनं विहन्तीति तदिदं सामान्यच्छलम् । विषयानुवाद इति । संपद्विषयस्य ब्राह्मणत्वस्यानुवाद इत्यर्थः । कस्य? अविवक्षितहेतुकस्य पुंसः । तदेतद् वार्त्तिककारो व्याचष्टेसामान्यस्येति । विवक्षितार्थमधिगतं सामान्यमित्यर्थः । शेषं सुबोधम्॥१३ ॥

न्या.सू._१,२.१४: धर्मविकल्पनिर्देशे अर्थसद्भावप्रतिषेधः उपचारच्छलम् ॥

धर्मलम् ॥१४॥ शब्दस्य धर्मः प्रयोगः तस्य विकल्पो द्वैविध्यम् । द्विविधः प्रयोगः, प्रधानो भाक्तश्च ।

तत्रापि प्रधान औत्सर्गिकः, तस्य तु कुतश्चिदपवादाद् भाक्तो भवति । तदेतदाह भाष्यकारःअभिधानस्य शब्दस्य यथार्थं प्रयोगो धर्मः औत्सर्गिकः । तत् किमयमेव? नेत्याहविकल्पो द्वेविध्यम् । कोऽसौ द्वितीय इत्यत आहौत्सर्गस्य तु कुतश्चिदपवादाद् अन्यत्र दृष्टस्यान्यत्र प्रयोगः । तदेवं व्यवस्थितेन धर्मविकल्पेन निर्देशे वाक्ये, निर्दिश्यतेऽनेनेति व्युत्पत्त्या । तत्र भाक्तविवक्षायां मञ्चाः क्रोशन्तीति, अत्रार्थसद्भावेन प्रतिषेधः । तमेवार्थसद्भावमाहमञ्चस्थाः पुरुषाः क्रोशन्ति, न तु मञ्चाः क्रोशन्तीति । वार्त्तिकमते त्वर्थसद्भावस्यैव प्रतिषेध इति व्याख्येयम् । ननु यद्यन्यत्र दृष्टस्यान्यत्र प्रयोगः, हन्त सर्वं सर्वत्र प्रयुज्येतेत्यत आहौपचारो नीतार्थः प्रापितार्थः । सहचरणादिना निमित्तेनेति, अन्यत्र दृष्टस्याप्यन्यत्र प्रयोगः संबन्धादेव भवतीति । नातिप्रसङ्ग इत्यर्थः । न छन्दतः न छद्मनेत्यर्थः । ननु यदि भाक्ततयाप्युपपत्तिः, न किञ्चित् जल्पाकभाषितं दुष्टं स्यात् । सर्वस्यैव यथाकथञ्चिद् भाक्तत्वेनोपपत्तेरित्यत आहप्रधानभूतस्येति । भाक्तस्येत्येतावति वक्तव्ये प्रधानग्रहणं सिद्धतया दृष्टान्तलाभाय ।

लोकसिद्ध एवोपचारः कर्तव्यो नापूर्वो विना प्रयोजनम्, लोकसिद्धश्चायमुपचारो मञ्चाः क्रोशन्तीत्यर्थः ॥

सूत्रत्र्याख्यानपरं वार्त्तिकं धर्मविकल्पनिर्देशशब्देन सूत्रस्थेन । अभिधानं प्रयोगः शब्दस्य धर्मो भवन् द्विधाभिधीयते द्वैविध्यमाहप्रधानमिति सोऽयम्

अभिधानाभिधेयव्यवहार इति, अभिधानं शब्दः ।
अभिधेयो गम्यः ।
स च क्वचिद् वाच्यः, क्वचिद् भाक्त इत्यर्थः ॥ १४ ॥

न्या.सू._१,२.१५: वाक्छलम् एवोपचारच्छलं तद् अविशेषात् ॥

परीक्षापर्वणः सन्निधानात् तदर्थं लक्षणपर्वण्यपि योग्यायै सूत्रकारः छन्नलक्षणं परीक्षतेवाक्छत्॥१५ ॥

स्थान्यर्थो गुणशब्दो यो वस्तुतः स एव प्रधानशब्दः स्थानार्थ इति कल्पयित्वेति योजना ।
यथा हि वाक्छवले नवीनार्थो नवशब्दः संख्या भेदे कल्पितः, तथेहापीति पूर्वः पक्षः ॥ १५ ॥

न्या.सू._१,२.१६: न तदर्थान्तरभावात् ॥

सिद्धान्तसूत्रम्न तत् ॥ १६ ॥ तस्य उपचारच्छले अर्थसद्भावप्रतिषेधस्य अर्थान्तरकल्पनातो वाक्छलादित्यर्थः । सूत्र तात्पर्यमाहवार्त्तिककारःअविशेषादित्यस्येति । विधेयं वस्तु, मञ्चाः क्रोशन्तीत्यत्र क्रोशनं विधीयते, मञ्चा इति त्वनूद्यते । अत एव

गुणे त्वन्यार्थकल्पना

इति मञ्चा इत्येतदप्रधानमनूद्यतया भाक्तम् । न तु क्रोशन्तीति

न विधौ परः शब्दार्थः

इति न्यायात् ।
तदिह विधीयमानं क्रोशनमेव वस्तु प्रतिषिध्यते, नैव मञ्चाः क्रोशन्तीति छलवाक्येन ।
नवकम्बलो देवदत्त इति वाक्ये तु देवदत्तमनूद्य नवत्वविशिष्टः कम्बलो विधीयते ।
तत्र न विधेयस्य वस्तुनः कम्बलस्य सद्भावः प्रतिषिध्यते, किं तु तदेकदेशस्यानेकताया इति महान् भेद इति सिद्धान्तः ॥ १६ ॥

न्या.सू._१,२.१७: अविशेषे वा किञ्चित्साधर्म्यात् एकच्छलप्रसङ्गः ॥

अविङ्गः ॥ १७ ॥ किञ्चित्साधर्म्यात् त्रित्वाभावे द्वित्वस्याप्यभ्युपगतस्याभाव प्रसङ्गः ।

ओमिति ब्रूवतो वस्तुत्वेन समस्तभेदोच्छेदप्रसङ्गः ।
भाष्यवार्त्तिके अतिरोहितार्थे ॥ १७ ॥

न्या.सू._१,२.१८: साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं जातिः ॥

उद्देशक्रमानुरोधेन जातिलक्षणक्रममाह भाष्यकारःअतः छललक्षणादूर्ध्वम् । साधतिः ॥ १८ ॥ प्रतीपमवस्थानं प्रत्यवस्थानम्, तथा सति छलस्य सम्यग्दूषणस्य च जातित्वप्रसङ्गः । अत उक्तम्साधर्म्यवैधर्म्याभ्यामिति । न च च्छले साधर्म्यवैधर्म्ये स्तः । न च सम्यग्दूषणं साधर्म्यवैधर्म्यमात्रात्, अपि तु प्रयोगादिति । प्रयुक्ते हेतौ तदाभासे वा यः प्रसङ्गो जायते स जातिरिति । जल्पे हि वेदप्रामाण्यं विद्वांसं प्रति कुहेतुना यदा नास्तिकैरधिक्षिप्यते, सदुत्तरं चास्य यदा सहसा न प्रतिभाति तदेश्वराणां जनाधाराणां मा भूद् वेदाप्रामाण्यबुद्धिरिति जात्यापि प्रत्यवस्थेयम् । अन्यथेश्वरचरितानुवर्त्तिनीनां प्रजानां विप्लवो भवेदिति । क्वचित् पुनरबुद्धिपूर्वमेव हेतौ हेत्वाभासे वा जातिप्रयोगः संभवति । जायमानोऽर्थः इति जातिपदव्युत्पत्तिनिमिततं दर्शितम् । तदेतद् वार्त्तिककारो व्याचष्टेसाधर्म्येणेति । यथा पक्षे सति प्रतिपक्षः, एवं स्थापनायां सत्यां प्रत्यवस्थानमिति । सूत्रार्थस्तु यथाश्रुति, न पुनरुदाहरणसाधर्म्येण यथाभाष्यं बोध्यव्यः । यद्येवम्, भाष्यं तर्हि कथमित्यत आहौदाहरणार्थमिति । एवं वैधर्म्येण वेत्येतदपि ।

यथाश्रुति न पुनर्यथाभाष्यम् उदाहरणार्थं तदित्यर्थः ।
अस्य व्याख्यानस्य गुणाभिधानेन प्रश्नपूर्वकं प्रपञ्चमाहकिमर्थमिदमिति ॥ १८ ॥

न्या.सू._१,२.१९: विप्रतिपत्तिः अप्रतिपत्तिः च निग्रहस्थानम् ॥

विप्रनम् ॥ १९ ॥ सूक्ष्मविषया प्रतिपत्तिर्विपरीता । स्थूलविषया च कुत्सिता, कथमसौ निग्रहस्थानमित्यत आहविप्रतिपद्यमान इति । अप्रतिपत्तिमाहआरम्भविषय इति लाघवाय विप्रतिपत्त्यप्रतिपत्ती इति वक्तव्ये कस्मादसमासकरणमित्यत आहअसमासाच्चेति । विप्रतिपत्यप्रतिपत्तिभ्यामान्यदपि हेतूदाहरणाधिकं नाम जल्पे निग्रहस्थानमस्ति, तदपि ग्रन्थाधिक्येनावरुध्यत इत्यर्थः । आरम्भविषयेऽनारम्भ इत्यादि भाष्यम्, तद् व्याचष्टेस्वपरार्थोत्तरासंवित्तिरिति । द्वेधा खल्वारम्भविषयेऽनारम्भो भवति, दूष्यं वा परोक्तं साधनं विप्रतिषेधहेतुं वा न प्रतिपद्यते । सेयं परार्थोत्तरासंप्रतिपत्तिः उत्तरग्रहणं साधनमप्युपलक्षयति । स्वार्थोत्तराप्रतिपत्तिसतु साधनप्रतिषेधहेतू परकीयौ प्रतिपद्य तत् प्रतिषेद्धुं स्वकीयमुत्तरं न प्रतिपद्यत इत्यर्थः । चोदयतिस्वयं प्रयुक्ते वस्तुतः समर्थे साधने कथम्

अप्रतिपत्तिर्विप्रतिपत्तिर्वेति द्रष्टव्यम् । परिहरतितदापीति । समर्थसाधनज्ञानं साधनप्रतिपत्तिर्न साधनमात्रज्ञानमित्यर्थः ॥ १९ ॥

न्या.सू._१,२.२०: तद्विकल्पाञ्जातिनिग्रहस्थानबहुत्वम् ॥

सूत्रान्तरमवतारयितुं भाष्यकार आहकिं पुनरिति । यद्यपि साधर्म्यवैधर्म्याभ्यां दृष्टान्तस्यापि भेदः, तथापि लक्षणाभेदाभिप्रायेणाभेद उक्तः । तद्वित्वम् ॥ २०॥ नाना कल्प इति स्वरूपतः,

विविध इति प्रकारतः ।
यथालक्षणमिति यथास्वरूपमित्यर्थः ॥

अध्यायार्थं संक्षिप्याह वार्त्तिककारःतन्त्रप्रतिज्ञेति । तन्त्रस्य शास्त्रस्य प्रतिज्ञा प्रमाणादितत्त्वज्ञानान्निःश्रेयसाधिगम इति सूत्रम् । शास्त्रेमेव हि तत्त्वज्ञानमिति । संसारः दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानामिति । तन्निवृत्तिश्च संविदा उत्तरोत्तरापाये तदनन्तराभावाद् अपवर्ग इति ।

तस्मात् यः प्रमाणादिसूत्रेणोद्देशः, तत्परिकरो द्वितीयं सूत्रम्, द्वाभ्यामुद्देशः ।
शेषं सुबोधमिति ॥ २० ॥

॥ इति वाचस्पतिमिश्रविरचितायां न्यायवार्त्तिकतात्पर्यटीकायां प्रथमाध्यायस्य द्वितीयाह्निकम् ॥

॥ समाप्तः प्रथमाध्यायः ॥