न्यायवार्त्तिकतात्पर्यटीका/द्वितीयोध्यायः

विकिस्रोतः तः

न्यायवार्तिकतात्पर्य्यटीकायां

द्वितीयोऽध्यायः ।

अत ऊर्ध्वं प्रमाणादिपरीक्षेत्यादिभाष्यनिराकरणीयामाशङ्कामाह वार्तिककारः त्रिविधा चास्येति ।

(१८१।४) स्थानवतां क्रमवतां परीक्षावचनमिति प्रमाणमेव परीक्ष्यत इति युक्तमिति । किमत्रादौ प्रमाणं न परीक्षितं, किं तु संश्य एव परीक्ष्यत इत्याह । तानि विलङ्घ्येति । सोऽयं क्रमभेदः कुत इति भाष्यार्थमाह । परीक्षाङ्गत्वादिति । उद्देशक्रमानुरोधेन हि प्रमाणं पूर्वं लक्षितं, न तु लक्षणे संशयस्यास्ति कश्चिदुपयोगः । परीक्षा तु सर्वा विमर्षकरणिकेति परीक्षापर्वणि सर्वथा आर्थक्रमेण संशयस्य पूर्वभावः । यथाग्निहोत्रं जुहोति यवागूं पचतीत्यत्राग्निहोत्रात्प्राग्भावो यवागूपाकस्य, तस्याग्निहोत्रसाधनत्वात् । संशयलक्षणं चात्र परीक्ष्यते न संशय इति नानबस्थापि । देशयति । ननु चोक्तमिति । शास्त्रगता त्वियं परीक्षा, सा च न विमर्शपूर्वेत्यार्थक्रमाभावान्नोद्देशक्रमो बाधनीय इत्यर्थः । परिहरति सत्यं न निर्णये नियम इति । न निर्णयः सर्वः संशयपूर्वं, विचारः सर्व एव संशयपूर्वः, शास्त्रवादयोश्चास्ति विचार इति तेनापि संशयपूर्वेण भवितव्यम् । शिष्टयोश्च वादिप्रतिवादिनोः शास्त्रे विमर्शाभावो न शिष्यमाणयोः, तस्मादस्ति शास्रेऽपि विमर्शपूर्वो विचारैति सिद्धम् । संशीतिरिति संशयस्य निरुक्तम् । (१८२।२) नावधारयतीत्यर्थः ।

न्या.सू._२,१.१: समानानेकधर्माध्यवसायादन्यतरधर्माध्यवसायाद्वा न संशय ॥

ननु यथा लक्षणार्थः पूर्वनिरूपितस्तथा निर्बीजः पूर्वपक्ष इत्यत आह । तस्य यथाश्रुतीति । परीक्षासाध्यो ह्यर्थस्तत्र व्याख्यानेन लक्षणपदेभ्यः साक्षादेव गम्यत इत्यर्थः । समानमनयोरिति साक्षात्कारं दर्शयति । न हि साक्षात् स्थाणुपुरुषावुपलभमानः समानं चानयोर्धर्म कश्चित्सन्दिग्ध इत्यर्थः । व्यवच्छेदात्मकत्वादिति ।

न निश्चयोऽनिश्चयस्य जनकः, कारणानुरूपत्वात्कार्यस्येर्थः ।
न समानधर्माध्यवसायादेवेति संशयलक्षणोक्तकारणमात्रोपलक्षणपरम् ।
एकवृत्तित्वाच्चेति ।
न हि यावेवारोहपरिणाहौ स्थाणोस्तावेव पुरुषस्येत्यर्थः ॥ १ ॥

न्या.सू._२,१.२: विप्रतिपत्त्यव्यवस्थाध्यवसायाच्च ॥

न्या.सू._२,१.३: विप्रतिपत्तौ च संप्रतिपत्तेः ॥

न्या.सू._२,१.४: अव्यवस्थात्मनि व्यवस्थितत्वाच्चाव्यवस्थायाः ॥

विप्रतिपत्तौ च सम्प्रतिपत्तेरिति न स्वरूपविरोधाद्विप्रतिपत्तिरस्तीत्यर्थः ॥ २४ ॥

न्या.सू._२,१.५: तथात्यन्तसंशयस् तद्धर्मसातत्योपपत्तेः ॥

तथात्यन्तसंशय इति तत्पदान्तरेण समानधर्मोपपत्त्यादेर्विशेषणमपश्यतः पूर्वपक्षः ॥ ५ ॥

न्या.सू._२,१.६: यथोक्ताध्यवसायादेव तद्विशेषापेक्षात् संशये नासंशयो नात्यन्तसंशयो वा ॥

सिद्धान्तमाह अस्योत्तरमिति । ( १८३ । १३ ) यथोवा (सू. ६) ॥

यदि निर्विशेषणं समानधर्मोपपत्त्यादि संशयकारणमुच्येत ततः पश्चादकरणात्पूर्वमपि न कुर्यादित्यसंशयः पूर्वं वा करणात्त्पश्चादपि कुर्यादित्यत्यन्तसंशयः, न त्वसौ निर्विशेषणः संशयकारणमिति नासंशयो नात्यन्तसंशय इत्यर्थः । एतेनेति समानपदप्रयोगेण । सदृशार्थो हि समानशब्द इति पूर्वं व्याख्यातम् । यदप्येतत् सारूप्याभावाद (१८४।७)ध्यवसायसंशययोः कार्यकारणयोरिति । विशेषानवधारणमुभयोः समानमित्यर्थः । भाष्यकारेण तु यत्सारूप्यमुक्तं तत्तथा न बोद्धव्यम् । यदि हि कार्यकारणयोरुत्पत्तिः सारूप्यं तदतिव्यापकं चाव्यापकं च । नित्यानामपि कारणत्वात् । तस्मात्सारूप्यशब्दो न सारूप्यस्य निर्द्देशः । अपि तु कार्यकारणधर्मान्वयव्यतिरेकपर इत्याह । कारणसद्भावादिति । अनवधारणेनैव तत्त्वानुपलब्धेरिति प्रत्युक्तम् । सत्प्रतिपक्षयोरपि मिलितयोरन्यत्रादर्शनेनासाधारण एवान्तर्भावात्, एकैकविवक्षया तु हेत्वाभासान्तरत्वमिति भावः । न चाव्यवस्थातः संशय इति । (१८५।२) नासौ पृथक्कारणमपि तु समानधर्मोपपत्त्यादिपरिकरतयेत्यर्थः ।

यत्पुनरेतद्विप्रतिपत्ताविति ।
विषयापेक्षया विप्रतिपत्तिः स्वरूपापेक्षया सम्प्रतिपत्तिरिति ।
एवमव्यवस्थायामपि द्रष्टव्यम् ॥ ६ ॥

न्या.सू._२,१.७: यत्र संशयस्तत्रैवमुत्तरोत्तरप्रसङ्गः ॥

कोऽस्य सूत्रस्येति तात्पर्यप्रश्नः ।

उत्तरं स्वयमिति । संशयपूर्वकत्वात्सर्वपरीक्षाणां परिचिक्षिषमाणेन संशयाक्षेपहेतुभिर्न प्रतिषेद्धव्योऽपि तु परैरेवमाक्षिप्तः संशय उक्तैः समाधानहतुभः समाधेयः । वथोहित्वेति भाष्ये यदप्युक्तमित्यथः । शास्त्रकथायां वादलक्षणायामित्यर्थः ॥ ७ ॥

न्या.सू._२,१.८: प्रत्यक्षादीनामप्रामाण्यम् त्रैकाल्यासिद्धेः ॥

न्या.सू._२,१.९: पूर्वं हि प्रमाणसिद्धौ नेन्द्रियार्थसंनिकर्षात् प्रत्यक्षोत्पत्तिः ॥

अथ प्रमाणपरीक्षेत्यादिभाष्यम् ।

आर्थेन हि क्रमेण संशयपरीक्षायामुक्तेनोद्देशक्रमो बाधितः, प्रमाणादिषु तु तद्बाधकारणाभावाद् उद्देशक्रमानुरोधेन प्रमेयादिभ्यः प्राक् प्रमाणान्येव परीक्षितानि, तत्रापि प्रथमं प्रमाणसामान्यलक्षणपरीक्षा, तत्पूर्वकत्वाद्विशेषलक्षणानाम् । तत्र सामान्यलक्षणमुपलब्धिसाधनं प्रमाणमिति, तच्चोपलब्धिसाधनत्वं प्रत्यक्षादीनामेवेति प्रत्यक्षादीनामित्युक्तम् । तदेतदाह वार्तिककारः । अथेदानीमिति । (१८६ । १) परीक्षणीयं पृच्छति । किं पुनरेषामिति । सर्वैरेव वादिभिः स्वसिद्धान्तव्यवस्थापनाय प्रमाणान्यभ्युपगन्तव्यानि, तदभावे तद्व्यवस्थानुपपत्तेः । यस्य तु स्वपक्ष एव नास्ति, नासौ लौकिको न परीक्षक इत्युन्मत्तवदुपेक्षणीयः । तस्मात्सर्वप्राणभृत्सिद्धेर्न प्रमाणसामान्यं परीक्षणीयमिति भावः । उत्तरम्, आदौ तावत्संभव इति । न परीक्षा संशयमन्तरेणेति संशयबीजमाह । सदसतोरिति । पूर्वपक्षमाह । व्युदस्यसंशयमिति । अयमत्र पूर्वपक्षिणो माध्यमिकस्याभिसन्धिः । यद्यपि मम विश्वविचारासहत्ववादिनःप्रमाणं नाम न किञ्चिदस्ति विचारसहं, तथापि लोकसिद्धान्येव प्रमाणानि तैरेव प्रमाणैः पर्यालोच्यमानानि विचारं न सहन्ते, सोऽयं प्रमाणानामपराधो यानि स्वविरोधेन विलीयन्ते न ममापराध इति । ज्ञानं हि प्रमाणं तद्योगात्प्रमेयमिति चार्थ इति च भवति । तद्यदि प्रमाणं पूर्वं प्रमेयादर्थादुत्पद्यते ततः प्रमाणात्पूर्वं नासावर्थ इति इन्द्रियार्थेत्यादिसूत्रव्याधातः ॥ ८९ ॥

न्या.सू._२,१.१०: पश्चात्सिद्धौ न प्रमाणेभ्यः प्रमेयसिद्धिः ॥ १० ॥

अथ पूर्व प्रमेयं पश्चात्प्रमाणं तत्राह ।

पश्चादिति ।
यद्यपि स्वरूपं न प्रमाणाधीनं, तथापि तस्य प्रमेयत्वं तदधीनं, तदपि चेत्प्रमाणात्पूर्वं न प्रमाणयोगनिबन्धनं स्यादित्यर्थः ।
तदिदसुक्तं प्रमेयसंज्ञेति ॥ १० ॥

न्या.सू._२,१.११: युगपत्सिद्धौ प्रत्यर्थनियतत्वात् क्रमवृत्तित्वाभावो बुद्धीनाम् ॥

यौगपद्ये दृष्टव्याघातः, सूत्रव्याघातश्च । प्रयोगस्तुप्रत्यक्षादयो न प्रमाणत्वेन व्यवहर्त्तव्याः कालत्रयेऽप्यर्थाप्रतिपादकत्वात् । यदेवं न तत्प्रमाणत्वेन व्यवह्रियते, यथा शशविषाणं, तथा चैतत्तस्मात्तथेति । एवं पूर्वपक्षिते सिद्धान्तमाह । अत्र समाधिरिति । उपलब्धिहेतोरित्यादिभाष्यस्य कालत्रयेऽप्यर्थाप्रतिपादकत्वादिति हेतोरसिद्धतोद्भावनमर्थः । स्वयं वार्त्तिककारोऽस्यानुमानस्य दूषणमाह । प्रत्यक्षादीनामप्रामाण्यमिति चेति । (१८७।२) लब्धात्मकं खल्वनुमानं प्रत्यक्षादीनां प्रमाणानामप्रामाण्यमापादयेत्, न त्वलब्धात्मकं, तस्य तु प्रतिज्ञाविरोधेनात्मलाभ एव नास्तीति कथं तेषामप्रामाण्यमापादयितुमर्हतीति भावः । यदि प्रमाणानि नार्थं साधयन्ति, प्रत्यक्षादीनीत्येव न स्यात् । न खलु तानि प्रमाणतोऽसिद्धानि प्रत्यक्षादीनीत्येव भवन्तीत्यर्थः । न चैतेषामर्थसांधनत्वं सामान्यविशेषाभिधायिप्रत्यक्षादिपदगोचरतापीत्याह । कथं चान्यथेति । अपि च प्रामाण्यनिषेधे न प्रमाणानां प्रत्यक्षादीनामसत्त्वम् । न ह्यकमण्डलुर्माणवक इत्यनेन माणवकः प्रतिषिध्यते, किं तर्हि ? तस्य कमण्डलुयोगो धर्मः, ततश्च प्रमाणानामसत्त्वं पूर्वपक्षिणोऽभिमतं न स्यादित्याह । धर्मप्रतिषेधाच्चेति । शङ्कते । अथ भावस्यास्वतन्त्रत्वादिति । निराकरोति । एवमपीति । प्रतिषिध्यमान (१८८।३) इति मात्रे वक्तव्पये विधीयमान इति दृष्टान्तार्थम् । एतेन तद्धितार्थ इति । प्रामाण्यपदार्थ इत्यर्थः । यथाश्रुतश्च हेतुर्व्यधिकरण इत्याह । यश्चायं हेतुरिति । यत्पुनरित्यादि भाष्यं व्याचष्टे । यत्पुनरेतत्प्रमाणेनेति । संभवः प्रत्यक्षादीनां निवर्त्यत इति । प्रत्यक्षादीनामभावे कारकहेतुवचनमित्यर्थः । असम्भवं प्रत्यक्षादीनां सिद्धमेव ज्ञापयतीत्याह । अथासम्भवो ज्ञाप्यते । न ह्यसतो निवृत्तिरिति (१८९।३) नासनू घटो मुद्गरप्रहारेण निवर्त्त्यत इत्यर्थः ॥ ११ ॥

न्या.सू._२,१.१२: त्रैकाल्यासिद्धेः प्रतिषेधानुपपत्तिः ॥

देशयति । त्रैकाल्यासिद्धेः प्रतिषेधानुपपत्तिरित्येवमभिधानेनेति । परिहरति । नैष दोष इति । त्वद्वचनं त्वदभ्युपगमविरुद्धमस्माकं तु नैतद्वचनं नाभ्युपगमविरुद्धमित्यर्थः । न च धर्मिणां प्रतिषेधे कश्चिन्न्याय इति । (१९०।१) नानुमानं धर्मिप्रतिषेधे प्रभवति, आश्रयासिद्धत्वाद्धेतोरित्यर्थः । अपि च प्रमाणमात्रमधिक्षिपतः प्रत्यक्षादीनामप्रामाण्यमिति प्रत्यक्षादीनां प्रामाण्यमिति च वाक्ययोरर्थभेदाभेदौ विचारं न सहेते इत्याह । प्रत्यक्षादीनामप्रामाण्यमिति । एवमेव वक्तव्यमिति । नञोरप्रयोगेण लाघवात् । सोऽसाधर्म्ये वेतिति । यदा सत्येव घटे तस्यासामर्थ्यं विवक्षित्वोच्यते नास्ति घट इति नोदकाहरणसमर्थ इति तदा गम्यते । तन्त्रान्तराभ्युपगतानां प्रतिषेध इति । तन्त्रान्तरे यादृशं प्रमाणमग्युपेयते तादृशस्याभ्युपगमो भवति । यथा प्रधानं नास्तीति जगत्कारणस्य सुखदुःखमोहात्मकत्वं प्रधानत्वं तत्प्रतिषिध्यते, न युनर्जगत्कारणं, तस्यान्यादृशस्याभ्युपगमादिति । कथमिति प्रमाणाक्षेपः । कस्येति प्रतिपाद्याक्षेपः । कश्चेति प्रतिपादकाक्षेपः । प्रतिपाद्याक्षेपं विभजते । अप्रतिपन्न इति । प्रतिपादकाक्षेपं विभजते । प्रतिपन्नश्चेति । क्व ( १९१ । १ ) प्रतिपाद्ये । किं प्रतिपाद्यत इति ॥ १२ ॥

न्या.सू._२,१.१३: सर्वप्रमाणप्रतिषेधाच्च प्रतिषेधानुपपत्तिः ॥

यद्युपादीयते उदाहरणं तत्प्रमाणेनानवधारितं न शक्यमुपादातुमिति भावः । न केवलमशक्यं व्यर्थं चेत्याह । प्रत्यक्षादीनां चेति । सर्वैः प्रमाणैरिति । उहाहरणादिविषयैः प्रमाणैर्विप्रतिषिद्धो विरुद्धो भवति, बाधितविषयतया प्रमाणाभासो भवतीत्यर्थः । विरुद्धं चेत्याह ।

सिद्धान्तमभ्युपेत्येति ।
प्रमाणानामित्यवयवाभिप्रायम् ।
अवर्जयन्निति वर्जनविरुद्धमुपादानमुच्यते, उपाददान इत्यर्थः ॥ १३ ॥

न्या.सू._२,१.१४: तत्प्रामाण्ये वा न सर्वप्रमाणविप्रतिषेधः ॥

तत्प्रामाण्येवेति । अस्यार्थः । यदि माध्यमिको ब्रूयात् प्रत्यक्षादीनामप्रामाण्यं त्रैकाल्यासिद्धेरिति स्ववाक्यावयवाश्रितानि प्रमाणानि यथालोकप्रतीतिसिद्धानि, तैरविचारितसिद्धैरितरेषां प्रामाण्यं प्रतिषिध्यत इति । तत्रेदमुच्यते । तत्प्रमाण्ये वा अवयवाश्रितप्रतयक्षादिप्रामाण्ये न सर्वप्रमाणविप्रतिषेधोऽवयवाश्रितानामेव प्रामाण्याभ्युपगमात् । किं पुनरिदमविचारितसिद्धत्वं, किं विचारासहत्वम्, आहो सर्वजनसिद्धतया सन्देहानास्पदत्वम् । तत्र पूर्वस्मिन्कल्पे विचारासहत्वेन स्वयं दुस्थितेनान्येषां प्रामाण्यं बाध्यत इति सुभाषितम् । तस्मादुत्तरः कल्पः, तथा च न सर्वप्रामाण्यं तस्यैव प्रामाण्यात् । अत्र भाष्यं, वीत्ययमुपसर्गः सम्प्रतिपत्त्यर्थे प्रतिषेधशब्दार्थमनुजानाति विशेषमभिदधातु न तु तद्व्यतिरिक्तार्थो न व्याघातवचन इत्यर्थः । तदिदमुक्तं न व्याघाते । कस्मादर्थाभावात् । स्ववाक्यावयवाश्रितानां हि प्रमाणानां प्रामाण्ये सर्वप्रमाणप्रतिषेधव्याघातः पूर्वमुक्तस्तत्प्रतिषेधः पूर्वेणविरुध्यते । अशक्यश्चेति अर्थाभाव इत्यर्थः । तदेतद्वार्त्तिककारो व्याचष्टे । वीत्ययमुपसर्गोविशेषप्रतिषेधे । ( १९२ । १ ) यावदुक्तं भवति विशेषेण सर्वेषु प्रमाणेषु प्रतिषेध इति, तावदुक्तं भवति विप्रतिषेध इति, प्रतिषेधशब्दार्थाभ्यनुज्ञानत्वाद्विशब्दस्य ।

तेन न सर्वप्रमाणविप्रतिषेध इत्यनेन विपदसहितेन किमुक्तं भवति ।
इदमुक्तं भवति कानिचिदिति ।
अवयवाश्रितानि प्रमाणानि विचार्य समुदायं विचारयति ।
चच्चेति ॥ १४ ॥

न्या.सू._२,१.१५: त्रैकाल्याप्रतिषेधश्च शब्दादातोद्यसिद्धिवत्तत्सिद्धेः ॥

तदिदं सूत्रकारेण त्रैकाल्यासिद्धेरित्यनुयागस्यप्रतिषेधेऽपि साम्यादप्रमाणविरोधश्चापादितः, सम्प्रत्यसिद्धतोद्भावनपरं सूत्रं पठति । त्रैकाद्धेः सू. १५ तत्पाठमाक्षिपति । किमर्थमिति । स्वातन्त्र्येण चेदस्य सूत्रस्यार्थः पूर्वमुक्तः, कृतं सूत्रपाठेनेत्यर्थः । परिहरति । पूर्वोक्तेति । न तदस्माभिरुत्सूत्रमुक्तमपि तु सूत्रार्थ एवेति ज्ञापनार्थं सूत्रपाठोऽस्माकमित्यर्थः । नियमेन यः प्रतिषेधः पूर्वमेव वा पश्चादेव वा सहैव वेति तं प्रतिषेधति । अनियमेति । खलुशब्दोऽयं यस्मादर्थे । यस्मादनियमदर्शोंऋषिः । वार्तिकं तदुत्थानज्ञापनार्थः सूत्रपाठ इति दर्शयति । पाठक्रममतिलङ्घ्य कस्मात्तत्रैवेदमिति । अत्रैव तद्भाष्यं कस्मान्नोक्तमिति च द्रष्टव्यम् । परिहरति । अविशेषादिति । अथ शब्दः श्रोत्रविवरे समवेतः कथमातोद्यमसंबद्धं गमयतीत्यत आह । योऽसौ वीणावेणुशब्दयोरिति । अयं शब्दो धर्मी वीणाङ्गुलिसंयोगजशब्दपूर्व इति साध्यो धर्मः, तन्निमित्तासाधारणधर्मवत्त्वात्,

पूर्वोपलब्धवीणानिमित्तध्वनिवदिति ।
तदिदमुक्तं वीणानिमित्तकत्वमिति ।
धूमदर्शनादिति ।
संयोगिना हि वह्निना विशिष्टो धूमोऽनुमीयते न कारणेन, अस्तीति वर्त्तमानावभासानुपपत्तेरिति ॥ १५ ॥

न्या.सू._२,१.१६: प्रमेयता च तुलाप्रामाण्यवत् ॥

यत्पुनराक्षिप्यते यदनियतं न तत्परमार्थसत्यथा रज्ज्वामारोपितं सर्पत्वं, तामेव हि रज्जुं तदैव कश्चित्सर्प इति कल्पयति कश्चिद्धारेति । स एव कदाचित्सर्प इति कल्पयित्वा पश्चाद्धारेति कल्पयति, तथा च प्रमाणप्रमेयभावस्तस्मान्न परमार्थसन्निति । अत्रेदमुत्तरसूत्रम् । प्रमेया च तुला प्रामाण्यवदिति (सू. १६) । तद्योजनिकां करोति । प्रमाणं प्रमेयमिति चेयमिति । अयमभिसन्धिः । क्षणभङ्गपरिणामनिरासे सति स्वकारणादुत्पन्नं स्थिरं वस्तु तत्तद्वस्त्वन्तरसन्निधानात्तत्तद्धर्मयोगे सति तत्तदबुद्धिव्यपदेशमनुभवति । समावेशं दर्शयितुंपृच्छति । यदा पुनरिति । ( १९३ । १ ) उत्तरम्, तदा निमित्तेति । अस्वय चार्थस्य ज्ञापनार्थं सूत्रं प्रमेया च तुलाप्रामाण्यवदिति । न केवलं प्रमाणं समाहारगुरुत्वे तुला, यदा पुनरस्यां सन्देर्हे भवति प्रामाण्यं प्रति तदा सिद्धप्रमाणभावेन तुलान्तरेण यत्परीक्षितं सुवर्णादि तेन प्रमेया च तुला, प्रामाण्यवत् । यथा प्रामाण्ये तुला प्रमेया च तथान्यदपि सर्वं प्रमाणं प्रामाण्ये प्रमेयमित्यर्थः । तदेतद्भाष्यकृदाह, एवमनवयवेन कार्त्स्न्येन । तन्त्रार्थः । शास्त्रार्थ इति । क्वचित्प्रमातृत्वप्रमेयत्वप्रमाणत्वादीनां समावेशो यथाऽत्मनि । स हि प्रमाता प्रमीयमाणश्च प्रमेयं, तेन तु प्रमितेन तद्गतगुणानतरानुमाने प्रमाणम् । क्वचित्पुनः प्रमाणत्वप्रमेयत्वफलत्वानां समावेशो यथा बुद्धौ, क्वचित्पुनः प्रमाणत्वप्रमेयत्वयोः,यथा संशथादौ । सेयं समावेशस्य तन्त्रार्थव्याप्तिरिति । तथा च कारकशब्दा इति । अत्र पूरयित्वा व्याचष्टे वार्तिककारः । यथा च प्रमाणेति । यावन्ति । यत्र निमित्तानि तावतां तत्र नैमित्तिकानां प्रवृत्तेरवश्यंभावो नियमः । खस्थितौ वृक्षः स्वातन्त्र्यात्कर्तेति भाष्यम् । तत्र स्वातन्त्र्यं पृच्छति वार्त्तिककारः, किं पुनः स्वातन्त्र्यमिति । इतरकारकाप्रयोज्यत्वं, (सः प्रयोजकोऽयं न कारकान्तराणां) प्रयोजकत्वं च कारकान्तराणां कर्तुः स्वातन्त्र्यमुक्तम । इह तु कारकान्तराणामभावात्तादृशं स्वातन्त्र्यं नास्तीति भावः । उत्तरं कारकान्तरानपेक्षत्वं, कारकान्तरापेक्षस्य हि प्रयोजकतया कथञ्चित्स्वातन्त्र्यं विवक्ष्यते तदनपेक्षस्य नितरां स्वातन्त्र्यमित्यर्थः । यदायं स्थितिशब्दो गतिप्रतिषेधवचन इति । यावदुक्तं भवति न गच्छतीति, तावदुक्तं भवति तिष्ठतीति । अत्र च निषेधस्य निषेध्याधीननिरूपणतया तदुपाधिः पूर्वापरीभावो न तु स्वरूपेण निषेधस्य पूर्वापरीभावसम्भव इति । यदाप्यस्तेरभिधायक इति । सत्तासामान्याभिधायक इत्यर्थः । अस्ति व्यनक्तीति । वृक्षस्य हि महत्त्वे सति रूपवत्त्वे सति सत्तासमवाय एव सत्ताव्यञ्जकत्वम्, तत्र चानपेक्ष इत्यर्थः । गेहसम्बन्धानुभावो ( १९४ । २ ) गेहसम्बन्धप्राप्तिः समवायः । तद्विषया क्रिया गतिविधारकः प्रयत्नस्तेन हि स तिष्ठति । घटो गृहेस्तीति त्वौपचारिकः प्रयोगः । यदाप्ययमभग्नवचन इति । अत्रापि निषेध्यस्य पूर्वापरीभावोपाधिरेव निषेधस्य तथाभावः । अथ वा तिष्ठतीत्यत्रापि कया चिद्विवक्षया कारकान्तरापेक्षास्तु, तथापि तत्प्रयोजकत्वेनैव स्वातन्त्र्यमित्याह । समुदायेति । अवयवानां समूहः समुदायस्तदेकदेशोऽवयव इति । ध्रियत इति कर्त्तरि लकारः । प्रत्यभिज्ञानविषयता वा स्थितिः । तस्यां सत्यामपि कारकान्तरापेक्षायां प्रयोजकतया स्वातन्त्र्यमित्याह । पूर्वापरेति । अनेके पर्यायवन्तः प्रत्ययाः प्रागनु तत्ताश्रयस्य धर्मिणः पुनरनुभवः । अथ स्मृतिरथ प्रतिसन्धानमिति । वैनाशिको देशयति । चक्रेति । यदेव दण्डसंयोगेन चक्रभ्रमणं तदेवेदमुपरतेऽपि दण्डसंयोगे इत्यर्थः । परिहरति न प्रमाणेति । नासति बलवति बाधके प्रमाणे प्रत्यभिज्ञानस्य शक्यं मिथ्यात्वं, ज्वालादिषु तु तदस्तीत्यर्थः । न च समस्तप्रतिसन्धानप्रत्ययमिथ्यात्वे मिथ्याप्रतिसंधानप्रत्ययो भवितुमर्हति बीजा (भावा) दित्याह । मिथ्याप्रत्ययाश्चेति । वैनाशिकः पृच्छति । अथ भवत इति । एवं ब्रुवाणः प्रत्यक्षमप्रमाणयन्न शक्यस्तेन बोधयितुमित्यनुमानं प्रमाणमाह । उक्तं प्रमाणमात्मलक्षणे । रूपेति । (१९५।४) अनुमानान्तरमाह । कारयिस्येति । कार्यकालानुभवनं कार्यकालप्राप्तिः । वैनाशिकः शङ्कते । अनाघारमिति । प्रतीत्य पूर्वभावं विकृत्येत्यर्थः । दूषयति । तन्नेति । ओधयस्याधारसमानकालत्वमनुभवसिद्धं तेनाधारेण कारणेनु कार्यकालं स्थातव्यम् । अनाधारत्वं तु कार्यस्य नानुभवगोचरः, अपि तु युक्त्या साध्यं, सा च दृष्टान्ताभावादनुपपन्ना । न च विप्रतिपत्तिमात्रादनुभवः शक्योऽपवदितुं, क्षणभङ्गसाधनानि च निराकरिष्यन्ते । यदि हि रूपादीनामाधारवत्त्वं निषिध्यते ततोऽस्याभ्युपगमविरोधोभवति, भूतानि पूथिव्यादीनि भौतिका रूपादय इति । अभ्युगमान्तरविरोधमाह । यच्चेक्तं भवद्भिरिति । न केवलं रूपादीनामाश्रितत्वं भवद्भिरभ्युपगतमुपपन्नं चेत्याह । अनाश्रितत्वाच्चेति । पृच्छति । कर्मणि कः कारकार्थः । (१९६।३) कारकशब्दार्थः । क्रियानिमित्तं हि कारकं यत्पुनः क्रियाया एव व्याप्यं न तत्क्रियानिमित्तमिति न कारकम् । अकारकं च कथं कर्म । कारकाधिकारित्वात् कर्मसंज्ञाया इति भावः । उत्तरं क्रियाविषयत्वमिति । अनात्मसमवेतक्रियाफलशालित्वं क्रियाविषयत्वं कर्मत्वं, देवदत्तसमवेतया हि क्रियया दर्शनलक्षणया वृक्षविषयोऽनुभवोजन्यते, इदमेव चानुभवस्यार्थविषयत्वं यदर्थाधीननिरूपणत्वमित्युक्तं प्रमाणलक्षण इति । तेन क्रियांविषयस्य क्रियातः प्राग्भावाद्युक्तं कारकत्वम् । एवं च विकार्यप्राप्ययोरुपपन्नः कर्मभावः निर्वर्त्यस्य तु पदादेर्यद्यपि क्रियायाः प्राग्भावो नास्ति, तथापि तदवचवानां तन्तून प्राग्भावस्तेषां तादर्थ्येन पटत्वे उपचारात्पटं करोतीति युक्तः प्रयोगः । तथा हि सहचरणादिसूत्रे वक्ष्यति कटार्थेषु वीरणेष्विति । एतेन कर्मलक्षणेनार्हि लङ्घयति, ग्रामं गच्छन् वृक्षमूलान्युपसर्पतीत्यादयोऽपि सङ्गृहीता वेदितव्याः । नगरं गच्छति चैत्र इत्यत्र यथा प्राप्तिर्नगरसमवेता, एवं चैत्रसमवेतापीति चैत्रस्यापि क्रियाजनिकफलशालिनो मा भूत्कर्मत्वमित्यत उक्तमनात्ममवेतेति । आत्मविषयेऽपि च मानसप्रत्यक्षे यद्यप्यात्मनो न कर्मता, तथापि ज्ञानक्रिया सकर्मिकैवात्मधर्मस्यात्मव्यतिरिक्तस्य कस्यचित्कर्मणो ःवभासनादिति सर्वमवदातम् । वृक्षः सम्प्रदानं भवतीति । पाणिनीयलक्षणानुरोधेन लौकिकप्रयोगानुरोधाच्च सम्प्रदानमिति नेयमन्वर्थसंज्ञेति भावः । गुरुत्वप्रतिबन्धे कारणमिति प्रकृतोदाहरणाभिप्रायम् । तथा च गुणादीनामप्योधेयत्वाधिगतेर्द्रव्यादिभिराधेयभावः सिद्धो भवति । तेन न द्रव्यस्वभावः कारकमिति यदुक्तं माध्यमिकेन तदस्माकमभिमतमेव, काल्पनिकं तृ कारकं न मृष्यामह इत्यनेनाभिसन्धिना भाष्यकारेणोक्तम् । एवं च सतीति । न क्रियामात्रमिति(१) । नावान्तरक्रियामात्रम् । यत्प्रधानक्रियासाधनमवान्तरक्रियाविशेषयुक्तमिति । तदेतदनुभाष्य वार्तिककारो व्याचष्टे । एवं च सतीति । तदनेन कारकसामान्यमुक्तम् । विशेषलक्षणपरं भाष्यं यत् क्रियासाधनं स्वतन्त्रमिति, तद्व्याचष्टे यदा तु विशेष इति । (३९७।२) स्यादेतत् । क्रियासाधनकित्येतावदेवास्तु, क्रियाविशेषयुक्तमिति वा कृतभुभयोपादानेनेत्यत आह । सर्वस्य च कारकस्येति । यद्यवान्तरक्रियामात्रमुच्यते ततस्तस्मिन् सर्वस्य कर्त्तृत्वात्कारकवैचित्र्यं न स्यात्, प्रधानक्रियामात्रोपादाने च तत्र सर्वेषामवान्तरव्यापारमन्तेरण वैचित्र्यायोगादत उभयोपादानं प्रयोजनवदिति । एवं लक्षणत इति भाष्यं व्याचष्टे । एवं च शास्त्रमिति । देशयति । यदीति । परिहरति । न शक्तेरिति । पुनर्देशयति । शक्तेरिति । परिहरति । नैष दोष इति । ननु बुध्द्यादयोऽपि शक्तिव्यक्तिहेतवो न चैते क्रियारूपाः, किन्तु गुणरूपा इत्यत उक्तं क्रियेत्यनेनेति । सामर्थ्यंबलम् । दुर्बलो हि जानन्नप्युपायं न व्यापारयति, यथा पाणिना कुण्ठः कुठारं, तेन शक्तिक्रियासम्बन्धयोः कारकशब्दो मुख्यः, शक्तिमात्रे तु गौण इति । प्रकृते योजयति । कारकशब्दाश्चायमिति । (१९८।५)

न्या.सू._२,१.१७: प्रमाणतः सिद्धेः प्रमाणानां प्रमाणान्तरसिद्धिप्रसङ्गः ॥

सम्प्रति प्रकारान्तरेण प्रमाणान्याक्षिप्य समाधीयन्ते । अस्ति भोः कारकशब्दानामिति । (१९८।७) अत्रैते कल्पा उपप्लवन्ते । किं प्रत्यक्षादीनामुपलब्धिः समाधना निःसाधना वा । यदापि ससाधना तदापि किमेभिरेव प्रत्यक्षादिभिराहो प्रमाणान्तरेण । यदाप्येभिस्तदापि किं तयैव प्रत्यक्षव्यक्त्या । अथैका व्यक्तिर्व्यक्त्यन्तरेणेति । तत्र प्रमाणान्तराभ्युपगमे विभागसूत्रव्यावातः, अनवस्थापातश्च । तत्र प्रत्यक्षादिभिः प्रत्यक्षाद्यन्तराणां ग्रहणे अनवस्थापातः । तयैव व्यक्त्या तु ग्रहणे आत्मनि वृत्तिविरोधः । न हि तयैवासिधारया सैवासिधारा छिद्यते । तस्मादसाधना प्रमाणोपलब्धिः, एवं चेत् कृतं प्रमेयसाधनैः प्रमाणैः, प्रमाणवदसाधनैवास्तु प्रमेयोपलब्धिरिति पूर्वः पक्षः । नासाधना प्रमाणसिद्धिर्नापि प्रत्यक्षादिव्यतिरिक्तप्रमाणाभ्युपगमो येन विभागसूत्रव्याघातः स्यात् । नापि च तयैव व्यक्त्या तस्या एव ग्रहणमुपेयते, येनात्मनि वृत्तिविरोधा भवेत् । अपि तु प्रत्यक्षादिजातीयेन प्रत्यक्षादिजातीयस्य ग्रहणमातिष्ठामहे । न चानवस्था अस्ति किं चित्प्रमाणं यस्त्वज्ञानेनान्यधीहेतुः, यथा धूमादिः । किंञ्चित्पुनरज्ञातमेव बुद्धिसाधनं यथा चक्षुरादि, तत्र पूर्वं स्वज्ञाने चक्षुराद्यपेक्षं चक्षुरादि तु ज्ञानानपेक्षमेव ज्ञानसाधनमितिक्वानवस्था, बुभुत्सपा च तदपि शक्यज्ञानं साच कदाचिदेवक्वचिदिति तदर्थं प्रमाणान्तरपेक्षायामनवस्थेतिवाच्यम् । दृष्टार्थे संशयादपि प्रवृत्तौ सत्यां प्रवृत्तिसामर्थ्येन तस्य सुज्ञानत्वात्, अदृष्टार्थेषु प्रवृत्तिसामर्थ्यावघृतमामाण्यप्रमाणसाधर्म्येण तस्यशक्यज्ञानत्वादिति दर्शितं प्रथमे सूत्रे । तस्माप्रत्यक्षादिभिः प्रत्यक्षादीनामुपलब्धिर्नचानवस्थेति सिद्धान्तः । भाष्यंभो इखामन्त्रणे ।

कुतः पुनरुपलब्धिहेतुत्वमत आह ।
संवेद्यानिचेति, चोहेतौ ।
उपलब्धिविषयत्वं कुत इत्यत आह ।
प्रत्यक्षं मे ज्ञानमिति ॥१७ ॥

न्या.सू._२,१.१८: तद्विनिवृत्तर्वा प्रमाणसिद्धिवत् प्रमेयसिद्धि ॥

न्या.सू._२,१.१९: न प्रदीपप्रकाशसिद्धिवत् तत्सिद्धेः ॥

प्रदीपभावाभावयोर्दर्शनस्य तथाभावात् । ज्ञातृमनसोश्च दर्शनादिति (१००।१) भाष्यं, तद्व्याचष्टे वार्तिककारः । न चायमेकान्त इति । ज्ञाता ज्ञेय इति सकर्माभिप्रायं, न ह्यन्यस्पवय समवेता ज्ञानक्रिया येनात्मनः कर्मता स्यात् अपि तु ज्ञातृस्थैव, परसमवेतक्रियाफलशालि हि कर्मेत्युक्तं, तस्मात्सुखादीनामात्मधर्माणामत्र कर्मता, आत्मनस्तु प्रकाशमानता, तत्र विवक्षया ज्ञेयत्वाभिधानं, मनस्तु यद्यपि स्वज्ञानं प्रति करणं कर्म च, तथापि न स्वात्मान वृत्तिविरोधः । यदि हि ज्ञातं करणं भवेत्तदाऽत्माश्रयदोषप्रसङ्गः । स्वसत्तया च ज्ञानं प्रति करणम्, अन्यच्चास्य ज्ञानमन्या सत्ता, न च तत्समवेता ज्ञानक्रिया, किं त्वात्मसमवेता, तस्माज् ज्ञेयत्वं ज्ञानसाधनत्वं च मनसो न दोषमर्हतीति । येतु प्रदीपप्रकाशो यथा न प्रकाशान्तरमपेक्षते, एवं प्रमाणान्तरमनपेक्षमाणान्यपि सन्ति भविष्यन्तीत्याचार्यदेशीया मन्यन्ते, तान् प्रत्याह ।

न्या.सू._२,१.१९[अ]: क्वचिन् निवृत्तिदर्शनाद् अनिवृत्तिदर्शनाच् च क्वचिद् अनेकान्तः ॥

क्वचिन्तः (सू. १९) ॥

यथायं प्रसङ्गः प्रमाणानामनपेक्षत्वप्रसङ्गः, प्रदीपे प्रदीपान्तरानपेक्षया प्रकाशकत्वदर्शनात्प्रमाणान्तरानपेक्षाण्येवालोकवत्प्रमाणानि सेत्स्यन्ति, एवमर्थमुपादीयते प्रसङ्ग, प्रमेयाण्यप्यनपेक्षाण्येव सेत्स्यन्तीत्येवमर्थमप्युपादेयः, तथा च प्रमाणभाव इत्यर्थः । तदेवं प्रदीपदृष्टान्ताश्रयणेन प्रमाणाभावप्रसङ्गमुक्त्वा स्थाल्यादिदृष्टान्तोपादाने तु प्रमाणस्यापि प्रमाणान्तरापेक्षेत्पयाह । यथा च स्थाल्यादिरूपग्रहण इति । तदेतद्भाष्यं व्याचष्टे वार्तिककारः, यथा प्रदीपप्रकाशः सजातीयानपेक्षस्तथा प्रमाणानि सजातीयानपेक्षाणि न पुनर्यथा स्थाल्यादिरूपं प्रमाणापेक्षं तथा प्रमाणान्यपि प्रमाणापेक्षाणीति । कस्मात्पुनः स्थाल्यादिरूपं प्रमाणापेक्षमित्यत आह । स्थाल्यादिरूपप्रकाशने चेति । २०० । १८ प्रदीपप्रकाशस्तत्र प्रमाणमिति लोकसिद्धमित्यर्थः । कस्मादेवं स्थालीरूपवन्न प्रमाणानि, तान्यपि प्रमाणान्तरेण प्रकाश्यन्तामित्यर्थः । तदनेन प्रदीपदृष्टान्तेन निरपेक्षत्वं न तु स्थाल्यादिदृष्टान्तेन सापेक्षत्वमित्यत्र नियमहेतुर्नास्तीत्युक्तं, नियमान्तरहेत्वभावमाह । अयं च प्रदीपप्रकाशदृष्टान्त इति । यथा हि प्रमाणानि प्रदीपदृष्टान्तेन निरपेक्षाणि, एवं तेनैव दृष्टान्तेन कस्मान्नप प्रमेयाण्यपि, ततश्च प्रमाणाभावप्रसङ्गः । न हि प्रमाणानामेव प्रदीपो दृष्टान्तो न प्रमेयाणामिति नियमहेतुरस्ति । तदनेन यथा प्रसङ्ग इति भाष्यं व्याख्यातम् । प्रदीपप्रकाशो दृष्टान्तो भवत्वि त्यनेनायमेव दृष्टान्तो नायमिति नियमो निराकृतः, पूर्वेण तु प्रदीपदृष्टान्तेन निरपेक्षत्वमेव न तु स्थालीदृष्टान्तेन सापेक्षत्वमित्ययं नियमो निराकृत इति न पुनरुक्तम् । प्रकाशकत्वादिना तु हेतुना संगृहीतः प्रदीपदृष्टान्तो भवतीति नियमः शक्यो वक्तुम् । केवलं प्रकाशकत्वं सजातीयान्तरानपेक्षत्वे साध्ये विकल्पनीयं, किमत्यन्तसजातीयमाहो सजातीयमात्रं, यद्यत्यन्तसजातीयं ततः सिद्धसाधनं, न हि चक्षुरादि प्रमाणं स्वग्रहणे चक्षुराद्यन्तरमपेक्षते, अथ कथञ्चित्सजातीयं, तदपेक्षत्वमालोकस्याप्यस्ति, तस्यापि चक्षुराद्यपेक्षत्वात्ततश्च साध्यहीनो दृष्टान्तः, विरुद्धश्च हेतुर्विषयज्ञानमपि विषयज्ञानेन न गृह्यते किन्तु ज्ञानविषयेण ज्ञानेनेति नात्यन्तसजातीयमिति, तदनेनाभिप्रायेण वार्तिककृतोक्तमनेकान्त इत्ययं दोषो न भवति । (२०१।३) दोषान्तरं तु भवतीत्यर्थः ।

इतरग्रन्थस्तु सिद्धान्तं दर्शयद्भिरस्माभिरुपपादितार्थ इति न व्याख्यातः ।
येनानवस्थामुपाददीतेति सोपहासम् ॥ १९ ॥

न्या.सू._२,१.२०: प्रत्यक्षलक्षणानुपपत्तिर् असमग्रवचनात् ॥

प्रत्यत् (सू. २०) ॥

प्रत्यक्षलक्षणं चानेन सूत्रेणोच्यते प्रत्यक्षस्वरूपं वा, न तावत्प्रत्यक्षकारणमित्याह । यदिदं भवता प्रत्यक्षलक्षणमुच्यत इति । प्रत्यक्षकारणामित्यर्थः । कारणे सति कार्यं लक्ष्यते ज्ञानमिति । द्वितीयं कल्पं शङ्कते अथेति । (२०२।१)सिद्धान्तवाद्याह । नोभयथापीति । लक्षणपक्ष एव सिद्धान्तोऽभिमतः, कारणपक्षाभ्युपगमः प्रौढिवादेन द्रष्टव्यः । सकलप्रत्यक्षव्यापकमसाधारणं कारणमवधार्यते । न हीदृशमन्यत्कारणमात्ममनः संयोगो वा इन्द्रियमनः संयोगो वा प्रत्यक्षस्यास्ति, पूर्वस्य साधारणत्वाद् उत्तरस्य चाव्यापकत्वादिति । समाधानान्तरमाह, अर्थतो वेत्यादिना मनःसन्निकर्षोऽपि कारणमित्यन्तेन ॥ २० ॥

न्या.सू._२,१.२१: नात्ममनसोः संनिकर्षाभावे प्रत्यक्षोत्पत्तिः ॥

तदेवं सिद्धान्तसारमुक्तं नात्ममनसोरित्यादिसूत्रमपठित्वैव भाष्यकारो व्याचष्टे । न चासंयुक्ते द्रव्य इति । सर्वं हि कारणजातं कार्योपजननाय परस्परसमवधानमपेक्षते, अन्यथाप यत्र तत्र स्थितेभ्योऽपि कारणेभ्यः कार्यमुपजायेत । तदात्मनापि मनः संबद्धेन कार्यञ्जनयितव्यं, सम्बन्धश्चात्ममनसोः संयोग एव । भवतु वा संयोगजं ज्ञानम्, अर्थेन्द्रियात्मसंयोगजं कस्मान्न भवति, कृतं मनःसंयोगेनेत्यत आह । मनःसन्निकर्षे इति । तस्मादात्ममनःसन्निकर्षोऽपि वक्तव्य इति पूर्वपक्षः । तदिदं नात्ममनसोः सन्निकर्षेत्पादिसूत्रं पाठस्य पुरस्तात्कृतभाष्यम् । तदेतद्वार्तिककारो भाष्यमनुभाष्य पूर्वपक्षसूत्रं पठति । नात्मत्तिः (सू. २१) ॥ सूत्रार्थमाह । आत्ममनसोरिति । पूर्वपक्षस्य क्षणमप्यवस्थानमसहमानो वार्तिककारः प्रतिषेधमस्योक्तं स्मारयति । नोक्तेति । (२०३।२) ॥ २१ ॥

न्या.सू._२,१.२२: दिग्देशकालाकाशेष्वप्येवं प्रसङ्गः ॥

तदेवं द्वाभ्यां सूत्राभ्यां पूर्वपक्षिते सति भावमात्रेण इन्द्रियार्थसन्निकर्षादीनामनेन कारणत्वमुक्तमिति मन्यमानः पार्श्वस्थः प्रत्यवतिष्ठते । सति चेन्द्रियार्थेति (१) । न सति भावमात्रेण कारणत्वमाकाशादीनामपि कारणत्वमतङ्गात् । तादृशश्चात्ममनः संयोग इन्द्रियात्मसंयोगश्चेति न कारणं युक्तमित्यर्थः । दूषयति । अकारणभावेऽपीति । नान्वयमात्रात्कारणत्वनिश्चयः, अपित्वन्वयव्यतिरेकाभ्यां, न च दिगादावस्ति व्यतिरेकः, नित्यत्वविभुत्वाभ्यामवर्जनीयः सन्निधिः, सेन्द्रियशरीरवर्त्यात्ममनः संयोगस्त्वन्वयव्यतिरेकावधृतसामर्थ्यः, सुप्तस्य ज्ञानानुत्पादात् । इन्द्रियार्थसंनिकर्षे त्वमति विप्रकृष्टे व्यवह्रिते च ज्ञानं न जायते, इन्द्रियमनःसन्निकर्षाभावे तु नायुगपज्ज्ञानानि भवन्ति, तस्मान्नाकाशादीभिरतिप्रसङ्ग इति । तदेतद्वार्तिककारो व्याचष्टे । येच सति भावात् कारणभावं वर्णयन्ति पूर्वपक्षिणश्च सिद्धान्तिनो वा असति न भवतीति दैवाद् आगतो व्यतिरेको । न तु प्रयोजकस्तान् प्रति पार्श्वस्थो ब्रूते । तेषां दिग्देशेति । यथा चान्द्रमसं रूपमिति । यद्यपि तत्रापि तेजस्यौष्ण्यमस्ति तथाप्यत्यन्ताभिभवेन स्वोचितार्थक्रियानुपयोगादसत्कल्पत्वमित्यर्थः ॥ २२ ॥

न्या.सू._२,१.२३: ज्ञानलिङ्गत्वादात्मनो नानवरोधः ॥

एवं पार्श्वस्थे निरस्ते पूर्वपक्षी ब्रूते । यद्येवमिति (२०४।२) सिद्धान्त्याह ।

नोपसङ्ख्येय इति ।
ज्ञानधः (सू. २३) ॥ अत्र ज्ञानस्यात्मलिङ्गत्वमुच्यते,

ज्ञानं तावत्कार्यमनित्यत्वाद् घटवत् । (तच्च) क्व चित् समेवतं कार्यत्वाद् घटवत् । न च तत्पृथिव्याद्याश्रितं मानसप्रत्यक्षत्वात् । यत्पुनः पृथिव्याद्याश्रितं तत् प्रत्यक्षान्तरवेद्यमप्रत्यक्षमेव वा । न च तथा ज्ञानं द्रव्याष्टकातिरिक्ताश्रितम् । तदाश्रयश्च द्रव्यजातीयः, समवायिकारणत्वादाकाशवत् । तस्य च विभुत्वमात्मलक्षणेऽस्माभिरुक्तम् । अतो गुणजातीयं ज्ञानं, कार्यत्वे मति विभुद्रव्यसमवायाच् शब्दवत् । एवं व्यवस्थिते प्रश्नोत्तरे वार्त्तिकगते व्याख्यातव्ये । आत्मसमवायादिति । कार्यत्वे सति विभुद्रव्यसमवायादित्यर्थः । विभुद्रव्यसमवाय एवासिद्ध इति वदतु आह । न पृथिव्यादिगुणः स्वसंवेद्यत्वात । मानसप्रत्यक्षवेद्यत्वादित्यर्थः । स्वपरसंबद्धं प्रत्यक्षान्तरवेद्यं द्रष्टव्यम् । अन्यथा पृथिव्यादिगुणेन द्वित्वादिना व्यभिचारः स्यादिति । तस्माज् ज्ञानलिङ्ग आत्मा, न त्वसावसंयुक्तो ज्ञानं जनयति । तस्य सदातनत्वे सदा ज्ञानोत्पादप्रसङ्गात् ।
तस्मात्संयोगभेदं कादाचित्कमपेक्षत इत्यर्थात्सिद्ध आत्ममनःसंयोग इति न सूत्रकृतोक्तः ।
प्रौढिवादितयैष समाधिरिति दर्शयितुमुक्तमेव परमसमाधिंस्मारयति ।
उक्तं चात्रेति ॥ २३ ॥

न्या.सू._२,१.२४: तदयौगपद्यलिङ्गत्वाच्च न मनसः ॥

अन्यार्थमिति । प्रमेयभूतमनःस्वरूपप्रतिपादनार्थम् । अन्यार्थस्यापिप तदर्थप्रकाशकत्वम् (१०५।२) उपपत्तिः । लिङ्गम् । ईदृशं हि तल्लिङ्गं यदन्यार्थमपि मनसो ज्ञानकारणत्वं प्रतिपादयतीति । न हि ज्ञानं स्वतन्त्रं येन स्वकारणं मनो नापेक्षेत, नापि चक्षुरादि स्वतन्त्रं ज्ञानजनने येन मनोज्ञानकरणं न स्यादित्याह । न चक्षुरादीति । तस्मादर्थप्राप्तत्वादात्मनःसंयोग इन्द्रियमनःसंयोगश्च नोक्तौ सूत्रकारेण ॥ २४ ॥

न्या.सू._२,१.२५: प्रत्यक्षनिमित्तत्वाच्चेन्द्रियार्थयोः संनिकर्षस्य स्वशब्देन वचनम् ॥

देशयति । अथ कस्मादिति ।

इन्द्रियार्थसन्निकर्षेऽप्यर्थतः प्राप्तिरविशिष्टेति भावः ।
परिहरति ।
प्रत्यक्षेति सर्वानमिधाने हि प्रत्यक्षं न लक्षितं स्यादिति तल्लक्षणाय किञ्चिद्वक्तव्यम् ।
तत्रेन्द्रियार्थसन्निकर्ष एव वक्तव्यः, समस्तप्रत्यक्षव्यापकत्वात् नेतरावव्यापकत्वादतिव्यापकत्वाच्चेति परमः समाधिः ॥ २५ ॥

न्या.सू._२,१.२६: सुप्तव्यासक्तमनसां चेन्द्रियार्थयोः संनिकर्षनिमित्तत्वात् ॥

सुप्तत् (सू. २६) ॥ ज्ञानोत्पत्तेरिति सूत्रशेषः । प्रणिधाय सङ्कल्प्य । प्रदोषे सुप्तोऽर्द्धरात्रे मयोत्थातव्यमिति, सोऽर्धरात्रे एवावबुध्यते ।

प्रबोधज्ञानमिति ।
प्रबोधे निद्राविच्छेदे सति द्रव्यस्पर्शस्य संज्ञानं प्रबोधज्ञानमित्यर्थः ।
सुप्तमनसामितिव्याचष्टे ।
एकदा खल्वयं विषयान्तरेति ॥ २६ ॥

न्या.सू._२,१.२७: तैश्चापदेशो ज्ञानविशेषाणाम् ॥

प्राधान्ये च हेत्वन्तरम् । तैश्चाणाम् (सू. २७) ॥ इन्द्रियैर्व्यपदेशं विग्रहसमासाभ्यां ज्ञानस्य दर्शयति । घ्राणेति । इन्द्रियविषयसङ्ख्यानुरोधात्तज्ज्ञानस्य तद्व्यपदेश इत्याह । इन्द्रियेति । वार्त्तिकंयच्चासाधारणं तेनेति । दिगादिरप्युपाधिकल्पितेन प्राचीत्वादिना कार्यं विशेषयन्नसाधारणमेवेत्यभिप्रायः ॥ २७ ॥

न्या.सू._२,१.२८: व्याहतत्वादहेतुः ॥

अनेन प्रबन्धेनेन्द्रियार्थसन्निकर्ष एव कारणं ज्ञानस्य, न त्वात्ममनःसन्निकर्ष इन्द्रियमनःसनिकर्षो वा ज्ञानकारणमनेनोक्तमिति मन्वानो देशयति ॥

व्याहतुः (सू. २८) ॥

न्या.सू._२,१.२९: नार्थविशेषप्राबल्यात् ॥

परिहारसूत्रम् ॥ नार्थत् (सू. २९) ॥ अनेनेन्द्रियार्थसन्निकर्षस्य प्राधान्यमात्रमुच्यते । न त्वात्ममनःसंयोगस्येन्द्रियमनःसंयोगस्य वाऽकारणत्वमुच्यत इति न व्याघात इत्यर्थः । पृच्छति । असति संकल्पे प्रणिधाने चेति । यत्नः प्रणिधानम् । सङ्कल्प इच्छा । उत्तरं । यथैवेति । नन्वस्य जात्यायुर्भोगनिमित्तत्वमवगतं, न तु मनःप्रेरकत्वमपीत्यत आह । तेन ह्यप्रेर्यमाणे मनसीति । भोगो ह्यदृष्टस्य प्रधानं प्रयोजनं तन्नान्तरीयकतया जन्मायुषी आक्षिपति । स्वसंबन्धिसुखदुःखसाक्षात्कारश्च भोगः, तदायतनं च शरीरम् । अप्राप्तं च मनो न तत्र भोगं च भोगविषयौ सुखदुःखे च तयोः कारणं च ज्ञानं जनयितुमर्हति, नूनं तत्प्राप्तिहेतोर्मनःकर्मणः कारणमदृष्टं वक्तव्यम् । अन्यथास्य सर्वद्रव्यगुणकर्मकारणता न स्यात् । मा मूत्सर्वार्थतेत्यत आह । एषितव्यं चास्येति । अणूनां विशेषणं भूतसूक्ष्माणामिति । व्याहतत्वादिति पूर्वपक्षासूत्रम् । अस्य तात्पर्यमाह वार्त्तिककारः । अनेनेति । (२०६।७) नन्वियं त्रिसूत्री इन्द्रिपयार्थसन्निकर्षस्य प्राधान्यमाह, न पुनः संयोगान्तरस्य कारणत्वं प्रत्याचष्ट इत्यत आह । इयं किलेति । कारणत्वं प्रतिषिध्यत इत्यभिमानः पूर्वपक्षिण इत्यर्थः ।

दृष्टव्याघात इति ।
अयौगपद्यं दृष्टं, तस्य व्याघात इत्यर्थः ।
शेषं तु भाष्यव्याख्यया व्याख्यातमिति ॥ २९ ॥

न्या.सू._२,१.३०: प्रत्यक्षमनुमानम् एकदेशग्रहणादुपलब्धेः ॥

अतः परमिदानीमिति । (२०७।१२) न ह्यवयवीनाम कश्चिदर्थान्तरभूतोऽवयवेभ्योऽस्ति, अपि त्ववयवा एव परमार्थसन्तः, तेषु च कतिपयानवयवान् गृहीत्वा तत्सहचरितानवयवाननुमाय प्रतिसन्धानजेयं वृक्षबुद्धिस्तानेवावयवानालम्बमानानुमानमिति प्रत्यक्षस्यानुमानेऽन्तर्भावाद्विभागसूत्रेण न्यूनाधिकसङ्ख्याव्यवच्छेदो नोपपद्यत इत्यर्थः । निराकरोति । न यथासम्भवं विकल्पानुपपत्तेः । एकदेशो ह्यवयविन आधार इति । (२०८।१४) एकश्चासौ देशश्चेत्येकदेशः । देशश्चाधारो न चाधेयोऽस्त्यवयवीति कथमाधार इत्यर्थः । आहो शब्दार्थकौशलमाह । शब्देऽर्थे वा कौशलमित्यर्थः । अर्थे तावदकौशलमाह । अकार्येति । कार्यस्यैकस्य कारणानां तदेकं कार्यं कर्तु परस्परप्रत्यासत्तिभर्वति । यथा मृद्दण्डचक्रसूत्राणां घटे जनयितव्ये प्रत्यासत्तिः । कार्याणां चैकसामग्रीजन्मनां परस्परप्रत्यामत्तिः, यथा रूपरसगन्धस्पर्शानां, कार्यकारणयोर्वा, यथा अग्निधूमयोः, येषां तु न कार्यकानपरणभावो नैककार्यत्वं वा नैककारणत्वं वा, तेषां कुतो नियमवती प्रत्यासत्तिरित्यर्थः । शब्दाकौशलमाह । न च परस्परेति । अवयविनं दधदवयवान्तरमवयवान्तरमपेक्षते । ततश्चावयवाः परस्परोपकारिणो भवन्ति । अवयव्यभावे तु न परस्परोपकारिणः कथमवयवा इत्यर्थः । न चावृक्षप्रतिसन्धानजेति । स्वस्तिमतीं हि गां गृहीत्वा कालाक्ष्यां गवि गौरिति प्रतिसन्धानं दृष्टं, न त्वश्वं गृहीत्वाश्वान्तरे गौरिति प्रतिसन्धानं दृष्टं, तत्कस्य हेतोः, तयोरगोत्वात्, एवमर्वाग्भागपरभागानामवृक्षत्वाद्वृक्ष इति प्रतिसन्धानं न भवेदित्यर्थः । यद्युच्येत मा भूद्वृक्षरूपधर्मिग्रहः, पूर्वमर्वाग्भागं धर्मिणं वृक्षविशेषमनुमाय प्रतिसन्धास्यतीत्यत आह । न चानुमानम् । ( २०९ । ६ ) कस्मादित्यत आह । अनुमान इति । नायमनुमाता पूर्वमनुपलभ्याग्निमनुमानेन च धूमविशेषणमग्निं प्रतिपद्य प्रतिसंधत्ते अयं धूमोऽयं चाग्निरिति । अथ पूर्वं प्रतिसंधानं पश्चादनुमानमित्यत आह । न च प्रतिसन्धायेति । प्रतिसन्धानसमय एवाग्नेरवगतत्वाद्भवितव्यमत्राग्निनेति व्यर्थमनुमानं स्यादित्यर्थः । अभ्युपेत्याह । प्रतिसन्धायापि चेति । किं चार्वाग्भागमयमिति । स भागवान् भागो न भवति किं तु भाग्येव । कस्मान्न पश्यतीत्यत आह । नार्वाग्भागपरभागौ संवद्धौ । ( २१० । ४ ) एकावयविसमवायेन हि परस्परसम्बद्धौ स्यातां, न चावयव्यस्ति, न चापिव संयुक्तौ, संयोगस्यावयविनिरासमार्गेण निरस्तत्वादित्यर्थः । पृच्छति । कथं पुनरिति । उत्तरं नित्यमर्वाग्भागेनेति । सम्बन्धस्तावन्नास्तीत्युक्तमेव । तमभ्युपगय तूत्तरं सत्यं सम्बद्धौ सत्यपि सम्बन्ध अशक्यग्रहोऽसावित्यर्थः । सत्यं सम्बद्धावित्ययमभ्युपगमवाद एव । यच्चेदमुच्यते प्रतिसन्धानप्रत्ययजेति । पूर्वं सत्यपि वृक्ष अवयवानामवृक्षत्वान्नावयवे प्रतिसन्धानजा वृक्षबुद्धिरित्युक्तं, सम्प्रति तु वृक्षस्यासत्त्वेन नावयवे वृक्ष इति प्रतिसन्धानम्रित्यपौनरुक्त्यम् । रूपं च मयोपलब्धं रसश्चेति । य एवोपलब्धा रसप्रत्ययोपरञ्जितः स एव रूपप्रत्ययोपरञ्जित इत्यर्थः । प्रमाणस्य यथाभूतार्थपरिच्छेदकत्वादिति । यथा भ्रान्तमप्यनुमानमर्थसम्बन्धेन प्रमाणमिति न भवति, तथा प्रथमेऽध्याये दर्शितम् । प्रधानानुकारेण (२११।१) भ्रान्तिरिति पिपरीतख्यातौ सत्यां, सा चोपपादिता प्रथमाध्याये । न तथा शब्दस्यार्थानभिधानादिति । कः पुनरयं तथाशब्दार्थः । परमाणूनां रूपं वा नैरन्तर्यं वा संयोगभेदो वा उत्पादभेदो वा । यदि रूपमात्रंए तद् घटादिष्वपीति वृक्षबुद्धिः स्यात् । अथ रूपभेदः, क्षणान्तरेणावृक्षः स्यात् । न हि तत्पूर्वं रूपम् । अथ नैरन्तर्ये तद् घटादिष्वप्यस्ति । न वा क्वचिदपि, गन्धरसरूपस्पर्शपरमाणुव्यवधानात् । न संयोवगो भवद्भिरास्थीयत इति कुतस्तद्भेदः । उत्पादभेदोऽपि परमाणूनां रूपमेव । न हि परमाणुव्यतिरिक्तः कश्चिदस्ति तेषामुत्पादः । रूपं च पूर्वं विकल्पितम् । यदि हि क्वचिदवयवसन्निवेशो वास्तवः पूर्वापरभागादिशब्दप्रवृत्तिहेतुरुपलब्धः स्यात् ततस्तथाशब्दार्थः प्रतीयेत, न तु भवतां क्वचिदेष वास्तवः, वस्तुसतां परमाणूनामभागत्वादित्यर्थः । सामान्यतोदृष्टे धर्मिविषयकमपि प्रत्यक्षं नास्तीति भ्रानतः पृच्छति । सामान्यतोदृष्टस्येति । (२१२।६) उत्तरम् । अयं विशेष इति ।

द्विकस्य प्रत्यक्षेण प्रसिद्धौ सामान्यतोदृष्टं प्रवर्त्तते ।
त्रिकस्य तु प्रत्यक्षेण प्रसिद्धौ प्रत्यक्षतोदृष्टमिति विशेषः ।
सर्वस्याप्रत्यक्षत्वाद् वृक्षबुद्धिर्न प्रत्यक्षतोदृष्टादनुमानादपि सामान्यतोदृष्टादित्याह ।
भवत्पक्षे त्विति ॥ ३० ॥

न्या.सू._२,१.३१: न प्रत्यक्षेण यावत् तावदप्युपलम्भात् ॥

न प्रत् (सू. ३१) ॥ न प्रत्यक्षस्यानुमानता । कुतः यावदेकदेशभूतस्यार्थजातस्य ग्रहणमेकदेशग्रहणादुपलब्धेरित्यत्र हेताविष्यते तावदपि प्रत्यक्षेण । अन्यथैकदेशग्रहणाभावेनानुमानानुदयात् । अनुमानान्तरेण वा तद्ग्रहणे अनवस्थापातात् । अतस्तावतोऽर्थजातस्य प्रत्यक्षेणोपलम्भात्तावत्प्रत्यक्षमनुमानमिति प्रतिज्ञा हेतुना एकदेशग्रहणानुपलब्धेरित्यनेन बाधिता, एकदेशग्रहणस्य प्रत्यक्षेणानभ्युपगमे वा प्रमाणान्तरस्य तत्रानुपपत्तेरसिद्धो हेतुःए सेयमुभयतस्पाशा रज्जुरित्यर्थः । अनुमानेनैकदेशग्रहणान्नासिद्धो हेतुरित्यत आह भाष्यकारः न चैकदेशग्रहणमिति । अनुमितिरनुमानम् । भावयितुं कर्तुम् अनवस्थाप्रसङ्गेन हेत्वभावादिति । तदेतत्सूत्रं वार्त्तिककारो व्याचष्टे । विरुद्धश्चायमिति । नन्वेकदेशप्रत्यक्षत्वेऽपि तन्मात्रं प्रत्यक्षं, न तु सर्वं प्रत्यक्षं स्यादित्यत आह । न चैवं प्रतिज्ञायते सर्वमिति । अप्रकारवदिति । अनुमानस्य हि त्रयः प्रकारा यादृशा न तादृशाः प्रत्यक्षस्येति । त्रिकालविषयत्वाच्चेति । अनेन परोक्षार्थत्वं सूचयत्यनुमानस्य, प्रत्यक्षं त्वपरोक्षार्थविषयं, तस्मादपि भेद इत्यर्थः । लिङ्गपरामर्शज्ञानस्य प्रत्यक्षफलस्यापि प्रमाणस्य सतो लिङ्गलिङ्गिसम्बन्धस्मृत्यनुग्रहोऽस्त्युत्पत्तौ, न त्वेवं प्रत्यक्षस्य प्रमाणस्य, अत उत्पत्तौ वा कार्ये वा लिङ्गलिङ्गिसम्बन्धस्मृत्यपेक्षेत्यर्थः । अन्यथापि चेत्यादि भाष्यं व्याचष्टे इतश्चेति । (२१३ । ४) न त्वेतदनुमानमित्यादिभाष्यार्थमाह ।

इन्द्रियेति ।
इन्द्रियसम्बन्धाच्चार्थस्य प्रत्यक्षमुत्पद्यते, न त्वनुमानमेवमित्यर्थः ॥ ३१ ॥

न्या.सू._२,१.३२: न चैकदेशोपलब्धिर् अवयविसद्भावात् ॥

अपि चावयविनोऽसत्त्वं मन्यमानेन त्वयैकदेशमात्रोपलब्ध्या वृक्षबुद्धेरनुमानत्वमुक्तंए न त्वियमेकदेशमात्रोपलब्धिरपि तु तस्य तत्सहचरितस्य चावयविन उपलब्धिलक्षणप्राप्तस्य सिद्धेरित्याह । न चैकदेशोपलब्धिरिति । तदेतद्भाष्यमनुभाष्य वार्तिककारोव्याचष्टे । न चेति।अत्र देश्यभाष्यम् । अकृत्स्नग्रहणादिति चेत् । उत्तरभाष्यं न कारणत इति । देश्यविवरणम् । न चावयवा इति । एकदेशग्रहणनिवृत्यर्थं हि त्वयावयविग्रहणमास्थीयते, न चैतावता कृत्स्नग्रहणसम्भवो यत एकदेशग्रहणनिवृत्तिः स्यात् । न ह्यवयविग्रहणे कृत्स्ना अप्यवयवा गृहीता भवन्ति । नाप्यवयवी, तस्यार्वाग्भागस्य ग्रहणेऽपि मध्यमपरभागस्थस्याग्रहणादिति देश्यभाष्यार्थः । तदेतद्भाष्यं वार्तिकाकारो व्याचष्टे । नावयविन उपलब्धिरिति । यत्खलु बहुषु वर्त्तते तत्प्रत्येकं समष्ट्या वा, यथा कलंविङ्ककण्ठगुणः । एकदेशेन वा यथा स्रक्सूत्रं कुसुमेषु । न च कृत्स्नैकदेशाभ्यां प्रकारान्तरमस्ति । अनयोरन्यतरनिषेधस्यान्यतरविधिनान्तरीयकत्वात् नित्यत्वानित्यत्ववदिति । न चैकत्र कृत्स्नसमाप्तावन्यत्र तस्यैव सम्भव इति, तथा सति कृत्स्नसमाप्तेरभावात्, तस्माद्योऽबयवान्तरे दृश्यते नासाववयवीं, तथा चावयवा एवेति प्राप्त मित्यपि द्रष्टव्यम् । न ह्यस्य कारणव्यतिरेकेणेति । ( २१४ । ५ ) यदि ह्येकदेशान्तराण्यस्य स्युः, ततस्तेष्वपि वृत्तविकदेशान्तरकल्यनायामनवस्थाप्रसङ्ग इत्यर्थः । पूर्वपक्षवाद्येव प्रश्नपूर्वकं क्रियातिपत्तिमाह । अथोपलभ्यमान इति । उत्तरभाष्यविवरणपरं भाष्यं कृत्स्नमिति वै खल्वित्यादि । तदेकग्रन्थतया अङ्ग तु भवानित्यादिसम्बोधनोपक्रमं भाष्यं व्यवस्थितम् । तदेतद्वार्तिककारो व्याचष्टे । एकस्मिन्निति । अयमभिसन्धिः यत्तावत्कुसुमेष्वेकन्दशेन वर्त्तमानं दृष्टमिति, तदनुपपन्नं, यदि कुसुमेषु सूत्रावयवा वर्त्तन्ते किमायातमवयविनः सूत्रस्य । न ह्यन्यस्मिन्वर्त्तमाने अन्यद्वर्त्तत इत्युक्तम् । न चावयविनोऽभावे भवेत्येतदपि सूत्रमवयव्यवयवैर्वर्त्तत इति । अथ मा भूत्सूत्रं नामावयवि, एकदेशास्तु कुसुमे वर्त्तन्त इति ब्रूमः । तथा च सति नैकमनेकत्रैकदेशेन वर्त्तत्ते किं त्वनेकमनेकत्रेति । तथा च कुसुमपरमाणावेकस्मिन्सूत्रपरमाणुरेको वर्त्तत्त इत्युक्तं भवति, न च वृत्तिरपि परमाणुभ्यामतिरिच्यते यतो भवति वर्त्तते इति, तस्मान्निरन्तरोत्पाद एव परमाण्वोर्वृन्त्तिरिति व्यवहर्त्तव्या, न पुनः परमाणुस्वरूपातिरिक्ता काचिद्वृत्तिरस्ति वस्तुसती । एवेच कलविङ्ककण्ठगुणवत्प्रत्येकं कृत्स्नपरिसमाप्तिर्वृत्तिरित्यपि व्याख्यातम् । तथा च वृत्तेरभावादेकदेशेन वा कार्त्स्न्येन वा वर्त्तत इति रिक्त वचः । यथालोकप्रत्ययं तु वृत्तेरभ्युपगमे सूत्रं कुसुमेषु नैकदेशेन वर्त्तते, किं तु तदेकदेशाः सूत्रं च कुसुमेषु वर्त्तत इति लौकिकोऽनुभवः । तत्र सूत्रस्य वृत्तिः कुसुमेषु नैकदेशेन वा नापि कार्स्त्न्येन, किं तु स्वरूपतः, एवमवयवेष्ववयविनः स्वरूपत एव । इयांस्तु विशेषो यत्सूत्रस्य कुसुमेषु वृत्तिं प्रति सन्ति भागा अपीति सूत्ररूपं च भागाश्च कुसुमेषु वर्त्तन्त इति, अवयविनस्तु स्वावयवेषु वृत्तिं प्रति नावयवान्तराणि सन्तीति रूपमात्रेण तत्र वर्त्ततेऽवयवीति । तस्मान्न किञ्चित्क्वचित्कार्त्स्न्येनैकदेशेन वा वर्त्तमानं दृष्टमिति तयोर्वृत्तिं प्रति व्यापकत्वमसिद्धम् । रूपस्यैव व्यापकत्वमिति । तच्चावयविन्यप्यस्तीति व्यापकानुपलब्धेरसिद्धेर्नावयविनोऽवयवेषु वृत्तिनिवृत्तिरिति सिद्धम् । यथा च कृत्स्नैकदेशशब्दौ नावयविरूपे वर्त्तेते तथोक्तं वार्त्तिककृतेति । नैकदेशेन वर्त्तते न च कार्त्स्न्येन वर्त्तते अथ च वर्त्तत इति एष वाचोयुक्तिः यद्यथाभूतं वस्तु तत्तथा निर्दिश्यत इहेति योजना । उभयेन व्याघातादिति । ( २१५ । ४) एकस्यानेकवृत्तेः एकदेशेन कार्त्स्न्येन च व्याघातप इत्यर्थः । स एव हि धर्मो विकल्प्यते यो विकल्प्यमानो धर्मिणे न बाधते, यथा शब्दो नित्योऽनित्यो वेति, यो ह्यधिकरणं धर्मिणमेव बाधते नासौ धर्मविकल्पोन्याय्यः । आश्रयासिद्ध्या तस्यानुपपत्तेरिति । वस्तु वन्यते यत्सत्तत्सर्वमनवयवं, यथा विज्ञानं, सच्चेर्द नीलाद्यनुनवावसितमिति स्वभावहेतुः, सत्तामात्रव्यापित्वादनवयविस्वस्य । तथा ह्येकस्य सत्त्वं विरुद्धधर्मासंसर्गेण व्याप्तं, तद्विरुद्धश्च विरुद्धधर्मसंसर्गो नीलादीनां सावयवत्वे प्रसजन्स्वविरुद्धं विरुद्धर्मासंसर्गं निवर्त्तयंस्तद्व्याप्तं सत्त्वमपि निवर्तयति । तथाहि पाण्यदिकम्पे तत्स्थानोऽवयव्यपि कम्पत इति तस्य जङ्घादिष्वप्यवयवेष्वविशेषावस्थानस्याप्यवयविनः कम्पत उपलभ्येत, न चोपलभ्यते, तस्मात्स एव तदानीं कम्पते न कम्पत इति विरुद्धधर्मसंसर्गः । अथावयवेषु कम्पमानेष्वपि नावयवी तत्समवेतः कम्पते, ततश्चलाचलयोर्वस्त्रोदकवद्युतसिद्धिप्रसङ्गः । एकस्यावयवस्यावरणे तत्तदवयवस्थानोऽवयव्यावृत इति अवयवान्तरस्थानस्याप्यावरणप्रसङ्गः, अभेदात् । न वास्य क्वचिदप्यावरणमित्यविकलो दृश्येत । अवयवस्यावरणं नावयविनस्तस्यान्यत्वात्, न ह्यन्यस्यावरणे अन्यदावृतं भवत्यतिप्रसङ्गादिति चेन्न । अर्धावरणेऽप्यनावृतत्वादवयविनः प्राग्वदविकलग्रहणप्रसङ्गः । अवयवदर्शनद्वारेणावयविदर्शनाददृष्टावयवस्यावयविनोऽप्रतिपत्तिरिति चेन्न । विकल्पासहत्वात् । किं सर्वावयवदर्शनद्वारेणावयविनः प्रतिपत्तिरुत कतिपयावयवदर्शनद्वारेण । पूर्वस्मिन्कल्पे नावयवी कदाचिदपि दृश्येत । न ह्यसर्ववित्सर्वावयवोपलम्भक्षमः, अर्वाग्भागेन मध्यपरभागयोर्व्यवधानात् । कतिपयावयवदर्शने तु तदभिव्यक्तावल्पावयवदर्शनेऽपि वह्ववयवदर्शनवत्सूलोपलम्भप्रसङ्गः । रक्ते चैकस्मिन्नवयवे तत्स्थानोऽवयव्यपि रक्त इति अवयवान्तरेऽपि तस्याभेदाद्रागोपलम्भप्रसङ्गः । अवयवमात्ररागे वा तत्स्थानस्यावयविनो रूपमरक्तं दृश्यते, सोऽयं विरुद्धधर्मसंसर्ग इति । तदनेनाभिप्रायेण वार्तिककारो ग्रहणाग्रहणलक्षणेन विरुद्धधर्मसंसर्गेण सर्वानेव विरुद्धधर्मसंसर्गानुपलक्षयति । ग्रहणाग्रहणेति । निराकरोति । न भेद इति । इदं तावदत्र वक्तव्यम् । यद्यनुभूतावसितं नीलमनवयवत्वेन साध्यते, ततः सिद्धसाधनं, नो खलु रूपविशेषो नीलादिरस्माक्रमपि सावयवो गुणत्वात् । तदाश्रयो घट इति चेत् । ननु घट इत्यपि च रूपसगन्धस्पर्शा एवार्थक्रियाकारिणस्तथा व्यपद्दिश्यन्ते, ते च गुणत्वेन निरवयवा एव,न तु तदाश्रयोऽस्ति इत्थं नाम । अथ परसिद्धं द्रव्यं रूपाद्याश्रयं पक्षीकृत परसिद्धेनैव तस्य सत्त्वेनानवयवत्वं साधयति, सोऽयमसिद्धं सिद्धने साधयन् महानैयायिकत्वमात्मनो दर्शयति । न हि स्वयमप्रतीतौ साध्यधर्मिणौ परप्रत्यायनाय कल्पेते । यथाहुः । योऽपि तावत्परासिद्धः स्वयंसिद्धोऽभिधीयते । भवेत्तत्र प्रतीकारः स्वतोऽसिद्धे तु का क्रिया ... इति । न च प्रसङ्गसाधनेऽप्येतद्भवितुमर्हति । न च सावयवत्वेन, विरोधाभावात् । न चैकस्य विरुद्धधर्मो बाधकं प्रमाणम् । न तावदेकस्यावयविनो ग्रहणाग्रहणे । अवयवावरणेऽपि तस्य कतिपयावयवावस्थानस्य ग्रहणादेव । न च बह्ववयवस्थानस्य ग्रहणे इव कतिपयावयवस्थानस्य ग्रहणे तादृशस्थौल्यानवभासादनवभासोऽवयविन इति साम्प्रतम् । परिमाणभेदो हि स्थौल्यमवयविधर्मो न च तस्य तादृशस्यानवभासेऽवयवी नावभासितो भवति, तस्य ततोऽन्यत्वात् । तस्मादिन्द्रियसन्निकर्षमात्रादवयविनो ग्रहणम् । इन्द्रियेणार्थस्य इन्द्रियावयवैरर्थस्य इन्द्रियेणार्थावयवानां इन्द्रियावयवैरर्थावयवानां सन्निकर्षात्परिमाणभेदग्रहणमिति सामग्रीभेदादवयवितत्परिमाणभेदयोर्ग्रहणाग्रहणे उपपद्येते । एतेनार्वाग्भागसहितस्य ग्रहणेऽपि न मध्यभागसहितस्याग्रहणं कथञ्चिद्विरोधमावहतीत्युक्तं भवति । न वावयवकम्पेऽप्यवयविनः कम्पो येनावयवान्तरे ःपि कम्पप्रसङ्गः, भिन्नत्वादवयवावयविनोः । तथा सति युतसिद्धिप्रसङ्ग इति चेत् । का पुनरियं युतसिद्धिः, किं भेदोऽवयवावयविनोः, आहो स्विदसम्बद्धस्य विद्यमानत्वम् । यदि भेदः, सोऽस्माभिरिष्यत एव । अथासम्बद्धस्य विद्यमानत्वं, तत्सत्यपि पृथग्गतिमत्वे नावयविनोऽस्ति, जातः सम्बद्धश्चेत्येकः कालः । तथाहि नावयव्यवयवासम्बद्धोऽस्ति । नाहि जातिमान् जात्यसम्बद्धोऽस्ति । न गुणकर्मणी द्रव्यासम्बद्धेस्तः । न च विशेषो द्रव्यासम्बद्ध इति । ये त्वप्राप्तिसंयोगौ युतसिद्धिमाहुस्तैरवयवावयविनोरसंयोगे हेतुर्वक्तव्यः । अयुतसिद्धिरिति चेन्न । तस्या एवासंयोगेन बुभुत्सनादिति । रक्तारक्तत्वं च नावयविन एकस्य, तस्यारक्तत्वादेव । तत्संयोगिनस्तु महारजनस्य रक्तत्वात्, तस्य च पटादरक्तादन्यत्वात् । पटो रक्त इति तु भ्रमः, न त्वनेन विभ्रमेण सर्वत्र भवितव्यम्, तस्य महारजनसंयोगनिमित्तत्वात् तस्य च पटवृत्तित्वात् पटस्य च सर्वत्राविशेषात्, पटस्य क्व चिदसंयोगे संयुक्तासंयुक्तभेदप्रसङ्गः । न हि स एव तदैव तत्रैव भवति । न भवति चेति युज्यते । तस्मात्संयुक्तात्पटादन्योऽसंयुक्तः पट इति प्राप्तम् । अत्रोच्यते । एषा तावत्प्रमेयगतिः । भावाभावौ परस्परविरहात्मानौ, भावनिवृत्तिरेवाभावः, अभावनिवृत्तिरेव भावः । न त भावाभावाभ्यामन्या तयोर्निवृत्तिः । तेन नैतयोः कदाचिदपि परस्परात्मत्वं भवितुमर्हति, अदर्शनात् । एवमनयोराश्रयैकत्वनानात्वे अपि यथादर्शनं व्यवस्थापनीये, यथा तस्यैव श्वैवस्य यदा प्रासादे सद्भावस्तदैवाभावः काक इति । एवं च एवं कुम्भः श्यामः स एव पश्चादग्निसंयोगादश्यामः, यः पुनरस्य परिमाणभेदो न सति कुम्भे विनश्यति, तत्र किङ्कच्वतां परिमाणावस्थापत्तावपि न नश्यतीति । एवं प्रमेयवैचित्र्ये दर्शनवैचित्र्यव्यवस्थापितं यथाभ्युपेयते तथा तस्यैव संयोगस्य तस्मिन्नेकदा भावाभावौ व्यवस्थापनीयौ, तथैव दर्शनादिति । व हि दृश्यमानस्य दृश्यमानान्तरवैधर्म्येण रूपमुपलभ्यमानं शक्वमपाकर्तुम्, मा भूद् दृश्यमानवैधर्म्येण दृश्यमानरूपान्तरापाकरणमविषेषात् । तस्माद्दर्शनानुरोधात्प्रमेयवैचित्र्यसिद्धेरूपवन्नः संयोगशब्दबुद्ध्यादीनां तत्रैव तदानीमभावो भावश्चेति । अत्र एवैषामव्याप्यवृत्तित्वमास्थीयते । रूपादीनां तु न दृष्टस्तत्रैव तदानीमभावो भावश्चेति तेषां व्याप्यवृत्तीनां भावाभावौ युगपदेकत्र विरुद्धाविति सिद्धम्रक्तारक्तयोरेकत्राविरोधः सहदर्शनादिति । यत्पुनर्यदनेकवृत्ति तन्नाना, अनेकवृत्तिश्चावयव्यभ्युपगत इति प्रसङ्गसाधनं स्वभावहेतुः, नानात्वाभावादनेकवृत्तित्वाभाव इति प्रसङ्गविपर्ययो व्यापकानुपलब्धिरिति । तत्र ब्रूमः । एकत्वानेकवृत्तित्वयोरविरोधेन नानात्वस्य व्यापकत्वसिद्धेर्न प्रसङ्गो नापि विपर्यय इति । यथैव नीले परिच्छिद्यमाने तदभावो व्यवच्छिद्यते, अन्यथा न नीलं परिच्छिन्नं स्यात्, एवं तदभावाविनाभावि पीतमपि नीलपरिच्छेदकं प्रत्यक्षं व्यवच्छिनत्ति, तथैकावयवसंसर्गे अवयविनः परिच्छिद्यमाने तदभावो व्यवच्छिद्यते, तदभावाविनाभूताश्चावयवान्तरसंसर्गा इति तेपि व्यवच्छेत्तव्याः, तदव्यवच्छेदे तदभावो न व्यवच्छिद्येतेति स एव तदानीमेव तत्र भवेन्न भवेद्वेति दुर्घटमापद्येत, सोऽयमेकत्वानेकवृत्तित्वयोर्विरोध इति चेत् । हन्त भावपरिच्छेदे तदभावो व्यवच्छिद्यत् इति युक्तम् । भावपरिच्छेदलक्षणत्वात्तदभावव्यवच्छेदस्य । न हि भावादन्यस्तव भावाभावो नाम । भावान्तराणि तु कस्माद्व्यवच्छिद्यन्ते । तदभावाविनाभावादिति चेत् । कुतः पुनरयं भावान्तराणां भावाभावाविनाभावः । पीतादिभावतादात्म्येन कदाचिदपि नीलस्य भावस्यानुपलम्भादिति चेत् । यत्र तर्ह्येकावयववृत्तेरप्येकस्यावयवान्तरेषु वर्त्तमानस्य तादात्म्यं दृश्यते न तत्रैकावयवसंसृष्टाभावाविनाभावोऽवयवान्तरसंसृष्टस्य, तस्मान्नैकत्वनानावृत्तित्वयोर्विरोधः । अपि च एकं विज्ञानमनेकै रूपचक्षुरालोकमनस्कारैः कथं सम्बध्यते, सम्बध्यमानं वा, न वास्तवः कश्चित्कार्यकारणभावो नामास्ति सम्बन्धः । प्रतीत्य कथमेकम् । समुत्पादमात्रं तदिति चेत् । अथ कस्माद्रूपाद्येव प्रतीत्य रूपज्ञानं जायते न पुना रसाद्यपि । स्वभाव एव तादृशो यतस्तानेव प्रतीत्य जायते न पुना रासभादीनिति चेत् । हन्त भोः स्वभावान् भिन्नान् प्रतीत्य कथमेको भावो जायते । को विरोधो न हि कार्यकारणयोस्तादात्म्यं येन कारणस्वभावानुरोधःकार्यस्य भवेदिति चेत् । तत्किमवयवावयविनोरप्यभेदः समवायस्य वा ताभ्यां, येनावयवभदेःऽवयविनो वा समवायस्वय वा भेदो भेवदिति समः समाधिः । तस्माद्यद्यदवयविनि प्रमाणं वक्ष्यामः तत्तदसति बाधकेऽप्रत्यूहमवयविनमवस्थापयिष्यतीति सिद्धम् ।

यः पुनर्मन्यते अवयवसमुदाय एवावयवीति तं प्रत्याह भाष्यकारः ।
समुदाय्यशेषतेत्यादि ।
सुगमम् ॥ ३२ ॥

न्या.सू._२,१.३३: साध्यत्वादवयविनि संदेहः ॥

साध्यहः (सू. ३३) ॥ परं प्रत्यसिद्धत्वमेवावयविनः साध्यत्वम् । स खल्वेवं मेने संविन्निष्ठा हि विषयव्यवस्थितिः । स एव संविदा व्यवस्थाप्यते यस्तस्या विषयः । स एव विषयो य आकारमस्यामर्पयति । न च निरन्तरोत्पन्नरूपादिपरमाण्वतिरिक्तमवयव्याकारं बिभ्रतीं संविदमीक्षामहे, किं तु निरन्तरोत्पन्नरूपादिपरमाण्वाकाराम् । स्थौल्यं च न यद्यपि परमाणूनां प्रत्येकमस्ति, तथापि प्रतिभासधर्मो बहुत्वादिवन्न पुनरवयविनमेकमवस्थापयितुमर्हति । यदाहुः, सोऽयममूल्यदानक्रयीस्वाकारं च ज्ञाने समर्पयति प्रत्यक्षतां च स्वीकर्तुमिच्छत्यवयवीति । तदेवं परं प्रत्यवयविनोऽसिद्धेर्विप्रतिपत्तिः । ततः साधकबाधकप्रमाणाभावे सति संशय इत्यर्थः । न साध्यत्वं स्वरूपेण संशयहेतुरिति मत्वा भाष्यकृदाह । एवं च सतीति । परासिद्धत्वे सतीत्यर्थः । साध्यत्वादिति यथाश्रुतं सूत्रं गृहीत्वा वार्त्तिककारो विकल्प्याक्षिपति । किं पुनरत्रेति । ( २१७ । १ ) कुतश्चिद्धेतोस्तस्य धर्मिणोऽभ्यनुज्ञानमङ्गीकारमर्हति, सर्वस्यैव हेतोराश्रयासिद्धेरिति भावः । अथाव्यतिरेक इति । सत्येव धर्मिणि तस्यावयवेभ्योऽभेदो धर्मःप साध्य इत्यर्थः । अवयव्यपेक्षत्वादिति । पटमपेक्ष्य हि तन्तवोऽवयवा भवन्ति, नो खलु रण्डाकरण्डावस्थितास्तन्तवोऽवयवा उच्यन्त इति । न च षष्ठीति । ( २१८ । १ ) पटस्यावयवास्तन्तव इति न षष्ठी, तथा च पटस्येति विशेषणाभावे अवयत्वमात्रं हेतुः स्यात्, स च विरुद्ध इत्यर्थः । अनर्थान्तरभवेनावयवत्वमित्यस्योदाहरणम् । न च तन्तुस्तन्तोरिति । षष्ट्यर्थाभावे तूत्तरमुदाहरणमिति । तन्तूनां तन्त्वक्वकत्वं ब्रवीतीति । तच्छब्दस्य प्रधानपरामर्शकत्वादित्यर्थः । अवयवशब्दस्य श्चेति । पूर्व कारणमविवक्षित्या अवयवशब्दस्य परापरशब्ददत्त्सम्बन्धिशब्दतामात्रं गृहीत्वोक्तं, सम्प्रति कारणत्वं विवक्षित्त्योच्यत इत्त्ययौनरक्त्यम् । देशयति । नैव हीति असत् क्रियमाणं निर्वर्त्यं, न चास्माकं सत्कार्यवादिनां तदस्तीत्यर्थः । दूषयति । एतच्चेति । न हि पटाकारप्रत्ययस्तन्तुमात्रालम्बनो रण्डाकरण्डावस्थितेष्वपि तन्तुषु प्रसङ्गात् । न च तन्तुपरिमाणभेदालम्बनः, तस्वय पूर्वमपि सत्त्वात् । असत्त्वे वा सत्कार्यवादव्याहतिप्रसङ्गात् । तस्यैवासत उत्पत्तेः । तस्मात्तन्तुष्वपरेषु पर इत्यकामेनापि मिथ्याप्रत्यय इति वक्तव्यं, तथा च दूषणमिति । प्रतिज्ञैकदेशश्चेति । संयोगमात्रपक्षीकरण इत्यर्थः । तान्येव तानीति । ( २१९ । १३) तान्येव प्रत्यासन्नानि क्षणभङ्गपरिणामप्रतिक्षेषादित्यर्थः । यथा दण्डाद्यनेकं कारणमिति । दण्डवेमाद्यनेकं कारणं घटपटादीनां कार्याणाम् । संयोगादिनिमित्तान्तरापेक्षमिति । संयोग आदिर्येषां निमित्तान्तराणां कुम्भकारकुविन्दादीनां तानि निमित्तान्तराणि । अतद्गुणसंविज्ञानो बहुव्रीहिः, यथा चित्रागुरिति । तेन साध्यस्यैव दृष्टान्ततेति न दोषः । विमृश्यावधारयति । वयं तु ब्रूमो विभाग उत्पन्न इति । ( २२१ । ८ ) संयोगोऽनपक्षेकर्मकारणकः, कर्मकार्यत्वाद्विभागवदिति स्थिते प्रतिबन्धकापगमात्रं विभागेन क्रियत इति सिध्यति । यथा वा संयोगः साधारणकार्यद्रव्येति । यदा हि पटः पाट्यते तदा येषामवयवानामवस्थितानां संयोगानां पटाख्यं साधारणं कार्यं, तस्य साधारणस्य कार्यद्रव्यस्य पटस्य च तदसमवायिकारणानां च संयोगानां केषां चिद्विनाशोत्तरकालमर्द्धपटारम्भे तेषामनपेक्षाणां कारणत्वं, विभागस्तु कर्मजन्यस्तत्र कतिपयसंयोगविनाशद्वारेण साधारणपटादिकार्यविनाशमात्रे व्याप्रियते न तु विभगापेक्षोऽर्द्धपटे जनयितव्ये संयोगः कारणमित्यर्थः । न हि प्रमाणमन्तरेणेति । ( २२२ । २ ) मिथ्याज्ञानमपि प्रमाणपूर्वकं, सम्यग्ज्ञानपूर्वकत्वाद्विपरीतख्यातेरित्यर्थः । वृक्षस्थितिं भावयद्भिः । पूर्वापरप्रत्ययैकविषयस्य वृक्षस्य स्थितिं स्थिरतां भावयद्भिरित्यर्थः । भेदादर्शनमिति ( २२४ । ९ ) आकारिभेदादर्शनम् । यथा घटपटावाकारिणौ भेदेन दृश्येते नैवमवयवावयविनौ, नापि समवायसमवायिनावित्यर्थः । यस्मादयमुपनयो ( २२५ । ७ )ऽवयवाश्च तन्तवोऽवयवी च पट इति । पूर्वमवयवाश्चेत्येतावन्मात्रं हेतूकृतं, सम्प्रति त्ववयवावयविनावित्यपौनरुक्त्यम् । अन्योऽवयवार्थ इति । अवयविनोऽन्योऽवयवशब्दार्थ इत्यर्थः । प्रदेशिनोऽन्यः प्रदेशशब्दार्थ इत्यर्थः । तत्प्रदेशशब्दस्य व्यपदेशविषयत्वस्येति । ( २२६ । ७ ) तन्तवो हि पक्षीकृताः प्रधानमिति तदिति सर्वनाम्ना हेतुगतेन पराम्रष्टव्याः । तथा च तन्तुप्रदेशस्य व्यपदेशविषयत्वं न तन्तूनामित्यसिद्धो हेतुरित्यर्थः । तेभ्यस्तूत्पत्तेरितिकल्पितस्य हेतोर्विवरणं तन्तुभ्यस्तूत्पद्यते पट इति । उभयेन व्याघातादिति । ( २२ । ९) अभ्युपगमे नानभ्युपगमेनेत्यर्थः । द्रव्यान्तरेति । द्रव्यान्तरोत्पत्तिदेशावच्छेदो व्यवच्छेदः । यथा पटोत्पत्तिदेशादन्यो घटोत्पत्तिदेश इत्यर्थः व्यक्त्यादिधर्मभेदेनेति । आदिग्रहणेनाविर्भावसंस्थानादय उच्यन्ते ते च कारणव्यापारात्पूर्वं नासन्निति जन्मापि तेषामपूर्वमित्यर्थः । यथा चक्रादिभ्यो ( २२८ । ४ ) रथावयवेभ्य इत्यर्थः । हिमवत्परमाणुकमिति । ( २३० । १ ) परमाणुग्रहणं मूक्ष्मद्रव्योपलक्षणार्थम् । न पुनः परमाणोर्द्व्यणुकादन्यत्रारम्भसम्भवः । न च विवादाध्यासितः परमाणुर्न महद्द्रव्यमारभते परमाणुत्वाद् द्व्यणुकारम्भकपरमाणुवत् । अमहत्त्वाच्च न हिमवत्परमाणुकं प्रत्यक्षं स्यात् । तस्माद्धिमवद्धिमबिन्दुभ्यां संसर्गिभ्यां संयोगादवयविद्रव्यमारभ्यते महत्त्वं चास्यावयवमहत्त्वादुत्पद्यते । तथा च चाक्षुषत्वमस्य भवति । एवं तोयदविमुक्तोदबिन्द्दधिसंयोगात् द्रव्यान्तरोत्पत्तिः प्रतिपत्तव्या । भावोऽप्रत्यक्षः स्यादिति । भावः सत्ता । ननु यथा संयोगः संयोगिद्वयनिरूपणाधीननिरूपणः तयोरेकस्यैवाप्रत्यक्षत्वे न प्रत्यक्ष एवमवयवाप्रत्यक्षत्वे नावयवी प्रत्यक्षः स्यादित्यत आह । न चायं पक्ष इति । संसृज्यमाननिरूपणाधीननिरूपणो हि संसर्गो युक्तं यत्तदनिरूपणे न निरूप्यत इति । न त्ववयव्यवयवनिरूपणाधीनो यत्तेष्वनिरूपितेषु न निरूप्यत इति । त्र्यणुकस्यावयवाग्रहणेऽपि ग्रहणात् । एवं विद्रवर्त्तिनो हस्तिवनस्पत्यापदेरवयवाग्रहणे ःपि ग्रहणादिति भावः । न च तत्कृतोऽस्ति भेद इति । न ग्रहणाग्रहणकृतो भेद इत्यर्थः । न हीन्द्रियमन्यस्य सांख्यस्यान्यथा सूक्ष्मत्वेनार्थं प्रकाशयति । अन्यस्य नैयायिकस्यान्यथा स्थौल्येन अविकल्पत्वादैकरूप्येणावस्थानादिति । प्रत्यक्षप्रमाणविरोधादिति । ( २३२ । ५ ) महाभूतानां हि मूलकारणं परमाणवः परमसूक्ष्मास्तेषामप्रत्यक्षत्वे मानसानुव्यवसायगम्यं परमसूक्ष्मविषयं मे प्रत्यक्षमिति तदभावश्चात्मनि संयुक्तविशेषणेन मनःसन्निकर्षेण प्रत्यक्षविरोध इत्यर्थः । एके त्विति । यमेव हि त्र्यणुकं दृश्यं भवन्तो दृश्यावयवमाचक्षते तमेव वयं परमाणुमाचक्ष्महे, न हि तदवयवकल्पनायामस्ति प्रमाणमिति भावः । कथवगम्तये भिद्यते त्रसरेणुरिति । अङ्गुल्यग्राम्यां मृद्यमानस्यास्यादर्शनं सूक्ष्मतयाऽप्युपपद्यते । जालसूर्यमरीचिस्थमेव तद्रजः कथं चिदुपलभ्यते नान्यथेति भावः । द्रव्यत्वे सतीति सामान्यसमवायौ निवर्तयति । बाह्येत्यात्मानं निबर्तयति । अनित्यत्वाच्चेति । अनन्तावयवत्वेन मेरुसर्षपयोरभिन्नपरिमाणत्त्वप्रसङ्गात् महाभूतमूलकारणमनवयवं कल्पनीयं न च द्रव्यमनवयवं विनश्यति आकाशादिवदिति नित्याः परमाणवस्त्रसरेणवस्त्वनित्या इति न परमाणुः । अनित्यत्वमेव कुत इत्यत आह । सामान्यविशेषवत इति । संहतानामिति । रूपादीनां सङ्घातः परमाणुरिति । नचासंहतप्रतिषेध इति । अप्रतिषेधे वात एवासंहताः परमाणव इति भावः । संयुज्यते चायं विभज्यते चायमवयव्यन्तरेणेति न व्यतिरेक इति । यथा भिन्नात्संयोगाप्राप्त्यभावो व्यावृत्त एवमभिन्नादपि, न हि स एव तन्तुस्तेनैव तन्तुनाप्राप्यतैत्यर्थः । सत्त्वरजस्तमासां न संयोगः किं तु तेषां स्वाभाविकः स कोऽपि पंरिणतिभेदो यतः संभूयकारित्वमित्यर्थः । गुरुत्वान्तरकार्याग्रहणादिति । ( २३३ । २१ ) अवयवगुरुत्वाद् गुरुत्वान्तरमवयविनस्तस्य यत्कार्यमवनतिविशेषस्तस्याग्रहणादित्यर्थः । सत्यमुपपादितः पक्षधर्म इति । ( २३४ । १० ) कार्याग्रहणेन कार्याभावस्ततः कारणस्य गुरुत्वस्याभाव इत्यर्थः । प्रतिषेध्यं कार्यगतरूपादि तदभ्यनुज्ञातं भवतीति । तथाऽपि कुतः प्रत्यक्षविरोध इत्यत आह कारणरूपादय इति । चोहेतौ । एतेन कार्ये रूपादिप्रतिपत्तिः प्रत्युक्ता निषेध्यत्वेनेति । यदा हि कार्यमेव रूपादि नास्ति तदा कस्मात्तत्र रूपादिप्रतिपत्तिः प्रतिषिध्यते इत्यर्थः । यथा रूपाद्यन्तरकार्यमिति । अवयविगतानां रूपादीनां कार्यं रूपसंस्कारादवयविनश्चाक्षुषता एवं दृश्यतेति । उपन्यासः स्थापनम् । यद्यप्ययमवनमनविशेषाभावस्तुलाव्यधिकरणः न, तथापि न शाब्दी तुलासंबन्धितास्य प्रतीयते, किं त्ववनमनविशेषसंबन्धितेत्येतावतोक्तम् । सोऽयमिति । ( २३५ । २ ) असिद्धस्तावदित्यकदेशिनो दूषणम् । तदेतदेकदेशिदूषणं दूषयति । न तद्वत्तानुपलब्धेः । परमार्थदूषणमाह । अयमपीति । गुरुत्वमात्रोपहितानामणूनामवनमनविशेषं न करोति तुला । द्रव्यसमाहार इति ( २३६ । २ ) कार्यकारणद्रव्यसमाहारो मृत्कणमृच्चूर्णशर्कराकपालकुम्भसमाहार इत्यर्थः । ननु समाहारः कुम्भस्य कारणं तच्च ज्ञातेयद्गुरुत्वमेवेत्यत आह । न चेति ( २३६ । ३ ) ये त्वाहुः सर्वो मृत्कृणादिः कुम्भपर्यवसानः कार्यसमूहः परमाणुष्वेव समवैति, ते हि मृत्कणादिकमारभ्य मृच्चूर्णान्यारयन्त इति । प्रसङ्गात्तन्मतमपाकर्तुमुपन्यस्यति । के चित्त्विति । निराकरोति । तान्प्रतीदमिति । गुरुत्वमेनुपतदिति । ( ३३७ । ७ ) न च यथा प्रदीपाधीनप्रकाशाघटादयो न तु प्रदीपः प्रदीपार्धानप्रकाशः तस्य स्वमहिमनिषिद्धतमोनुषङ्गत्वात् । एवं गुरुत्वाधीनपाता घटादयो, गुरुत्वं तु स्वस्य चान्येषां च गुरुत्वान्तरानपेक्षं पतनहेतुरिति वक्तव्यम् । न हि प्रदीपेन स्वात्मनि प्रकाशयितव्ये किं चिदन्यत् क्रियते, यादृशा घटादयः स्वप्रकाशोपादे तादृशः प्रदीपोऽपि । चक्षुषः पुनरयं स्वभावभेदो येन घटादौ प्रकाशयितव्ये प्रदीपमपेक्षते न तु प्रदीपे प्रकाशयितव्ये प्रदीपान्तरमिति । तस्मान्न प्रदीपस्य स्वात्मनि कर्मकरणभावः । गुरुत्वं तु द्रव्यगतस्य पतनकर्मणः करणं, तेन हि द्रव्यं पात्यते । स्वगतस्य तु पतनकर्मणः करणत्वे तदेव कर्म करणं चेति स्वात्मनि वृत्तिविरोधः । आत्मनस्तु स्वात्मनि प्रकाशयितव्ये कर्तृत्वमेव न कर्मत्वमित्युपपादितामिति । तस्माद्गुणादयो विवादाधिकरणा न पतन्ति अद्रव्यजातीयत्वाद्गुरुत्ववदिति सिद्धम् । सिद्धान्त्याह । वेद पुनरितिप्तं कारणं प्रमाणम् । रूपादयो न संयोगरूपप्राप्तिमन्तः गुणत्वात् संयोगवदित्यप्राप्ते रूपादिषु निश्चयात्तददर्शननिमित्तो रूपादिषु प्राप्तिभ्रमो द्रव्येषु प्राप्तिप्रत्ययः परिमार्थिक एवेति विनिश्चयः । तदनेनाभिप्रापयेणोपसंहरति । तस्माद्व्यवस्थितमिति । ( २३८ । ८ ) शेषमतिरोहितार्थम् ॥ ३३ ॥

न्या.सू._२,१.३४: सर्वाग्रहणमवयव्यसिद्धेः ॥

सर्वाद्धेः (सू. ३४) ॥ स्यादेतद् यथाऽवयविनं नाभ्युपैति परः एवं गुणकर्माद्यपि । तत्कथमयं प्रसङ्गः परस्य सर्वाग्रहणमित्यत आह तदिदं सूत्रमिति । ( २४० । ९ ) योऽपि हि तावद् गुणकर्मादि नेच्छति सोऽपि न तत्प्रत्ययमपन्हुते अस्ति लौकिकपरीक्षकाणाभवयविद्रव्यगुणकर्मादिप्रत्ययः सोऽयमशक्यापन्हवः तस्य च प्रत्यक्षत्वमुपपादितं प्रत्यक्षलक्षणे । अवयविद्रव्यबाधकानि च प्रमाणान्यधस्तान्निराकृतानि । सोऽयमसति बाधके स्वयं च गुणादिभिश्च सहोपलभ्यमानो न शक्यो निराकर्त्तुमित्यधिकरणार्थः ॥ ३४ ॥

न्या.सू._२,१.३५: धारणाकर्षणोपपत्तेश्च ॥

धारश्च (सू. ३५) ॥ ते एते धारणाकर्षणे गोघटादिकमुपलभ्यमानमवयविनं साधयतः, कुतो निरवयवे विज्ञानाकाशादौ, अवयवे च परमाणौ चादर्शनात् । इदमेवं प्रयोगमारोहति । योऽयं दृश्यमानो गोघटादिरवयवी परमाणुसमूहभावेन विवादाध्यासितः नासावनवयवी धारणाकर्षणानुपपत्तिप्रसङ्गात् । यो योऽनवयवी तत्र तत्र धारणाकर्षणेन भवतः यथा विज्ञानादौ, न चायं गोघटादिस्तथा तस्मान्नानवयवीति । न विरोध इति । ( २४१ । ३ ) व्यभिचारलक्षणो दोषो विरोधः । अवयविन एव ते प्रत्येकमिति । परमाणुसमूहे तु प्रत्येकमपि न परमाणवोऽवयविन इत्यर्थः । विशेषहेत्वभावादिति । एवं हि विशेषहेतुः स्याद् यद्यवयविनमन्तरेण क्व चिद्विज्ञानाकाशादौ संग्रहश्चोक्तलक्षणो धारणाकर्षणहेतुता वाऽस्य दृष्टा स्यात् । न चासौ दृश्यते काष्ठतृणोपलादयः प्रत्येकमवयविन एवेत्यर्थः । स्यादेतत् । अवयवित्येन तुल्यत्वेऽपि कस्मादेकत्र धारणाकर्षणे नान्यत्रेत्यत आह ।

पांशुराशीति ।
समूहमात्रत्वेन तुल्यत्वेऽपि यथा कश्चिद्विशेषे हेतुरेवमवयवित्वेन तुल्यत्वेऽपीति समानमित्यर्थः ।
तत्सहचरितस्य सम्बन्धविशेषः स्नेहद्रवत्वकारित इति ।
तस्माद्भाष्यकारस्य सूत्रदूषणं परमतेन द्रष्टव्यम् ॥ ३५ ॥

न्या.सू._२,१.३६: सेनावनवद् ग्रहणमितिचेत् ? नातीन्द्रियत्वादणूनाम् ॥

अथेदानीमन्वयिपन इति । अन्वयव्यतिरेकिण इति । पटोऽयमित्येकविषया बुद्धिरेकबुद्धिः तन्तव इति नानाविषया बुद्धिरनेकबुद्धिः । समुच्चितासमुच्चितविषयत्वादिति । असमुच्चितविषयत्वादेकबुद्धेः समुच्चितविषयत्वादनेकुबद्धेरिति । प्राशङ्कात इतस्सूत्रम् । सेनानाम् (सू. ३६) ॥ तथोक्तमिति । ( २४३ । ९ ) बहुन्त्वसेंख्यैव सेना वनं चेति । यस्तु मन्यते सेना वनमिति व्यपदेशाय तञ्ज्जर्निताय वा विज्ञानाय बहुत्वसंख्यां कथं चित्कारणं सम्भवति यस्त्वयमैन्द्रियकः प्रत्ययः प्रत्येकमगृहीतैकत्वेषु वृक्षेषानुत्पन्नाषेक्षाबुद्धेर्द्रागित्येकघतवनावगाही जायते तत्र कारणाभावेन बहुत्वस्यानुत्पादान्न बहुत्वसंख्यालम्बन इति न परितुष्यति तं प्रत्याह । अभेदप्रत्ययस्य चेति । उपलभ्यमानरूपेष्वेव कुतश्चिन्निमित्तादनुपलभ्यमानपृथ(त्क्वे)षु मिथ्याभेदबुद्धिर्भवति । न पुनः सर्वथानुपलभ्यमानेष्विति तात्पर्यार्थः । यस्तु नोभयपक्षसंप्रतिपन्नमस्ति जगति किं चिदेकमिति मन्यते तं प्रत्याह एकं नास्तीति । स्यादेतत् । दूरात्काष्ठलोष्ठतृणपाषाणादयः प्रत्येकं पृथक्कृता नोपलभ्यन्ते । समुदायस्तु तेषां दृश्यते । न च ते द्रव्यान्तरमारभन्ते विजातीयत्वात्तथामा भूवन् परमाणवः प्रत्येकं दृश्याः समूहस्तु तेषां दृश्यते विनैव कार्यान्तरारम्भमित्यत आह । गृह्यमाणाग्रहणस्य चेति । ( २४३ । ३ ) तेषामेवागृह्यमाणानामपि मिलितानां दर्शनं येन रूपेण ग्रहणयोग्यता निमित्तान्तरात्तु न गृह्यन्ते, परमाणवस्तु परमसूक्ष्मतया नस्वरूपेण ग्रहणार्हा इति मिलिता अपि न ग्रहीतव्या एव, न जातु मिलिता अपि पवनसमूहा भवन्ति चाक्षुषाः । रूपवन्महत्त्वमपि भावानां स्वरूपयोग्यता ग्रहणं प्रतीति भावः । ततश्च त एवैन्द्रियका अनैन्द्रियकाश्चेति महान्विरोधः । अत्रान्तरे वार्त्तिककार आह स्मको वा विरोधो बहवः संजातातिशयाः पृथक्भवेयुः कारणं बुद्धेर्यदि नान्मेन्द्रियादिवदिति । एतदपि वार्त्तिककृतैवाथानुपजातविशेषा इति वदता परास्तम् । न खलु स्थैर्यसिद्धौ भावानामयवविद्रव्योत्पादमन्तरेणास्त्यन्योऽतिशयः परंमाणूनाम् । न च यमागन्तुकमासाद्य परमाणवोऽवयविनं जनयन्ति तेनैव स्थूलबुद्धिं, कृतमवयविनेति सांप्रतम् । यदाभासा हि बुद्धिस्तदस्या आलम्बनप्रत्ययः । न चेयं परस्परव्यावृत्तपरमसूक्ष्मपरमाण्वालम्बना तथा सति स्थूलभेदात्तदेकमिति च स्यात् । न चैष प्रत्ययो विकल्पः स्पष्टप्रतिभासत्वात् । न वाविकल्पोपाधिरस्य विशदता निर्विकल्पकेनापि तस्याग्रहणात् । न च प्रतिभासधर्मः स्थौन्यम् । नानादिग्देशस्थितस्य निरन्तरस्यैकेन विज्ञानेन ग्रहणं स्थौल्यम् । तत्खल्वीदृशत्वं परमाणूनां प्रतिभाससमयभावीति प्रतिभासधर्म इत्युच्यते । तथा चैष समीचीन एवानुभवः न हि ते न परमाणवो न च न निरन्तरोत्पन्ना न च न दिग्देशभिन्ना न वैकस्मिन्विज्ञाने न चकासति । तस्मात् कस्यात्रान्यथात्वम् । यथाह

न च तद्दर्शनं भ्रान्तं नानावस्तुग्रहा(द्य)त्स्वतः । सांवृतग्रहणं नान्यन्न च वस्तुग्रहो भ्रम । इति ।

अत्र तावत्तिलतण्डुलवद्गन्धरूपरसस्पर्शपरमाणुभिरन्तरिततया नैरन्तर्यमेषां नास्ति । तस्मादन्तरालाग्रहणे दूरादेकघनवनप्रत्ययवदयं मिथ्याप्रत्ययो रूपादिपरमाणूनां सान्तरत्वादू अनेकत्वाच्च । न चासति बाधके मिथ्येति युक्तम् । उक्तश्च बाधकाभावः, स्थेमा च भावानामुपपादयिष्यते । तस्मादयुक्तमेतदपीति । इदमेव परीक्ष्यत इति भाष्यम् । सर्वत्रावयविनमपन्हुवानस्य अतीन्द्रियं वाणुसंचयमात्रमिच्छतः सेनावनाङ्गानामपि करिकुसुम्भादीनामतीन्द्रियाणुसंचयमात्रत्वाद् दृष्टान्ताभाव इति तात्पर्यार्थः । शङ्कते दृष्टमिति चेत् । सेनावनाङ्गानि तावद् दृष्टतया न शक्यान्यपह्नोतुमिति सिद्धं निदर्शनमित्यर्थः । निराकरोति । तच्च नैवमिति । यदि दृष्टमप्रत्याख्येयमवयव्यपि दृष्ट इति सोऽपि न प्रत्याख्येयः । अथायं परीक्ष्य प्रत्याख्यायते सेनावनाङ्गान्यपि प्रत्याख्येयानीति दृष्टान्ताभावः साध्यसमत्वादिति भाष्यार्थः । वार्तिकं यश्चायमनेकस्मिन्निति । अविद्यमानो विशेषः शुक्तौ रजतत्वं तस्य दर्शनं वणिग्वीथ्यादौ तस्य द्वारं संस्कारः तेनान्ध्यारोपितः शुक्तिविपरीतथर्मो रजतत्वं येन सामान्यदशनेन तत्तथोक्तं तस्य भावः तत्ता सामान्यदर्शनस्येति । तिरोभूतभेदमुपमानमेव भाक्तं भेदोल्लेखेन ज्ञायमानमौपमिकमिति विवेकः (संज्ञाज्ञानमौपमिकीदाहरणम्) । यथा सिंहो माणवक इति । ( २४४ । ५ ) नन्वेतदपि तिरोभूतभेदतया भाक्तमेवेत्य आह । सिंह इव सिंहः । अयमर्थः । सिंहशब्दादुपमानादाचारे सर्वप्रातिपदिकेभ्यः । क्विविति क्विबन्तात्कर्त्तरि अपि कृते सिंहशब्द उपमानार्थो भवति । नानाभावे चाणूनामित्यादिभाष्यं व्याचष्टे । मिथ्याप्रत्यया अपीति । तदभावे तु । प्रधानाभावे तु घटादौ मिथ्याप्रत्यया इति । परमाणुषु संचितेष्विति । येषामपि घटोऽवयवी तैरपि परमाणुसंचयोऽभ्युपेयः येषामप्येवयवी नास्ति तैरपि परमाणुसंचय उपयः सो ःयमुभयसंमतः संचय इत्यर्थः । तेऽपि संचिता एवेति । वैभाविका खलु वात्सीपुत्रा भूतभौतिकसमूहात् पटादीनपि शब्दादीनिच्छन्ति अतस्तेषां मते शब्दादयो न मुख्यमेकत्वं सङ्ख्याया गुणस्य गुणेषु शब्दादिष्वयावात् । अपि तु भाक्तमेवेत्यत आह । शब्दादिषुचैकप्रत्पयय इति । शङ्कते सर्वत्रेति । ( २४५ । १ ) निराकरोति । न द्वे इत्यत्रेति । समुच्चयनिवृत्तिमात्रमेव चेदेकत्वं द्वित्वनिषेधेन समुच्चायो निवर्त्तत इति तन्निवृत्तिपात्रमेकत्वमेवेति एकमनेकं वेति संशयो न स्यात् । न च तत्रोत्तरमेकमेवेति वियमार्थं भवेदिति । गतौ । प्राप्तौ । शङ्कते सर्वत्रेति । निराकरोति । नैकमित्यत्रेति । अयमभिसंधिः । द्वित्वादीनामभावे समुच्चयमात्रं स्यात् । न तु समुच्चयानामवान्तरभेदः तथा च नैकमित्यसमुच्चयसहितैकत्वसमुच्चयः प्राप्त एवेति न संशयः स्यात् । इदं त्विह वक्तव्यम् । शब्दादौ द्वित्वाद्यभावे कथं द्वित्वादिप्रयोगः । भाक्त इति चेत् । किं भक्तिनिमित्तं । समुच्चयमात्रं चेत् कुतो द्वाविति नियमः । समुच्चयविशेषादिति चेद् नन्वस्य नास्त्याजानतो भेद इत्युक्तम् । न चेह द्वित्वमस्ति यद्विशिंष्यात् तथा चाकामेनापि समुच्चयानामवान्तरभेदः स्वाभाविको वक्तव्यः । तथा च स एवास्तु संशयविषयः कृत्तं द्रव्ये द्वित्वादिनेति । तस्मात्संविदेव भगवती वस्तूपगमे नः शरणं समुच्चयादिविलक्षणं द्वित्वाद्यवगाहमाना व्यवस्थापिका द्वित्वादीनां तदनुसरणप्रकारश्च युक्तिबहुलतया वार्त्तिककृता कृत इति मन्तव्यम् । यः पुनरनुभूयमानमेकत्वं द्वित्वादींश्चानुभूयमानान्न प्रतिपद्यते तस्य खल्वनुभवमपन्हुवानस्य निर्मर्यादतयैकत्वाधारोऽपि नास्तीति कस्य समुच्चयो द्वित्वादिः स्यात् । समुच्चयाभावेऽपि कस्याभाव एकत्वं स्यादित्याह । यः पुनरिति । अपि च एकत्वादीन् मुख्याननभ्युपगच्छतोऽयमपि भाक्तः प्रयोगो त स्यादित्याह । एकत्त्वद्वित्वादींश्चेति । भाष्यमनुभाष्यव्याचष्टे । तेषु चैवमिति । ( २४६ । २ ) इयत्तानवधारणादिति । प्रत्यक्षपरिमाणविषयमियत्तावधारणं परममहतां त्वप्रत्यक्षपरिमाणानां सत्यपीयत्तानवधारणे नापरिमाणता द्रव्यत्वेनव्योमादीनां परिमाणानुमानादिति । यथा महत्परिमाण इति । कुवलपरिमाणादामलकपरिमाणं महदिति लौकिका व्यपदिशन्ति । यथा कुवलादामलकं महदिति । न च परिमाणस्य परिमाणयोगः अनवस्थाप्रसङ्गादिति । तम्माद्भाक्तोऽयं व्यपदेशोमहत्त्वे महदिति । तस्मिन् तच्शब्दो भाक्तमहच्छब्दवान् गुणत्वान्महत्त्ववत् गुणत्वं च शब्दस्यानुमानलक्षणे प्रसाधितम् । भाक्तं च मुख्यपूर्वकमिति क्व चिन्मुख्येन महत्वेन भवितव्यं तच्चासति बाधके द्रव्ये मुख्यमिति सिद्धम् । न महत्प्रत्ययविषयत्वादिति । ( २४७ । १६ ) न तन्मात्राद् अपि त्वबाधितादनन्यथासिद्धादिति तदेवाह । अपि त्वित्यादि । अनेनानन्यथासिद्धिर्द्रव्ये महत्प्रत्ययस्य दर्शिता । तथैकादिमहत्प्रत्यया इति । ( २४८ । १० ) समुदायमेकमाश्रित्येति शेषः । समुदायश्च समुदायान्तरप्राप्ताविति । यदा हि भिन्ना अपि समुदायिनः प्राप्त्या एकीकृता एकः समुदायः तदा समुदायान्तरमपि समुदायान्तरेण प्राप्तमेकः समुदायो न चैकस्यात्मना प्राप्तिरस्ति । न हि तदेवाङ्गुल्यग्रं तेनैवाङ्गुल्यग्रेण प्राप्यते ततश्च द्वयोः समुदायाप्राप्तिरित्ययुक्तमित्यर्थः । चोदयति । नैव जातिरस्तीति । अयमभिसंधिः न सामान्यं नाम वस्तुसद् यस्याश्रयो वस्तुभूतोऽनुस्रियते । तथा हि तत्पिण्डे वा वर्त्तते सर्वत्र वा, यदि सर्वत्र सर्व एव गावः प्रसज्येरन् यथा हि शाबलेयादयो गोत्वाभिसंबन्धाद् गाव एवं विश्वमेव तत्सम्बद्धमिति गौः प्रसज्येत । अथ केषु चिदेव पिण्डेषु वर्तते तदा वक्तव्यं ततो यदा क्व चिद्देशेपिण्डो जायते तदा वक्तव्यं कुतस्त्यं पुनरस्य गोत्वमिति । न तावत्तत्रापि पिण्डोत्पादात्पूर्वमासीन्नापि पिण्डपान्तरादगतं तस्य निष्क्रियत्वात्पिण्डान्तरत्यागप्रसङ्गाच्च । न च पिण्डे जायमाने जायते अनित्यत्वापत्तेः पिण्डान्तरस्य च गोत्वाज्जन्माजन्मस्वरूपविरूद्धधर्माध्यासेन भेदे सत्यसामान्यत्वप्रसङ्गः । तदितो महाव्यसनाद्विभ्यता सांवृतमेव सामान्पयमास्थेयं न पारमार्थिकतिति । परिहरति । जातिविशेषस्येति । ( २४९ । २ ) प्रत्ययानुवृत्तिर्यद्यपि प्रत्यक्षा तथाऽपि विप्रतिपन्नं प्रति सैव लिङ्गमुच्यते । त्यन्ति हि के चिद्भावा ये सहावस्थानेऽपि परस्परमसम्बद्धा यथा समानकाला गन्धरसरूपस्पर्शा विज्ञानानि च बहूनि परेषां समानकालान्यप्यसंसर्गीणि । दिक्कालाकाशात्मानश्च सहाव, स्थाना अपि परस्परासंसर्गिणो वैशेषिकाणां तथा सामान्यमपि सर्वासंबद्धमपि सर्वैः सहावतिष्ठते । यास्त्वस्य व्यक्तयस्ताभिः परं सम्बध्यन्ते । तथा च यत्र जायन्ते व्यक्तयस्तत्रासम्बद्धावपि स्तः सामान्यसमवायाविति । तासा जन्मैवव सामान्यसमवायावच्छेदः । स च स्वकारणादननुयोज्य इति वस्तुगतिं प्रामाणिकीं विद्वासो नास्माद्दूषणाद्बिभ्यतीति । बाधकान्तराणि चास्यावयविव्याख्यानेन प्रत्याख्यातानि । तावदेव तर्ह्यधिकरणं जातेः प्राप्तमिति । ये ये दृक्षत्वादिजातिमनर्पक्षा व्यञ्जयन्ति ते ते परस्परं वृक्षादिव्यक्तितया भिद्यन्ते । यथा किंशुकाशोकचम्पकादयो भिन्नास्तरवस्तथार्ऽवाग्भागमध्यभागापरभागा अपि भिन्नस्तस्य स्युः । अवयविनि तु जायमाने नाय दोषः । तस्य सर्वावयवसाधारण्येन प्रत्यभिज्ञायमानत्वात् । न चैवमवयविनोऽपि तावन्तः स्युरिति वाच्यम् । तस्यैकस्य सर्वावयवसाधारण्येन प्रत्यभिज्ञायमानत्वात् । अवयवान्तरस्य तु नावयवान्तरे प्रत्यभिज्ञायमानत्वात् । तेषां वृक्षव्यक्तिहेतुत्वे वृक्षानेकत्वप्रसङ्ग इति । सर्वापकृष्टः संधातश्चेति व्याघातः । संहन्यमानापेक्षयानपकर्षादित्यर्थः । साख्यमवयवेभ्योऽनर्थान्तरमवयविनं मन्यमानं प्रति प्रयोगमाह । अर्थान्तरमिति । ( २५० । १८ ) प्रावरणसामर्थ्यं पटस्य तन्तूनां तु पटोत्पादनसामर्थ्यम् । तन्तुपटरूपे इति । तन्तूनां नीलपीतलोहितादिरूपं पटस्य तु चित्रं तत्र नीलादीनां समवायिकारणं तन्तवः चित्रस्पवय तु पटः । एवं तन्तुपटयोः सावर्ण्येऽपि कश्चिद्विशेष उन्नेयः । विशेषवत्त्वं च वैयधिकरण्येन प्रतीयमायनत्वं तेन च भिन्नकारणत्वं तेन च भिन्नसमवायिकारणत्वं साध्यत इति न सिद्धसाधनं नाप्यनैकान्तिकत्वमिति । ये तु पक्षहेतू अन्यथाकारे गृहीत्वा द्षयांबभूवुः तन्मतमुपन्यस्य दूषयति । एके त्विति ।

न्या.सू._२,१.३७: रोधोपघातसादृश्येभ्यो व्यभिचारादनुमानमप्रमाणम् ॥

अनुमानमिदानीमिति भाष्यम् । अत्रेदानीपदार्थमाह वार्तिककारः । अथेदानीमवसरप्राप्तमिति । ( २५१ । ५ ) उद्देशक्रम एव लक्षणपरीक्षयोः सम्बन्ध इत्यर्थः । रोधोणम् (सू. ३७) ॥ अप्रमाणदस्य व्यारूयानभाष्यमेकदापीति । प्रतिपादकं निश्चायकम् । लक्ष्यपरत्वाल्लक्षणस्य लक्षणयुक्तस्य लक्ष्यस्य व्यभिचारादप्रमाणत्वेन लक्षणमेव दूषितं भवतीत्यर्थः । वातिकम् । पूर्ववदादेरुदाहरणानीति । अत्र च नदीपूरमयूरवाशिते शेषवत उदाहरणे पिपीलिकाण्डसञ्चरणं चाचिरमुत्पस्त्यमानस्य वर्षस्य न कार्यं न ह्यनागतं कारणं भवति पूर्वोत्पन्नस्य । न च नासावक्रत्वादयोऽप्यनागतेन मरणेन क्रियन्ते तथा सति पुत्रोऽपि पितुः कारणं स्यादिति सर्वमवदातम् । कार्यकारणभावव्यवस्थापनं लौकिकं भवेतु । नियमवान् खलु प्राग्भावः कारणत्वस्य व्यवस्थापको नियमवांश्च पश्चाद्भावः कार्यत्वस्य व्यवस्थापकः नासावक्रत्वादयो मरणस्य यत्कारणं तस्य पूर्वकार्याणीति प्रत्यासत्त्याऽनया मरणमनुमापयन्ति । न च विपीलिकाण्डसञ्चरणं वर्षस्य कारणमनुपलब्धसामर्थ्यात् । असत्यपि तस्मिन्वर्षस्योत्पत्तेः । वर्षमूलकारणस्य तु महाभूतसंक्षोभस्य पिपीलिकाण्डसञ्चरणं पूर्वकार्यं क्वथ्यमानाः खलु पिपीलिका भौमेनोष्मणा स्वान्यण्डानि भूमिष्ठान्युपरिष्टान्नयन्ति । तस्मात्पिपीलिकाण्डसञ्चारेण वर्षकारणमनुमाय यदि वर्षकारणात्कार्यर्ं वषमनुमिमते अनुमातारः तदा पूर्ववदुदाहरणम् ।

अथ कार्यकारणभावमबुद्धैव तदा कार्यकारणभावाभावेन सामान्यतोदृष्टस्योदाहरणमिति मन्तव्यम् ।
उदाहरणव्यभिचारद्वारकमिति ।
लक्ष्यदूषणद्वारेण लक्षणस्य दूषणमित्यर्थः ।
न हि व्यभिचारलक्षणस्यानुमानाप्रामाण्यप्रतिपादकस्यानुमानस्य व्यभिचारे किं चित्प्रमाणमस्तीति ॥ ३७ ॥

न्या.सू._२,१.३८: नैकदेशत्राससादृश्येभ्योऽर्थान्तरभावात् ॥

भाष्ये पिपीलिकाप्रायस्येति ।
प्रायशब्दः प्रबन्धार्थः ॥ ३८ ॥

न्या.सू._२,१.३९: वर्तमानाभावः पततः पतितपतितव्यकालोपपत्तेः ॥

तदेवमनुमानलक्षणपरीक्षाद्वारेणानुमानलक्षणं परीक्ष्य संप्रत्यनुमानविषयपरीक्षयाऽनुमानपरीक्षामवतारयति भाष्यकारः । त्रिकालविषयमिति । तत्र वार्त्तिककारः सत्यां कालस्य सिद्धौ वर्त्तमानत्वं परीक्ष्यते स एवापरीक्षितोऽद्यापि न सिध्यतीति कालस्वरूपं परीक्षते । तत्र तावदिति । ( २५२ । २२ ) त्रिकारण्येमिति । ( २६३ । ३ ) कारणान्तरवैकल्यं विषयस्यायोग्यत्वमभावो वा विषयस्येति त्रीण्यनुपलब्धिकारणानीति । अथ धर्मोऽपि नास्तीति । भावरूपो हि हेतुरभावाधिकरणो न भवति अभावरूपस्य त्वभावाधिकरणत्वाविरोध इत्यर्थः । परिहरति । साधनार्थो हीयते । न हि पराभिमतोऽभावः सर्वसामर्थ्यरहितः साधनं कस्य चिद्भवति अस्मदभिमतस्त्वभावः परतन्त्रोभावाधिकरण एव नानधिकरणो नाप्यभावाधिकरण इत्यर्थः । एवं कालस्य बाधकप्रमाणाभावमुक्त्वा साधकं प्रमाणमाह । परापरादीति । स्वयं विद्यमानयोरनियतदिग्देशयोः समानदिक्कयोर्वा देशतस्सन्निकृष्टविप्रकृष्टयोर्वा विप्रकृष्टसन्निकृष्टयोर्वा युवस्थविरयोरेकस्मिन् शरीरावस्थाभेदानुमितातीतसूर्योदयास्तमयरूपक्रियाप्रचयबहुत्वान्तरितजन्मनि स्थविरे युवानं शरीरावस्थाभेदानुमितातीतसूर्योदयास्तमयरूपक्रियाप्रचयाल्पत्वान्तरितजन्मानमवधिं कृत्वा विप्रकृष्टा बुद्धिरुत्पद्यते तामपेक्ष्य बहुतरसवित्रुदयास्तमयविशिष्टेन कालप्रदेशेन योगाद्वर्षीयसि परत्वस्योत्पतिः एवं वर्षीयांसमपधिं कृत्वा यवीयसि सन्निकृष्टा बुद्धिरुत्द्यते तामपेक्ष्याल्पतरदिनकरोदयास्तमयाल्पत्वान्तरितजन्मानमवधिं कृत्वा विप्रकृष्टपा बुद्धिरुत्पद्यते तामपेक्ष्य बहुतरसवित्रुदयास्तमयप्रचयविशिष्टेन कालप्रदेशेन गोगाद्यवीयस्यपरत्वस्योत्पत्तिः । तयोश्च कालपिण्डसंयोगयोः प्रत्यक्षत्व न लोकसिद्धं, ते एते परत्वापत्वे कालपिण्डसंयोगादुत्पद्यमाने कालकारणविशिष्टमात्मानं कार्यतया गमयतः । सूर्योदयास्तमयक्रियाप्रचयाल्पत्त्वबहुत्वविशिष्टात्पिण्डादेव परत्वापरत्वे भविष्यतः कृतमत्र द्रव्यान्तरेण कालेनेति चेत् । न सवितृसमवेतायाः क्रियायाः पिण्डेनासंबन्धात् । संयुक्तसमवायस्त्वस्याः सम्बन्धः कालेन सर्वगतेनास्यास्ति, न वाकाशं सर्वगतमपि परापरव्यतिकरं प्रत्यवकल्पते । अस्य स्वरूपेणाभेदात् । अपि चापकाशात्मानौ न परापरव्यतिकरकारणम् असाधारणगुणयोगित्वात् पृथिव्यादिवत् । तस्मात्परापरव्यतिकरकारणे कल्पनीये । ते च द्रव्यमपारतन्त्र्याद् आकाशवत्ते दिक्काला उच्येते एवं यौगपद्यापयौगपद्यचिराक्षिप्रप्रत्यया अपि काललिङ्गं न ह्येते क्रियायां तत्कारकेषु वा भवितुमर्हन्ति तेषु सत्स्वपि कादाचित्कत्वात् । नन्वयं कालोऽपि नित्य इति तस्मिन् सत्यप्येते कादाचित्काः कथं कालाकारणम् । अपि । यद्युच्येत एकसूर्यपरिस्पन्दावच्छिन्नकालसम्बन्धिन्यः क्रियाः युगपदनेकसूर्यपरिस्पन्दावच्छिन्नकालसम्बन्धिन्यः क्रियाः क्रमवत्यो यौगपप्रत्यगोचरः । एवं बहुतरानेकसूर्यपरिस्पन्दावच्छिन्नकालसम्बन्धिनी क्रिया चिरप्रत्ययगोचरः । अल्पतरानेकसूर्यपरिस्पन्दावच्छिन्नकालसम्बन्धिनी क्रिया क्षिप्रमत्ययगोचर इति । कृतं तर्हि सूर्यपरिस्पन्दस्य कालावच्छेदेन । नन्वयं साक्षादेव क्रियामवच्छेत्स्यतीति । तथा च युगपदादिप्रत्यया भविष्यन्तीति । तन्ना सूर्यपरिस्पन्दस्य क्रियाभिः सम्बन्धाभावेन तदवच्छेदकत्वानुपपत्तेः न वाकाशादिसम्बन्धद्वारमस्य तदवच्छेदकत्वम् । तथा हि नाकाशादयः क्रियायौगपद्यादिप्रत्ययनिमित्तीम्, असाधारणगुणयोगित्वाद् घटवत् । एवं यौगपद्यादिप्रत्यया न दिक्कारणकाः दिग्देशनियमानपेक्षणात् । कालपिण्डसंयोगजपरत्वापरत्वचदिति । तस्मात्सूर्यपरिस्पन्दस्य देवदत्तादिपरिस्पन्दस्य चास्ति कालेन सर्वगतेन संयुक्तसमवायलक्षणः सम्बन्धः । एतया च द्वादा परिस्पन्दयोरप्यस्ति सम्बन्धप इति । कालसम्बन्धानपेक्षमेव च सूर्यपरिस्पन्दावच्छिन्नस्य देवदत्तादिपरिस्पन्दस्य ग्रहणमुपद्यते । यथा दण्डीति शब्दाद्दण्डावच्छिन्नं पुरुषं प्रतीत्य तदन्यथानुपपत्त्या पश्चाद्दण्डपुरुषयोः संयोगभेदोऽवगम्यते न तु सम्बन्धज्ञानपुरःसरं दण्डिविज्ञानम् । एवं परत्वापरत्वे अपि कालपिण्डसंयोगनिबन्धने गृहीत्वा कालोऽनुमीयते न तु कालज्ञानपुरःसरं तज्ज्ञानं तत्सिद्धमरूपतया कालोऽप्रत्यक्षः परत्वापरत्वाद्यनुमेयश्चेति । तस्मात्सुष्टूक्तं परादिप्रत्ययानां चेति । कार्यकारणविशेषापेक्ष

इति ।
कार्यस्य परापरादेः प्रत्ययस्य च यः कारणविशेषोबहुतराल्पतरातीततपनपरिस्पन्दावच्छिन्नकालपिण्डसंयोगस्तदपेक्षः काल एकोऽपि परापरादिप्रत्ययहेतुः परापरत्वलक्षणगुणोत्पादनद्वारेणेति वर्त्तते कारणव्यङ्ग्यः कालः तस्य निष्पन्नतया व्यक्तिसाधनत्वोपपत्तेः ।
न तु क्रियाव्यङ्न्य तस्याः साध्यतया असिद्धत्वाद्व्यक्तिं प्रति हेतुभावाभावात् ।
तथा चातीतानागतमात्रदर्शनाद्वर्त्तमानाभावेन न त्रैकाल्यविषयमनुमानं तयोश्च पितापुत्रवत्परत्वापरत्ववदूध्रस्वदीर्घवच्च परस्परापेक्षासिद्धिरन्तरेणापि वर्त्तमानकालमिति पूर्वः पक्षः ॥ ३९ ॥

न्या.सू._२,१.४०: तयोरप्यभावो वर्तमानाभावे तदपेक्षत्वात् ॥

तयोत्वात् (सू. ४०) ॥ नातीतादिरूपता कालस्य कारकव्यङ्न्या तयोस्तादवस्थ्यात् । अपि तु क्रियाव्यङ्ग्या तां खलूररीकृत्य प्रवर्तमानानयमतीतानागतवर्तमानान् प्रतिपद्यते नान्यथा । यदा खल्वयं पुरुषः फलं प्रवर्तमानपतनक्रियाविशिष्टं प्रतिपद्यते तदा व्यपदिशतिपतति फलमिति । तन्मूले चास्यातीतानागतत्वे अपतत् फलं पतिष्यतीति । न च वर्तमानपतनमसिद्धं येन न कालं व्यञ ज्यात् (तद्द्वयोस्तादवस्थ्यात् अपि तु क्रियाव्यङ्ग्यता) तदसत्त्वे कस्येदं कारणं गुरुत्वं कस्य च फलं कारकं कस्य च फलं भूमिसंयोगः कार्यः । न च परत्वापरत्वादीनामपि सिद्धिः परस्परापेक्षा । किं तर्हि ? सन्निकृष्टबुद्ध्यपेक्षमपरत्वं विप्रकृष्टबुद्ध्यपेक्षं परत्वं पूर्वसंख्यावच्छिन्नता च संयुक्तसंयोगानां सन्निकर्षः । परसंख्यावच्छिन्नता च विप्रकर्षः । एवं ह्रस्वत्वदीर्घत्वे अपि परिमाणभेदौ न परस्परापेक्षौ पितापुत्रौ च प्रमाणप्रमेयव्याख्यया व्याख्यातौ । तस्मादतीतानागतयोर्वर्तमानापेक्षत्वाद्वर्तमानस्य च तदनपेक्षत्वादस्ति त्रैकाल्यमिति सिद्धान्तः ॥ ४० ॥

न्या.सू._२,१.४१: नातीतानागतयोरितरेतरापेक्षा सिद्धिः ॥

भाष्यम् अथापीति । कस्मादतीतानागतावितरतरापेक्षौ न भवतः कृतं वर्तमानेनेति शंङ्का सूचयति । तन्निराकरणानय सूत्रम् नातीद्धिः (सू. ४१) ॥ परस्परापेक्षसिद्धेर्हि वर्तमानाभावः सैव तु नास्तीति सूत्रार्थः । कया युक्त्येति प्रश्नः । उत्तरं केन कल्पेन प्रकारेणातीतः तदनेन वर्तमानाभावेऽतीतस्वरूपाक्षेपः कृतः । ह्रस्वदीर्घत्वादीनां परस्परापेक्षसिद्धित्वमङ्गीकृत्याह । तन्नोपपद्यते विशेषहेत्वभावादिति । परमार्थतस्तु न चेतरेतरतरापेक्षा ह्रस्वदीर्घत्वादीनामपि सिद्धिरिति । स्वकीयां युक्तिं वार्तिककार आह । न च वर्तमानकालानभ्युपगमे पतत इतीति । ( २५५ । ६ ) ॥ ४१ ॥

न्या.सू._२,१.४२: वर्तमानाभावे सर्वाग्रहणं प्रत्यक्षानुपपत्तेः ॥

वक्ष्यमाणसूत्रावतारपरं भाष्यम् । अर्थसद्भावव्यङ्न्यश्चायिति । अस्यार्थः न केवलं पतनादिक्रियाव्यङ्न्यो वर्तमानः कालः अपि त्वर्थसद्भावोऽर्थस्य सत्ताऽस्तिक्रियेति यावत् । तया व्यङ्न्यः कालः । एतदुक्तं भवति पतनादयः क्रियाः वर्तमानेष्वपयान्त्यपयान्तिच । अस्ति क्रियातु सर्ववर्तमानव्यापिनी । तदेवमस्तिक्रियाविशिष्टस्य वर्तमानस्याभावे सर्वाग्रहणं प्रत्यक्षानुपपत्तेः । न चाविद्यमानं तस्य विवरणमसदिति । न च वर्त्तमानाभाववादी विद्यमानं सत्किं चिदनुजानाति । अत्र वार्तिककारः पृच्छति । कथं पुनरिति । ( २५५ । १७ ) न हि सर्वं प्रत्यक्षं वर्त्तमानविषयमतीतानागतयोरपि योगिप्रत्यक्षत्वादिति भावः ।

उतरं यस्मादिति ।
नातीतानागतविषयतया प्रत्यक्षानुपपत्तिं ब्रूमः अपि त्वतीतानागताधारतयेत्यर्थः ।
भाष्यमपि वर्त्तमानाभावे प्रत्यक्षनिमित्तं सन्निकर्षः अस्मादिप्रत्यक्षविषयो विद्यमानो घटादिः प्रत्यक्षं प्रमाणमनाधारं सत्सर्वं नोपपद्यत इति द्रष्टव्यम् ॥ ४२ ॥

न्या.सू._२,१.४३: कृतताकर्तव्यतोपपत्तेस्तूभयथा ग्रहणम् ॥

अत्र भाष्यमुभयथा वर्तमानो गृह्यत इति तदवतार्य व्याचष्टे वार्तिककारः । उपपन्नश्च सन् द्वेधा भिद्यते इति । क्व चित् क्रियामात्रव्यङ्ग्यः यथाऽस्तीति । क्व चित् क्रियासन्तानव्यङ्ग्यः । पततिच्छिनत्तीति ( २५६ । ३ ) अत्र हि पूर्वपरीभावः प्रतीयते । न च प्रतिक्षणमपवर्गवतः कर्मण एकस्य पाकस्य वा च्छेदनस्य वा पूर्वोपरीभाव इति । कर्मसंतानस्त्वास्थेयः सोऽपि चैकमुपसंग्राहकमन्तरेण न भवत्यत उक्तं भाष्यकृता एकार्था क्रिया क्रियासंतान इति । एकप्रयोजनावच्छिन्नेत्यर्थः । अत्र चाधिश्रयणादयो भवन्तु पच्यर्थाः यथाह महाभाष्यकारः तदभिसन्धिपूर्वकं प्रेषणमध्येषणं वा युक्तं तत्सर्वं पच्यर्थ इति । रूपादिपरावृत्तिमात्रार्थत्वं वास्य पचे, राख्यातार्थः । सर्वोऽयमध्येषणादिर्भवतु भावनाभिधानः नोभयथापि का चिदस्ति दर्शनक्षतिः । अनागताद्व्यवच्छिनत्ति नानारम्भ इति । अनारम्भोऽननुष्ठानंन विवक्षितं यथा पक्ष्यतीत्यत्रेत्यर्थः । अतीताद् व्यवच्छिनत्ति । नोपरमो विवक्षित इति यथापाक्षीदित्यत्रेत्यर्थः । संतानारम्भविवक्षायामिति । आरम्भोऽत्र चिकीर्षाभिधीयत इति न विरोधः । तदेव वर्तमानं क्रियासद्भावमुक्त्वा तत्सम्बन्धव्यङ्ग्यां कारकस्य वर्तमानतामाह । यच्चेदं छिद्यमानमिति । (न) तत्क्रिक्रियमाणं । वर्तमानक्रियासम्बन्धेन वर्तमानं न तु स्वरूपत इत्यर्थः । तस्य च कारकस्य वर्तमानक्रियासम्बन्धमतीतानागतानपेक्षमपेक्ष्यातीतानागतत्वे । क्रियायाः कारकस्यापि व्यक्तिः तद्भावव्यक्तिः । तद्धेतुकं च द्वैविध्यमिति प्रतिपादनपरं सूत्रमववतारयति । तस्मिन् क्रियामाणे । कृतणम् ( सू. ४३ ) ॥ भाष्यम् । आरब्धोऽभीष्टफलोरीकरणेन क्रियासंतानः पचतीति । वक्ष्यमाणासंपृक्ततोपयोगितया क्रियासंतानस्वरूपमाह । तत्रति । क्रियासंताने । (नो) न (तु) नु विद्यत इत्यत्रापि पूर्वपरीभावावगमादतीतानागताभ्यां संपृक्त एवेत्यत आह वार्तिककारः । अत्र हि केवल इति । शब्दमाहात्म्यात्सम्पर्को न वास्तवो, वास्तवं तु वर्तमानत्वमत एवाह । केवलः शुद्ध इति । शब्दमाहात्म्यात्सम्पर्को न वास्तवो, वास्तवं तु वर्तमानत्वमत एवाह ।

केवलः शुद्ध इति ।
पर्यायाभिधानमात्यन्तिकं संपर्काभावं दर्शयति ।
यदि क्व चिन्मुख्यंवर्तमानत्वं नाभ्युपेयते ततस्तत्पूर्वको भाक्तोऽपि वर्तमानप्रयोगोऽपि न स्यादित्यत आह ।
अन्यश्च लोक इति ॥ ४३ ॥

न्या.सू._२,१.४४: अत्यन्तप्रायैकदेशसाधर्म्यादुपमानपासिद्धिः ॥

अत्यद्धिः (सू. ४४) ॥ यथा गौरेवं गवय इत्यतिदेशवाक्यार्थस्मृतिसहकारि सारूप्यदर्शनं साध्यस्य गवयोऽयमिति संज्ञासंज्ञिसम्बन्धस्य साधनमुपमानं तच्चेदं नोपपद्यते विकल्पानुपपत्तेः । किं यथा गौरेवं इति गवाऽत्यन्तसाधर्म्यं विवक्षितं तथा सति गवान्तरमेवगवयः स्यात् । तदिदमाह भाष्यकारः न चैवं भवति यथा गौरेवं गौरिति । चो यस्मादर्थे । तस्माद्यथा गौरेवं गवय इति वाक्यस्यार्थो भवति यथा गौरेवं गौरिति । गवा प्रायसाधर्म्यादपि गवयोपमानं न सिध्यति । मह्विषस्यापि गवा प्रायसाधर्म्यस्य विद्यमानत्वेन तस्यापि गवयाभिधानप्रसङ्गात् । तदिदमाह । न हि भवति यथाऽनड्वानेवं महिष इतीति । यथाऽनड्वानेवं गवय इत्यस्य वाक्यस्यार्थो यथानड्पवानेवं महिष इति यस्मान्न भवति । एकदेशसाधर्म्यादुपमानं न भवति । एकदेशोपमानस्यैवानुपपत्तेरतिप्रसङ्गात् । तदिदमाह न हि सर्वेण सर्वमुपमीयते तथा सति सुमेरोरपिसर्षपेणोपमानप्रसङ्गात् ॥ ४४ ॥

न्या.सू._२,१.४५: प्रसिद्धसाधर्म्यादुपमानसिद्धेर्यथोक्तदोषानुपपत्तिः ॥

प्रसित्तिः (सू. ४५) ॥ प्रकरणाद्यपेक्षं हि वाक्यं स्वार्थं प्रतिपादयति, न केवलम् । तद्वशाच्च क्व चिदत्यन्तसाधर्म्यं प्रतीयते क्व चिद्भूयःसाधर्म्यं क्व चिदेकदेशसाधर्म्यं, तदिह प्रतीतमहिषादिकं पुरुषं प्रति यथा गौरेवं गवय इति वाक्यमुच्चार्यते तदा महिषादिपरिहराराय भूयः साधर्म्यं विवक्षितमित्यवगतं वाक्यार्थं स्मरन् महिषादिषु वने गोसाधर्म्यं पश्यन्नपि न गवयसंज्ञां निवेशयति । अपि तु साधर्म्यवति गवय एव तां निवेशयति । यस्त्वप्रतीतमहिषादिस्तं प्रत्येतद्वाक्यमुपमानं न भवत्येवेति परमार्थः । यथा च प्रकरणादिवशादत्यन्तप्रायैकदेशसाधर्म्यमाश्रित्यातिदेशवाक्यानि प्रवर्त्तन्ते तथा चोक्तं वार्त्तिककृता । नसाधर्म्यस्यत्यादि भाष्यं नियमं निषेधति न साधर्म्यस्य कृत्स्नभावमेव वाऽल्पभावमेव वा आश्रित्यातिदेशवाक्यं प्रवर्त्तते । किं तर्हि ? प्रसिद्धसाधर्म्याद्धेतोः साध्यसाधनभावमाश्रित्योद्दिश्येति । एतदुक्तं भवति । न नियमः, किं तु क्व चित्किं चित्साधर्म्यमाश्रित्यातिदेशवाक्यं प्रवर्त्तते तच्च प्रकरणाद्युन्नेयमिति । अनभ्युपगमादिति च वार्त्तिकं नियमाभिप्रायमेव । तत्क्रिययैव ( २५७ । २३ ) तत्क्रियान्तरमित्यर्थः ॥ ४५ ॥

न्या.सू._२,१.४६: प्रत्यक्षेणाप्रत्यक्षसिद्धेः ॥

प्रत्यद्धेः (सू. ४६) ॥ यथा गौरवं गवय इति हि वाक्यं प्रत्यक्षेण गवा गवयप्रत्यक्षं प्रतिपादयति ।

न खलु श्रुतवाक्योऽपि यदा प्रत्यक्षेण गवयं पश्यति तदा वाक्यार्थाधिगमादधिकं किं चित्प्रतिपद्यते ।
संज्ञासंज्ञिसम्बन्धोऽप्यनेन वाच्यादेवावगतः ।
तस्मात्प्रत्यक्षेण गवा प्रत्यक्षस्य गवयस्य गवयसंज्ञाविशिष्टस्य प्रतीतेरुपमानस्यानुमाननेति पूर्वः पक्षः ॥ ४६ ॥

न्या.सू._२,१.४७: नाप्रत्यक्षे गवये प्रमाणार्थमुपमानस्य पश्याम इति ॥

सिद्धान्तस्तु (सू. ४७) ॥ गवयत्वं हि संज्ञि, न च तद्यथा गौरेवं गवय इति वाक्यात्प्रतीयते । अपि तु कस्य चिद्गता सादृश्यं, न च वाक्यगतोपव गवयशब्दस्तस्य वाचकः । तथा तदानीमगृहीतसंगतित्वात् । न च सादृश्यं संज्ञि, तस्मात्प्रत्यक्ष एव गवयत्वस्य प्रत्यक्षत्वात्संज्ञासंज्ञिसम्बन्धपरिच्छेदः प्रमाणार्थः । उपपादितं चैतदुपमानलक्षणे । तस्मात्प्रत्यक्षो गवयः अप्रत्यक्षेण गवा प्रतीययत इति । सिद्धमित्यर्थः । पूर्वपक्षवाङ्माह । परार्थमुपमानमिति चेन्मन्यसे सिद्धावादिन्, तन्नास्ति । कुतः । स्वयमप्यध्यवसायात् । एवं हि परार्थं स्याद्यथा गौरेवं गवय इति वाक्यं यदि परस्यैवाध्यवसायं जनयेत् यावतोच्चारयितुरण्घ्यवसायं जनयति तस्मात्स्वार्थमपीत्यर्थः । एतदेव दर्शयति भाष्यकारः भवति भोः स्वयमप्युच्चारयितुर्वाक्यादध्यवसाय

इति ।
सिद्धान्तवाद्याह ।
नाध्यवसावय उच्चारयितुः प्रतिषिध्यते उपमानम् उच्चारयितारं प्रति न भवति ।
कुत इत्यत आह प्रसिद्धसाधर्म्यादिति ॥ ४७ ॥

न्या.सू._२,१.४८: तथेत्युपसंहारादुपमानसिद्धेर्नाविशेषः ॥

वार्त्तिकं तु परार्थत्वेनानुमानादुपमानभेदमाह । परार्थत्वाच्चेति । ( २५८ । १९ ) ननु प्रत्यक्षं सारूप्यज्ञानमुपमानं न चैतत्परार्थमित्यत आह । न हि यथागौरिति । अस्तु तर्हि वाक्यमेवेत्यत आह ।

न ह्यागमेति ।
भिन्नयोरप्यनुमानोपमानयोरेतावन्मात्रेण साध्यमित्युसंहारव्याजेनाह ।
तस्माद्यथेति ।
अतिरोहितमितरत् ॥ ४८ ॥

न्या.सू._२,१.४९: शब्दोऽनुमानमर्थस्यानुपलब्धेरनुमेयत्वात् ॥

अत्र हि सूत्रकारेण प्रथममनुमानान्तर्गतिः परीक्षिताः, न चापरीक्षितप्रमाणभावस्य सा युक्तेति वार्त्तिककारः प्रथममस्य प्रमाणभावमेव परीक्षते । तस्याक्षेपो न शब्दः प्रमाणमिति ( २५९ । ८ ) यस्मिन् सति प्रमा भवत्येव न न भवति तत् प्रमाणं साधकतमस्य करणत्वात् । सत्यपि तु शब्देव प्रमाव न भवतीति तस्य साधकत्वं विघटयति । विषयाभावच्चेति । प्रामाण्यं हि विषयवत्तया व्याप्तं सा शब्दान्निवर्त्तमाना प्रामाण्यमपि निवर्त्तयति वृक्षतेव निवर्त्तमाना स्वव्याप्तं शिंशपात्वम् । द्विविधश्च विषयः प्रत्यक्षः परोक्षश्च । तत्र पूर्वः प्रत्यक्षस्य प्रमाणस्य विषयः । अप्रत्यक्षश्चाविनाभूताल्लिङ्गादवगन्तव्यः । तदनपेक्षणे असम्बन्धाविशेषात्सर्वं सर्वस्माद्गम्येत । तथा च सर्वः परोक्षार्थप्रत्ययोऽनुमानव्याप्तः । न च प्रत्यक्षपरोक्षाभ्यामन्यो राशिरस्ति । तस्माद्विषयाभावादपि न शब्दप्रामाण्यमिति।यत्तावत्सत्यप्रमितेरिति । तन्न । असिद्धत्वादिति । न शब्दमात्रं प्रमाणमपि तु गृहीतः स्मर्यमाणसम्बन्धश्च । न चेदृशे शब्दे सति प्रमा न भवति । यादृशे तु सति प्रमा न भवति नासौ प्रमाणमित्यर्थः । तन्महत्प्रत्ययकर्तृत्वादिति । ( २६० । ३ ) मह्वत्त्वपरिमाणं हि महतो विशेषणं तन्न ज्ञातं विशेष्ये महति प्रमाणम् । तदेवं सिद्धप्रमाणभावस्य शब्दस्यानुमानाद्भेदं परीक्षमाणः पूर्वपक्षयति ।

अनुमानं शब्द इति ।
शब्दोत्वात् (सू. ४९) ॥

यज् ज्ञानं प्रत्यक्षेणानुपलभ्यमानार्थविषयं प्रत्यक्षस्य पश्चादुपजायते तदनुमानं यथाऽग्निमद्धूमज्ञानं तथा च शब्दज्ञानं तस्मादनुमानमित्यर्थः ॥ ४९ ॥

न्या.सू._२,१.५०: उपलब्धेरद्विप्रवृत्तित्वात् ॥

न्या.सू._२,१.५१: संबन्धाच् च ॥

अद्विप्रवृत्तिकत्वं प्रकारभेदरहितत्वं प्रत्यक्षानुमाने तु परोक्षापरोक्षावगाहितया प्रकारभेदवती इत्यर्थः ॥ ५०५१ ॥

न्या.सू._२,१.५२: आप्तोपदेशसामर्थ्यात् शब्दादर्थसंप्रत्ययः ॥

सिद्धान्तस्वरूपमुपक्रमते ।

यत्तावदिति । एतेनसंशयादिषु व्यभिचारेण, तेऽपि हि त्रिकालविषया इति । अन्वयव्यतिरेकोपपत्तिमात्रं प्रत्यक्षेऽप्यस्ति । प्रत्यायनाङ्गान्वयव्यतिरकज्ञानं तु अन्यादृशं शब्दे अन्यादृशं त्वनुमाने, तद्धि पक्षधर्मतापेक्षमनुमाने, शब्दे तु तदनपेक्षमित्यत्र सूत्रं भवति । आप्तो यः (सू. ५२) ॥ यो ह्यत्यन्तादृष्टपूर्वः स्वर्गापूर्वदेवतादिः स वाक्यार्थरूपः तथा हिऽयन्न दुःखेन संभिन्नं न च ग्रस्तमनन्तरम् । अभिलाषोपनीतं च तत्सुखं स्वःपदास्पदऽ मिति ॥ स्वर्गो वाक्यार्थः । एवमपूर्वमपि, तत्खलु स्वर्गनरकादिहेतुः कालान्तरस्थायी पुरुषविशेषगुणः स्वकार्यविरोधीति वाक्यार्थ, एवं देवताऽपि । साऽपि हि सूक्तहविर्भागिनी सहस्राक्षाद्युपेतदेहादिमती वाक्यार्थ एव । नैवैष शब्दादृते अस्मदादिप्रत्यक्षादिगोचरः । न चागृहीतं लिङ्गमस्मिन्प्रवर्त्तितुमर्हति । न चागृहीते सम्बन्धिनि शक्यग्रहः सम्बन्धः । पदं तु यद्यपि पदार्थसङ्गतिसंवेदनमपेक्षते । यद्यपि पदार्थ एव पदार्थान्तरविशिष्टो वाक्यार्थः । येऽपि वाक्यार्थे सर्गादौ पदार्थस्मरणद्वारेण प्रवर्त्तमानं सङ्गतिग्रहानपेक्षमेव स्वर्गरूपवाक्यार्थं कुर्वन्ति स्वलोकसिद्धं सुखजातीयमुद्दिश्य लोके सिद्धैरेवे दुःखाद्यसंभेदैर्विशिष्टं स्वर्गपदवाच्यं प्रतिपादयन्ति नापदार्थं वाक्यार्थं कुर्वन्ति वाक्यार्थे च पदवचनं स्वर्ग इति यथा श्रोत्रियंश्छन्दोऽधीत इति । यथा चक्षुरादयो रूपादिष्वगृहीतसङ्गतयः प्रवर्त्तन्ते एवं पदार्थसङ्गतिग्रहापेक्षाण्यपि पदानि वाक्यार्थबोधने न सङ्गतिग्रहमपेक्षन्ते, कार्यव्यङ्न्यत्वात्प्रमाणभावस्य सङ्गतिग्रहानपेक्षेभ्योऽपि च पदभेदेभ्यो वाक्यार्थावबोधकार्यदर्शनात् । तस्मान्न पदं तदर्थो वा वाक्यार्थावबोधे लिङ्गं तत्र सम्बन्धग्रहानपेक्षत्वाद रूपादिबोधे चक्षुरादिवत् । स्यादेतत् । मा भूत्प्रत्यक्षतोदृष्टमनुमानं वाक्यार्थे सामान्यतोदृष्टं भविष्यति । यद्यपि च वाक्यार्थे साध्ये पदानामपक्षधर्मत्वं यद्यपि च पदस्मारिताः पदार्था व्यभिचारिणः तथाऽप्याकाङ्क्षायोग्यतासत्तिविशेषणाः पदार्थाः संसर्गे लिङ्गं भविष्यन्ति । तथा हि यन्न दुःखेनेत्यादिभिः पदैः स्मारिताः पदार्थाः गुणप्रधानभावेनावस्थिताः संसर्गवन्तः आकाङ्क्षायोग्यतासत्तिमत्त्वे सति पदैः स्मारितत्वाद् गामभ्याजेति पदस्मारितपदार्थवत् । संसर्गस्य च संसृज्यमाना एव विशेषो न पुनराजानतोऽस्तिकश्चिद्विशेषः । संसृज्यमानाश्च पदैरेव स्मारिता इति संसर्गविशेषप्रतिलम्भः । स एव च वाक्यार्थ इति सिद्धमानुमानिको वाक्यार्थ इति । गामभ्याजेत्यत्र पदार्थानां संसर्गवत्त्वं च वाक्यश्रवणसमनन्तरप्रयोज्यवृद्धप्रवृत्त्यनुमितपदार्थसंसर्गप्रत्ययादवगतम् । तदेतदचतुरस्रम् । पदानामेव पदार्थस्मरणावान्तरव्यापाराणां वाक्यार्थप्रमां प्रति करणतया प्रमाणत्त्वात् । तेषां चापक्षधर्मतया लिङ्गत्त्वानुपपत्तेः । यदि तु पदानि पदार्थमात्रवपर्यवसितवृत्तीनि न वाक्यार्थप्रत्ययपराणि स्युः ततो न पदार्थानामाकाङ्क्षाऽस्तीति वाक्यार्थप्रत्ययो न भवेत् । न खल्वाकाङ्क्षां विना सन्निधियोग्यताभ्यामेव पदार्थाः संसृज्यन्ते यथाऽयमेति पुत्रो राज्ञः पुरुषोऽपसार्यतामित्यत्र पुत्रसम्बन्धेन निराकाङ्क्षोपव राजा न पुरुषेण सम्बद्ध्यते । न च पदानां वाक्यार्थप्रत्त्ययपरत्वमन्तरेण तत्स्मारितानां पदार्थानामाकाङ्क्षास्ति । न हि यद्येन विना न भवति तत्तदाकाङ्क्षति येन कारकं क्रियामपेक्षेत द्रव्यं वा गुणं तथा सति पटो भवतीति वाक्यं न निराकाङ्क्षं स्यात् । पटस्य द्रव्यस्य गुणाकाङ्क्षित्वात । तस्माद्रक्तः पटो भवतीत्यस्यैकदेशः पटो भवतीति साकाङ्क्षत्वादप्रमाणमेवं पटो भवतीति हि वाक्यं यं कं चिद् गुणं गृहीत्वानाकाङ्क्षं प्रमाणमेव, यदा पुना रक्तः पटो भवतीत्यस्यैकदेशो यं कं चिद् गुणमाक्षिप्य निराकाङ्क्षः एवं विभागे सति निराकाङ्क्षत्वेन वाक्यभेदः स्यात् । रक्त इत्यपि च वाक्यं यं कं चिद गुणिनं क्रियां च कां चिदाक्षिप्य निर्वृणुयात् । न च विशेषदर्शने सति नाक्षेप इति युक्तम् । एकवाक्यतायां सत्त्यां विशेषदर्शने अनाक्षेपः । अनाक्षेपे च सत्येकवाक्यतेत्यन्योन्याश्रयापत्तेः । तस्माद्वाक्यार्थप्रतिपादनपरसमभिव्याहृतपदकदम्बस्मारितत्वेनापर्यवसानमेव पदार्थानामाकाङ्क्षेति युक्तमुत्पश्यामः । तथा च पटो भवतीत्येतावन्मात्रं निराकाङ्क्षं यं कं चिद् गुणमाक्षिप्य निर्वृणोति रक्तः पटो भवतीत्यत्र तु रक्तपदस्यापि समभिव्याहारात् पटादिसंसर्गपरत्वमिति पटादि संसर्गमन्तरेण रक्तत्त्वमपर्यवस्यत् पटादयश्च रक्तत्वसंसर्ग विन्तऽपर्यवस्यन्तः परस्परसंबन्धा भवन्तीति सिध्यत्येकवाक्यता । तस्मात्पदान्येव पदार्थस्मरणद्वारेण तत्संसर्गं लक्षयन्ति वाक्यार्थे प्रमाणं तेषां चापक्षधर्मतया न लिङ्गत्वम् । स्यादेतत् । अयं पदकदम्बकविशेषः स्मारितपदार्थसंसर्गवान् आकाङ्क्षादिमत्त्वे सति पदकदम्बत्वाद् गामभ्याजेतिपदावलीवादिति नापक्षधर्मता । मैवम् । अन्योन्याश्रयापत्तेः । कर्मकारकं हि पटादन्यद्वस्तुतः सिद्धं ज्ञानलक्षणाय फलाय कल्पते । यथाऽग्निमत्ता धूमस्य पर्वतस्य वाऽग्निसंयोगः न त्वग्निज्ञानजनकत्वं तद्वत्ता । फलव्यङ्न्यं हि तन्नानुपजाते फले कल्पते । तथा च फलोपजनने सत्यग्निमत्ता तद्वत्तायां तु कर्मणि फलोपजननमित्यन्योन्याश्रयापत्तिः । न हि फलकर्मणोरैक्यम् । न हि वृक्ष एव च्छिदा भवति । तदिह संसर्गवत्त्वं पदानां तज्ज्ञानजनकत्वं नानुमानसाध्यं भवितुमर्हति । न ह्यग्निज्ञानजनकत्वं धूमस्यानुमानसाध्यमित्युक्तम् । स्मृतिजनकत्वमप्येषां वाक्यार्थप्रत्यायनाय कल्पितं न संबन्धान्तरं व्यनक्तीति । तत्सिद्धमेतन्न पदानि वाक्यार्थबोधे लिङ्गमपक्षधर्मत्वान्मनोवदिति । अपि च लौकिक एवार्थः परीक्षकैरनुगम्यते न तु स्वकृतलक्षणानुरोधेनालौकिकमास्थीयते । न च क्लेशेन कया चित्प्रणाङ्या पक्षधर्मतां कल्पयित्वा लोकः पदेभ्यो वाक्यार्थमवगच्छति अपि तु स्वतन्त्रेभ्य एव तेभ्य इति सिद्धः शब्दस्य प्रमाणस्यानुमानाद्भेदः । आप्तोक्तत्वं तु स्वर्गादिप्रतिपादकस्पयागमस्य प्रामाण्ये लिङ्गमेव । न चैतावता तदर्थ आनुमानिको भवति । न हि प्रवृत्तिसामर्थ्यानुमितप्रामाण्यस्य प्रत्यक्षस्य विषयोप भवत्यानुमानिकः । अर्थविषयं हि प्रमाणं प्रामाण्यविषये च प्रवृत्तिसामर्थ्याप्तोक्तत्वे इति । एवं व्यवस्थिते अभ्युच्चयमात्रतया भाष्यवार्तिककाराभ्यामाप्तोक्तत्वाश्रयत्वानाश्रयत्वे शब्दानुमानभेदहेतुतयोपन्यस्ते इति मन्तव्यम् । एतेन प्रवृत्तिभेदकथनेनाद्विप्रवृतिकत्वं व्याख्यातम्निराकार्यतया । संबधन्धात्प्रतिपत्तेरनुमानं शब्द इति यदुक्तं पूर्वपक्षिणा तदनुभाष्य दूषयति । यत्पुनरेतदिति । अस्येदमिति षष्ठीविशिष्टस्येति भाष्यं तस्य व्याख्यानं वाच्यवाचकभाव इति । स्वाभाविको हि शब्दार्थयोः संबन्धस्तथा स्यात् तादात्म्यलक्षणो वा प्रत्याय्यप्रत्यायकभावो वा प्राप्तिलक्षणो वा, तत्राव्यपदेश्यपदेन प्रत्यक्षलक्षणस्थेन तादात्म्यमपाकृतम् । शब्दार्थयोःप्राप्तिनिराकरणहेतुना चोपरिष्टादौत्पत्तिकः प्रत्याय्यप्रत्यायकभावो निराकरिष्यते । तेन प्राप्तिं निराकरोति भाष्यकारः प्राप्तिलक्षणस्त्विति । एकेन्द्रियग्राह्येभ्योहि प्राप्तिः प्रत्यक्षा यथाऽङ्गुल्योः न तु शब्दार्थयोरेकेन्द्रियग्रपाह्यता तस्माशानयोः प्राप्तिः प्रत्यक्षगम्या वायुवनस्पत्योरिवेत्यर्थः । ननु शब्दस्यार्थः समानेन्द्रियग्राह्य एव तत्कथं नेन्द्रियेण गृह्यते शब्दस्तस्य विषयभावमतीतोर्ऽथ इत्यत आह । अस्ति चातीन्द्रियविषयमृतोऽपीति । शब्दग्राहकेन्द्रियमतिपतित इन्द्रियमात्रमतिपतिश्चातीन्द्रियः स च विषयभूतश्चेति कर्मधारयः । तदेतद्यस्माच्छब्दस्येति वार्तिकेन व्याख्यातम् ।

न्या.सू._२,१.५३: पूरणप्रदाहपाटनानुपलब्धेश्च संबन्धाभावः ॥

प्राप्तिलक्षणे चेत्यादि भाष्यं व्याचष्टे । नानुमानेनापीति । उपसंपद्यते । प्राप्नोति गच्छतीति यावत् । आगच्छन्नुपलभ्येत मोदकादिः न चोपलभ्यते तस्मान्नागच्छति शब्देशामर्थः । ततश्चास्मिन्पक्षे शब्देन लोकव्यवहार उच्छिद्येत । अथ शब्द इति । २६२ । ६ न तावद्प गुणस्य शब्दस्य गतिरुपपद्यते तस्मात्संतानवृत्त्या शब्दोऽयं देशमागच्छतीति वाच्यं तथा च नित्यत्वव्याहतिरित्यर्थः । शङ्कते । अथ नागच्छतीति । भवति विद्यतैत्यर्थः । अभूत्वा भवनं भवत्यर्थ इति मत्वा निकरोति । नित्यश्च भवति चेतीति । शङ्किता स्वाभिप्रायमाह । अथ नागच्छतीति । निराकरोति । न सर्वार्थेति । न हि समानदेशाः समानेन्द्रियग्राह्याः प्रतिनियतव्यञ्जकव्यङ्न्या दृष्टा इत्यभिप्रायः । सामान्यस्याश्रयोपलब्धिर्व्यक्तिहेतुः न पुनः शब्दस्याश्रयोपलब्धिरस्ति यतः शब्दो व्यज्येत । प्रत्युत शब्देनैवाश्रयो व्यञ्जनीयः स्यात् । तथा चार्थाश्रितः शब्दस्ताल्वादिभिरप्राप्तैः सर्वान्र्पति व्यक्त इत्युक्तदोषापत्तिः । न च शब्दस्यार्थे वृत्तिरनुभवगोचर इत्याह । न च वाच्ये वृत्तिः । आगसात्प्रतिपत्स्यत इति ( २६३ । ७ ) निरुक्तादिरागमः ।

उत्तरं स एवायमिति ।
निरुक्तादीनामर्थसम्बन्धे प्रतिपादकत्वं भवेत् ।
स एव तु विचार्यत इत्यर्थः ॥ ५३ ॥

न्या.सू._२,१.५४: शब्दार्थव्यवस्थानादप्रतिषेधः ॥

पूर्वपक्षवाद्याह ।
शब्दार्थेति ॥ ५४ ॥

न्या.सू._२,१.५५: न सामयिकत्वाच्छब्दार्थसंप्रत्ययस्य ॥

सिद्धान्तवाद्याह । न सामयिकत्वादिति । अभिधानाभिधेयनियमनियोग इति । अभिधानाभिधेययोर्नियमो गोशब्दस्य सास्नादिमानेवार्थ एवमश्वशब्दस्य केसरादिमानेवेति । तस्मिन्नियोगोबोद्धव्य इति भगवतः परमेश्वरस्य सर्गादौ सोऽयं समय इति अर्थः । तस्मिन्नुपयुक्ते ज्ञाते शब्दार्थव्यवस्था भवति । सम्बन्धवादिनोऽऽपिचायमवर्जनीय इति । येऽपि मीमांसका वैयाकरणौ वा स्वाभाविकं शब्दार्थयोः सम्बन्धमास्थिषत तेषामपि नैव सत्तामात्रेण गमकोऽपितु ज्ञातः सन्, विज्ञाने चायमस्य वाचक इति वाऽस्मादयं बोद्धव्य इति वा संकेत एवोपायः । वृद्धव्यवहारोऽपि गवादिशब्दानां देवदत्तादिशब्दवत्संकेतपूर्व एव । तद्वरमस्तु संकेत एव, कृतमत्र स्वाभाविकेन सम्बन्धेन, तन्मात्रादेव प्रयोगप्रतिपत्तिव्यवहाराणामुपपत्तेरित्यर्थः । नन्वेयं समयः केषां चित् पदानामसति स्वाभाविकेर्ऽथैः सम्बन्धे न कर्तुं शक्यः निर्द्दिश्य ह्यर्थं ब्रूयादयमस्माद्बोद्धव्यं इति । न च निर्देशोऽसति स्वाभाविके सम्बन्धे केषां चिच्छब्दानां सिध्यति । सङ्केताधीने तु वाचकत्वे सर्वेषामकृतसमयत्वात् किं केन निर्द्दिश्यते । तस्मात्संकेतकरणमेव स्वाभाविकसम्बन्धं प्रतिपादयति शब्दानामित्यत आह । प्रयुज्यमानग्रहणाच्चेति । परमेश्वरेण हि यः सृष्ट्यादौ गवादिशब्दानामर्थे संकेतः कृतः सोऽधुना वृद्धव्यवहारे प्रयुज्यमानानां शब्दानामविदितसंगतिभिरपि बालैः शक्यो गृहीतुम् । तथा हि वृद्धवचनान्तरं तच्छ्राविणो वृद्धान्तरस्य प्रवृत्तिनिवृत्तिभयशोकहर्षादिप्रतिपत्तेस्तद्धेतुं प्रत्यययमनुमिमीते बालः । तस्य च सत्स्वप्यन्येष्वर्थेषु भूतस्य अभूतस्य वा श्रवणसमनन्तरं च भवतो वाक्यश्रवणहेतुतामवगच्छति तदवयवानां च पदानामावापोद्वापभेदेन तदर्थप्रत्ययोपजनापायदर्शनात्तेषु तेष्वर्थेषु तेषां तेषां पदानांप वाचकत्वं कल्पयति । एवं पदावयवेषु प्रकृत्यादिष्वपि द्रष्टव्यम् । सोऽयं वृद्धव्यवहारः साम्प्रतिकानां संकेतग्रहोपायः सर्गादिभवां तु महर्षिदेवतादीनां परमेश्वरानुग्रहाद्धर्मज्ञानवैराग्यैश्वर्यातिशयसंपन्नानां परमेश्वरेण सुकर एव सङ्केतः कर्तुम् । तद्व्यवहाराच्चास्मदादीनामपि सुग्रहः संकेतः (तद्व्यवह्वारपरम्परागतश्चास्मदानीनामपि) संकेतग्रहो न सम्बन्धस्मृतिमपेक्षते । आप्तपरम्परात एव ततो निः शङ्कव्यवहारोपपत्तेः । अत एवाह भाष्यकारः लौकिकानामिति । स्यादेतत् । यदि शब्दानां साङ्केतिकः सम्बन्धो न स्वाभाविकः कृतं तर्हि साध्वसाधुविभागपरेण व्याकरणेन, स्वाभाविकं हि यस्य वाचकत्वं स साधुरसाधुश्चेतरः, सामयिकत्वेन तु सर्व एव साधवोऽसाधवो वेत्यत आह । समयपरिपालनार्थं चेदमिति । पारमेश्वरसमयपरिपालनार्थमित्यर्थः । तथा च येषां पदानां येनार्थेन परमेश्वरेण कृतः समयः तानि तत्र साधूनि असाधूनीतरत्रेति विभागाय व्याकरणमर्थवदिति सिद्धम् । अर्थरूपस्तुषोलेशोऽर्थतुषः स नास्ति, केवलं परैः प्राप्तिलक्षणः सम्बन्धः कल्पित इत्यर्थः । तथा च स्वाभाविकसम्बन्धाभावादनुमानाभेदायाविनाभावासिद्ध्यर्थं स्वाभाविकसम्बन्धाभिधानमयुक्तमिति सिद्धम् । वार्तिके स पुनः समयः कुत इति । यदि न के चनापि शब्दा न प्रसिद्धसम्बन्धास्ततोऽशक्यप्रतीतिः समय इति भावः । उत्तरं पदज्ञानात् । पदं ज्ञायते व्युत्पाद्यते अनेनेति व्युत्पत्त्या व्याकरणामेत्यर्थः । ननु सर्वेषां शब्दानामविदितसङ्गतिः कथं व्याकरणादपि शब्दमात्रात्समयं प्रतिपद्यते इत्यत आह ।

लोकतश्चेति ।
वृद्धव्यवहारावधृतसमयो व्याकरणात्साध्वसाधुविभागं च प्रतिपद्यं तैत्यर्थः ।
तदेतद्विभजते ।
तदिदं शास्त्रमिति ॥ ५५ ॥

न्या.सू._२,१.५६: जातिविशेषे चानियमात् ॥

एवं तावद्दृष्टेनैव समयेनोभयसिद्धेन शब्दार्थव्यवस्थापनस्योपपत्तेर्नात्यन्तापरिदृश्यमानस्वाभाविकसम्बन्धकल्पना युक्तेत्युक्तं सम्प्रत्यनुपपन्नोऽप्ययं स्वाभाविकः सम्बध इत्याह । जातित् (सू. ५६) ॥ स्वाभाविको हि सम्बन्धः कस्य चिच्छब्दस्य केन चिदर्थेनास्ति न सर्वस्य सर्वेण । तथा सति शब्दार्थव्यवस्था न स्यात् । एवं च तर्हि न ऋष्यार्यम्लेच्छानां नियमः स्यात् । तथा हि यवशब्द आर्यैदीर्घशूके पदार्थे प्रयुज्यते, ते हि यवशब्दाद्दीर्घशूकं पदार्थं प्रतिपद्यन्ते म्लेच्छास्तु प्रियङ्गुं प्रतिपद्यन्ते । एवं त्रिवृत्शब्दमृषयः स्तोत्रीयानवके प्रयुञ्जते । आर्यास्तु लताविशेषे । सोयमनियमो न स्यात्स्वाभाविके सम्बन्धे, न हि स्वाभाविकसंबद्ध आलोको रूपेण सहस्रेणापि शिल्पिभीरसादिसम्बद्धः शक्यः कर्तुम् । यतस्ततो रसादयो गम्येरन् । नापि तत्र संकेतेन स्वाभाविकः सम्बन्धो व्यज्यते । सदेव हि व्यज्यते नासत् । नो खलु यत्र घटो नास्ति तत्र तं प्रदीपः शक्तो व्यङ्क्तुम् । सोऽयमनियमः सामयकत्वे उपपद्यते पुरुषच्छाधीनत्वात् । तस्याश्चानियमात् । न तु स्वाभाविकेन इति । न च वाच्यं सर्व एव शब्दाः सर्वैरेवार्थैः स्वभावतः सम्बद्धाः संकेतेन तु नियम्यन्ते इति । प्रमाणाभावात् । जातिभेदेन चार्थभेदप्रत्ययस्य संकेतभेदादप्युपपतिरिति । नन्वार्यदेशवर्त्तिनां म्लेच्छानामार्यव्यवहारनिश्चितसंकेतानां नानियम इत्यतं आह वार्त्तिककारः ( २६५ । २ ) जातिविशेषशब्देनेति ॥ ५६ ॥

न्या.सू._२,१.५७: तदप्रमाण्यम् अनृतव्याघातपुनरुक्तदोषेभ्यः ॥

तदभ्यः ( सू. ५७ ) ॥ अनुमानान्तर्भावे कदाचिदर्थाविनाभावाद्भवेच्छब्दस्य प्रामाण्यं तद्बहिर्भावे तु सुलभमस्याप्रामाण्यमिति मत्वानुमानभेदाभिधानानन्तरमप्रामाण्यमाह पूर्वपक्षी । तस्येत्यादिभाष्यं तद्वार्त्तिककारो व्याचष्टे । तदित्यधिकृतशब्दाभिधानादितञ् शास्त्रे ह्यिस्मिन्निःश्रेयसाधिगगमपरेव तन्नान्तरीयकतया वेदप्रामाण्यव्युत्पादनमधिकृतमित्यधिकृतः शब्दो वेद इत्यर्थः । स्यादेततनृतत्वमप्रामाण्यमिति पर्यायः तथा च प्रतिज्ञार्थ एव हेतुरित्यत आह । अप्रामाण्यमर्थस्याप्रत्यायकत्वम् । अर्थस्येत्यविपरीतस्येत्यर्थः । पुत्रकामेष्टिकारीर्यादयो हि ऐहिकफला नामुष्मिकफलाः ऐहिकत्वेनैव तत्फलस्य चेतनेन काम्यमानत्वात् एतच्छरीरोपभोगयोग्यत्त्वाच्च । विरुद्धार्थोपस्थापकत्वेन सहासम्भवो वाक्ययोर्वा पदयोर्वेति । अत्र भाष्यकारेणोदितहोमादिविधिवाक्यानां निन्दाभिर्व्याघात इत्युक्तमधिकविवक्षया वार्तिककार आह । अग्निहोत्रमिति । होमकालानामुदितादीनां निन्दया प्रतिषेधात् । ननु मध्याह्नापराह्वसायाह्ना भविष्यन्ति होमस्य काला इत्यत आह । न चान्य इति । तेषामपि सर्वेषामुदितकालत्वादित्यर्थः । यस्तूदयानन्तर एव काल उदितकाल इत्पुच्यते तथा चान्योऽस्ति काल इत्युक्तं व्याघाते न तुष्यति तं प्रत्यन्यथा व्याघातमाह । उदितानुदितेति । अग्निहोत्रं जुहोतीत्युत्पत्तिवाक्येन विहिते अग्निहोत्रनामनि होमे तदनुवादेनैकं वाक्यमुदितं कालं विधत्ते, अन्यच्चाऽनुदितकालमपरं च समयाध्युषितकालं, न चैक एव होमस्तदा तदा शक्यः कर्तुम् । न च कालगुणानुरोधेन प्रधानस्य होमस्यावृत्तिरिति युक्तम् । न चोदितादिवाक्ये होमस्याभ्यासः श्रूयते । तस्मात्परस्परव्याघातादप्रामाण्यमेव साधीय इति । नन्वेतेऽनृतत्वादयः सर्ववेदवाक्याव्यापिन इति भागासिद्धतया हेत्वाभासता इत्यत आह । दृष्टान्तत्वेनेति । अयमत्र प्रयोगः । पुत्रकामेष्टिहवनाभ्यासवाक्यानि अप्रमाणम् अनृतत्वादिभ्यः क्षणिकवाक्यवदिति ।

एवं शेषाणि वेदवाक्यानि अप्रमाणं वेदवाक्यत्वात् पुत्रकामेष्टिवाक्यवदिति ।
पर्युदासं साध्यमुक्त्वा तेनैव हेतुना प्रसज्यप्रतिषेधसाध्यमाह ।
अग्निहोत्रादिवाक्यानां वेति ।
तदन्यवाक्यं पुत्रकामेत्यादि ॥ ५७ ॥

न्या.सू._२,१.५८: न कर्मकर्तृसाधनवैगुण्यात् ॥

एवं पूर्वपक्षमुक्त्वा सिद्धान्तमुपक्रममाणः प्रथमं तावदनृतत्वं दूषयति न कत् ( सू. ५८ ) ॥

फलादर्शनमन्यथाऽप्युपपद्यमानं नानृतत्वं साधयति ततश्चासिद्धमनृतत्वं हेतुरित्यर्थः । स्यादे ततिष्टेश्चोदितत्वादनपेक्षेयं ( साधयति ) पुत्रकारणमिति किमस्याः कर्मकर्तृवैगुण्यं करिष्यतीत्यत आह । इष्टेः करणसाधनत्वेनेति । ( ३६६ । ५ ) दृष्टसहकार्यदृष्टं कारणं न केवलं, ततो दृष्टवैगुण्यादुपपन्नमभवनं फलस्येत्यर्थः । अपेक्षणीयं कर्तारमाह पितराविति । करणमाह । इष्ट्येति । क्रियामाह । संयुज्यमानाविति । इष्ट्यापश्रयन्तावदिति भाष्यम् । समीहातदङ्गसमिदादिकर्मानुष्ठानं तस्याभ्रेषो भ्रंशोऽननुष्ठानमिति यावत् । अविद्वान्प्रयोक्तेति । विदुषो ह्यधिकारः सामर्थ्यात् । अत एव स्त्रीशूद्रतिरश्चामसमर्थानामनधिकारः विद्वानपि यदिद्विजातिकर्महानिहेतुं कर्म ब्रह्महत्यादि कृतवान् तत्कृतमपि कर्म फलापवय न कल्पते कर्तृत्वे वैगुण्यादिति दर्शयति । कपूयेति । कपूयं निन्दितं कर्म आचरतीत्याचरणः पुरुषः । हविरसंस्कृतमपूतमप्रोक्षितं वा । उपहतं श्वमार्जारादिभिः । मन्त्रा न्यूनाः क्रमविशेषेण । दक्षिणा दुरागता दौत्यद्यूतोत्काचादेर्दुष्टादुपायादागतेत्यर्थः । अन्वाहार्यमिति दक्षिणा । सा ततो न्यूना वा दीयते यावत्या पुरुषो न तृप्यति१ स च पुरुषाहारो जरत्वरत्वेनापाक्यतया निन्दितः । मिथ्यासंप्रयोगः पुरुषायितादिर्मातरि, योनिव्यापदो नानाविधाः पुत्रजनप्रतिबन्धहेतवः, । लोहितरेतसो बीजस्यो पहतत्वं यतः पुत्रजन्म न भवति । मिथ्याभिमन्थनं यतो नाग्निर्जायते । कर्मवैगुण्यकर्तृवैगुण्ये आह वार्तिककारः । तथेष्टेः साधयितुरिति । मन्त्राणामसामर्थ्यादिति । मन्त्रादिसाधनानां पुत्रकामेष्ट्यादीनां कर्मणामित्यर्थः । ननु यदि निरपेक्षा नेष्टिः साधनं स्तांस्तर्ह्यनपेक्षमाणौ पितरावेव सम्यक् संयुज्यमानौ पुत्रस्य जनकौ, कृतमत्र पुत्रकामेष्ठ्या, अत एव म्लेच्छादीनामपि पुत्रजन्मोपपद्यत इत्यत आह । तत्सहकारित्वादिति । ( २६७ । ६ ) नान्वयव्यतिरेकगम्यमिष्टेः सहकारित्वमपि त्वागमगम्यं, म्लेच्छादीनां पुत्रजन्म जन्मान्तरीयादृष्वशादित्यागमप्रामाण्यादनुसरणीयम् । दृनश्यमानकर्मकर्तृवैगुण्ये च फलानुत्पादोऽदृष्टमपेक्षणीयं सूचयति । तदनेन पुत्रकामेष्ट्यादीनामनियतफलत्वमपि सूचितं भवति । तथा कर्मान्तरप्रतिबन्धेन कर्मकर्तृसाधनावैगुण्येऽपि फलानुत्पपादः समर्थितो भवति । ऐहिकफलेषु तु कारीर्यादिषु साधनवैगुण्यं परिहारः । अनूतत्वादप्रमाणमिति चेदिति । धर्मिविशेषणत्वेनोपयुक्तानामपि पश्चान्निष्कृष्याभिधानं न दोषावहमिति भावः । उत्तरं किमिदमिति ।

नन्वर्थाप्रतिपादकत्वं प्रतिज्ञातमेतदेवानृतत्वं च हेतुरिति प्रतिज्ञाहेत्वोरर्थाभेद इत्यत आह ।
अनृतत्वं चेति ॥ ५८ ॥

न्या.सू._२,१.५९: अभ्युपेत्य कालभेदे दोशवचनात् ॥

यत्पुनरुक्तमुदिते होतव्यमित्यादीनामेव परस्परव्याघात् इति तत्राह । उभयेति । ( २६८ । १ ) विधिपरेषु वाक्येष्वेकैकेनैव वाक्येनोभयवाक्यार्थप्रतिषेधानभिधानान्नान्यथा नानाप्रामाण्यमित्यर्थः । यद्यपि चैको होमः समुच्चयेन तदा तदा न शक्यः कर्तुं तथाऽपि विकल्पेन करिष्यते बहुलं हि विकल्पो लोकेऽप्युपलभ्यते । वस्तु हि व्यवस्थितं न विकल्प्यते अनुष्ठाने चानागतोत्पाद्ये विधिप्रतिषेधविकल्पानामविरोधः स्वरूपानिष्पत्तेरिति । वाक्यार्थो न कर्त्तव्य इति । वाक्यं तन्न कर्त्तव्यमित्यस्यार्थः । कामतो वा प्रकल्प्येतेति । परस्परव्याहतार्थं प्रकल्प्येतेत्येर्थः । अभिहितंवेति । यदनेन वाक्येन स्वसामर्थ्येनाभिहितं तद्वा परीक्षकैरवधृयानूद्यते इदमनेन वाक्येनाभिहितमिति । निर्द्धारयति । अभिहितेति । विहितानुवादो वेति क्व चित्पाठः । विहितो होमस्तस्यानुवादः कालविशेषविधानायेति । विहितानुवाद एवन्याय्यः कालविशेषविधानाय न तु कालान्तरप्रतिषेधोर्ऽथः कल्प्यतैत्यर्थः ॥ ५९ ॥

न्या.सू._२,१.६०: अनुवादोपपत्तेश्च ॥

एकादर्श सामिधेन्य उत्पत्तौ पठितास्तासां प्रथमोत्तमयोस्त्रिर्वचनं पञ्चदशारत्वं मन्त्रस्य प्रयोजनवतः साधयत्सप्रयोजनमिति ॥ ६० ॥

तदेवं वेदप्रापमाण्यहेतूनुद्धृत्य प्रामाण्यसम्भवहेतुः सूत्रकारेण वक्तव्य इति पूर्वं वार्त्तिकारः स्वत एव तावत्प्रमामाण्यसंभवे हेतूनाह । पूत्रकामेष्टीति ।

न्या.सू._२,१.६१: वाक्यविभागस्य चार्थग्रहणात् ॥

न्या.सू._२,१.६२: विध्यर्थवादानुवादवचनविनियोगात् ॥

सौत्रं हेतुमवतारयाति समस्तानीति ॥ ६१६२ ॥

न्या.सू._२,१.६३: विधिर्विधायकः ॥

विधिर्विधायकः ( सू. ६३ ) ॥ तस्य व्याख्यानं यद्वाक्यमिति । चोदकं प्रवर्तकम् । अत्र चारोग्यकामः पथ्यमश्नीयादित्यादित्याद्युपदेशश्रवणसमनन्तरं पथ्याशने प्रवर्त्तमानमानं प्रयोज्यवृद्धमुपलभ्य बालस्तस्य प्रवृत्तिहेतुं प्रत्ययमनुमिमीते अस्य प्रवृत्तिः प्रवर्तकप्रत्ययपूर्विका स्वतन्त्रप्रवृत्तित्वान्मत्प्रवृत्तिवत्सचायमनुमाता व्युत्पित्सुः स्मात्मसिद्धमेव प्रवर्तकज्ञानमनुमिनोति, नादृष्टपूर्वं,प न हि स्वात्मनि पूर्वसिद्धे प्रवृत्तिहेतौ दृष्टे संभवत्यदृष्टकल्पना न्याय्या । न चैष शब्दतद्व्यापारपुरुषाशयनिरुपाधिप्रवर्तकमात्रापूर्वप्रत्ययानात्मनि प्रवर्तकानवगतवान् येन तेषु प्रवर्तकत्वशङ्काऽप्यवतरेत् । स्तन्यपानादिविषयककार्यप्रत्ययोऽस्य प्रवर्तक इति चेत् ? किं पुनरेतत् कार्यमिति । पुरुषप्रयत्नः कृतिस्तद्व्याप्यत्त्वमिति चेत् । ननु कृतिरिति मानसी प्रवृत्तिः तदुपहितं कार्यं प्रवृत्तिविषयः प्रवृत्तिफलं वा फलोद्देशेन पुरुषप्रवृत्तेः, तदवगमः प्रवृत्तिहेतुः । प्रवृत्त्यवगतिस्तर्हि प्रवृत्तिहेतुरित्युक्तं भवति । ( न चाननुविधेयोऽश्रद्धेयः ) न वाननुविधेयनियोगेष्वस्माकं व्युत्पन्नानां नास्ति प्रवृत्त्यवगमः न चास्मात्प्रवर्त्तेमहि । अपि चेयं प्रवृत्तिः प्रयत्नापरनामा इच्छाद्वेषयोनिरसति कारणे न स्वज्ञानमात्रादुदेतुमर्हति । न चेच्छाद्वेषाव् एव प्रवृत्तिहेतू लिङ्दिगोचराविति सांप्रतम् । तत्खलु लिङ्दिगोचरोऽभ्युपेयः । यत्स्वज्ञानेन प्रवर्तयति । न तु स्वसत्तया शब्दस्पवय ज्ञापकत्वादनुत्पादकत्वाच्च । न चेच्छाद्वेषौ स्वज्ञानेन प्रवर्तयतो यतः प्रवृत्तिं प्रति ज्ञानाय शब्दमपेक्षेयाताम् । अपि तु सत्तया तस्मात्तदेव लिङ्गादेर्ज्ञाप्यम् । सत्यं ज्ञानमिच्छाद्वेषौ प्रसूते तत्र फलं निसर्गसुन्दरतया ज्ञातमात्मनीच्छां प्रसूते एवं तदुपायोऽपि तत्तया ज्ञातः फलसम्बन्धादात्मनीच्छां, तस्माद् द्वयमवशिष्यते फलं तदुपायो वा, तत्र फलस्य यद्यपि स्वत एवेच्छादिविषयत्वं तथाऽपि तद्विषयेच्छा न तत्र प्रवर्तयितुमर्हति तस्यायोग्यत्वेन प्रवृत्तिविषयत्वानुपपत्तेः । न च फलागोचरेच्छा अन्यच्च तदुपाये स्वकार्यं प्रयत्नं जनयितुमर्हति इति प्रयत्नयोरेकविषयतया कार्यकारणयोः सम्प्रतिपत्तेः । न च तत्सम्बन्धात्तदुपायो नेष्यते येन फलेच्छाया एवोपायविषयप्रयत्नप्रसवहेतुत्वं कल्प्येत । यथाहुः ... अन्यदिच्छत्यन्यत्करोतीति विप्रतिषिद्ध ... मिति ।

तस्मादिष्यमाणमपि फलं प्रवृत्तिविषयत्वाभावान्नात्मनि स्वज्ञानेन प्रवर्तकं, तदुपायस्तु प्रवृत्तिविषयत्वादिष्यमाणत्वाच्च स्वज्ञानेन प्रवर्तकं इति युक्तमत्पश्यामः ।
बालानां तु स्तन्यादावपेक्षितोपायताज्ञानं प्राग्भवीयव्याप्तिग्रहणजनितसंस्कारानुवृत्तिवशादुत्पन्नव्याप्तिस्मरणानां तज्जातीयत्वलिङ्गज्ञानजमनुमानमेव ।
एतच्च पूर्वाभ्यात्यस्तस्मृत्यनुसन्धानादित्यत्रोपपादयिष्यते ।
अत एव प्रयोजनलक्षणं व्याचक्षाणेनोक्तं वार्त्तिककृता ... इदं सुखसाधनमिति वुद्धा सुखावाप्तये यतते इदं दुःखसाधन मिति चावगम्य दुःखहानायेति ... ॥

तस्मादपेक्षितोपायता प्रवर्तना स्वात्मनि सिद्धा वृद्धस्यापि प्रवृत्तिहेतुरित्यवगच्छति व्युत्पिसुर्बालः । सा च लिङ्गादिश्रवणसमनन्तरमुपजायमाना लिङ्गाद्यर्थ इति निश्चिनोति । न चापेक्षितोपायतामात्रं प्रवृत्तिहेतुः भवति हि यजमाननिर्वर्तिता कारीरी कृषीवलानामपेक्षितोपायो न चैतेऽस्यां प्रवर्तन्ते तस्याः सिद्धत्वात् । तस्मात्कर्त्तुरपेक्षितोपायता प्रवृत्तिहेतुरित्यास्थेयम् । न च सिद्धे कर्तृताऽस्ति । यथाह भगवान् जैमिनिः । शास्त्रफलं प्रयोक्तरि तल्लक्षणत्वात् इति । लोके च क्रियैवापेक्षितोपायः शब्दार्थ इति तदनुसारेणाग्निहोत्रं जुहुयात् स्वर्मकाम इत्यादयोऽपि वैदिका उपदेशाः क्रियामेवापेक्षितोपायमभिदधति । सा चेयमाशतरविनाशिन्यप्यवानतरापूर्वव्यापापवरा सती चिरभाविनेऽपि फलाय कल्पते । कृषिरिव निदाघसमयजन्मा हेमन्तसमयभावने सिस्यायेति । नापूर्वस्यात्रापेक्षितोपायत्वं कल्पयितव्यम् । भवतु वा तदेवापेक्षितोपायप्रवृत्तिहेतुस्तथाऽपि कर्त्तुरपेक्षितोपायतालक्षणसमानोपाधिर्विधिशब्दस्तदेकोपाधिसम्बन्धात्क्वचित्क्रियायां क्व चिदपूर्वे प्रवर्तत इति न का चिद्दर्शनक्षतिः । तदेवमुपदेशे नियोज्यप्रयोजनकर्मणि व्युत्पन्नस्तानेव शब्दान् नियोक्तुं प्रयोजनकर्मण्याज्ञादौ प्रयुज्यमानानुपलभ्याध्येषणानुज्ञावाचकतवमप्यवगच्छति । अग्निहोत्रादिवाक्यानां तु नियोज्यप्रयोजनकर्मवाचिनामुपदेशत्वमेव । तस्माद्यद्यप्याज्ञाध्येषणामन्त्रणोपदेशाः सर्वे विधयस्तथाऽपीहोपदेशो विधिरभिमतः तस्मात्सुष्ठूक्तं यद्वाक्यं विधायकमिति । कर्त्रपेक्षितोपायताज्ञापकमित्यर्थः । विधिस्तु नियोगोऽनुज्ञा चेति भाष्यमनुभाष्य व्याचष्टे । विधिस्त्विति । ( २६९ । ११ ) यदेतदग्निहोत्रं जुहुयात्स्वर्गकाम इति वाक्यमप्रवृत्तप्रवर्त्तकलक्षणम्

कर्त्रपेक्षितोपायतां ज्ञापयद्विधिः तदेव तत्साधनद्रव्याद्यवाप्तिप्रवृत्तिमनुजानाति ।
एतदुक्तं भवति ये हि द्रव्यार्जननियमविधयो ब्राह्मणस्य प्रतिगहादिनेत्येवमादयः ते च रागतो धनार्जने प्रवृत्तानां ब्राह्मणानां लौकिकानेकोपायप्रयुक्तौ सत्यां नियमपराः पुरुषार्था न क्रत्वर्थाः क्रतुविधयस्तु धनसाधनास्तेऽनूदिताः पर्यवस्यन्तोपऽपि न धनार्ज्जंनं तन्नियमं वा प्रयुज्जते पुरुषार्थत्वेनैव तस्य प्रयुक्तत्वात् केवलमनुजानन्ति, तस्मात्तदेवाग्निहोत्रादिवाक्यमप्राप्तेऽग्निहोत्रादौ विधिरन्यतः प्राप्ते साध्धनेऽनुज्ञेति सिद्धम् ।
समुच्चये वाशब्दः ॥ ६३ ॥

न्या.सू._२,१.६४: स्तुतिर्निन्दा परकृतिः पुराकल्प इत्यर्थवाद ॥

स्तुतेरुपयोगद्वयं प्रवृत्त्या धर्मे कर्त्तव्ये विधिना प्रवृत्तौ कर्त्तव्यायां च सहकारिता, प्रशस्तमिति ज्ञात्वा प्रवर्तमानाः पुमांसः प्रवर्तन्तेतरां सा च प्रवृत्तिः श्राद्धस्य धर्मं प्रसूते नाश्राद्धस्य । तथा च श्रूयते ... यदेव विद्यया करोति श्रद्धयोपनिषदा तदेवास्य वीर्यवत्तरं भवतीति ... । तत्र प्रवृत्तेः कार्ये सहकारितामाह । स्तूयमानमिति । विधेः कार्ये सहकारितामाह । प्रवर्तिका चेति । कथं परकृतिपुराकल्पावर्थवादाविति । चरकाध्वर्युपुरुषसम्बन्धश्रवणाद्वपाहोमपृषदाज्याभिधारणयोः क्रमभेदस्याप्राप्तस्य पुरुषविशेषधर्मतया विधायकं परकृतिवाक्यम्फ तथा बहिष्पवमानसोमस्तोममन्त्रसम्बन्धस्य पूर्वकालपुरुषसम्बन्धितया श्रवणादिदानीन्तनपुरुषधर्मतया विधायकं पुराकल्पवाक्यं कस्मान्न भवतीति भावः । उत्तरम् । स्तुतिनिन्दावाक्येन कस्य चिद्विधेः शेषभूतेन सम्बन्धादिति ।

न तावदेतेषु वाक्येषु सिद्धाभिधायिषु विधिश्रुतिरस्ति ।
तत्र किमश्रूयमाणो विधिः कल्प्यतामाहो प्रतीतेन विधिनैकवाक्यतेति ।
तत्र कल्पनालाघवात्प्रतीतेन विधिनैकवाक्यतैव ज्यायसीपूर्वपक्षे विधिकल्पना तदेकवाक्यताकल्पनमिति द्वयं कल्पनीयम्, उत्तरस्मिंस्तु एकवाक्यतामात्रमिति भावः ।
स्फुटतरस्तुतिनिन्दाप्रतीत्यभावाच्च परकृतिपुराकल्पयोः स्तुतिनिन्दाभ्यां भेदेनोपन्यास इति ॥ ६४ ॥

न्या.सू._२,१.६५: विधिविहितस्यानुवचनमनुवादः ॥

विधिवादः ( सू. ६५ ) ॥ विहितमधिकुत्य स्तुतिर्वोच्यते निन्दावेति । यथाऽश्वमेधेन यजेतेति विधेरर्थवादो योऽश्वमेधेन यजेते इति । किमर्थ ? स्तोतुं, तरति मृत्युं तरति पाप्मानमिति स्तुतिः उदिते होतव्यमित्यस्य विधेरर्थवादो यदुदिते जुहोतीति । किमर्थम्? निन्दितुं, श्यावो वा अस्याहुतिमभ्यवहरतीति निन्दा । प्रयोजनान्तरमाह । विधिशेषो वाऽभिधीयत इति । यथा ... यदाग्नेयोऽष्टाकपालो भवती ... त्यादिभिरुत्पत्तिवाक्यैः षडाग्नेयादयो यागाः पौर्णमास्यमावास्याकालसम्बन्धा विहिस्तास्ते च विधय इष्टाभ्युपायतारूपाः स्ववाक्ये चेष्टमनासादयन्तः सापेक्षाः । एवमाघाराद्युत्पत्तिविधयोऽपि कालविशेषासम्बन्धा इष्टापेक्षा एव, तत्रऽय एवं विद्वान्पौर्णमासीं यजते य एव विद्वानमावास्यां यजतऽइति कालविशेषसंबन्धेनोत्पन्नानामाग्नेनयादीनामनुवादः । किमर्थं ? यदाग्नेयोऽष्टाकपाल इत्याद्युत्पत्तिविध्यपेक्षितेष्टसम्बन्धनियमार्थं, दर्शपौर्णमासाभ्यां स्वर्गकामो यजेतेति षण्णामेवाग्नेयादीनां कालविशेषसम्बन्धोत्पन्नानूदितानां फलसम्बन्धो यथा स्याद् मा भूदाघारादीनां कालासम्बन्धेनोत्पन्नानामित्येवमर्थम् । अत आधारादयःऽफलवत्सन्निधावफलं तदङ्गऽ मिति दर्शपौर्णमासाङ्गतयावतिष्ठन्त इति सिद्धं भवति । सोऽयं फलसम्बन्धनियमो विधिशेषः तदर्थमनुवाद इत्यर्थः । एवमग्निहोत्रं जुहोतीति विहितो होमोऽनूद्यते । किमर्थं ? दध्यादिगुणविशेषविधानार्थम् । दध्ना जुहोति पयसा जुहोतीत्यादिषु । सोऽयं गुणविधिविधिशेषः इति प्रयोजनान्तरमनुवादस्याह । विहितानन्तरार्थ इति ।

यथा सोमो विहितोऽदर्शपौर्णमासाभ्यामिष्ट्वा सोमेन यजेतेतिऽ ।
एवऽमध्वर्युर्गृहपतिं दीक्षयित्वा ब्रह्माणं दीक्षयतीतिऽ ।
विभागेनाऽर्थग्रहणात्प्रामाण्यं भवितुमर्हतीति ।
प्रामाण्यं भवतीत्यर्थः ॥ ६५ ॥

न्या.सू._२,१.६६: नानुवादपुनरुक्तयोर्विशेषः शब्दाभ्यासेपपत्तेः ॥

नानुत्तेः

( सू. ६६ ) ॥ भाष्योक्तमनुवादस्य प्रयोजनमविदुषः पूर्वः पक्षः ॥ ६६ ॥

न्या.सू._२,१.६७: शीघ्रतरगमनोपदेशवदभ्यासान्नाविशेषः ॥

शीघ्रषः

( सू. ६७ ) वार्त्तिकं यथेति । ( २७० । ५ ) यथा शीघ्रं गम्यतामित्युक्ते शीघ्रतरं गम्यतामिति न पुनरुक्तम् । तरपः क्रियातिशयप्रतीतेः एवं शीघ्रं शीघ्रं गम्यतामित्यभ्यासात्क्रियातिशयप्रतीतेः सकृदुच्चारिताच्चानवगतेः क्रियातिशयस्य प्रयोजनवानभ्यासः । क्रियाविशेषणातिशयोऽपि क्रियातिशय एवेत्यर्थः । अवगतं तावच्छीघ्रं शीघ्रं गम्यतामित्य त्राभ्यासातिशयप्रतीतेरनुवादस्य विशेषः । पचति पचतीत्यादौ को विशेष इत्याह । कः पुनरसौ विशेषो यः पचति पचतीत्यादौ भवतीति ।

न च वक्तुरन्यथा प्रत्ययःप श्रोतुश्चान्यथा येन विप्रतिपत्तेः श्रोतुः प्रत्ययो भ्रान्त इति कल्प्येतेत्याह ।
यथा च श्रोतुरिति ।
एवमन्योवऽपीति ।
यथा ग्रामो ग्रामो रमणीय इत्यादिरिति ॥ ६७ ॥

न्या.सू._२,१.६८: मन्त्रायुर्वेदप्रामाण्यवच्च तत्प्रामाण्यम् आप्तप्रामाण्यात् ॥

अनन्तरसूत्रावतारणपरं भाष्यं किं पुनः प्रतिषेधेति । तदनुभाष्य व्याचष्टे । किं पुनरिति । उत्तरं नेति । पृच्छति । कि कारणम् । उत्तरंव न साधनमन्तरेणेति । पुनः पृच्छति, कुतः तर्हीति । ( २७१ । १ ) उतरं प्रमाणतः । पृच्छति । तत्किं प्रमाणम् । तत्र तावदद्वेप्रामाण्यसम्भावनायांप प्रमाणमाह । अर्थविभागवत्त्वम् ।

न त्वेतद्वेदप्रामाण्ये प्रमाणं बुद्धाबुद्धापदिप्रणीतेनागमेनार्थविभागवात अनैकान्तिकत्वात् ।
वेदप्रामाण्यप्रमाणं तु सूत्रोक्तम् मन्त्रात् ( सू. ६८ ) ॥ चशब्दः पूर्वहेत्वनुकर्षणार्य

इति । पूर्वस्य प्रामापण्यसंभावनाहेतोरर्थविभागवत्त्वस्यानुकर्षणार्थः । संभावितो हि पक्षो हेतुना साध्यते न त्वसंभावितः । यथाहुः ... संभावितः प्रतिज्ञायां पक्षः साध्येत हेतुना । न तस्य हेतुभिस्त्राणमुत्पतन्नेव यो हत ... इति ॥ सूत्रं व्याचष्टे यथा मन्त्रायुर्वेदवाक्यानीति । पुरुषस्य भगवतो वेदकारकस्य विशेषः प्रत्यक्षीकृतहेयोपादेयता तेद्धतुभूता भूतदया यथार्थचिख्यापयिषा च करणपाठवं चेति । विशिष्यते ह्यनेनैव पुरुषः पुरुषान्तरेभ्योऽनाप्तेभ्य इति । त्रिविधेन विशेषणेनेत्युपलक्षणं करणापाटवमपि द्रष्टव्यम् । एतदत्राकूतम् । अनन्तान्तर्गणिकसुखदुःखभेदवन्तः प्राणभृद्भेदा दृश्यन्ते । न चैषां वैचित्र्यं स्वाभाविकमिति तृतीये निवेदयिष्यते । न च दृष्टकारणमात्रनिबन्धनं तस्य दृष्टव्यभिचारत्वात् । तस्माद्दृष्टसहायमदृष्टमस्य वैचित्र्यस्य कारणं तच्चापूर्वमिति च धर्माधर्माविति चाख्यायते । तच्च कस्य चित्प्रत्यक्षं मन्वादेरित्युपपादितम् । तनुभुवनादिलक्षणस्य कार्यस्य कर्ता तन्निर्माणसमर्थः समस्तवस्तुतत्त्वज्ञः क्लेशकर्मविपाकाशयापरामृष्टः परमकारुणिकस्तनुभुवनादेरेव कार्यादनुमीयते इति चतुर्थ उपपादयिप्यते । सोऽयमात्मीयहिताहितप्राप्तिपरिहारोपायानविदुषः प्राणिनः पश्यन् प्रत्युतानेकविधदुःखदहनदह्यमानानवलोकयन् कथं न तप्येत तप्यमानो वा हिताहितपरिहारोपायतत्त्वं विद्वान् कथं नोपदिशेत् अन्यथोपदिशेद्वा । तस्मादनेन परमकारुणिकेन पृथिव्यादि सृष्ट्वा प्रजापश्चतुर्विधास्ताभ्यो हिताहितप्राप्तिपरिहारोपाय उपदेष्टव्यः । न ह्ययमनुपदिश्य स्थातुमर्हति । प्रजानां पितृकल्पस्य चास्योपदेशो देवर्षिमनुष्यगोचरश्चातुर्वर्ण्येन चातुराश्रम्येण चाऽदराद्ग्राह्यः । धार्यश्च हिताहितप्राप्तिपरिहारोपायानुष्ठानाय । तस्माद्यो वर्णाश्रमाचारव्यवस्थापक आगमो महाजनपरिगृहीतः स तत्प्रणीत आप्तोक्तत्वात्प्रमाणं मन्त्रायुर्वेदवाक्यवदिति संप्रसाध्यते । कतमोऽसावागम आप्तोक्तः किं शाक्यभिक्षुकदिगम्बरसंसारमोचकादीनामागमाः किं वा वेदा इति । तत्र शाक्याद्यागमानां बुद्धर्षभादयः प्रणेतार इति स्फुटतरमस्ति स्मरणं न तूक्तलक्षण ईश्वरस्तेषां कर्त्तेति । न चैते शौद्धोदनिप्रभृतयः तनुभुवनादीनां कर्तारो येन सर्वज्ञा इति निश्चीयेरन् तदुपायानुष्ठानेन तु संभाव्येतैषां सर्वज्ञता न च सम्भावनामात्रेण तत्प्रणीतेष्वागमेष्वाश्वासः प्रेक्षावतां भवितुमर्हति । न चैतेषामागमा वर्णाश्रमाचारव्यवस्थाहेतवः नो खलु निषेकाद्याः क्रियाः श्मशानान्ताः प्रजानामेते विदधति । न हि प्रमाणीकृतबौद्धाद्यागमा अपि लोकयात्रायां श्रुतिस्मृतीतिहासपुराणनिरपेक्षागममात्रेण प्रवर्त्तन्ते । अपि तु तेऽपि सावृतमेतदिति ब्रुवाणा लोकयात्रायां श्रुत्यादीनेवानुसरन्ति । तस्माद्भवतु वेदेषु जगन्निर्मातृकर्तृकत्वस्मृतिः मा वा भूद् एत एव त्वीश्वरप्रणीता इति पश्यामः । न ह्येते चैत्यवन्दनादिवाक्यवदन्यकर्तृकाः स्मर्यन्ते । न चान्य आगमो लोकयात्रामुद्वहन् महाजनपरिगृहीत ईश्वरप्रणीततया स्मर्यमाणो दृश्यते । न चेश्वरोऽनुपदिशन्नवस्थातुमर्हतीत्युक्तं, तत् पापरिशेष्याद्वेदा एव सकललोकयात्रामुद्वहन्तो हिताहितप्राप्तिपरिहारोपायमुपदिशन्त इश्वरप्रणीता इत्यवगच्छामः । तथा ह्यत एव त्रैवर्णिकैरद्ययावत्प्रयत्नेन गृह्यन्ते धार्यन्ते च । तदर्थपालनायां च महर्षिपरंपराभिरङ्गोपाङ्गेतिहासपुराणधर्मशास्त्राणि प्रणीतानि । बुद्धादिवाक्यानि तु न लोकयात्रामुद्वहन्ति । न च तत्र लौकिकानामविगानं, न च विगायतां सांवृत्तमित्युक्त्वाऽपि तदर्थानुष्ठानम् । तस्माद्विगानात्कैश्चिदेव म्लेच्छादिभिर्मनुष्यापसदैः पशुप्रायैः परिग्रहान्नैतेषामाप्तोक्तत्वसंभवः । न चैतेषां मन्वादिवाक्यवद्वेदमूलकतया प्रामाण्यमिति सांप्रतम् । अध्येत्रध्यापयित्रनुष्ठानकर्तृसामान्यस्य वेदमूलकत्वानुमानलिङ्गस्य स्मृतिवेदयोरिव बुद्धादिवाक्येष्वभावात् । तत्सर्वज्ञत्वसंदेहेन चानुभवमूलकत्वानिश्चयात् । मन्त्रायुर्वेदेषु प्रवृत्तिसामर्थ्यानुमितप्रामाण्येषु वैदिकशान्तिकपौष्टिकादिकर्माभ्यनुज्ञानात् । रसायनादिक्रियारम्भे च वेदविहितचान्द्रायणादिप्रायश्चित्तोपदेशादायुर्वेदेनाप्याप्तप्रणीतेन वेदानां प्रामाण्यमप्रभ्युपेयते । तत्सिद्धमाप्तप्रणीता वेदाः प्रमाणमिति । अभ्युच्चयमात्रं तु कारीर्यादिषु संवाद इति । एतदेवाभिप्रेत्य वार्त्तिककार प्रयोगमाह । अस्य प्रयोगः प्रमाणं वेदवाक्यानीति । प्रयोगान्तरमाह । एककर्तृकत्वेनेति । मन्त्रायुर्वेदवाक्यानि सर्वज्ञकर्तृकाणि महाजनपरिग्रहे सति अलौकिकार्थप्रतिपादकत्वात् । यानि तु न सर्वज्ञपूर्वकाणि तानि नैवंरूपाणि यथा वातपुत्रीयवाक्यानीति व्यतिरेकी हेतुः । यथा च बुद्धादिवाक्यान्यलौकिकान्यपि न महाजनपरिगृहीतानि तथोक्तमनन्तरमेव । मन्त्रायुर्वेदवाक्यानां च सत्यपि प्रवृत्तिसामर्थ्ये तासां तासामौषधीनां तत्संयोगभेदानां च तत्तदक्षरावापोद्धारभेदवस्य च नासर्वज्ञः सहस्रेणापि पुरुषायुषैः शक्तः कर्त्तुं प्रथममन्वयव्यतिरेकौ । न चानिदंप्रथमता तत्परिहारः सर्गादौ तदसंभवात् । सृष्टिमहाप्रलयौ चानुमानागमाभ्यामुपपादयिष्येते इति सर्वं रमणीयम् । तदेवं सर्वज्ञपूर्वकत्वे सति सिद्धमाप्तोक्तत्वेन मन्त्रायुर्वेदप्रामाण्यमोदनार्थी पचेदिति लौकिकवाक्यवदिति । यदि न नित्यानि कथं प्रमाणम् । अनित्यत्वे हि पुरुषाणां विचित्राचिसंधित्वेन भ्रमशङ्का न च शक्यापाकर्त्तुं, तस्मादपौरुषेयत्वमेव पुरुषाश्रयान्दोषानपाकुर्वद्वेदप्रामाण्यवस्थापकमिति भावः । उत्तरं प्रतिपादकत्वादिति । आप्तोक्तत्वेनानित्यस्यापि निश्चायकत्वादित्यर्थः । के चित्त्विति । ( २७२ । ५ ) प्रमालक्षणामर्थक्रियां कुर्वत्प्रमाणं, न च नित्यस्यार्थक्रियास्ति तस्मान्न प्रमाणमित्यर्थः । निराकरोति । तत्तु न सम्यगिति पश्याम इति । यथा च नित्यस्याप्यर्थक्रियासम्भवस्तथा तृतीये वक्ष्याम इति भावः । आत्मा चेति प्रमाहेतुतामात्रविवक्षया न तु करणत्वाभिप्रायम् । प्रमाणशब्दस्येति । अत्रापि न करणत्वविवक्षया किं तु प्रमानहेतुमात्रविवक्षयेति द्रष्टव्यम् । इतरवस्तुसाधकत्वेनेति । इतरस्य परमाणुगतस्यैव मूर्त्तत्वादेः साधकत्वेनेत्यर्थः । तदेवमेकदेशिमतमपाकृत्य स्वमतमाह । तस्मादिति । स च संसारानादित्वादिति । ( २७३ । १७ ) यद्यपि वर्णपदवाक्यानि प्रत्युच्चारणमन्यानि यथाऽपि गत्वादिसामान्यावच्छिन्नानां गकारादीनां तत्समूहानां च वाक्यानां शक्यो गोत्वादिसामान्यावच्छिन्नाभिः शाबलेयादिव्यक्तिभिरेव संकेतो ग्रहीतुमिति भावः । मन्वन्तरेति ।
महाप्रलये त्वीश्वरेण वेदान् प्रणीय सृष्ट्यादौ सम्प्रदायः प्रवर्त्यत एवेति भावः ।
शेषं भाष्यं वार्त्तिकं चातिरोहितार्थमिति ॥ ६८ ॥

इति मिश्रश्रीवाचस्पतिविरचितायां न्यायवार्तिकतात्पर्यटीकायां

द्वितीयाध्यायस्याद्यमाह्निकम् ।

चतुष्ट्वपरीक्षा ।

न्या.सू._२,२.१: न चतुष्ट्वम् ऐतिह्यार्थापत्तिसंभवाभावप्रामाण्यात् ॥

अयथार्थ इति भाष्यम् । प्रमाणानां निभागोद्देशो यः सोऽयथार्थः । तदेतद्वार्त्तिककारो व्याचष्ठे प्रत्यक्षेति । ( २७४ । ३ ) एवं विभ्रान्तस्याक्षेप इति भाष्यमतेन सूत्रं व्याख्याय प्रकारान्तरेणापि व्याचष्टे । संशयव्युदासार्थं वा प्रकरणम् । सूत्रं तु संशयार्थम् । न चतुष्ट्वं निश्चेतुं शक्यं, कस्मात् । ऐतिह्यार्थापत्तिसंभवाभावप्रामाण्यात् । परैरभ्युपगतादस्माकं संशयादिति सूत्रार्थः । तात्पर्यान्तरमाह । विधीति । विभागोद्देशोऽधिकनिषेधपर इति पूर्वपक्षे अयथार्थः प्रमाणोद्देश इति पूर्वं व्याख्यातं, सम्प्रति तु प्रत्यक्षादिविधिपरोऽसावारम्भः प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानीति । अधिकनिषेथस्त्वर्थलभ्य इति पक्षमभिप्रेत्योक्तमित्यपौनरुक्त्यम् । तात्पर्यान्तरमाह दोषवतामिति । तात्पर्यान्तरमाह प्रत्यक्षादिष्विति । अन्तर्भावपरात्प्रकरणादर्थाद्विभागोद्देशस्य यथार्थता सिध्यतीत्यर्थः । देशयति । सिद्धत्वादिति । न हि यावत्सूच्यते सूत्रकारेण तावदवश्वमुपपादनीयं भाष्नयकारादिभिरपि तदुपपादनसिद्धेरिति भावः । परिहरति नावधारपणप्रयोजनस्य प्रमाणान्तरनिरासस्येति । यत्सूचनमात्रादनुक्तमपि लभ्यते तत्सूत्रकारेण नोच्यते यच्च सूचितमपि तिरोहितमिव तत्सूत्रकारेणोद्धाटनीयमेव, न हि तत्रास्ति निश्चयोऽस्मदभिमतमेव वदन्ति भाष्यकारादयो नान्यदिति भावः । किमत्रार्थादापद्यत इति प्रश्नः । उत्तरं सत्सु भवतीति । ( २७५ । १ ) प्रत्यनीकस्य ग्रहणादिति । अपां पातप्रत्यनीकस्योपातस्य ग्रहणात्तद्विरोधिनः पातविरोधिनो वाय्वभ्रसंयोगस्य ग्रहणं तदिदं किलाभावाख्यं प्रमाणं प्रमीयते मेघोदयेऽपि यतोयपाताभावेन वाय्वभ्रसंयोग इति । सिद्धान्तमाह तान्येतानीति । ननु भविष्यत्यसौ विषय उक्तलक्षणानामगोचरः प्रमाणानाम् प्रवर्त्स्यन्ति च तत्र इतिह्यादीनि प्रमाणान्तराणीत्यत आह । विषयाभावाच्चेति । चोदयति अथ प्रयोजन भेदादिति । तदेतदतिप्रसङ्गापादनेन दूषयति । एवं तर्ह्यष्टत्वमिति । न तावत्सन्ति तादृशः प्रयोजनसामान्यविशेषाः यैः प्रयोजनवन्ति प्रमाणानि परस्परतो व्यावर्त्तयेयुः अपि तु भेदमात्राद्व्यावर्त्तयन्तीति वक्तव्यम् । तथा चातिप्रसङ्गेनाष्टत्वसंख्याव्यावृत्तिरित्यर्थः । अथन विषयसामान्येति । रूपत्वादिति विषयसामान्यं तस्य स्वस्वव्यक्तिष्वव्यतिरेक

एकत्वं तस्मादित्यर्थः ।
निराकरोतञ् नि युक्तस्तर्हीति ।
निरुपाधानस्वरूपमेकं व्यापकत्वान्वितत्वसंज्ञित्वोपधानास्त्रय इति चत्वारो विषयसामान्यविशेषा इति चतुष्ट्वप्रतिषेधो न युक्तमित्यर्थः ॥ १ ॥

न्या.सू._२,२.२: शब्द ऐतिह्यानर्थान्तरभावाद् अनुमानेऽर्थापत्तिसंभवाभावानर्थान्तरभावाच्चाप्रतिषेधः ॥

यद्येतानीति । यद्यैतिह्यादीनि प्रमाणानि क्व प्रत्यक्षादौ किमैतिह्याद्यन्तर्भवतीति वक्तव्यम् । अप्रमाणस्य । प्रमाणान्तर्भावो न भवतीति प्रमाणानीत्युक्तम् । यत्खल्वनिर्द्दिष्टप्रवक्तृकं प्रवादपारम्पर्यमैतिह्यं तस्य चेदाप्तः कर्त्ता नावधारितः ततस्तत्प्रमाणमेव न भवतीति यद्रीत्युक्तम् । अथाक्षरपरम्परेत्यवगतं तत्राप्तोपदेश इति शब्दलक्षणान्नातिवर्त्तते तदिदमुक्तम् । समानलक्षणत्त्वादिति । पृच्छति कथमर्थापत्तिरिति । ( २७६ । १ ) असत्सु मेघेषु वृष्टिर्न भवति सत्सुः भवतीति सेयमर्थापत्तिः कथमनुमानेन संगृह्यते । उत्तरन्द्वयोरिति । अत्रोदाहरणमाह । यत्र यत्रेति । उदाहरणस्य साध्यविकलत्वमुदाहरति । एकं त्विति । यदि दिवैव न भुङ्क्त इति कालविशेषप्रतिषेधो निश्चीयते ततो रात्रौ भुङ्क्त इति कालान्तरविधानं गम्यते न तु कालविशेषनिश्चयोऽपि तु दिवा भुङ्क्त एव नेति । भोजनादिक्रियायाः याऽन्यासनादिक्रया तन्निषेधनिषेधेन रात्रिभोजनाक्षेपादिति । दिवैव न भुङ्क्तैत्यस्यैकस्य प्राप्तौ भवेद्रात्रौ भुङ्क्ते इति क्रियान्तरनिषेधाः निषेधस्य च प्राप्तौ न वक्तव्यं रात्रौ भुङ्क्तैत्यर्थः । तदेतद्दूषयति । एतत्तु न सम्यगिति । प्राप्तिपूर्विका हि प्रतिषेधा भवन्ति । न चेह भुञ्जानस्याभुञ्जानस्य वा क्रियान्तराभावः प्रसक्तो येनासौ प्रतिषध्यते भुङ्क्त एव नेति । न हि कश्चिद्भुङ्क्त एव न भुञ्जानो न वीक्षते । अन्ततोऽस्त्यादेरपि क्रियायाः भावात् । व्यापृतः कदा चिन्न व्यापारान्तरं कुर्यादपि किं पुनरव्यापृतः स हि व्यापारान्तराण्यव्यासक्तः करोत्येवेत्यर्थः । उपसंहरति तस्मादिति । कालप्रतिषेधो दिवैव भुङ्क्त इत्यस्य प्रतिषेध इत्यर्थः । क्रियान्तरप्रतिषेधनिवृत्तेरसम्भवेन निराकृतत्वादप्राप्तत्वान्न प्रतिषेध इति भावः । क्रियान्तरप्रतिषेध इति ।

अन्तरशब्दो विशेषवचनः तेन भोजनक्रियाया यदन्तरं विशेषः क्रियान्तररहितत्वं भुङ्क्त एवं तस्य प्रतिषेध इत्यर्थः ।
सामान्यतोदृष्टमिति ।
यत्र न कार्यकारणयोर्गम्यगमकभावः तत्सामान्यतोदृष्टमिति ॥ २ ॥

न्या.सू._२,२.३: अर्थापत्तिरप्रमाणम् अनैकान्तिकत्वात् ॥

सत्यमेतानीति भाष्यम् । तस्यार्थः । सत्यमेतान्यैतिह्यादीनि प्रमाणानि न तु प्रमाणान्तरं नैव प्रमाणान्तरमनुमानादिभ्य इत्युक्तम् । न तु प्रमाणत्वमेवामीषां न मृष्यामह इति भावः । वार्त्तिकम् अर्थापत्तिमात्रस्येति । ( २७७ । २ ) दिव्या न भुङ्क्ते इत्यादेरर्थापत्तेरैकान्तिकत्वादिति ॥ ३ ॥

न्या.सू._२,२.४: अनर्थापत्तौ अर्थापत्त्यभिमानात् ॥

स्वमतेन दूषयित्वा सौत्रं दूषणमाह ।
यामपि भवानिति ।
न सत्सु मेघेषु वृष्टिर्भवत्येवेत्यर्थो येन व्यभिचारो देश्येतापि तु असत्सु न भवतीति ।
तथा च न व्यभिचार इत्यर्थः ॥ ४ ॥

न्या.सू._२,२.५: प्रतिषेधाप्रामाण्यं चानैकान्तिकत्वात् ॥

यदि तु यत्र विषयेर्ऽथापत्तिरैकान्तिकी ततो विषयान्तरं कल्पयित्वाऽनैकान्तिकं देश्येत ततो यः प्रतिषेधविषयः प्रामाण्यमर्थापत्तेः ततो विषयान्तरमर्थापत्तेः सत्त्वं प्रतिषेधविषयं कल्पयित्वा प्रतिषेधस्याप्रामाण्यं शक्नुमो वक्तुं तथा च प्रतिषेधाप्रामाण्यान्नार्थापत्तेरप्रामाण्यमित्याह । प्रतित् ( सू. ५ ) ॥ एवं ह्येकान्तिकः प्रतिषेधः स्याद् यद्यर्थापत्तेः प्रामाण्यं सत्तां च प्रतिषेधति । न तु सत्त्वं प्रतिषेद्धुमर्हत्यनैकान्तिकत्वात् । न हि यदनैकान्तिकं तत् सर्वं नास्ति प्रमेयत्वादीनां नित्यत्वसाधने अनैकान्तिकानां सत्वात् । यस्मादर्थाषत्तेर्विशेष इति । ( २७८ । १ ) अर्थाषत्तेर्विशेषः प्रामाण्यं न ह्यर्थापत्तिमात्रं सत्तेति ॥ ५ ॥

न्या.सू._२,२.६: तत्प्रामाण्ये वा नार्थापत्त्यप्रामाण्यम् ॥

न चानैकान्तिकत्वं प्रमाणत्वप्रतिषेधेऽस्तीति यदि मन्यते पूर्वपक्षी, एवं तर्हि तत्प्रामाण्यम् ( सू. ६ ) ॥ विप्रतिपत्तिरप्रतिपत्तिर्वा निग्रहस्थानमिति वदत इत्यर्थः । याऽपि मीमांसाभाष्यकृतार्ऽथापत्तिरुदाहृता जीवतश्चैत्रस्य गेहाभावदर्शनेन बहिर्भावस्यादृष्टस्य कल्पनेति । तदप्यनुमानमेव यदा खलु सन्नेकत्र नास्ति तदाऽन्यत्रास्ति यदा वाऽव्यापक एकत्रास्ति तदाऽन्यत्र नास्ति सोऽयं स्वशरीर एव व्याप्तिग्रहः सुकरः । तथा च सतो गेहाभावदर्शनेन लिङ्गेन बहिर्भावदर्शनमनुमानम् । न च तस्य सत्वेन गेहाभावः शक्योऽपह्नोतुं येनासिद्धो गेहाभावोन वा सत्त्वमपन्हूयेत येन सत्त्वमेवानपपद्यमानं न स्वात्मानं बहिरवस्थापयेत् । तथा हि सत्त्वमात्रं वा विरुध्यते चैत्रस्य गेहाभावेन मेहसत्त्वं वा चैत्रस्य । न तावद्यत्र क्व चन सत्त्वस्यास्ति विरोधो गेहे असत्तया समानविषयत्वाभावात् । देशसामान्येन गृहविशेषाक्षेपोऽपि पाक्षिक इति समानविषयतया विरोध इति चेत् । न प्रमाणविनिश्चितस्य सांशयिकेन प्रतिक्षेपायोगात् । नापि प्रमाणविनिश्चितोऽभाव एव पाक्षिकं तस्य गृहसत्वं प्रतिक्षिपन्सत्वमपि प्रतिक्षेप्तुं सांशयिकत्वं वाऽपनेतुमर्हतीति युक्तम् । गृहावच्छिन्नाभावेन गृहसत्त्वं विरुद्धत्वात्प्रतिषिध्यते न तु सत्त्वमात्रं तत्र तस्यौदासीन्यात् । तस्माद्गृहाभावेन सिद्धेन सतो बहिर्भावोऽनुमीयत इति युक्तम् ।

एतेन विरुद्धयोः प्रमाणयोरविरोधापादनं विषयव्यवस्थया अर्थापत्तिविषयः परास्तः ।
अवच्छिन्नानवच्छिन्नयोरविरोधात् ।
तस्माद् नानुमानात् प्रमाणात्प्रमाणान्तरमर्थापत्तिरिति स्थितम् ॥ ६ ॥

न्या.सू._२,२.७: नाभावप्रामाण्यम् प्रमेयासिद्धेः ॥

नाभाद्धेः ( सू. ६ ) ॥ नाभावज्ञानं प्रमाणं, कस्मात् प्रमेयस्याभावस्यासिद्धेः ।

नो खलु सर्वोपाख्यारहितं प्रमाणज्ञानविषयभावमनुभवति ।
केवलं काल्पनिकोऽयमभावव्यवहारो लौकिकानामिति पूर्वपक्षः ॥ ७ ॥

न्या.सू._२,२.८: लक्षितेष्वलक्षणलक्षितत्वादलक्षितानां तत्प्रमेयसिद्धिः ॥

सिद्धान्तमाह । अभावस्य भूयसीति । सर्वजनीनाभावप्रत्ययव्यवहारौ न काल्पनिकौ भवितुमर्हतः । न च कल्पनाऽपि सर्वोपाख्यारहितं गोचरयितुमर्हतीत्युक्तं विपरीतख्यातिसाधनावसरे । क्षणभङ्गभङ्गावसरे च तस्योपाख्येयत्वमुपपादविष्यते । तस्मादस्य प्रामाण्याद्युक्तः प्रामाणान्तर्भावः । तदेतत्सर्वं वार्तिककारो व्याचष्टे । नाभावः प्रमाणमिति । यथोक्तं दूषयति । कश्चैवमाहेति । अभावो हि प्रमेयमुच्यते न तत्स्वरूपेण प्रमाणमपि तु तद्विषया प्रतिपत्तिः । सा च प्रत्यक्षफलमुपादानानदिबुद्धौ प्रमाणं यथाऽग्रे तथा वक्ष्यते । वर्षाभावप्रत्ययस्तु वाय्वभ्रसंयोगेऽनुमानमुक्तम् । प्रतिपद्य चानयतीति । ( २७९ । ४ ) लक्षणाभावेन विशेषणेनावच्छिन्नान्यानेतव्यत्वेन प्रतिपद्यानयति । एतदुक्तं भवति लक्षणाभावज्ञानं विशिष्टे वाससि प्रत्ययं जनयत्साधकतमत्वात्प्रमाणं भवति ॥ ८ ॥

न्या.सू._२,२.९: असत्यर्थे नाभाव इति चेन् नान्यलक्षणोपपत्तेः ॥

असत्तेः ( सू. ९ ) ॥

भावाधीननिरूपणत्वात्प्राप्तिपूर्वकत्वाच्च प्रध्वंस एवाभावः । तस्य भावपूर्वकत्वात् । नान्योऽस्त्य भाव इति मन्वानस्य पूर्वपक्षः । नापरिज्ञानादिति । प्रत्यक्षं हि प्रमाणं प्रमेयाभावं व्यवस्थापयति । तच्च प्रध्वंसवत्प्रागभवेऽपि तुल्यम् । प्रतियन्ति हि लौकिका दध्नि क्षीराभावमिव क्षीरे दध्यभावम् । ननु सूत्रमन्येषु वासस्सु लक्षणाभावरूपाणामुपपत्तिं सद्भावमाह । न त्वभावोपलब्धिं ब्रूषे तत्कुतो न विरोध इत्यत आह । अत उक्तार्थं सूत्रमिति ।

व्यतिरेकमुखेन सूत्रस्योक्तोऽथः ।
अत एवाह भाष्यकारः ।
नैवमलक्षितेष्विति ।
लक्षणादर्शनेन हि लक्षणाभावदर्शनमुपलक्षितम् ॥ ९ ॥

न्या.सू._२,२.१०: तत्सिद्धेरलक्षितेष्वहेतुः ॥

यानि तानि लक्षितेष्विति । न कस्य चिल्लक्षितस्य न सन्ति यानि च सन्ति तेषामभावो व्याहतः । एतदुक्तं भवति यत्र लक्षणानि सन्ति तत्र तेषामभावो व्याहतः यत्र च न सन्ति तत्राप्यभावोऽनुपपन्नः ।

तस्य भावाधीननिरूपणस्य तदभावेऽशक्यनिरूपणत्वादिति ।
परिहरति नापरिज्ञानादिति ।
भावज्ञानाधीननिरूपणो भवत्यभावो न तु भावाधीननिरूपणः प्रागभावोऽपि च शक्यो भविष्यद्भावज्ञानेनान्यत्रावस्थितभावज्ञानेन वा निरूपयितुमिति न प्रागभावाभाव इत्यर्थः ॥ १० ॥

न्या.सू._२,२.११: न लक्षणावस्थितापेक्षासिद्धेः ॥

न्या.सू._२,२.१२: प्रागुत्पत्तेरभावोपपत्तेश्च ॥

अभावद्वैतमिति । प्रकृतापेक्षं प्रकृतं प्रध्वंसमात्रवादिनं प्रति प्रागभावप्रतिपादनं परमार्थतस्तु प्रथममभावेद्वैतं तादात्म्याभावः संसर्गाभावश्चेति संसर्गाभावोऽपि प्राक्प्रध्वंसात्यन्ताभावभेदेन त्रिविध इति चतस्रो विधा अभावस्येति । असत्यर्थेनाभावः । तत्सिद्धेरलक्षितेष्वहेतुरिति चोभे अप्येते छलसूत्रे इति । ( २८० । ३ ) यो योऽभावः स सर्वः सत्यर्थे भवति यथा प्रध्वंसः न च तथा लक्षणाभाव इति सामान्यच्छलम् ॥ १० ॥ तत्सिद्धेरिति तु वाक्छलं यानि लक्षणानि भवन्ति कथं तान्येव न भवन्तीति हि तस्यार्थः ॥ १११२ ॥

न्या.सू._२,२.१३: आदिमत्त्वादैन्द्रियकत्वात् कृतकवदुपचाराच्च ॥

तदेवं शब्दपरीक्षां प्रस्तुत्य तस्य प्रामाण्यं परीक्ष्य विभागोद्देशः परीक्षितः संप्रति शब्दपरीक्षाशेषं वर्त्तयन्नाह । आप्तोपदेशः शब्द इति । संशयकारणं विप्रतिपत्तिं दर्शयन् जरन्मीमाङ्कानां मतमाह । आकाशगुणः शब्द इति । अभिघातप्रेरितेन हि वायुना यावद्वेगमभिप्रतिष्ठमानेन कर्णशष्कुल्यवच्छिन्ननभोभागसमवेतः नित्यः शब्दो व्यज्यत इति । तदेतद्वार्तिककारो व्याचष्टे । एके तावदिति । अविनश्यदाधारमपि संयोगाद्यनित्यमित्यत आह । एकद्रव्यमिति । तथाऽपि पार्थिवाणुगतै रूपादिभिरनैकान्तिकमत आह । आकाशगुणश्चेति । एकद्रव्यत्वे सत्याकाशगुणत्वादित्येतावताभिमतसिद्धेरविनश्यदाधारत्वं तत्प्रपञ्चार्थं वेदितव्यम् । संयोगविभागनादा इति । भेरीदण्डसंयोगप्रेरितो वायुः कर्णशष्कुलीमन्तमाकाशं प्राप्तः शब्दस्य व्यञ्जकः एवं वंशदलविभागप्रेरितो वायुः शब्दस्य व्यञ्जक इति द्रष्टव्यम् । संयोगविभागौ पारम्पर्येण, नादस्तु साक्षादिति । सांख्यीयमतमाह । गन्धादिसहवृत्तिरिति । पञ्चतन्मात्रोत्पन्नभूतसूक्ष्मसमुदायारब्धपृथिव्यादिविकारो गोघटादिवृत्तिः शब्दो योग्यदेशस्य आहङ्कारिकतया व्यापकं विषयदेशस्य श्रोत्रेन्द्रियं विकुर्वन्नवस्थित एव गृह्यते । तदेतदाह । अपरे पुनरिति । भूतविशेषाभिघाता इति । भेरीदण्डाभिघाता इत्यर्थः । वैशेषिकमतमाह । आकाशगुण इति । बौद्धराद्धान्तमाह । महाभूतसंक्षोभज इति ( २८१ । २ ) नासम्बन्धादिति । यदा भावोऽस्ति तदा प्राक्प्रध्वंसाभावान्नानित्यत्वम् । अनुत्पन्नविनष्टयोश्च प्रसङ्गादिति । न तावत्प्रक्प्रध्वंसाभावयोः सहभावोऽस्ति तस्मात्प्रत्येकमेव तावदनित्यत्वं तथा चानुत्पन्ने वस्तुनि नष्टे वाऽनित्यत्वप्रसङ्गः । न चेदं दृष्टमिष्टं वा भावधर्मत्वेनानित्यत्वस्य प्रतीतेरनित्यो घट इति । न केवलमनित्यत्वस्य भाव इति परमस्मिन्पक्षे न युज्यते षष्ट्यर्थश्च नास्ति । कस्माद् भावस्याभावो धर्मो न भवतीत्यत आह । न च धर्मकाल इति । चो हेत्वर्थे । शङ्कते । अथेति । भवन्नेव हि यस्मात्प्राग् न भवति पश्चाच्च तस्मात्तस्याभाव इति षष्ठयुपपत्तिरित्यर्थः । उत्तरम् एवमपीति । सत्यं भवन्नेव न भवतीति, न त्वेनावताऽस्याभावसंबन्धो भिन्नकालत्वात् । तस्मान्नास्मदुक्तं किं चित्प्रतिषिद्धमित्यर्थः । लोकविरोधमुद्भावयति घटस्य प्रागभाव इति । असंबन्धे षष्ठीप्रयोगोऽयं भाक्तः भावाधीननिरूपणत्वं च भक्तिरित्यर्थः । अपि च वर्तमानवस्तु नित्यमित्युच्यते तस्य भावो नित्यता । भवतु किमेतावताऽपीत्यत आह । वर्त्तमाने चेति । ( २८२ । १ ) विनाशोऽस्यावश्यन्तया भविष्यतीति अवश्यंभाविनो विनाशस्य सन्निधानेन सम्बन्धमुपचर्य मतुपः प्रयोग इत्यर्थः । उपलब्धिलक्षणप्राप्तस्येति । ( २८३ । ७ ) न हि सतो विनाशोऽस्ति येनासंबन्धो भावस्य देश्येत किं तु यथा सतव आविर्भावो जन्म एवं सत एवात्यन्ततिरोभावो विनाश इति अनित्यतेति चाख्यायते तिरोभावस्य च सता सह समानकालतया सम्बन्ध उपपद्यत इति भावः । तिरोभावश्च घटादिनाऽपि संभवतीत्युपलब्धिलक्षणप्राप्तस्येत्युक्तम् । तदेतत्सांख्यीयं मतं दूषयति । एतत्तुशून्यमभिधानमिति । प्रधानविकारत्वाद्विश्वस्य विकारस्य च प्रकृतेरनन्यत्वात्प्राधनिकस्य कस्य (?) चिदुपलम्भान्नास्त्येव तद्वस्तु यदत्यन्तं नोपलभ्यत इति सांख्यसिद्धान्तस्तं बाधत इत्यर्थः । अपि च यथा सतो न विनाशः एवमसतोऽपि जन्म नास्ति तथा चानुपजातविशेषस्य वस्तुनस्तिरोभावो न युक्तः विशेषोपजनेन च कथं सत उत्पत्तिर्विशेषस्यैव प्रागसत्त्वात् सत्त्वे वा प्रागप्यनुपलब्धिप्रसङ्ग इति । ये पुनरिति । अनित्य एवानित्यता स्वार्थिकस्तल्प्रत्यय इत्यर्थः । दूषयति । एतत्तु न युक्तम्१ पाणिनेरपि स्मृतिः प्रमाणाविरोधिनी तत्त्वव्यवस्थाहेतुर्न तद्विरोधिन्यपि, अस्ति च ठगादीनां स्वार्थिकत्वे प्रमाणविरोधः । तथा हि प्रकृतिप्रत्ययोः समभिव्याहारो न स्याद् न खल्वेकार्थयोः समभिव्याहारो दृष्टः न हि भरति वृक्षः शिंशपा इतिवद्वृक्षस्तरुरिति प्रयोगः । कथं तर्ह्येको द्वौ बहव इति चेत् । न । लिङ्गविशेषव्यक्त्यर्थत्वाद्विभक्तिप्रयोगस्य एवं यावकादिष्वपि विरुद्धजात्यन्तरव्यवच्छेदः प्रत्ययार्थो वेदितव्यः । यथा च व्याचक्षते शब्दाः याव एव यावक इति । तदिदमुक्तम् । अनुपलभ्यमानभेदानामप्यनुमानतो भेद इति । किमनुमानं । षष्ट्या भेदविषयत्वमिति त्वतलभिप्रापयं नित्यत्वानित्यत्वयोः प्रकृतत्वात् । तस्य भावस्त्वतलाविति त्वतलोः षष्टीसमर्थादुत्पत्तेः सर्वविषयं त्वनुमानमुक्तमिति । अवध्यपेक्षानपेक्षेति । ( २८४ । ३ ) सत्तैवोभयान्तावध्यपेक्षा भवत्यनित्यता सैव च तदनपेक्षा नित्यता अवधिश्चोपलक्षणं न विशेषणम् तच्च भिन्नकालमपि भवत्येव यथा मृतायां मातरि देवदत्तायां देवदत्तापुत्रो यज्ञदत्त इति भूतपूर्वगत्वा देवदत्ता स्वपुत्रमुपलक्षयति यदा च कार्यत्वं समवायस्तदोभयान्तावच्छिन्ना सत्ता नित्यता । यदा तु पूर्वान्तावच्छिन्ना सत्तैवोत्पत्तिस्तदाऽपरान्तावच्छिन्ना सत्ता अनित्यतेति न ह्वेतुलक्षणव्याख्यानावसरोक्तेन विरोध इति । कार्यात्मलाभहेतुः समवाय

इति ।
कार्यस्यात्मलाभः स्वकारणसम्बन्धित्वं तस्य हेतुः समवायः ।
समवायो हि समवेतत्वं भवति समवायः कारणविशिष्टकार्यत्वमिति ।
निमित्तकारणभेदानुविधानमुत्पत्तिधर्मकत्वं गम्यगमकयोरभेदविवक्षया ॥ १३ ॥

न्या.सू._२,२.१४: न घटाभावसामान्यनित्यत्वाद् नित्येष्वप्यनित्यवदुपचाराच्च ॥

न्या.सू._२,२.१५: तत्त्वभाक्तयोर्नानात्वविभागादव्यभिचारः ॥

निमित्तकारणानि भेरीदण्डसंयोगादयः । तद्भेदात्खलु शब्दो भिन्नो भवति । शङ्कते संयोगविभागेति । ( २८५ । २ ) यथा हि कारणभेदेन भेदो दृश्यते एवं व्यञ्जकभेदेनापि मणिकृपाणदर्पणादिव्यज्यमानस्य मुखस्य भेदो दृष्टः तस्मात् संशय इति । श्रोत्रं तावन्न शब्ददेशं गच्छत्यमूर्त्तत्वादिति । कर्णशष्कुल्यवच्छिन्नं हि नभः श्रोत्रं, न च कर्णशष्कुली मूर्त्ताऽपि सती वक्तृवक्रमुपसर्पति प्रत्यक्षं हि कर्णशष्कुली श्रोत्रस्था गृह्यते तस्माद्गच्छदपि कर्णशष्कुल्यपधानविरहान्न नभोमात्रं श्रोत्रं तस्मान्मा कर्णशरूकुली यासीत् तदुपकृतं तु नभो गच्छतीति यो मन्यते तं प्रत्येतदुक्तमिति द्रष्टव्यम् । क्रियाकारणगुणसमवायादिति । नोदनाभिधातसमवायादित्यर्थः । नायं निरपेक्षार्थ इति।यद्यपिव समवायिकारणं पतने कत्त्रव्ये गुरुत्वमपेक्षते तथाऽपि चरमभाविनिमित्तान्तरं नापेक्षत इति निरपेक्षशब्दास्यार्थः । यद्यपि प्रतिबन्धकापगमो भवति चरप्रभावी तथाऽपि न निमित्तान्तरं प्रतिबन्धे हि सति गुरुत्वं न करोति कार्यमौत्सर्गिकं न पुनः प्रतिबन्धकापगमस्यापि तत्र निमित्तभावकल्पना युक्ता तदन्वयव्यतिरेकस्यान्यथासिद्धेरिति भावरूपं वा चरमभाविनिमित्तान्तरं नापेक्षत इत्यनपेक्षार्थः । विषयाभावाच्चेति । ( २८६ । ३ ) क्रियोत्पादं प्रति योग्यता क्रियाविषयस्तामाश्रित्य क्रिया भवति सा मूर्तिः न चासावसर्वगतद्रव्यपरिमाणलक्षणात्माकाशादौ सर्वगते समस्ति तस्मान्नैते क्रियावन्त इत्यर्थः । ततोऽन्त्यस्यातिमान्द्यादिति । नान्त्यः शब्दान्तरमारभते न केवलमसौ स्वकारणं शब्दं नाशयति, किन्तु सोऽपि स्वकारणेन शब्देन नाश्यते तदिदमनयोः कार्यकारणविरोधित्वम् । आद्यस्तु कार्येणैव नाश्यते मध्यानां त्वनियम इति । जरन्मीमांसकमतमुत्थापयति एव एवेति चेदिति । एक एव तेषां शब्दो नभोगुणो नभो वितत्यावस्थितः परिमाणवदित्यर्थः । शब्दसंस्कारपक्षं कक्षीकृत्य दूषणमाह । न सर्वैरुपलब्धिप्रसङ्गादिति । न किम इति ( २८७ । २ ) प्रश्नस्येत्यर्थः । शब्दस्याकाशवृत्तित्वादिति । आकाशस्य सर्वगतत्वेन तत्र व्यक्तः सर्वत्रैव व्यक्त इति सर्वत्रैवोपलम्भस्तदवस्थ एवेत्यर्थः । अभ्युपेत्यैकदेशमाह । एकदेशाभिव्यक्तौ चार्थप्रत्ययो न स्यात् । वर्णसाध्यस्य कार्यस्यैकदेशेनाकरणात् । यथा नानावर्णे पदे एकवर्णाभिव्यक्तौ नार्थप्रत्यय इति । स्यादेतद् एकदेश एव वर्णः तथा च वर्णसाध्यं कार्यमेकदेशः शक्तः कर्तुमित्यत आह । सर्व एव व्यापकाप भवन्तीति । एतस्मिन्पेक्षे वर्णैकदेशव्यक्तिरभ्युपगम्यते तस्माद्व्यापकाद्वर्णादव्यापक एकदेशोऽन्यैत्यर्थः । नन्वस्त्वेकदेशत एवार्थप्रत्यय इत्यत आह । एतस्मिन् पक्षे वर्णैकदेशव्यक्तिरभ्युपगम्यते न च वर्णैकदेशः शक्यो निरूपयितुम् । अल्पीयसा हि प्रयत्नेन वर्णमुच्चरितं मतिर्न गृह्णाति गृह्णती वा वर्णमेव गृह्णाति न तु तदेकदेशं कदा चिदपीत्यर्थः । निरूपणमभ्युपेत्याह । न च निरूपितादिति । बहवस्तहिं वर्णा व्यज्यन्तां तन्निरूपणाच्चार्थो गम्यत इत्यत आह । एतेनेति । यस्तु मन्यते न वस्तुतोऽस्त्येकदेशः शब्दस्य किं तु संस्कारस्याव्याप्यवृत्तित्वमेवैकदेशः । भवतः पक्षे शब्दस्याव्याप्यवृत्तित्वमेव नभस एकदेश इति तं प्रति दोषान्तरमाह कोलाहलश्च स्यादिति । यद्युच्यते कश्चिदेव ध्वनिः कं चिदेव शब्दं व्यनक्ति ततश्च न कोलाहल इति तत्राह । नियमश्च न स्यादिति । ( २८८ । ५ ) समानदेशानामपि रूपरसादीनां व्यञ्जकनियम इत्यत उक्तं समानेन्द्रियग्राह्याणामिति । तथा पि भिन्नदेशानां समानेन्द्रियग्राह्याणामपि न सहसा सर्वेषां व्यक्तिरित्यत उक्तं समानदेशानामिति । शङ्कते यद्यस्य व्यञ्जकमिति । न हि व्यञ्जकानां व्यञ्जकत्वं व्यक्तेरन्यतः प्रतीयते सा च नियतेति व्यञ्जकानामपि नियमसिद्धिरित्यर्थः । परिहरति तन्नादृष्टत्वात् । अन्येषामेव भूतानां व्यञ्जकानां व्यङ्न्यानां चानियमोव दृष्ट इहापि नियमं विघटयति । कार्याणां तु समानदेशानामपि समानेन्द्रियग्राह्याणामपि रूपादीनां संख्यादीनां च दृष्टः कारणनियम इति शब्दानामपि नियतकारणतयोत्पत्तिनियम उपपद्यत इति भावः । समस्तवस्त्वव्यवधानेन सामान्यानां सर्वसामान्यसंगतं समस्तं वस्त्विति मन्वानः शङ्कते । सामान्यवदिति । सर्वार्थाव्यवधानेऽपि किं चिदेव वस्तु केन चिदेव सामान्येन संबद्धं न सर्वं सर्वेणेत्याशयवान्निराकरोति । नानभ्युपगमादिति । यद्यप्येकदेशस्थानां समानेन्द्रियग्राह्याणां सत्त्वनरत्वब्राह्मणत्वानां स्वरूपभेदसंस्थानयोनिव्यङ्न्यानां प्रतिनियतव्यञ्जकव्यङ्न्यत्वं तथाऽपि समानदेशत्वाभावान्न व्यभिचारः । सत्त्वस्य पदार्थत्रयसमवायादधिकदेशतया नरत्वस्य ब्राह्मणवत् क्षत्रियादिषु सद्भावात् ब्राह्मणत्वस्य क्षत्रियादिपरिहारात् कठ दिष्वेव भावाद् न्यूनाधिकदशतया न समानदेशत्वमिति । एतेन श्रोत्रसंस्कारेऽप्यनिमो बोद्धव्यः यथोन्मीलनसंस्कृतमिन्द्रियं समानदेशान्स्वग्राह्यान्सकृदेव दर्शयति न तु किं चिदेवेति सर्वमवदातम् । अपि च सर्वशब्दस्य ताल्वादिसंयोगव्यङ्न्यत्वे तदुपरमे विदूरे शब्देनोपलब्धव्यं न चोपलभ्यते । वायुसंतानव्यङ्न्यत्वे तु प्रागुक्तनियमाभाव एव दोष इति शङ्कोत्तराभ्यां दर्शयति । यदिचेति । अपि चायं नित्यः शब्दः प्रादेशिको वा स्याद्व्यापको वा उभयथाऽपि दोष इति शङ्कोत्तराभ्यां दर्शयति । निमित्तसन्निधाने चेति । ( २८९ । १० ) स्यादेतत् । मा भूद्रायुसंतानो व्यञ्जकः सन्ति खलु वायुगुणा नादास्तेऽस्य शब्दस्य व्यङ्क्तापर इत्यत आह । नादोपलब्धौ चेति । न तावन्नादो नाम वायुगुणः कश्चिदुपलभ्यते, अभ्युपेत्यापि ब्रूमः । नादोपलब्धावपि यत्र वायुस्तत्र तद्गुणोऽङ्गीकर्तव्यः न च विप्रकृष्टेनपुरुषेण शब्देपलब्धौ तत्र वायुरस्ति तद्गुणो वा नादः वायुसन्तानगमनं चात्मिन् पक्षे नेष्यते यस्माद्विमकृष्टेन पुरुषेण शब्दोपलब्धेन व्यञ्जको नाद इति । स्यादेतत् मा भूद्वायुसंतानो मा च भूत्तद्गुणो नादः शब्दस्य व्यञ्जको वायवीयास्तु संयोगविभागा व्यञ्जका भवन्तीत्यत आह । एतेनेति । यस्तु मन्यते प्रत्यभिज्ञैव भगवती शब्दस्येमसाधिनी तदानुगुण्याय व्यापिनः शब्दस्य गुणस्य द्रव्यस्य वा प्रयत्नप्रेरिता वायवो यावद्वेगं प्रतिष्ठमानाः श्रोत्रं श्रोत्रावच्छिन्नशब्दविशेषं वा संस्कुर्वन्तो व्यञ्जका इति कल्प्यते । न च समानदेशानां समानेन्द्रियग्राह्याणां नियतव्यञ्जकव्यङ्न्यत्वं न दृष्टमितीमं प्रसङ्गं प्रत्यभिज्ञा मृषति सोऽयमनया बाधितविषयो विलीयत इति तं प्रत्याह । कृतकवदुपचारात् । ( २९० । १ ) अत्र चोपचारेण प्रयोगेण तत्कारणं शब्दभेदप्रत्ययमुपलक्षयति । अस्ति हि शुकसारिकामनुष्यवक्रप्रभवेषु गकारादिषु स्फुटतरा रूपभेदप्रत्ययाः पुंसाम् । एवं स्त्रीपुंसप्रभवेषु स्त्रीपुंसभेदप्रभवेषु च । न चेयमौपाधिकी न तु स्वरूपत इति वाच्यम् । तथा ह्यौगाधिकत्वमानुभाविकं वास्याद् यथा कुङ्कुमारुणा तरुणीति । उपपत्तिगोचरो वा यथा कृपाणधारायां जले व प्रतिबिम्बहेतौ रोचिष्णुतायां दीर्घश्यामतायां मुखस्य न तावदानुभाविकं, विदितोपाधेः खलुः तद्भवति यथा विदितकुङ्कुमस्य कुङ्कुमारुणेति । शुकादिभेदमविदुषोऽपि च काण्डपटाद्यावृते शुकादौ शब्दभेदप्रत्ययो भवति यत एतदुन्नयति शुकोदीरिता मञ्जुतमा गाथेति । नाप्यौपाधिकत्वमुपपत्तिगोचरः न हि शब्दस्वरूपसमवायिनो भेदस्यौपाधिकत्वे किचिदस्ति प्रमाणं मुखस्येव मणिदर्पणकृपाणगतस्य । न खलु विरुद्धपरमाणेषु दर्पणादिषु विरुद्धपरिमाणानां प्रतिबिम्बानामुत्पादः संभवति । शब्दानां तु संयोगविभागयोनीनां युक्तस्तद्भेदेन रूपभेदः । स्यादेतत् । तीव्रमन्दत्वादयो धर्माः परं भिद्यन्ते न तु तदाश्रयः शब्दः न ह्यन्यस्य भेनेनान्यो भेत्तुमर्हति अतिप्रसङ्गात् । न हि रूपरसादीनां युगपद्भाविनां वा क्रमभाविनां वा संयोगादीनां भेदे द्रव्यं भिद्यते । कथमेकस्यैव शब्दस्यापर्यायेण तीव्रमन्दत्वादिविरुद्धधर्मसंसर्ग इति चेत् । अत एवौपाधिकोऽस्तु मुखस्येवाभेदिनोऽपर्यायेण कृपाणादिषु दीर्घपरिमण्डलत्वादिः । अत्रोच्यते, न वयं धर्मभेदमात्रेण धर्मिणो भेदमाचक्ष्महे किं तु धर्मभेदमात्रप्रथा उत धर्मिभेदोऽपि प्रथत इति निरूप्यताम्, अस्ति हि गौर्गौरिति प्रथानुगमेऽपि शुङ्ककपिलकपोतिकासु गोषु धर्मिभेदावगाहिनी प्रथा । अस्ति च धर्ममात्रभेदावगाहिनी प्रथा धर्मिणमभिन्नमाकलयन्ती यथा शालप्रान्थुः वृथुलविशालवक्षाः प्रलम्बभुजो नीलोत्पलदलश्यामः सिंहास्यो नवाम्भोदध्वनिर्गम्भीरमधुरघोषश्चकोरेक्षणः क्षत्रिययुवेति । सेयं शुकशारिकामनुष्येषु युगपद्गकारानुच्चारयत्सु तीव्रमन्द्रानुनासिकादिगकारावगाहिनी प्रथा किमेकमेव क्षत्रिययुवानमिव गकारमनेकधर्मवन्तमालम्बते एको गकारो नानाधर्मेति किं वा यथेयं शुक्ला गौरियं कपिला गौरिति तथा तीव्रोऽयं गकारो मन्दोऽयं गकारोऽनुनासिकोऽयमिति भवन्त एव विदांपव कुर्वन्तु । सेयं गोत्त्वमिव कपिलादियु गोविशेषेषु गत्वं तीव्रमन्दादिशब्दभेदेष्वालम्बमाना प्रत्यभिज्ञा च भेदप्रथा चोपपत्स्यते । अपि च युगपत्तीव्रमन्दत्वादिलक्षणविरुद्धधर्मसंसर्गादपि गकाराणां परस्परतस्तपनखद्योतवद्भेदमनुमिमीमहे । न चायं विरुद्धधर्मसंसर्गो न गकारादिनिवेशी किं त्वापाधिकः उपाधयश्च भिद्यन्त एव न गकार इति सांप्रतम् । गकापरसमवायिनः प्रतीयमानस्यासति बाधके औपाधिकत्वकल्पनायोगात् । प्रत्यभिज्ञानस्य च गत्वसामान्यालम्बनत्वेनोपषत्तेः । अपि चौपाधिकत्वपक्षे ताल्वादिसंयोगधर्मो वा तदभिघातप्रेरितध्वनिधर्मो वा तीव्रानुनासिकत्वादिः शब्दे समारोष्यत इत्यास्थेयम् । न चारोष्यमजानतामारोपः संभवति । न च ध्वनीनां ताल्वादिसंयोगविभागानां वा धर्मः श्रोत्रेण शक्यो ग्रहीतुं तदन्यधर्मवत् । न चैते तदार्नी प्रमाणान्तरेणोपनीयन्ते स्मृता वा येनारोप्येरन् । न च ध्वनिभेदसंस्कारवशाच्छ्रोत्रस्यैतादृशः सामर्थ्यभेद आविर्भवति । येन आरोप्याग्रहेऽपि भ्रमो भवति । न च मण्डूकवसाक्ताक्षाणामिवानवगतास्मृतोरमाणामपि प्रथमाक्षसन्निपाताद्वंशेषूरगारोप इति सांप्रतम् । सर्वासामेव भ्रान्तीनां प्रमाणगृहीतारोप्यारोपविषयग्रहणपुरःसरत्वनियमात् । तदनुसारेण मण्डूकवसाक्ताक्षाणामपि वंशेषूरगभ्रमो व्याख्येयः । वंशानां तावदस्ति भूयः सारूप्यमुरगेण तेन चैते तन्मात्रेण रूपेण शक्नुवन्ति गृहीताः स्मारयितुमुरगम् । एवमपि यदन्येषांभ्रमो न भवति तत्र सर्पाकारव्यावृत्तवंशग्रहो हेतुः मण्डूकवसाञ्जनं च वंशाकारपिधानमात्रहेतुः । न च प्रयमाक्षसन्निपातादेव भ्रम इति प्रामाणिकं क्षणभेदस्य दुर्जानत्वात् । च चागृहीतसर्पस्य भवतीति युक्तं शक्यं वक्तुम् । तस्मिन् जन्मनि जन्मान्तरेव वा सर्पग्रहसम्भवात् । ध्वनिधर्मस्त्वनुनासिकत्वादिरस्मिन्नेव जन्मनिजन्मान्तरेऽप्यशक्यग्रह एव । तस्माद्वर्णसमवेतोऽनुनासिकत्वादिः प्रतीयमानां वर्णधर्म एव नौपाधिकः तथा च युगपद्विरुद्धधर्मयोगात्परस्परमन्यत्वं गकारादीनामिति युक्तम् । तदनेनाभिसंधिनोक्तं कृतकवदुपचारादिति । तदेतद्वार्तिककारो व्याचष्टे । तीव्रं मन्दमिति कृतकमुपचर्यत इति । शब्दविषयत्वेन विरुद्धधर्ममुपलक्षयति । अपरानपि शब्दानित्यत्वहेतूनाह । कृतकवदुपचारादित्यनेनेति । सामान्यवत इत्येतावतैव जातिनिराकरणे सिद्धे विशेषग्रहणं साधर्म्यं सामान्यमिति भ्रमनिराकरणार्थम् । तद्धि प्रमेयत्वसत्त्वादिकं गुण इव जात्यादावप्यस्तीति । विशेषपदेन तु जातिग्रहणान्निवर्त्तितं भवति । उपलभ्यस्येति तूपरिष्टात्स्फुटीभविष्यतीति । शङ्कते तीव्रशब्दस्येति । तीव्रत्वधर्मान्वयव्यतिरेकानुविधायिप्रवृत्तिस्तीव्रशबदो न शब्दं धर्मिणमभिधातुमर्हतीति यथोक्तमात्रस्याक्षेप इत्यर्थः । निराकरोति । न शब्दशब्देन समानाधिकरणस्येति । एतच्च व्यक्त्याकृतिजातयः पदार्थ इत्यत्र प्रतिपादयिष्यते । शङ्कते व्यञ्जकस्येति । स्वकारणात्खलु व्यञ्जकाच्छब्दज्ञानमुत्पन्नं तीव्रं मन्दं चेति । तेन तीव्रज्ञानज्ञेयः शब्दोऽपि तीव्र इव मन्दज्ञानज्ञेयः शब्दो मन्द इव भासते न त्वाजानतोऽस्य तीव्रत्वं मन्दत्वं वा येन भिद्यत इत्यर्थः । निराकरोति नाभिश्रवेति । अन्यत्खल्वन्येन समानजातीयेनाभिभूयते न तु तदेव तेन, न हि मध्यन्द्रिनोल्काप्रकाशसंबन्धी पटः पटुना सावित्रेण प्रकाशेन प्रकाशमानमात्मानमात्मनाऽभिभवति । एवं गकारोऽपि तीव्रध्वनिप्रकाश्यं गकारमात्मानमभिभवेत् । यदि त्वयं मन्दध्वनिप्रकाश्यो गकारस्तीव्रध्वनिप्रकाश्याद्गकारादन्यो भवति । ततो मध्यदिनोल्काप्रकाशः सवितृप्रकाशेन चाल्पत्वादभिभूयते इति युज्यते तदिदं शेषं भाष्यौक्तमिति । सत्यमन्यदन्येनाभिभूयते तथाऽपि न गकारस्य नानात्वमपि तु तद्ग्रहणानां तेषां चाभिभाव्याभिभावकभावो न गकारस्येत्यनेनाभिप्रायेण शङ्कते । ग्रहणमिति । निराकरोति । न ग्रहणभेस्येति । अर्थभेदाधीननिरूपणो ग्रहणभेदो नार्थभेदमन्तरेण शक्यो निरूपयितुं, न च भेदेनानिरूपितःप शक्योऽभिभाव्याभिभावकभावेन प्रत्येतुमित्यर्थः । नित्यं ग्रहणभेदः स्यादिति । ग्रहणभेददर्शनाभ्युपगमे नियतमर्थभेदोऽभ्युपगन्तव्यः । तथा च सर्वमेव भिद्यत इति नाभिन्नं किं चिद्भवेत् । भेदोऽपि न स्यादभेदाश्रयत्वाद्भेदस्येत्यर्थः । अभिश्रवानुपपत्तिश्चेति । ( २९१ । १ ) यस्मिन्नेव क्षणे पूर्वं ज्ञानमुत्तरेणोत्पद्याभिभवनीयं तदैव तेन विनाश्यते न चासतोऽभिभव इत्यर्थः । सांख्यमतेऽपि नाभिभव इत्याह । अभिभवेति । पराजितं सांख्यं दृष्ट्वा नास्माकमयमस्त्यनुयोग इति मन्वानो मीमाङ्गकः पुनः शङ्कते । सर्वत्रेति । निराकरोति नेति । साङ्ख्यश्चोदयति । यदि संतानवृत्तिरिति । परिहरति । शब्दसंतानस्य निमित्तभेदाभिमुख्येनादौ प्राप्तेरिति । ( २९१ । ८ ) निमित्तभेदो भेरीशङ्खताल्वादिश्च तदाभिमुख्येन यः कर्णशष्कुल्यवरुद्धस्य नभसः श्रोत्रस्य भागः स्थितस्तस्मिन्नादौ च उत्षन्नः शब्दस्तस्य प्राप्तेः पूर्वादिदिगवस्थितशङ्खादिजन्माऽयं शब्द इत्यनुमीयते । एतदुक्तं भवति विशिष्टदिग्देशावस्थितशङ्खादिप्रभवशब्दसंतानजन्यस्य तस् शब्दस्य कोऽपि धर्मभेदः श्रोत्रगोचरो यस्मात्तस्य विशिष्टदिग्देशावस्थितशङ्खादिप्रभवत्वमनुमीयते न चासौ सामान्यविशेषोऽव्यपदेश्यत्वान्नास्ति । न हीक्षुक्षीरगुडादीनां मधुरत्वावान्तरसामान्यभेदः प्रत्यक्षवेदनीयाः शक्या अव्यपदेश्यतपया प्रत्याख्यातुम् । अनुभवश्च समानः । तस्मादानुमानिकः शब्दे दिग्देशप्रत्यय इति । यः शब्दसंतान इति । संतनोतीति संतानः आद्यः शब्दो यो जायते स संतानोतीति सम्बन्धः यस्मात्तनिमित्तादभिमुखे नेति योजना । आद्यशब्देति । तदभिमुखभागयुक्तः शब्द इति ।

तदेवं स्वमतमुत्क्वा परमतमाह ।
एके त्विति ।
परोक्षे वक्तरीति शेषः ।
यद्यपि जात्यन्धानामपि कथं चिदभिमुखपृष्ठपार्श्वतः शब्दविवेकः संभवति तथापि पूर्वापरदिग्विभागो नास्तीत्यत उक्तं जात्यन्धानामिति ॥ १३१४ ॥

न्या.सू._२,२.१६: सन्तानानुमानविशेषणात् ॥

एतच्चाभावे नास्तीति । ( २९३ । ३ ) न सत्तांसबन्धो नोभयान्तावच्छिन्नत्वमित्यर्थः ॥ १५१६ ॥

न्या.सू._२,२.१७: कारणद्रव्यस्य प्रदेशशब्देनाभिधानाद् नित्येष्वप्यव्यभिचार इति ॥

ननु यद्यन्यद्व्यापकत्वं नास्ति कथं तर्हि भवद्बिःकंषां चिद्व्यापकत्वमव्यापकत्वं च केषां चिदिष्यतैत्यत आह । वयं तु व्याप्तिमङ्गुलिरूपस्येति ( २९६ । ६ ) । यत्र यत्राश्रयोपलब्धिस्तत्र तत्र यद्वस्तूपलब्धियोग्यं सदुपलभ्यते तद्व्यापकं तेन बलाकाव्यापकमपि शौक्ल्यं मन्दमन्दालोके बलाकायामुपलभ्यमानायामपि नोपलभ्यते योग्यताभावात् । ईदृशं संयोगादीनां व्यापकत्वमशक्यं गुणत्वेन साधयितुमनुपलब्धिविरोधादित्याह । न पुनः शब्दादय इति । उपलब्धियोग्या इति शेषः । सर्ववस्तुविषयं च स्वाभिमत्तं व्यापकत्वाव्यापकत्वं संक्षिप्याह । समुदितस्थानानामिति । समुदितस्थाना हि सत्तादयो गोत्वादयश्च व्यापका एकसमुदाथ्युपलम्भेऽप्युपलब्धेः संयोगादयस्तु समुदितस्थाना अव्यापकाः न ह्येते समुदायिन्येकस्मिन्निरूप्यन्ते, अपि तु समुदितेष्वेव एकाश्रयाणां रूपादीनां व्यापकानामव्यापकानां च शब्दबुद्ध्यादीनामाश्रयोपलब्धातुपलब्ध्यनुपलब्धी व्याप्त्यव्याप्ती इति योजना । एकसमुदायीत्यत्रैकग्रहणमशेषसमुदायिनिवृत्त्यर्थम् । न त्वेको विवक्षितस्तद्ग्रहणं वा तेन कतिपयावयवोपलब्धौ तदनुपलब्धौ चोपलभ्यमानोऽवयवी व्यापकत्वेनोक्तो भवति । मूर्तिमत्त्वादिभ्य इत्यादिग्रहणेन स्पर्शवत्त्वाव्यापित्वादीनि गृह्यन्ते । कार्याकाशसंयोगो विप्रतिपत्तिविषय इति । यदि कार्याकाशसंयोगमात्रं पक्षीक्रियते ततो विनश्यदाथारद्रव्यवर्तिनः संयोगस्येत्यस्त्यत एव यावद्द्रव्यभावित्यमित्यपसिद्धान्तः स्यादित्यत उक्तं विप्रतिपत्तिविषय इति । तेनैवानैकान्तिकं स्यादत उक्तमविनश्यदाधारत्व इति । तथाऽपि पटस्य नीलीद्रव्यसंयोगेन यावद्द्रव्यभाविनाऽनैकान्तिकं स्यादित्यत उक्तं क्रियावद्द्रव्यवृत्तित्वे इति । विवक्षितपरस्परविभागहेतुक्रियावत्त्वमिह ग्राह्यम् । क्व चित्पट्यते विप्रतिपत्तिविषया विभागिन आकाशादयः क्रियावद्द्रव्यसंयोगित्वात्परमाणुवदिति, अत्र यद्याकाशादयो विभागिन इति साध्येत तत आत्मादिभिरपि विभागिनः स्युरित्यपसिद्धान्तः स्यादत उक्तं विप्रतिप्रत्तिविषया इति । ततो मूर्त्तेन विभागो न इन्यभिमतं लभ्यते । संयोगस्यचाव्याप्यवृत्तित्वपिति । प्रदेशवतोः खल्वामलकयोः संयोगो व्याप्यवृत्तिता संयोगस्याकाशादावपि प्रदेशवद्द्रव्यसामान्यं तेनाकाशादौ प्रदेशापचार इत्युक्तं, संप्रति सामान्यान्तरौपचारबीजमाह एकस्य चेति । ( २९७ । ४ ) यथा घट एकोऽनेकमूर्त्तिमद्द्रव्यसंयोगी प्रदेशवानेवमाकाशमित्यर्थः । कतमस्मिन्नर्थ इति प्रश्नः । तस्यार्थः। ... तत्त्वभाक्तयोर्नानात्वस्य विभागादव्यभिचारः ... ... संतानानुमानविशेषणात् ... ... कारणद्रव्यस्य प्रदेशशब्देनाभिधाना ... दिति सूत्रैरेवानैकान्तिकत्वपरिहारादस्मिन्नर्थे सूत्रं न श्रूयते इत्ययुक्तमिति । उत्तरं निष्प्रदेशमाकाशमिति । न हि कारणद्रव्यस्य प्रदेशशब्देनाभिधानादिति सूत्रमाकाशादीनां निष्प्रदेशत्वं साक्षाद् ब्रूतैत्यर्थः ।

एवं स्थिते भाष्यकारीयप्रश्ने वार्तिककारः स्वमुत्तरमाह ।
अर्थतोऽधिगतेरिति ।
विषयान्तरं प्रश्नोत्तरयोराह शब्दसंतानेति ।
भाष्यकारीयमुत्तरमाह द्वौ पक्षौ न व्यवस्थापयतीति भाष्यस्यार्थः निष्प्रदेशत्वमात्मादीनां शब्दसंतानं च साक्षादाचक्षाणः सूत्रकारः पक्षं व्यवस्थापयेन्न तु तेनेदमभिहितमिति अनुमानतरोश्च पञ्चानां रूपाणां चतर्णां वा संपदः शाखा बहव इत्यर्थः ॥ १७ ॥

न्या.सू._२,२.१८: प्रागुच्चारणादनुपलब्धेरावरणाद्यनुपलब्धेश्च ॥

सतोऽनुपलब्धिकारणाभाव इति । ( २९८ । २ ) प्राक्प्रध्वंसाभाभ्यां व्यभिचारो या मूदिति सत इत्युक्तम् ॥ १८ ॥

न्या.सू._२,२.१९: तदनुपलब्धेरनुपलम्भादावरणोपपत्तिः ॥

अत्र जातिवादिनः सूत्रद्वयं ... तदनुपलब्धेरनुपलम्भादावरणोपपत्तिः ... आवरणानुपलब्धेस्तावदुपलब्धिर्न संभवति । अनुपलब्धिस्वरूपविरोधात् । तस्मापदावरणानुपलब्धिर्वक्तव्या तथा चावरणानुपलब्धेरभावे सत्यावरणोपलब्धिस्तया त्वावरणसद्भावः । ज्ञानस्य निरालम्बनत्वायोगात् ।

न्या.सू._२,२.२०: अनुपलम्भादप्यनुपलब्धिसद्भाववद् नावरणानुपपत्तिरनुपलम्भात् ॥

यदि पूर्वोक्तदोषभयादनुपलभ्यमानाऽप्यावरणानुपलब्धिरस्ति तथा सत्यनुपलब्धेरनैकान्तिकत्वान्नाबरणाभावोऽनुपलम्भादिति । तदिह द्वाभ्यां सूत्राभ्यामनैकान्तिकत्वं देशितम् । अस्यावतारभाष्यम् एवं च सति तत्त्वमिति । तदेत द्वार्तिककारो व्याचष्टे एवं चेति । सूत्रयोस्तात्पर्यं प्रश्नपूर्वकमेकत्र दर्शयति कोऽस्य वाक्यस्येति । अत्र सिद्धान्ती किं मत्र ज्ञेयं प्रत्यात्मवेदनीयत्वादिति । सिद्धान्त्याह एवंसतीति । यद्यावरणानुपलब्धिपरुपलभ्यते मानसेन प्रत्यक्षेण तदा नानैकान्तिकत्वं न चावरणसद्भावः । उत्तरवाक्यमिति । जात्युत्तरवाक्यमित्यर्थः । नास्योत्थानमस्तीति । न सूत्रद्वयस्याप्युत्थानमस्तीत्यर्थः । ननु पूर्वेणैव सूत्रेणावरणोपपत्तौ दर्शितायां कृतमनुपलम्भादित्यनेन सूत्रेणेत्यत अह । अभ्यनुज्ञावादेनेति । पूर्वसूत्रेणानुपलब्धेरनुपलम्भादभाव उक्तः इह त्वनुपलम्भादपि यद्यनुपलब्धेर्नाभावादिति तदनेनाभ्यनुज्ञाया अनैकान्तिकत्वमुच्यत इति नापार्थकमेतत्सूत्रमित्यर्थः ।

सूत्रगतोऽपिरभ्युपगमांशमवद्योतयति ।
एतदेवाह भाष्यकारः ।
यद्यप्यनुजानाति भवानिति ।
तदनेन सूत्रद्वयेनानैकान्तिकत्वमुक्तमिति स्थितम् ॥ १९२० ॥

न्या.सू._२,२.२१: अनुपलम्भात्मकत्वादनुपलब्धेरहेतुः ॥

अस्योत्तरसूत्रम् अनुतुः (सू. २१) ॥

जातिवाद्यनुपलब्धेरनुपलब्धिर्नास्ति विरोधादिति मन्यते तत्र विधिविषयप्रमाणगोचरताऽनुपलब्धौ विरुध्येत । ननु निषेधगोचरप्रमाणविषयताऽपि, ततश्चोपलब्धिं निषेधता प्रमाणेन मनसाऽनुपलब्धिग्रहणं न विरोधमावहति तदयं सूत्रार्थः । अनुपलब्धेरावरणानुपलब्धेरनुपलम्भात्मकत्वादावरणोपलब्धिनिषेधात्मकत्वात् तदनुपलब्धेरनुपलम्भादित्ययमावरणोपपत्तौ न हेतुः । असिद्धत्वाद् निषेधविषयेणानुपलब्धेरनुपलम्भादिति । तदेतद्भाष्यकारो व्याचष्टे । यदुपलभ्यत इति । यदुपलभ्यते विधिविषयेण प्रमाणेन तदस्ति यन्नोपलभ्यते यन्निषेधविषयेण प्रमाणेनोपलभ्यते तन्नास्तीति । तस्मादनुपलम्भात्मकं निषेधविषयप्रमाणागम्यमसदिति स्थितम् । उपलब्ध्यभावश्चानुपलब्धिः सेयमभावत्वान्नोपलभ्यते विधिविषयेण प्रमाणेन । शेषं सुगमम् । अस्य वार्तिककारः परमतात्पर्यमाह । अतथाजातीयेनेति । अनुत्तरं जात्युत्तरमित्यर्थः । यथाजातीयक इति । उपलब्धस्य हि शब्दस्यासत्यनुपलब्धिकारणे प्रागूर्द्धं चोच्चारणादनुपलभ्यमानस्यानित्यस्य सधर्मा नान्य आत्मादिर्दृष्टोऽनित्य इति । ननु प्रागूर्द्धं चोच्चारणान्मा भूच्छब्द इति एतावताऽपि नित्यान्तरवैधर्म्येण कस्मान्न नित्यः शब्दः न ह्यात्माकाशादयो नित्याः सर्वथाप सर्वेषां सधर्माणः मा भूदेषामभेद इत्यत आह । उक्तं चेति । अनित्यत्वसाधनमाह । अनित्य इति । प्रत्यक्षत्वादित्युच्यमाने गोत्वादिभिर्व्यभिचारः स्यादत उक्तं व्यापकद्रव्ये समवाये सतीति । तथाऽप्यात्मसमवायिनैकत्वेन व्यभिचारः स्यादत उक्तम् ।

अव्यापकस्यासमवाये सतीति ।
तथाऽप्या त्मसमवायित्वस्येति अमूर्त्तत्वादित्युच्यमाने घटादिभिः प्रदेशवद्भिः प्रथमे क्षणे व्यभिचारोऽत उक्तं सर्वदेति ।
तथाऽपि क्रियागुणादिभिर्व्यभिचारस्तेषामपि हि समवायिकारणं प्रदेश इत्यत उक्तम् ।
द्रव्यस्य सत इति ॥ २१ ॥

न्या.सू._२,२.२२: अस्पर्शत्वात् ॥

न्या.सू._२,२.२३: न कर्मानित्यत्वात् ॥

न्या.सू._२,२.२४: नाणुनित्यत्वात् ॥

२३ ॥ २४ ॥ तदेवं स्वपक्षसाधनमुत्क्वा विप्रतिपत्तिनिमित्तं परपक्षसाधनमुपन्यस्य निराकरोति । अथ शब्दस्येति । ( २९९ । १९ ) अस्पर्शेन कर्मणैवोभयतो व्यभिचारे लब्धे नित्येनाणुना व्यभिचारोद्भावनं कृतकत्वानित्यत्ववत्समव्याप्तिकत्वनिराकरणार्थं द्रष्टव्यम् ॥ २२२४ ॥

न्या.सू._२,२.२५: संप्रदानात् ॥

न्या.सू._२,२.२६: तदन्तरालानुपलब्धेरहेतुः ॥

न्या.सू._२,२.२७: अध्यापनादप्रतिषेधः ॥

न्या.सू._२,२.२८: उभयोः पक्षयोरन्यतरस्याध्यापनादप्रतिषेधः ॥

न्या.सू._२,२.२९: अभ्यासात् ॥

न्या.सू._२,२.३०: नान्यत्वेप्यभ्यासस्योपचारात् ॥

अयं तर्हि हेतुः सम्प्रदानादिति ।
संप्रदीयमानत्वादित्यर्थः ।
दातृप्रतिग्रहीत्रोरन्तराले शब्दोऽस्ति अध्यापनाद गुरुणा शिष्यापय दीयमानत्वाद धनूर्वेदविदाचार्येण शिष्याय दीयमानेष्वादिवदिति ॥ २५३० ॥

न्या.सू._२,२.३१: अन्यदन्यस्माद् अनन्यत्वादनन्यदित्यन्यताभावः ॥

यद्यन्यन्नाम जगति भवेत् ततो न्यत्वेऽप्यभ्यासस्योप चारादित्यनेनानैकान्तिकतवमुद्भाव्येत तदेव नास्तीति वाच्छलेन प्रत्यवतिष्टते ।
अन्यवः (सू. ३१) ॥

न्या.सू._२,२.३२: तदभावे नास्त्यनन्यता तयोरितरेतरापेक्षसिद्धेः ॥

तस्य परिहारसूत्रम् ।
तदद्धेः (सू. ३२) ॥

तयोरन्यानन्ययोर्मध्येऽनन्यस्यान्यापेक्षसिद्धेरित्यर्थः । न चान्यस्वरूपात्तदनन्यदिति परस्मादप्यनन्यद्भवितुमर्हति । न हि नीलमात्मनोऽनन्यदिति पीतादप्यनन्यदिति । अन्यदेव हि पीतान्नीलमिति परमार्थः । अयं तावत्प्रत्ययः पुरुषान्तरे निबर्त्तमानो दृष्ट इति । ( ३०२ । ९ ) यदा खल्वेकस्य पुरुषस्य तत्प्रत्ययो भवति तदाऽवश्यं न पुरुषान्तरस्य, तस्मात्प्रत्ययाव्यावृत्तिरसिद्धैवेति । एवमेतदिति । सत्यं विशेषदर्शनं तत्प्रत्ययनिवृत्तिहेतुः तदभावे तु विशेषादर्शनस्य न शक्यं संशयहेतुत्वं निवारयितुमित्यर्थः । यत्पुनरेतद्गोशब्द इति । गोशब्दो गोशब्द इत्येकाकारः प्रत्ययो नैकमन्तरेण भवितुमर्हति । अथ भ्रान्तः कस्मान्न भवतीत्यत आह । न च गोशब्दस्येति । भ्रान्तत्वे हि ततो गोशब्दादर्थप्रत्ययो भ्रान्तः यथा समारोपितधूमभावया मशकवर्त्या धूमध्वजानुमानम् । तस्मादभ्रान्तो गोशब्दैकत्वप्रत्ययः स्थायितामस्य सूचयतीत्यर्थः । दूषयति एतदपीति । युक्ता तु कारणसामान्यात्तत्प्रत्ययस्याव्यावृत्तिरिति गोशब्दबुद्धेः कारणमालम्बंन गोशब्दस्तस्य सामान्यं गत्वमोत्वं गोशब्दत्वमिति यावत् । तस्मात्तत्प्रत्ययस्य व्यावृत्तिर्युक्ता गोशब्दो गोशब्द इत्येवंरूपा । कथमिति प्रश्नः गोबुद्धौ गोबुद्धिप्रत्ययो न व्यावर्त्तते जात्यभिप्रायमेकवचनं गोबुद्धाविति । यथा हि गोबुद्धिषुभिन्नास्वपि परस्परं गोबुद्धिर्गोबुद्धिरित्यनुगतावभासिनी प्रथा गोबुद्धित्वसामान्योपधाना स्वकारणभूता गोबुद्धीरालम्बते एवं गोशब्दो गोशब्द इति षुद्धिरपि गोशब्दत्वोपधाना गोशब्दव्यक्तीर्न पुनर्गोशब्दव्यक्तिमेकामनेकदेशकालव्यापिनीम् । न चास्या गोशब्दबुद्धेरित्यत्रापि जातावेकवचनम् । गोशब्दो गोशब्द इति बुद्ध्यनुगतिःसामान्यनिबन्धना अनुगतित्वे सति गोशब्दबुद्धिसम्बन्धित्वात् । गोशब्दबुद्धिर्गोशब्दबुद्धिरित्यनुगतबुद्धिवदिति । भिन्नमभेदेन विद्वान् यश्चानुपलब्धविशेष एव निवर्त्तते तं प्रति तस्य वस्तुनः किं विशेषोऽस्ति नास्तीति भवन्त एव प्रष्टव्याः । उभयत्र दोषमाह यद्यस्तीति । द्व्यात्मकमिति । भिन्नमभिन्नमित्यर्थः । अशेषपुरुषविषयतयेति । आधारतयेत्यर्थः ॥ ३२ ॥

न्या.सू._२,२.३३: विनाशकारणानुपलब्धेः ॥

न्या.सू._२,२.३४: अश्रवणकारणानुपलब्धेः सततश्रवणप्रसङ्गः ॥

कारणद्रव्यविभाग । इति । ( ३०३ । ५ ) विभागेनासमवायिकापरणसंयोगविनाशो लक्षितः तत्कार्यत्वात् ॥ ३३३४ ॥

न्या.सू._२,२.३५: उपलभ्यमाने चानुपलब्धेरसत्त्वाद् अनपदेशः ॥

अनपदेशोऽहेतुरित्यर्थः । उभयमितीति । यदा क्रमेलकंविषाणित्वादश्वत्वेन साधयति तदाऽस्य न विषाणं नापि तत्सम्बन्धः यथा विषाणित्वं क्रमेलकेऽसिद्धं तथाऽनुमानेन विनाशकारणोपलब्धौ तदनुपलब्धिरसिद्धेति । अश्वविषाण संबन्धस्याभावादिति । अश्वत्वविषाणत्वयोर्यतः कोऽपि संबन्धोऽश्वेषु सिद्धो नास्ति तस्माद्विरोधादनुमानमेतदशाभनमित्यर्थः । तस्माद्यथा विरुद्धाद्धेतोरनुमानमसदेवमसिद्धादपीत्यर्थः । शङ्कते कर्मत्ववदिति चेत् । निराकरोति । तच्च न आश्रयस्यानित्यत्वात् । कर्मत्वाश्रयः कर्म तस्यानित्यत्वादित्यर्थः । शब्दस्य नित्यस्याश्रवणमनुपपन्नम् अश्रवणकारणानुपपत्तेरिति ब्रूमः । तन्नाश्रयानित्यत्वादिति ग्रहणकवाक्यं विभजते । कर्मत्वस्य पुनरिति । प्रतिघातिद्रव्यसंयोगस्त्वन्त्यस्य शब्दस्य निरोधक इति भाष्यम् । तस्यार्थः । प्रतिघातिद्रव्यं कुड्यादि तत्संयोगो नभसः । एतदुक्तं भवति घनतरद्रव्यसंयुक्तं नभो न शब्दसमवायिकारणतां प्रतिपद्यते ततश्च सन्नप्यसमवायिकारणं शब्दो न शब्दान्तरमारभते तस्य व स्वकारणं तत्कारणस्य तस्माद्विनाशो भवतीति द्रष्टव्यम् । एवमन्यत्रापीदृश एव शब्दविनाशहेतुरूहनीय इति । इतश्च शब्दोऽनित्य इत्याह । घण्टायामश्रिहन्यमानायामिति । यदि घण्टास्थेन व्यञ्जकेनान्यवृत्तिना वाऽवस्थितेन सन्तानवृत्तिना वा नित्यः शब्दो व्यज्येत ततस्तारतारतरतारतममन्दमन्दतरादिश्रुतिभेदो न स्यात् । नित्यस्य च शब्दस्य न स्वाभाविको भेदो नाप्यौपाधिक इत्युपपादितमधस्तात् । यदि तु तारतमादयस्तावन्त एव शब्दा नित्यास्ततस्तावन्त एव युगपदेव गम्येरन् विशेषाभावाद् एकोह्येषां व्यञ्जकः स्थिर इति । अथ सन्तानवृत्तिस्तथाऽपि सर्व एव तत्सन्ततिपतिताः समर्था इत्याद्येनैव सर्वे व्यज्येरन् न तु समानदेशानां समानेन्द्रियग्राह्याणां व्यञ्जकनियमो युक्त इत्युपपादितमधस्तात् । कारणत्वे तु धण्टास्थस्य संतानवृत्तेर्युक्तं यत्तारतमादिभेदेन कारणभेदात्कार्यभेद इति । तात्पर्यार्थः । युगपदनेकशब्दोपलब्धिप्रसङ्ग इति । ( ३०४ । ५ ) अनेकस्य तारतमादेः शब्दस्योपलब्धिप्रसङ्ग इत्यर्थः । घण्टास्थं चाभिव्यक्तिकारणं कथमन्यत्र वत्त्रमानमिति । श्रोत्रे वर्तमानमित्यर्थः । द्वितीयं कल्पमाशङ्क्य दूषयति । अथान्यगतमिति । घण्टासबन्ध्येष शब्द इति हि तावल्लौकिकप्रत्ययः सोऽयमन्यगते शब्दव्यञ्जके यथैकस्यां धण्टायां भवति तथा घण्टान्तरेष्वपि तत्प्रत्यासन्नेषु भवेदविशेषात् । तस्मादेकघण्टास्थत्वे नियमहेतुर्वक्तव्य इति । असति शब्दभेदे श्रुतीनामिति । शब्दज्ञानानामित्यर्थः । नाद इति वायुधर्मोऽभिधीयत इति शङ्क्तते व्यामोहप्रत्यय इति । यथा हि वस्तुतः स्वच्छधवले स्फटिकमणौ लाक्षारसावसेकतिरस्कृतधवलिम्नि लोहितः स्फटिक इति प्रत्ययः एवमभिव्यञ्जकवृत्तिस्तारत्वादिर्भ्रान्त्याः शब्दे प्रतीयते इत्यर्थः । निराकरोति । न विशेषहेत्वभावादिति । न हि समीचीनात्प्रत्ययात्तारोऽयं शब्द इति प्रत्ययस्य कश्चिद्विशेषहेतुरस्ति बाधकप्रत्ययो येनैष मिथ्याप्रत्ययः स्यादित्यर्थः । न च निर्बीजा भ्रान्तिरपि संभवितुमर्हति दीर्घत्वादिभ्रमाणांप तु शब्देऽस्ति बीजमित्याह । यदि चायमिति । यानि खलु दीर्घाणि वंशप्रभृतीनि एषामवयवो वाऽपचयः समानजातीयोपचय इहाप्यविरतभृतौ शब्दसंताने विवृतकारणनिष्पन्ने समस्ति समानजातीयोपचय इति तत्साधर्म्याद् दीर्घत्वभ्रम एव शब्दसंतान एव तारो महानित्युच्यते तत्राप्यस्ति समानजातीयोपचयोऽस्ति च स्फुटतरत्वं महानपि स्फुटतरोऽयमपि तथेति महानित्युच्यते । शङ्कते तुल्यमिति चेत् । यथा ह्यनित्यवादे घण्टास्थमवस्थितं संतानवृत्ति न युगपत्तारमन्दानुत्पादयति र्कि तु क्रमणैव एवं नित्यानपि शब्दान् क्रमेण व्यङ्क्ष्यतीत्यर्थः । निराकरोति । न तन्निमित्तस्य कदा चिद्भावात् । न तावन्नित्यवादिभिस्तारत्वादिधर्मभेदेन शब्दभेदोऽभ्युपेयते तथा चैकेनावस्थितेन घण्टास्थेन संतानवृत्तिना व्यज्यमान एकस्मिन् शब्दे नित्यं श्रुतिभेदः कादाचित्को नोपपद्यते । शब्दे त्वनित्येऽन्पयस्मिन्नन्यस्मिन् क्रियमाणे संतानवृत्तिना कारणेन तद्भेदात्कार्यत्वात्कादाचित्कत्वाच्च श्रुतिभेदोपपत्तिरिति वैषम्यमित्यर्थः । तच्च कारणमिति । ( ३०५ । ८ ) निमित्तकारणमित्यर्थः । पाणिसंश्लेषमपेक्षमाणादिति । स्पर्शवद्वेगवद्द्रव्यसंयोगाद घण्टायां कर्म कर्मवद्घण्टाकाशसंयोगात्तादृशाच्छब्दश्चेत्येकः कालः तत्कर्म पाण्यभिधातमपेक्षमाणं विभागसमकालं संस्कारं घेगाख्यं करोति । सा घण्टा चलन्त्याध्यात्मिकं वायुमुपगृह्णाति घण्टातदवयवसंयुक्ता वायुपरमाणव एवाध्यात्मिको वायुः तदुपग्रहो घण्टानयाः स्ववेगमपेक्षमाणाया वायुसंयोगाद्वायौ क्रियोत्पादकत्वं ततश्चानिलकर्मणो घण्टानिलसंयोगो वायुगतवेगापेक्षो घण्टायां कर्मारभते ।

तदिदमाह सा च वायुनाऽभिहता पुनः कर्म करोति ।
तदेवं वायुघण्टासंयोगो घण्टावेगापेक्षो घण्टाकाशसंयोगश्च शब्दमारभत इति द्रष्टव्यम् ।
ततश्च कर्मणा संस्कारः संस्कारेण पुनः कर्म शब्दश्चेत्यपि द्रष्टव्यम् ।
सुगममन्यत् ॥ ३५ ॥

न्या.सू._२,२.३६: पाणिनिमित्तप्रश्लेषाच्छब्दाभावे नानुपलब्धिः ॥

देशयति अथ घण्टास्थ इति । न खलु कारणविनाशे कार्योच्छेदो, मा भूत्कुलालादिनिवृत्तावपि घटादिनिवृत्तिरित्यर्थः ।

परिहरति न ब्रूम इति ।
यद्यपि निमित्तनिवृत्तावपि कार्यं निवर्त्तते यथाऽपेक्षाबुद्धिनाशाद् द्वित्वादि तथाऽपि निमित्तनिवृत्तावपि तदनिवृत्तिमभ्युपगम्यैव परिहार इति मन्तव्यम् ॥ ३६ ॥

न्या.सू._२,२.३७: विनाशकारणानुपलब्धेश्चावस्थाने तन्नित्यत्वप्रसङ्गः ॥

सिंहावलोकितन्यायेन पूर्वोक्तं हेतु दूषयति । विनाशेति । ( ३०६ । ३ ) प्रत्यक्षेण शब्दविनाशकारणानुपलब्धेश्चावस्थाने शब्दस्य शब्दोपलब्धेरपि नित्यत्वप्रसङ्गः । न हि तस्या अपि विनाशकारणं प्रत्यक्षेणोपलभ्यत इति तदनेन विनाशकारणानुपलब्धिरित्यस्यानैकान्तिकत्वमुद्भावितम् ॥ ३७ ॥

न्या.सू._२,२.३८: अस्पर्शत्वादप्रतिषेधः ॥

संप्रति सांख्यः प्रत्यवतिष्ठते । कम्पसमानाश्रयस्येति । अनुवृत्तो नादः शब्दोऽनुनाद इति ।

वैयधिकरण्ये हीति ।
द्रव्यप्रश्लेषासमानाधिकरणस्यैवव संस्कारस्योच्छेदः स्याद् न व्यधिकरणस्य शब्दस्य, व्यधिकरणस्य तूच्छेदाभ्युपगमेऽतिप्रसङ्गः स्यात् तस्मात् कम्पसंतानसंस्कारसमानाश्रयः शब्दोऽभ्युपगन्तव्यः ।
तदनेनाकाशाश्रयत्वं शब्दस्य प्रतिषिद्धं तदेतद्वार्त्तिककारो व्याचष्टे ।
व्यधिकरणत्वादयुक्तमिति ॥

अस्योत्तरसूत्रम् ।
अस्पधः (सू. ३८) ॥

प्राप्यकारित्वमिन्द्रियाणां व्यवस्थितं प्राक् । घण्टाद्याश्रयः शब्दो न श्रोत्रं प्राप्नोति । एवं हि प्राप्नुयाद् यदि घण्टा कर्णशष्कुलीमागच्छेत् कर्णशष्कुली वा घण्टां, न चैतदुभयमस्ति । न चाहङ्कारिकमिन्दियं व्यापीत्युक्तम् । तस्माच्छब्दाधारो निःस्पर्शो व्यापी वाकाशस्तदाधारः शब्दः श्रोत्रमायाति संतानवृत्त्येति युक्तं तथा च श्रवणमस्योपपन्नं नान्यथेति । तदेतद्वार्त्तिककृद्विभजते, अस्पर्शेति । येन केन चिदिति । मन्दतरेण वा मन्दतमेनवा कारणशब्देनेत्यर्थः । अनेकः संस्कार इति तत्त्वं शब्दभेदादिति । एकस्य हि संस्कारस्य धर्मभेदकल्पनायां कल्पनागौरप्रसङ्गः संस्कारस्तावदेको धर्मो धर्मभेदाश्चेति । तदिह धर्मभेदस्थानेऽस्तु संस्कारभेदः कृतमत्रैकेन धर्मिणा । न च संस्कारभेदेषु धर्मभेदाः कल्पनीयाः संस्कारभेदमात्रादेव कारणात्कार्यभेदोपपत्तौ तद्गतधर्मभेदकल्पनावैयर्थ्यादिति भावः।यस्य च वैशेषिकस्यैकः संस्कारस्तस्येषोः पातः प्राप्नोति संस्कारस्य हीषोर्मूर्तद्रव्यसंयोगो विनाशकोऽविनाशको वा, विनाशकश्चेद्

आद्येनैव मूर्त्तद्रव्यसंयोगेन तस्य विनाशादगत्वैव यावद्गन्तव्यमिषोः पातप्रसङ्गः ।
द्वितीये तु कल्पे कृतकस्यापि संस्कारस्य विनाशकारणाभावेनाविनाशान्न कदा चिदपि पातः स्यात् प्रयोगश्च इष्वादिवेगः क्षणिकः वेगत्वात् घटादिगतवेगवदिति ॥ ३८ ॥

न्या.सू._२,२.३९: विभक्त्यन्तरोपपत्तेश्च समासे ॥

विभसे ( सू. ३९ ) ॥

संख्यानां रूपरसगन्धस्पर्शशब्दसमुदायो वीणावेणुशङ्क्षादिद्रव्यं तत्र समासे समुदाये स्थित एव व्यज्यत इति दर्शनं तस्मिन्समुदाये सांख्याभिमते विभक्त्यन्तरोपत्तेश्च न व्यज्येत शब्दः यदि समुदाये व्यज्येत शब्दः विभक्तिश्च षड्जधैवतगान्धारादिभेदेन विभागान्तरं च षड्जजातीयस्यैव तारमन्द्रादिरूपं नोपपद्यते न हि तद्गतानां गन्धादीनामेकस्मिन्नेव द्रव्ये वीणादौ नानाजातीयानां च प्रतिक्षणं भेदो दृश्यते तस्माद्विभक्त्यन्तरोत्पत्तेर्न समासे व्यज्यते शब्दः अपि त्वाकाशगुणः क्रियत इति सांप्रतम् ।
सूत्रव्याख्ययैव भाष्यवार्त्तिके व्याख्याते ॥ ३९ ॥

न्या.सू._२,२.४०: विकारादेशोपदेशात् संशयः ॥

तदेवं रूपादिसन्निविष्टः शब्दो व्यज्यत इति सांख्यमते दूषिते स एव सांख्यो वर्णेषु प्रकृतिविकारभावश्रुतेर्मृत्सुवर्णादिवत्परिणामिनित्या वर्णा इति यदि प्रत्यवतिष्ठते तत्र परीक्षामारभतेदिविधश्चायं शब्द इति । विकारोपदेशोऽपि न ध्वनिमात्रे शब्देऽस्तीति न तस्य परिणामिनित्यतामापादयितुमर्हति केवलं वर्णात्मन्यापादयेद् यद्यसंदेहः स्याद्, अस्ति तु तत्रापि संदेहः । तथा हि इको यणचि इत्यादिकं विकारोपदेशमाचक्षत एके । अन्ये त्वादशोपदेशं, तत्र व्याख्यातृविप्रतिपत्तेः संशयः । तन्नापरीक्ष्य शक्यमवधारयितुमित्यर्थः । तत्र परीक्षायामादेशोपदेशस्तत्त्वमित्यवधारयते । आदेशोपदेश इति । सुवर्णजातीयाः खल्ववयवा अन्यतमव्यूहपरित्यागेनान्यतमं व्यूहमापद्यमाना रुचक इति वा वर्द्धमान इति वा परिणमन्ते, अस्ति हि तेषु सर्वेषु सुवर्णजातीयानामवयवानामनुगमः न तु यकारे इकारस्य वा तदारम्भकस्य वा अवयवस्यानुगममीक्षामहे । तस्माद्विकाराभाबादादेशत्वमस्य निश्चिनुम इति । उपपत्त्यन्तरं चाविकारे दर्शयति । भिन्नकारणयोश्चेति । यदि हीकारविकारो यकारः स्याद् यकारप्रयोगायेकारमुपाददानास्तत्कारणं विवृतकरणं पूर्वमुपाददीरन् । तन्निरपेक्षास्तु यकारं प्रयोक्ष्यमाणा ईषत्स्पृष्टकरणमुपाददते तस्मान्नेकारविकारो यकार इत्युत्पश्यामः । उपपत्त्यन्तरमाह । अविकारे चेति । कारकज्ञापकयोर्हेत्वोरविशेषमाह । उभयत्रेति । उपपत्त्यन्तरमाह । प्रयुज्यमानेति । यथा हि क्षीरं कालविपाकापेक्षं दधि भवद्दृश्यते न तथेकारो यकारो भवन्नित्यर्थः । यदि न विकारः कथं तर्हि शब्दान्वाख्यानमिको यणर्चात्यत आह । अविकारे चेति । इकः प्रयोगप्रसङ्गेः संहितायां यणः प्रयोगमाह तत्सूत्रे न पुनरिग्विकारं यणमित्यर्थः । ननु मा भूद्विकारः परिणामोर्ऽथान्तरं तु भविष्यति ततो नित्यावर्णा भविष्यन्तीत्यत आह । एतावच्चैतदिति । परिणामो वेत्यापाततः कार्यकारणभावो वेति परमार्थः । न जातु क्षीरं तदवयवा वा दधिरूपेण परिणमन्ते न ह्यवयवा अवयविस्वभावाः तस्मात्कार्यकारणभाव एव तात्त्विक इति । स च वर्णेषु नास्ति इगनपेक्षस्य यणो निष्पत्तेः । तस्मादिक्प्रयोगप्रसङ्गे संहितायां यणः प्रयोग इत्यन्वाख्यानार्थ इति । इतश्चायमादेशोपदेश इत्याह ।

वर्णसमुदायेति ।
वर्णस्यैकस्य वास्तवत्वात् कदाचिद्विकार उपपद्यते बुद्धिः समाहारमात्रस्य तु तत्समुदायस्य न विकारसम्भवः ।
तस्मात्तत्राकामेनाप्यादेशोपदेशो वक्तव्यः ।
स वरं कॢप्तत्वादेकस्मिन्नप्यस्तु वर्ण इति इत्यर्थः ॥ ४० ॥

न्या.सू._२,२.४१: प्रकृतिविवृद्वौ विकारवृद्धेः ॥

इतश्च न प्रकृतिविकारभावः ।
प्रकृतिविवृद्वाविति ।
महद्भिः खलु तूलपिण्डैरारब्धः स्थूलः पिण्डोऽल्पैश्चारब्धो महानल्प इति दृष्टं तद्वदिहापि दीर्घेकारविकारस्य यकारस्येकारविकाराद्भवितव्यं विशेषेण, न चास्ति विशेषः तस्मान्न प्रकृतिविकारभाव इत्यर्थः ॥ ४१ ॥

न्या.सू._२,२.४२: न्यूनसमाधिकोपलब्धेर्विकाराणामहेतुः ॥

अस्याक्षेपसूत्रम् न्यूनतुः ( सू. ४१ ) ॥ अल्पेन हि न्यग्रोधवीजेनारब्धो न्यग्रोधतरुर्महान् ततोऽतिमहता वा नारिकेलबीजेनारब्धो नारिकेलतरुरल्पः नारिकेलबीजैरेव परस्परापेक्षमाणसमैरारब्धः सम इति । अस्य प्रत्याचयानसूत्रम् । द्विविधस्यापि हेतोरिति ।

यदि च न्यूनसमाधिकोपलब्धेरिति साधनं तदा द्विविधस्य हेतोरभावाद् दृष्टान्तमात्रस्य चासाधकत्वात् ।
प्रतिदृष्टान्तस्य च संभवादित्येतद् दूषणम् ॥ ४२ ॥

न्या.सू._२,२.४३: नातुल्यप्रकृतीनां विकारविकल्पात् ॥

यदि च न्यूनसमाधिकोपलब्धेरित्यनेनानैकान्तिकोद्भावनं प्रकृत्यनुविधानस्य क्रियते तदा दूषणपक्षे नातुल्यप्रकृतीनां विकारविकल्पादिति दूषणम् । अनैकान्तिकदोषस्यासम्बन्धत्वं नाम न्यूनसमाधिकत्वे तु प्रकृत्यनुविधानं विकापराणामप्रच्युतम् । तथा ह्यतुल्यायाः प्रकृतेरिवकारा विकल्प्यन्ते प्रकृतिभेदमनुविधीयन्ते, न जातु न्यग्रोधबीजाद् नारिकेलपादपो भवति भवति च न्यग्रोधबीजान्न्यग्रोधपादप इति ।

एतदुक्तं भवति प्रकृतिभेदानुविधानं विकारभेदानां ब्रूमोप न पूनस्तद्विवृद्धिह्रासाभ्यां तद्विवृद्धिह्रासौ येनानैकान्तिकत्वमुद्भाव्येत तस्मादनैकान्तिकोद्भावनमसंबद्धामित्यर्थः ।
न त्विवर्णमनुविधीयते यकार इति भाष्यम् ।
तस्यार्थो न त्विवर्णभेदमनुविधीयते इति ।
तस्मादनुदाहरणं न्यूनसमाधिकभावे द्रव्यविकार इति ॥ ४३ ॥

न्या.सू._२,२.४४: द्रव्यविकारे वैषम्यवद् वर्णविकारविकल्पः ॥

अस्याक्षेपसूत्रम् द्रव्यविकार इति । ( ३०८ । १ ) न प्रकृतिभेदमवश्यमनुविधीयन्ते विकाराः द्रव्यत्वेन तुल्यत्वेऽपि प्रकृतीनां विकारवैषम्यं तथा च दीर्घह्रस्वाभ्यां वैषम्ये विकारवैषम्यं भविष्यति प्रकृतिसाम्यैव विकारवैषम्यम् इति भावः ॥ ४४ ॥

न्या.सू._२,२.४५: न विकारधर्मानुपपत्तेः ॥

तत्र प्रत्याख्यानसूत्रम् । न विकारधर्मेति । यद्यपि प्रकृतेर्द्रव्यत्वमभेदस्तथाऽपि विकारभेदे प्रकृतिभेद एवोपयुज्यते न पुनः प्रकृतेरभेदः तद्विकाराणां तु यदभिन्नं रूपं द्रव्यत्वं तत्र तस्योपयोग इति स्थिते परिहारोऽन्वय (स्याक्षेपसूत्रं द्रव्येविकार इति।) ग्रहणं परिहार उक्तः ॥ ४५ ॥

न्या.सू._२,२.४६: विकारप्राप्तानामपुनरापत्तेः ॥

इतश्च न सन्ति वर्णविकारा इत्याह ।
विकारेति ।
नो खलु क्षीरविकारो दधि पुनः क्षीरं दृष्टमित्यर्थः ।
अननुमानादिति प्रमाणाभावमुपलक्षयति ॥ ४६ ॥

न्या.सू._२,२.४७: सुवर्णादीनां पुनरापत्तेरहेतुः ॥

अस्याक्षेपः सुवर्णादीनामिति सूत्रम् ।
साधनपक्षे दूषणं व्यभिचारादिति ॥ ४७ ॥

न्या.सू._२,२.४८: न तद्विकाराणां सुवर्णभावाव्यतिरेकात् ॥

दूषणपक्षे दोषमाह । सुवर्णोदाहरणोपपत्तिश्चेति । तथा हि । ये सुवर्णजातीय अवयवा रुचकत्वमापन्नास्त एव पूर्वव्यूहपरित्यागेन वर्धमानतामापन्नाः पुना रुचकत्वमापद्यन्ते तदवयवानां तत्र प्रत्यभिज्ञायमानत्वात ।

न त्विहेकारो यकारानुगत इकारयकारानुगतो वाऽन्यः कश्चिद्धर्मी दृश्यते य इत्त्वं परित्यज्य यत्त्वमापद्यते वर्णत्वं त्वनुगतमपि न धर्मि, किं तु धर्म एव ।
न च निवर्तमान ईकारो यकारस्य धर्मो भवितुमर्हति धर्मधर्मिणोः समानकालत्वादित्यर्थः ॥ ४८ ॥

न्या.सू._२,२.४९: नित्यत्वेऽविकारादनित्यत्वे चानवस्थानात् ॥

ननु दध्यत्रेति प्रयोगे कदेकारस्योत्पद्य निरोधः । तथा दधि अत्रेति प्रयोगे कदा यकारस्योत्पद्य निरोध इत्यत आह । तदेतदवगृह्य संधान इति । अवग्रहोऽसंहिता दधि अत्रेत्युच्चार्य दध्यत्रेत्युच्चार्यते दध्यत्रेति वा संधाय दधि अत्रेत्यवगृह्यतैत्यर्थः । ॥ ४९ ॥

न्या.सू._२,२.५०: नित्यानामतीन्द्रियत्वात्तद्धर्मविकल्पाच्च वर्णविकाराणामप्रतिषेधः ॥

जातिवादी प्रत्यवतिष्ठते । नित्यपक्षे तावदिति । यथा हि सत्यपि नित्यत्वे के चिदतीन्द्रियाः यथा परमाण्वाकाशादयः के चिदैन्द्रियकाः यथा गोत्वादयः एवं सत्यपि नित्यत्वे परमाण्वाकाशादयो न प्रकृतिविकारभूताः वर्णास्तु प्रकृतिविकारभावमापत्स्यन्ते । नित्या अपत्यिर्थः । सेयं विकल्पसमा जातिरित्याह । विरोधादिति । न खल्वैन्द्रियकत्वानैन्द्रियकत्वाभ्यामस्मि कश्चिन्नित्यत्वस्य विरोधः । प्रकृतिविकारभावेन त्वस्ति, न हि संभवति कार्यं च नित्यं चेत्यर्थः । ॥ ५० ॥

न्या.सू._२,२.५१: अनवस्थायित्वे च वर्णोपलब्धिवत् तद्विकारोपलब्धिः ॥

अनित्यपक्षे जातिवाद्याह । अनवस्थायित्वे चेति । यथा सत्यप्यनवस्थायित्वे वर्णा इन्द्रियेण सम्बध्य स्वविषयं ज्ञानं जनयन्ति एवं विकारमपि करिष्यन्तीत्यर्थः । सेयं साधर्म्यसमा जातिरित्याह । असंबन्धादिति ।

कतिपयक्षणावस्थानेन वर्णानां क्षणिकानामपि स्वविषयज्ञानहेतुभावो युज्यते अवगृह्य चिरं स्थित्वा यदा संधीयते संधाय वा चरिं स्थित्वा यदा विगृह्यते तदा वर्णानामनित्यानां न तावन्तं कालमवस्थानमस्तीति नोपलब्धिहेतुत्वेन विकारकृतत्वं वर्णानां तुल्यम् ।
तस्मादसंबन्धादसमर्था वर्णोपलब्धिर्वर्णविकारप्रतिपाद इत्यर्थः ।
माभूद्रर्णोपलब्धिर्वर्ंणविकारेण साक्षात्संबद्धा ओदशविरोधितया तु तन्निवृत्त्या पारिशेष्याद्विकारं साधयिष्यतीत्यत आह ।
न च वर्णोपलब्धिरिति ॥ ५१ ॥

न्या.सू._२,२.५२: विकारधर्मित्वे नित्यत्वाभावात् कालान्तरेऽविकारोपपत्तेश्चाप्रतिषेधः ॥

तदेवं जात्युत्तरमुत्थितमेव मारितं कृत्वा भाष्यकारोऽत्रैवार्थे सूत्रं पठति । विकारधर्मित्व इति । वार्तिकम् उपलभ्यमानस्य चेकारस्य यत्वानुपपत्तेरिति । ( ३०९ । १७ ) अवगृह्य चिरं स्थित्वा संधाय यदा यत्वं तदोपलभ्यमानतेकारस्य नास्तीत्यर्थः ॥ ५२ ॥

न्या.सू._२,२.५३: प्रकृत्यनियमाद् वर्णविकाराणाम् ॥

इतश्च वर्णविकारानुपपत्तिः । प्रकृत्यनियमादिति । क्षीरजातीयस्य दधिजातीयो विकारो न पुनः कदा चिदपि दधिजातीयस्य क्षीरजातीया विकारा उपलभ्यन्ते ।

इह तु यथेकारजातीयस्य यकारजातीयो विकारो दध्यत्रेति दृश्यते एवं यकारजातीयस्यापि विकार इकारजातीयो दृश्यते यथा व्यथेःसति प्रसारणे यकारस्येकार इति ।
तस्मादनियमान्न प्रकृतिविकापरभाव इत्यर्थः ॥ ५३ ॥

न्या.सू._२,२.५४: अनियमे नियमाद् नानियमः ॥

अत्र च्छलवादी प्रत्यवतिष्ठते ।
अनियमे नियमादिति ॥ ५४ ॥

न्या.सू._२,२.५५: नियमानियमविरोधादनियमे नियमाच्चाप्रतिषेधः ॥

तदेतस्य वाक्छलत्वमापादयति । नियमानियमविरोधादिति । नियमानियमसामानाधिकरण्यं विरुध्यते न त्वाधाराधेयभाव इत्यर्थः ॥ ५५ ॥

न्या.सू._२,२.५६: गुणान्तरापत्त्युपमर्दह्रातवृद्धिलेशश्लेषेभ्यस्तु विकारोपपत्तेर्वर्णविकाराः ॥

तदेवं प्रकृतिविकारभावं निराकृत्य विकारवचनव्यक्तिं शब्दानामादेशपक्षे समर्थयति । न चेयं वर्णविकारोपपत्तिरिति । एकस्याप्रयोगे अन्यस्य प्रयोगो विकार इति सामान्यलक्षणम् । तस्य विशेषानाह । स भिद्यत इति । उपमर्द्दे नामेति । यथाऽस्तेर्भूरिति । लेशः स्त इत्यत्रास्तेरकारलोपे सकारमात्रस्य लेशस्यैकदेशस्य व्यवस्थापनम् ।

श्लेषप आगमः प्रकृतेः प्रत्ययस्य वा ।
अत्रापि केवलस्याप्रयोगे विशिष्टस्य प्रयोग इत्येतावता विकारसामान्यलक्षणं लक्षणीयम् ।
एतेन वार्त्तिकमपि व्याख्यातमेवेति ॥ ५६ ॥

न्या.सू._२,२.५७: ते विभक्त्यन्ताः पदम् ॥

तदेवमुक्तेन क्रमेण वर्णानामनित्यतां प्रतिपाद्य शब्दप्रामाण्योपयोगि पदं निरूपयति ।
ते विदम् ( सू. ५७ ) ॥

एवं किल के चित्पश्यन्ति न वर्णाः प्रतिपादयन्त्यर्थान् ते हि प्रत्येकं वा अन्वयधियमादधीरन् नागदन्ता इव शिक्यालम्बनं मिलिता वा ग्रावाण इव पिठरधारणम् । तत्र न तावत्पूर्वः कल्पः । प्रत्येकमर्थप्रत्ययानुत्पादात् । वर्णान्तरोच्चारणानर्थक्याच्च । नापि संहताः एकवक्तृप्रयोगे क्रमनियमेन संघातानुपपत्तेः । अनेककर्तृकप्रयोगेऽपि सत्यपि यौगपद्ये अर्थप्रत्ययानुत्पादनात् । नापि क्रमवत्पूर्ववर्णानुभवभावितसंस्कारसहितोऽन्त्यवर्णप्रत्ययोऽर्थप्रत्ययहेतुरिति सांप्रतम् । भावनापरनाम्नः संस्कारस्य स्वोत्पादकानुभवविषयस्मृतिजननादन्यत्र सामर्थ्यादर्शनात् । न हि गवानुभवजनितः संस्कारः करोति स्मृतिं तुरङ्गमे । अपि चेयमन्त्यवर्णश्रुतिः स्वार्थसंकेतस्मृत्यपेक्षा वार्थप्रत्ययमादधीत अनपेक्षा वा, तदपेक्षत्वे तत्काले अन्त्यवर्णश्रुतिरुपरता क्षणिकत्वेनेति कया सङ्केतस्मृतिरपेक्ष्यते अन्त्यवर्णश्रुतिसमये च संकेतस्मृतिरनागतेति किमन्त्यवर्णप्रत्ययोऽपेक्षेत । संकेतस्मृत्यनपेक्षत्वे अगृहीतसंकेतस्यापि प्रथमश्राविणोर्ऽथप्रत्ययप्रसङ्गः । न हि चिरध्यस्तस्यानपेक्षितस्मृतेः संकेतग्रहस्यास्ति कश्चिदुपयोग इति । न च भावनाख्यसंस्कारसहितोऽन्त्यवर्णः प्रत्यायकोऽर्थस्य । नाप्यन्य एव कश्चित्पूर्ववर्णानुभवजनितः संस्कारः प्रोक्षणादिभिरिव व्रीह्यादेरन्त्यवर्णप्रत्ययसहकारीति युक्तम् । अनेकादृष्टकल्पनाप्रसङ्गात् । स एव तावददृष्टचरः कल्पनीयस्तस्य चानेकत्वमिति सोऽयं वर्णेभ्योर्ऽथप्रत्ययो भवन्ननुपपद्यमानस्तदतिरिक्तं स्फोटानुभवमायतते । अस्ति हि भिन्नष्वेपि वर्णेषु वाक्यमिदमेकं पदमिति चा सर्वजनीनोऽनुभवः । न चासौ भिन्नवर्णालम्बनो भवितुमर्हति एकस्य नानात्वविरोधात् । तस्माद्वर्णातिरिक्तं पदं वाक्यं वाऽलम्बते । तच्चे प्रत्येकमेव ध्वनयोऽभिव्यञ्जयन्ति केवलं पूर्वे ध्वनयः स्वरूपमाभासयन्ते चरमस्तु व्यक्तम् । न चेयमर्थे विधा संभविनी प्रत्यक्षज्ञाननियतत्वात् व्यक्तव्यक्तावभासितायाः पदे प्रत्यक्षे उपपत्तिः अर्थस्य तु पदगम्यस्याप्रत्यक्षस्य मानान्तरेण ग्रहणमस्तीति अग्रहणं वा न तु स्फुटास्फुटत्वाभ्यां योगः । अपि च यस्मिन्ननुवर्तमाने यद्व्यावर्तते तत्तस्माद्भिद्यते यथा सुवर्णाक्यवेष्वनुवर्तमानेषु कटकमुकुटादयः । अनुवर्तमानेषु तु वर्णेषु व्यावर्तन्ते पदभेदास्तस्मात्तेऽपि वर्णेभ्यो भिन्ना इति तान्प्रत्याह । ते विभक्त्यन्ताः पदम् । त एव वर्णा एव पदं न तु तदतिरिक्तं स्फोटाख्यमित्यर्थः । इदमत्राकूतम् । न तावद्वर्णातिरिक्तः पदात्मा कश्चिदुपलभ्यते प्रत्यक्षेण, पदमिति तु व्यपदेशस्तानेव वर्णान् बहूनप्येकस्मृतिसमारोहितया वा एकार्थधीहेतुतया वा अभिन्नकारकावस्थावत्तया वालम्बते भाक्तः । न चैवमन्योन्यसंश्रयः नर्त्ते पदावधारणापदर्थाधिगमो न चार्थाधिगमन्तरेण पदावधारणमिति । एकस्मृतिबुद्धिसमारोहिणां वर्णानामसत्यर्थवत्तयाऽवबोधे सुज्ञानत्वात् तन्मात्रस्य च स्वार्थेन संकेतग्रहस्यापि सुकरत्वात् तदुत्तरकालत्वाच्च पदमिति कारकशब्दप्रवृत्तेः । इतरथा सर्वेषु कारकशब्देषु दुर्वारमितरेतराश्रयत्वं कार्योपहितमर्यादत्वात्कारकाणां तदनुपातित्वाच्च तच्छब्दानां, तस्माद्व्यपदेशमात्रानुरोधेन नैकैकवर्णमात्रावभासिनीषु श्रोत्रजासु बुद्धिषु तदाहितवासनालब्धजन्मायां चानु भूतवर्णसंकलनात्मिकायां स्मतिबुद्धावप्रथमानो वर्णविभागोपमर्देन न शक्यः पदात्मा प्रत्यक्ष इति वक्तुं, नापि निर्भागस्य स्फुटास्फुटत्वे वा भागविपर्यासोव वा युज्यते, नो खलु सर्वथाऽदृश्यमानो नाम स्फुटः नापि समारोपविषयः । न हि सामान्यात्मनाऽप्यगृहीता शुक्ती रजतत्वसमारोपविषयः । न च निर्भागेपदात्मनि गृहीते किं चिदस्यागृहीतमवशिष्यते यदग्रहणादव्यक्तत्वं वा समारोपो वा भवेत् । न च तदेव तदैव तेन गृहीतमगृहीतं च संभवति । तस्मान्न प्रत्यक्षस्य तदाभासस्य वा गोचरः पदात्मा । नाप्यनुमानस्यार्थप्रत्ययलिङ्गजन्मनः परस्पराश्रयप्रसङ्गात् । न तावत्सत्तामात्रेण पदात्मार्ऽथप्रत्ययमाधत्ते मा धान्नित्यत्वेन नित्यमेनम् । तस्मात्स्वज्ञानेन । तच्च स्वज्ञानमर्थप्रत्ययात् तथा च सत्यर्थप्रत्यये पदप्रत्ययः पदप्रत्यये च सत्यर्थप्रत्यय इति व्यक्तमन्योन्याश्रयत्वम् । न चेयमर्थधीर्वर्णेभ्यो नोदेतुमर्हति ते हि पूर्वमनुभूताः प्रत्येकम् अनुभूतताक्रमोपसृष्टा एकबुद्धिसमारोहिणः शक्नुवन्त्यर्थधियमाधातुम् । न चाक्रमानुक्रमविपरीतक्रमाणामविशेषो वर्णानाम् । पूर्वानुभवसन्निवेशानुसारित्वात्स्मृतेः तत्सन्निवेशस्य च विशेषाद्विशेषोपपत्तिः । अभेदेऽपि च वर्णानां न हि हिनेत्यादौ पदभेद उपपत्स्यते विनाऽपि स्फोटकल्पनाम् । क्रमभेदानुविधायित्वात्पदभेदस्य, अर्थप्रत्ययकारकत्वं च न वर्णमात्राणामपि तु क्रमन्यूनातिरिक्तत्वाद्युपहितानाम् । तत्तदुपधानं न तुल्यत्वेऽपि वर्णानामन्यदन्यदिति पदभेदसिद्धिः । तस्माद् दृष्टेभ्य एव वर्णेभ्यो दृष्टप्रकारानुपातिभ्योर्ऽथप्रत्ययोत्पत्तिरुपपद्यमाना नादृष्टं स्फोटात्मानं दृश्यमानवर्णभेदापह्नवेन कल्पयितुमर्हतीति सिद्धम् । ते विभक्त्यन्ताः पदमिति । यथादर्शनं विकृता इति भाष्यम् । गुणान्तरापत्त्यादिभिरादर्शरूपेण विकृताः यथादर्शनं यथाप्रमाणं न तु प्रकृतिविकारभावेन तस्नपवय प्रमाणबाधितत्वादित्यर्थः । वार्त्तिकम् अर्थप्रत्ययस्तर्हि न प्राप्नोतीति । स्फोटवादिन उक्तोऽभिप्रायः । उत्तरम् । अन्त्यवर्णप्रत्ययादिति । वर्णेषु प्रत्ययो वर्णप्रत्ययः । अन्त्यश्चासौ वर्णप्रत्ययश्चेति अन्त्यवर्णप्रत्ययः सकलवर्णावगाहिनी स्मृतिः । सा च प्राचः प्रत्येकवर्णानुभवानपेक्ष्यान्त्या भवति । यद्येवमगृहीतसंकेतानामप्यसावस्तीति तेषामर्थप्रत्ययप्रसङ्गः स्यादित्यत आह । पूर्ववर्णप्रतिसन्धानप्रत्ययापेक्षादिति । संकेतग्रहणसमयः पूर्वः तद्भाविनो वर्णाः पूर्वे तेषां प्रतिसंधानं यावतां यज्जातीयानां गृहीतः संकेतस्तादृशास्तावन्तस्तज्जातीया एवैतैत्येवमाकारं तदेव प्रत्ययस्तदपेक्षात् । न चासावगृहीतसंकेतानामस्तीति सन्नप्यन्त्यवर्णप्रत्ययो नार्थस्य प्रत्यायक इत्यर्थः । अभिधेयस्य क्रियान्तरयोगाद्विशिष्यमाणरूपः शब्दो नाम,प अन्तरशब्दो विशेषवचनः क्रियाविशेषयोगाद्धेतोरित्यर्थः । एतदुक्तं भवति । यस्याभिधेयं क्रियाविशेषसबन्धेन विनान पर्यवस्यति तन्नाम आख्यातार्थस्तु यद्यपि क्व चित् क्रिययाऽपि सम्बध्यते यथाऽभिक्रामं जुहोति भुक्त्वा व्रजतीत्यादिषु तथाऽपि जुहोति व्रजतीत्यादयो न क्रियासम्बन्धमन्तरेण न पर्यवस्यन्ति अपि तु तत्समभव्याहृता अपि संबध्यन्ते । नामार्थस्तु न पूर्वापरीभूतप्रधानक्रियापदार्थमन्तरेण पर्यवस्यति । अत एवाहुःयत्रान्यत् क्रियापदं न श्रूयते तत्रस्तिर्भवन्तीपरः प्रयोक्तव्यः तथा च ब्राह्मणेऽभिक्रामं भोक्तुं भक्तेत्यादयश्च समुच्चयाद्यपेक्षाः क्रियाविशेषमन्तरेणापर्यवस्यन्तो नामत्वेन संगृहीता भवन्ति । अस्योदाहरणमाह । यथा ब्राह्मण इति । अस्यार्थमाह क्रियाकारकसमुदायः कारकसंख्याविशिष्टः । अत्र हि क्रियाशब्देन ब्राह्मणस्य भावो ब्राह्मणत्वमभिधीयते भावशब्दस्य क्रियार्थत्वात् । भविता च ब्राह्मणः कारकम् । तयोर्ब्राह्मणत्वब्राह्मणयोः समुदायः स च कारकस्य भवितुर्ब्राह्मणस्यैकत्वसंख्यया विशिष्टो ब्राह्मण इत्येतस्मान्नामपदाद्गम्यत इत्यर्थः । आख्यातलक्षणमाह । क्रियाकालयोगाभिधायि क्रियाप्रधानमाख्यातं क्रियायाः कालयोगः पूर्वापरीभावः । कालयोगाद्धि संभवति तदभिधायि । तदनेन पाक इत्यादेर्नामपदाद् व्यवच्छिनति । एवमपि भुक्त्वा भोक्तुमित्यादावपि नाम्नि प्रसङ्गः । अस्ति हि तत्रापि कालावधिपूर्वापरीभूतकर्मक्षणप्रचयप्रत्ययोऽन्यथा ओदनमिति कर्मसम्बन्धो न स्याद् अत उक्तं क्रियाप्रधानमिति । स्वनिष्ठा ह्याख्यातात् क्रिया प्रतीयते नान्यतन्त्रा । भोक्तुमित्यादौ तु क्रियान्तरमन्तेण न पर्यवस्यन्तीति क्रिया गम्यते । व्रजतीत्यादौ तु न तथा तदिदं क्रियाप्राधान्यम् । तदनेन पचति पचेत पच्यते स्थीयतैत्यादि सर्वमाख्यातं संगृहीतं भवति । न क्व चिदपि नाम्नि प्रसङ्गः यदप्यस्त्यादि नामाख्यातप्रतिरूपकं तत्रापि सन्नित्यस्यार्थे सिद्धरूपे तद्वर्त्तते न पुनः पूर्वापरीभूतक्रियार्थत्वमिति द्रष्टव्यम् । यस्मान्नाम्ना सर्वं पदं व्याप्यत इति । ( ३११ । ६ ) बाहुल्यं व्याप्त्यर्थः । प्रायेण हि वाक्ये बहूनि नामपदानि आख्यातं पुनरेकमेवैकस्मिन् वाक्ये आख्यातभेदे वाक्यभेदादिति । अधिकरणमाक्षिपति न पदादर्थाधिगतिरिति । पदेन हि विशेषो वाऽभिधीयते सामान्यं वा तत्र विशेषाभिधानं तावद् दूषयति । विशष इति । अनवस्थानमनवधारणमिति । सामान्याभिधानमास्थायाह न पदस्येति । दूषयति न सामान्यस्येति । व्यवहाराय हि वाक्यमुच्चारयन्ति वृद्धाः न तु व्यसनितया । न चास्ति सामान्यसाध्यः कश्चिद्व्यवहारः किं तु सर्वो व्यवहारो विशेषसाध्यः । न चास्य पदं वाचकं तद्वाक्यमेव वाक्यार्थस्य वाचकमिति त पदार्थचिन्तावसर इत्याक्षेपार्थः । समाधत्ते न सामान्यविषयत्वेसतीति । न तावत्पदातिरिक्तमस्ति वाक्यं नामेत्युक्तमधस्तात् । न च वर्णमालैव पदार्थप्रतिपादनावान्तरव्यापारानपेक्षा वाक्यार्थबोधिनीति युक्तम् । अनपेक्षिन्तसंकेतग्रहायास्तदवबोधनं प्रथमश्राविणोऽविदितसंकेतस्य वाक्यार्थबोधप्रसङ्गः । यतः संकेतग्रहापेक्षत्वे वाक्यार्थेन सहानन्त्यव्यभिचाराभ्यां वाक्यसंकेतग्रहासंभव इत्यकामेनापि पदानां स्वार्थे संकेतोऽभ्युपगन्तव्यः । तस्मात्पदानां सामपान्यमर्थस्तत्प्रतिपादनावान्तरव्यापाराणां च यथा वाक्यार्थप्रतिपादकत्वं तथाऽस्माभिस्तत्त्वबिन्दौ निपुणतरमुपपादितम् । सेयं पदात्सामान्यप्रतीतिर्गौरिति वा अश्व इति वा सर्वगबीषु सर्वाश्वेषु वोपसर्पन्ती शुक्ल इति कृष्ण इति वा विशेषश्रुत्यापव नियम्यतैत्यर्थः । पृच्छति कथं पुनरियमिति । तिष्ठति गच्छतीत्यादयोऽपि न पदत्वेन विशेषे वर्त्तितुमर्हन्ति सम्बन्धग्रहणासम्भवात् । तस्मादेतेऽपि सामान्यवचना इति भावः । उत्तरं नैवेयमिति । तदेवं पदस्य सामान्यवाचकत्वनिश्चयादाकृतिव्यक्त्यो श्च पदात्प्रतीतेर्वादिनां विप्रतिपत्तेर्भवति संशयः । किं त्रितयमर्थ आहो अन्यतम इति । एथं तावत्सामान्यावगमाद्वाचकत्वं निश्चित्य चिन्तान्तरावतारो दर्शितः । संप्रति द्वितयावगमात्पदस्य वाचकत्वशङ्कैव नास्ति तस्माद्युक्तश्चिन्तान्तरावतार इत्याह भवतु वेति । प्रतीतिवसिद्धमनुजानाति क्रिया च तत्साधनं चति । भविता गौरित्यर्थः ॥ ५७ ॥

न्या.सू._२,२.५८:: व्यक्त्याकृतिजातिसंनिधावुपचारात् संशयः ॥

किमन्यतमः पदार्थ उतैतत्सर्वमिति भाष्यम् । तत्रान्यतमार्थमाह वार्त्तिककारः । किं व्यक्तिरिति । ( ३१२ । ९) ॥ ५८ ॥

न्या.सू._२,२.५९: याशब्दसमूहत्यागपरिग्रहसंख्यावृद्ध्यपचयवर्णसमासानुबन्धानां व्यक्तावुपचाराद् व्यक्तिः ॥

अत्र याशब्दादिप्रयोगसामर्थ्याद्व्यक्तिरेव पदार्थ इत्येके मन्यन्ते । स्यादेतत् । व्यक्तिवदाकृतिरपि भिद्यतैत्याकृतेरप्यभिधायकं कस्मान्न भवतीत्यत आह । आकृतेरपीति । गोत्वं च जातिरुपाधिर्मविष्यति तेन नातिप्रसङ्गः । न चोपाधेरभिधानम् । अनभिहितस्यापि तच्छब्देनोपहितावच्छेदकत्वदर्शनात् । यथा गार्गिकया श्लाघतैत्यत्र श्लाघोपाधिविहितो वुञ् न श्लाघामाहेति भावः ।

न्या.सू._२,२.६०: न तदनवस्थानात् ॥

तमिमं व्यक्त्यभिधाननियमवादिनमपाकरोति । नानेनेति ।

न्या.सू._२,२.६१: सहचरणस्थानतादर्थ्यवृत्तमानधारणसामीप्ययोगसाधनाधिपत्येभ्यो ब्राह्मणमञ्चकटराजसक्तुचन्दनगङ्गाशाकटान्नपुरुषेष्वतद्भावेऽपि तदुपचारः ॥

नाप्रतीत उपाधिरुपहितावच्छेदाय प्रभवति । न च गार्गिकयेत्यत्रोपाधिर्वुञाभिहितोऽपि न प्रतीयते श्लाघत इति पदान्तरेण तस्याभिधानात् । यत्र तु श्लाघत इति न प्रयुज्यते न तत्र वुञोभावाभिधायिनः साधुत्वमस्ति । सेयं व्यधिकरणेऽनुपाधौ गतिः । समानाधिकरणे तु पश्वादावुपाधौ प्रत्ययान्तशब्दवाच्यत्वमेव । यथा दृतिहरिः श्वेति । अत्र हि दृतिहरिरित्येतावतैव पशौ लब्धे तद्विशेषनियमार्थ श्वेति प्रयुज्यते । न च प्रयोगादेवोपाधेर्गम्यमानत्वादनभिधानं सांप्रतम् । तदुपाध्यनभिधायिनस्तत्र प्रयोगनियमस्य पर्यनुयोज्यत्वात् । अननुयोज्यत्वे अनादेर्लोकप्रयोगस्य सर्वेषामेव शब्दानामनभिधायकत्वप्रसङ्गः । प्रयोगनियमादेव हि तेभ्योऽप्यर्थोऽवगम्यते । अथाप्रतिपादकस्य प्रयोगनियमो नोपपद्यत इति यत्र प्रयोगस्तत्प्रतिपादकत्वमित्यभ्युपेयते तदुपाधावपि समानम् । तथा च स्मरति भगवान्कात्यायनः तदन्तवाच्यः समानशब्दोऽयमिति ।

समानशब्दः समानाधिकरणशब्दो य उपाधिरसौ प्रत्ययान्तशब्दवाच्य इत्यर्थः ।
तस्माद्व्यक्तिनियमे अप्रतीता जातिरशक्ता ।
न च गोशब्दादन्यदस्याः प्रत्यायकमस्तीति साऽपि तेन प्रत्यायनीयेति सिद्धं न व्यक्तिमात्रं पदार्थ इति ॥ ६० ॥

कटार्थेषु वीरणेषु व्यूह्यमानेष्विति भाष्यम् । कटं करोतीति निर्वर्त्यस्य कटस्य कर्मत्वमनुपपन्नं कारकाधिकारीयत्वात् कर्मसंज्ञायाः,

क्रियानिमित्तस्य च कारकत्वात् ।
असिद्धस्य च क्रियायाः पूर्वं निमित्तभावायोगात् ।
तस्मात्तादर्थ्यनिमित्तादेव कटशब्दः कटार्थेषु वीरणेषु व्यूह्यमानेषु वर्तते ।
वीरणानां च वा रच्यमानानामस्ति कटक्रियापूर्वभावित्वेन निमित्तभाव इति ॥ ६१ ॥

न्या.सू._२,२.६२: आकृतिस् तदपेक्षत्वात् सत्त्वव्यवस्थानसिद्धेः ॥

यदि न जात्या विना व्यक्तिनियम इति जातिरभिधेया हन्त भोः साऽप्याकृत्या नियन्तव्पयेत्याकृतिरेवाभिधीयतामित्याह । यदि तर्हीति । ( ३१४ । ९ ) एतदपि दूषयति । अत्रापि तदेवोपस्थितं न तदनवस्थानादिति । संस्थानेनापि व्यज्यमानां जातिरेकार्थसमवायाद्व्यज्यते च व्यवस्थाप्यते च ।

सा तु व्यक्तिसंस्थानाभ्यां व्यावर्तमानाभ्यामनुवर्तमानाऽभिन्नबुद्ध्याऽवसीयते ।
तादृशी च व्यक्तिसंस्थानाभिधानानपेक्षेणापि पदेन शक्या बोधयितुं, संस्थानं तु व्यक्तिवद्भिन्नमानन्त्यव्यभिचाराभ्यामशक्यसंकेतग्रहणं जात्यभिधानमपेक्ष्य न शक्यं पदेनबोधयितुमिति न संस्थानापरनामाकृतिः पदार्थ इत्यर्थः ।
नापि जातिद्वारेण व्यक्तिवदाकृतिः पदार्थो जात्या सहासम्बन्धादित्याह ।
यस्य च जात्या योग इति ॥ ६२ ॥

न्या.सू._२,२.६३: व्यक्त्याकृतियुक्तेऽप्य् अप्रसंगात् प्रोक्षणादीनां मृद्गवके जातिः ॥

अस्तु तर्हि जातिरेव पदार्थः तत्र हि सुकरः संकेतग्रहः व्यभिचाराभावादिति । व्यक्त्याकृत्योस्तु व्यभिचारः जात्यभिधायिनो व्यक्तावाकृतौ चौपचारिकः प्रयोगो भविष्यतीत्यभिप्रायेणाह । अस्तु तर्हीति । शेषमस्यातिरोहितार्थम् । एकमनेकत्र वर्त्तत इति प्रतिजानानोपव नानुयोक्तव्यः । उभयेन व्याघातादिति । ( ३१८ । १३ ) यद्येकमनेकत्र वर्तमानं प्रतिव्यक्ति सर्वात्मना वर्तत इति किं त्वनेकमनेकत्र वर्तत इति प्राप्तम् ।

एवं चानुयोगाधिकरणव्याघातः ।
अथैकमनेकत्र वर्तमानं प्रतिव्यक्त्येकदेशेन वर्त्तते तथाऽपि नैकमनेकत्र वर्तते किं त्वनेकमनेकत्रेति एकदेशानामनेकत्वादिति ।
सोऽयमुभयेन व्याघातः उक्तोऽवयविवादे ॥ ६३ ॥

न्या.सू._२,२.६४: नाकृतिव्यक्त्यपेक्षत्वाज्जात्यभिव्यक्तेः ॥

न्या.सू._२,२.६५: व्यक्त्याकृतिजातयस्तु पदार्थः ॥

तदेवमन्यतमाभिधाननियमं निराकृत्यानियमाभिधानं सिद्धान्तमाह ।
व्यक्त्यार्थः ( सू. ६५ ) ॥

इदमत्राकूतम् । गोशब्दोच्चारणानन्तरं विदितसंगतेरेकपदे व्यक्त्या कृतिजातिनिर्भासः प्रत्यय उदयमासादयति न पुनर्यथा गङ्गायां घोषः प्रतिवसतीत्यत्र गौर्वाहीकं इत्यत्र वा गङ्गात्वगोत्वावगमोत्तरकालं वाक्यार्थे तत्सम्बन्धानुपपत्तेस्तदविनाभावेन वा लक्ष्यमाणगुणयोगेन वा तीरं वाहीको वाऽवगम्यते तथेहावगतिः । प्रयोगप्राचुर्यादत्यन्ताभ्यासेनातिशीघ्रतया सन्नपि प्रत्ययक्रमो न लक्ष्यते । शीघ्रतरबाणहेतुकशतपत्रशतव्यतिभेदवदिति चेत् । न असति बाधके बलवति प्रत्ययाभेदप्रथायामन्यथाकरणायोगात् । तथाच सति न क्व चिदप्यभेदोऽवतिष्ठेत तथा च भेदोऽपि न स्याद् अभेदश्रयत्वाद्भेदस्य । अपि च न रूपिशून्या रूपावगतिः रूपं च द्रव्यस्य जातिः तेन रूप्यमाणत्वाद् रूपि द्रव्यम् । न च येन यद्रूप्यते तदनवगमे तदवगमः । यथा नार्थमन्तरेण बुद्धेरुपलम्भनं, तस्माज्जात्युपलम्भो द्रव्योपलम्भैकदेशो न द्रव्योपलम्भमन्तरेण केवलः सम्भवति । तस्मादेकीपलम्भगोचरत्वान्न जातिजातिमतोर्लक्ष्यलक्षणभावः स चोपलम्भः शब्दज्ञानानन्तरं जायमानः शाब्दः । न च वाच्यमेकोपलम्भगोचरत्वेऽपि जातिव्यक्त्योर्जातिरेव वाच्या न व्यक्तिः एकवाच्यत्वेऽप्युभयोपलम्भोपपत्तावुभयवाच्यत्वकल्पनानुपपत्तेरिति । कार्यव्यङ्न्यं हिकारणानां सामर्थ्यं कार्य एव नाकार्ये । कार्यं चानुभवः स चैक एवेति न सामर्थ्यभेदकल्पना । तद्द्वारेण तु कर्मण्यप्युच्यते पदमर्थे समर्थमिति कार्यं च द्वारमेकमिति विषयभेदेऽपि सामर्थ्यमेकमेवेति । अपि चपुरुषसङ्केतापेक्षवृत्तीनां पदानां न किं चित्सामर्थ्यं नाम प्रमाणगोचरः यदेकमनेकं वा स्यात् । एतेन निरूढलक्षणायां शब्दस्य जात्यभिधानोपक्षीणस्य न व्यक्तिसामर्थ्यं कल्पनीयम् । अन्यत्राव्यापृतस्य तत्रार्थस्यैव सामर्थ्यमिति यदाहुस्तदपि निरस्तम् । स खल्वर्थः प्रतीतो वा व्यक्तिं गमयेद् अप्रतीतो वा । अप्रतीतस्य गमकत्वे सर्वदैव व्यक्त्यवगतिप्रसङ्गः कारणस्य नित्यत्वात् । प्रतीतस्य गमकत्वे दुरुत्तरमात्माश्रयत्वं न हि जातिप्रत्ययादन्यो व्यक्तिप्रत्यय इत्युक्तम् । तस्मात्साधु पारमर्षंसूत्रं व्यक्त्याकृतिजायस्तु पदार्थ इति । संप्रत्यन्यापोहपदार्थवादिनमुत्थापयति न व्यक्त्याकृतिजातयस्तु पदार्थ इति के चिदिति । ( ३२१ । ३ ) अथ द्रव्यादिवृत्तित्वादिति । गवाश्वस्य तु नाश्रयाश्रयिभाव इति भावः । जातिमन्मात्राभिधायकोऽपि सच्छब्दो न भवति । कस्मात् अस्वतन्त्रत्वादिति । जातिमन्तो घटपटादयः, च चैते घटादिशब्दादिव निरपेक्षात्सच्छब्दात्प्रतीयन्ते किं तु सच्छब्दाद् घटादिषु बुद्धिः परिप्लवते घटादिशब्दापेक्षस्तु सच्छब्दो घटादिनिश्चयहेतुः । तस्मात् घटादिशब्दपरतन्त्रत्वान्न तद्वतो वाचक इत्यर्थः । अथ वेति । यद्यत्र प्ररतन्त्रं वर्तते तत्तस्य न वाचकं यथा गङ्गागवादिशब्दास्तीरवाहीकादेः । तथा च जातिशब्दा जातिमति । तस्मान्न जातिमद्वाचकाः ते हि जातिमपेक्ष्य जातिमति वर्तन्त इति तादृशं पारतन्त्र्यमित्यर्थः । अथ जात्यनपेक्षं कस्मान्न तद्वति वर्तततैत्यत आह । उक्तं चात्रति । ( ३२१ । ३ ) अस्तु तर्ह्यैपचारिक एव तद्वति प्रत्यय इत्यत आह तद्वति चेति । यथाधिपत्यलक्षणो गुणः स्वामिनो जितकाशिनि भृत्येऽप्यस्तीति तत्र स्वामिशब्दः प्रर्वतते न तथा जातिगुणयोगो व्यक्तेरित्यर्थः । अपि च अन्यशब्दोऽन्यत्र वर्तमानः प्रथमं तावदन्यधियमुत्पादयति अथान्यत्र वर्तते यथा गोशब्दो गवि बुद्धिमुत्पाद्य वाहीके वर्तते । न चेह जातिशब्दो जातौ तद्व्यतिक्रमेण प्रवृत्तः न चौपचारिकस्य वृत्तियौगपद्यमित्याह । क्रमवृत्त्यभावात् युगपदसंभवाच्च । गुणोपरागं दूषयति । अयथार्थज्ञानोत्पत्तिप्रसङ्गाच्च । गुणोपरागाद्यथा नीलः स्फटिक इति ज्ञानमेवं सर्वमेव शाब्दञ्ज्ञानं विना बाधकमयथार्थमेव स्यादित्यर्थः । एकस्वलक्षणाभिधानं दूषयति । असाधारणेति । अशक्यसमयत्वाच्चेत्यपि द्रष्टव्यम् । तदेवमन्यापोहवादिनमुत्थाप्य दूषयति । अत्रास्माभिरिति । व्यक्त्याकृतिजातयस्तिस्त्रोऽस्माकं पदार्थः । गुणप्रधानभावस्तु क्व चिदेव कस्य चित् जातिमद्व्यक्त्यभिधाने द्विविधमप्यस्वातन्त्र्यं न संभवति शब्दानाम् । न तावद्व्यकिज्ञाने जनयितव्ये तदर्थं जातिज्ञानं पूर्वमपेक्षन्ते शब्दः इति संभवति । द्वयोरप्येकज्ञानवेद्यत्वनियमेन पौर्वापर्यायोगात् । नापि विशेषवाचकं पदं विना जातिशब्दानां बुद्धिपरिप्लवात्तद्विनिश्चयाय विशेषशब्दापेक्षया स्वातन्त्र्यम् । स्वविषये जातिशब्दाद्बुद्धेरपरिप्लवात् । जातिमद्व्यक्तिमात्रमस्य हि विषयो न चात्र बुद्धिपरिप्लवः । व्यक्तिनियमस्तु विषय इति न तत्र बुद्धिपरिप्लवो दुष्यति । दूराद्धि आरोहपरिणाहवदद्रव्यमात्रं गोचरः प्रत्यक्षस्य न तु स्थाणुः पुरुषो वा । न चात्र बुद्धिपरिप्लुतिः प्रत्यक्षक्षतिं कां चनावहति । न चास्मिन् पक्षे जातिशब्दो व्यक्त्याकृत्योः परशब्दो येनौपचारिकः स्यात् । न च सामानाधिकरण्यं न कल्पते जातिव्यक्तिपदयोरेकार्थाभिधायिनोर्वैयधिकरण्यायोगात् । तस्मात्सर्वमवदातम् ।

एवमनेकान्तवादे परोक्तदोषाप्रसङ्गमभिधाय दूषणवाक्यं परोक्तं दूषयन् दोषाभावमाह । न वेतै दोषा इति । सत्ताशब्द इति सत्तायाः शब्द इति वा विग्रहः सत्तारूपः शब्द इति वानपव तत्र पूर्वस्मिन्कल्पे सत्ताया न वाचकः सत्ताशब्द इति व्याघातः । उत्तरस्मिन्कल्पे न वाचकः सत्ताया इत्यनेन व्याघातः सत्ताया इत्यनेन शब्देन सत्तामभिधत्से अथ च तस्य वाचको न सत्ताशब्द इति ब्रूषे ततो व्याघातः सत्ताशब्द इति चोपलक्षणार्थं सत्तानया न वाचक इति द्रष्टव्यम् । शङ्कते भवदभिप्रायेणेति । निराकरोति । नेति । यद्यस्मदभिप्रायार्थं प्रतिपद्यसे अर्थप्रतीत्यधीनोऽभ्युपगम इति अभ्युपगमं ब्रूषे तत्तथा च न निषेद्धुमर्हसीति भावः । अथ निषेद्धुं प्रत्येमि न पुनरभ्युपैमीत्याशङ्क्याह यच्चेदमिति । ( ३२२ । ४ ) दूषयति तदपि नेति । अतथाभूतस्यापुरुषभूतस्य स्थाणोस्तथाभाविभिः पुरुषैः सामान्यं सत्यध्यारोपितः पुरुषत्वादिधर्मो यस्य स तथेत्युक्तः तस्य प्रधानमर्थः पुरुषः तदकाराप प्रतीतिरित्यर्थः । सत्तायाः प्रधानसाधनवाचिनेति । प्रधानं साधनं व्यञ्जकतया भवितृद्रव्यं तद्वाची खलु सच्छब्दः मत्ताशब्दस्तु द्रव्योपसर्जनभाववाची न तस्य द्रव्यवाचिना सामानाधिकरण्यमित्यर्थः । सामानाधिकरण्यासिद्धिः सद्द्रव्यशब्दयोरिति । सिद्धिः प्रतीतिः सा भवन्मते न स्यादिति यदुक्तं कैश्चित्तदप्यनेन सामानाधिकरण्यव्यवस्थापनेन प्रत्युक्तम् । व्याख्यातोप निराकार्यत्वेन । स्वयं प्रकॢप्तां वाचोयुक्तिमिति । ( ३२३ । ३ ) जातिशब्द इति सदादिशब्देषु स्वयं प्रकॢप्ता या वचनव्यक्तिस्तां प्रतिषेधति तत्र चास्माकं सिद्धसाधनमित्यर्थः । सच्छब्दो जातिशब्दस्तस्य भेदवाचकत्वं नास्य संमतमिति भन्वानो देशयति । यदि तर्हीति । सुगमः परिहारः । तथाऽपि नान्वयी न व्यतिरेकी चेति । ये ये अनन्ता न ते जातिशब्दवाच्या इति न दृष्टान्तः । सर्वभेदपक्षीकरणात् । नापि यो जातिशब्दवाच्यो न तत्रानन्त्यं यथा गोत्वादिकमिति शक्यंप वक्तुं जातेरेव भवन्मते व्योमारविन्दायमानत्वादिति भावः । शङ्कते अथापीति । तथा सत्यन्वयी दृष्टान्तो लक्ष्यत इति भावः । निराकरोति । अयमपि नेति । विशेषणोपादानविरोधात् । न हि भेदमन्तरेण किं चिदस्ति वस्तुसद यतो विशेषणं व्यावर्त्तयोदिति भावः । हेतुभावानभ्युपगमादिति । ( ३२४ । ५ ) न शब्दोऽर्थप्रत्यायने लिङ्ग येन व्यभिचारेण दुष्यति । न च प्रत्यायकमात्रं व्यभिचारेण दुष्यति चक्षुरादीनामपि नीलादिव्यभिचारेण पीतादौ वर्त्तमानतया व्यभिचारिणामप्रत्यायकत्वप्रसङ्गात् । सङ्केतग्रहस्तु सत्यपि भेदानां व्यभिचारे चैकैकजातिक्रोडीकृतानां सुकर एवेति भावः । भेदवाचकत्वप्रतिषेधादिति । भेदवाचकत्वे निषिद्धे द्रव्यवाचकत्वं निषिद्धं भवति द्रव्यस्य भेदत्वात् ।

ततश्च द्रव्यशब्द इति व्याघात इत्यर्थः ।
उक्तोत्तरमेतत् सच्छब्दद्रव्यशब्दयोरेकविषयत्वादिति ।
विशेषमात्रं विषयः सदादिशब्दस्य न पुनर्नियतोऽयमेव नान्य इति भावः ॥

सत्ताशब्देन द्रव्यगुणकर्माणि नाक्षिप्यन्त इति । सामानाधिकरण्ययोग्यतयेत्यर्थः । तदन्तरेण तदनुपपत्तेः । आक्षेपामात्रं तु शक्यं वक्तुमित्याह । शक्यं वक्तुमिति । पृष्ट्वासच्छब्दस्य गुणप्रधानभावेन त्रयोर्ऽथा इति सूत्रकारन्यायेनावधारयति । सदिति चायमिति । अर्थकृत इति । अर्थः कार्यं तत्कृतः । तदुक्तं भवति यस्य कार्येण सम्बन्धस्तत्प्रधानं यस्य कार्यसम्बन्धावच्छेदकत्वं तदङ्गमिति । एतेनेति । ( ३२५ । ९ ) अर्थत्रयाभिधानेन । न हि स्वामिप्रत्ययो भवति भृत्ये । अपि तु तदर्थक्रियाकारितया स्वामिव्यपदेशमात्रमित्यर्थः । नात्र क्रमो न युगपत्प्रत्यय इति । ( ३२६ । ३ ) भेदाधिष्ठाने क्रमयौगपद्ये नैकस्मिन् विशिष्टद्रव्यप्रत्यये सम्भवति इति । एतेनेति । शब्दस्य सत्ताविशिष्टद्रव्यबाचित्वाभिधानेनायथार्थज्ञानोत्पत्तिप्रसङ्गादिति प्रत्युक्तम् । परमार्थस्वच्छधवले हि स्फटिके नीलीद्रव्योपधानान्नीलाप्रत्ययो भवतु भ्रान्तः तस्य परमार्थतो नीलगुणासमवायात् । सत्तासमवायस्तु द्रव्यादीनां पारमार्थिक इति न द्रव्यादिषु सदिति प्रत्ययस्य मिथ्यात्वमित्यर्थः । न हि कश्चिच्छब्द इति । स्वलक्षणानामशक्यसमयतया न कश्चिदपि शब्दो भवता तद्वाचकत्वेनाभ्युपेयतैत्यर्थः । न च जातिशब्दस्येति । जातेरभावादिति भावः । न जातिशब्दो भेदानां वाचकः कस्य तर्हीति पूर्वं भेदान्प्रधानीकृत्योक्तं सम्प्रति तु जातिशब्दानित्येतावता अपौरुक्त्यम् । नास्ति विवाद इति । ( ३२७ । २० ) अन्यापोहजात्योर्लक्षणाभेदे नास्ति विवाद इत्यर्थः । द्रव्यसच्छब्दयोस्तु सामानाधिकरण्यं न च श्रेदवाचकाः शब्दा इति व्याहतमिति । ( ३२८ । ४ ) द्रव्यमिति हि विधिरूपमेवं सदित्यपि विधिरूपं तच्छब्दौ तयोर्वाचकौ तयोरन्यापोहार्थत्वं व्याहतं विधिशब्दौ चान्यापोहार्थाविति न सम्भवति । न च भेदानभिधायिनोः सामानाधिकरण्यमपि युज्यते । भिन्नाभ्यां हि निमित्ताभ्यामेकस्मिन्नर्थे भेदरूपे वर्तमानौ समानाधिकरणौ भवेतां भेदं चेन्नाभिधत्तो नैकत्र वर्तेयाताम् । अवर्त्तमानौ च भिन्नप्रवृत्तिनिमित्तपर्यवसितौ गौरश्व इतिवन्न समानाधिकरणौ भवितुमर्हतः । सोऽयमपरो व्याघातः । भेदानभिधानं च सामानाधिकरण्यं चेति । तदनेन व्याघातद्वयमुक्तं तदेतद्व्याघातद्वयं निराचिकीर्षुराशङ्कते । उपचारतो न व्याघात इति चेत् । तदेतद्विभजते द्रव्यसच्छब्दाविति । तदनेन प्रथमो व्याघातः परिहृतः । द्वितीयं व्याघातं शङ्किता परिहरति । तावेताविति । ब्रूतः प्रतिपादयतोऽध्यवस्यत इति यावत् । एतदत्राकूतम् । विकल्पयोनयो हि शब्दास्तदेवाभिनिविशन्ते यद्विकल्पानां गोचरः । कार्यकारणयोः सामानाधिकरण्येन प्रतिपत्तेः । चतुष्टयी चेयं विकल्पानां सदसद्धर्मिसद्धर्मावगाहिनां जातिः । गौरीश्वरो नीलं नित्त्यमित्येवमादीनां न च विकल्पानां गोचरो यो विकल्पते देशकालावस्थाभेदेनैकत्वेनानुसंधीयते तदेवेदमिति । एव च स शब्दगोचरः तत्र शब्दानां शक्यसङ्केतत्वात् । न च स्वलक्षणानि त्रैलोक्यविलक्षणान्येवमिति न विकल्पविषयः । न च सामान्यं नाम किं चिदस्ति यद्विषयः स्यात् । अत एव न तद्वन्ति स्वलक्षणान्यपि तेषां सामान्यानामभावे तद्वत्तायाः स्वलक्षणेष्वभावात् । अपि चास्तु सामान्यं वस्तुसत् तथाऽपि नित्यत्वादनुपकार्यतया स्वलक्षणाधारत्वानुपपत्तिः आधारत्वमपि हि करणत्वमेव । पतनधर्माणो हि बदरादयः कुण्डादिभिरपतनधर्माणः क्रियन्त । न च नित्यं क्रियत इति नाधेयम् । तथा वृक्षत्वशिंशपात्वे स्वतन्त्रे एव सामान्ये स्वशब्दाभ्यामवगमिते न गौरश्वर इतिवत्सामानाधिकरण्यं भजेताम् । अपि च भवतु नित्यस्याप्युपकार्यत्वेनाधेयत्वं तथाऽप्येतद्विकल्पनीयम् । किं येनैव स्वभावेन तत्स्वलक्षणं वृक्षत्वमुपकरोति तेनैव शिंशपात्वमपि अथ स्वभावान्तरेण । अथ हि स्वभावान्तरेणप स्वभावभेदादन्यत्स्वलक्षणं शिंशपात्वाधारोऽन्यच्च वृक्षत्वाधार इति पुनरपि गौरश्व इतिवत्सामानाधिकरण्याभाव एव । अथैकेन स्वभावेन स्वलक्षणं सर्वसामान्योपकारि तथापिपव स्वभावाभेदे तदुपकाराधीनस्वभावानां सामान्यानां च मध्ये एकसामान्यवतः स्वलक्षणस्य एकेन शब्देन विकल्पेन वा ग्रहणे सर्वेषां तदेकोपकारनिबद्धस्वभावानां सामान्यानां ग्रहणात्सद् द्रव्यपार्थिववृक्षशिंशपाविकल्पानां शब्दानां च पर्यायत्वप्रसङ्गः । यथाह। ... एकोपकारके ग्राह्ये नोपकारास्ततोऽपरे । दृष्ट तस्मिन्नदृष्टा ये तद्ग्रहे सकलग्रह ... इति । तस्मान्न सामान्यवद्भेदगोचरा विकल्पाः । स्वलक्षणभेदगोचरत्वनिषेधेन ज्ञानग्राह्याकारगोचरत्वमप्यपास्तम् । स्वाकारमबाह्यं बाह्यमध्यवस्यन् विकल्पः स्वाकारबाह्यविषय इति चेत् । यथाह ... स्वप्रतिभासेऽनर्थेऽर्थाध्यवसायेन प्रवृत्ति ... रिति । अथ कोऽयमध्यवसायः । किं ग्रहणमाहो स्वित्करणम् । उत योजना अथ समारोपः । तत्र स्वप्रतिभासमनर्थमर्थं कथं गृह्णीयात् कुर्याद्वा विकल्पः न हि पीतं नीलं शक्यं ग्रहीतुं कर्तुं वा शिल्पिशतेनापि । नाप्यगृहीतेन स्वलक्षणेन स्वाकारं योजयितुमर्हति विकल्पः । न च स्वलक्षणं विकल्पगोचर इति चोपपादितम् । न च स्वाकारमनर्थमर्थ आरोपयति । न तावदगृहीतः स्वकारः शक्य आरोपयितुमिति तद्ग्रहणमेषितव्यम् । तत्किं गृहीत्वा आरोपयति अथ यदैव गृह्णाति तदैवारोपयति । न तावत् पूर्वः पक्षः न हि विकल्पज्ञानं क्षणिकं क्रमवन्तौ ग्रहणसमारोपौ कर्तुमर्हति । उत्तरस्मिंस्तु पक्षे विकल्पस्वसम्वेदनप्रत्यक्षा द्विकल्पाकारादहङ्कारास्पदादनहङ्कारास्पदं समारोप्यमाणो विकल्पो नास्वगोचरो न शक्योऽभिन्नः प्रतिपत्तुं नापि बाह्यस्वलक्षणैकत्वेन शक्यः प्रतिपत्तुं विकल्पज्ञानेन स्वलक्षणस्य बाह्यस्वयाप्रतिभासनात् । तस्मादेष विकल्पविषयो न ज्ञानंन ज्ञानाकारो नापि बाह्य इत्यलीक एवास्थेयः । यथाह भदन्तधर्मोत्तरः। ... बुद्ध्या कल्पिकया विविक्तमपरैर् यद्रूपमुल्लिख्यते बुद्धिर्नो न बहिरिति ... । तथापि विकल्पज्ञानाद्वाह्याभिमुखी प्रवृत्तिस्तदर्थिनां न स्यात् । तस्मादलीकबाह्यमेषां विषयः बाह्यभेदाग्रहश्चास्य बाह्यत्वं न पुनर्बाह्याभेदग्रहः । विकल्पगोचरेव बाह्ये तदभेदग्रहस्याशक्त्वात् । तस्मान्निर्विकल्पकपृष्ठभाविनो विकल्पाः तदुपनीतबाह्यस्वलक्षणभेदं स्वग्राह्यालीकस्यागृह्णन्तः तदभिमुखं प्रवर्त्तयन्ति व्यवहर्तॄनर्थिनः पारर्ंयेण तत्सम्बन्धात् । प्राप्तेर्न्न विसम्वादयन्ति लोकम् । तेषां च विकल्पविषयाणां न तैरेव विकल्पैः परस्परतो भेदो गृह्यते नापि विकल्पान्तरैरिति भेदाग्रहादभेदमभिमन्यते पुरुषः तदभेदाच्चावमर्षाणाम् अभेदः तदभेदाच्च तद्धेतूनामविकल्पधियामभेदः तदभेदाच्च स्वलक्षणानामविकल्पधीविषयाणामप्यभेदः । यथाऽह। ... एकप्रत्यवमर्षस्य हेतुत्वाद्धीरभेदीनी । एकधीहेतुभावेन व्यक्तीनामप्यभिन्नतेति ... ॥ तत् सिद्धमलीकं बाह्यं विषयोविकल्पानां शब्दानां चेति । तच्चेदमन्यव्यावृत्तिरूपं भावाभावसाधारण्याच्चात्यन्तीवलक्षणानीं सालक्षण्यापादनाच्च ताद्रूप्यानुभवाच्च । तथा हि यद्भावाभावसाधारणं तदन्यव्यावृत्तिरूपमेव । यथापऽमूर्त्तत्वं तत् खलु विज्ञाने च शशविषाणे च साधारणम् । तथा च विवादाध्यासिता विकल्पविषयाः घटपटादय इति स्वभावहेतुः । गौरस्ति गौर्नास्तीति हि भावाभावसाधारणो गावादिविकल्पविषयो विधिरूपस्वलक्षणवद्भावासाधारण्ये नास्तीत्यनेन न संबध्यते विरोधात् । अस्तीत्यनेनापि न संबध्यते पौनरुक्त्यात् । भावाभावसाधारणग्रहणञ्च नानिमित्तं नाप्यन्यनिमित्तं न हि विधिरूपविषयस्य तत्स्वरूपविषयस्य वा विधिधर्मापातिनस्तत्र निमित्तभावः संभवति । तस्मान्निमित्तवत्तया साधारणग्रहणं व्याप्तं विपक्षान्निमित्तवत्त्वस्य व्यापकस्यानुपलब्ध्या निवर्त्तमानमन्यव्यावृत्तिविषयत्वेन वयाप्यत इति प्रतिबन्धसिद्धिः । अपि चात्यन्तविलक्षणानां सालक्षण्यम् अन्यव्यावृत्तिकृतमेव । यथा गवाश्वमहिषमातङ्गानामत्यन्तविलक्षणानामपि सिंहव्यावृत्या सालक्षण्यम् । तथा च बाह्यस्य स्वलक्षणस्य विधिरूपस्य परमार्थसतोऽपरमार्थसतात्यन्तविलक्षणेन सालक्षण्यमिति स्वभावहेतुः । बाह्यंहि विधिरूपमप्यगोव्यावृत्तम् । विकल्पविषयोऽपि चेदगोव्यावृत्तस्ततः सालक्षण्यं नान्यथा तथा च सालक्षण्यमिति निमित्तवत्तया व्याप्तं तदनुपलब्ध्या विपक्षाद्व्यावर्त्तमानं स्वसाध्येन व्याप्यत इति प्रतिबन्धसिद्धिः । अपि चानुभूयत एव विकल्पविषयो व्यावृत्तिरूपः । तथा हि । तदप्रतिभासने गां बधानेति देशितोऽश्वं बध्नीयाद् गोरश्वाद्प भेदेनाप्रतिभासनात् । प्रतिभासे वा कथं नागोव्यावृत्तिप्रतिभासः । तस्मादन्यापोहगोपचरौ शब्दविकल्पाविति । तदेतदुक्तम् वार्तिककृता । तावेतावसद्द्रव्यव्युदासरूपेण प्रवर्तमानावेकमर्थमधिकुरुत इति । ( ३२८ । ८ ) एकं स्वलक्षणमध्यवस्यतः अध्यवसायश्च स्वविषयस्य स्वलक्षणाद्भेदेनाग्रह इत्युक्तम् । अत्रोच्यते । जातिस्तावदुपपादितसद्भावा तत एव तद्वतीव्यक्तिरपि परमार्थसती । स्वाभाविकश्च सम्बन्धो व्यक्तेर्जात्या सह नोपकारमपेक्षते । अपि चानित्यस्याप्युपकार्यता क्षणभङ्गभङ्गौपपादयिष्यते । यथा चैकोपाधिग्रहेऽपि नोपाध्यन्तरविशिष्टग्रहस्तथोपपादितं प्रत्यक्षलक्षणावसरे । न चात्यन्तासतः केन चिदसदूपस्य प्रथोपपद्यत इति सारूप्यनिमित्तां भ्रान्तिमुपपादयता वार्तिककृतोक्तम् । उपपादितं चास्माभिः । तस्माज्जातिमत्यो व्यक्तयो विकल्पानां शब्दानां च गोचरः तासां तद्वृत्तीनां रूपमतज्जातीयव्यावृत्तमित्यर्थः अतस्तदवगतेर्न्न गां बधानेति चोदितोऽश्वादीन् बध्नाति । न च शब्दार्थस्य जातेर्भावभावसाधारण्यं नोपपद्यते । सा हि स्वरूपतो नित्याऽपि देशकालविकीर्णानन्तव्यक्त्याश्रयतया भावाभावसाधारणी भवत्यस्तिनास्तिसम्बन्धयोग्या । वर्तमानव्यक्तिसम्बन्धिता हि जातेरस्तिता अतीतानागतव्यक्तिसम्बन्धिता च नास्तितेति । संदिग्धव्यतिरेकित्वादनैकान्तिकं भावाभावसाधारण्यमन्यथासिद्धं चेति । जातिमती व्यक्तिर्विकल्पगोचरो नालीकमिति कस्य वस्तुना सह सादृश्यायान्यव्यावृत्ति रूपतास्थीयते । अपि चालीकस्य समस्तसामर्थ्यविरहिणोऽत्यन्तविसदृशस्य समर्थेन स्वलक्षणेन विधिरूपेण किं सादृश्यम् । अन्यव्यावृत्तिरिति चेत् । नन्वन्यव्यावृत्तिर्भाविकी स्वलक्षणस्य स्वभावो वा अन्यो वा न तत्स्वभावो विधिरूपेण विरोधात् । अविरोधे वा विधिनिषेधयोरेकत्वाद्विधिरूपतानिषेधेनालीकस्य स्वलक्षणसारूप्यायान्यव्यावृत्तिरूपतोपपादनमनर्थकम् । विधिरूपेणानुच्छेन तुच्छस्य सारूप्यमनुपपन्नमिति चेत् । हन्त भोः स्वलक्षणस्यास्ति किं तुच्छमपि रूपं येनालीकस्य तुच्छस्य सारूप्यं स्यात् । तथा सत्ययमेकस्य स्वलक्षणस्य तुच्छातुच्छविरुद्धस्वभावद्वयसमावेशमभ्युपगच्छन् श्लाघनीयप्रज्ञो देवानांप्रियः । न च स्वलक्षणोदन्यव्यावृत्तिरलीकमन्यव्यावृत्तं स्वलक्षणेन सरूपयति तथा सति हस्तिमशकावपि रासभः सरूपयेत् । धर्मो न च स्वलक्षणधर्मो व्यावृत्तिर्भवद्भिरभ्युपेयते । स्यादेतत् । अध्यवसीयमानमपि स्वलक्षणं न परमार्थसत्, अपि तु तदपि कल्पितं, तस्मात्तस्य विधिनिषेधरूपता न विरुध्यते, वस्तुनि हि विरुद्धधर्माध्यासो विरुध्यते नावस्तुनि तेनास्य विधिरूपपरित्यागेन निषेधरूपतामुपादायालीकस्य सारूप्यमुपपद्यते । यथाऽह ... यच्च गृह्यते यच्चध्यवमीयते ते द्वे अप्यन्यब्यावृत्ती न वस्तुन ... इति । अथालीकस्य स्वलक्षणस्यालीकसादृश्ये किं सिध्यति । न तावत् तत्र प्रवृत्तिः असतः प्रवृत्तिविषयत्वायोगात् । सतस्तु प्रवृत्तिविकल्पस्य न सादृश्यमसता सादृश्ये वा वृथा अलीकस्वलक्षणाभ्युपगमः । अथ न वयमलीकं स्वलक्षणान्तरमातिष्ठामहे किं त्वलीकस्यैव दाहपाकादिकसामर्थयरोपम् । न तत्स्वलक्षणं तस्य सर्वतो व्यावृत्त्या अभिलापसंसर्गायोग्यत्वेन विकल्पज्ञानप्रतिभासाभावात् । अभिलापसंसर्गयोग्यस्य चान्वयिनोऽस्वलक्षणत्वात् । तस्मात्स्वान्वयिनोऽन्यव्यावृत्तिरूपस्यासमर्थस्यापि सामर्थ्यं समारोप्य तत्तदर्थिनो व्यवहर्त्तॄन् प्रवर्त्तन्ते लोकविकल्पाः पारम्पर्येण सम्बन्धात्समर्थं वस्तु प्रापयन्तो न विसंवादयन्ति लोकमिति युक्तमुत्पश्यामः । अथास्य अतदर्थक्रियासामर्थ्यारोपः किं दृष्टार्थक्रियास्वलक्षणसालक्षण्येनाहो स्विदनादिवासनावशात् । तत्र स्वलक्षणेन सर्वतो व्यावृत्तेन समर्थेन समस्तसामर्थ्यविरहिणोऽन्वयिना न किञ्चिदस्ति सारूप्यम् । अन्यवृत्त्या तु सारूप्ये विधिरूपेणापि प्रसङ्गः । तस्यास्ततो भेदाभावादित्युक्तम् । अनादिवासनावशात्तु तदारोपे प्रथमदर्शनेऽपि नालिकेरद्वीपागतस्य वह्नौ दाहपाकादिसामर्थ्यज्ञानप्रसङ्गः । वह्निस्वलक्षणाद्दाहपाकादिकारिणो भेदाग्रहादलीकस्य तद्रूपसमारोप इति चेत् । किं स्वलक्षणे गृह्यमाणे अथागृह्यमाणे । न तावद्गृह्ममाणे तस्य विकल्पज्ञानगोचरत्वाभावादित्युक्तम् । तत्समयभावि त्वविकल्पकं तत्त्वं गृह्णदपि न विकल्पे स्वविषयं निवेशयति । तस्य ततोऽन्यत्वेन तद्वार्त्तानभिज्ञत्वात् । एवं विकल्पज्ञानमपि समनन्तरोत्पन्ननिर्विकल्पकव्यापारपारम्पर्येऽपि न स्वलक्षणं गोचरयितुमर्हति । तस्याभिलापसंसर्गयोग्यप्रतिभासविषयत्वादित्युक्तम् । समनन्तरप्रत्ययादविकल्पादुत्पत्तेस्तद्व्यापारपारम्पर्यादतद्गोचरोऽपि तद्गोचर इवाभासत इति चेत् । अनुभववासनाभावेषु भेवदपीयं गतिर्न तु परोक्षाभावावगाहिष्वविद्यावासनाप्रभवेषु संभवति । अपि चानुभववासनाप्रभवस्यापि तद्गोचरत्वाभिमानस्तस्मिन्नप्रथमाने तदुत्पत्तिमात्रान्न भवितुमर्हति । अगृह्यमाणे तु वह्निस्वलक्षणे ततो भेदाग्रहेण तद्रूपारोपे त्रैलोक्यरूपारोपप्रसङ्गो नियमहेतोरभावात् । न हि तदानीमगृह्यमाणतया त्रैलोक्याद्वह्निस्वलक्षणस्य कश्चिद्विशेषः वह्निस्वलक्षणविषयनिर्विकल्पकप्रभवत्वेन तस्मिन्नियते अविद्यावासनाप्रभवेषु प्रधानेश्वरादिविकल्पेषु तदभाव इति नियमो न स्यात् । न चाग्रहेण तदारोपसंभव इत्युक्तम् । तस्मादलीकस्य बाह्यत्वं विकल्पगोचर इति रिक्तं वचः । अपि च ज्ञानाकारवत्स्वलक्षणवच्चालीकग्राह्यत्वमपि न विकल्पगोचरो भवितुमर्हति । एतद्धि कल्पनाधीनमुत्पन्नायां कल्पनायामुत्पन्नमिव विनष्टायां नष्टमिव विकल्पनाभेद भिन्नमिव न शक्यमेकत्वेन प्रतिकर्त्तुम् । भेदानवमर्षादिति चेत् । किमस्यानवमृष्टमपि तत्त्वम् । ओमिति चेत् । न तर्हिं कल्पितम् । ननु नास्य भेदोऽपि स्वाभाविकः स्वाभाविको हि भेदाभेदाभ्यां युज्यते न त्वलीकम् । मा भूद्भेदोऽस्य स्वाभाविकः कल्पनाधीनं तु तदलीकं तद्भेदाद्भिन्नं प्रतिपत्तव्यम् । अन्यथा तदधीनत्त्वापत्तेः । इदमेव हि तस्य विकल्पितस्य कल्पनाधीनत्वं यत्कल्पनाभेदाभेदानुविधानं नाम तदधीनत्वे तु कल्पितत्वानुपपत्तेरनलीकत्वप्रसङ्गात् । तन्मा नाम भूतामस्य स्वाभाविके नानात्वैकत्वे न तु भिन्नकल्पनानुपाति शक्यमेकत्वेन प्रतिपत्तुमिति भिन्नं प्रतिपत्तव्यम् । तत्सिद्धं विकल्पागोचरत्वमलीकबाह्यस्य अभिलापसंसर्गायोग्यत्वात्सुखादिस्वलक्षणवदिति । अभिलापसंसर्गायोग्यं हि तत् तेनाशक्यसमयत्वात् सुखादिलक्षणवदिति । शक्यसमयतया खल्वभिलापसंसर्गयोग्यता व्याप्ता अन्यथाऽतिप्रसङ्गात् । सालीकबाह्यतायाः प्रतिविकल्पं भिन्नाया व्यावर्त्तमानाऽभिलापसंसर्गयोग्यत्वमपि व्यावर्त्तयतीति प्रतिबन्धसिद्धिः । अपि चेदमलीकमगोव्यावृत्तिरूपं वा तद्धर्मो वा । अगोव्यावृत्तिरूपं चेत् । न तदसिद्धं गवि शक्यं ग्रहीतुम् । अगौश्च गोनिषेधात्मेति गोसिद्धिमपेक्षत इति दुरुत्तरमितरेतराश्रयत्वं तद्धर्मत्वे वा गोत्वमेवास्तु भाविकं तद्धर्मो विधिरूपः कृतमलीकेनाविधिरूपेण । तद्धर्माणां तद्भाविकत्वसाधनं च निराकृतं तस्य च भावाभावसाधारण्यमुपपादितं तद्विस्तराद्विभ्यतोऽपि बहुतरविस्तरे पतिताः स्म इत्यास्तामेतन्नास्तिकमानोपमर्द्दनमिति । उपचारतो न व्याघात इति चेदिति शङ्कायाः परिहारवार्त्तिकम् । मुख्यासंभवादिति । ( ३२८ । ११ ) सर्वत्र मुख्यपूर्वक उपचारो वा समारोपो वा दृष्टः तव तु राद्धान्ते न विधिविषयः कश्चिदस्ति मुख्यः शब्दो वा विकल्पो वा सर्वस्य निवृत्तिगोचरत्वात् । न चाध्यवसेयो विधिः संभवतीत्युपपादितमधस्तादिति भावः । न चान्यापोहपक्ष उपचारो युक्तः उभयोः प्रधानशब्दत्वादिति । न हि सिंहत्त्वं नाम किं चिदस्ति सिंहव्यक्तिषु यन्मानणवके न स्यात् । अपि तु प्रसह्यकारित्वादिव्युदासो माणवके नास्तीति सिंहव्यक्तिष्विव माणवकेऽपि सिंहशब्दो मुख्य एव स्यादित्यर्थः । किं गौरगौरिति । ( ३२९ । ५ ) अश्वादिरित्यर्थः । प्रैष्यप्रत्ययपूर्विका प्रैषस्य प्रैषविषये प्रवृत्तिः संप्रतिपत्तिः अङ्गव्यतिरिक्तस्य चाङ्गिनः सेनावनबहुत्वसंख्यादीनां भवद्भिरभ्युपगमादित्यर्थः । क्रियारूपत्वाच्चापोहस्य विषयो वक्तव्य इति । कर्म विषयः क्रियायास्तद्वक्तव्यमित्यर्थः कथमन्यविषयादिति । कथमन्यविषयादपोहदगोविषयागवि प्रतिपत्तिरिति । अथागोरिति । ( ३३० । २ ) अस्ति हि का चित् क्रिया याऽन्यस्यान्यविषया । यथा विज्ञानमात्मनोर्ऽथः विषयं वेत्यर्थः । निराकरोति । केन गोरिति । क्रिया हि चेतनानां प्रयत्नपूर्वा भवति । अपोहलक्षणा च क्रिया निषेधरूपा निषेधश्च प्राप्तिपूवकः न हि गोरगोत्वं केन चित्प्रसञ्जितं यत्प्रेक्षावता व्यपोह्येतेत्यर्थः । कथं चागवीति । अगवीति पदेन योऽयं प्रतिषेधो नासौप गोप्रतिपत्तिमन्तरेण भवतीत्यर्थः । अध्यासानुपपत्तेरर्थप्रत्ययो न युक्त इति । अपोहरूपोर्ऽथप्रत्ययो न युक्त इत्यर्थः । किमपोहो वाच्योऽथावाच्य इति । अपोहादिशब्देनेत्यर्थः । यदि वाच्य इति । स्वरूपेणैवापोहो वाच्यो न चापोहापोहेनेत्यर्थः । स्यादेतत् । यद्यन्यापोहेन शब्दो न वर्तते कथं तर्हि द्व्यादिविशेषेष्वनेकशब्द एकापोहेन वर्तते । न ह्यत्रानेकत्वं नाम गोत्वमिव किं चिदस्ति सामान्यमित्यत आह । अनेकमिति चास्य पदस्य द्वयादिविषयत्वात् । ( ३३१ । २ ) सामान्याधिगतावेकत्ववर्जितसंख्यात्वसामान्याधिगतौ विशेष आश्रयितव्यः संख्यात्वसामान्यमेवैकत्ववर्जितं तत्र द्व्यादिविशेषाधिगतिहेतुर्न पुनरन्यापोहमात्रमित्यर्थः । न ह्यसति सामान्यशब्दादेकत्ववर्जितसंख्यासामान्यवाचकादनेकशब्दाद् विशेषाश्रयणे अन्यापोहमात्राद्विशेषाध्गितिरिति योजनीयम् । अब्राह्मणादिशब्दानामपीमेव गतिः । तत्रापि पुंस्त्वसामान्यमेव ब्राह्मणशब्दार्थ इति । नीलोत्पलशब्दयोश्च प्रधानत्वादिति । अनीलानुत्पलव्युदासौ हि प्रधानौ नीलोत्पलशब्दावाहतुः न ह्येतयोरस्ति विशेषणविशेष्यभावः परस्परासंबन्धादिति भावः । एतेन नीलोत्पलशब्दयोरस्मिन्सिद्धान्ते प्रधानार्थत्वेन व्युत्पादनेन राजपुरुषशब्दौ व्याख्यातौ प्रधानत्वेन अत्राप्यराजापुरुषव्यवच्छेदयोर्नावच्छेद्य वच्छेदकभावः नापि स्वस्वामिभाव इत्यर्थः । समानाधिकरणयोश्चेति । शब्दविकल्पयोः परमार्थसद्वस्तुसंस्पर्शासम्भवादित्यर्थः । ॥ ६५ ॥

न्या.सू._२,२.६६: व्यक्तिर्गुणविशेषाश्रयो मूर्तिः ॥

यत्र हि व्यक्त्याकृतिजातीनां समावेशस्तत्र व्यक्तिनिर्द्धारणाभेदं लक्षणम् । तेनाकाशाद्यनवरोधेऽपि न दोषस्तत्राकृतेरभावादिति भाष्यमतम् । यथाह भाष्यकारः न सर्वं द्रव्यं व्यक्तिरिति । यद्यपि गुरुत्वादयः सामान्यगुणास्तथापि गुणान्तरेभ्योव्यावर्त्तमाना गुणविशेषा इत्युच्यन्ते । अव्यापिन इति । सर्वगतस्य द्रवयस्य परिमाणं व्यवच्छिनत्ति । मूर्च्छिताः परस्परं संयुक्ता अवयवा यस्य तन्मूर्च्छितावयवम् । कथं पुनरित्यादिभाष्यमाक्षिपति वार्त्तिककारः । अधिगतत्वादिति । स्वरूपागवमपूवर्कत्वाद्वाक्यप्रतिपादनस्य स्वरूपावगमोऽपि तन्नान्तरीयकत्वात्सिद्ध इत्याक्षेपाभिप्रायः । निराकरोति । न निमित्तत्रैविध्ये सति तद्विशेषविषयज्ञानपनार्थत्वात् । प्रश्नस्य शब्दप्रवृत्तिनिमित्तानां त्रैविध्ये सति तद्विशेष एव विषयः तज्ज्ञापनमर्थः प्रयोजनं यस्य स तथोक्तः।एतदुक्तं भवति सिद्धं कृत्वा भेदमभिधेयत्वं ब्रयाणां प्रतिपादितम् । संप्रति स एव भेदः प्रतिपाद्यत इति । सूत्रमिति । बहूनामर्थानां सूचनादिति भावः । अत्रभाष्यव्याख्यानमुपन्यस्यति । व्यज्यत इति । ( ३३२ । २ ) दूषयति एतत्तुनेति । व्यक्तिः पदार्थ इत्येतत् प्रकृतं तत्र यथावयविनो व्यक्तेः पदार्थत्वमेवम् आकाशादीनां चोत्क्षेपणादीनां च तत्तथा लक्षणं व्याख्येयं यथा सर्वं संगृह्यते अन्यथा सूत्रकारोऽकुशनलः स्यात्प तदर्थमाह । वयं तु ब्रम इति । अत्रेदं व्याख्यानम् । व्यक्तिरिति लक्ष्यनिर्द्देशः शेषं लक्षणम् । गुणविशेषा इति द्वेधा समासः गुणश्च विशेषश्चेति प्रथमो विग्रहः तेनाकृतिर्निराकृता संगृही ताश्च रूपादयो भवन्ति । तथाऽप्युत्क्षेपणादिव्यक्तेरसंग्रह इति द्वितीयो विग्रहः । गुणेभ्यो विशेषा गुणविशेषाः गुणेभ्यो व्यावृत्ता उत्क्षेपणादय इति यावत् । तथाऽपि न द्रव्यं संगृह्यतैत्यत आह । आश्रय इति । तच्छब्दाध्याहाराद् गुणविशेषाश्रयो द्रव्यमित्यर्थः । प्रतिपदमिति । गुण इति च विशेष इति चाऽश्रय इति चेति पदानि ।

अथ वा गुणविशेषाणामाश्रय इति चेति पदानि ।
अथ वा गुणविशेषाणामाश्रय इति गुणा रूपादयः विशेषाः कर्माणि गुणेभ्य इत्यर्थात् ।
तेषामाश्रयश्चेतिद्वन्द्व एव तेषामित्यर्थाद्गम्यते ।
तत्र मूर्च्छित इतिमूर्छनं संबन्ध इह चासौ समवाय इति ॥ ६६ ॥

न्या.सू._२,२.६७: आकृतिर्जातिलिङ्गाख्या ॥

जातिश्च जातिलिङ्गानि च जातिलिङ्गानि तान्याख्यायन्ते यया सा आकृतिः । शिरः पाण्यादिव्यूह आकृतिर्जातिमनुष्यत्वादिकमाचष्टे । शिरोनासिकाललादीनां व्यूहो मनुष्यत्वजातिलिङ्गं शिर आचष्टे । शिरसा पादेन गामनुमिन्वन्तीति भाष्यम् ।

यद्यपि गोत्वं प्रत्यक्षमेव नाकृतिव्यङ्न्यं तथाऽपि विप्रतिपद्यमानं प्रत्युच्यते अनुमिन्वन्तीति न पुनः सर्वा जातिराकृत्या लिङ्ग्यत इति ।
मृत्सुवर्णरजतादिका हि रूपविशेषव्यङ्ग्या जातिर्नाकृतिव्यङ्न्या ब्राह्मणत्वादिजातिस्तु योनिव्यङ्ग्या आज्यतैलादीनां जातिस्तु गन्धेन वा रसेन वा व्यज्यते ।
अत एव न सार्षपादीनां तैलत्वमस्ति तद्व्यञ्जकयोर्गन्धरसयोरभावात् ।
भाक्तस्तु तैलशब्दप्रयोगः क्षीरजातिरपि रसव्यङ्ग्यैव अत एवामिक्षायाः क्षीरत्वं न तु वाजिनस्य तव्यञ्जकस्य रसभेदस्य वाजिनेऽभावाद् आमिक्षायां च भावादिति ॥ ६७ ॥

न्या.सू._२,२.६८: समानप्रसवात्मिका जातिः ॥

प्रसूत इति प्रसवः समानबुद्धेर्भिन्नेषु पसोत्री या जातिः साऽवश्यं समानप्रत्ययं प्रसूते न पुनर्या समानप्रत्ययं प्रसूते सा जातिः । पाचकादिषु व्यभिचारादिति । व्यक्त्याकृतिभ्यां भेदकत्वमात्रेण चैतल्लक्षणं न तु सर्वथा वेदितव्यम् । यस्तु वैयात्यात्प्रत्यक्षेऽपि विप्रतिपद्यते तं प्रत्यनुमानान्याह । गवादिष्वनुवृत्तप्रत्यय इति । ( ३३३ । १८ ) व्यपदेश इति सम्बन्धिना सम्बन्धान्तरस्य विशेषणं पुरुषो व्यपदिश्यते राज्ञ इत्यनेनेति । गोर्गोत्वानुवृत्तिप्रत्यया इति । पूर्वमनुवृत्तप्रत्ययमात्रंपक्षीकृतम् इह तु गोर्गोत्वानुवृत्तिप्रत्यय इत्यपौनरुक्त्यम् । कीर्तित इति । यथा लिङ्गं विवक्षितमन्तरत्वात् ।

अन्यत्र यथालिङ्गं प्रत्यय इति ।
नपुंसकमनपुंसकेनेति नपुंसकत्वं नाशङ्कनीयमिति ।
इति मिश्रश्रीवाचस्पतिविरचितायां न्यायवार्त्तिकतात्पर्यटीकायां द्वितीयाध्यायस्य द्वितीयमाह्निकम् ।
द्वितीयोऽध्यायः समाप्तः ॥