न्यायवार्त्तिकतात्पर्यटीका/तृतीयोध्यायः

विकिस्रोतः तः

तृतीयाध्यायस्य प्रथममाह्निकम्

न्या.सू._३,१.१: दर्शनस्पर्शनाभ्यामेकार्थग्रहणात् ॥

अत्र भाष्यं परीक्षितानि प्रमाणानि प्रमेयमिदार्नी परीक्ष्य इति । वृत्तानुकीर्तनं प्रमेयपरीक्षां वर्तिष्यमाणां प्रति वृत्तायाः प्रमाणपरीक्षायाहेतुभावं दर्शयितुम् । प्रमाणेन हि प्रमेयं पीक्ष्यते नान्येन । न च तदपरीक्षितं प्रमेयपरीक्षायै प्रभवति । तस्मात्प्रमाणपरीक्षा हेतुः हेतुमती प्रमेयपरीक्षेति । द्वादशविधं प्रमेयं तत्कस्मात्प्रथमत आत्मैव परीक्ष्यते न प्रमेयान्तरमित्यत आह । तच्चात्मादीत्यात्मा विचार्यत इति । (३३५।५) आत्मैव हि प्रमेयेषु प्रथममुद्दिष्टो लक्षितश्चेति तदनुरोधादात्मैव प्रथमं परीक्ष्यते न प्रमेयान्तराणीति । अत्र च यद्यपि स्वरूपेणात्मन्येव परीक्षां प्रतिजानीते तथाऽपि लक्षणपरीक्षाद्वारेण लक्ष्यपरीक्षणाल् लक्षणपरीक्षैव द्रष्टव्या । यथा चेयमात्मलक्षंणपरीक्षा तथोपरिष्टाद्दर्शयिष्यते । तदेतद्वार्त्तिककारो व्याचष्टे । आनन्तर्यादिति । किं पुनः प्रयोजनं प्रमेयपरीक्षायाः न हि निष्प्रयोजनं परीक्षन्ते प्रेक्षावन्त इत्यत आह । यद्विषयोऽहङ्कार इति । अहङ्कार इत्यात्मादिविषयं मिथ्याज्ञानं निदिंशति । शरीराद्यभेदेनात्मदर्शनं खलु संसार प्रवर्तयतीत्युक्तं द्वितीयसूत्रे । अनेन प्रमेयपरीक्षायाः प्रयोजनवत्त्वं दर्शितम् । अत्र भाष्यकारेण विचारपूर्वरूपः संशयो दर्शितः । किं देहेन्द्रियमनोबुद्धिसंघामात्रमात्मेति । संशयकारणं चोक्तं व्यपदेशस्येति । यद्यपि वृक्षप्रासादयोरवयविसमुदाययोरन्ययोरेवावयवेन समुदायिना च व्यपदेशस्तथाप्यवयव्यभावं समुदायं च समुदाय्यनतिरिक्तं मन्वानस्य परस्योदाहरणं द्रष्टव्यम् । तदेतद्वार्तिककार आक्षेप्तुं पृच्छति । किं पुनरस्येति । उत्तरंव किं शरीरेति । आक्षियति नेति । समानधर्मणो धर्मिणो दर्शनात्संशयो न पुनरदर्शनादित्यर्थः । समाधत्तेः । नेच्छादिसूत्रेति । इच्छादयो हि कार्यत्वाल्लिङ्गमात्मन इति दर्शितम् । तान्येव तु लिङ्गानि दर्शयत्येषितारं परीक्षन्ते । किं देहेन्द्रियव्यतिरिक्त एषितैभ्यः सिध्यति आहो स्विदभिन्न इति युक्तो विचारः । अपि चायमात्मशब्दाभिधेयो धर्मी सर्वतन्त्रसिद्धः केवलमस्य शरीरेणं सह भेदाभेदे वादिनां विवाद इत्याह । अविप्रतिपत्तेश्चेति । (३३६।१) ननु चात्मासत्त्वे परैः प्रमाणान्यजातत्वादीन्युपन्यस्तानि तत्र कथं न तत्सत्त्वे विप्रतिपत्तिरत आह । असत्त्वप्रतिपादकप्रमाणाभावाच्चेति । वाद्येवासौ न भवति यो धर्मिणि विप्रतिपद्यते न हि धर्मिणि विप्रतिपद्यमानस्यास्ति किं चित्प्रमाणं सर्वस्य तस्याश्रयासिद्धेरप्रमाणत्वात् । अभावस्य च भावाधीननिरूपणस्यात्यन्तासद्भावानिरूपणात् । तस्माद्धर्म्यभाववादी न लौकिको न परीक्षक इत्युन्मत्तवदुपेक्षणीयः । धर्म्यसिद्धिवादिनां प्रमाणमुपन्यस्यति । न नास्तीति । निराकरोति । तत्र नास्त्यात्मेति । यत्पुनरपरे समादधुः अनादिवासनोद्भूतविकल्परिनिष्ठितः । शब्दार्थस्त्रिविधो धर्मी भावाभावोभयाश्रयः ॥ भावाश्रयो यथा नीलमिति अभावाश्रयो यथा शशविषाणमिति उभयाश्रयो यथाऽमूर्तमिति । अमूर्तं हि भवति विज्ञानं भवति च शशविषाणम् । तस्मिन्बाह्यानुपादाने साध्येऽस्यानुपलम्भनम् । तथा हेतुर्न तस्यैवाभावः शब्दप्रयोगत इति । सोऽयमात्मविकल्पो बाह्योपादानो न भवतीति । यथा नीलविकल्पो बाह्यनीलोपादानः नैवमात्मविकल्पो बाह्योपादानं इत्यर्थः । तत्रैवं भवान्प्रष्टव्यो जायते । किमात्मविकल्पस्य बाह्योपादानत्वमात्रं प्रतिषिध्यते किं बाह्यात्मोपादानत्वम् । पूर्वस्मिन् सिद्धासाधनं मा भूदात्मविकल्पो बाह्यनीलाद्युपादानः किं नः छिन्नम् । उत्तरस्मिंस्तु कल्पे क्वायं बाह्यात्मा सिद्धः यदुपादानत्वं विकल्पस्य प्रतिषिध्यते । सिद्धश्चेत् क्वापि नास्यात्यन्ताय प्रतिषेधः । असिद्धश्चेत् कथमप्रतीतस्य निषेधः । प्रतीतो विकल्पे बाह्ये निषिध्यते चैत्र इव गेहे चत्वरतले निषिध्यत इति चेत् । एवमपि यत्र प्रतीतस्तत्र न निषिध्यते यथा भवद्भिरेवोक्तं न तस्यैवाभावः शब्दप्रयोगत इति । बाह्यश्चात्मा विकल्पेन नोपदर्शित इति प्रसक्त्यभावान्न शक्यो निषेद्धुम् । अप्रदर्शितोप्यध्यवसित इति प्रसक्त एवेति चेत् । ननु विकल्पस्य कोऽयमध्यवसायो नाम । ग्रहणादतिरिक्तः ग्राह्यस्य स्वाकारस्य वालीकस्य वा बाह्याध्यारोप इति चेत् । न बाह्याविषया विकल्पा बाह्यमारोपयन्तीति चित्रम् । न हि आरोपविषयरोप्ये अजानन् आरोपयितुर्महतीत्यसकृदावेदितम् । अपि च अलीकं प्रतीयमानं यथा न निषेद्धुं शक्यं प्रतीयमानत्वादेवमस्य बाह्यत्वमपि । मिथ्यात्वात्प्रतिषिध्यत इति चेत् तत्किमलीकमपि सत्यं यत्तदुल्लङ्घ्य बाह्यत्वं प्रतिषेद्धुमध्यवसितोऽसि बाह्यभेदग्रहम्तदध्यवसायो न प्रसञ्जक इति न निषेधगोचरः । न च ज्ञानकार आत्मा परमार्थसन् बाह्यत्वेनारोप्यमाणः प्रतिषिध्यत इति सांप्रतम् । विज्ञानमये हि सर्वथा बाह्यस्याग्रह तत्समारोपसंभवात् । अत्यन्तासतश्च बाह्यस्य विज्ञानात्मनो ग्रहे तथाविधेनासता विज्ञानानात्मना विज्ञानग्रह्येण किमपराद्धं येन तद्ग्राह्यो न स्यादिति विज्ञाननयो दत्तजलाञ्जलिः प्रसज्येत । न चायमात्मा पूर्वापरकालावस्थायी क्षणिकविकल्पाकारो भवितुमर्हति येन तदाकारो बाह्यत्वेन प्रतिषिध्यते । तस्मादन्यत्र दृष्टमन्यत्र समारोप्य प्रतिषिध्यत इति युक्तम् । स च समारोपः क्व चित्स्वकारणप्रभवः क्व चित्प्रतिषिध्यते यथेन्द्रियादिदोषादुत्पन्नरजतज्ञानस्य शुक्तिकायां नेदं रजतमिति । क्वचित्पुनराहार्यो यथा नेह चैत्र इति । तस्मादात्मनो देशकालान्तरे वस्तुनि विकल्पनं विज्ञाने चासंभवादत्यन्तासत्तो समारोपः तदभावादात्मन्येव नास्ति अस्ति चेत्कथमत्यन्ताय निषेधः । तस्मादात्मा नास्तीति पदयोर्व्याघातः । यद्यप्यात्मा नास्तीति पदानि तथाऽपि नास्तीत्यैकपद्यं विवक्षित्वा पदे इति द्विवचनोपपत्तिः । पद्यते गम्यतेऽनेनार्थ इति विवक्षित्वा पदसमुदायोऽपि पदमुच्यते । यद्यपि घटादीनां देशान्तरादौ निषेधस्तथाऽपि आत्मनोऽत्यन्ताय भविष्यति न हि प्रतिषेधान्तरधर्ममवश्यं प्रतिषेधान्तरमनुबध्नातीत्यत आह । सर्वश्चायमिति । उपपादितमेतदधस्ताद् यथा चाननुभूतमशक्यमारोपयितुमिति न क्व चिदात्मन्यन्याधारत्वमुक्तं पिण्डाद्याधारा इति । पृच्छति । किमयमिति । (३३७।२) यन्न क्व चिदस्ति तदत्यन्तमसद् तथा चायं तस्मादत्यन्तमसन्निति भावः । उत्तरं न नास्तीति । न तावन्न क्व चिदस्तीति वाक्यमात्मानं स्वरूपेण निषेधति देशरूपविशेषप्रतिषेधात् । शङ्किता आह । केयं वाचोयुक्तिरिति । उत्तरवाद्याह । एषा वाचोयुक्तिरिति । एषा वक्ष्यमाणार्था । तदर्थमाह । यद्यथाभूतमिति । न हि पदार्थानां सत्ता देशबलेन व्याप्ता येन देशवत्त्वं निवर्त्तमानं तां निवर्त्तयेदिति भावः । न च कालविशेषप्रतिषेधोऽपीति । कालान्तरप्रतियोगी एकैकः कालः कालविशेषः तत्प्रतिषेधोऽप्यात्मन्ययुक्तः न हि यथा घटादिष्ववच्छेदार्थः कालः तथा नित्य आत्मनि । प्रध्वंसाभाववान् घटः खल्वासन्नि तथात्वा प्रागभाववान् घटो भविष्यति न तथा आत्मा । अतीतप्रागभावोऽनागतप्रध्वंसः घटो वर्तमानो न च तथा आत्मा तस्मान्नास्यावच्छेदार्थेन त्रैकाल्यमुपावर्तते । अतीतानागतव्यपवृक्तवर्त्तमानक्रियाव्यङ्न्यः कालोऽस्ति सदा नित्यानां यतोऽस्त्यात्मा विद्यते व्योमेति तस्मादवच्छेदकत्रैकाल्याप्राप्तेः न त्रैकाल्यप्रतिषेधः । अतीतानागतव्यप्रवृक्तक्रियाव्यङ्न्यस्य च वर्तमानस्याशक्यनिषेधत्वाद् नात्मनि कालप्रतिषेध इति स्थितम् । आत्मप्रतिषेधं चेति आत्मेति हि पदं लोकसिद्धं पद्यते ह्यनेन कश्चिदर्थः येन न कश्चिदर्थः पद्यते तदपार्थकं भवितुमर्हति । किमसतः सता साधर्म्यमिति । तर्हि भवतां सिद्धान्ते सर्वोपाख्यारहितमसंत्प्रमेयमपीति भावः । अथ शरीरादेरात्मत्वं कल्पितं निषिध्यते शरीरादयो नात्मान इति तत्राह । आत्मसामान्यं चेति । अथ शरीरादीति । अहङ्कारस्तावत्परमार्थतः शरीरादिविषयः स्थूलोऽहं गोरोऽहमिति प्रत्ययात । तमिममात्मेति कल्पयित्वा विपर्यस्यति तदनुरूपं व्यपदिशति व्यवहरति च । सोऽयं विपर्ययः प्रतिषिध्यते नास्त्यात्मेति । निराकरोति । एवं शरीरादीति । ( ३३८ । १ ) न ह्यहङ्कारसमारोपविषयसत्त्वमनभ्युपगच्छतः समारोप उपपद्यते तस्मात्तत्प्रतिषेधतो व्याघात इत्यर्थः । चतुर्णामुपादानरूपत्वात् तमस इति । रूपरसगन्धस्पर्शाश्चत्वारो घटादिरूपेण परिणतास्तेषामुपादानरूपं न भ इति उपादीयतैत्युपादानम् । उपादेयरूपत्वादिति क्व चित्पाठःसतु सुसमः । सोऽयं वात्सीपुत्राणां वैभाषिकाणां सिद्धान्तः तेन विरोध इत्यर्थः । सुगममन्यत् । अथायं भावप्रतिषेध इति । (३३९।१६) न जन्मात्रप्रतिषेधोऽपि तु आत्मानो भावः सत्ता प्रतिषिध्यत इत्यर्थः । स्वतन्त्रस्य धर्मस्य समवायादन्यस्यादर्शनादिति । निकायो देवमनुष्यतिर्यगादीनामनौत्तराधर्येणावस्थितः संघातः तद्विशिष्टाभिरित्यर्थः । कार्यं कारणं वेति । ( ३४० । १४ ) यदि विषाणमवयवस्तदा कारणं यदि तु केशनखादितुल्यत्वेनानारम्भकत्वान्नावयवस्तदा कार्यं तस्मात्तत्प्रभवतीति । उक्तमप्यर्थं पुनर्विकल्पयन् पर्यनुयोगार्थमाह । इदं शशविषाणं नास्तीति ब्रुवाण इति । सामान्यप्रतिषेधो विषाणसम्बन्धमात्रप्रतिषेध इति । विशेषप्रतिषेधः कार्यकारणभावलक्षणसम्बन्धप्रतिषेध इति । विषयस्वभावभेदानुविधायीति । अहमिति विज्ञानं मानसं विषथस्यात्मनो यः स्वभावभेदः कर्तृत्वभोक्तृलक्षणो जानेऽहं भुञ्जैत्यादिस्तदनुविधायि । एतदुक्तं भवति न केवलमात्मस्वरूपमात्मज्ञानस्य विषयस्तथा सति परसमवेतक्रिया फलशालित्वाभावेनात्मनः कर्मत्वाभावेनाकर्मतया तद्व्याप्यज्ञानस्यापि निवृत्तिप्रसङ्गात् । यदा तु धर्मवदात्मविषयं ज्ञानं भवति तदा धर्माणां परसमवेतकियाफलशालितया तद्व्याप्तस्य ज्ञानस्यापि निवृत्तिरिति । जानातिश्चात्मधर्मकर्मा आत्मानमपि गोचरयतीति सूक्तं विषयस्वभावभेदानुविधायीति । अहङ्कारालम्बनेति । ( ३४१ । १६) आलम्ब्यते अनेनेत्यालब्नं ज्ञानमहङ्कारेण च विषयिणा विषयमुपलयति । देशयति । ननु भवत्यहं गौर इति । परिहरति न भवतीति ब्रूम इति । न व्यपदेशमात्रं देहाद्यव्यतिरिक्तात्मसद्भावसाधनमस्माभिरुक्तं येनानैकान्तिकं भवेत् । अपि त्वनुभवः । स च न शरीरादिष्विदमो विषयेष्वस्ति । अपि त्संभिन्नेदंविषयोऽहंप्रत्ययः शरीरादयस्तु मतुब्लोपादभेदोपचाराद्वाऽहमा विषयीक्रियन्ते । ममात्मेति तु व्यपदेशमात्रं न पुनः शरीरादिष्विव मकारस्तत्र मुख्यो भेदेनाप्रतिभासनात् । राहोः शिर इतिवत्तु ममकार आत्मनि द्रष्टव्यः । अत एवाह । ममप्रत्ययेति । (३४२।२) न पुनर्ममकारमात्रं तस्मात्सर्वं रमणीयम् । विरुद्धा प्रतिपत्तिर्विप्रतिपत्तिर्बाधितेति यांवत् । कः साधनार्थ इति । कः साधनशब्दस्यार्थः । अथानुपलब्धिरपि नास्तीति । भावरूपो धर्मोऽसति विरुध्यते नासद्रूप उभयोः समानशीलत्वादित्यर्थः । निराकरोति । कः साधनार्थोऽनुपलब्धेरिति । असत्यास्तुच्छाया अनुपलब्धेः कः साधनत्वरूपोऽर्थ इत्यर्थः । शङ्कते । अथ कल्पितस्येति । (३४३) नापलब्धिस्तुच्छा किं तु तत्त्वान्तरं सत् सा तु कल्पिताश्रयतया नाश्रयासिद्धेत्यर्थः । एतद्विकल्प्य निराकरोति । कथं कल्पितस्येति । न हि तात्त्विक्यनुपलब्धिः परमार्थसदाश्रया कल्पितसत्त्वस्य धर्मिणो धर्मो भवितुमर्हतीत्यर्थः । द्वितीयं कल्पमाशङ्कते । अथासत्त्वेनेति । निराकरोति । सिध्यत्यनुपलब्धिरिति । असत्त्वेन कल्पितस्पय पारमार्थिकं सत्त्वमनुमन्तव्यम् । असत्यसत्त्वकल्पनाया अयोगात् तथा च भावाश्रयानुपलब्धिस्तात्विकी सिध्यत्येव । यदर्थं त्वसौ तदेव पारमार्थिकमसत्त्वमात्मनो न सिध्यति असत्त्वस्य काल्पनिकत्वाभ्युपगमाद्भवद्भिरित्यर्थः । अपि चायमसत्वेन सन्तमात्मानं कल्पयित्वाऽत्यन्तासत्वमनुपलब्धेरस्य साधयितुमध्यवसितः । तच्चास्य सधर्मेणानुपलब्ध्या न सिध्यति । न जातु स्थाणुधर्मेण कल्पितेन पुरुषे स्थाणुत्त्वं पारमार्थिकं शक्यं साधयितुमित्याह । किमर्थं चायमात्मेति । रूपादिशब्देभ्योऽन्यत्वे सतीति । यदि हि पदत्वादित्युच्यते रूपादिशब्दैरनैकान्तिकं स्यादत उक्तम् । रूपादिशब्देभ्योऽन्यत्वे सतीति । यद्येकपदत्वादित्युच्येत रूपादिशब्दैरनैकान्तिकं स्यादत उक्तं रूपादिशब्देभ्योऽन्यत्वेसतीति । तथाऽपि रूपविज्ञानवेदनासंज्ञासंस्कारा इत्ययं शब्दो रूपादिवाचको यः शब्दो रूपं वेदना संज्ञा विज्ञानमित्यादिस्ततोऽन्योऽसमस्तादन्यः समस्त इति तेनानैकान्तिकत्वमत उक्तमेकेति । तेन रूपादिवाचकैकपदव्यतिरिक्तं यदेकपदं तद्रूपादिव्यतिरिक्तस्य वाचकं यथा घटादिपदं तथा चात्मपदं तस्मात्तदपि तथेति । एतेनेति । आत्मशब्दसाध्यत्वेनैवासंभिन्नेदंप्रत्ययोऽहंप्रत्ययो व्याख्यातः । शङ्कते असिद्ध इति । घट इति रूपादय एवैकोदकाहरणावच्छिन्ना उच्यन्ते । न तु रूपाद्यतिरिक्तो घटो नाम कश्चिदस्तीत्यर्थः । निराकरोति । अत्रोक्तमिति । उपादेयरूपत्वात्तमस इति । यथा दाय इति देयमुच्यते एवमुपादायेत्यनेनोपादेयमिति । सविषयत्वं सद्विषयत्वं सिद्धान्तिनोक्तमिति मन्वानश्चोदयति तमः शब्दस्य सविषयत्व इति । यद्यप्यभावविषयत्वेऽपि न निर्विषयत्वं तथाऽपि देशकाभिमानमनुविदधानः परिहरति न सूत्रार्थे पुनर्दृष्टान्तो नास्तीति । (३४४।१०) पूर्वमात्मानुपकारकत्वे साध्ये दृष्टान्ताभाव उक्तः पुनरिहोच्यैत्यर्थः । देशयति । अथात्मशब्द इति । यो योवर्णात्मकः ससर्वोऽनित्यविषयो यथा घटादिशब्दः तथा चानित्यत्वे सति तद्विज्ञानमेव स्यान्नात्मेति फलत आत्मप्रतिषेध इत्यर्थः । एतदपि दूषयति । तथापीति । नित्यशब्दस्तावन्नित्यमाचष्टे अन्यथा न तत्प्रतिषेध इत्यर्थः । शङ्कते अथेति । सिद्धसाधननिवृत्त्यर्थं शरीरादिव्यतिरिक्तविषय इति । निराकरोति तथापीति । रूपादिस्कन्धपञ्चकातिरिक्तं नास्तीति भवतां राद्धान्तस्तदतिरिक्ताभ्युपगमेन विरुध्यतैत्यर्थः । यदि विवक्षितार्थव्यतिरेकेणेति । (३४५।८) वादिनो हि शरीरेन्द्रियबुद्धिवेदनासंघातस्पय पारार्थ्यं विवक्षितं परार्थाश्चक्षुरादय इति ब्रुवतोपव न संघातपरार्थत्वं तच्चेह पक्षधर्मताबलात्सिध्यदस्याभिप्रायेण व्याप्यते न तु साक्षाद्विवक्षितं तद्वदिहाभिप्रायव्याप्तं विवक्षितमारोप्य यद्यन्वयविरोधौ देश्येते ततः सर्वानुमानोच्छेदः एतच्चेश्वरसिद्धौ निपुणतरमुपपादयिष्यते । अथानुमानेन बाध्यतैति । संघातत्वानुमानमेवाभिप्रेतविपरीतसंघातपरार्थत्वपक्षो व्यवस्थालक्षणानिष्टप्रसङ्गरूपतर्कसहायमस्य बाधकं प्राणादिसत्त्वानुमानं चेति । एकदेशेन च एकदेशान्तराणामिति ब्रुवतो वार्तिककारस्य गृहप्रप्रासादायतो नावयविनो विजातीयानामनारम्भकत्वादित्यभिमतम् । अकार्यकारणभूतानां चेति । (३४७।१९) यथा हि कालाक्षीं गामीक्षितवतः स्वस्तिमत्यां गवि भवति प्रतिसंधानं न चैतयोरस्ति कार्यकारणभाव इत्यर्थः । स्वं चैतन्यं त्वात्मनः स्वातन्त्र्ये सत्त्यव्यवस्थानाच् चक्षुरादिवदिति हेतुः प्रमाणसंशयविपर्ययस्मृतिषु योऽनुस्यूत एक उपलभ्यते स चेतनः स्वातन्त्र्ये सत्यव्यवस्थानात् । यस्त्वचेतनो नासौ स्वातन्त्र्ये सत्यवस्थितो यथा चक्षुरादिरिति व्यतिरकी हेतुः । यद्यव्यवस्थानादित्येतावन्मात्रमुच्येत ततो मनसानैकान्तिकं स्यादत उक्तं स्वातन्त्र्ये सतीति । अथ वा कृतमव्यवस्थानेन स्वातन्त्र्यमेव केवलमस्तु चैतन्यसाधनमित्याह । नाचेतन आत्मेति । प्रमाणंसशयविपर्ययस्मृतिष्वनुस्यूतमनुभूतम् उपलक्षयति । निराकृतमप्यर्थं प्रकारान्तरेण पुनरुपन्यस्य निराकरोति । पृथिव्यादिनित्यत्वसाधन इति । भाष्यं भिन्ननिमित्ताविति । भिन्नमिन्द्रियं निमित्तं ययोः, अनन्तकर्तृकौआत्मैककर्तृकौ, समानविषयौद्रव्यमेकं विषय इत्यर्थः ॥ १ ॥

न्या.सू._३,१.२: न विषयव्यवस्थानात् ॥

पूर्वपक्षसूत्रम् न वित् (सू. २) ॥ यद्भावाभावानुविधायिनौ ज्ञानभावाभावौ तच्चेतनम् ।

इन्द्रियभावाभावानुविधायिनौ ताविति तदेव चेतनमिति भावः ।
सिद्धान्तभाष्यं संदिग्धत्वादहेतुः अनन्यथासिद्धावन्वयव्यतिरेकौ कारणत्वामात्रे प्रमाणं न तु कर्ता न चेतनश्चेतनं करणमित्यत्रेत्यर्थः ॥ २ ॥

न्या.सू._३,१.३: तद्व्यवस्थानादेवात्मसद्भावादप्रतिषेधः ॥

विषयव्यवस्थानं च विरुद्धमिन्द्रियादीनामचैतन्यस्य साधनादित्याह ।
यच्चोक्तमिति ।
तद्व्यधः (सू.३) ॥

सर्वज्ञ इत्यस्य विवरणं सर्वविषयग्राही सर्वेषामिन्द्रियाणां च ये विषयास्तद्ग्राही इन्द्रियान्तराणि प्रमाणान्तराणि च पुनर्व्यवस्थितविषयाणि तेनार्वागपि सर्वज्ञ इति सिद्धम् । तत्रेदमभिज्ञानमिति । असाधारणं चिन्हमभिज्ञानमुच्यते तच्चाप्रत्याख्येयमनुभवसिद्धत्वात् । चेतनवृत्तमभिज्ञानमप्रत्याख्येयमुदाह्रियत इति योजना । अनियतपर्यायमनियतक्रममित्यर्थः । अनेकविषयमर्थजातमिति । अनेकपदार्थो विषयो यस्यार्थजातस्य तत्तथोक्तम् । क्व चित्पाठोऽनेकविषयमर्थजातमिति स सुगम

एव ।
आकृतिमात्रं त्विति ।
सामान्यमात्रमित्यर्थः ।
तदेतच्चेतनवृत्तं देहादिभ्यो व्यावर्तमानं तदतिरिक्तं चेतनं साधयतीति स्थितं नेच्छाद्याधारत्वं देहादीनामिति ॥ ३ ॥

न्या.सू._३,१.४: शरीरदाहे पातकाभावात् ॥

सूत्रान्तरमवतारयति भाष्यकारः इतश्च देहादिव्यतिरिक्त आत्मा न देहादिसंघातमात्रमिति ।
शरीरवात् (सू. ४) ॥

प्राणातिपाते पातकाभावप्रसङ्गादिति । अयं यद्यपि भूतचैतनिकानां नानिष्टप्रसङ्गस्तथाऽपि शाक्यान्प्रति द्रष्टव्यः ते हि प्राणातिपातकृतं पातकमिच्छन्ति । एवं च न बुद्धिरात्मेति वक्तव्ये देहादिग्रहणं विचित्राभिसंधित्वात्पुंसां, यदि कश्चिद्भूतचैतनिकः प्राणातिपातकृतं पातकं नेच्छेत्तं प्रति दूषणं भवत्वेवमर्थमिति मन्तव्यम् । वार्तिकम् । अकृतकृताभ्यागमनाशदोष इति । (३५०।१७) येनाकृतं कर्म प्राणातिपातः तस्य पातकाभ्यागमो येन च कृतं तस्य नाश इत्यर्थः । शास्त्रचोदितं फलमनुष्ठातरीत्ययमुत्सर्गो यत्र पुनः शात्रमन्यस्य फलमाह यथा श्राद्धे वैश्वानरीयेष्ट्यादौ तत्र भवतु पुत्रकृतस्य श्राद्धस्य पितृगामि फलं पितृकृताया वा जातेष्टेः पुत्रगामि फलमिति । भावना स्मृतिहेतुः संस्कारः । यत्कायेति । (३५१।२) येन कायेनोपलक्षितः कश्चिच्चित्सन्तानः कायान्तरवर्त्यपि फलं भुङ्क्तित्यर्थः । एकनिमित्तानां प्रत्ययानां प्रतिसंधानादिति । उक्तमेतद् यथा नर्तकीभ्रूलताभङ्गे एकस्मिन् बहूनां प्रतिसंधानमिति । सर्वावस्थोपलब्धेरिति । (३५२।७) सर्वावस्थासु बीजावयवानामुपलब्धेः परमाण्ववस्थत्वे त्वनुपलम्भः स्यात् । तस्मान्न बीजावयवाः पच्यमाना अङ्कुरोत्पत्तौ परमाण्ववस्था भवन्ति । अपि त्ववयविन एव पच्यन्तैत्यर्थः । परमाण्ववस्था बीजावयवा न बीजत्वादिजातिविशेषवन्तमारब्धुमर्हन्तीत्युक्तं सिद्धान्तिनेति मत्वा दर्शयति । यदि तर्हीति । परिहरति नानेनैवोक्तोत्तरत्वादिति । प्रतिसंधानाय बीजत्वजातीयानवयवान् लक्षितुमस्माभिर्बीजावयवानां परमाण्वन्तो विभागो निषिद्धः कल्पादौ त्वारम्भे परमाणूनां न प्रतिसंधानमस्ति न हि पूर्वसर्गे ये बीजमारेभिरेव सांप्रतमपि त एवारभन्ते नान्य इति प्रतिसन्धाननियमः अपि त्वन्येभ्योऽपि भवन्तीति भावः । पैलुकण्ठःशङ्कते । आमध्यात्पाकानुपपत्तिरिति चेत् । परिहरति नाप्रतिबन्धादिति । सान्तराण्येवावयविद्रव्याणीत्यर्थः । अथायमवयवानुप्रवेशो द्रव्यस्य विनाशकः कस्मान्न भवतीत्यत आह । यदि चायमवयवानुप्रवेश इति । ( ३५३ । ६ ) भाजनगतानामपां भाजनविनाशेऽवस्थानमेव न स्यात् । सान्तरत्वे तु तावत्य एवापो भाजने स्पन्दन्ते यावतीभिर्बहिः शीतस्पर्शोपलब्धिर्भवति मात्रया च तत्र कालपरिपाकवशादनवस्थानमपि विनाशे तु सहसानवस्थानमपां भाजनगतानां भवेदित्यर्थः । व्यवहिते द्रव्ये स्फटिकभाजने न तुल्योपलब्धिरिति शङ्कते । सुखी स्यामिति तत्क्रियेति चेत् । यद्यपि विशरारवः स्कन्धास्तथाऽप्यनाद्यविद्यावासनावशोऽयमेकमहङ्कारास्पदं सत्त्वं मित्यभिमन्यमानः सुखी भवेयं दुःखी मा भूवमिति तृष्णक् प्रवर्त्ततैत्यर्थः । निराकरोति तन्नाननुभूतत्वादिति । यथा च क्षणिकानां विज्ञानानां परस्परवार्त्तानाभिज्ञतया न प्रतिसंधानक्षमत्वं तथोपपादितमस्माभिरात्मलक्षणावसर इति । नानागतानामनुत्पत्तेः सत्त्वादिति (३५४।१७) न च ब्रह्मचर्यादिपरिपाकसहितेन ज्ञानक्षणेनासमर्थो ज्ञानक्षणो जन्यते स च न ज्ञानान्तरं प्रसूतैत्यनागतानुत्पत्तिरसमर्थस्य च क्षणस्य स्वभावतो विनाश इति युक्तम् ।

असमर्थक्षणोत्पादस्यैव सहकारिसापेक्षत्वानपेक्षत्वानुपपत्तेः ।
यथा चैतत्तथा क्षणभङ्गभङ्गावसरे उपपादयिश्यते ॥ ४ ॥

न्या.सू._३,१.५: तदभावः सात्मकप्रदाहेपि तन्नित्यत्वात् ॥

वैनाशिको नैयायिकपक्षवत्सांख्यपक्षेऽपि हिंसातत्फलानुपपत्तिमापादयितुं हिंसां तत्फलसंभवं पूर्वपक्षयति । इयं तु हिंसेति (३५५।७) व्यक्तेरिति । सदेव कार्यं कारणेन व्यज्यते न त्वसत् क्रियतैत्यर्थः । परिहरति नेति । त्रिविधोऽप्ययं धर्मलक्षणावस्थापरिणामो नित्यात् धर्मिणो न भिद्यते इति परिणामानित्यत्वं धर्मिनित्यत्वेन विरुध्यते । अविरोधाय वा धर्मिणोऽनित्यत्वाभ्युपगमे वैनाशिकपक्षोक्तदोषप्रसङ्ग इत्यर्थः । गुण इति । ऋजुत्ववक्रत्वे खलु गुणौ प्रचयसंयोगविभागविशेषौ सत्येव द्रव्यारम्भकसंयोगे उदयव्ययवन्तावनुभूयेते इति तदेतद् नैयायिकपक्षदूषणं सांख्यपक्षेऽप्थापाद्य नैयायिकं पृच्छति अथात्मनो नित्यस्येति । (३५६।१०) नैयायिक आह । सुख दुःखे इति । नित्यादात्मनो व्यतिरिक्ताभ्यां पुण्यपापाभ्यामात्मधर्माभ्यामनित्याभ्यामात्मधर्मावेव सुखदुःखे जन्येते इत्यर्थः । एतदुक्तं भवति । नित्यस्यानित्यधर्माधानमेवोपकारो न तु नित्यस्वरूपकरणं येन तदनित्यं स्यात् । धर्मश्च धर्मिणो भिन्नो न तु धर्मिस्वभावः । यथा च भेदाविशेषे सत्यपि वह्निधूमयोरेव कार्यकारणभावो न वह्निक्रमेलकयोर्वस्तुस्वभावनियमात् । एवं भेदाविशेषेऽपि आत्मनः पुण्यपापयोरेव धर्मधर्मिभावो नात्माकाशयोः पुण्याकाशयोर्वेति लेशमात्रमन्नोक्तं विस्तरस्तु क्षणभङ्भङ्गे भविष्यतीति । नानेकान्तादिति । वाद्यभिमतपरमाणुनित्यत्वग्राहिप्रमाणदार्ढ्येनानैकान्तिकत्वमुक्तं न तु बौद्धराद्धान्ते नित्यः परमाणुरिति । अत एवापरितोषेणान्यथासिद्धिमाह । चर्मणश्चानित्यत्वमिति । तद्वतां चोपलादीनामवस्थानादिति । नासति विनाशप्रत्यये विनाशेऽस्ति किं चित्प्रमाणम् । उपलादिषु चावयवविभागविनाशाभ्यां प्राग् न विनाशोऽनुभूयते क्षणभङ्गभङ्गश्च निषेत्स्यत इति भावः । आरब्धकार्याणां द्रव्यान्तरानारम्भिका इति । (३५७।१५) अवयव्यारम्भकात्संयोगाद्भेद उक्तः । विक्रियायां च दृष्टान्ताभाव इति । धर्मोत्पादमन्तरेणाविनश्यतो धर्मोत्पादमन्तरेणाविनश्यतो धर्मिस्वरूपस्य विक्रियायामित्यर्थः । शङ्कते यद्येवमिति ।

यद्येवंभूतोप विकारः यादृशो घटादीनां श्यामतानिवृत्तौ लोहितोत्पादे विकारस्तादृशो नात्मन इति यदि शङ्कतैत्यर्थः ।
निराकरोति ।
आत्मन्यपीति ।
न बाह्येन्द्रियग्राह्य एव विकारोऽपि तु धर्मान्तरोत्पादमात्रं तच्चात्मन्यप्यस्तीति ॥ ५ ॥

न्या.सू._३,१.६: न कार्याश्रयकर्तृवधात् ॥

वैकल्यं वा प्रमापणं वेति । ( ३५८ । ८ ) यथा शरीरमुपध्नन् हिनस्त्येवं चक्षुराद्युत्याटयन् हिनस्त्येवेति । पृच्छति कुत एतदिति । स्वरूपतो हिंसासम्भवे भाक्ती हिंसा न युक्तेति वैनाशिकस्नयाभिसन्धिः । उत्तरं हिंसाफलोपभोगस्येति । वैनाशिकस्यापि विशरारूणां भावानां न स्वरूपहिंसा कारणजन्येति विलक्षणोत्पादो हिंसेति वक्तव्यं तत्र कारणव्यापारसम्भवात् तथा च तत्रापि हिंसाभाक्तीति भाक्तत्वस्योभयत्राप्यविशेषाद् यस्मिन्पक्षे कृतहानमकृताभ्यागमदोषो नास्ति स पक्षोऽभ्युपेतव्यः । स च नित्यत्त्वपक्षः तस्मात्पारिशेष्यात्तत्सिद्धिरिति । ज्ञानचिकीर्षाप्रयत्नानां समवायः कर्तृत्वमिति । ( ३५९ । ३ ) उपायतद्व्यपापाराणामनभिज्ञो हि चिकीर्षन्नपि न कर्ता एवमभिज्ञोऽप्पयचिकीर्षन्

तथा चिकीर्षन्नप्यलसतया अप्रयतमानो न कर्त्तेति ।
सुखदुःखसंवित्समवाय इति ।
स्वसुखदुःखेति द्रष्टव्यम् ।
अस्ति हि परकीयसुखदुःखसाक्षात्कारो योगिनां न चैते भोगिनः ॥ ६ ॥

न्या.सू._३,१.७: सव्यदृष्टस्येतरेण प्रत्यभिज्ञानात् ॥

इतश्च देहादिव्यतिरिक्त आत्मा कुतः ।
सव्यत् (सू. ७) ॥

तत्र मानसमनुव्यवसायलक्षणं प्रत्यभिज्ञानं भाष्यकारो दर्शयति ।

तमेवैतर्हीति ।
व्यवसायं बाह्येन्र्दियजं प्रत्यभिज्ञानमाह ।
स एवायमर्थ इति ।
अस्यैवपव चानुव्यवसायः पूर्वः ॥ ७ ॥

न्या.सू._३,१.८: नैकस्मिन्नासास्थिव्यवहिते द्वित्वाभिमानात् ॥

तदेतच्चक्षुरैक्येनाक्षिपति ।
नैकत् (सू. ८) ॥

न्या.सू._३,१.९: एकविनाशे द्वितीयाविनाशाद् नैकत्वम् ॥

समाधत्ते ।
एकत्वम् (सू. ९) ॥

विनाशाविनाशलक्षणविरुद्धधर्माध्यासान्नानात्वमित्यर्थः ॥ ९ ॥

न्या.सू._३,१.१०: अवयवनाशेऽप्य् अवयव्युपलब्धेरहेतुः ॥

आक्षेप्ताह ।
अव तुः (सू. १०) ॥

न्या.सू._३,१.११: दृष्टान्तविरोधादप्रतिषेधः ॥

समाधाता आह ।
दृष्टाधः (सू. ११) ॥

तृतीयं व्याख्यानमाह । अथ वा एकविनाशस्यानियमादिति । एकत्वे चक्षुषो विनाशनियमो न स्यात् । सव्यस्यैव चक्षुषो न दक्षिणस्येति । एकत्वात्सव्यविनाशे दक्षिणस्यापि नाशप्रसङ्गात् । दृश्यते चायं नियमः । तस्माद् द्वावर्थौ पृथगावरणौ पृथगुपधातौ चेति । अपि च यदि चक्षुरेकं सव्येन नासावंशेनावपीडितं ततोङ्गुल्याऽवपीडितं यथैकं भिन्नभिवावभासयति । अवपीडनेनिवर्तमाने भिन्नावभासौ तावर्थौ संदधातीति । तथा नासावंशावपीडितं भिन्नमिव दर्शयेत् तन्निवृत्तौ सन्दध्यादिवेत्याह । अवपीडवनाच्चैकस्य चक्षुष इति । रश्मिभेदाद्विषयसन्निकर्षस्य भेद इत्यर्थः । अङ्गुल्यवपीडितेन चक्षुषां दृष्टान्तेन विरोधादित्यर्थः । एकविनाशेनेतरविनाशो वा दृष्टान्तः । तेन विरोधादिति।व स खलु दृश्यमानश्चैकान्तावधारणादतश्चेति दृष्टान्त इति सूत्रार्थः । तदेतत्प्रकरणं वार्त्तिककारो दूषयति । सिद्धत्वादनारम्भ इति । युक्तोऽन्यः समुच्चयः शास्त्रे । अयमभिसन्धिः । काणस्तथा न पश्यति पिहितैकलोचनो वा यथाऽविकलेन्द्रियः । तत्र यदि सव्यदक्षिणाधिष्ठानभेदभिन्नं चक्षुर्न्न चैतद् द्वयमणुना मनसा युगपदधिष्ठातुं शक्यमित्यन्यतरदधिष्ठेयम् । तथा च सर्व एवैकैकेन पक्षुषा पश्यतीति पिहितैकलोचनेनातुल्योपलम्भः अविकलाक्षस्य स्यात् । न चैवमस्ति एकत्वे तु तदुभाभ्यामधिष्ठानाभ्यां विनिर्यत्क्व चिदपि मनसाऽधिष्ठितमेवेत्यविकलाक्षस्य न विकलाक्षवदुपलम्भप्रसङ्गः । तस्मादेकमनेकाधिष्ठानं चक्षुरिति । प्रकरणविरोधश्चेन्द्रियपञ्चत्वादिति (३६०) ।

न चैतदेकस्मिन् शरीरे जात्यभिप्रायं प्राणादीनां व्यक्तीनां चतसृणां व्यक्त्यन्तरेण समभिव्याहारोपपत्तेर्न तु जात्या न हि भवति ब्राह्मणयुधिष्ठिरावागताविति किं तु ब्राह्मणराजन्याविति वा वशिष्ठयुधिष्ठिरावितिवा ।
विनष्टेऽप्येकस्मिन्नधिष्ठाने योऽविनष्टोऽवशिष्यते तेन प्रत्ययमात्रं कारणस्येव भवति ।
न च नासावंशावपीडितेन सर्वेषां सर्वदा सर्वत्र द्विचन्द्रवद्विभ्रमप्रसङ्गः ।
आगन्तुकामवपीडनं भ्रमहेतुर्नौत्पत्तिकमिति कार्यदर्शनात्कल्प्यते ॥ ११ ॥

न्या.सू._३,१.१२: इन्द्रियान्तरविकारात् ॥

तदेवं प्रतिसन्धानद्वारेणात्मनि प्रत्यक्षं प्रमाणयित्वा अनुमानमिदानीं प्रमाणयति । अनुमीयते चायमिति । ( ३६१ । १५ ) विप्रतिपन्नं हि प्रति यतिसन्धानमुक्तं परमार्थतस्तु अनुभवानुसारसार्गोऽयमिति मन्तव्यम् ॥

इन्द्रित् (सू. १२) ॥

कस्य चिदम्लचिरबिल्वादेरनुभूतस्य तेन सहचरितं रूपं वा गन्धं वाऽनुभवति ।
अथ तत्सहचरितं रसमनुस्मरति स्मृत्वा चेच्छति इच्छातो रसनेन्द्रियविकारो दन्तोदकसंप्लवलक्षणः प्रवर्तते तद्दर्शनाच्चास्येच्छानुमीयते इच्छया च स्मृतिः सेयं स्मृतिरसत्यात्मनि सर्वेन्द्रियविषयवेदिनि न भवितुमर्हतीति ॥ १२ ॥

न्या.सू._३,१.१३: न स्मृतेः स्मर्तव्यविषयत्वात् ॥

अस्याक्षेपसूत्रम् ।
न स्मृत् (सू. १३) ॥ स्मृतिरात्मानं कारणत्वेनावगमपेत्

विषयत्वेच वा । न तावत्कारणत्वेन तस्याः संस्कारकारणत्वात् । न विषयत्वेन स्मर्तव्यविषयत्वात् । स्मृताच्च तस्मादिन्द्रियान्तरविकारोत्पत्तिरित्यर्थः ॥ १३ ॥

न्या.सू._३,१.१४: तदात्मगुणसद्भावादप्रतिषेधः ॥

समाधत्तेः तदाधः (सू. १४) ॥

असत्यात्मनि स्मृत्यनुत्पत्तिन्दर्शयित्वा स्मर्तव्यार्थविषयैव स्मृतिर्नात्मविषयेति पूर्वपक्षिणोऽवथारणं खण्डयति ।
अपरिसंख्यानाच्चस्मृतिविषयस्येति (सू. १५) ॥

मानसानुव्यवसायजनितसंस्कारकारणासु चतसृष्वपि स्मृतिषु नार्थमात्रं विषयोऽपि तु ज्ञानज्ञातृज्ञेयानि सर्व एव विषयाः चतुर्षु वाक्येषु एकत्र ज्ञानं क्रिया कारकान्निष्कृष्टा यथा अमुष्मिन् मम ज्ञानमभूदिति अगृह्यमाणोऽप्यर्थः स्मृतिसन्निधापनादमुष्मिन्नित्युच्यते कारकादनिष्कृष्टाप्येकत्र पूर्वापरीभूतभावनाप्रधाना ज्ञानक्रियागम्यते अज्ञासिषमहममुमर्थमिति । अन्यत्र तु ज्ञानभावने कारकादनिष्कृष्टे कतृप्रधाने यथा ज्ञातवानहममुमर्थमिति । अन्यत्र ज्ञानभावने कारकादनिष्कृष्टेकर्मप्रधाने यथाऽसावर्थो मया ज्ञात इति । समानार्थमिति । ज्ञानज्ञेयज्ञातृप्रकाशनं समानमित्यर्थः । एवं तावदगृह्यमाणेर्ऽथे स्मृतिः प्रदर्शिता । अत प्रत्यक्षेर्ऽथे स्मृतिः प्रदर्श्यते । अथ प्रत्यक्षेर्ऽथ इति । स्मृतिरिति प्रत्यभिज्ञानमाह स्मृतिच्छायावाहित्वात् । अद्राक्षमिति । पूर्वार्थमर्थदर्शनं परामृषपि तेनार्थदर्शनानुभवः कल्प्यतामनुभवकल्पना तु कुतस्त्येत्यत आह । न खल्वसविदिते स्वे दर्शने इति । अपि त्वर्थदर्शनं तद्दर्शनं च संविदिते एवेत्यर्थः । कुत एतदित्यत आह । एतदद्राक्षमिति । यस्मादनुभवपुरस्क्षरं यदत्राद्राक्षमिति भवति नूनं तत्रानुभवप्रथाऽप्यभूदिति कल्पनीयमित्यर्थः । इतोऽपि न शरीरगुणः स्मृतिः बाल्ये अनुभूतस्य वार्धके स्मरणात् । अन्यद्धि बालशरीरमन्यच्च वृद्धशरीरमिति । आस्तां तावत्प्रत्यभिज्ञातं, सादृश्यमपि दुर्विज्ञानम् । न च परमाणूनां चैतन्यं, ते हि प्रत्येकं वा चेतयेरन् मिलिता वा । पूर्वस्मिन् कल्पे अनेकचैतन्ये एकस्मिन् शरीरे नैकमित्यनियमो भवेत् । न हि नानाचेतनानामैकमत्यनियमो दृष्टः मिलितानां तु चैतन्ये परमाणूनामावापोद्वापभेदेन मेलकस्पय नानात्वात्स एवान्योपलब्धस्यान्येन स्मृत्यभावप्रसङ्गः । तस्मान्न शरीराधारा चेतनेति । परेषां कारिकां दूषयति वार्तिककारः । एतेन न तच्चक्षुषि नोरूप इति प्रत्युक्तम् । ( २६३ । ६ ) आत्मनः पारिशेष्यात्सिद्धेः स्मृत्याधारत्वव्युत्पादनेनेत्यर्थः । यत्राधिकरणे तज्ज्ञानं निष्ठितं भवेन्न तदधिकरणमस्ति न च नास्तीति व्याहतम् । स्यादेतद् नायं विशेषप्रतिषेधो न चक्षुषि विज्ञानं न रूप इति, किं तु ये चक्षुराद्याश्रयं विज्ञानं मन्यन्ते तन्मतं प्रतिषिध्यते । आधारवत्तं तु न प्रतिषिद्धमप्रसक्तत्वादित्यत आह । कस्य वेति । अपि चैषा कारिका आत्माभावविवक्षया प्रयुक्ता आत्मसत्त्वमेव प्रतिपादयन्तो विवक्षितविरुद्धेत्याह । अयं च विज्ञानस्येति ।

तदेवं भाष्यमतेनेन्द्रियान्तरविकारादिति सूत्रं व्याख्याय वार्तिककारः स्वमतेन व्याचष्टे ।
अथ वैकस्येति ।
उक्तमेव प्रतिसंधानं पुननिन्द्रियान्तरविकारद्वारेण दर्शयति सूत्रं यथा च प्रतिसंधानं देहेन्द्रियादिव्यतिरिक्तमात्मानं प्रतिपादयति तथाऽध स्तादेव विवृतमित्याह ।
उक्तन्यायमिति ॥ १२१५ ॥

न्या.सू._३,१.१५: नात्मप्रतिपत्तिहेतूनां मनसि संभवात् ॥

न्या.सू._३,१.१६: ज्ञातुर्ज्ञानसाधनोपपत्तेः संज्ञाभेदमात्रम् ॥

मतिः स्मृत्यनुमानादिज्ञानम् । यद्यपि चेदं प्रातिस्विकसंस्कारादिकारणकं तथाप्यवश्यमेतेनेन्द्रियजेन भवितव्यं ज्ञानत्वाद्रूपादिज्ञानवदिति, तच्चेन्द्रियमसति चक्षुरादौ भावान्मतेश्चक्षुराद्यतिरिक्तं मन इत्युच्यते ।

ननु भवतु करणान्तरं मनः तत्तु कथमिन्द्रियान्तरसहकारि कथं चाणुपरिमाणमित्यत आह ।
तच्च ज्ञानायौगपद्यलिङ्गमिति ॥ १५१६ ॥

न्या.सू._३,१.१७: नियमश्च निरनुमानः ॥

वार्तिकं यदि सर्वं विज्ञानं समाधनमुच्यते मनस्यपीति । ( ३६४ । १७ ) न च तत्र मन एव करणमात्मनि वृत्तिविरोधादिति तदन्यस्य करणत्वे तज्ज्ञानायापीन्द्रियान्तरमुपासनीयमित्यनवस्था, अनिन्द्रियजत्वे तु मतावपि संस्काराद्येव कारणमस्तीति कृतं मनसेति भावः । परिहरति ओमितीति । यथा कारणसत्तया कार्यं जनितं कारणं ज्ञायते एवं मनःसत्तया मनोलिङ्गज्ञानं जनितं मनो ज्ञापयति । तच्च लिङ्गजं मनोज्ञानं मनःसत्ताहेतुकम् । न च स्वात्मनि वृतिविरोधः न हि मनःसत्तायां मनःकरणं मनोज्ञाने वा मनोज्ञानं करणं येन स्वात्मनि वृत्तिविरोधः स्यात् । केवलं वा मनः स्वज्ञाने करणं येनैकत्र कर्मकरणत्वे स्याताम् । अपि तु मनोज्ञाने लिङ्गज्ञानसहितं मनः करणं तत्स्वरूपं तु लिङ्गज्ञानसाहित्यादिति न स्वात्मनि वृत्तिविरोधः । नाप्येकस्यव केवलस्य कर्मकरणभाव इति भावः । स्यादेतद् लिङ्गज्ञानसहितस्य मनसः करणत्वे मा भूदेकस्यैव कर्मकरणभावः स्वरूपेण कर्मत्वाद लिङ्गज्ञानसाहित्येन च करणत्वात् ।

यदा तु योगिना प्रत्यक्षेण मनो गृह्यते तदा कथमेकस्य कर्मकरणभाव इत्यत आह ।
यस्य तु मनः प्रत्यक्षमिति ॥ १७ ॥

न्या.सू._३,१.१८: पूर्वाभ्यस्तस्मृत्यनुबन्धाज्जातस्य हर्षभयशोकसंप्रतिपत्तेः ॥

शास्त्रार्थभूताभ्युदयनिःश्रेयसोपयोगिनं परलोकं परिचिक्षिषुः परीक्षाहेतु भूतं संशयमाह । किं पुनरयमिति । ( ३६५ । ८) अत्र वार्त्तिककारः संशयं दूषयन् प्रकरणान्तरारम्भमाक्षिपति । एतस्मिन्नर्थ इति । देहेन्द्रियबुद्धिवेदनाभ्यो व्यतिरिक्तत्वामात्मनो दर्शयता बाल्यकौमारयौवनवार्द्धकभेदेऽपि चैकात्मप्रतिसंधानमर्थादुपपादयता शरीरनाशादूर्ध्वमात्मसद्भावो दर्शितः । तावता च नः प्रयोजनं तत्किमवशिष्यते यत्र संशयोयत्कृते च प्रकरणोत्थानमित्यर्थः । समाधते । नानारभ्यमिति । सिद्धेऽपि देहादिव्यतिरेके बाल्यादिषु चानुगमे किमयमात्मा आ शरीरोत्पत्तेरा च प्रायणाद्यावद्देहसंतानभावी आहो खिदुपरतेऽपि देहादिसंतानेऽनुवर्तत एवेत्येष विमर्षोऽद्यापि न निराकृत इति तन्निरासायेदं प्रकरणमारभ्यत इत्यर्थः । भाष्यं देहभेदादिति । ल्यब्लोपे पञ्चमी । बाल्यकौमारयौवनवार्धकदेहभेदमभिसमीक्ष्नय प्रतिसंधानादस्यावस्थानं सिद्धमित्यर्थः । वार्त्तिकम् । अभिप्रेतविषयप्रार्थनप्राप्ताविति । अभिप्रेतविषयप्राप्ताविति वक्तव्ये प्रार्थनाग्रहणम् इष्यमाणतमत्वं सूचयति । नेष्यमाणप्राप्तौ इर्षोऽपि त्विष्यमाणतमप्राप्तौ तेनाभिप्रेतविषयस्य प्रार्थनायां सत्यां प्राप्तावित्यर्थः । हानानशक्यतेति । (३६६।१) विषयेण विषयिणीं बुद्धिमुपलक्षयति । अनिष्टो विषयो मरणादिस्तस्य साधनमहिव्नयाघ्रादिस्तस्योपनिपातः सन्निधानं तस्मिन्सति व्याघ्रादिजिहासोरशक्यहानमेतदिति बुद्धिर्भयं सा हि कस्यापि जनयति । इष्टविषयवियोगे सति तत्प्राप्त्यशक्यप्रार्थनो शोकः । तस्यैव पुरुषस्य यः प्राप्त्यशक्यः तत्र प्रार्थना शोकः य इष्टो विषयः प्राप्तुमशक्यस्तत्र प्रार्थना इदं मे उपपद्यतां भवत्विति इत्थंभूता चेयं प्रार्थपना न स्वरूपेण शोक इत्यत आह । इष्टविषयवियोगे सतीति । अनर्हणेनेति यावत् । तदयमर्थः । इष्टवियोगे तत्प्राप्त्यशक्यताज्ञानं शोक इति । अनर्हणेन प्राप्त्यशक्यताज्ञानं शोचतः सूचयति । प्रत्यक्षबुद्धिनिरोध इति । प्रत्यक्षग्रहणेन ग्रहणमात्रमुपलक्षयति । तदनुगृहीतः स्मृत्यनुगृहीतः । तदनुसंधानविषय इति । अनुसंधीयतैत्यनुसंधानं स्मृते यदनुसंधेयं तद्विषय इत्यर्थः ।

तथाऽपि स्मृतिप्रत्यभिज्ञयोरविशेष इत्यत आह ।
वर्तमानस्य विषयस्य दृश्यस्य तद्भावविषय इति ।
दृष्टो हि निरालम्बनो बालः स्खलन्मातुरङ्कात्पतनस्यानिष्टसाधनत्वमनुस्मृत्येदं च पतनमिति परामृष्य तस्यानिष्टसाधनत्वमनुप्राय रुदन्मातुर्मङ्गल्यभुरः सूत्रं विक्षिप्य हस्तौ वेपमान उपाददानः तस्यानया चेष्टवया भयशोकावनुमीयेते इत्यर्थः ॥ १८ ॥

न्या.सू._३,१.१९: पद्मादिषु प्रबोधसंमीलनविकारवत्तद्विकारः ॥

दृष्टेन विशेषितत्वादिति । ( ३६७ । १४ ) दृष्टशब्देन विशेषितो व्यवस्थापितः कार्यकारणभावो न शक्यो व्युदसितुमित्यर्थः । अथात्मन उत्पत्तिनिरोधानुमानमिति । यद्विकारि तदुत्पत्तिनिरोधधर्मकं दृष्टं यथा पद्मं तथा चात्मा तस्मादनित्य इत्यर्थः । यदि धर्मोपजननमात्रं विकारः स आकाशादिष्वपीत्यनेकान्तः धर्म्मधर्मिणोश्च भेदान्न धर्मोपजननापायौ धर्मिणि युज्येते इति नानित्यत्वानुमानं विकारात् ।

अस्माकं स्वात्मनित्यत्वेऽनुमानमस्तीत्याशयेन नित्यत्वानुमान माह ।
तन्न युक्तमिति ।
सर्वदामूर्तत्वादिति ।
घटादयोऽप्येकस्मिन् क्षणेभवन्त्यमूर्ताः परिमाणविशेषो हि मूर्त्तिः न च द्रव्यसमानकालोत्पत्तिर्गुणानामिति तन्निवृत्त्यर्थ सर्वदेत्युक्तम् ॥ १९ ॥

न्या.सू._३,१.२०: नोष्णशीतवर्षकालनिमित्तत्वात् पञ्चात्मकविकाराणाम् ॥

पञ्चात्मकानां पद्मादीनांव विकाराः पञ्चात्मकविकारा इति ॥ २० ॥

न्या.सू._३,१.२१: प्रेत्याहाराभ्यासकृतात् स्तन्याभिलाषात् ॥

सामान्यतोऽधिगतस्य विशेषज्ञापनार्थमिति ।
हर्षादिना सामान्यत इच्छामात्रमवगतं तद्विशेषस्तु स्तन्याभिलाषो रागश्चात्रोक्त इत्यर्थः ॥ २१ ॥

न्या.सू._३,१.२२: अयसोऽयस्कान्ताभिगमनवत्तदुपसर्पणम् ॥

अयणम् (सू. २२) ॥ न पूर्वाभ्यस्तनुबन्ध एव प्रवृत्तिकारणम् । अयसोऽयस्कान्तोपसपणे तदभावात् । यदि च बालकस्य पूर्वाभ्यस्तस्मृत्यनुबन्धो भवेज्जात्यन्धबधिरादयस्तज्जन्मानुभूतान् गन्धस्पर्शान् जात्यन्तरानुभूतान् रूपस्पर्शादीनपि व्याचक्षीरन्नित्यभिप्रायः । विकल्प्य दूषयति । किमिदमिति । ( ३६९ । २ ) यौवनाद्यवस्थायां चेतनस्य प्रवृत्तिः क्षीरादौ पूर्वाभ्यस्तस्मृत्यनुबन्धहेतुका प्रतीतेति बाल्यावस्थायामपि चेतनस्य तद्धेतुकैव भवितुमर्हति तेन हेतुना चेतनप्रवृत्तेः स्वाभाविकसम्बन्धावगमाद् वह्निनेव धूमस्य ।

एवं व्यवस्थिते यत्र स्मृतेः कार्यं दृश्यते तन्मात्रविषयैव बालस्पय स्मृतिव्यमिति नान्यत्र ।
न च य एक स्मरति तेनापरमपि स्मर्तव्यमिति कश्चिन्नियमहेतुरस्ति येन जात्यन्धबधिरादयो रूपादिभेदान् व्याचक्षीरन् अदृष्टपरिपाकोद्बोधितस्य संस्कारस्य तन्नियमेन नियमोपपत्तेः ।
अद्यत्वऽपि चानुभूतेषु कस्य चिदेव स्मरत्यात्मा न सर्वस्येति ॥ २२ ॥

न्या.सू._३,१.२३: नान्यत्र प्रवृत्त्यभावात् ॥

भाष्य न च स्तन्याभिलाषलिङ्गमन्यदिति । स्तन्याभिलाषो लिङ्गमस्य निमित्तान्तरस्य तत्तथोक्तम् । अन्यत्र लोष्टादौ लोष्टादेरिति यावत् । षष्ठीसप्तम्योरभेदार्थत्वात् ।

एतदुक्तं भवति लोष्टादेरन्यस्यायस्कान्तप्रवृत्त्यभावाद अयसश्च सनिमित्तमुपसर्पणमिति पूर्वं व्याख्यातम् ।
संप्रति त्वन्यथा व्याचष्टे अयसः खल्वपीति ।
निपातसमुदायः कल्पान्तरं द्योतयति ॥ २३ ॥

न्या.सू._३,१.२४: वीतरागजन्मादर्शनात् ॥

पूर्वानुभूतविषयानुचिन्तनमिति । एकविषयः स्मृतिप्रवाहो विजातीयप्रत्ययासंभिन्नश्चिन्तनं, तच्चानुभवश्च पश्चाद्भवतीत्यनुचिन्तनं, न च तत्स्मृतिमन्तरेण भवति, न हि तत्र प्रवाहः प्रवाहिणं विनास्ति तदेवानुचिन्तनं पूर्वानुभूतविषयप्रार्थनार्थः सङ्कल्पः प्रार्थना सङ्कल्पः स च पूर्वानुभूतविषय इत्यर्थः । अथास्मिन्नेवजन्मनि इन्द्रियजो विषयानुभवोऽन्वयव्यतिरेकावधारितेष्टोपायतासहाकरी कस्माद् रागहेतुर्न भवतीत्यत आह वार्तिक्वकारः । न विषयावगमासमर्थेष्विति । तदनेन पूर्वानुभवश्च विषयाणामन्यस्मिन् जन्मनीति भाष्यं व्याख्यातम् ॥ २५ ॥ अत्रायमुदितानुवाद इति भाष्यम् । तस्यार्थः उदितमिदं चोद्यम् अयस्कान्तदृष्टान्तेन चोद्येन, तथापि तस्यानुवादो निदर्शनार्थः । पूर्वमयस्कान्तो निदर्शनमिदानीं तु घटादीनामुत्पद्यमानानां रूपादयो निदर्शनमिति तदर्थमित्यर्थः । चोद्यस्योदितानुवादत्वात्परिहारोऽप्युदितानुवाद एवेति । तन्मयत्वाद्राग इति । ( ३७० । ३ ) अभ्युपेत्यादृष्टकारणत्वं रागादीनां परिहृतं परमार्थतस्तु तन्मयत्वाद्राग इत्यर्थः । स्यादेतद् यदि पूर्वाभ्यस्तस्मृत्यनुबन्धाद्रागादीनामुत्पादो हन्त मनुष्यजन्मानन्तरं प्राप्तकरभभावस्य मनुष्यजन्मोचितानां भावानामानन्तर्यात्तदनुरूपा एव रागादयो भवेयुर्न करभभावानुरूपाः करभजातेरस्य विजातीयजन्मसहस्रव्यवहितत्वादत आह । जातिविशेषाच्चेति । कर्मणः संस्कारोद्बोधकत्वात्करभजात्यर्थेन कर्मणा जन्मसहस्रव्यवहितापि करभभावनोद्बोध्यते नानन्तरापि मनुष्यभावना प्रायणाभिभूतेतिभावः ॥ २४ ॥

न्या.सू._३,१.२५: सगुणद्रव्योत्पत्तिवत्त्दुत्पत्तिः ? ॥

ननु सगुणद्रव्योत्पत्तिवदिति साधनपक्षे मा भूदनैकान्तिकापादनपक्षे तु को दोष इत्यत आह वार्तिककारः ।
अनैकान्तिकपक्षे सूत्रं न कस्मात् नोक्तोत्तरत्वात् ।
उक्तोत्तरमेतद्यत इति ॥ २५ ॥

न्या.सू._३,१.२६: न संकल्पनिमित्तत्वाद्रागादीनाम् ॥

॥ अपि च मनुष्यत्वेन तुल्यत्वेऽपि प्रज्ञामेधाप्रकर्षनिकर्षभेददर्शनात् प्राग्भवीयाभ्यासकल्पना अद्यत्वेऽपि हि शास्त्राभ्यासस्तद्गोचरप्रज्ञामभिवर्धयन्नन्वयव्यतिरेकाभ्यामनुभूयते सोऽयमिह जन्मन्यकृतशास्त्राभ्यासस्य तद्विषयः प्रज्ञामेधातिशयः प्राग्भवीयाभ्यासातिशयं स्वकारणमवगमयति, जनस्य तिर्यगादिजातिशतव्यवधानपरिम्लानप्राग्भवीयसंस्कारस्य प्रज्ञामेधानिकर्ष इति कल्पनीयं तस्मान्नित्यस्यात्मनः कर्माविद्यानिबन्धनोऽनादिरेषोऽ नेकविधशरीरपरिग्रहपरित्यागप्रवाहोऽपवर्गान्त इति सिद्धम् ॥ २६ ॥

न्या.सू._३,१.२७: पार्थिवं गुणान्तरोपलब्धेः ॥

आत्मानन्तरमुद्दिष्टं शरीरं परीचिक्षिषमाणोऽवान्तरसङ्गतिमाह भाष्यकारः अनादिश्चेतनस्य शरीरयोग इत्युक्तम् । परीक्षोपयोगिनिर्वेदसाधनत्वमाह । स्वकृतकर्मेति । परीक्षापूर्वरूपं संशयमाह । किं घ्राणादिवदिति । एकद्वित्रिचतुःपञ्चप्रकृतिकतामास्थिषत शरीरस्य वादिनः सोऽयं संख्याविकल्पः । अत्र वार्तिककारः स्वातन्त्रयेण शरीरपरीक्षायां सङ्गतिमाह । आत्मानन्तरमिति । भाष्यमतेन सङ्गतिमाह । अथ वेति । अवान्तरसङ्गतेस्तात्पर्यमाह तस्मिन् परीक्ष्यमाण इति । मानुषं शरीरं पार्थिवं गन्धवत्त्वात् पार्थिवपरमाणुवदिति । न कारणं कार्यस्यात्मा तत्कथमेकात्मकमित्यत आह । एकात्मकमित्येकस्वभावं स्वो भावो भवितॄणां जातिः एकजातीयसमवायिकारणत्वे हि तत्त्देकजातीयं स्याद् नान्यथेत्यर्थः । परोक्तान् हेतूनन्यथासिद्धयिष्यप्रथमं तावत्सुहृद्भावेनाह नत्विदमबादिभिरिति । ( ३७१ । ३ )

न्या.सू._३,१.२८: पार्थिवाप्यतैजसं तद्गुणोपलब्धेः

न्या.सू._३,१.२९: निःश्वासोच्छ्वासोपलब्धेश् चातुर्भौतिकम्

न्या.सू._३,१.३०: गन्धक्लेदपाकव्यूहावकाशदानेभ्यः पाञ्चभौतिकम्

परोक्तसाधनमन्यथासिद्धमुक्त्वा बाधकमुक्तं भाष्यकृता तदनुभाष्य वार्तिककारो व्याचष्टे । तदिदमनेकप्रकृतीति । पृथिव्युदकाभ्यामारभ्यमाणमगन्धं कारणगन्धस्यैकस्यानारम्भकत्वात् । अयमभिसन्धिः पृथिव्याप्यपरमाणू तावन्नैकं द्व्यणुकमारब्धुमर्हतः तयो रूपरसस्पर्शवत्त्वेन तदारम्भसम्भवेऽपि गन्धवत्त्वाभावप्रसङ्गात् । एवं पार्थिवाणुसमवेतस्य गन्धस्यैकत्वेनानारम्भकत्वात् । नापि पार्थिवरमाणुद्वयमेकश्चपाथसीयः परमाणुरित्यणूनामारम्भकत्वे गन्धवत्त्वोपपत्तिरिति साम्प्रतम् । परमाणूनां बहूनामनारम्भकत्वात् । तथा हि त्रयः परमाणवो न कार्यद्रव्यमारभन्ते परमाणुत्वे सति बहुत्वसंख्यायुक्तत्वाद् घटोपगृहीतपरमाणुप्रचयवत् । आरम्भकत्वे तेषां घटोपगृहीतानां कपालशर्कराचूर्णक्रमो घटनाशे नोपलभ्येत द्व्यणुके च विजातीयानारम्भकत्वे सिद्धे तेनैव दृष्टान्तेनान्यत्रापि विजातीयेनारम्भो निषेध्यः । एतेन पार्थिवावयवानां महतां पाथसीयैरवयवैः शरीरारम्भः प्रत्युक्तः विजतीयानामनारम्भकत्वस्य दृष्टान्तधर्मिणि विनिश्चयादिति । तदनेन वार्तिककृता षड्विंशतिकल्पा निराकृता इति । यदि पुनरेकैकं कारणं स्यात् ततः किं भवेदित्यत आह । एककारणत्वे त्विति । ( ३७२ । ६ ) नित्यं निरपेक्षमेकं कारणमिति सततोत्पत्तिः कार्यस्य भवेत् । कारणविनाशात्तद्विभागाद्वा द्रव्यं विनश्यति न चैकस्य कारणस्य नित्यस्य विनाशोऽस्ति । न च बिभागः तस्य सद्वितीयवस्त्वाश्रयत्वात् । एकस्य च द्वितीयाभावात् । विनाशकारणाभापवात्कृतकनित्यत्वप्रसङ्गरूपमसहायमेकमवयविनि न रूपमारभत इति नीरूपोऽवयवी तथा च रूपसंस्काराभावेनावयवी नोपलभ्येतेत्यर्थः ॥ २८ ॥ २९ ॥ ३० ॥

न्या.सू._३,१.३१: श्रुतिप्रामाण्याच्च ॥

स्पृतिरुत्पत्तिरित्यर्थः ।
न्यायसिद्धमर्थं श्रुतिरूपोद्बलयति न पुनरस्य प्रापिका सांख्यराद्धान्ताबलम्बनेनाप्यस्याः कथं चिदुपपत्तेः ॥ ३१ ॥

न्या.सू._३,१.३२: कृष्णसारे सत्युपलम्भाद् व्यतिरिच्य चोपलम्भात्संशयः ॥

उद्देशक्रमानुरोधाच्छरीरानन्तरमिन्द्रियाणां परीक्षां प्रतिजानीते भाष्यकारः । अथेदानीमिन्द्रियाणि प्रमेयक्रमणेति । तत्र परीक्षापूर्वरूपं संशयमाह । किमाव्यक्तिकानि आहो स्विद्भौतिकानीति । उपलक्षणं चैतत् । यदापि भौतिकानि तदापि किं कृष्णसारं यदेतदुपलभ्यते तदेवेन्द्रियम् आहो तदधिष्ठानं तैजसमित्यपि संशयो द्रष्टव्यः । विप्रतिपत्तेः संशयः । तत्र पूर्वः सांख्यनैयायिकयोर्विप्रतिपत्तेः । उत्तरस्तु सौगतनैयायिकयोरिति । आव्यक्तिकत्वमाहङ्कारिकत्वं द्रष्टव्यम् । अहङ्काराद्धि बुद्धिविकाराद्वैकारिकापदेकादशेन्द्रियाणि जायन्त इति सांख्याः । आव्यक्तिकत्वं त्वव्यक्तस्य मूलकारणत्वादुक्तम् । विप्रतिपत्तिबीजं पृच्छति । कुतः संशय इति विप्रतिपत्तिमाह कारणे कार्योपचारात् । उत्तरं कृष्णसारे सतीति ।

कृष्णसारे सत्युपलम्भात् कृष्णसारमेव चक्षुरिति बौद्धाः ।
व्यतिरिच्य चोपलम्भात् तदतिरिक्तं तच्चाहङ्कारिकम् ।
अहङ्कारस्यप विभुत्वेनाप्रतिधातात् ।
भौतिकत्वे काचाभ्रपटलादिभिर्भौतिकैः प्रतिघातप्रसङ्गादिति सांख्याः ॥ ३२ ॥

न प्रदीपादिभिरनेकान्तादिति । वर्तिदेशस्येन पिण्डितेन तेजसा प्रदीपेनानेकान्तात् । प्रभा हि विसारिणी तमर्वं प्राप्य प्रकाशयतिं न तु प्रदीप इत्यर्थः । विषयीभावादिति चेदिति । उत्पादविशेष एव स तादृक् चक्षुरर्थक्षणयोर्यतोऽप्राप्तयोरपि विषयविषयिभावाद्वेद्यवेदकत्वं, न चायं व्यवहितविप्रकृष्टयोरिति न तयोर्वेद्यवेदक भाव इत्यर्थः । निराकरोति नोक्तोत्तरत्वात् । स एवार्थो विप्रकष्टो न विषयः सन्निकृष्टश्च विषय इत्येकस्य विषयीभावस्तदभावश्चायुक्तः क्षणभङ्गश्च निषेत्स्यत इति भावः

न्या.सू._३,१.३३: महदणुग्रहणात् ॥

तत्र सांख्यमुत्थाप्य बौद्धपक्षं दूषयति ।
अभौतिकानीति ।
कृष्णसाराधिकग्रहणे विवक्षितेर्ऽथग्रहणं संपातायातं न तु तदत्र विवक्षितम् असाधकत्वादिति ।
धाना अङ्कुरः ॥

अभौतिकत्वं तु व्पयापकत्वादिति । ( ३७४ । २ ) तद्यथा विज्ञानाद्यभौतिकं महच्चाणु च गृह्णातीत्यर्थः । एकदेशिमतेन दूषणमाह । न भौमिकेषु प्रदीपादिष्विति । ननु बुद्धिर्यदि महदण्वोः प्रकाशनं तत् किमिदानीं सर्वस्यैवाप्रकाशनमित्यत आह । अवधापरितस्यत्वर्थस्येति । नच हानोपादानोपेक्षाबुद्धयोऽण्व्यो महत्यो वेति भावः । पूर्वपक्ष्याह नेन्द्रियेऽपि समानत्वादिति । तदेवमेकदेशिनोऽसाधारणत्वापादने पूर्वपक्षिणापव दूषिते सिद्धान्त्याह । अभूतात्मकं व्यापकं चेति । सांख्यः शङ्कते । वृत्तिरिति । इन्द्रयाणां वृत्तयो ज्ञानहेतवः प्रतिषिध्यन्तैत्यर्थः । युगपदनेकग्रहणप्रसङ्गाच्चेति । यद्यपि सांख्यीयराद्धान्ते दीर्घां शष्कुलीं भक्षयतो गुगपदनेकज्ञानोत्पत्तिरभिमता तथा पि क्वचित् क्रमोऽपि दृश्यते स न स्याद् वृत्तिमतोऽवस्थाने तदभिन्ना वृत्तिरप्यवतिष्ठत इति तन्मात्राधीनोत्पत्तीनां विज्ञानानां क्रमो न स्यादिति भावः । उभयं नेष्यत इति । ( ३७६ । ४ ) वृत्तिभ्योऽनन्यत्वं वृत्तिमतो नेष्यते नापि वृत्तीनामनन्यत्वं वृत्तिमत इत्यर्थः ॥ ३३ ॥

न्या.सू._३,१.३४: रश्म्यर्थसंनिकर्षविशेषात् तद्ग्रहणम् ॥

नैयायिकः सांख्यं दूषयति ॥ रश्म्य...णम् (सू. ३४) ॥

आहङ्कारिकत्वे चक्षुर्न प्रतिहन्यते यदि तत् काचाभ्रपटलान्तरितप्रकाशवत् कुड्यान्तरितमपि प्रकाशयेत् । न चैवमस्ति, तस्मात्कृष्णसाराधिष्ठानं तेज एव भौतिकं प्राप्य गृह्णाति कुड्यान्तरितं त्वर्थमप्राप्तं न गृह्णाति । काचाभ्रपटलान्तरिते तु वक्ष्यति ।

भूयोऽवयवसन्निकर्षानुग्रह इति ।
इन्द्रियावयवानामर्थावयवैः इन्द्रियावयवानामर्थेन अर्थावयवानामिन्द्रियेण इन्द्रियस्यार्थेनेति ॥ ३४ ॥

न्या.सू._३,१.३५: तदनुपलब्धेरहेतुः ॥

तदनुपलब्धेरिति ।
नोपलब्धिलक्षणप्राप्तमनुपलभ्यमानं शक्यमनुमातुं नरविषाणादीनामप्यनुमानप्रसङ्गादित्यर्थः ॥ ३५ ॥

न्या.सू._३,१.३६: नानुमीयमानस्य प्रत्यक्षतोऽनुपलब्धिरभावहेतुः ॥

परिहारः नानुमीयमानस्येति ।
सत्यमनुपलब्धिनलक्षणप्राप्तमनुपलभ्यमानं न शक्यमनुमातुं न तु महत्त्वाद्येवोपलक्षणप्राप्तेरपि तु रूपविशेषोऽपि ।
न चासौ विशेष उद्भवसमाख्यातः कृष्णसाराधिष्ठानस्पय चक्षुषोऽस्तीत्यर्थः ॥ ३६ ॥

न्या.सू._३,१.३७: द्रव्यगुणधर्मभेदाच्चोपलब्धिनिमयः ॥

यत्रोपलब्धिस्तत्रैतदिति सूत्रार्थः ।
ततो महत्त्वादिषु मध्ये यत्किं चिदेकं वक्तव्यं सूत्रकारेण यत्रोपलब्धिस्तत्रैतदित्यकस्मादेव सिद्धेरनेकोपादानवैयर्थ्यं तस्मात्सम्भावनायोग्यताभिधानपदं सूत्रम् ॥

ननु यथाश्रुतं महत्त्वाद्युपलब्धिकारणमस्ति चाक्षुषस्य रश्मेरिति कस्मादयं नोपलभ्यत इत्यत आह ।
द्रव्यगुणधर्मेति ॥ ३७ ॥

न्या.सू._३,१.३८: कर्मकारितश्चेन्द्रियाणां व्यूहः पुरुषार्थतन्त्रः ॥

अनेकरश्मिसन्निधाने स्पर्शस्योद्भूतौ सत्यां द्रव्यं दह्येत रूपोद्भूतौ सत्यां व्यवहितत्वादादौ निपतितेन चक्षुरन्तरेण द्रव्यस्यानुपलब्ध्या भवितव्यम् । शङ्कते अथानेकेति । ( ३७९ । ९ ) नानानयनावयवैरेकोऽसौ नयनावयव्यारभ्यतैत्यर्थः ।

निराकरोति एवं सतीति ।
नानानयनावयवैरारब्ध एकोऽसौ नयनावयवी समग्रासमग्रचक्षुःपुरुषसाधारण इत्युपलब्धिस्तुल्या स्यादित्यर्थः ॥

न्या.सू._३,१.३९: मध्यन्दिनोल्काप्रकाशानुपलब्धिवत्तदनुपलब्धिः ॥

न्या.सू._३,१.४०: न रात्रावप्यनुपलब्धेः ॥

न हि यद्यस्याभिभावकं तत्तस्य व्यञ्जकमिति । ( ३८० । १७ ) रात्रौ यद् लोष्टतेजसोऽभिभावकं दिवा कथं तदेवास्य व्यञ्जकं येन तदभावाद्रात्रौ लोष्टतेजो नोपलभ्येत इत्यर्थः ।

अपिशब्दाद्गम्यत इति ।
न रात्रावपीति सूत्रगतादित्यर्थः ॥ ३९४० ॥

न्या.सू._३,१.४१: बाह्यप्रकाशानुग्रहाद्र विषयोपलब्धेरनभिव्यक्तितोऽनुपलब्धिः ॥

सोऽयं चक्षुषो रश्मिः किमभावान्नोपलभ्यते किं वाऽनुद्भूतेरत्राह भाष्यकारः उपपन्नरूपा चेयमनभिव्यक्तितोऽ नुपलब्धिरिति योजना । अनभिव्यक्तितोऽनुद्भूतेरित्यर्थः । अत्र हेतुर्बाह्यप्रकाशानुग्रहाद्विषयोपलब्धेः विषयश्च स्वंरूपमात्मनोऽन्यच्च । एतदुक्तं भवति यदुपलब्धौ बाह्यप्रकाशमनुग्राहकमपेक्षते तस्यानुद्भूतेरेवानुपलब्धिर्न त्वभिभूतेः यथा हेमन्ते विषक्तावयवस्याप्यस्य द्रव्यस्य ।

आप्यं हि द्रव्यं विषक्तावयवं स्वविषयोपलब्धौ बाह्यप्रकाशानुग्रहमपेक्षमाणं दृष्टं चक्षुरपि च विषयोपलब्धौ बाह्यप्रकाशमपेक्षते निरालोकेतस्याप्रवृत्तेः ।
तस्माद्विषयोपलब्धौ बाह्यप्रकाशापेक्षत्वात्तदनुद्भूत्या न प्रतीयते न पुनरभिभूत्येति सिद्धं प्रकृतम् ।
तदेतद्वार्तिककारो व्याचष्टे ।
तस्य विद्यमानस्येति ॥ ४१ ॥

न्या.सू._३,१.४२: अभिव्यक्तौ चाभिभवात् ॥

कस्मात्पुनर्नायनस्येति । अस्योत्तरम् । अभिभवनीयस्य रूपमाह । यदुद्भूतरूपमिति । ( ३८१ । ७ ) तद्वैधर्म्यमनुद्भूतरूपस्याह । अनुद्भूतरूपश्चेति । अनुद्भूतरूपस्याभिभवाभावे निदर्शनमाह । यदनुद्भूतरूपमिति । बाह्यप्रकाशानुग्रहापेक्षस्य चाभिभवाभावे निदर्शनमाह । यच्च बाह्यप्रकाशानुग्रहापेक्षमिति । कृष्णसारं रश्मिमदित्युच्यमाने प्रसन्नान्धस्यापि कृष्णसारं रश्मिमत्साध्येत तथा चापसिद्धान्त इत्यत आह । विप्रतिपत्तिविषय इति । तेन विप्रतिपतिविषयः कृष्णसारं रूपं च रश्मिमदिति साध्यनिर्द्देशः । उपलब्धौ निमित्तत्त्वादित्युच्यमाने गन्धादिभिरनैकान्तिकं स्यादत उक्तं रूपोलब्धाविति । रूपसाक्षात्कार इत्यर्थः । तथापि सन्निकर्षादिभिरनैकान्तिकमत उक्तं द्रव्यत्वे सतीति । तथापि मनसानैकान्तिकमत उक्तं नियतस्पय साधनाङ्गस्येति । असाधारणस्य साधनाङ्गत्वे सतीति ।

मनसस्तु साधारणस्य साधनाङ्गस्य रूपोपलब्धौ निमित्तत्वम् ।
साधनं समुदायस्तदङ्गमवयवः ।
अथ वेति ।
द्रव्यत्वे सति नियतत्वे चार्थप्रकाशकत्वादित्युच्यमाने घ्राणादिभिरनैकान्तिकं स्यादत उक्तं स्फटिकादिव्यवहितेति ॥ ४२ ॥

न्या.सू._३,१.४३: नक्तञ्चरनयनरश्मिदर्शनाच्च ॥

मानुषं चक्षूरश्मिमदिति । रूपाद्युपलब्धिनिमित्तत्वादिति सावधारणं रूपादीनामेवेति । तेन न मनसाऽनैकान्तः । तथापि सन्निकर्षेणानैकान्त इत्यत उक्तमप्राप्तिस्वभावत्व इति । इतश्च भौतिकानीन्द्रियाणि चक्षूरसनत्वग्घ्राणानीत्यर्थः । तथापि श्रोत्रस्य रूपं न ज्ञायते कीदृशं तदित्यत आह । भूतं श्रोत्रम् । ( ३८२ । ३ ) अर्थप्रकाशकत्वादित्युच्यमाने मनसानैकान्तिकमत आह प्राप्तेति । न हि रूपादिभिः सहास्ति मनसः प्राप्तिस्तथापि मनस्येवायैकान्तः आन्तरं हि दुःखादि मनः प्राप्य प्रकाशयत्यत आह बाह्येति । तथापि सन्निकर्षादृष्टादिभिरनैकान्तोऽत आह । द्रव्यत्वे सतीति । शङ्काभाष्यं जातिभेदवदन्द्रियभेद इति चेत् । निराकरोति धर्मभेदमात्रं चानुपपन्नम् । वृषदंशनयनस्य रश्मिमत्वं मानुषनयनस्य तु न तत्त्वमिति योऽयं धर्मभेदः स एव मात्रं तच्चानुपपन्नम् । चोऽवधारणे भिन्नक्रमः ।

अनुपपन्नमेवेति योजना ।
कुतोऽनुपपन्नमित्यत्र हेतुमाह आवरणस्येति ।
तथा हि धूमवत्वं पर्वते रसवत्यां चान्यत् तथाऽप्येष विशेषोऽस्याग्निमत्त्वानग्नित्वे प्रत्यप्रयोजकः ।
एवं बिडालत्वमनुष्यत्वे अप्रयोजके इत्यर्थः ॥ ४३ ॥

न्या.सू._३,१.४४: अप्राप्यग्रहणं काचाभ्रपटलस्फटिकान्तरितोपलब्धेः ॥

न्या.सू._३,१.४५: कुड्यान्तरितानुपलब्धेरप्रतिषेधः ॥

न्या.सू._३,१.४६: अप्रतीघातात् संनिकर्षोपपत्तिः ॥

सोऽप्रतिहन्यमान इति ।
स रश्मिरप्रतिहन्यमानः काचेन काचं व्यतिभिद्यार्थेन सम्बध्यते काचान्तर्गतेन ॥ ४४४६ ॥

न्या.सू._३,१.४७: आदित्यरश्मेः स्फटिकान्तरितेपि दाह्येऽविघातात् ॥

वार्तिकम् अव्यूह्यमानावयवद्रव्यानुप्रवेश इति । ( ३८३। १० ) यस्य द्रव्यस्य भर्जनकपालादेरवयवा न व्यूह्यन्ते पूर्वोत्पन्नद्रव्यारम्भकसंयोगनाशेन द्रव्यान्तरजनकसंयोगोत्पादनं व्यूहनं तन्न क्रियन्ते तस्य द्रव्यस्य भर्जनकपालादेरव्यूह्यमानस्यावयवव्यूहनमवयविनोऽपीति अव्यूह्यमानस्येत्युक्तम् । तस्य भर्जनकपालादेरन्तरावयवैर्योऽभिसम्बन्धो वह्नेः सोऽप्रतिघातः । एतदुक्तं भवति सान्तरत्वादवयविद्रव्याणां तदविनाशेनाग्नेर्योऽनुप्रवेशः सोऽप्रतिघात इति । प्रवेशेऽप्रतिघातमुक्त्वा निःसरणैऽप्यविघातमाह ।

अन्तर्व्यवस्थितस्य वा द्रव्यस्य मधूदकादेर्बहिरवस्थितहस्तादिप्राप्तिः तस्य कीदृशस्य बहिरित्यत आह ।
अव्यूह्यमानावयवस्य शलाकादेस्तस्य बहिरिति ॥ ४७ ॥

न्या.सू._३,१.४८: नेतरेतरधर्मप्रसङ्गात् ॥

न्या.सू._३,१.४९: आदर्शोदकायोः प्रसादस्वाभाव्याद् रूपोपलब्धिवत्तदुपलब्धिः ॥

द्रव्यान्तरासंपृक्तद्रव्यसमवायः स्वच्छतेत्यर्थः । प्रसङ्गात्प्रतिबिम्बभ्रमोत्पादक्रममाह । आदर्शादिष्विति । ( ३८४ । १० ) यदभिमुखमग्रमिति । द्रष्टुः पुरुषस्याभिमुखं नयनरश्मेः परावृत्तस्याग्रं तदभिमुखं मुखादि पश्यति । सारूप्यनिबन्धनत्वाद्विभ्रमाणां सारूप्यमिहाप्याह । यथाऽग्रतोऽवस्थितस्य पुरुषस्य मुखं लोचनरोचिरप्रश्मिसम्बन्धभिमुखमेवमेतदिति । नन्वादर्शप्रतिहतश्चेद् नयनरश्मिः परावृत्तः कथं पश्चादभिमुखविभ्रमहेतुः हन्त भोः पातमात्रादादर्शज्ञानेन भवितव्यं पश्चात्प्रतिम्बिविभ्रमेण,

न चैवमस्ति यौगपद्यप्रतिभासादित्यत आह ।
आदर्शेति ।
कुतस्तर्हि मणिकृपाणादेर्दर्पणतलेषु नानानिर्भासः प्रतिबिम्बावभास इत्यत आह आदर्शरूपानुग्रहादिति ॥ ४८४९ ॥

न्या.सू._३,१.५०: दृष्टानुमितानां नियोगप्रतिषेधानुपपत्तिः ॥

न्या.सू._३,१.५१: स्थानान्यत्वे नानात्वाद् अवयविनानास्थानत्वाच्च संशयः ॥

संप्रति तेषामेवेन्द्रियाणामेकानेकत्वे परीचिक्षिषुः संदिग्धे । अथापि खल्वेकमिति । प्रश्नपूर्वकं सूत्रमवतारयति । कुतः संशयः ॥ स्थानायः (सू. ५१) ॥

तत्र के चिदिदं सूत्रं भाष्यमतानपेक्षं यथाश्रुति व्याचक्षते । तद्दूषणपुरःसरं भाष्यव्याख्यानं गृहीतु यथाश्रुति व्याख्यानं परेषां सूत्रपाठपूर्वकमुपन्यस्यति । एके त्विति । ( ३८५ । १३ ) अनुपपन्नरूपश्चायमिति । अत्र हि यथाश्रुति स्थानान्यत्व इति नियित्तसप्तम्या नानात्वस्य बीजं स्थानान्यत्त्वमुक्तं न त्वेकत्वस्येति । एकत्वस्य तु बीजं नानास्थानत्वं यथोक्तम् । अवयविनानास्थानत्वादिति । अवयवीत्येकत्वमुपलक्षयति । स्थानान्यत्वं च स्थानस्यान्यत्वमुच्यते । नानास्थानत्वं च नानास्थानानि यस्येत्यन्यपदार्थः स्थानान्यत्वादन्यः न तु धर्मद्वयं साक्षात्संशयकारणमित्येकतरस्यैकानेकसाधारण्यं वाच्यम् । तत्र यदि तावदेवं क्रियते संशयः स्थानान्यत्वे नानात्वैकत्वदर्शनादिति । यदा सूत्रार्थालोचनेनैकत्वे स्थानान्यत्वस्यादर्शनान्न समानधर्मः सूत्रं खल्वेकत्वे नानास्थानत्वमाह न स्थानान्यत्वम् । अनेकत्वमात्रे हि तदुक्तं सूत्रकारेण स्थानान्यत्वे नानात्वादिति । अथ नानास्थानत्वे सत्येकत्वानेकत्वदर्शनात्संशय इति एतद् दूषयति । तदा द्रव्यं नानास्थानमनेकं न किं चिद् दृष्टं सूत्रम् । अवयविनानास्थानत्वादिति सूत्रं नानास्थानत्वेनैकत्वमाह न तु नानात्वमपि यत्पुनर्घटाद्यनेकं न तन्नानास्थानमुक्तं सूत्रकृता । अपि तु स्थानान्यत्वं सूत्रकृतोक्तं स्थानान्यत्वे नानात्वादित्यनेन दूषणभुपंसहरति । सो यं संशय उभयथाऽनुपपन्न इन्द्रियेषु यथाश्रुतसूत्रपरिग्रहेण उभयथा स्थानान्यत्वेन नानास्थानत्वेन चेत्यर्थः । तदेवं परव्याख्यानं दषयित्वा भाष्यकारीयस्य व्याख्यानस्य युक्तत्वमाह स्थानेषु तु युक्तः । स्थानेष्वितिनिमित्तसप्तमी नानास्थानत्वनिमित्त इन्द्रियेष्वेकत्वानेकत्वसंशयो युक्तः नानास्थानं खल्वेकमवयविद्रव्यं दृष्टमनेकं च भिन्नभाजनगतं फलमिति । इन्द्रियविषयं नानास्थानत्वनिमित्तकं संशयमाह । किं नानास्थानानीन्द्रियाणि उत नानास्थानमेकमिन्द्रियमिति । तदिदमुक्तं भाष्यकारेण बहूनि द्रव्याणि नानास्थानानि दृश्यन्ते नानास्थानश्च सन्नेकोऽवयवी च । तेनेन्द्रियेषु भिन्नस्थानेषु संशय इति । सूत्रेऽपि स्थानान्यत्वे इत्यनेन नानास्थानत्वमेवोपलक्षणीयमित्यविरोधः । यथाश्रुतस्तु न सूत्रार्थ इत्याह । इन्द्रियेषु तु न स्थाननानात्वात्सम्भवति । न च नानास्थानत्वादिति । ( ३८६ । १ ) किं त्विन्द्रियविषयो नानास्थानत्वादेव संशयो भाष्यकारीयः साधीयानित्यर्थः ।

तदेवं परोक्तं संशयबीजं दूषयित्वा भाष्यकारीयं संशयबीजं दर्शयित्वा वार्त्तिककारः स्वातन्त्र्येण संशयबीजमाह ।
शरीरव्यतिरेकित्वात्सत्त्वाच्च संशय इति ॥ ५०५१ ॥

न्या.सू._३,१.५२: त्वगव्यतिरेकात् ॥

पूर्वपक्षं गृह्णाति ।
त्वगत् (सू. ५२) ॥

कः पुनरव्यतिरेक इति । घटादिप्राप्तं चक्षस्त्वचो व्यतिरिच्यत एवेति भावः । उत्तरम् । सर्वाधिष्ठानसम्बन्ध इति । सौत्रस्याव्यतिरेकशब्दस्य व्याख्यानान्तरमाह । सति भावो वेति । तदनेन यस्यां च सत्यामिति भाष्यं व्याख्यातम् । चो विकल्पार्थः । सिद्धान्तभाष्यं नेन्द्रियेति । लोकविरोध इति । लोक्यते ज्ञायतेऽनेनेति लोकः प्रमाणं तद्विरोध इत्यर्थः ।

अनेकेन चानिन्द्रियेणेति ।
शरीरं पार्थिवं भूतान्तरसम्पृक्तं च तदिन्द्रियाधिष्ठानानि शरीरावयवभूतानि पृथिव्यादिना व्याप्तानीत्यनेकान्तः ।
न व्याघातादिति ।
परदोषोद्भावनपंर न पुनरत्वगवयवत्वमिन्द्रियान्तराणामभिमतमिति ॥ ५२ ॥

न्या.सू._३,१.५३: न युगपदार्थानुपलब्धेः ॥

एवं भाष्यकारीयसिद्धान्तमुतत्वा सौत्रसिद्धान्तमाह । सूत्रेण चाभिसम्बन्धः सिद्धान्तस्य ॥ ( ३८७ । ८ ) न युब्धेः (सू. ५३) ॥

नैतदस्त्येकमिन्द्रियमिति । कस्याद् ? युगपदर्थानुपलब्धेरिति । तदेतत्सूत्रं भाष्यदृष्ट्या व्याचष्टे वार्त्तिककारः । यस्यैकमिन्द्रियमिति । तद्वेतद्व्याख्यानं दूषयति । नैकेन्द्रियग्राह्याणामिति । भाष्यव्याख्यानं दूषयित्वा सूत्रमन्यथा व्याख्यातुं भूमिरचनां करोति । एवं ब्रुवाण एकेन्द्रियवादीति ॥ ( ३८८ । ५ ) सामिअर्धम् ।

एकमपीन्द्रियमर्धं प्राप्य गृह्णाति अप्राप्तं चार्धमेकदेश इति यावत् ।
करणधर्ममतिक्रामन्तं प्रति युगपदुपलब्धिप्रसङ्गो दूषणमित्यर्थः ॥ ५३ ॥

न्या.सू._३,१.५४: विप्रतिषेधाच्च न त्वगेका ॥

एकत्वप्रतिषेधादेव पारिशेष्यान्नानात्वं सेत्स्यतीत्यत आह नासाधना क्रियेति । ( ३८९ । ७ ) एकत्वं च कथमिति । न शक्यः पक्षो दूषयितुमित्युक्तम् । पृच्छति । कथं तर्हीति । उत्तरम् । प्रतिषेधाच्चानन्तरमिति । यद्यप्यनन्तरशब्दप्रयोगे पञ्चमी न स्मर्यते तथाऽप्यन्यशब्दस्याध्याहारेण पञ्चमी व्याख्येया ।

अनन्तरं प्रतिषेधादन्यः स्थापनाहेतुरिति योजना ।
अथ वेति ।
व्यतिरेकी हेतुर्द्वयोर्विरुद्धयोरेकतरनिषेधेनैकत(नीं)रं व्यवस्थापयति ।
यथा नैरात्म्यनिषेधेन जीवच्छरीरस्पय सात्मकत्वमिति ॥ ५४ ॥

न्या.सू._३,१.५५: इन्द्रियार्थपञ्चत्वात् ॥

सूत्रमाक्षिपति ।
इदं तु सूत्रमिति ।
एष न्यायो मया वाचो भङ्ग्या सूत्रित इत्यर्थः ॥ ५५ ॥

न्या.सू._३,१.५६: न तदर्थबहुत्वात् ॥

पूर्वपक्षिणः सूत्रम् ।
न तत् (सू. ५६) ॥

पूर्वपक्षमाक्षिपति न विरोधादिति ।
पूर्वपक्षिणः समाधानं नासाधनादिति ॥ ५६ ॥

न्या.सू._३,१.५७: गन्धत्वाद्यव्यतिरेकाद् गन्धादीनामप्रतिषेधः ॥

सिद्धान्तः गन्धधः (सू. ५७)

न्या.सू._३,१.५८: विषयत्वाव्यतिरेकादेकत्वम् ॥

न्या.सू._३,१.५९: न बुद्धिलक्षणाधिष्ठानगत्याकृतिजातिपञ्चत्वेभ्यः ॥

यस्याधिष्ठानं भिन्नमिति । ( ३९१ । १० ) भिन्नं नियतम् । एतदुक्तं भवति रूपव्यञ्जकस्य कृष्णसारमेवाधिष्टानं न कर्णशष्कुल्यादि एवमन्यत्रापि द्रष्टव्यम् । यस्य पुनः सिद्धान्तिनोऽधिष्ठानाभेदस्तथा च तदधिष्ठानस्येन्द्रियस्यापि भेदः तस्यैकाधिष्ठानविनाशेन तद्गतस्येन्द्रियस्य विनाशेऽप्यधिष्ठानान्तराश्रितस्येन्द्रियान्तरस्यावस्थानमिति नैकाधिष्ठाननाशे सर्वाधिष्ठाननाशात्सर्वेन्द्रियनाशलक्षणः

तथैकाधिष्ठानावस्थाने सर्वेन्द्रियावस्थानलक्षणो दोष इति ।
इष्टानिष्टोपेक्षणीय इति ।
उपेक्षणीयस्यापि पुरुषार्थत्वं भवति केन चित्प्रकारेण, यदि हि तत्र पुरुषः प्रवर्तते ततो निष्फले कर्मणि प्रवृत्तः पुरुषस्तप्येत ।
दुःखं कर्मेत्यनु भवो लोकस्य, उपेक्षणीयत्वे तु तन्न तस्य भवति ॥ ५८५९ ॥

न्या.सू._३,१.६०: भूतगुणविशेषोपलब्धेस्तादात्म्यम् ॥

तत्र पार्थिवं घ्राणं रूपरसगन्धस्पर्शेषु नियमेन गन्धस्य व्यञ्जकत्वाद् बाह्यपार्थिववदिति । यथा हि मृगमदगन्धव्यञ्जकाः कुक्कुटोच्चारादयः पार्थिवा इत्यर्थः । न चातपेनानेकान्तः । न ह्यतपो गन्धव्यञ्जकोऽपि तु जलाभिभूतो गन्धो द्रव्याणांव नोपलभ्यते केवलं जलमातयोऽपनयति न तु गन्धं द्रव्यस्याभिव्यनक्ति तस्मान्नानेकान्तः । एवं रसनमिन्द्रियमाप्यं गन्धादिषु मध्ये नियमेन रसस्य व्यञ्जकत्वाद् दन्तान्तरस्यन्दमानोदकविन्दुवत् । न खलु विशुष्यदास्यो मोदकादिरसमनुभवति । एवं तैजसं चक्षुः गन्धादिषु मध्ये नियमेन रूपस्य व्यञ्जकत्वात् प्रदीपादिवत् । एवं वायवीयं त्वगिन्द्रियं गन्धादिषु मध्ये स्पर्शस्यव व्यञ्जकत्वात् स्वेदोदबिन्दुशतिस्पर्शव्यञ्जकव्यजनपचनवत् । नियमग्रहणं मनोनिवृत्त्यर्थम् । मध्य इति चावधारणसिद्ध्यर्थम् । अन्यथा घ्राणादीनां गन्धत्वादिव्यञ्जकत्वेनावधारणं न स्यात् । तदेतदाह । एवं शेषेष्विति । ( ३९२ । १९ ) एवं चेन्द्रियपञ्चत्वेन हस्तपायूपस्थवाचामिन्द्रियत्वनिषेधोऽपि सूचित इन्द्रियलक्षणविरहात् । यच्छरीरसंयुक्तं संस्कार(क)दोषव्यतिरिक्तं साक्षात्प्रतीतिसाधनं तदिन्द्रियमिति हीन्द्रियलक्षणं, न चैतदस्ति हस्तादिषु । तज् ज्ञानेन्द्रियाणां लक्षणमिमानि कर्मेन्द्रियाणीति चेत् । हन्तैनषामिन्द्रियत्वलक्षणान्तरं वक्तव्यम् । शरीराश्रितमसाधारणकार्यकारीन्द्रियमिति लक्षणमिति चेत् ।

वक्तव्यमेषामसाधारणं कार्यम् ।
उक्तं वचनादानविहरणोत्सर्गानन्दाः पञ्चानामिति ।
नन्वादानविहरणोत्सर्गास्तावद्वक्रहस्तादिभिरपि शक्याः कर्तुम् ।
अपि चास्ति कण्ठहृदयामाशयपक्वाशयादीनां गिरणादितत्तदसाध रणं कार्यमिति तान्यपीन्द्रियाणि प्रसज्येरन्निति तस्माद्यत्किञ्चिदेतदपीति ॥ ६० ॥

न्या.सू._३,१.६१: गन्धरसरूपस्पर्शशब्दानां स्पर्शपर्यन्ताः पृथिव्याः ॥

न्या.सू._३,१.६२: अप्तेजोवायूनां पूर्वं पूर्वमपोह्याकाशस्योत्तरः ॥

क्रमप्राप्तमर्थलक्षणं परीचिक्षिषमाणोर्ऽथलक्षणं स्मारयति । गन्धादयः पृथिव्यादिगुणा इत्युद्दिष्टमिति । लक्षितमिति वक्तव्ये संमुग्धाभिधानं सामान्यादुद्दिष्टमित्युक्तम् । तत्र परीक्षामुखं संशयमाह । उद्देशश्च नियोगेति । नियोगादीनां रूपमाह । तत्र नियोग इति । तदेवं विमृष्य नियोगसमुच्चयौ परित्यज्य विकल्पमालम्बते सूत्राभ्यामतो विशेषणार्थमिति । ( ३९३ । २ ) गन्धव्याः (सू. ६१) अप्तरः (६२) । विशेषणार्थमिति । सूत्रयोस्तात्पर्यमुक्तं तदेवं स्फुटयति । नियमार्थे इति । उत्तरेष्वबादिष्वेकैकशोऽपकर्षो गन्धादीनां स्पर्शपर्यन्तानाम् । तथा हि चतुर्षु गन्धापकर्षोपस्वपकृष्टस्य गन्धस्य पुनरुद्भवो नास्तीति अद्भ्य उत्तरे तेजसि रसस्यापकर्षः । एवमपकृष्टयोश्च गन्थरसयोः पुनरुद्भावो नास्तीति तेजौत्तरे वायौ रूपापकर्ष इति । एवमपकृष्टानां गन्धरसरूपाणां पुनरुद्भवो नास्तीति वायोरुत्तरस्मिन्नाकाशे स्पर्शस्यापकर्षः । तदिदमुक्त मेकैकश इति । अव्युत्पन्नोऽयसुत्तरशब्दोऽनन्तरवचनः तेन बहूनां निर्द्धारणेऽप्युपवन्नार्थ इति ।

भवतु वा तरब्निर्देशः तथाऽपि न दोष इत्याह ।
भवत्विति ।
क्व चित्पाठस्तन्त्रं वेति यथाभाष्यम् स्फुटार्थ एव ॥ ६१६२ ॥

न्या.सू._३,१.६३: न सर्वगुणानुपलब्धेः ॥

पूर्वपक्षी नियोगपक्षमुत्थापयति ।
न सब्धेः (सू. ६३) ॥

पृथिव्यादिप्रकृतीनां घ्राणादीनां गन्धादिप्रतिव्यक्तिनियम एवमुपपद्यते यदि गन्धमात्रगुणा पृधिवी रसमात्रगुणा आप इत्यादि न त्वन्यथा ।
अन्यथा तु पार्थिवेन घ्राणेन गन्धवद्रसरूपस्पर्शा अपि व्यज्येरन् अविशेषादित्यर्थः ॥ ६३ ॥

न्या.सू._३,१.६४: एकैकश्येनोत्तरोत्तरगुणसद्भावादुत्तराणां तदनुपलब्धिः ॥

न्या.सू._३,१.६५: विष्टं ह्यपरं परेण ॥

विष्टं ण (सू. ६५) ॥

संसर्गस्य द्व्याश्रयत्वेऽपि न द्वये सजानत्वं यथाऽग्निधूमयोः संबन्धो न्यथाऽग्नेः स हि व्यापको धूमे धूमध्वजस्य भाव एव नाभावः । धूमस्तु व्याप्यः तस्पय वान्हावेव भावो नान्यत्रेति । एवमपरं पृथिव्यादि परेणाबादिना विष्टं व्याप्तं नाबादिमन्तरेणास्ति पृथिवी । तेन पृथिव्यामबादिगुणानां रसादीनां नियमेनोपलम्भो न त्वबादिषु पृथिवीगुणानाम्, एवमप्स्वनलादिगुणो व्याख्यातः । विष्टत्त्वं संयोगविशेषो व्याप्तिस्त्यिर्थः । भाष्यं तच्चैतद्भूतसृष्टाविति । भूतसृष्टिप्रतिपादकेषु पुराणेषु नैतर्हीति । नेदानीमननुभवादित्यर्थः ॥ ६४६५ ॥

न्या.सू._३,१.६६: न पार्थिवाप्ययोः प्रत्यक्षत्वात् ॥

सिद्धान्ती विकल्पवाद्येतद् दूषयति ।
नपात् (सू. ६६) ॥

त्रिविधं हि द्रव्यं चाक्षुषमिष्यते प्रार्थिवमाप्यं तैजसं च । तत्र रूपवत्त्वेन तैजसमेव चाक्षुषं स्याद् नेतरद् रूपवत्त्वात् । न च रूपिद्रव्यसंतर्माच्चाक्षुषत्वंप्ररूपथोच्चपि पार्थिवाप्ययोरिति वाच्यम् । नभोनभस्वतोरपि चाक्षुरत्वप्रसङ्गात् । अस्ति हि रूपवता तेजसा तयोः इति । अथ वा पार्थिवाप्यसंबन्धिनो रसभेदस्य रूपभेदस्य चैकानेकविधत्वेन प्रत्यक्षत्वादित्याह भाष्यकारः । रसयोर्वेत्यादि नोपपद्यत इत्यन्तेन । पुनरस्यैव व्याख्यानान्तरमाह । स्पर्शयोरिति । पार्थिवाप्ययोरित्यस्योदाहरणमात्रार्थत्वात् । पार्थिवतैजसयोरित्वपि व्याख्यानमुक्तम् । व्याख्यानान्तरमाह । अथ वेति । कार्यस्य व्यवस्थितगुणस्य दर्शनात् कारणमपि व्यवस्थितगुणमनुमपिते । न च सर्वत्र संसर्गो येनान्यस्य गुणोऽन्यत्रोपलभ्यते विवेकस्यासंसर्गस्य दर्शनात् । व्याख्यानान्तरमाह । दृष्टश्चति । चो विकल्पार्थः । नियोगस्तु निरनुमानं इत्याह । निरनुमानं तु विष्टं ह्यपरंपरेणेत्येतदिति । नियमो गन्ध एव पृथिव्नयामित्येवमादिः । तस्य कारणं प्रमाणं नास्ति तद्बाधकस्यैव प्रमाणस्योक्तत्वात् । तस्माद्भूतसृष्टिः कथं चिदुपचारतो व्याख्येयेति । विष्टत्वं संयोगः स च द्वयोःच समान इति । अन्यगुणो यदन्यत्रोपलभ्यते तत्किं संयोगादोहो स्विद्व्याप्तेः, यदि व्याप्तेः नायोगोलके वह्निसंपृक्ते वह्निगुणा गृह्येरन् ।

तयोर्व्याप्यव्यापकभावाभावात् ।
धूमे च गगनतलावलम्बिनि भूमिष्ठेन वह्निना व्याप्तेरग्नेर्गुणागृह्येरन् तयोर्व्याप्यव्यापकभावात् ।
तस्मादन्यसंयोगो हेतुः स चोभयोरविशिष्ट इति तेजसा संयुक्तस्य वायोरपि रूपवत्त्वेन चाक्षुषत्वप्रसङ्ग इति ॥ ६६ ॥

न्या.सू._३,१.६७: पूर्वपूर्वगुणोत्कर्षात् तत्तत्प्रधानम् ॥

पूर्वनम् (सू. ६७) ॥

प्रधानतापदार्थं व्याचष्टे भाष्यकारः विषयग्राहकत्वं गन्धादिर्विषयः । तदेव विषयग्राहकत्वं कुतस्तत्राह । गुणोत्कर्षात्तदभिव्यक्तिसामर्थ्यात् । विषयग्राहकत्वं चेत्प्राधान्यं तत्सर्वेषामेवेन्द्रियाणां विषयग्राहकत्वादित्याशयवान् वार्त्तिककरो भाष्यकारीय व्याख्यानममृष्यमाणः पृच्छति । का प्रधानता ( ३९५ । ८ ) । स्वमतेनोत्तरमाह । चतुर्गुणत्वादिरिति । एतदुक्तं भवति यस्माच्चतुर्गुणत्वेन पार्थिवं घ्राणं रसनादिभ्य आप्यादिभ्यः प्रधानं तस्मादस्यागन्धवत्त्वं नास्ति येन गन्धं न गृह्णीयात् । न न्वेवं रसवत्त्वान्दिकमप्यस्ति घ्राणस्यति रसादिकमपि गृह्णीयादत उक्तं गुणोत्कर्षादिति । सर्वेषां समवायाविशेषेऽपि गन्धस्यैव घ्राणौत्कर्ष इति गन्धमेव गृह्णाति तेनागन्धवत्त्वनिषेधपरं प्रधान्याभिधानं न पुनर्गन्धग्रहणे गन्धवत्त्वं प्रयोजकमपि तु गन्धस्योत्कर्ष इति सिद्धम् । तत्रोत्कर्षपदार्थं पृच्छति वार्त्तिकारः को गुणोत्कर्षः । उत्तरं स्वगुणाभिव्यक्तिसामर्थ्यं स्वो गुणो घ्राणस्य मन्धः तज्जातीयश्चन्दनादिसमवेतोऽपि गन्धः स्व इत्युच्यते । न पुनः स्वगुणमेवाभिव्यनक्ति घ्राणं घ्राणसमवेतस्य हि गन्धस्यादृष्टवशात्तादृशो निर्माणभेदो येन सजातीयं चन्दनादिसमवेतं गन्धमभिव्यनक्ति यथा मृगमदादिगन्धं पार्थिवद्रव्यान्तरसमवेतो गन्ध इति । अत एवाह येन गुणेन यद् द्रव्यमुत्कृष्यते स तज्जातीयाभिव्यञ्जकत्वादुत्कृष्टो भवति । तस्मिन् द्रव्यैति शेषः ।

यः पुनर्गन्धगुणत्वादिति ।
गन्धमात्रगुणत्वोदेव घ्राणं गन्धस्य व्यज्जकं न तु मन्धस्योत्कर्षादित्यर्थः ।
तस्य वादिनः सर्वेषामेव पार्थिवानां गुणानामुपलब्धिप्रसङ्गः घ्राणग्राह्यत्वप्रसङ्ग इत्यर्थः ॥ ६७ ॥

न्या.सू._३,१.६८: तव्द्यवस्थानं तु भूयस्त्वात् ॥

ननु भवतोऽपि कुतो व्यवस्थितिरिति सूत्रमवतारयितुं पृच्छति ।
कस्मात्पुनरिति ।
तद्व्यत् ( सू. ६८ ) ॥

अर्थनिर्वृत्तीति । अर्थः पुरुषार्थः ।

प्रविभक्तस्येति ।
इतरेभ्यो विशिष्टस्य ।
संस्कारकारित इति ।
अदृष्टकारित इति ॥ ६८ ॥

न्या.सू._३,१.६९: सगुणानामिन्द्रियभावात् ॥

शङ्कते । यदि पुनरिन्द्रियस्य गन्ध इति ( ३९६ । ६ ) निराकरोति । तेनैव तस्येति ।

न्या.सू._३,१.७०: तेनैव तस्याग्रहणाच्च ॥

तदेतद्ग्रहणकवाक्यं सोपस्कारं व्याचष्टे । यदीनिद्रयं स्वगन्धं गृह्णीयात्ते तव दर्शनेनासाविन्द्रियगन्धः, अथेन्द्रियगन्धस्ततो नेन्द्रियग्राह्यः स्यात् । कस्मान्नेन्द्रियग्राह्य इन्द्रियगन्ध इत्यत आह । गन्धं च गृह्णदिति । चो हेत्वर्थे । न चात्मसाधनं करणमस्तीति मनस्तु लिङ्गवदात्मनि करणं न केवलमित्युक्तम् ।

तुल्यत्वमापादयितुं सिद्धान्ती पूर्वपक्षिणमनुयुङ्क्ते कस्मात्पुनरिदं न चोद्यत इति ।
पूर्वपक्ष्याह न चोद्यत इति ।
सिद्धान्तवाद्याह तुल्ये घ्राणेन स्वस्य गन्धस्याग्रहणमिति ।
तुल्यतामेवापादयति एतदप्यदेशनीयमिति ॥ ७० ॥

न्या.सू._३,१.७१: न शब्दगुणोपलब्धेः ॥

न्या.सू._३,१.७२: तदुपलब्धिरितरेतरद्रव्यगुणवैधर्म्यात् ॥

( ३९७ । ११ ) शब्दगुणत्वमेव दिक्कालयोरिति चेद नाम्नि विवादः दिक्कालयोर्हि शब्दगुणत्वे सत्यसाधारणयोगित्वेन न परापरव्यतिकरकारणत्वं पृथिव्यादिवद्भवितुमर्हतीति । तथा च शब्दगुणं परापरप्रत्ययकारणं चाकाशमेवेति नाम्नि विवादः । दिक्कालौ तु परापरव्यतिकरकारणे कल्पनीयौ तेन व्यतिरिक्तावित्यर्थः । अपि चाकाशमिच्छत आकाशप्रत्याख्यानं च सामर्थ्यानुपलब्धेरिति । रूपादिसाक्षात्कारे हि इन्द्रियाणामिन्द्रियत्वमेव स्वरूपसामर्थ्यं तच्चक्षुरादिद्रव्यस्य दृष्टं न गुणादीनामित्यर्थः ॥ ७५ ॥ इति मिश्रश्रीवाचस्यतिविरचितायां न्यायवार्तिकतात्पर्यटीकायां

तृतीयाध्यायस्य प्रथममाह्निकं समाप्तम् ॥

श्रीवाचस्पतिमिश्रविरचितायां न्यायवार्तिकतात्पर्यटीकायां

तृतीयोऽध्यायः

न्या.सू._३,२.१: कर्माकाशसाधर्म्यात् संशयः ॥

परीक्षितानीन्द्रियाण्यर्थाश्च बुद्धेरिदानीं परीक्षाक्रमः । क्रमः स्थानं । वृत्तवर्त्तिव्यमाणानुकीर्त्तनं हेतुहेतुमद्भावज्ञापनार्थम् । अर्थोन्द्रियपरीक्षा च बुद्धिपरीक्षणं ( च ) यथोपयुज्यते तथा बुद्धिपरीक्षायामेव स्फुटपीभविष्यति । संशयमाक्षिपति । अनुपपन्नरूप इति । (३९८ । १२) यद्युपलभ्यमानज्ञानविषयः संशयः सोऽनुपपन्नः सांख्यानामपि तदनित्यत्वस्याभ्युपगमात् । अथ सांख्याभिमतमहत्तत्त्वविषयः तस्य सत्त्व एव विप्रतिपत्तिरिति कुतस्तद्गतधर्मविचारः सति धर्मिणि धर्माश्चिन्त्यन्ते न सन्दिग्धसत्त्वा इति भावः । समाधते दृष्टिप्रवादेति । सांख्यानां हि दर्शने प्रवादो महदन्तः करणं बुद्धिरिति तदुपालम्भार्थं दूषणार्थं प्रकरणमिति । अयमभिप्रायः नेह नित्यानित्यविचारोऽपि तवनया द्वारा वृत्तरतिरिक्ता सांख्याभिमता बुद्धिर्निराक्रियते सामान्यतो बुद्धिमात्रस्य नित्यानित्यत्वविचारेण ।

यदि हि नित्या बुद्धिः स्यात्ततो वृत्तिभ्य उदयव्ययवतीभ्योऽतिरिक्तं महत्तत्वमन्तःकरणं स्यात् ।
अथ तु नित्यत्वसाधनानि प्रतिसन्धानादीनि न बुद्धिनित्यत्वस्येशते ततो वृत्तय एव बुद्धयो न तु तदतिरिक्तं बुद्धितत्त्वं सिध्यतीति सिध्यति बुद्धिरुपलब्धिर्ज्ञानमित्यनर्थान्तरमिति बुद्धेर्लक्षणं तथा चास्पय लक्षणे सङ्गतिः इतरथा तु प्रधानतो नित्यानित्यत्वविचारो न लक्षणेन सङ्गच्छत इति ॥ १ ॥

न्या.सू._३,२.२: विषयप्रत्यभिज्ञानात् ॥

साधनं च प्रचक्षते । विषयप्रत्यभिज्ञानादिति । ( ३९९ । ३ ) वृत्तिमान् किल विषयं प्रत्यभिजानन्नात्मानमपि प्रत्यभिजानाति ।

न च चेतनो वृत्तिमान् तस्य कूटस्थनित्यत्वात् ।
अन्यथा पूर्वापरावस्थाभेदवान् न कृटस्थनित्यः स्यात् ।
परिणामिनित्या तु बुद्धिरुदयव्ययवदनेकवृत्तिमती युज्यत इति भावः ॥ २ ॥

न्या.सू._३,२.३: साध्यसमत्वादहेतुः ॥

सिद्धान्त्याह साध्यसमत्वादहेतुरिति । वृत्तयो हि वृत्तिमतो भिन्नस्तेन तासां नित्यत्वेऽपि न वृत्तिमान् कौटस्थ्वाच् च्यवते । तथा च प्रत्यभिज्ञातात्मैव प्रत्यभिज्ञानान्नित्यः स्यान्न त्वन्तःकरणं बुद्धिसंज्ञकं, न हि तत्प्रत्यभिज्ञाने प्रकाशत इत्यर्थः । क्रियानाधारत्वाच्च करणस्येति । प्रधानक्रियानाधारः करणं प्रधानक्रिया चेयमुपलब्धिः स्वतो यदाधारा प्रतीयते स कर्त्ता न करणं, तथा च प्रत्यभिज्ञानाद्युपलब्ध्या तदाधारः कर्त्तात्मा सिध्यति नित्यो न तु करणमित्यर्थः । क्रियामात्राभिधानेन शङ्कते । स्वक्रियेतञ् प्रिधानक्रियामालम्ब्य निराकरोति । सत्यं भवतीति । ननु यदि भेदविवक्षया कर्त्रादिशब्दवृत्तिरभेदविवक्षया च कारकशब्दप्रवृत्तिः कथं तर्हि कर्त्ता कारकं करणं कारकमित्यादिसामानाधिकरण्यं भेदाभेदविवक्षयोर्विरुद्धार्थत्वादित्यत आह । कारकशब्देनापीति ( ४४० । ४ ) नाभेदविवक्षा विशेषाणां किं तु सामान्यविवक्षा भिद्यत इति भेदो न भेदोऽभेद इति सामान्यस्याभिधानात् । तथा च सामान्यविवक्षया प्रवृत्तः शब्दस्तद्भेदाभिधानाद्भेदवाचिना सामानाधिकरण्यं प्रतिपद्यमान इतरेतरव्यावृत्ते विशेषेऽपादानादौ प्रवर्त्तते अन्यस्य कारकविशेषस्य कारकशब्देन सामानाधिकरण्यासंभवात् । पूर्ववदिति । द्वितीयाध्यायोक्तं कारकविशेषस्य लक्षणं स्मारयति । चोदयति यद्यन्यकारकेति । कारकाणामुपादानेन खलु प्रवर्त्तितः कर्त्ता कारकाण्युपादत्ते । तस्मादितराप्रयोज्यत्वमस्यासिद्धमित्यर्थः । परिहरति । न प्रयुज्यते फलस्य प्रयोजकत्वादिति । नाप्रयुज्यमानं कर्त्तारं ब्रूमोऽपि तु कारकाप्रयोज्यं, न च फलं कारकमित्यर्थः । उपेत्य प्रत्यभिज्ञानमन्तः करणे तस्येति । प्रत्यक्षं चेत्प्रत्यभिज्ञानं नैकत्वे किं त्वनुमानं ततो यद्यत्प्रत्यभिज्ञायते तत्तदेकमिति न निदर्शनमस्ति, न हि तस्यैकत्वमन्यतो निश्चितमतः प्रतयभिज्ञानात् । नाप्यनेकत्वं दृष्टं तथा चासाधारणतया हेत्वा भास

इत्यर्थः ।
प्रत्यभिज्ञानस्वरूपावधारणे च सति विरुद्धो हेत्वाभासो बुद्ध्यनित्यत्वसाधनादिति ।
शेषं निगदेनैव व्याख्यातम् ।
चेतनाध्यवसायाभेदो बुद्धिलक्षणेऽस्माभिर्विचारितः ॥ ३ ॥

न्या.सू._३,२.४: न युगपदग्रहणात् ॥

वृत्तिमतोऽवस्थानाद्वृत्त्यवस्थानप्रसङ्ग इति सूत्रार्थः ॥ ४ ॥

न्या.सू._३,२.५: अप्रत्यभिज्ञाने च विनाशप्रसङ्गः ॥

न्या.सू._३,२.६: क्रमवृत्तित्वादयुगपद्ग्रहणम् ॥

न्या.सू._३,२.७: अप्रत्यभिज्ञानं च विषयान्तरव्यासङ्गात् ॥

न्या.सू._३,२.८: न गत्यभावात् ॥

आक्षेप्तुर्वचनं ममाप्येवं कस्मान्नेति ( ४०३ । १५ ) समाधातुर्वचनं न कारणभेदे दृष्टत्वादिति । कारणभेदेहि सति एकस्य कर्तुर्युगपदनेकं कार्यं दृष्टम् । साङ्ख्यानां चान्तःकरणं कर्तृ व्यापकं चेति सर्वव्यापकेनान्तः करणेनाधिष्ठितानीन्द्रियाणि युगपदेव कार्याणि कुर्युः । अस्माकिं त्वन्तःकरणस्य करणत्वादेकेन्द्रियग्राह्येऽपि न युगपत्कार्योत्पाद इति विशेषः । गत्यभावाच्च प्रतिषिद्धं विभुनोऽन्तःकरणस्यायुगपद्ग्रहणं न लिङ्गान्तरेणानुमीयत इति भाष्यस्य गतयभावाच्च विभुनोऽन्तःकरणस्येति प्रतीकमनूद्य तस्यार्थमाह प्राप्त्यर्थस्य गमनस्या भावादिति । न चाऽयुगपत्प्रत्ययोत्पत्तौ प्रमाणमस्ति येन प्रमाणेन प्रतिषिद्धमपि प्रत्ययायौगपद्यं प्रतिपद्यते । तस्माद्विभुन्यन्तःकरणेऽवश्यंभावि प्रत्यययौगपद्यं न चैतद्दृष्टं तस्मादन्तःकरणमण्वित्यर्थः । ननु दीर्घां शष्कुलीं भक्षयतः पञ्चानामपि ज्ञानानां युगपदुत्पादो दृष्ट इति कोऽयं प्रसङ्गः अन्तःकरणस्य विभुत्वे युगपदुत्पादः प्रसज्येतेत्यत आह । न च युगपत्प्रत्ययोत्पत्ताविति । अतिशीघ्रतया युगपदुत्पादाभिमानो न तु तत्र यौगपद्यं भाविकमित्यर्थः । पुरुषो जानीते नान्तः करणमिति स्वमतसमाधानपरं भाष्यं व्याचष्टे यस्य पुनर्वृत्तिर्वृत्तिमतोरिति । ( ४०४ । १२ ) यदपि सांख्या आचख्युर्विषयान्तरव्यासक्तेऽन्तःकरणे चक्षुरादिसंबन्धस्याप्यज्ञानदन्तःकरणवृत्तिर्ज्ञानमिति तन्निराकरणपरं भाष्यमेतेन विषयान्तरव्यासङ्ग इति । तदनुभाष्य वार्त्तिककारो व्याचष्टे । एतेनेति । तत्रेति ।

नेत्यस्योपजीव्यमाह पुरुषो जानीते नान्तःकरणमिति ।
हेतुना विषयान्तरव्यासङ्गोऽन्तःकरणस्य प्रत्युक्तः ।
व्यासक्तो हि स भवति यो जानीते ।
न चान्तःकरणं जानीते किं तु पुरुष इति तस्येदृशव्यासङ्गो नान्तःकरणस्य, अन्यादृशस्त्वन्तःकरणस्य व्यासङ्गो न निषिध्यतैत्यर्थः ॥ ८ ॥

न्या.सू._३,२.९: स्फटिकान्यत्वाभिमानवत् तदन्यत्वाभिमानः ॥

चोद्यभाष्यम् एकमन्तःकरणं नानावृत्तय इति तद्व्याचष्टे । एकमन्तःकरणं नानावृत्तय इति । नैतदिति । सम्यगाचष्टे जानीते संचक्षाणकः सांख्यः । सङ्ख्या हि समीचीना बुद्धिस्तया वर्त्तत इति सांख्यः । एतदुक्तं भवतियद्यपि वृत्तयो नाना प्रतिभान्ति तथाऽपि भ्रान्तिरियमन्तःकरणादेकस्मादभिन्नानां नानात्वानुपपत्तेः । तस्मात्स्फटिकस्य यथैकस्यापि तापिच्छजपाकर्णिकारादिकुसुमोपधानभेदाद्भेद औपाधिक एवमन्तःकरणमणेरपि स्वच्छस्येन्द्रियप्रणाडिकया तत्तदर्थोपरक्तस्यौपाधिकं नानात्वं वृत्तिरिति च प्रत्यय इति ज्ञानमिति चाख्यायतैत्यर्थः । तदेतद् दूषयति । नानेकान्तादिति । ( ४०५ । ४ ) योऽपि वृतीनामौपाधिकभेदमाह तेनाप्युपाधयोऽर्था आजानतो भिन्ना वक्तव्याः । तथा च भेदस्य द्विधा दर्शनादनेकान्तो दृष्टान्तो नैकार्थस्य साधकः । न हेत्वभावादिति भाष्यं व्याचष्टे यथाश्रुतिसूत्र इति । न केवलं साधनाभावो बाधकं चात्रास्तीत्याह विकल्पानुपपत्तेश्चेति । न परपक्षस्य प्रतिषेधमात्रेण स्वपक्षसिद्धिरस्तीत्याशयवान् पृच्छति । अथ भवतामिति । उत्तरं ज्ञानानां क्रमेणेति । स्यादेतत् प्रत्ययनानात्वाभिमानो भविष्यति हेतुरेकत्वे वृत्तीनाम्, एकत्वं वृत्तीनां नानात्वाभिमानविषयत्वात् स्फटिकवदिति तस्मान्न हेत्वभाव इति अत आह । एकानेकविषयत्वाच्च प्रत्ययनानात्वाभिमानस्य एकानेकविषयाधिगतिः कथमिति । नानात्वाभिमानोऽपि दृष्टान्तवदसाधकः नैकान्तिकत्वात् । तदेवमन्तरा परकीयामाशङ्कां निराकृत्य पुनरपि वृत्तिभेदं साधयति । यश्चायमभिन्न इति । यद्यर्थोपधानभेदात्प्रययेषु भेदो नाजानत स्तत एकस्मिन्नर्थे न प्रत्ययभेदः प्रत्ययोपधानभेदाभावादित्यर्थः । कश्चिद्देशयति । स्फटिक इति । परिहरति नैरन्तर्यदर्शनादिति । ( ४०६ । १ ) नीलीद्रव्यलेपस्यापि सान्तरत्वं नीलः स्फटिक इति साक्षात्कारानुमेयमिति भावः । इतोऽपि प्रत्ययभेद इत्याह । यस्य च प्रत्ययाभेद इति । प्रमाणस्य भेदः प्रत्ययलक्षणकार्यभेदोन्नेयो नासति प्रत्ययभेदे भवितुमर्हति । शङ्कते विषय भेदादिति । एतदुक्तं भवति । प्रातिस्विकोऽपि भेदो विषयाणां यदि प्रमाणभेदहेतुः हन्तैतस्यानन्त्येन प्रमाणानामनन्तो भेदः स्याद् न तु त्रित्वं तस्मादवान्तरसामान्यं विषयाणामास्थेयं न च तदपि स्वरूपमात्रनिष्ठं विषयाणां संभवति एकस्मिन्नपि प्रमाणानां संप्लवात् । तस्मात्प्रत्ययभेदोपहितसामान्या विषयास्त्रित्वे व्यवतिष्ठमानाःप प्रमाणमपि त्रित्वे व्यवस्थापयन्ति । सामग्रीत्रयान्वयव्यतिरेकानुविधायिनश्च प्रत्ययास्त्रयो भवन्ति । तथा च त्रिविषयत्वात्प्रमाणानि त्रीणि, तदिदमुक्तं विषयभेदादिति । निराकरोति । तन्नेति । प्रमाणाभेदे सामग्रीत्रयाभेदे तदुनविधायिनां प्रत्ययानामभेदात् । न हि प्रत्ययभेदामन्तरेण सामग्रीभेदः शक्यो विज्ञातुं, तस्मात्प्रत्ययसामग्रयभेदेऽपि विषयभेदानधिगतेर्न विषयभेदस्त्रित्वाधिगमो वा प्रत्ययभेदमन्तरेणेति । शङ्कते विषयतादात्म्यादिति चेत् । प्रत्ययप्रत्येतवययोरभेदादुपपन्नः प्रत्ययभेद इत्यर्थः । निराकरोति ।

तन्नेति ।
अपि च प्रत्ययाभेदे प्रकारवत्त्वाभावाद् यथाध्यवस्यति बुद्धिस्तथा चेतयते पुरुष इति व्याघातः ।
कुतोऽप्रकारवत्त्वाद् भिन्नो हि प्रकारवान् भवति नाभिन्न इत्यर्थः ।
अन्तःकारणस्य बुद्धेः प्रत्ययानामभेदे बुद्धिस्तं प्रत्ययमुपलभते इति विरोध इति ॥ ९ ॥

न्या.सू._३,२.१०: स्फटिकेप्यपरापरोत्पत्तेः क्षणिकत्वाद् व्यक्तीनामहेतुः ॥

तदेवं स्वमतेन सांख्यपक्षं दूषयित्वा बौद्धैर्यत्सांख्यराद्धान्ते दूषणमुक्तं तद् दूषयितुं बौद्धमतमुपन्यस्यति ।
स्फटिकान्यत्वाभिमानैतदिममृष्यमाणः क्षणिकवाद्याहेति ।
स्फटिःतुः ( सू. १० ) ॥

यत्सत्तत्सर्वं क्षणिकं यथा शरीरं तथा च स्फटिक इति जरन्तो बौद्धाः । शरीरस्या च च कालपरिपाकवशेन स्थौल्यस्य ह्रासस्य च दर्शनात् प्रतिक्षणं सूक्ष्मः परिणतिभेदोऽनुमीयते स चान्तरा विनाश एवेति । यस्यापि स्फटिकादेस्तादृशं स्थौल्यंह्रासो वान दृश्यते तस्यापि सत्त्वेन शरीरवदेव प्रतिक्षणं विनाशोत्पादावनुमीयेते इति । स्यादेतद् यदैवोपचयापचयौ शरीरस्य दृश्येते तदैवोत्पादविनाशौ भविष्यतः पूर्वं तु तत्प्रबन्धकल्पनायां किं प्रमाणमित्यत आह । यस्पय खलु प्रतिक्षणमिति । ( ४०७ । ९ ) अस्य प्रयोगः प्रतिक्षणमन्यच्चान्यच्चेति ।

पटस्य कुङ्कुमादिद्रव्यसंयोगे सत्यन्तेऽरुणिमलक्षणो विशेषो दृश्यते न चास्यारुणिमा प्रतिक्षणभावीत्यत उक्तं बाह्यप्रत्ययाभेदेसतीति ।
अभिन्नो हि शरीरोपचयहेतुः प्रतिदिनमुपयुज्यमानोऽन्नपानप्रचथोयथा पाकजोत्पत्तावौष्ण्यापेक्षो वह्निसंयोगो बाह्यः प्रत्ययः कारणं, पटे त्तु रागोत्पत्तौ कुङ्कुमद्रव्यसंयोगः सांप्रतिको विशिष्ट इत्यर्थः ॥ १० ॥

न्या.सू._३,२.११: नियमहेत्वभावाद् यथादर्शनमभ्यनुज्ञा ॥

सिद्धान्तसूत्रम् ।
नियज्ञा (सू. ११) ॥

तदेतद्व्याचष्टे । तदिदमुपचयापचयेति । न हि धूमदर्शनानुमितो वह्निः क्वचित्प्रवर्त्ततैत्यदृश्यमानेऽपि धूमे पर्वतत्वमात्रेण पर्वतान्तरेऽपि वह्निमनुमिन्वतेऽनुमातार इत्यर्थः । शङ्कते यत्रोपलब्धिरिति । क्षणिकत्वं पूर्वापरभागविकलकालकलामात्राबस्थायित्वम् । न च तादृशं क्षणिकत्वं नैयायिकांनां क्वचिदपि संमतमिति न सिद्धसाधनमित्यर्थः । निराकरोति । सत्यमिति । कस्मात्पुनरस्मदभिमतैव क्षणिकता न सिध्यत्युपचयापचयप्रबन्धदर्शनादित्यत आह । उपचयापचयप्रबन्धदर्शनं चान्यथा भवदिति । चो हेत्वर्थः । शङ्कते तुल्यमिति । ( ४०८ । ५ ) निराकरोति नासाधनादिति । एकान्तनिश्चयं विना न साधनं, दूषणं तु सन्देहापादनेनापीति, सोऽयं साधनदूषणयोर्विशेष इत्यर्थः ॥ ११ ॥

न्या.सू._३,२.१२: नोत्पत्तिविनाशकारणोपलब्धेः ॥

उत्तरसूत्रमवतारयति ।
अथावश्र्यं साधनं वक्तव्यमिति ।
नोत्पब्धेः ( सू. १२ ) ॥

उत्पत्तिविनाशकारणं ज्ञापकमवयवोपचयापचयौ न क्षणिकपक्षे युज्येते । निरन्वयोत्पादविनाशयोरुपचयापचयप्रतययाभावादिति । उपचयापचयात्पत्तिविनाशकारणोपलब्धेरिति । उपचयापचयौ च तावुत्पत्तिविनाशकारणे चेति कर्मधारयः । उत्पत्तिविनाशकारणोपलब्धेरित्यस्य व्याख्यानान्तरमाह । अथवा कारणमिति । ( ४०९ । १ ) समवायिकारणं हि कार्यात्पूर्वं च कार्यकाले चेति लोकसिद्धं तच्चैतत्क्षणिकत्वेऽनुपपन्नमित्यर्थः । एककालानुभाविनी अनुभवः प्राप्तिः एककालप्राप्ते इत्यर्थः । भिन्नलोकमर्यादः शङ्कते आधाराधेयभावस्येति।निराकरोति नानेकान्तात् । भवतामपि राद्धान्ते रूपं सप्रतिधं कार्यमाधारवच्च । यदि तु रूपमप्यनाधारं मनुषे ततस्ते स्वसिद्धान्तव्याकोप इत्याह । स्पर्शस्तदाश्रय इति च व्याघात इति । सर्व तदेककालानुभावि सिद्धं भवतीति । शङ्कते सिद्धः कार्यकारणभावः क्षणिकेष्वपीति । कार्यस्यानाधारत्वप्रसङ्गेन, न हि क्षणिकत्वे कार्यकारणभावो न सिध्यति । सतु सिद्धः क्षणिकत्वपक्षेऽपीति कारणविनाशसमकालत्वेन कार्योत्पादस्य कार्यकारणयोः समानकालत्वादित्यर्थः । निराकरोति । न हेत्वर्थापरिज्ञानादिति । एतावता प्रयासेन त्वया कार्यकारणभावः क्षणिकानां समर्थ्यते न चायमक्षणिकत्वे हेतुरपि त्वाधाराधेयभावः स चाशक्यसाधनः को नु खल्वयं कारणविनाशः कारणाभावो वा विनाशकारणसान्निध्यं वा । पूर्वस्मिन्पक्षे कार्यकारणयोः कुतः समानकालता । उत्तरस्मिन्नप्युत्पन्नस्य पश्चाद्विनाशकारणमान्निध्येऽपि कुतः सतः क्षणिकता । न चोत्पद्यमानताविनश्यत्तयोस्तुल्यकालत्वमनुभवविरोधात् । कार्यस्य च तदैवोत्पद्यमानत्वे कार्यकारणभावाभावः सव्यदक्षिणशृङ्गवदिति भावः । अपि च दृष्टान्तोऽपि साध्यविकल इत्याह । तुलाधारस्येति । ( ४१० । १ ) ये अवयवकर्मणी लासोल्लासौ न तयोःप कार्यकारणभावः ।

यत्त्ववयविकर्मन तत्र यौगपद्यं नापि कार्यकारणभाव एकत्वादित्यर्थः ।
गुरुत्वाप्रयत्नसंयोगा उन्नतेरिति ।
विधारकः प्रयत्नस्तुलाधारस्य तदपेक्षः संयोगः सयुक्तंसंयोगो गुरुत्वं च तत्संयुक्तावयवान्तरवर्तिकारणमुन्नतेस्तुलावयवस्य अनवतेरपि द्रव्यं गुरुत्ववत्सुवर्णादि परिमयिमाणं तत्संयोगानुगृहीतो रज्जुतुलासंयोगः कारणम् ॥ १२ ॥

न्या.सू._३,२.१३: क्षीरविनाशे कारणानुपलब्धिवद् दध्युत्पत्तिवच्च तदुपपत्तिः ॥

न्या.सू._३,२.१४: लिङ्गतो ग्रहणाद् नानुपलब्धिः ॥

चोदयति न नास्ति शीतोष्णस्पर्श भेदस्येति । ( ४११ । ५ ) परिहरति स तु निमित्तान्तरादिति । पुनश्चोदयति । अप्तेजोवयवानुप्रवेशो न युक्त इति । स्वगता महाभूतविशेषास्तदवयवाः पृथिव्यादयः ते हि परस्परतो विशिष्यन्त इति विशेषाः । परिहरति । न युक्तमिति । यदि प्रतिक्षणमन्यत्वमात्रेण विशेषस्ततः काष्ठक्षणानामपि भूम्यश्मलोहवद्विशेषोपलम्भः स्यात् । यथा हि काष्ठक्षणादकस्माल्लोहक्षणा भिद्यन्ते एवं काष्ठक्षणान्तराण्यपीति । तस्मात्पार्थिवत्वेऽपि स्वतो विशेषावास्थेयौ यतो भूम्यश्मादिभ्यो व्यावर्त्तन्ते न व्यावर्त्तन्ते च काष्ठक्षणान्तरेभ्यः काष्ठक्षणः तस्मादेव विशेषादक्षणिकत्वेऽपि काष्ठभूम्यश्मलोहानामुपपन्नौत्तरेत्तरो विशेष इति वृथा क्षणिकत्वकल्पनेति । असाधनं भूस्वभावः । क्षणिकत्वसिद्धावित्यर्थः । दूषणान्तरमाह । विरुद्धश्चायं हेतुः । उत्तरोत्तरविशेषदर्शनादिति । भवतां किल भूतानामन्योन्यव्यावर्त्तकं लक्षणे खरस्नेहौष्ण्येरणात्मकानि भूतानीति । खरा पृथिवी स्नेह उदकम् उष्णं तेजः ईरणं समीरणो गतिमानिति यावत् । तथोत्पादे तु काष्टभूम्यश्मलोहानामङ्गीक्रिषमाणे एकमेव खरोष्न्ने खरोष्णेरणात्मकं स्यादिति संकीर्णत्वा द्भूतलक्षणव्याघात इति । कठिनमिति खरां पृथिवीमुपलक्षयति । अस्मत्पक्षे तु न व्याघात इत्याह यस्य पुनरिति । न केवलं पृथिव्यादिलक्षणेन विरुध्यते अपि तु शीतोष्णस्पर्शभेदेन नानात्वस्य साधनेन पूर्वोक्तनापीत्याह । विरुद्धश्चायमिति । ( ४१३ । १ ) पृच्छति कथम् । उत्तरम् । एकस्य विशेषाभ्युपगमात् । येनैव विशेषेण पूर्वस्मान्नानात्वमभ्युपगतं शीतोष्णादिना भेदेन, तेनैव सम्प्रत्येकत्वादित्यर्थः । सिद्धान्तमभ्युपेत्येति । पूर्वेण हेतुना योऽभ्युपगतोऽर्थः तद्विरोधितया विरुद्धैत्यर्थः । शङ्कते अथ मन्यसे न विशेषमात्रमिति । मा भूद्रूपं सप्रतिघमुपादानमिति रूपस्यैकस्य नानात्वमिति भावः । निराकरोति नाभिप्रायेति । यस्त्ववयवानुप्रवेशे देशयेदुष्णजले वह्निस्पर्शवद्रूपग्रहेऽपि स्यादयोगोलकैवेति तंप्रत्येकदेशिमतेन परिहारमाह । जलेऽग्निरूपग्रहणप्रसङ्स्त्विति । तद्दूषयति । तन्नेति । युक्तं मध्यन्दिने सवितृप्रकाशेनोल्वणेन मन्द उल्काप्रकाशोऽभिभूयते सजातीयत्वे सत्युल्बणत्वात् । तोयरूपं तु नोल्बणं न च सजातीयमभावस्वरत्वात् । तेजस्तु भास्वरं तस्मान्नाभिभव इत्यर्थः । परमार्थपरिहारमाह । अपि तु तेजसश्चातुर्विध्यात् । किं चिदुद्भूतरूपस्पर्शं तेजो भवति, यथा सवितृ प्रकाशः शरदि दिवा, किञ्चिदनुद्भूतरूपस्पर्शं यथा चाक्षुषं तेजः किं चिदुद्भूतरूपमनुद्भूतस्पर्शं च यथा प्रदीपप्रभायां तेजः किं चिदनुद्भूतरूपमनुद्भूतस्पर्शं यथा चोयगतं तेजः यथा वा निशीथे निदाघसमये तेजो यतो मेदस्विनः स्विद्यन्तीति । प्रतिज्ञार्थं यथासम्भवं विकल्प्य दूषयति । या चेयं प्रतिज्ञेति । अथ वर्त्तमानं स्फटिकमभ्युपगम्य यदतीतं स्फटिकान्तरं तत्पक्षीकृत्य वर्तमानात्तदन्यदिति साध्यते । निराकरोति । एवं सतीति । ( ४१३ । ५ ) यदि लिङ्गं स्वसत्ताज्ञानाभ्यां नमकं तदा सत्यपि ज्ञाने अतीतधर्मस्य सत्ता नास्तीति न गमकमिति भावः । यदि पुनः स्वज्ञानमात्रेण गमकं लिङ्गमुच्येत तदा दूषणान्तरमाह । वर्त्तमानाच्चेति । तद्विरोध्याश्रयविनाशानुविधानेन विनश्यतीति । विरोधीति गुणाभिप्रायम् । गुणो हि विरोधिपना गुणान्तरेण नाश्यते । आश्रयनाशेचेति सर्वसाधारणम् । आश्रयग्रहणं चोपलक्षणं तेनासमवायिकारणनिमित्तकारणविनाशेनापि यथासम्भवमुन्नेतव्यमिति । शङ्कते विनश्यदवस्थेति । मा भूत्प्रदीपो दृष्टान्तो विनश्यदवस्थे तु द्रव्ये कर्मोत्पन्नमुत्पत्त्यनन्तरमेवापवृज्यते अत ईदृशं कर्म दृष्टान्तो भविष्वतीत्यर्थः । निराकरोति न कर्मण इति । कर्मापलापनिबन्धनो ह्ययं क्षणिकबादस्तदभ्युपगमे न भवितुमर्हति । स्थिराद् द्रव्यादागन्तुककर्मसहितादेव कार्योत्पादोपपत्तेरिति । निराकरणान्तरमाह अनभ्युपगमाच्चेति । तादृशस्यापि कर्मणः क्षणिकत्वस्यास्माभिः, तथा हि द्रव्यस्य विनश्यत्ता कर्मोत्पाद इत्येकः कालः।अय द्रव्यस्य विनाशः न च कारणोत्पादसमये कार्योत्पाद इति द्रव्यविनाशानन्तरं कर्मनाश इति सिद्धं क्षणद्वयावस्थानं कर्मण इति । शङ्कते । विनाशहेत्वभावादिति चेत् । अयमभिसंधिः स्वकारणादयं भावो विनश्वरो जायतेऽविनश्वरो वा ? विनश्वरश्चेद् विनाशं प्रति न हेतुमपेक्षेत न हि नीलं स्वकारणादुत्पन्नं नीलत्वे हेतुमपेक्षते तस्यैव ताद्रूप्यत् । अविनश्वरश्चेत्तथाऽपि नास्य हेतुशतैरपि शक्यो विनाशः कर्तुम् । न हि नीलमुत्पन्ने पीतं शिल्पिशतेनापि शक्यं कर्तुम् । अपि चायं विनाशो भावस्पय कारणैराथीयमानो भावाद्भिन्नोऽभिन्नो वा जायते । अभिन्नत्वे भाव एवासाविति विनष्टो भावः प्राग्वदुपलब्ध्यर्थक्रिये कुर्यात् । न च भावाभावयोः कारणभेदे सति सम्भवत्यभेदः । तन्तुसंयोगभेदेभ्यो हि पो जायते तन्तुविभागाद्वा तन्तुविनाशाद्वा पटाभाव इति कारणभेदः । भावाद्भिन्नत्वे तु जायतामभावो भावस्य किमायातं न हि क्रमेलकोत्पादने पीलवो निवर्तन्ते । अभावेन भावस्तिरोधीयत इतिचेत् । न तिरोधानस्यापि भावादभेदे पूर्ववदुपलब्ध्यादिप्रसङ्गः । भेदेऽपि तिरोधानस्यान्यस्योत्पादे अन्यस्य न किं चिदुत्पन्नं विनष्टं चेति भावतादवस्थ्यात्पूर्ववदुपलब्ध्यादिप्रसङ्गः । अपि च यद्येषां ध्रुवभावि न तत्र तेषां हेत्वन्तरापेक्षा यथा कृपाणस्यायोमयत्वे । ध्रुवभावी च कृतकानां भावानांव विनाश इति विरुद्धव्याप्तोपलब्धिः । ध्रुवभाविता हि प्रतिषिध्यमानहेत्वन्तरापेक्षत्वविरुद्धतन्निरपेक्षत्वव्याप्तोपलब्धा सेह प्रतीयमाना निरपेक्षत्वमुपस्थापयन्ती हेत्वन्तरापेक्षतां प्रतिक्षिपति । ये हि हेत्वन्तरापेक्षो न ते ध्रुवभाविनो यथा वाससि रागादयः कुसुम्भादिसंयोगसापेक्षा नावश्यं भाविन इति । तस्मादभावस्य सर्वोपाख्यारहितस्य कल्पितस्य क्रियानुपपन्नेति अभावं करोतीति करोति क्रियाया अभावेन सम्बन्धानुपपत्तेर्नञासम्बन्धो भावनं करोतीति । यथाह ... न तस्य किं चिद्भवति न भवत्येव केवल ... मिति । तस्माद्विनाशकारणाभावादुत्पन्नमात्र एवभावो विनश्यतीतिसिद्धः क्षणभङ्ग इति । तदेतन्निराकरोति । न विकल्पानुपपत्तेः । अयमभिसन्धिः यत्तावद्विकल्पितं स्वहेतुभ्यो भावा विनश्वरा अविनश्वरा वा जायन्त इति । तत्र ब्रूमः किं पुनरिदं विनश्वरत्वं भावानामभिमतमायुष्मतः किं विनाशस्वभावत्वम् आहो विनाशार्हत्वं नित्येभ्यो व्यावृत्तंरूपम् । न तावत्पूर्वः कल्पः परस्परपरिहारवतोर्भावतन्नाशयोस्तादात्म्यानुपपत्तेः । तादात्म्ये च विनाशवद्भावोऽपि द्वितीयादिक्षणेषु वर्तेतेति साधु क्षणिकत्वं समर्थितमत्रभवता भावानां नित्यत्वमुपपादयता । भावसमये वा विनाशोऽपि भावात्माऽस्तीत्यत्यन्ताभावो भावस्य भवेदिति सुष्ठवदातं तत्त्वं भावानाम् । न च भाव एकक्षणस्थितिधर्मा नाशो द्वितीयादिक्षणेष्विति साम्प्रतम् । प्रथमद्वितीयलक्षणावच्छेदलक्षणविरुद्धधर्मसंसर्गेण भेदात् । द्वितीयं तु कल्पमनुमन्यामहे । नन्वेवं विनाशार्हाश्चेद्भावाः स्वकारणादुत्पन्नाः हन्तोदयानन्तरमेवापवृज्येरन् नापवृज्यन्ते विनाशार्हा अपि पटादयस्तन्तुविनाशाद्वा तन्तुविभागाद्वा स्वकारणाधीनजन्मनो विनङ्क्ष्यन्ति । न हि तण्डुपलाः पचेलिमा इति विनैव दहनसलिलसंयोगप्रचयभेदं विक्लिद्यन्ति । काष्ठानि वा भिदेलिमानीति कुठाराभिघातमन्तरेण दलन्ति । यो मन्यते त एव तण्डुलाः पचेलिमाः ये समर्थदहनोदकपिठरस हभुवः तदनन्तरं हि पुलाकाः प्रादुर्भवन्ति, यदनन्तरं हि न प्रादुर्भवन्ति न ते पचेलिमा इति । तस्योत्तरमक्षणिकार्थक्रियामुपपादयन्तो वक्ष्यामः । तस्माद्विनश्वराणामुत्पत्तेः स्वकारणान्न विनाशकारणापेक्षा भावानामिति युक्तम् । केवलं भावादन्यस्याकारणत्त्वं ब्रुवाणः पर्यनुयोज्यो भवान् । किमकारणत्वान्नाशस्य नास्तित्वं रोचयते किं वा नित्यतां तत्रोक्तं साक्षाद्दूषणं वार्त्तिककृता भवतां शाक्यानां पक्षे अकारणं द्विधा नित्यं व्योम शशविषाणादि वा तुच्छम् । अस्माकं तु नित्मयेव भवदभिमतस्य तस्य तुच्छस्याभावस्यानङ्गीकारादस्मदभिमतस्य भवद्भिरनङ्गीकृतत्वेन नास्तीत्यध्यारोप्य राशिरेक उक्तः । उत्पन्नस्य विनाश इति सर्वजनीनं तद्विपरीतं भवत्पक्षे प्राप्नोति । नन्वस्तु भावाभावयोः सहावस्थानं को दोष इत्यत आह । ततश्च भावानामिति । ( ४१४ । ५ ) शङ्कते अथाविनाशित्वादिति । प्रयोजनक्षतिरियं यदकारणत्वे विनाशस्यैष दोष इति । न तु दोषभयेन स्फुटतरप्रमाणबाधितं कारणत्वं विनाशस्य शक्यमङ्गीकर्तुमिति भावः । गूढाभिसंधिः सिद्धान्ती पृच्छति विनाशो न विनश्यतीति कुत एतत् । चोदक आह विनष्टानामिति । सिद्धान्ती बौद्धमतमालम्ब्याह । न हि विनाशाभाव इति । यस्य पटाभाव एव तुच्छस्तस्य तदभावे का कथा तस्य तुच्छादपि तुच्छतरत्वादिति भावः । स्वमतमास्थायाह । अपि च विनाशः कारणवांश्चेति । शेषं सुबोधम् । यदप्यकारणत्वे कारणमुक्तं भावाद्भिन्नश्चेदभावो जन्येता भावतादवस्थ्यमिति । तत्रोच्यते । नाभावस्योत्पादे भावस्यापरा निवृत्तिः किं त्वभावोत्पाद एव तन्निवृत्तिः कथमन्यस्योत्पादेऽन्यस्य निवृत्तिः अत्र स्वभावभेदैरुत्तरं वाच्यं ये परस्परपरिहारावस्थितयः ते स्वहेतुभ्यो जायन्ते । न हि स्वतोऽन्यस्याङ्कुरस्पय वह्निर्न कारणमित्यन्यत्वाविशेषाद्भस्मनोऽपि न कारणमिति । स्वभावभेदेन तु कार्यकारणभावनियमसमर्थनं परस्परपरिहारस्थितिनियमेऽपि तुल्यम् । यथा चोत्पादस्य पुरस्तादखिलसामर्थ्यरहितस्याङ्कुरप्रागभावस्योपकारं किं चिदकुर्वन्तोऽपि बीजादयोऽङ्कुरमारभन्ते तदुत्पादस्यैव तत्प्रागभावनिवृत्तिरूपत्वात् । एवं तदभावहेतवोऽपि भावरूपे अकिञ्चित्करा अपि तदभावमादधति न चेद्भावरूपे किं चित्कृतं तदभावहेतुभिरथ भावः प्रागिव स्वाभावसमये कस्मान्न स्वरूपोपलम्भार्थक्रिये करोति । अथोत्पादात्प्रागिवोत्पन्नोऽऽप्यङ्कुरः कस्मादुपलम्भार्थक्रिये करोति । उत्पत्तेः प्रागङ्कुरो नासीत्तेन नाकार्षीदुत्पन्नस्त्वस्ति तस्मात्करोतीतिचेत् । हन्त भावोऽपि यदासीत्तदाऽकार्षीत्तदानीं तु विनष्ट इति नास्ति तेन न करोति । यथा च भावोत्पाद एव तत्प्रागभावस्य नास्तिता एवमभावोत्पाद एव भावस्य नास्तिता । उपजनापायधर्मतया भावाभेदो विनाशस्य ततो न सदसद्रूपतया द्वैराश्यं विश्वस्येति चेत् कोऽयमुपजनो यदि स्वकारणसमवायः सत्तासमवायो वा सोऽभावे नास्ति । अथ स्वरूपप्रतिलम्भः तथाऽपि तावन्मात्रस्य साम्येऽपि अवान्तरभेदेन द्वैराश्योपपत्तिः । तस्माद्यथा सत्त्वस्य साम्येऽपि द्रव्यगुणकर्माणि तेन तत्त्वेनान्योन्यं भिद्यन्ते एवं प्रमेयत्वाभिधेयत्वकारणवत्त्वेनाविशेषेऽपि तद्भिः सहासतां सत्तातद्विरहरूपभेदाद्भेद इति सिद्धम् । याऽपि ध्रुवभाविता विनाशस्य । तत्र ब्रूमः ध्रुवभावित्वेन विनाशस्य हेत्वन्तरानपेक्षत्वं ब्रुवाणो नाहेतुकत्वं वक्तुमर्हति । हेत्वन्तरनिराकरणे हेतुमात्रानिराकरणात् । विशेषनिषेधस्य शेषाभ्यनुज्ञाफलकत्वात् । अपि च ध्रुवभावित्वमसिद्धमनैकान्तिकं वा । इदं भावान् पृष्टो व्याचष्टां किं घटसन्तानात्सभागात् कपालसंततिर्ध्रुवभाविनी न वा । न चेद् न्न विनाशोऽपि घटस्य ध्रुवभावी न खलु विसभागक्षणोत्पादमन्तरेण घटविनाशमीक्षामहे मांसचक्षुषः तथा चासिद्धा ध्रुवभाविता विनाशस्य । अथ ध्रुवभाविनी तस्यामेव तर्हि विसभागसंततौ ध्रुवभाविन्यां मुद्गरादिहेत्वपेक्षेत्यनैकान्तिकं ध्रुवभावित्वं नानपेक्षत्वव्याप्तमिति न हेत्वन्तरापेक्षित्वं निषेद्धुमर्हतीति । तदेतद्यश्चाकारणविनाशेदोषः स चापरिहार्य इत्यनेन वार्त्तिकेन सूचितम्।एवं तावदन्यत्वे साध्ये दोष उक्त इति । ( ४१५ । ११ ) यद्यपि क्षणिकत्वमपि पूर्वमुक्तं दूषितं च तथाऽपि क्षणिकाभिधानं तवान्यपरमन्यत्वमेव तु तत्र प्रधानम् । इदानीं तु क्षणिकत्वमेव प्रधानतया साध्यमित्येतावता प्रकरणभेद इति । विशेषणं सिद्धान्तविरोधीति । यद्यनाशुविनाशिनोऽपि के चन भावा भवेयुः ततो विशेषणमाशुविनाशिन इति कल्पेत तथा च सिद्धान्तविरोध इत्यर्थः । मत्वर्थीय इति । ( ४१६ । २ ) क्षणिक इति । अत इनिठनाविति मत्वर्थीयष्ठन् । अनन्तरेण विनाशेन विशिष्यमाण इत्युपलक्ष्यमाणः । सर्वान्तकालमिति । पूर्वापरभागविकलकालकलैका ज्योतिर्विद्यासिद्धा सर्वान्त्य कालमिति संज्ञामात्रं न तु वास्तवं वास्तवी च क्षणिकताऽभिमतेति । पक्षवचनं दूषयित्वा हेतुं दूषयति येऽपीति । अत्रादिग्रेहणेन सत्त्वकृतकत्वादयः संगृहीता वेदितव्याः । तत्र यत्सत्तत्सर्वं क्षणिकं यथा घटः संश्च विवादाध्यासितः शब्दादिरिति स्वभावहेतुः सत्तामात्रानुबन्धित्वात्क्षणिकत्वस्य । कथं पुनः सत्तामात्रानुबन्धसिद्धिः क्षणिकतायाः, । उच्यते सत्त्वं नामार्थक्रियाकारित्वं भावानां नान्यत् । न ह्यस्ति सम्भवः संश्च भावो न चार्थक्रियां करोतीति । तथा हि स सर्वज्ञस्य विज्ञानस्यालम्बनप्रत्ययो भवेन्न वा । न चेद् नास्ति सर्वज्ञो वा न सर्वज्ञः तस्यैवाज्ञानाद् । आलम्बनप्रत्ययश्चेत् कथं नार्थक्रियां करोतीति । न च सत्तासामान्यं नामास्ति किं चन । नापि तत्समवायो यतः सन्नित्युच्यते । तत्सद्भावे वा न भावतां सामान्यविशेषसमवायाःप सन्तो भवेयुः तेषां सामान्याधारत्वानभ्युपगमात् । प्रमाणग्राह्यताऽपि प्रमाणविषयता प्रमाणं प्रत्यालम्बनप्रत्ययत्वमेव तच्चार्थक्रियाकारित्वान्नान्यदिति सिद्धमर्थक्रियाकारित्वमेव सत्त्वमिति । तच्च क्रमाक्रमाभ्यां व्याप्तं तृतीयप्रकारविरहात् । तथा हि भावानां तासु तास्वर्थक्रियासु क्रमाक्रमौ परस्परपरिहारवन्तौ चकास्तः तथा च क्रमाक्रमात्मकं प्रकारान्तरमपि यदीदृशाभ्यामेवानुभूतावसिताभ्यां क्रमाक्रमाभ्यां करम्बितमङ्गीक्रियते ततो दृश्यमानयोरपि क्रमाक्रमयोः परस्परसङ्करप्रसङ्गः । करम्बितावेन हि क्रमाक्रमाविमावपीति दृश्यमानः क्रमोऽक्रमात्मकः अक्रमश्च क्रमात्मकः प्रतिभासेत । न च तथा प्रतिभासते । एतेन प्रत्यक्षमेव परस्परपरिहारवन्तौ क्रमाक्रमौ परिच्छिन्दत्सर्वत्रैवानयोः संकरं प्रतिक्षिपति । यदि क्व चिदप्यनयोस्तादाम्यं भवेदिहापि तावेव क्रमाक्रमाव् इति संकीर्णौ गृह्येयाताम् । तस्मादनयोरिह संकरानुपलम्भ एव देशान्तरे कालान्तरे च संकरं निषेधति । तादात्म्यनिषेधे च दृश्यत्वविशेषणादनुपलब्धेः दृश्यमानस्तम्भतादात्म्येन स्वयमदृश्यानां पिशाचादीनां दृश्यानां च प्लवङ्गादीनामविशेषेणा प्रतिषेधात् । यथाह विशेषणं चावाच्यमिति । अनेवंभूतक्रमयौगपद्यव्यतिरेकवती प्रकारान्तरे क्रमयौगपद्ये एव न भवतः न हि शब्दाभेदेन वस्तुनोऽप्यभेदः । मा भूद्गोशब्दसामानाधिकरण्येन वागादीनामपि विषाणित्वप्रसङ्गः । स्यादेतत् । मा भूतां क्रमयौगपद्ये अस्त्वन्य एव क्रमाक्रमाभिधानः क्रमयौगपद्याभ्यामन्यः प्रकारो यमास्थाय भावाः स्थिरा अप्यर्थक्रियायायामुपयोक्ष्यन्ते । न त्वेषां प्रकारान्तरवदर्थक्रियाऽपि पिशाचायमानैव । तथा चेत् किं नः छिन्नं दृश्यमानास्त्वनुभूतावसिताःपरस्परव्यावृत्तक्रमयौगपद्यरूपप्रकारद्वयसमालिङ्गितरूपा अर्थक्रिया न प्रकारान्तराद्भवितुमीशते । न च प्रकापरान्तरमपि । तथा हि यत्र यत्प्रकारप्रतिषेधेन यदितरप्रकारव्यवस्थानियमस्तत्र न प्रकारान्तरसम्भवः यथा नीलप्रकारप्रतिषेधेनानीलप्रकारव्यवस्थायां पीते अस्ति चतयोरन्यतरप्रकारनिषेधेऽन्यतरव्यवस्थानियमो निषिध्यमानप्रकाराविषयीकृते सर्वत्र कार्यकारणे इति विरुद्धोपलब्धिः । निषिध्यमानप्रकारान्तरसम्भवविरुद्धो हि द्वयोरन्यतरनिषधेनान्यतरव्यवस्थानियम इति प्रकारान्तरासम्भवाद्भावानामर्थक्रिया क्रमाक्रमाभ्यां व्याप्ता तौ च स्थिरान्निवर्त्तमानावर्थक्रियामपि व्यावर्तयतः वृक्षतेव निवर्तमाना शिंशपात्वमाराद्दृश्यमानादेकशिलामयाद्भूभृत्कटकादिति प्रतिबन्धसिद्धिः । तथा हि न तावतावदक्षणिकः क्रमेणार्थाक्रियां कर्त्तुमर्हति । स्वेन हि रूपेण भावा अर्थक्रियायामुपयुज्यमाना दृश्यन्ते । यद्वस्तु यत्कार्यान्वयव्यतिरिकानुविहितभावाभावं तद्वस्तु तत्कार्यप्रसवसमर्थं रूपं च तस्य कार्येणानुकृतान्वयव्यतिरेकमिति रूपमेव समर्थं, तच्च द्वितीयादिक्षणेष्विव प्रथमेऽपि क्षणे सदिति द्वितीयादिक्षणजन्यकार्यकलापं प्रथम एव क्षणे निष्पादयेत्, समर्थस्य क्षेपायोगादिति नाक्षणिकस्य क्रमवद्व्यापारता प्रसज्यते । स्यादेतत् समर्थोऽपि क्रमवत्सहकारियोगात् क्रमेण करोतीति । तदवुक्तम् । विकल्पासहत्वात् । किमस्य सहकारिणः कं चिदुपकारमादधति न वा, आदधाना वा भावाद्भिन्नमभिन्नं वा । तत्र भिन्नोपकाराधाने भावे सत्यनुत्पत्तरुपकारे च सत्युत्पत्तेः एवं कार्यस्योपकार एव जनको न जनको भावः । न चोपकारसहकारी भाव एव कार्यस्य जनको नोपकारमात्रमिति वाच्यम् । उपकारस्योपकारान्तरजनने अनवस्थानात् । अजनने तु सहकारिभावाभावात् । अभिन्नोपकाराधाने च भाव एव जनयेत् स च प्रागप्यासीदिति सहकारिवैयर्थ्यम् । अनुपकारकत्वे वा सहकारिणो न भावेनापेक्ष्येरन्नित्युत्पन्नमात्र एव भावः कार्यमुत्पादयेत् । यदि मन्यते अनुपकारका अपि भवन्ति सहकारिणो यतस्तैः सह भावः कार्यं करोति । न चभावेन नापेक्ष्यन्ते तैर्विना कार्यस्यानुत्पत्तेरिति । ननु स्वरूपेण चेत्कार्यजनको भावः न कस्मान्नेमानन्तरेण जनयति तेभ्यः प्रागपि स्वरूपसद्भावात् । सहकारिरूपेण वा जनकत्वे सहकारिण एव जनका न जनको भावः । न चोभयभावाभावानुविधानादर्थक्रियाभावाभावयोरेकस्माच्च व्यभिचारादुभयाधीनतेति सांप्रतम् । भावे सत्यनुत्पादात्कार्यस्य व्यभिचारेण चरमभाविनिमित्तसहकारिसमवधाने सति भावादेव सहकारिसमवधानस्यैव चरमभाविनो व्यभिचारेण कारणत्वावधारणात् । एतेनैतन्निरस्तं यदाहुरेके ... स्वहेतोर्विलम्बकारी भावो जात इति नोत्पन्नमात्रः करोतीति ... । सा हि बिलम्बकारिता अस्य स्वभावः सहकारिसमवधानकालेऽप्यस्ति न वा, अस्ति चेत्तदापि न कुर्यात् । नास्ति चेत् कथं स्वभावनाशे भावो न नष्टः । अथास्य विलम्बकारिता न स्वभावः कथमुत्पन्नमात्रो न कार्यं कुर्यादिति । तस्मान्न क्रमेणार्थक्रिया भावनां, नापि यौगपद्येन, तस्माद्यावत्कार्य तेनाक्षणिकेन प्रथमे क्षणे सम्पादितं ताबत्सर्वं द्वितीयादिक्षणेषु सम्पादयेत् । तावत्कार्यसम्पादनस्वरूपस्य द्वितीयादिष्वपि क्षणेषु भावात् । न च सम्पादितं शक्यसम्पादनमिति यद द्वितीयादिक्षणेषु सम्पादयति तत्प्रथमक्षणे सम्पादितादन्यदिति क्रमा एवावर्त्तन्त इति तत्र चोक्तो दोषः । युगपत्कृतकृत्यस्य वा द्वितीयादिषु कर्त्तव्याभावान्नार्थक्रियासामर्थ्यमस्तीत्यसत्त्वेन क्षणिकत्वापत्तिः । तस्मादक्षणिके सत्त्वव्यापकयोः क्रमाक्रमयोरनुपलम्भाद्व्यापकानुपलब्ध्या निवर्त्तमानं सत्त्वमक्षणिकात् क्षणिकत्वेन व्याप्यत इति प्रतिबन्धसिद्धिः । नीलमेव नानुभूतावसितं समारोपिताक्षणिकभावमक्षणिकं तादृशनीलस्वरूपोपलम्भ एव तत्राक्षणिके क्रमयौगपद्यानुपलम्भः यथा भूतलस्वरूपोलम्भ एव समारोपितदृश्यत्त्वस्य घटस्यानुपलम्भः भूतलं च तथोत्पन्नं घटाभावो न त्वभावो नाम कश्चिद्विग्रहवानस्ति यः प्रतिपत्तिगोचरः स्यात् । अपि व्यवहर्त्तव्यः परम् । स्यादेतत् । क्षणिकोभावोऽर्थक्रियाजनकस्वभावो न वा, न चेदसन्नेव, तज्जनकस्वभावश्चेत्किमस्य सहकारिभिः । उत्पन्नमात्रमेव बीजमङ्कुरं जनयेत् । ननूत्पन्नो बीजक्षणः समर्थो जनयत्येवाङ्कुरं कुतः समर्थस्योत्पत्तिः समर्थस्योत्पत्तिः पूर्वस्माद्बीजक्षणात् । तर्हि तत्सन्तानवर्तिनां सर्वेषां बीजत्वाविशेषादङ्कुरजननसामर्थ्यमिति कुसुमानन्तरलब्धजन्ममात्रमेव बीजमङ्कुरं जनयेत् । मैवम् । पूर्वपूर्वक्षितिबीजपवनादिक्षणसमवधानोत्पन्नातिशयवदुत्तरक्षणपरम्परालब्धजन्माऽन्त्योबीजक्षणः समर्थः समर्थक्षित्यादिलक्षणसहभूरनपेक्ष एवाङ्कुरञ्जनयति । न चास्य क्षित्यादिसहभुवस्तदनपेक्षस्यापि तैर्विना करणे तदेकसामग्र्यधीनस्य तदभावेऽभावात् । न वा सहकारिता क्षित्यादीनां तैरेव सहाङ्कुरजननात् । तेषामपि कार्यात्पूर्वभावस्य नियमतोऽविशेषात् । तन्मात्रत्वादेव च कारणतायाः । न वानपेक्षाणानमपि प्रत्येकं कार्यान्तरारम्भणं तन्मात्रस्य तेभ्य उपलब्धेस्तत्रैव सामर्थ्यनियमात् । न च कृतकरणतयेतरेषामक्रिया सहक्रियायां कृतमित्यसम्भवात् । न च स्वकारणलब्धसन्निधयो भावाः प्रेक्षावन्तः शक्यमिदमस्मास्वेकेनापि कर्तुं कृतं नः सर्वेषां सन्निधानेनेत्यालोच्य निवर्तितुमीशते । न चस्वकारणभेदमात्रं कार्यभेदहेतुः अपि तु सामग्रीभेदः तस्मिन्सति कार्यभेदोपलब्धेः अभिन्नाभेदसामग्रीति न कार्यभेदप्रसङ्गः । परस्परसमवधानं चोपसर्पणप्रत्ययेभ्यः क्षित्यादीनामिति । न च क्षणिकस्यार्थक्रियाविरोधादसाधारणता हेतोः । न च साध्यधर्मिणि दृश्यमाने शब्दादौ व्याप्तिसाधनादेव साध्यसिद्धेरसाधनाङ्गं हेतुवचनम् । न खलु सर्वोपसंहारवती व्याप्तिर्दृश्यमात्रविषया भवितुमर्हति । शक्यं हि शङ्कितुं परेणादृश्यमामनानां सत्त्वमक्षणिकाद् न व्यावर्त्तितं त्वयेति सत्त्वमनैकान्तिकं क्षणिकत्वसाधन इति । तस्माद्यद्दृश्यमदृश्यं वा तत्सर्वं क्षणिकमिति दर्शनीया व्याप्तिः । नन्वेवमपि शब्दादेर्विवादास्पदी भूतस्य व्याप्तिदर्शनबलादेव सिद्धा क्षणिकतेति तदवस्थमेवासाधनाङ्गत्वं हेतुवचनस्य । मैवम् । असत्यपि शशविषाणादौ यत्सद्दृश्यमदृश्यं वा तत्सर्वं क्षणिकमिति यथा सर्वोपसंहारवती व्याप्तिः न च शशविषाणादयोऽपि भवन्ति क्षणिकाः एवं सत्यपि विवादास्पदी भूते शब्दादौ व्याप्तिसिद्धवपि न सिध्यति क्षणिकता, तेनावश्यं दर्शयितव्यमेतेषां क्षणिकत्वसाधनाय सत्त्वमिति नासाधनाङ्गता हेतुवचनस्येति । अत्रोच्यते । न सत्त्वं क्षणभङ्गसिद्धावङ्गमसाधारणत्वात् संदिग्धव्यतिरेकित्वाद्वा । तथा हि क्रमाक्रमाभ्यां व्याप्तं सत्त्वं तदनुपलम्भेनाक्षणिकाद्व्यावर्त्तत एवं तदेव सापेक्षत्वानपेक्षत्वाभ्यां व्याप्तं तदनुपलम्भेन क्षणिकादपि व्यावर्त्तते तस्माद्गन्धवत्त्ववदसाधारणं सदसाधनाङ्गम् । तथा ह्यन्तक्षणप्राप्तानि क्षितिपवनपाथस्तेजोबीजानि समर्थानि प्राग्भावनियतानि नियतचरमोत्पादानामवनिजलानलाङ्कुराणां कारणं भवद्भिरभ्युपेयन्ते तान्यमूनि परस्परानपेक्षाणि वा जनयेयुः सापेक्षाणि वा । ननु निरपेक्षाण्येवान्त्यक्षणप्राप्तानि क्षित्यादीन्युत्तरस्मिन्पुञ्जे जनयितव्यैत्युक्तम् । तत्किमनभ्युपगतविकल्पेन सापेक्षाणि । निरपेक्षाणि चेति । तत्किमिदानीं समर्थबीजक्षणजनकोऽपि बीजक्षणोऽनपेक्ष एव । ओंमिति चेत् । नेन्वेवं सर्व एव बीजक्षणा निरपेक्षाः स्वकार्योपजन इति कृतं सहकारिभिः । ननूक्तं नैते प्रेक्षावन्तः किं तु स्वप्रत्ययाधीननियतसंनिधयो न व्यवधेरीशत इति । तत्किमयं कृषीवलोऽपि न प्रेक्षावान् ?, प्रेक्षावान् यतः प्रयत्नेन कुसूलादवतार्य बीजमावपति भूमौ परिकर्षितायां, क्षित्यादिसहभुव एव बीजक्षणस्यातिशयोत्पादपरम्पराया अङ्कुरप्रसवसामर्थ्यात् कुशूलस्थात्तु सहस्रेणापि वर्षैरङ्कुरानुत्पादे तत्रावपतीति । चेत् । अथ किमयं न स्वसंतानमात्रप्रभवः समर्थो बीजक्षणः तथा चेत्कथं संतानान्तरं नापेक्षेत स्वकार्ये । नन्वपेक्षत एव किं तु तु स्वोत्पादे न पुनः स्वकार्ये, तत्र तस्यानपेक्षत्वमुपेयते न तु स्वोत्पादे । ननूत्पत्तावप्यस्य जागर्ति स्वसंतानवर्त्ती पूर्व एव निरपेक्षः क्षण एवं तस्य पूर्वः पूर्वः क्षणः स्वसंततिपतित एवानपेक्षो जागर्त्युपजनन इति कुशूलनिहितबीज एव स्यात्प कृती कृषीवलः कृतमस्य कृषिकर्मणा दुःखबहुलेन । तस्मात्परस्परापेक्षाणामेवान्त्यक्षणप्राप्तानां कार्यजनकत्वमकामेनाप्युपेयम् । अपि चान्त्यक्षणप्राप्तं बीजमनपेक्ष्य अङ्कुरावनिपवनपाथस्तेजांसि जनयेत्किं येनैव रूपेणाङ्कुरं जनयति तनैव तदितराण्यपि किं वा रूपान्तरेण । न तावत्तेनैव क्षित्यादीनामङ्कुरस्वाभाव्यापत्तेः । न खलु भवतां कारणाभेदे भेदवत्कार्य भवितुमर्हति । कार्यभेदस्याकस्मिकत्वप्रसङ्गात् । यथोक्तं भवद्भिरेव अयमेव हि भेदो भेदहेतुर्वा यद्विरुद्धधर्माध्यासः कारणभेदश्चेति । नापि सामग्रीभेदः तस्या अप्यभेदात् । अन्यथा सहभावनियमाभावात् । स्वकारणादासादितः कश्चिदेव स्वभावभेद एकस्तादृशो यस्मान्नानाकार्याणि जायन्ते तस्मान्नाकस्मिकत्वं कार्यनानात्वस्य नाप्यतिप्रसङ्गः तादृशस्य तस्यासार्वात्रिकत्वात् । न च कार्यकारणयोरभेदो येन कारणभेदाभेदावनुपतेतां कार्यभेदाभेदौ । तस्माद्यथा केभ्यः कश्चिदेव बहुभ्यः कार्यमेकं जायते तथैकस्मादेव कुतश्चिद्बहूनि जनयिष्यन्ते कार्याणीति चेत् । मुधैव तर्हि नानादेशवृत्तिरेकोऽवयविसामान्यसंयोगादिरर्थस्तपस्वी भवतायासितः न हि नानात्वेऽपि देशानां तदाश्रितः सामान्यादिरर्थो नाना भवितुमर्हति । तस्य तेभ्योऽभिन्नत्वात् । रूपान्तरेण बीजमङ्कुरादितरेषां क्षित्यादीनां जनकम् तथा हि बीजमङ्कुरस्योपादानं तत्सारभागविक्रिययाऽङ्कुरस्योत्पत्तेः क्षित्यादिषु तु जनयितव्येषु सहकारि पूर्वे तु क्षित्यादयः क्षित्यादीनां यथास्वमुपादानानि तद्विक्रियया तदुत्पत्तिरिति चेत् । अथ सहकारितोपादानते किमेकं तत्त्वं नाना वा । एकं चेत् कथं रूपान्तरेण जनकं नानात्वे तयोर्बीजाद्भेदोऽभेदो वा भेदे कथं बीजस्य जनकत्वं ताभ्यामेवाङ्कुरादीनामुत्पत्तेः । अभेदे वा कथं न भेदो बीजस्य भिन्नतादात्म्यात् । तयोर्वैकरूपत्वमेव तादात्म्यात् । तस्मादङ्कुराद्भिन्ने क्षित्यादौ जनयितव्ये तदुपादानं पूर्वमेव क्षित्यादिसमसमयभावि बीजेनापेक्ष्यते । एवं बीजमपि समसमयभाव्येव सहकारिकारणं क्षित्यादिभिरपेक्ष्यते नान्यथा कार्यभेदसिद्धिरित्यनिच्छताऽप्यभ्युपेयम् । न चानुपकारकमपेक्षागोचर इति भवद्भिरेवोपपादितम् । न च क्षणिकस्योपकारकतवसंभवोऽन्यत्र जननात् तस्याभेद्यत्वात् । न च समसमयभाविनोर्जन्यजनकत्वमस्ति सव्येतरविषाणयोरिव । तस्मात्स्वसंतानमात्रादेव कार्योत्पादप्रसङ्गात्कार्यभेदानुपपत्तेश्चानुपकारिण्यपेक्षाविरहाच्च क्षणिकस्यापि सापेक्षस्यानपेक्षस्य वा नार्थक्रिया संभविनीत्यसाधारणसत्त्वं न क्षणभङ्गसिद्धावङ्गम् । अथ मा भूदसाधारणता सत्त्वस्येत्यनुपकारकेष्वपि कार्यकरणायापेक्षाभ्युपेय ते तेषामपि कार्येणानुकृतान्वयव्यतिरेकत्वात् । न त्वनेन क्रमेणाक्षणिकोऽपि भावोऽनुपकारकानपि सहकारिणः क्रमवतः क्रमवतैव कार्येणानुकृतान्वयव्यतिरेकानपेक्षिष्यते । करिष्यते क्रमवत्सहकारिवशः क्रमेण कार्याणि । समर्थस्याप्यपेक्षणीयासन्निधेः कार्यक्षेपौपपत्स्यते । न चैतावता सहकारिसमवधानादेवोत्पत्तिमतः कार्यसिद्धिः कृतमेषां रूपेणेति वाच्यम् । तत्सहितादेव तत उत्पत्तिदर्शनात् । रूपे सत्यप्यनुत्पादात् । समवधाने (हेतु) सत्युत्पादादेव कार्यस्वसमवधानमेव हेतुर्न पुना रूपमपीति चेत् तत्किमिदानीं रासभादितुल्यताबीजरूपस्य । ओंमिति चेत् । अथ कस्माद्गर्दभादीनन्तरेणेव बीजरूपं विनापि नाङ्कुरो जायते । तत्समवधानस्य तत्कारणत्वादिति चेत् । तत्समबधाने कारणे कथं तन्निवेशि रूपमपि न कारणम् । न चावर्जनीयतया तन्निवेशः । समवधानमात्रस्य बीजरूपमन्तरेणापि तत्र तत्र भावात् । विशेषस्तु समवधाने रूपमेव बीजादीनाम् । तस्माद्य थोभयाधीननिरूपणा व्याप्तिरयोगव्यवच्छेदेन व्यापके निरूप्यते व्याप्ये भाव एव व्यापकस्य नाभाव इति व्याप्ये पुनरन्ययोगव्यवच्छेदेन व्यापक एव भावो व्याप्यस्य नान्यत्रेति एवं कार्यकारणभावोऽप्युभयाधीननिरूपणोऽपि कारणे अयोगव्यवच्छेदेन निरूप्यते । कार्योत्पादस्य पुरस्ताद्भाव एव कारणस्य नाभाव इति । कार्ये पुनरयोगव्यवच्छेदेन । कारण एव सति भावो नान्यस्मिन्निति अनुभवानुसारान्निश्चीयते । तथैव हि लौकिकपरीक्षकाणां संप्रतिपत्तेः । न च कारणतैव सत्ता किं तु स्वरूपं नीलादेरनुभूतावसितं तद्धि तेनैव रूपेण स्वाभावव्यवच्छिन्नं तासु तास्वर्थक्रियासूपयुज्यते न पुनरर्थक्रियाकारितैवव त्वरूपं मा भूदनेकार्थक्रियाकारिणोऽपर्यायेण रूपभेदः । तस्माद्यद्यस्ति सर्वज्ञस्ततः स्वरूपेणैव सन्भावः तज्ज्ञानस्यालम्बनप्रत्ययो भविष्यति । अथ तु नास्ति तथापि तद्रूपो जनित्वा आपाततोऽकिञ्चित्करोऽपि पश्चात्कुतश्चिन्निमित्तादासाद्य सहकारिप्रत्ययान् तासु तास्वर्थक्रियासूपयोक्ष्यते । तत्सिद्धमेतत् क्षणिकस्यापि क्रमाक्रमाभ्यां यथायोगमर्थक्रियोपपत्तेर्व्यापकानुपलब्धेरसिद्धेः संदिग्धव्यतिरेकमनैकान्तिकं सत्त्वं शाक्यानां क्षणिकत्वे साध्ये भावानाम् । अस्माकं त्वन्यथासिद्धमसिद्धप्रभेद एवेति । न च जनकत्वाजनकत्वलक्षणविरुद्धधर्मसंसर्गो नानात्वे हेतुर्भवितुमर्हति । जनकत्वं नाम न वस्तुस्वभावोऽपि तु तद्धर्मः । धर्मश्च धर्मिणो वस्तुतो भिद्यते । न चान्यस्य भेदोऽन्यस्य भेदायालमतिप्रसङ्गात् । अन्यत्त्वाविशेषे कथं तस्यैव धर्म इति चेत् । अत्र वस्तुस्वभावैरेवोत्तरं वाच्यम् । यथाऽन्यत्वाविंशेषेऽपि कार्यं धूमो हुतभुज एव न बीजस्येत्युक्तम् । न च कृतकत्वमपि क्षणिकत्त्वे हेतुरन्यथासिद्धेः । सहेतुके विनाशे तदुपपत्तेश्च । न चोत्पत्तिविनाशयोस्तादात्म्यं भावस्यात्यन्ताभावप्रसङ्गादित्युक्तम् । तदिदमुक्तं वार्तिककृतता तेऽप्यसिद्धा अन्यथासिद्धा विरुद्धा वा भवन्तीत्यहेतव इति । ( ४१६ । १५ ) अन्त्यक्षणविशेषदर्शनं पूर्वक्षणधर्मत्वेनासिद्धत्वादसिद्धम् । सत्त्वकृतकत्वे अन्यथासिद्धे । विरुद्धत्वं च सर्वस्यैव हेतोः क्षणिकत्वे साध्ये । तथा हि सत्त्वं कृतकत्त्वं वा त्रैपलोक्यव्यावृत्ततयाऽननुगतं देशतः कालतो वा न साधनं तस्याशक्याविनाभावज्ञानतया लिङ्गभावाभावात् । अन्वयमुखेन व्यतिरेकमुखेन वाऽविनाभावग्रहस्यैकस्मिन् क्षणेऽशक्यत्वात् । तस्माद्देशकालानुगतं सत्त्वं कृतकत्वमन्यद्वाहेतूकर्तव्यम् । तच्च विधिरूपं वा भवत्वन्यव्यावृत्तिरूपं वा नानाकालमेकमक्षणिकं क्षणिकत्वेन साध्येन विरुध्यतैत्युक्तं विरुद्धा वेति । अन्ते विशेषदर्शनादित्यस्य तु विरुद्धत्वमनन्तरं वक्ष्यति । उपेत्य विशेषवत्त्वे सिद्धत्वमनैकान्तिकत्वमाहप उपेत्य वेतञ् हेतोरिसिद्धत्वविरुद्धत्वे दर्शयितुमाह । अन्ते विशेषेति । दर्शनादर्शनलणस्य हेतोरन्यथासिद्धतेत्याह । योऽप्ययं हेतुरिति । भावाभावयोस्तद्वत्त्वादिति ( ४१७ । ७ ) संयोगाभावाभावयोरिहबुद्धेर्भाववत्त्वादित्यर्थः । प्रदीपस्य देशान्तरे उत्पाद इत्येतदपि न बुध्यामह इति । क्षणिकस्य प्रदीपस्य यदि संतानमात्रप्रभवत्वं निबद्धं देशान्तरे कार्योत्पादकत्वं ततः सर्व एव प्रदीपक्षणा देशान्तरे प्रदीपमुत्पादयेयुः । न के चन प्रधनोदर एवेति । अथोः पसर्पणप्रत्ययवशात्प्रघनोदरादन्यत्रापि कार्यमुत्पादयन्ति । नूनपसर्पणप्रत्ययः प्रदीपे कं चिदुपकारमाधत्ते न वा, न तावदाधत्ते क्षणस्याभेद्यत्वेनोपकृतानुपकृतत्वासम्भवात् । अनाधाने च सहकारिभावाभावात् । अनुपकारकस्पय सहकारित्वेऽतिप्रसङ्गादिति भवतामेव गिरः । न च विशिष्टप्रदीपक्षणजननमेवोपकारः सहकारिणां तस्य पूर्वस्मादेवोपादानादुपपत्तेः सहकार्यनपेक्षणात् । न खलु तस्येव तत्कारणस्याप्युपकारकाः सहकारिणो भवितुमर्हन्ति । एवं पूर्वेषामपि प्रदीपक्षणानां पूर्वपूर्वप्रदीपमात्रसामर्थ्यभुवा न सहकारिणा किञ्चिदाधीयत इति सर्व एवैकस्मिन् प्रधानं कार्यं कुर्युः देशान्तरे वा । यदि पुनरनुपकारिणोऽपि कार्यानुविहितभावाभावतया क्षणिकेन प्रदीपेन कार्यक्रियां प्रत्यपेक्ष्यन्ते तदक्षणिकपक्षेऽपि तुल्यमिति संक्षेपः । विपञ्चितं चैतदस्माभिर्ब्रह्यतत्त्वसमीक्षान्यायकणिकाभ्यामित्युपरम्यते । न किलाकाशे पततो लोष्टादेरिति । लोष्टश्येनादेस्तुल्यगुरुत्ववतां द्रव्याणामेकस्य गुरुत्वप्रयत्नक्षेपाः कारणम् । तथा हि सौधस्योपरिस्थेन पुरुषेण भूमौ चरन्तं पारावतमुद्दिश्य यदाऽधः श्येनः क्षिप्यते तदा श्येनस्य पारावतजिधृक्षाजनितः प्रयत्नो गुरुत्वं च क्षेपश्चाशुतरपतनहेतवः । अक्षिप्तस्य तु गुरुत्वप्रयत्नावाशुपतनहेतू अप्रयतमानस्य गुरुत्वमात्रं पतनहेतुरिति । औलूक्यमतेऽपि न दोष इत्यत आह । एकश्च संस्कार इति । ( ४१८ । ७ ) अयुगपत्कालाः प्रत्यया एकविषया इत्युच्यमाने घटपटादिप्रत्ययाः प्रदीपादिप्रत्ययाश्च क्रमवन्त एकविषयाः प्रसज्येरन्नित्यत आह । विप्रतिपन्ना इति । समानशब्दवाच्यत्वादित्यनेकान्तः भवन्ति हि समानशब्दवाच्याः प्रत्ययाः अक्षोऽक्ष इति, न च समानविषयाः देवनादीनां तद्विपयाणां भेदादत आह । तत्प्रत्ययसामानाधिकरण्ये सतीति । तथाऽपि प्रदीपप्रत्ययैरेवानेकान्त इत्यत आह ।

अव्युत्थायीति ।
व्युत्थातुं भ्रमितुं शीलप्रस्येति व्युत्थायि भ्रान्तमिति यावत् ।
अभ्रान्तत्वं चास्य क्षणिकत्वसाधननिराकरणेन द्रष्टव्यम् ।
अव्युत्थायितत्प्रत्ययसामानाधिकरण्येनैव सिद्धे समानशब्दवाच्यत्वं प्रपञ्चः ॥ १३१४ ॥

न्या.सू._३,२.१५: न पयसः परिणामगुणान्तरप्रादुर्भावात् ॥

भाष्यं गुणान्तरप्रादुर्भाव इति । द्रव्यं तावत्सदेव गुणोऽपि सन् केवलमनुद्भूत आसीत् । एकश्चोद्भूतो गुणः तत्र य उद्भूतस्तिरोभवति पूर्वगुणस्यनिवृत्तौ तिरोभूतौ गुणान्तरमुत्पद्यतेतद्भवतीत्यर्थः ॥ १५ ॥

न्या.सू._३,२.१६: व्यूहान्तराद् द्रव्यान्तरोत्पत्तिदर्शनं पूर्वद्रव्यनिवृत्तेरनुमानम् ॥

अत्र तु प्रतिषेध इति । क्षीरावयवा एव हि क्षीरविनाशे सत्युत्पन्नपाकजा विलक्षणं द्रव्यमुत्पादयन्ति । यदि तु सर्वं कार्यं सदेव कारणव्यापारात्प्रागपि व्यर्थः कारणव्यापारः अभिव्यक्तेरपि कार्यायाः सत्त्वात् । असत्त्वे वा यथा सैव न सती क्रियते एवं कार्यान्तराण्यपीति । विपञ्चितं चैतदस्माभिर्न्यायकणिकायाम् ॥ १६ ॥

न्या.सू._३,२.१७: क्वचिद्विनाशकारणानुपलब्धेः क्वचिच्चोपलब्धेरनेकान्तः ॥

अभ्यनुज्ञाय च निष्कारणमिति । विनाशोत्पादवत्त्वात्समानधर्मात्संशयः दधिक्षीरयोर्विनाशोत्पादावकारणौ दृष्टौ कुम्भस्य चोत्पादविनाशौ सकारणकौ, तदिह स्फटिके विनाशोत्पादौ सकारणौ निष्कारणौ वेति संदेहः । तद्यदि सकारणावेवेति प्रमाणतो निश्चीयते ततो विनाशकारणानुपलब्धेः स्फटिकस्य कुम्भवद्विनाशो नास्तीति निश्चीयते । तदिदमुक्तं भाष्यकारेण । न पुनर्यथा विनाशकारणाप्रावादिति । निरधिष्ठानं चेति । धर्मिणमाश्रित्य तत्समानधर्मा दृटान्तो भवति स्फटिकोत्पादविनाशौ च धर्मिणौ तत्समानधर्मतया क्षीरदधिविनाशोत्पादयोर्दृष्टान्तत्वेन भवितव्यम् । न पुनः स्फटिकोत्पादविनाशौ धर्मिणौ गृह्येते । तस्मान्न तत्समानधर्मतया दृष्टान्तौ भवत इति । यदि तु द्रव्यसमवायादित्युच्येत ततस्तोयादिपरमाणुविसमवेतै रूपादिभिरनेकान्तः स्यादित्यत आह । व्यापकेति । ( ४२० । १७ ) तथाप्यात्मत्वसामान्येनानेकान्तोऽत आह । गुणत्वे सतीति । तथाऽप्यात्मपरिमाणेनानेकान्तोऽत आह । प्रत्यक्षतयेति । अस्मदादीनामिति शेषः । गुणत्वादिविशेषणयोगात्प्राग्व्यापकग्रहणस्योपयोगः । अस्मदादिप्रत्यक्षत्वादित्युच्यमाने सामान्यसमवायाभ्यामनेकान्तः स्यादत आह जातिमत्त्वे सतीति । आश्रितत्वादित्यत्रापिजातिमत्वे सति प्रत्यक्षत्त्वे चेत्यनुषञ्जनीयम् । अनित्या बुद्धिः प्रत्यक्षत्वादित्युर्च्यमाने मनसा व्यभिचारोऽत आह । अयोगीति । तथाऽप्यात्मना व्यभिचारोऽत उक्तं करणभावे सतीति । हानादिबुद्धिः करणं भवति । शब्दश्च प्रत्यये करणम् । अत्रा पि जातिमत्त्वे सतीत्यनुषञ्जनीयं तेन न गन्धत्वादिभिरनेकान्तः ॥ १७ ॥

न्या.सू._३,२.१८: नेन्द्रियार्थयोस् तद्विनाशेपि ज्ञानावस्थानात् ॥

चिन्तान्तरमवतारयति । इदं तु चिन्त्यत इति । नन्वात्मपरीक्षायामात्मगुणत्वं बुद्धेर्व्यवस्थापितं तत्कस्मात्पुनः परीक्ष्यत इत्यत आह भाष्यकारः । प्रसिद्धोऽपीति । यद्यप्ययमर्थः परीक्षितस्तथाऽप्यवान्तरविशेषपरिज्ञानार्थं पुनः परीक्ष्यत इत्यर्थः । चोदयति वार्ततिककारः । न गुणेति । परिहरति । अनित्वत्वे सतीति । विमृष्य सिद्धान्ती(य)पक्षं गृह्णाति सन्निकर्षोत्पत्तरिति । चोदयति अद्राक्षमित्येतन्नेति । ( ४२१ । ३ ) परिहरति स्मृतावपीति ॥ १८ ॥

न्या.सू._३,२.१९: युगपज्ज्ञेयानुपलब्धेश्च न मनसः ॥

देशयति अस्तु तर्हीति । परिहरति युगपदिति । यत्करणत्वेनानुमितं तत्करणत्वमपोद्य न कर्तृ भवितुमर्हतीत्यर्थः । युगपज् ज्ञेयानुपलब्ध्या यत्समधिगतमिति भाष्यमाक्षिपति । विशेषणोपादानादिति । समाधत्ते न सर्वस्येति । पुनराक्षिपति । एवमपीति । विशिष्टस्य करणस्य ज्ञानगुणत्वनिषेधः करणान्तरस्य ज्ञानगुणत्वमापादयति न चात्मा करणमित्यर्थः । समाधत्ते अनयस्योपपत्तेरिति । एतदेव विवृणोक्ति । अनवस्थितत्वादिति । प्रमातैव कदा चित्प्रमाणं कदा चित्प्रमेयमित्यर्थः । पुरुषान्तरेण पुरुषान्तरं परिच्छिनत्तीति । यादृशोऽयं पुरुषस्तादृशोऽवमपीति पुरुषान्तरेण प्रसिद्धेन पुरुषान्तरपरिच्छेद इति । पृच्छति । यदि न करणस्य कस्पय तर्हीति । उत्तरं ज्ञस्य वशित्वात् । कर्तुः स्वातन्त्र्यादित्यर्थः । कर्तृकरणादिसमवधाने हि चैतन्यं कर्तर्येव दृष्टं न करणादौ । यथा मृद्दण्डचक्रसलिलसूत्रकुलालसमवधाने कर्तुरेव कुलालस्य न तु मृदादीनामिति । वशी ज्ञाता वश्यं करणमिति भाष्यं तदनुपन्नं ज्ञातुरपि क्व चिद्वश्यत्वदर्शनात् । यथा देवदत्तं कटं कारयति यज्ञदत्त इत्यत आह । न चायं ज्ञातरीति । यदि तु कश्चिज् ज्ञानगुणं मन इच्छेत्तं प्रति भाष्यं ज्ञानगुणत्वे चेति तद्व्याचष्टे । ज्ञानगुणत्वेवेति । ( ४२२ । ३ ) घ्राणादिसाधनस्येति भाष्य व्याचष्टे । यथा च ज्ञातुरिति । तथा च मन्तुर्मतिसाधनं यत्तन्मनः करणम् । अथ तदपि कस्माच्चेतनं न भवतीत्यत आह । उभयोरिति । विभु चान्तःकरणं ज्ञानमन्तःकरणान्तररहितमितिशेषः ॥ १९ ॥

न्या.सू._३,२.२०: तदात्मगुणत्वेपि तुल्यम् ॥

अथ मनोऽन्तःकरणमपश्यंश्चोदयति । तदात्मगुणत्वे

न्या.सू._३,२.२१: इन्द्रियैर् मनसः संनिकर्षाभावात् तदनुत्पत्तिः ॥

परिहरति न प्रसङ्ग इति । विकरणधर्मेति भाष्यंऽपीति । विशिष्टं करणं धर्मो यस्य स विकरणधर्मा अस्मदादिकरणविलक्षणकरणः येन व्यवहितविप्रकृष्टसूक्ष्मादिदर्शी भवतीत्यर्थः ॥ २१ ॥

न्या.सू._३,२.२२: नोत्पत्तिकारणानपदेशात् ॥

यदि पुनरित्यादि भाष्यं पूरयित्वा व्याचष्टे । यदि पुनरिति । नोत्पत्तीति । नात्र प्रमाणमपदिश्यते । प्रत्युत बाधकं प्रमाणमस्तीत्यर्थः । व्याख्यानान्तरमाह । अयुगपदुत्पत्तौ वेति । व्याख्यानान्तरमाह । अयुगपदुत्पत्तौ वेति । व्याख्यानान्तरमाह । विदेहेति । शरीरवृत्तित्वे हि मनसः सर्वं ज्ञानं शरीरायतनस्यात्मनो भवेत् । यदा तु मन एव नास्ति तदेन्द्रियार्थसन्निकर्षस्यात्मनश्च शरीराद्बहिरपि भावाद्विदेहप्रत्ययोत्पादप्रसङ्ग इति । अन्तःकरणप्रत्याख्याने चेति ।

यद्यपि सर्वाण्यपि ज्ञानानि न युगपदुपजायन्ते तथापि स्मृतीनामवश्यं युगपदुत्पादप्रसङ्ग इति पूर्वस्मादस्य विशेषः ।
व्याख्यानान्तरमाह ।
यदा चेन्द्रियमात्मा चार्थेन युगपत्संबद्धाविति ।
असतीन्द्रियमनःसन्निकर्षे व्यभिचारिणां कारणत्वकल्पनायां विनिगमनाहेतोरभावादिति भावः ॥ २२ ॥

न्या.सू._३,२.२३: विनाशकारणानुपलब्धेश्चावस्थाने तन्नित्यत्वप्रसङ्गः ॥

विनाङ्गः(सू. २३) ॥

अत्र पूर्वपक्षसूत्रे चकारः पूर्वपूर्वपक्षसूत्रापेक्षयेत्याह । तदात्मगुणत्व इति । अतः( ४२३ । ६ ) परस्य निगद एव व्याख्यानम् ॥ २३ ॥

न्या.सू._३,२.२४: अनित्यत्वग्रहाद् बुद्धेर्बुद्ध्यन्तराद्विनाशः शब्दवत् ॥

यदनन्तरमपवृज्यते पुरुषः साऽन्त्या बुद्धिः । स्थितिहेत्वभावाद्विनश्यतीति । स्थितिहेतू ( ४२४ । ६ ) धर्माधर्मौ तयोरभावादिति । अथ तयोरभावः कस्मादित्यत आह । कालात् । अन्त्यसुखदुःखोपभोगाकलं प्राप्येत्यर्थः । अथ वा स्वजनितात्संस्कारादेवान्त्याया बुद्धेर्विनाश इत्याह । संस्काराद्वा । संस्कारस्य तु स्थितिहेत्वदृष्टाभावाद्विनाशो भवतीति भावः । पृच्छति । कथं कालात् । उत्तरं यावन्त्यस्य जन्मन इति चरमस्य देहस्येत्यर्थः ॥ २४ ॥

न्या.सू._३,२.२५: ज्ञानसमवेतात्मप्रदेशसंनिकर्षान्मनसः स्मृत्युत्पत्तेर्न युगपदुत्पत्तिः ॥

देशयति यदि कारणस्येति । अत्र तावदेकः परिहार इति । एकः प्रधानः परिहारः परिहारान्तरं त्वेकदेशिमतेनाप्रधानमित्यर्थः ।

अपि च न स्मृतयो युग पदुत्पद्यन्ते परिच्छेदकत्वाद् गन्धरसरूपस्पर्शशब्दज्ञानबदित्याह परिच्छेदत्वाच्चेति ।
एकदेशिपरिहारमाह अपरे त्विति ॥ २५ ॥

न्या.सू._३,२.२६: नान्तःशरीर वृत्तित्वान्मनसः ॥

दूषयति एतत्तु न सम्यगिति । न हि मनः क्व चिदाश्रितमिति (४२५।२)न क्व चित्समवेतं संयोगमात्रं त्वतिप्रसक्तमित्यर्थः । नापि वृत्तिः स्वकार्यसामर्थ्यमिति । शरीर एव मनः स्वकार्यं करोति नान्यत्रेति शरीराश्रितं मन इत्युच्यत इत्येतदपि नास्ति ।

इन्द्रियार्थसन्निकर्षस्य मनःकार्यस्य शरीराद्बहिर्भावादि त्यर्थः ।
तमिममाक्षेपं समाधत्ते ।
अत्र ब्रूम इति ।
येनात्मना यच्छरीरं कर्मोपार्जितं तत्संयुक्तस्य मनसो वैशेषिकज्ञानादिलक्षणकारित्वे न तदसंयुक्तस्येति शरीराश्रितत्वे मनसो नान्यदित्यर्थः ॥ २६ ॥

न्या.सू._३,२.२७: साध्यत्वादहेतुः ॥

चोद्यम् ।
साध्यतुः ( सू. २७ ) ॥

न्या.सू._३,२.२८: स्मरतः शरीरधारणोपपत्तेरप्रतिषेधः ॥

परिहारः ।
स्मरधः ( सू. २८ ) ॥

न्या.सू._३,२.२९: न तद् आशुगतित्वान्मनसः ॥

पुनश्चोद्यम् ।
न तसः ( सू. २९ ) ॥

न्या.सू._३,२.३०: न स्मरणकालानियमात् ॥

परिहारः ।
न स्मरत् ( सू. ३० ) ॥

भाष्यं निन्ताप्रबन्धः स्मृतिप्रबन्धः । कस्य चिदेवार्थस्य लिङ्गभूतस्य चिह्नभूतस्या साधारणस्येति यावत् । चिन्तनं स्मरणम् ।

आराधितम् सिद्धं चिह्नवतः स्मृतिहेतुर्भवतीति ।
इतश्च शरीरसंयोगापेक्षमेव मनः स्मृतिर्हेतुर्नेतरथेत्याह ।
शरीरसंयोगानपेक्ष इति ॥ ३० ॥

न्या.सू._३,२.३१: आत्मप्रेरणयदृच्छाज्ञताभिश्च न संयोगविशेषः ॥

आत्मषः ( सू. ३१ )

न्या.सू._३,२.३२: व्यासक्तमनसः पादव्यथनेन संयोगविशेषेण समानम् ॥

न्या.सू._३,२.३३: प्रणिधानलिङ्गादिज्ञानानामयुगपद्भावादयुगपत्स्मरणम् ॥

दूषयति ।
व्यासनम् ( सू. ३२ ) ॥

प्रातिभवदिति स्मृत्युत्पादस्व पुरस्तात्प्रणिधानादीनां स्मृतिकारणानामसंवदनादात्ममनः संयोगात्संस्कारापेक्षात् स्मृतीनां युगपदुत्पादप्रसङ्गः ॥ ३२३३ ॥

प्रातिभवदित्याक्षेपः । समाधानमाह । सतः स्मृतिहेतोरिति । ( ४२६ । २१ ) अदृश्यमानमपि करणं तत्क्रमश्च कार्योत्पादक्रमेणानुमीयते इति प्रातिभमपि पुरुषकर्मविशेषापेक्षादात्ममनःसन्निकर्षादुपजायमानं नाकारणं न चाक्रमवदिति प्रधानभूतामुपपत्तिमवतारयितुं पृच्छति भाष्यकारः । प्रातिभमिदानीमिति । अत्रोत्तरमाविलं दत्वा शङ्कते । हेत्वभावादयुक्तमिति चेत् । उत्तरसारमाह । न करणस्येति । यद्यवि क्व चिद् व्रश्चनस्य युगपद्दारुद्वयसंयोगे युगपच्छिदाद्वयं भवति तथाऽपि व्रश्चनावयवभेदात्करणभेद उन्नेयः । अथ वा करणान्तराणि युगपत्कार्याणि कुर्वन्तु प्रत्ययकरणन्तु क्रमेणैव प्रत्ययान्करोतीत्यत्र न व्यभिचारः तदुक्तं प्रत्ययपर्याय इति । तस्मात्करणमेकं न क्व चिदपि युगपत्कार्यायालमिति । कर्त्ता पुनरेकोऽपि करणभेदे युगपद्बहूनि कार्याणि करोतीत्याह । न ज्ञातुर्विकरणधर्मणो देहनानात्वे प्रत्यययौगपद्यादिति । विविधं करणं धर्मो यस्य स तथोक्तः तद्व्याचष्टे वार्त्तिककारः न चायं नियम इति । ( ४२७ । ५ ) योगी खलु ऋद्धौ प्रादुर्भूतायां सेन्द्रियाणि शरीराणि तेषु तेषु लोकेषु निर्माय मुक्तात्मनामादाय मनांसि मोक्षाय त्वरमाणो युगपत्कर्मोपार्जितान् सुखदुःखभेदान्न द्विषन्न रक्तो भुङ्क्ते तदस्यैकस्यापि करणभेदाद्युगपज् ज्ञानानि भवन्तीति । अयं च द्वितीयः प्रतिषेधः ज्ञानसंस्कृतात्मप्रदेशभेदस्यायुगपज्ज्ञानोत्पादकस्य । अवस्थितेति । यत्रात्मप्रदेशोऽस्य ज्ञानानि नानाविषयाणि जातानि तत्संस्काराश्च तत्रैवावस्थितशरीरस्य । तदनेन शरीरान्तर्गतस्य मनसस्तत्र प्रदेशे संयोग उपपादितः । तदिदमाह वार्त्तिककारः । यदि च ज्ञानसमवेतात्मप्रदेशेन सन्निकर्षादिति । अतश्चाव्यापकत्वादपरिहारः । आचार्यदेशीयानां तु स्मृतियौगपद्यप्रसङ्गमाह । अवस्थितसंस्काराः समानदेशा इत्ययुक्तम् । कुतः आत्मप्रेदशानामद्रव्यान्तरत्वात्सर्वसंस्काराणां समानदेशत्वे प्रत्ययौगपद्यप्रसङ्गोऽपरिहार्यः । न ह्यात्मनो घटस्येव प्रदेशास्ततोऽन्ये सम्भवन्ति किं नामात्मैव स चैक एवेति सर्व एवात्मवर्त्तिनः समानदेशा इत्यर्थः । तदिदमुक्तं भाष्यकारेण आत्मप्रदेशानामद्रव्यान्तरत्वादेकार्थसमवायस्याविशेषे सति स्मृतियौगपद्यस्पय प्रतिषेधानुपपत्तेरिति । शब्दसंताने त्विति शङ्कानिराकरणभाष्यं तुशब्दः शङ्कां निराकरोति । तदेतद्भाष्यं वार्तिककारो व्याचष्टे । संस्कारप्रत्यासत्त्येति । पृच्छति । का प्रत्यासत्तिरिति ।

उत्तरं न ब्रूम इति ।
निष्प्रदेशत्वेऽप्यात्मनः संस्कारस्याप्यवृत्तित्वमुपपादितं तेन शब्दवत्सहकारिकारणस्य सन्निधानासन्निधाने कल्पेते एवेत्यर्थः ॥ ३३ ॥

न्या.सू._३,२.३४: ज्ञस्येच्छाद्वेषनिमित्तत्वादारम्भनिवृत्त्योः ॥

संप्रति बुद्धिरेव किमिच्छादिसमानाधिकरणा न वेति विचार्यते । तत्र साख्यदर्शनवैनाशिकानां विप्रतिपत्तेः संशयः । तद्विप्रतिपत्तिमाह । पुरुषधर्मो ज्ञानमन्तःकरणस्यत्विति ।

पुरुषचैतन्यमेकमेव कूटस्थनित्यं सत्तत्तदर्थाकारपरिणतबुद्धितत्त्वप्रतिबिम्बविभ्रमवशाद्भिन्नमिवोपजनापायधर्मकं विज्ञानमिति च वृत्तिरिति चाख्यायते ।
इच्छाद्वेषादयस्तु वस्तुत उपजनापायधर्माणोऽन्तःकरणस्येति दर्शनं तत्प्रतिषिध्यते ।
ज्ञस्येत्योः ( सू. ३४ ) ॥

प्रतिवृत्त्यञ्चतीति स चात्मा चेति प्रत्यगात्मा तस्मिन् ।
एतदुक्तं भवति ।
ज्ञानसामानाधिकरण्येनोपलब्धेरन्यदीयानामिच्छादीनामन्यस्याप्रत्यक्षीकरणात्तत्करणे वा मैत्रगतानामपि चैत्रेण ग्रहणप्रसङ्गाद अन्तःकरणवृत्तीनां च गुणान्तराणां नित्याप्रत्यक्षत्वादात्माश्रिता एवेच्छादयो नान्तः करणाश्रया इति ॥ ३४ ॥

न्या.सू._३,२.३५: तल्लिङ्गत्वादिच्छाद्वेषयोः पार्थिवाद्येष्वप्रतिषेधः ॥

अत्रान्तरे लब्धावकाशो भूतचैतनिकः प्रत्यवतिष्ठते ।
तल्लिधः ( सू. ३५) ॥

( ४२८ । ४ ) यदि यस्यारम्भनिवृत्ती तस्येच्छाद्वेषौ यस्य चैतौ तस्य चैतन्यं हन्तायातमनेन क्रमेण भूतचैतन्यमस्मदभिमतं भूतेष्वेव कायाकारपरिणतेषु आरम्भनिवृत्तिदर्शनादित्यर्थः ॥ ३५ ॥

न्या.सू._३,२.३६: परश्वादिष्वारम्भनिवृत्तिदर्शनात् ॥

परश्वादिष्वित्यस्य तात्पर्यमाह वार्तिककारः । परश्वादिष्विति । ( ४२८ । ९ ) भूतचैतनिकस्तल्लिङ्गत्वादिति हेतुं स्वपक्षसिध्द्यर्थमन्यथा व्याचष्टे । अयं तर्हीति । शरीरेष्ववयवव्यूहभेददर्शनाच्च लोष्टादिषु ( अ ) शरीरारम्भकानामणूनां प्रवृत्तिभेदोऽनुमीयतेततश्चेच्छाद्वेषौ ताभ्यां चैतन्यमिति । त्रसं जङ्गमं विशरारु अस्थिरं कृमिप्रभृतीनां शरीरं, स्थावरं स्थिरं शरीरं देवमनुष्यादीनां, तद्धि चिरतरं वा व्रि (ध्रि) यते । तदेतद् दूषयति । कुम्भादिमृदवयवानामिति । कुम्भाद्यारम्भिकाणां मृदां व्यूहभेदादारम्भदर्शनाददर्शनाच्च सिकतानामारम्भनिवृत्योरनैकान्तत्वम् ॥ ३६ ॥

न्या.सू._३,२.३७: नियमानियमौ तु तद्विशेषकौ ॥

तदेवं भूतचैतन्यसाधनं दूषयित्वा तेभ्योऽन्यस्य चैतन्ये साधनमाह ।
नियमानियमौ तु तद्वि शेषकौ (सू. ३९) ॥

तयोरिच्छाद्वेषयोर्नियमानियमौ विशेषकौ । अयमेव चेच्छाद्वेषयोर्विशेषो यद्भूताश्रयत्वमनयोर्व्यावर्त्य तदितराश्रयत्वव्यवस्थितिः । तत्रानियमं तावदाह । ज्ञस्येच्छाद्वेषनिमित्ते प्रवृत्तिनिवृत्तीस्पन्दास्पन्दौ, न स्वाश्रयेनेच्छाद्वेषयोराश्रये, किन्तर्हि प्रयोज्ये परश्वादावाश्रये, तत्र प्रयुज्यमानेष्वेव भूतेषु प्रवृत्तिनिवृत्ती स्यातां न सर्वेषु प्रयोजकेष्वपि शररादिष्विति । सेयमनियमोपपत्तिः । सार्वत्रिकत्वमनियम इति । एतदुक्तं भवति न शरीरमिच्छाज्ञानद्वेषाधारः इच्छादिजनितस्पन्दाधारत्वात् परश्वादिवदिति । तदेवमनियमे भेदकं व्याख्याय नियमं व्याचष्टे । यस्य तु चार्वाकस्य दर्शने ज्ञत्वाद्भूतानामिच्छाद्वेषनिमित्ते आरम्भनिवृत्ती स्वाश्रये शरीरादौ, तस्य चार्वाकस्य । यथा भूतानां गुरुत्वादिगुणान्तरनिमित्ता प्रवृत्तिः पतनादिलक्षणा,तस्यैव गुरुत्वादेर्गुणान्तरस्य प्रतिबन्ध आधारद्रव्यसंयोगेन तस्मान्निवृत्तिरपतनादिका, सा भूतमात्रे भवन्ती नियमेन व्याप्ता, न तु शरीरोपगृहीतेष्वेव भूतेषु, एवं भूतमात्रे ज्ञानेच्छाद्वेषनिमित्ते प्रवृत्तिनिवृत्ती स्वाश्रये स्याताम् । एतदुक्तं भवति ये ये पृथिव्यादिधर्मास्ते ते यावत्पृथिव्यादिभाविनो दृष्टाः यथा गुरुत्वादयः ज्ञानेच्छादयोऽपि चेत्पृथिव्यादिधर्मास्तैरप्यवश्यं यावत्पृथिव्नयादिभाविभिर्भवितव्यं न तु घटादौ दृश्यन्ते तस्मान्न पृथिव्यादिधर्मा ज्ञानादय इति । अत्र च भाष्यकृता सार्वत्रिकत्वप्रसङ्गविवक्षया नियमशब्दः प्रयुक्तः असार्वत्रिकत्वविवक्षया त्वनियमशब्दः । वार्त्तिककृता तु प्रयोज्य एवेत्यवधारणं विवक्षित्वा प्रादेशिके नियमशब्दः प्रयुक्तः । सार्वत्रिके तृक्तनियमरूपावधारणाभावादनियमशब्द इति विवक्षाभेदाश्रयादविरोध इति । यस्तु नियमं मदशक्त्या व्यभिचारयेद् यथा किल किण्वादयः परिणामविशेषवन्तो मदिराभावमापन्ना मदयन्ति एवं कायाकारेण परिणतानि पृथिव्यादीनि चेतयन्ते नान्यथा तेन घटादिष्वप्रसङ्ग इति, तं प्रत्याह एकशरीरे चेति । यथा मदिरावयवेषु प्रत्येकमेव मदशक्तिरस्ति न पुनः समुदायमात्रसमवायिनी एवं शरीरावयवेष्वपि प्रत्येकमेव चैतन्येन भवितव्यम् । न च वैयात्यात् कायसमुदायाश्रयमेव चैतन्यं नावयवाश्रपयमिति शक्यमास्थातुं त्रिचतुरावयवच्छेदेऽपि चैतन्योपलम्भात् । तस्मादवयवानां प्रत्येकं चैत्न्ये शरीर एकस्मिन्बहवश्चेतनाः स्युः । भवतु किं नो बाध्यत इति चेन्न । विरुद्धाभिप्रायत्वेन स्वतन्त्राणां न किञ्चिदपि कार्यं जायेत । न च बहूनामेकाभिप्रायनियमो दृष्टः काकतालीयन्यायेन स्यादेकाभिप्रायत्वं न पुनरस्य नियमो दृष्टचर इति प्रसिद्धत्वाद् दूषणमेतदुपेक्ष्य प्रत्ययव्यवस्थानुमानं न भवेदिति दूषणमुक्तम् । एकस्मिन् शरीरे प्रत्ययानां परस्परप्रतिसन्धानं पश्यामो न शरीरान्तर इति व्यवस्था । सेयं यद्येकस्मिन् शरीरे एक एव चेतनो न चासौ शरीरान्तरे ततो भवेन्नान्यथेत्यर्थः । क्वचित्पाठः प्रत्ययव्यवस्थानानुमानं स्यादिति स सुगम एव । नियमानियमाविति यदुक्तं तत्रानुमानमेव सूचयति भाष्यकारः । दृष्टश्चान्यगुणनिमित्तः प्रवृत्तिविशेष इति । हिताहितप्राप्तिपरिहारहेतुःपरिस्पन्दः प्रवृत्तिविशेषः । सोऽयं प्रयोगः त्रसस्थावरशरीरेषु प्रवृत्तिः स्वाश्रयव्यतिरिक्ताश्रयगुणनिमित्ता प्रवृत्तिविशेषत्वात्, परश्वादिगतप्रवृत्तिविशेषवदिति । न केवलं शरीरस्य प्रवृत्तिविशेषोऽन्यगुणनिमित्तः भूतानामपि तदारम्भकाणां प्रवृत्तिविशेषोऽन्यगुणनिबन्धन एवेत्याह । तदवयवव्यूहलिङ्ग इति । नेन्द्रियार्थयोर्विनाशेऽपि ज्ञानावस्थानादिति च समान इति । यथा हीन्द्रियार्थयोर्विनाशेऽपि ज्ञानावस्थानान्नेन्द्रिनयार्थयोर्गुणो ज्ञानमेवं बाल्यकौमारयौवनवार्द्धकावस्थासु शरीरविनाशेऽपि ज्ञानावस्थानान्न शरीरगुणोज्ञानमित्यर्थः । अपि च ज्ञस्येच्छाद्वेषनिमित्तत्वादारम्भनिवृत्त्योरित्यत्रारम्भनिवृत्तिशब्देन न प्रवृत्तिनिवृत्तितमात्रमभिमतमस्माकमपि तु हिताहितप्राप्तिपरिहारार्थः स्पन्दविशेषः । तमिमं प्रवृत्तिविशेषमविज्ञाय त्वया प्रवृत्तिसामान्येन प्रत्यवस्थितमित्यप्रतिपत्तिस्ते निग्रहस्थानमित्याह भाष्यकारः । क्रियामात्रमिति । तद्वार्तिककारो व्याचष्टे । अन्यथाऽभिधानाच्चायुक्तमिति शेषः । स्यादेतत् । यथोक्तहेतुत्वादित्यादयो वक्ष्यमाणसूत्रगता हेतवो भूतेन्द्रियचैतन्यप्रतिषेधेऽपि समाना इति कस्मान्मनोमात्रे चैतन्यं प्रतिषिध्यते न भूतेन्द्रियम नसमित्यत आह । भूतेन्द्रियमनसामिति ( ४२९ । ३ ) ॥ ३७ ॥

न्या.सू._३,२.३८: यथोक्तहेतुत्वात् पारतन्त्र्यादकृताभ्यागमाच्च न मनसः ॥

यथोसः (सू. ३८) ॥

यथोक्तहेतुत्वादिति व्याचष्टे । इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्यात्मनो लिङ्गमित्यत आत्मलक्षणात्प्रभृति तल्लक्षणपरीक्षापर्यवसानं यावदुक्तं तत्संगृह्यते । अत्र च हेतुशब्देनेच्छादिसूत्रं सुसंगृहीतं भावप्रत्ययेन हेतुत्वविषया परीक्षोपलक्षिता । वार्त्तिकं यथोक्तहेतुत्वादिति । दर्शनस्पर्शनाभ्यामेकार्थग्रहणादित्येवमादीनां हेतूनामुक्तहेतुत्वं तस्मादिति योजना । तदनेन भाष्यगतप्रभृतिपदार्थो विवृतः । तन्वेते यथोक्ता हेतवः परैः प्रतिषिद्धा इत्यत आह । अप्रतिषेधात् । वाङ्न्यात्रेण प्रतिषिद्धा न वस्तुत इत्यर्थः । धारणप्रेरणव्यूहनक्रियासु यथायोगं शरीरेन्द्रियाणि परतन्त्राणि भौतिकत्वाद् घटादिवदिति, मनश्च परतन्त्रं करणत्वाद्वास्यादिवदिति कस्यचित्प्रयत्नवशात्प्रवर्तन्ते चैतन्ये पुनः स्वतन्त्राणि स्युः । तथा च पारतन्त्र्यप्रसाधकानुमानविरोध इत्यर्थः । यस्तु कश्चिदभ्युपेतवेदप्रामाण्यः पुरुषमचेतनं फलभागिनमभ्युपगम्य शरीरादीनां चैतन्यं रोचयते तं प्रति तेषामचैतन्ये हेतुमाह । अकृताभ्यागमाच्च । उपदेशफलं हि कर्तरि, कर्त्रपेक्षितोपायताभिधानलक्षणत्वादुपदेशस्य । यथाऽह स्मात्र भगवाञ् जैमिनिः, शास्त्रफलं प्रयोक्तरि तल्लक्षणत्वादिति । उपपादितं चैतदस्मार्भिविधिर्विधायक इत्यत्रान्तरे । स्वर्गकामो यजेतेति च कर्त्रभिप्रायफलावगमाद् अत्रैवात्मनेपदस्मरणात् य एव कर्मणः कर्ता स एव तत्फलस्य भोक्तेति सर्वैरास्तिकपथानुसारिभिरभ्युपेयम् । शरीरादीनां चैतन्ये चेतनस्य स्वातन्त्र्यात्त एव कर्मणः कर्तारः, न चैतेषां भस्मसाद्भूतानामामुष्मिकफलशालितासम्भव

इत्यात्मनोऽचेतनस्य तद्भागिताभ्युपगन्तव्या, तथा च तैः शरीरादिभिः कर्म कृतं पुरुषेण भुज्यत इति शास्त्रप्रतिक्षिप्ताकृताभ्यागमकृतनाशदोषप्रसङ्गः ।
अचैतन्ये तु शरीरादीनां देहाद्यतिरिक्तस्य च पुरुषस्य चैतन्ये पुरुषः स्वातन्त्र्यात्कर्ता तत्प्रयोज्यतया शरीरादीनि तत्साधनानीति तत्साधनस्य स्वकृतकर्मफलोपभोग इति न शास्त्रव्याकोपः नापि प्रेक्षावत्प्रवृत्तिविरोध इति भावः ॥ ३८ ॥

न्या.सू._३,२.३९: परिशेषाद् यथोक्तहेतूपपत्तेश्च ॥

अथायं सिद्धोपसंग्रहः उपसंहार इत्यर्थः । उपपत्तिपदार्थव्याख्यानमप्रतिषेधादिति । भाष्यं कायस्यभेदाद्विनाशादिति । अप्रतिसंहितमिति । पूर्वेद्युरर्द्धकृतानामपरेद्युः परिसमापना दृष्टा मयारब्धं मयैव परिसमापनीयमिति प्रतिसन्धाय, अप्रतिसन्धाने तु न परिसमापयेयुः परिसमापने वा चैत्रारब्धमपि मैत्रः परिसमापयेद् यतः स्वयमारब्धात् परारब्धमव्यावृत्तमविशिष्टं स्वस्यापि परत्वादपरिनिष्ठं च कर्मजातं स्यात् ।

तथा हि वैश्यस्तोमे वैश्य एवाधिकारी न ब्राह्मणराजन्यौ एवं राजसूये राजैव न ब्राह्मणवैश्यौ एवं सोमसाधनके यागे ब्राह्मण एवाधिकृतो न राजन्यवैश्यौ शूद्रकश्चानधिकृत एवेति परिनिष्ठा सा बुद्धिसंततिमात्रे न स्यात्, कुतः सल्लक्षणानां सर्वेषामेव त्रैलोक्यवैलक्षण्येन भेदात् अन्यापोहसामान्यस्य च व्यावर्तितत्वादित्यर्थः ।
अप्रतिसंहितत्वे हेतुमाह ।
स्मरणाभावादिति ॥ ३९ ॥

न्या.सू._३,२.४०: स्मरणं त्वात्मनो ज्ञस्वाभाव्यात् ॥

त्रिकालव्यापिनी ज्ञानशक्तिरेव ज्ञस्वाभाव्यं तच्चाकाशादिभ्यो व्यावृत्तं त्रिकालव्यापि स्वरूपमेवात्मनः ॥ ४० ॥

न्या.सू._३,२.४१: प्रणिधाननिबन्धाभ्यासलिङ्गलक्षणसादृश्यपरिग्रहाश्रयाश्रितसम्बन्धानन्तर्यवियोगैककार्यविरोधातिशयप्राप्तिव्यवधानसुखदुःखेच्छाद्वेषभयोर्थित्वक्रियारागधर्माधर्मनिमित्तेभ्यः ॥

स्मृतिहेतूनामयौगपद्यादित्येतत्सिंहावलोकितन्यायेन पृच्छत्यनन्तरसूत्रमवतारयितुं स्मृतिहेतूनामिति । तात्पर्याभिधानपुरः सरं सूत्रमवतारयति । स्मृतिकारणानामिति ( ४३० । १ ) । प्रणिभ्यः (सूत्र. ४१) ॥

भाष्यं सुस्मूर्षया मनसो धारणमिति । तेषु तेषु विषयेषु प्रसक्तस्थ मनसस्ततो निवारणमित्यथः । सुस्मूर्षितलिङ्गानुचिन्तनं वा साक्षाद्वा धारणं तल्लिङ्गे वा प्रयत्न इत्यर्थः । निबन्धः खल्विति । यथा अत्रैव प्रमाणदयोऽर्था एकग्रन्थोपात्ता अन्योन्यस्मृतिहेतवः । आनुपूर्व्या वा । यथा प्रमाणपदार्थं स्मृत्वा प्रमेयं स्मरति । इतरथा वा । यथा निग्रहस्थानानां प्रमाणानां स्मृत्वा प्रमेयं स्मरति । निबन्धस्य व्याख्यानान्तरमाह । धारणेति । धारणाशाखं जैगीषव्यादिप्रोक्तं तत्कृता ज्ञातेष्वेव वस्तुषु नाडीचक्रहृत्पुण्डरीककण्ठकूपनासाग्रता लुललाटब्रह्मरन्ध्रादिषु स्मर्तव्यानां बीज (रूप) संस्थानास्त्राभरणभृतां च देवतानामुपविक्षेपः समारोपः तथा तत्र देवताः समारोपितास्तास्तत्तदवयवग्रहणात् स्मर्यन्त इत्यर्थः । अभ्यासजनितः संस्कार आत्मगुणोऽत्राभ्यासशब्देनोच्यते । तेन आदरप्रत्ययावपि संगृहीतौ भवतः । तयोरप्यभ्यासवत्संस्काराधानद्वारेणैव स्मृतिहेतुत्वात् । अपि च स्मृतिकारणानां नासमावेशो विवक्षितः नेन संस्कारेण स्मृतिहेतूनां सर्वेषामेव प्रणिधानादीनां समावेश एव । निबन्धादिभिस्तु यथायोगं समावेशासमावेशावूहनीयाविति । अयत्रत उपलब्धं लिङ्गं पुनरिति । संयोगिन उदाहरणं धूमोऽग्नेरिति । समवायिन उदाहरणं कुड्यादिव्यवहिताया गोरव्यवहितप्रत्यक्षं विषाणं गवा सहास्ति विषाणस्य समवाये इति समवायि विषाणमुक्तम् । न तु तद्गवि समवायि गोरेव स्वावयवे विषाणादौ समवायात् । एकार्थसमवायीत्यस्य एकार्थस्य समवाय एकार्थसमवायः स यस्यास्ति स एकार्थसमवायीत्यर्थः । तदेतदुदाहरणं यथा पाणिः पादस्येति । एकस्य खल्वत्रावयविनः समवायः पादे च पाणौ च तौ पाणिपादावेकार्थसमवायवन्तौ तत्रैकेनैकार्थसमवायवता प्रत्यक्षेणाप्रत्यक्ष एकः स्मर्यत इति । यदा त्वेकस्मिन्नेर्थे समवाय इत्यर्थस्तदा रूपं स्पर्शस्येत्युदाहरणम् । खाभाविकाविनाभावयुक्तं लिङ्गं साङ्केतिकं तु चिह्नमिति विशेषः । ग्रामणीर्नायकः । यद्यपि सर्वत्र प्रणिधानादौ सम्बन्धः संप्लवते तथाऽपि प्रणिधानादिपरिहाण्या सम्बन्धान्तरे गोबलीवर्दन्यायेन सम्बन्धशब्दो वर्तते । न च सम्बन्धशब्देन सर्वसंग्रहादनर्थकमितरपदोपादानमिति वाच्यम् । उक्तमत्र भाष्यकृताऽन्यत्र वाक्यलाघवं नाद्रियाते सूत्रकार इति । शिष्यधीप्रसादश्चैवं भवति विशिष्याभिधानादिति । आनन्तर्यादिति । ब्राह्मे हि मुहूर्ते प्रबोधानन्तरमुत्थानं ततो मूत्रं ततः शौचं ततो सुखप्रक्षालनदन्तधावनादीनि इति । वियोगादिति शोकमुपलक्षयति । ततोऽपि शोकविषयस्य स्मरति । एककार्यादिति । यथा सप्तदशावराणामृद्धिकामानामेकं सत्रं कार्यम् । तत्रैकं यजमानं दृष्ट्वा यजमानान्तरं स्मरति । अतिशायात् यथा ब्रह्मचारी उपनयनविद्याविनयातिशयोत्पादकमाचार्यं स्मरति । प्राप्तेस्तु यथा प्रार्थको (?) यतोऽनेन मिष्टमन्नं प्राप्तं प्राप्तव्यं वा तमभीक्ष्णं स्मरति । इच्छा स्नेहः । स तु भ्रात्रादिषु द्वेषः प्रतिकूले दारादौ, ताभ्यामपि च तद्विषयं स्मरति । क्रियया कार्येणेत्यर्थः ।

धर्माद्पव देवाभ्यासजनितेन धर्मेण जातिं स्मरति पूर्विकाम् ।
एवं जातमात्रस्य सुखादिसाधनस्मरणं धर्माधर्माभ्यां द्रष्टव्यम् ।
ननून्मादादयोऽपि स्मृतिहेतवो लोकसिद्धास्तत्किं तेऽपि नोक्ता इत्यत आह ।
निदर्शनमात्रं चेदं स्मृतिहेतूनामिति ॥ ४१ ॥

न्या.सू._३,२.४२: कर्मानवस्थायिग्रहणात् ॥

तदेवं सिंहावलोकितं समर्थ्य प्रकृताथामेव बुद्धौ विचारमारभते । अनित्यायां च बुद्धाविति ( ४३० । ९ ) द्रव्याश्रितत्वादित्युच्यमानेऽपि चक्षुरादिगतै रूपादिभिर्व्यभिचारोऽत आह । व्यापकद्रव्याश्रितत्वादिति । तथाप्यात्मत्वादिभिरनेकान्तोऽत आह जातिमत्त्वेसतीति । तथापि विभुत्वेन परिमाणेना नेकान्तोऽत आह । अस्मदादिप्रत्यक्षत्वे सतीति । कर्मादिसन्तानविषया बुद्धय आशुतरविनाशिन्यः । अत्र यदि प्रकाशकत्वादित्युच्येत तत आत्मनाऽनेकान्तोऽत आह । करणत्वे सतीति । तथापि मनः श्रोत्रादिभिरनेकान्तोऽत आह प्रत्यर्थेति । एका बुद्धिरेकविषया न विषयान्तरविषया एवमन्या अपि बुद्धयः स्वविषयमात्रे पर्ववसिताः न मनःश्रोत्रादि तथा नानाविषयत्वात्तस्येति । ननु प्रत्यर्थनियतत्त्वमव्यापकं युगपदनेकार्थसन्निकर्षे सति नानाविषयाऽप्येका बुद्धिरुपजायतेऽत आह । प्रतिक्षण कर्मणोऽर्थस्यापूर्वस्योत्पत्तौ सत्यां तत्कार्याता बुद्धेरयुगपदुत्पत्तौ कारणक्रमानुविधानात्कार्यक्रमस्य प्रत्यक्षबुद्धेर्विषयकारणत्वात् । एकैकश्चासौ विषयः क्रमोत्पादवान्कारणमिति क्रमवतीनां बुद्धीनां सर्वासामेव सिद्धं प्रत्यर्थैकानियतत्वम् । नियमश्च तज्जातीयकर्मान्तरापेखया न तु द्रव्यापेक्षया, तेन कर्मबुद्धेर्द्रव्यादिविषयत्वेऽपि प्रत्यर्थनियमाविरोधः । प्रत्यर्थनियतत्वविशेषणयोगाच्च प्रागात्मनाऽनैकान्तिकत्वाशङ्कायां करणत्वं विशेषणमिति । प्रयोगान्तरमाह । अथ वेति । सुखत्वादिभिरनैकान्तिकत्वं मा भूतद उक्तं गुणत्वेसतीति ( ४३१ । १) । रूपादिभिर्व्यभिचारनिवृत्त्यर्थमुक्तमबाह्येति । अवस्थितग्रहणेऽपि प्रत्यक्षनिवृत्तेर्ध्वंसिनीति । यद्यपि शक्यं वक्तुं स्पर्शादिबुद्धिरेकैव तावन्तं कालमवस्थिता व्यवधानादिनार्ऽथसन्निकर्षविनाशाद्विनङ्क्ष्यति, निमित्तकारणविनाशोऽपि कार्यविनाशहेतुर्दृष्टोऽपेक्षाबुद्धिविनाशाद् द्वित्वविनाशवदिति तथाऽपि क्षणिकत्वे हेत्वन्तरादेव सिद्धे बुद्धीनामभ्युच्चयमात्रतयैतद् द्रष्टव्यम् । तथा हि क्षणविध्वंसिवस्तुविषयबुद्धिक्षणिकत्वसमर्थनेनैव स्थायिवस्तुविषयबुद्धिक्षणिकत्वसमर्थनमपि सूचितम् । स्थिरगोचरा बुद्धयः क्षणिकाः बुद्धित्वात्कर्मादिबुद्धिवदिति । बुद्धिरेव स्मर्त्री ग्रहीत्री चेत्यात्मभावं बुद्धावारोप्य शङ्क्तते । स्मृतेरवतिष्ठत इति चेदिति । निराकरोति । नात एवेति । न हि बुद्धिः स्मर्त्री येन तदभावे स्मृतिर्नोत्पद्येत, अपि त्वात्मा, स च नित्यः, बुद्धिसद्भावस्तु स्मृतिविरोधीत्यर्थः । अथ यदि बुद्धिर्नास्ति कुतस्तर्हि स्मृतिरुत्पद्यते न ह्यकारणं कार्यं भवति । न चात्ममात्रं कारणं मा भूदात्मनो नित्यत्वेन स्मृत्युत्पादोऽपि नित्यः तस्मात्स्मृत्युत्पादोऽपि लिङ्गं बुद्ध्यवस्थान इत्यत आह । अन्यतश्च तद्भावादिति । स्यादेतत्।बुद्धिजः संस्कारश्चेत्स्मृतिहेतुरथ यावत्संस्कारं स्मृतिः स्यादत आह ।

तत ।
प्रणिधानादीति ।
न संस्कारोऽस्तीत्येतावता स्मृतिरपि तु तत्प्रबोधात् ।
प्रबोधश्च कादाचित्कः कादाचित्कत्वात् प्रणिधानादेरित्यर्थः ॥ ४२ ॥

न्या.सू._३,२.४३: अव्यक्तग्रहणमनवस्थायित्वाद् विद्युत्संपाते रूपाव्यक्तग्रहणवत् ॥

बुद्धिस्थैर्यवाद्याह ।
यद्यनवस्थायिनीति ॥ ४३ ॥

न्या.सू._३,२.४४: हेतूपादानात् प्रतिषेद्धव्याभ्यनुज्ञा ॥

दूषयति । न विरोधादिति । ( ४३२ । ५ ) बुद्धिमात्रस्य स्थायित्वं प्रतिज्ञाय विद्युत्संपातजाताया घटादिबुद्धेरनवस्थायित्वाभिधानं विरुद्धमित्यर्थः । अव्यक्तग्रहणस्यान्यथासिद्धत्वं चाह । अव्यक्तग्रहणस्येति । धर्मिग्रहणहेतोर्भेदात् । अव्यक्तश्च यो धर्मिग्रहणे हेतुः सामान्यमात्रवन्तं धर्मिणं गृह्णाति तद्वशादव्यक्तग्रहणं यस्तु सामान्यविशेषवन्तं तद्वशाद्व्यक्तग्रहणमित्यर्थः । धर्मिणं त्वनाश्रित्य स्वे विषये ग्रहणानां तदसम्भवात् व्यक्तत्वादित्यर्थः । धर्मिणमनाश्रित्येत्यविद्वान् शङ्कते । लोकविरोध इति चेदिति । धर्मिग्रहणमाश्रित्य निराकरोति ।

नान्यथेति ।
दोषान्तरमाह ।
अनैकान्तिकत्वाच्चेति ।
वार्त्तिकव्याख्यानेनैव भाष्यव्याख्या ॥ ४४ ॥

न्या.सू._३,२.४५: न प्रदीपार्चिःसंतत्यभिव्यक्तग्रहणवत् तद्ग्रहणम् ॥

न्या.सू._३,२.४६: द्रव्ये स्वगुणपरगुणोपलब्धेः संशयः ॥

शरीरेति(४३३।९) । पूर्वं हि भूतेन्द्रियमनसां चैतन्यं साक्षान्निराकृतमुपक्षेपात्तु शरीरस्य,

संप्रति तु शरीरस्यैव साक्षाच्चैतन्यं निरस्यत इति तात्पर्यभेदादपुनरुक्तम् ।
वस्तुतस्तु पौनरुक्त्यपरिहारं भाष्यकारः प्रकारान्तरेण प्रकरणान्ते वक्ष्यति ।
तद्गुणत्वं तत्रोपलब्ध्या सिध्यति ।
अबाधितयेति शेषः ॥ ४४४५ ॥

न्या.सू._३,२.४७: यावच्छरीरभावित्वाद्रूपादीनाम् ॥

न कारणानुच्छेदात्चेतनायाः, शरीरमस्याः कारणं तच्चानुच्छिन्नं, संस्कारस्य तु कारणस्योच्छेद इति द्रष्टव्यम् ॥ ४७ ॥

न्या.सू._३,२.४८: न पाकजगुणान्तरोत्पत्तेः ॥

तच्च न, पाकजगुणान्तरोत्पत्तेरिति ।
नात्यन्तिकः परमाणौ वा पिठरे वा रूपाभाव इत्यर्थः ॥ ४८ ॥

न्या.सू._३,२.४९: प्रतिद्वन्द्विसिद्धेः पाकजानामप्रतिषेधः ॥

तदेवमात्यन्तिकानात्यन्तिकत्वं वैधर्म्यमुत्क्वा सप्रतिद्वन्द्वित्वासप्रतिद्वन्द्वित्वं वैधर्म्यान्तरमाह इतश्च । प्रतिद्वन्द्विसिद्धेः पाकजानाम्(४३५।८) तद्व्यभिचारोद्भावनेन चैतन्यस्य यावच्छरीरभावित्वाप्रतिषेधः ॥ ४९ ॥

न्या.सू._३,२.५०: शरीरव्यापित्वात् ॥

प्रत्ययव्यवस्थाप्रसङ्गात् । (४३६।३) यथा देवदत्तस्य ज्ञानं न यज्ञदत्तः प्रतिसंधत्ते किं तु देवदत्त एवेति व्यवस्था एवमेकस्मिन् शरीरे अवयवान्तरज्ञानमवयविनो वा ज्ञानं न प्रतिसंधत्ते इत्यर्थः ॥ ५० ॥

न्या.सू._३,२.५१: न केशनखादिष्वनुपलब्धेः ॥

दृष्टान्तसूत्रमिति ।
न करचरणादयश्चेतनाः शरीरावयवत्वात् केशनखादिवादिति दृष्टान्तार्थं सूत्रमित्यर्थः ॥ ५१ ॥

न्या.सू._३,२.५२: त्वक्पर्यन्तत्वाच्छरीरस्य केशनखादिष्वप्रसङ्गः ॥

त्वक्पर्यन्तत्वादिति ।
शरीरावयवत्वं केशनखादीनां हेतुरसिद्धः इन्द्रियाश्रयत्वं शरीरलक्षणं, तद्यत्र शरीरं समवेतं तेनेन्द्रियाश्रयेणावश्यं भवितव्यम् ।
त्वक्पर्यन्तश्चावयवसमूहस्तथा, न तु केशनखादयस्तादृशा इति न शरीरावयवा इत्यर्थः ॥ ५२ ॥

न्या.सू._३,२.५३: शरीरगुणवैधर्म्यात् ॥

न्या.सू._३,२.५४: न रूपादीनामितरेतरवैधर्म्यात् ॥

न्या.सू._३,२.५५: ऐन्र्दियकत्वाद् रूपादीनामप्रतिषेधः ॥

रूपादीनां त्वितरेतरवैधर्म्यमननुसंहितं चशरीरगुणत्वेनानन्वितमित्यर्थः । न हि येषां चाक्षुषत्वरासनत्वादिरूपवैधर्म्ययोगस्ते न शरीरगुणा इति दृष्टम् । अव्यावृत्तं च शरीरगुणानां तादृशवैधर्म्यदर्शनात् । तस्मादशरीरगुणत्वान्वयव्यतिरेकाभावाद्वैधर्म्यमात्रमेतत् । बाह्यकरणप्रत्यक्षाप्रत्यक्षशरीरगुणवैधर्म्यं मानसप्रत्यक्षत्वमन्वयव्यतिरेकि तु चेतनायाः शरीरगुणत्वसाधनं न भवति । अपि तु तदन्यगुणत्वसाधनमित्यर्थः । विशेषप्रतिषेधस्य शेषाभ्यनुज्ञाहेतुत्वादिति । ये हेतव इति(४३७।२)बहुवचनं हेत्वेकदेशविवक्षया । न शरीरगुणश्चेतना अयावद्द्रव्यभावित्वादित्युच्यमाने संस्कारेणानेकान्त इत्यत उक्तं निमित्तान्तराभाव इति । तथाऽपि पाकजेन गुणेनानेकान्त इत्यतौक्तं विरोधिगुणादर्शने चेति । शरीरव्यापित्वादिति । न साधनमिति । प्रसङ्गो हि न साधनं हेतोभावात् । यथाहुरस्ति प्रसङ्गो न प्रसङ्गसाधनमिति ।

बाह्यकरणाप्रत्यक्षत्वादिति ।
न च गुरुत्वादिभिरनेकान्तः ।
तेषां खल्वप्रत्यक्षत्वमेव ।
न तु बाह्यकरणप्रत्यक्षत्वमिति भावः ॥ ५५ ॥

न्या.सू._३,२.५६: ज्ञानायौगपद्यादेकं मनः ॥

मनःस्वरूपपरीक्षायां भाष्यवार्त्तिके निगदेनैव व्याख्याते ॥ ५६ ॥

न्या.सू._३,२.५७: न युगपदनेकक्रियोपलब्धेः ॥

संस्थापनं स्थानम् ॥ ५७ ॥

न्या.सू._३,२.५८: अलातचक्रदर्शनवत् तदुपलब्धिराशुसंचारात् ॥

न्या.सू._३,२.५९: यथोक्तहेतुत्वाच्चाणु ॥

न्या.सू._३,२.६०: पूर्वकृतफलानुबन्धात्तदुत्पत्तिः ॥

मनसि विचार्यमाणे कः सम्बन्धः शरीरोत्पत्तिनिमित्तविचारस्येत्यत आह । मनसः खल्विति । (४३८।१०)मन एवाधिकरणविचारेणापि परीक्ष्यत इति नासम्बन्धः शरीरोत्पत्तिनिमित्तविचारस्य । परित ईक्षा परीक्षा सा च स्वरूपतश्च सम्बन्धितश्च, शरीरं च मनःसम्बन्धि तदधिकरणत्वान्मनसः तस्मान्मनस एव परीक्षा या शरीरस्येत्यर्थः । उत्पत्तिसमकालमिति । (४३९।१) सममिव समम् । उत्पत्त्यनन्तरमित्यर्थः । क एवमाह न ददातीति । यदि समग्रं भवति तत उत्पत्त्यनन्तरं दास्यत्येवत्यर्थः । विपच्यमानः कर्माशय इति । स्वफलं भोजयन्नित्यर्थः । यानि वा प्राण्यन्तराणि तस्य कर्मणः समानोपभोगानीति । तद्यथा किंनरत्वनिर्वर्त्तनीयं कर्म स्त्रीपुंसभोग्यं स्त्रीपुंसयोरन्यतरकर्मप्रतिबन्धे फलं न ददातीति । यानि प्राण्यन्तराणि स्नेहविषया भ्रात्रादयस्तस्य कर्मणो भागीनीति । कर्मफलानामन्नाद्याश्वग्रामादीनां भागित्वात्कर्मभागीनीत्युच्यन्ते तेषां प्राणिपनां कर्मभिरभाग्यादिशब्दवाच्यैः प्रतिबन्धादिति । तस्य वा कर्मणः सहकारिधर्माधर्मलक्षणं निमित्तं नास्तीति । अयमर्थः । दृष्टानां सेवादिकर्मणां व्यभिचाराद्ग्रामादिलाभेऽदृष्टं कारणं कल्पनीयम् । यथाहुः। ... तच्चैव तत्र कारणं शब्दश्चेति ... दृष्टं सेवादिच कारणम् । शब्दश्चेति विषयिणा तद्विषयमदृष्टमुपलक्षयति । ते च ग्रामादयस्तस्माददृष्टादुपजायमाना अन्तरा विघ्ननाशाय देवतानमस्कारादिजनितमपि धर्ममपेक्षन्ते, तस्मात् प्रारभवीयेन धर्मेण स्वफलनिर्वर्त्तनाय धर्मान्तरं सहकार्यपेक्ष्यते, सहकारिणां च वैचित्र्यात्प्रतिबन्धापगमहेतोरपि सहकारित्वाविरोधः । तेन कर्मणः सहकारिनिमित्ताभावात्प्रतिबद्धमदृष्टं फलं न जनयतीत्यर्थः । तस्य वा कर्मणः सहकारिणः कारणस्य गरीयसा कर्मान्तरेण प्रतिबन्धात्फलस्यानारम्भः । एवं स्वकर्मणां सहकारिनिमित्ताभावप्रतिबन्धावुत्क्वा समानोपभोगसत्त्वान्तरकर्मणामपि सहकारिनिमित्ताभावप्रतिबन्धौ दर्शयति ।

सत्त्वान्तरकर्मणां चेति ।
रूपादिमत्त्वादित्युच्यमानेपरमाणुभिरनेकान्तः स्यादत आह ।
बाह्यकरणग्राह्यत्वे सतीति ।
इन्द्रियग्राह्यत्वे सतीत्येतावतैव सिद्धे इन्द्रियग्राह्यराशेर्बाह्यकरणग्राह्यं राश्यन्तरमित्येतावन्मात्रविवक्षया बाह्यकरणग्राह्यत्वे सतीत्युक्तम् ॥ ५८६० ॥

न्या.सू._३,२.६१: भूतेभ्यो मूर्त्युपादानवत् तदुपादानम् ॥

न्या.सू._३,२.६२: न साध्यसमत्वात् ॥

सिकतादिदृष्टान्तस्य साध्यसमतयैव पुरुषार्थक्रियापसामर्थ्यादित्यस्य हेतोरनैकान्तिकत्वोद्भावनमपि प्रत्युक्तम् ।
सिकतादीनामपि कथं चित्पुरुषार्थहेतुत्वात्तत्सर्गः पुरुषगुणपूर्वक इत्युक्तम् ॥ ६२ ॥

न्या.सू._३,२.६३: नोत्पत्तिनिमित्तत्वान्मातापित्रोः ॥

मा भूद्वा पुरुषगुणपूर्वकत्वं सिकतादिसर्गस्य, तथाऽपि शरीरस्योत्पत्त्यादि परिभावयन्तः सिकतादिभ्यो वैषम्यं वीक्षमाणास्तद्विलक्षण्कारकणत्वमेव प्रतिषद्यामहे तथा च सिध्यति पुरुषगुणनिमित्ततेत्याह । विषमश्चायमुपन्यास इति । (४४०।१६) ननु मातापितरौ न साक्षात् शरीरोत्पत्तौ कारणमित्यत आह मातापितृशब्देन लोहितरेतसी इति । अनुभवनीये इति भव्यगेयादिपाठत्कर्तरि कृत्यः ॥ ६३ ॥

न्या.सू._३,२.६४: तथाहारस्य ॥

इतोऽपि वैषम्यमित्याह ।
तथाहारस्य (सू. ६४) ॥

पूर्वसूत्रप्रतीकेन पूरयति ।
उत्पत्तिनिमित्तत्वादिति प्रकृतम् ।
कललरकण्डमांसपेश्यादयो लोहितरेतसोः शरीरारम्भकयोः परिणामभेदाः ॥ ६४ ॥

न्या.सू._३,२.६५: प्राप्तौ चानियमात् ॥

प्राप्तौत् (सू. ६५) ॥

दम्पत्योः संयोगः प्राप्तिः तस्यामनियमः शरीरोत्पादस्य, तस्माद् दृष्टस्य व्यभिचारादस्ति तददृष्टं यतः शरीरसर्ग इत्यर्थः ॥ ६५ ॥

न्या.सू._३,२.६६: शरीरोत्पत्तिनिमित्तवत् संयोगोत्पत्तिनिमित्तं कर्म ॥

पार्श्वस्थः शङ्कते । सर्वात्मभिरिति । ननु यदीयेनादृष्टेन यच्छरीरमुपात्तं तत्तस्यैव भोगायतनं नानियम इत्यत आह । न च पुरुषगत इति । आत्ममनःसन्निकर्षजौ हि धर्माधर्मौ, सन्निकर्षश्च मनसः सर्वात्मभिः साधारण इति सर्वेषामेव धर्माधर्मौ, न पुनः कस्पय चिदेवासाधारणावित्यर्थः । अस्योत्तरं शरीरेति । उक्तेनैवाभिप्रायेण शङ्कते तत्स्थता एकपुरुषस्थता कुत इति चेत् । उत्तरमान् स्वसंयोगेति । पुनः पृच्छति संयोगे कृतो नियम इति । (४४२।१) यथैवैकेनात्मना मनःसंयुक्तमेवमात्मान्तरैरपि । एवं यथैकेन मनसा संयुक्तं एवमनोन्तरैपीति नात्ममनःसन्निकर्षेऽस्ति विशेष इत्यर्थः । उत्तरं न मनोनियमहेतुत्वादिति । अदृष्ट (नियम) निबन्धनो हि मनोनियमः मनोनियमनिबन्धनश्चादृष्टनियमः । अनादित्वाच्च बीजाङ्कुरवदन्योन्याश्रयो न क्षतिमावहतीत्यर्थः ॥ ६६ ॥

न्या.सू._३,२.६७: एतेन नियमः प्रत्युक्तः ॥

तदेवमात्मगुणनिबन्धने शरीरसर्गे व्यावस्था दर्शिता । ये तु मेनिरे न कर्मनिबन्धनः शरीरसर्गोऽपि तु प्रकृत्यादिनिबन्धनः । प्रकृतयो हि स्वयमेव धर्माधर्मरूपनिमित्तानपेक्षाः सत्त्वरज स्तमस्तया प्रवृत्तिशीलाः स्व स्व विकारमारभन्ते, प्रतिबन्धापगममात्रे तु धर्माधर्मावपेक्षन्ते तद्यथा कृषविलः केदारादां पूर्णात्केदारान्तरमपूर्णमापिप्लावयिषुरषां सेतुमात्रं केदारमाप्लावयन्ति । एवमाप्लावयन्ति प्रकृतयोऽपि विकारानिति । यथाहुःऽनिमित्तमप्रयोजकं प्रकृतीनामावरणभेदस्तु ततः क्षेत्रिकवदिति । तान् प्रतयाह । एतेनानियमः प्रत्युक्तः (सू. ६७) । एतेन कर्मसापेक्षाणां भूतानां शरीरसर्गे अनियमाभिधानेन तन्निरपेक्षाणां व्यतिरेकमुखेनानियमः प्रत्युक्तः । नियमो व्याप्तिः साधारणविग्रहवत्त्वं सर्वात्मनाम् । अनियमस्त्वव्याप्तिः कस्य चिदात्मन किं चिच्छरीरं कस्यचित् किंचिदिति । प्रकृतिनिबन्धने हि शरीरसर्गे तस्या एकत्वात् सर्वात्मसाधारण्याच्च न शरीराणामस्त्यसाधारण्ये हेतुः । भूतग्रहणं तु प्रकृत्युपलक्षणार्थं न केवलमकर्मनिमित्ते शरीरसर्गे साधारणविग्रहवत्त्वं दोषः

अपि तु मोक्षोऽपि न स्यादिति दर्शयितुं स्वपक्षे मोक्षमुपपादयति ।
उपपन्नश्चेति ।
सांख्यपक्षे तु न मोक्षः स्यादिति दर्शयति ।
कर्मनिरपेक्षेष्विति ॥ ६७ ॥

न्या.सू._३,२.६८: तददृष्टकारितमितिचेत् पुनस्तत्प्रसङ्गोपवर्गे ॥

शङ्कते । तददृष्टकारितमिति चेदिति उपभोग्वशब्दाद्यदर्शनं प्रकृतिपुरुषभेदादर्शनं वाऽदृष्टमुच्यते । तत्कारितमित्यर्थः । निराकरोति एतस्मिन्निति । (४४३।४) यथा प्रागदर्शनमेवं निरोधसमाधेः पश्चादप्यदर्शनमित्यप्रवृक्तोऽपि पुनः संसरेदित्यर्थः । शङ्कामुत्थाप्य दूषयति । चरितार्थचेति । ननु न शब्दाद्युपभोगं पुरुषार्थं ब्रूमो येन चरितार्थता स्यात् । अपि तु पुरुषभेददर्शनं तच्चाद्यापि न भवतीत्यारभते शरीरमिति देशयति । पुरुषार्थेन च हेतुनेति । चोऽवधारणे पुरुषार्थेनैवेत्यर्थः । परिहरति । तस्यचाकरणादिति । चस्त्वर्थे । देश्यनिवृत्तौ । यदर्थं शरीराण्यारभते तन्न कृतमन्यत्तु कृतमितिकिं केन संगतमित्यर्थः । शङ्कते दिदृक्षाविशेष इति । दर्शनं हि नञा पर्युदस्तमतस्तन्मूलां दिदृक्षां ब्रूते सा चापवर्गे नास्ति तस्मान्नापवृक्तः संसरतीत्यर्थः । निराकरोति न प्रागिति । एतदुक्तं भवति । दिदृक्षा हि बुद्ध्याश्रया नासत्यां बुद्धावस्ति प्रकृतिपरिणामश्च बुद्धिस्तथा च सत्यां दिदृक्षायां बुद्धिः बुद्धौ सत्यां दिदृक्षेति परस्पराश्रयप्रसङ्गः । न चानादिता परिहारः, सृष्ट्यादौ द्वयोरभावात् । अस्माकं तु प्रलयसमये धर्माधर्मसंस्कृतोऽस्त्यात्मा मनश्चेति विशेषः । सत्कार्यमादाय शङ्कते । सर्वशक्तिमत्त्वादिति । निराकरोति । नापवर्गाभावप्रसङ्गादिति । (४४४।३) श्लिष्टं विभजते दिदृक्षावन्नानात्वदर्शनमप्यस्तीति । न तदर्थं प्रकृते प्रवृत्तिः तथा च न संसारस्तप्रध्वंसश्चापवर्गाभावान्नास्तीत्यपवर्गाभाव इत्यर्थः । एतदेव स्फुटयति । विद्यमाने च नानात्वदर्शने तदर्थं प्रधानस्य प्रयुक्तिरयुक्ता ततः संसाराभावात्तत्प्रध्वंसोऽपवर्गो न स्यादिति भावः । तमेवापवर्गाभावं तद्विरोधिसंसारसत्त्वे दर्शयति । यदा च नानात्वदर्शनमिति । निदानानुच्छेदे निदानिनो नोच्छेद इत्यर्थः । पुनर्विकल्पं दर्शयति । अज्ञानमदर्शनमिति चेति । विवेकज्ञानाभावस्य तुल्यत्वादित्यर्थः । शेषमतिरोहितार्थमिति । अपरे त्वार्हता अदृष्टं परमाणुगुणं वर्णयन्ति । पार्थिवानामणूनां मनसश्च स्वगुणप्रयुक्तं तच्छरीरमाविशति । तच्च स्वकादेवादृष्टात्पुद्गलस्य सुखदुःखोपभोगं साधयति ।

न तु पुद्गलस्पय धर्मोऽदृष्टमिति ।
सांख्यवत्तेषामपि पुनस्तत्प्रसङ्गोऽपवर्गे ।
एतदुपपादयति ।
परमाणुगुणस्येति ॥ ६८ ॥

न्या.सू._३,२.६९: मनःकर्मनिमित्तत्वाच्च संयोगानुच्छेदः ॥

अपि चास्मिन् दर्शने प्रायणं न स्यादित्याह । मनः कर्मनिमित्तत्त्वादिति ॥ ६९ ॥ अस्मद्दर्शने तूपपद्यते प्रायणमित्याह ।

वर्तमानशरीरारम्भककर्माशयक्षये तु भविष्यद्देहान्तरारम्भककर्माशयान्तरादपसर्पणं मनस इति युक्तं प्रायणम् ।
उभयहेतुरिति ।
उपसर्पणापसर्पणहेतुरित्यर्थः ॥ ६९ ॥

न्या.सू._३,२.७०: नित्यत्वप्रसङ्गश्च प्रायणानुपपत्तेः ॥

ननु भवतु संयोगानुच्छेदः किं नोबाध्यतैत्यत आह । शरीरस्य नित्यत्वप्रसङ्गश्च प्रायणानुपपत्तेः । संयोगाव्युच्छेदादित्यर्थः । ननु सदकारणं नित्यमिति कथं सकारण शरीरे नित्यं भवेदित्यत आह । नित्यत्वप्रसङ्ग इति प्रायणानुपत्तिं ब्रूमः । विनाशानुपपत्तिरित्यर्थः ।

यादृच्छिके अकारणके ।
प्रायणभेदो न स्यात् ।
दृष्टश्च प्रायणभेदः कश्चिद्गर्भस्य एव प्रैति कश्चिज्जातमात्रः कश्चित्कुमारक इत्यादिरिति अकारणस्य नित्यं सत्त्वमसत्त्वं वा स्यात् ।
गगनवत्तत्कुसुमवदित्यर्थः ॥ ७० ॥

न्या.सू._३,२.७१: अणुश्यामतानित्यत्ववदेतत् स्यात् ॥

अकारणत्वादित्यस्य हेतोरनैकान्तिकत्वेन प्रत्यवतिष्ठते ।

अणुश्यामतावदिति ॥ ७१ ॥

न्या.सू._३,२.७२: नाकृताभ्यागमप्रसङ्गात् ॥

निराकरोति ।

एतच्च नेति (४४६।२) । प्रमाणेनाविषयीकृतमकृतम् प्रत्युत प्रत्यक्षागमविरुद्धमिति यावत् । तस्याभ्यागप्रोऽभ्युपगमस्तत्प्रसङ्गादित्यर्थः । न च परमाणुश्यामताप्यकारणा पार्थिवरूपत्वात् लोहितादिरूपवदित्यनुमानेन तस्यापि पाकजत्वाभ्युपगमादिति भावः।यथा श्रुति वा सूत्रार्थः । अकृतस्य कर्मणः फलोपभोगप्रसङ्गादिति । यथा खलु परमाणुगुण एव नित्यः शरीराद्यारम्भकस्तथाऽसौ नित्यत्वान्न केन चित् क्रियते । तस्याकृतस्यैव फलं पुरुषैरुपभुज्यते ततश्चायमास्तिकानां विहितनिषिद्धप्रवृत्तिनिवृत्तिनिचयोऽनर्थकः शास्त्रप्रणयनं चाप्यनर्थकं भवेदिति भावः । एतच्चातिविस्तृतं भाष्ये । तस्यार्थो निगदव्याख्यातः ॥ ७२ ॥

इति श्रीवाचस्पतिमिश्रविरचितायां न्यायवार्तिकतात्पर्यटीकायां तृतीयोऽध्यायः समाप्तः ॥

अत्र तृतीयेऽध्याये प्रथमे आन्हिके ७५ सूत्राणि, द्वितीये च ७३ सूत्राणि इति आदित आरभ्य मिलितवा १४८ सूत्राणि । ३ अ० १ आन्हिके ९ प्रकरणानि, ३ आन्हिके ९ प्रकरणानि । मिलित्वा १६ प्रकरणानि । आदितः ४२ प्रकरणानि ।