न्यायवार्त्तिकतात्पर्यटीका/चतुर्थोध्यायः

विकिस्रोतः तः

चतुर्थाध्यायस्याद्यमाह्निकम् ॥

न्या.सू._४,१.१: प्रवृत्तिर्यथोक्ता ॥

अथ मनः परीक्षानन्तरमुद्देशलक्षणक्रमानुरोधेन प्रवृत्तिः परीक्षितुं युक्ता, सा कस्मान्न परीक्ष्यत इति शङ्कानिराकरणाय सूत्रमित्याह । मनसोऽनन्तरमिति । ( ४४६।३ ) प्रवृत्तिर्यथोक्ता (सू.१) ॥

अस्य शेषस्तथा परीक्षिता यथा लक्षिता तथा परीक्षितेत्यर्थः । पृच्छति किं पुनरिति । प्रमेयमात्मादि मनोन्तं परीक्षितं, न पुनः प्रवृत्तेः स्वरूपं वा कार्यं वा परीक्षितामिति भावः । उत्तरम् । यावद्धर्माधर्माश्रयमिति । एकद्रव्येत्येकस्मिन्नेवात्मनि वर्त्ततैत्यर्थः । अवस्थिता न तु बुद्ध्यादिवदाशुतरविनाशिनीत्यर्थः । आत्मसमवायादिति । कार्यत्वे सतीति द्रष्टव्यं विशेषणम् । तेन न सामान्यविशेषाभ्यां व्यभिचारः ।

प्रायणादीत्यादिशब्देन सुखादिक्षयोऽपवर्गश्च गृह्यते ।
संसारापवर्गहेतुभूतात्मसद्भावासद्भावाभ्यामिति शेषः ।
एवमाद्युक्तमिति ।
आदिग्रहणेनात्मसमवेता प्रवृत्तिर्न तु पृथिव्याद्याश्रयेति दर्शयति ॥ १ ॥

न्या.सू._४,१.२: तथा दोषाः ॥

प्रवृत्तेरनन्तरास्तर्हि दोषाः परीक्ष्यन्तामित्यत आह ।
तथा दोषाः (सू. २) ॥

उक्ता इति शेषः । प्रवृत्तितुल्यतया प्रवृतिपरीक्षयैव तावद्दोषाणां सत्त्वं परीक्षितमित्यर्थः । कार्यरूपप्रवृत्तितुल्यतामाह बुद्धिसमानाश्रयत्वादिति । अभीष्टविषयानुचिन्तनप्रभवाः खल्विमे दोषा नानुचिन्तनबुद्धिव्यधिकरणा भवितुमर्हन्ति, तथा सति चैत्रस्याभीष्टविषयानुचिन्तने मैत्रस्य रागः प्रवर्त्तेत । तस्माद्बुद्धिसमानाश्रयत्वादात्मगुणाः आत्मगुणत्वाच्च कार्यप्रवृत्तितुल्यतया प्रवृत्तिपरीक्षयैव त्तावद्दोषाः परीक्षिता इत्यर्थः । इदं च प्रवृत्तितुल्यत्वमपरं दोषाणामित्याह । संसारस्यानादित्वादिति । एतच्चोक्तं वीतरागजन्मादर्शनादित्यनेन । तथोद्देशपरीक्षापरेण द्वितीयसूत्रेण यत्तेषां दोषाणां परीक्षितं तदाह । सम्यग्ज्ञाना च्चेति । स्यादेतत् । गुणत्वेसत्यात्मगुणा इति सिद्ध्यति तदेव तु कुत इत्यत आह । कार्यत्वेसतीति । ( ४४०।१ ) इन्द्रियान्तरं मन इति मानसप्रत्यक्षैश्चात्मत्वसुखत्वादिभिरनैकान्तित्वं मा भूदत उक्तं कार्यत्वे सतीति विशेषणम् । अचाक्षुषप्रत्यक्षत्वादित्यत्रापि कार्यत्वे सतीति विशेषणमनुषञ्जनीयम् ॥ २ ॥

न्या.सू._४,१.३: तत् त्रैराश्यं रागद्वेषमोहार्थान्तरभावात् ॥

न्या.सू._४,१.४: नैकप्रत्यनीकभावात् ॥

तदेवं बहु परीक्षितं दोषाणां, यत्तु किं चिद्दोषाणामपरीक्षितमस्ति तत्परीक्षितुमुपक्रमते । प्रर्वतनालक्षणा इत्युक्तं तथा च मानादय इति । रागद्वेषमोहा एव दोषा न च मानादयस्तेष्वन्तर्भवन्ति बुद्धिव्यपदेशभेदात् । प्रवर्त्तनालक्षणत्वं तु तेषामप्यस्ति तस्मादतिव्यापकत्वान्न लक्षणमेतद्युक्तं युक्तत्वे वा लक्षणसूत्रे मानादयोऽपि दोषवत्पठनीया इति पूर्वपक्षः । सिद्धान्तवाद्याह नोपसंख्यायन्ते संगृहीतत्वादिति । रागद्वेषमोहानां सामान्यत्रयाणां कामादयो विशेषास्तथा चोपपन्नो बुद्धिव्यपदेशभेदः सङ्ग्रहश्चेति भावः । अस्ववस्त्वादानेच्छा स्वामिदानपूर्विका स्पृहा । पुनर्भवप्रार्थना तृष्णाहेतुभूता प्रवृत्तिद्वारेण पुनर्भवप्रतिसंधानस्येति । प्रमाणविरुद्धेति।(४४९।१) अन्यायेनेत्यर्थः । परस्य ज्ञातेर्ममाप्येतदिति बुद्धिरभिनिवेशः तत्प्रतिषेधाभिप्रापयो ज्ञानिपिशाचस्येर्ष्येत्युच्यते । अमर्षलक्षणो द्वेष इति । ( ४५०।१ ) ननु कृतापकारस्य या असहिष्णुता सोऽमर्ष इति द्वेषस्यैव विशेष इत्युक्तं कथं द्वेषसामान्यमुच्यत

इत्यत आह ।
असहिष्णुता दुःखस्य दुःख साधनानां चेति ।
मिथ्याप्रतिपत्तिलक्षणो मोह इति ।
संशयोपि हि यथाबस्थिते पदार्थे अयथाभावप्रतिपत्ति भवति, व्यवस्थितं हि वस्तु अवयवस्थिततया गृह्णाति संशयः एवं पण्डितमानिनो मीमांसकदुर्दुरूढस्याभिमान इति ॥ ३४ ॥

न्या.सू._४,१.५: व्यभिचारादहेतुः ॥

एकियोनयो हि रूपादयो न चैषामेकत्वं, यदि पुनस्तत्र रूपादीनां परस्परभेदसिद्धये कश्चित्कारणभेद आस्थीयते स रागादिष्वपि समान इति भावः ।

आर्यप्रज्ञेति भाष्यम् ।
आरात्तत्त्वाद्याता आर्या ।
आर्या चासौप्रज्ञा चेति आर्यप्रज्ञा ।
सम्यग्बोधः सम्बोधः ॥ ५ ॥

न्या.सू._४,१.६: तेषां मोहः पापीयान् नामूढस्येतरोत्पत्तेः ॥

नासति निदानोच्छेदे निदानिनामुच्छेद इतिरागद्वेषयोर्निदानिनोरुच्छेदाय तन्निदानत्वं मोहस्य दर्शयति सति चार्थान्तरत्व इति । तेषां मोहः पापीयान् कुतः नामूढस्येतरोत्पत्तेः ॥ ६ ॥ अमूढस्येतरोत्पत्तिर्न भवति यत इत्यत्रार्थे नामूढस्येतरोत्पत्तेरित्युक्तम् । मोहाद्विषयस्य सुखसाधनत्वानुस्मृतिः दुःखसाधनतानुस्मृतिश्च सङ्कल्पः । रञ्जनीयाः कोपनीया इति कर्तरि कृत्यो भव्यगेयादिपाठात् । वार्तिकं मूढोमुह्यतीति । (४५१।३) मूढ इति मोहवासनावान् ।

भवतु निदानोच्छेदादुच्छेदो निदानिनः निदानस्य कुत उच्छेद इत्यत आह ।
तत्वज्ञानाच्चेति ।
प्रतिपक्षाभ्यासान्निदानोच्छेद इत्यर्थः ॥ ६ ॥

न्या.सू._४,१.७: निमित्तनैमित्तकभावादर्थान्तरभावो दोषेभ्यः ॥

न्या.सू._४,१.८ ॥ दोषनिमित्तित्वादिति हेतोरप्रयोजकत्वमाह ।

न दोषलक्षणावरोधादिति ।
तथाभावस्तज्जीतायत्वमतथाभावोऽतज्जातीयत्वम् ॥ ७८ ॥

न्या.सू._४,१.९: निमित्तनैमित्तकोपपत्तेश्च तुल्यजातीयानामप्रतिषेधः ॥

अनैकान्तिकत्वमाह ।

निमित्तनैमित्तिकोपपत्तेश्चेति ॥ ९ ॥

न्या.सू._४,१.१०: आत्मनित्यत्वे प्रेत्यभावसिद्धिः ॥

उत्पादोच्छेदौ प्रेत्यभावो न चात्मनो नित्यस्य तौ स्तः तस्मादस्मिन् दर्शने न युक्तः प्रेत्यभावः । वैनाशिकानां तु सत्त्वोत्पादनिरोधाभ्यां युक्तः प्रेत्यभावः ।

प्रेत्येति ल्यब् मुखं व्यादाय स्वपितीतिवद् द्रष्टव्यः ।
तथा च भूत्वा प्रायणमिति भवनप्रायणयोः समानकर्तृकत्वमप्युपपन्नमिति पूर्वपक्षः ।
पूर्वाभ्यस्तसूत्रे आत्मनित्यत्वव्यवस्थापनात् सत्त्वोत्पादोच्छेदे च कृतहानाकृताभ्यागमदोषेणाभ्युदयनिःश्रेयसार्थमप्रवृत्तिः ऋष्युपदेशानर्थक्यप्रसङ्गश्च स्वदेहेन्द्रियबुद्धिसंवेदनासम्बन्धोत्पादविपनाशौ नित्यस्यात्मनो जन्मप्रायणे तथा चोपपन्नः प्रेत्यभाव इति सिद्धान्तः ॥ १० ॥

न्या.सू._४,१.११: व्यक्ताद् व्यक्तानां प्रत्यक्षप्रामाण्यात् ॥

न्या.सू._४,१.१२: न घटाद् घटानिष्पत्तेः ॥

न्या.सू._४,१.१३: व्यक्ताद् घटनिष्पत्तेरप्रतिषेधः ॥

प्रेत्यभावविचारप्रस्तावेनेदमपरं विचारयति । येयं प्रेतयोत्पत्तिर्नाम सा कथमिति चेत् । अत्र हि प्रावादुकानां नानाविधा विप्रतिपत्तयः सन्ति । तत्राभिमतं तावत्पक्षं गृह्णाति । व्यक्तादिति । अग्रे विप्रतिपत्तीर्निवारयिष्यति । शरीरेन्द्रियविषयोपकरणाधारमिति एकवद्भावेन नपुंसकत्वम् ।

प्रत्यक्षगृहीतसम्बन्धप्रभवमनुमानं प्रत्यक्षेप्युपदिशति प्रतयक्षमूलकत्वादिति ।
ननु भवतु शरीरं पृथिव्यादि च व्यक्तं महत्त्वानेकद्रव्यवत्त्वरूपविशेषेभ्यः तन्मूलकारणं परमाणवः कथं व्यक्ता इत्यत आह ।
तत्सामान्यादिति ।
रूपादिमत्सामग्रीपूर्वकं गवादि शरीरमित्यर्थः ॥ १११३ ॥

न्या.सू._४,१.१४: अभावाद् भावोत्पत्तिर् नानुपमृद्य प्रादुर्भावात् ॥

अतः परं प्रावादुकानां तैर्थिकानां च दर्शनान्युपन्यस्तानि कानि चित्प्रतिषिध्यन्ते तत्र कानि चिदभ्यनुज्ञायन्त इति ( ४५४।३ ) तत्र तावदेके प्राहुरभावाद्भावोत्पत्तिः कुतः नाननुपमृद्य प्रादुर्भावो यतः तस्मादित्यर्थः । विश्यं हि शून्यताया एव जायते । एवं किल श्रूयते असदेवेदसग्र आसीदिति । अत एवाद्याप्यसत एव जन्म दृश्यते न सतः तत्कस्य हेतोः अभावस्तस्या कारणमिति ।

उपलक्षणं चेदं नानुपमृद्य प्रादुर्भावादितिद्व असत उत्पादाभित्यपि द्रष्टव्यम् ।
तस्मादसदुपादानं विश्वमिति सिद्धम् ॥ १४ ॥

न्या.सू._४,१.१५: व्याघातादप्रयोगः ॥

तत्र सिद्धान्तीप गूढाभिसन्धिराह उपमृद्यप्रादुर्भवतीति व्याघात इति ॥ १५ ॥

न्या.सू._४,१.१६: नातीतानागतयोः कारकशब्दप्रयोगात् ॥

तदभिसन्धिमविद्वान् पूर्वपक्षी दूषयति । न अतीतानागतयोः कारकशब्दप्रयोगादिति । उपमृद्य प्रादुर्भवतीति भाक्त एष प्रयोगो न मुख्य इत्यर्थः । भिन्नस्य कुम्भस्य कपालानीति तु यद्यपि न साक्षात्कारकशब्दस्तथापि षष्ठ्या सम्बन्धाभिधानात् तस्य क्रियामर्भत्वात्क्रियायाश्च कारकनान्तरीयकत्वात्पारम्पर्येण कारकशब्दता द्रष्टव्या । पृच्छति कः पुनरङ्कुरेण बीजोपमर्दार्थः । (४४५।२) का पुनर्भक्तिः यया योगादुपसंगृह्णाति बीजमङ्कुर इति भवति प्रयोग इत्यर्थः । उत्तरम् । अनन्तरोत्पत्त्यर्थः उपमर्द्येपमर्दयोरप्यानन्तर्यमनयोरपीति एतत्सामान्यमित्यर्थः । पुनरपि गूढाभिसन्धिरेव सिद्धान्ती उक्तं स्मारयति । अत्रोक्तमिति । अभिप्रायमुद्घाटयति । यदपीदमुच्यत इति । नौपचारिकं प्रयोगं व्यासेधामः कारकशब्दानां, किन्तु यथा भविष्यन्नङ्कुरः सम्प्रति असन्न बीजमुपमृद्गाति एवं बीजाभावोऽसन्नाङ्कुरं करोतीति ब्रूमः । तदिदमाह अपि त्वसतः कारणादुत्पत्तिर्न युक्तेति । ननूक्तमुपमृद्य प्रादुर्भावादित्यनेनानन्तर्यं बीजविनाशाङ्कुरोत्पादयोः सूचितं बीजविनाशानन्तर्याच्चाङ्कुरोत्पादस्य बीजविनाशकार्यत्वमित्यत आह । यत्पुनरेतदानन्तर्यसामर्थ्यादिति । अनन्यप्रयुक्तमानन्तर्यं कार्यकारणभावसाधनम् इदन्तु व्यूहानन्तर्यप्रयुक्तमिति नाभावस्य कारणत्वं गमयितुमर्हतीत्यर्थः । यदि व्यूहान्तरकार्योऽङ्कुरोऽथ कस्मादविनष्टे पूर्वव्यूहे न भवतीत्यत आह । न चाविनष्टे इति ।

ननु यदि बीजावयवव्यूहान्तरमङ्कुरोत्पादहेतुर्न बीजं कस्मादङ्कुरार्थिनः कृषीवला बीजमुपाददतैत्यत आह ।
एवं चेति ।
बीजावयवोपादाने अवर्जनीयतया बीजमागच्छदशक्यप्रत्याख्यानमित्यर्थः ॥ १६ ॥

न्या.सू._४,१.१७: न विनष्टेभ्योऽनिष्पत्तेः ॥

तदेवमर्थं परिशोध्यात्रैवार्थे सूत्रं योजयति ।
अस्य चार्थस्येति ।
न विनष्टेभ्यो बीजेभ्योऽङ्कुरस्यानिष्पत्तेः ।
बीजविनाशश्चेदङ्कुरोत्पादहेतुरथ विनष्टे बीजे तदवयवेषु परस्परविच्छिन्नेष्वसति तेषां व्यूहान्तरे कस्मादङ्कुरो न भवति भवति तु सति तेषां व्यूहे तस्माद्विनष्टेभ्योऽङ्कुरानुत्पत्तेरसति व्यूहे न बीजनाशः कारणमिति सूत्रार्थः ॥ १७ ॥

न्या.सू._४,१.१८: क्रमनिर्देशादप्रतिषेधः ॥

क्रमनिर्द्देशादित्यस्य हेतोरस्मत्पक्षेऽप्यप्रतिषेधः । तत्राप्यानन्तर्यस्य तुल्यत्वात् । तथापि विनिगमनायां को हेतुरित्यत आह । अभावश्चेदङ्कुरोत्पादकारणं स्यात् । अनुपाख्येय इति शेषः । न ह्यनन्वयविनष्टयोः शालियवबीजयोः कश्चिद्विशेषोऽस्ति येनैकस्माच्छाल्यङ्कुरो नान्यस्मादिति । को नु खल्वभावानामस्त्याजानतो भेद इति । अपि च कारणानां शक्तिभेदात्कार्याणि भिन्नशक्तियुक्तानि । यदा तु कारणानामभेदस्तदा कुतस्तच्छेक्तीनां भेदः तथा च कार्याणि भिन्नशक्तीनि न स्युरित्याह । अनन्वितं च कार्यं सर्वाभिरिति । यदप्यसत उत्पादादभावस्योपादानत्वं तदपि कार्याणां भिन्नत्वेन भिन्नशक्तिकत्वेन च प्रयुक्तम् । तत्प्रागभावानां स्वाभाविकभेदविरहात् । अपि च प्रागभावानामनादित्वेन कार्योत्पादस्याप्यनादित्वप्रसङ्गः भावरूपकारणसहकारित्वं त्वभावस्य न निषिध्यते अस्मदभिमतस्योपाख्येयस्य । अत एव पाकजादीनांरूपादीनां पूर्वरूपादिध्वंसनिमित्तत्वमप्युपेयते । श्रुतिस्तु पूर्वपक्षाभिप्राया, तथा च सिद्धान्तश्रुत्यन्तरं सदेव सोम्येदमग्र आसीदिति कथमसतः सज्जायेतेति ।

शून्यताविवर्तो विश्वप्रपञ्च इति तु दर्शनमसत्ख्यात्यनिर्वचनीयख्यातिनिराकरणेनापाकृतम् ।
अपि च शून्यत्वे ख्यातुरभावात्ख्यातरेभावः ।
तस्मान्न शून्यतोपादानस्तद्विवर्तो वा विश्वप्रपञ्च इति सिद्धम् ॥ १८ ॥

न्या.सू._४,१.१९: ईश्वरः कारणम् पुरुषकर्माफल्यदर्शनात् ॥

अथापर आह इश्वरः कारणं पुरुषकर्माफल्यदर्शनात् (सू. १९) मा मूदयं नामरूपप्रपञ्चः शून्यतोपादानोऽपि तु ब्रह्मोपादानोभविष्यति, ब्रह्मैवहि प्रपञ्चरूपेण परिणमते मृत्तिकेव घटशरावोदञ्चनादिभावेन । न चैवं नित्यत्वव्याघातः । परिणामेऽपि तत्त्वाविघातात् तल्लक्षणत्वाच्च नित्यतायाः । यदाहऽयस्मिंस्तत्त्वं न विहन्यते तदपि नित्यऽमित्येकं दर्शनम् । अपरं च ब्रह्मैवानिर्वचनीयानाद्यविद्योपधानान्नामरूपप्रपञ्चभेदेन विवर्त्तते सुखमिवैकमनेकमणिकृपाणादिभेदान्नैकविधप्रतिबिम्बभेदेनेति, तदेतद्दर्शनद्वयमनेन सूचितम् । ईश्वरो ब्रह्म ईशनायोगात् । चेतनाशक्तिः क्रियाशक्तिश्चेशना । सा चास्ति ब्रह्मणीति ब्रह्मश्वरः कारणं जगतः । श्रूयते हि तदैक्षत बहुस्यां प्रजायेयेत्यादि ।

सा चेयं श्रुतिश्चेतनस्य जगत्कारणतामाह ।
न चाभावो वा प्रधानं वा परमाणवो वा चेतयन्ते ।
ननु जीवा एव चेतनास्तत्कर्मनिमित्तोनामरूपप्रपञ्चो भविष्यति, कृतमत्र भगवतेश्वरेणेत्यत उक्तं पुरुषकर्माफल्दर्शनादिति पुरुषश्चेत् चेतयेनैवं निष्फलं कर्मारभेद, निष्फलं विद्वान् प्रवर्त्तमानः कथं चेतनो नामद्व तस्मात्पुरूषकर्माफल्यदर्शनादीश्वरः कारणमित्यर्थः ॥ १९ ॥

न्या.सू._४,१.२०: न पुरुषकर्माभावे फलानिष्पत्तेः ॥

तदेतद्दर्शनद्वयमपाकरोति ।
न पुरुषकर्माभावो फलानिष्यतेः (सू. २०) ॥

इदमात्राकूतम् न तावन्मृत्तिकेव नामरूपप्रपञ्चरूपेण ब्रह्म परिणमते । तद्धि सर्वात्मना वा परिणमते एकदेशेन वा, तत्र सर्वात्मना परिणामे तत्त्वविघातादनित्यत्वम् । एकेदेशेन परिणामे सावयवत्वात्तदेवानित्यत्वम् । अथ तत्वेनानुगतस्य परिणामः तच्च ब्रह्म ? न तर्हि ब्रह्मणः परिणामः । न च निर्भागस्यैकस्य स्वसम्वेदनप्रत्यक्षस्य विपरीतज्ञानगोचरत्वसम्भवः । सामान्यतो ग्रहे रूपविशेषाग्रहे च तदन्यरूपारोपेण विभ्रमो दृष्टः शुक्तिकादौ, न तु जातु शुक्तिरूपं विद्वान रजतमिति विपर्यस्यति । न च निरंशे स्वसंवेदनप्रत्यक्षे ब्रह्मणि तत्स्वरूपाग्रहः सामान्यग्रहो वा भवति । तस्मादीश्वरो जगद्भेदेन विवर्ततैत्ययुक्तम् । निमित्तं तु स्यादीश्वरो जगतः, स चेदनपेक्ष एव जगत्कारणमित्युच्यते तत्रेदमुपतिष्ठते । नपुरुषकर्माभावे फलानिष्पत्तेरिति । अस्य व्यतिरेकमाह वार्तिककारः । ईश्वरश्चेत्कारणं भवेदिति । ( ४५६।११ ) एकरूर्पं कार्यं स्यादित्याह ईश्वरस्येति ।

कर्मणीश्वरोऽनीश्वरः स्यात् ।
तथा च तत्कारणानि नेश्वरेण प्रयुज्यन्तैत्यनेकान्तो वक्ष्यमाणो हेतुरित्यर्थः ॥ २० ॥

न्या.सू._४,१.२१: तत्कारितत्वादहेतुः ॥

तदेवमीश्वरोपादानत्त्वं च ब्रह्मविवर्तत्वं च निरपेक्षेश्वरनिमित्तत्वं च निराकृत्पयाभिमतं पक्षं गृह्णाति ।
तत्कारितत्वादहेतुः (सू. २१ ) ॥

परमाणूपादानस्य जगतः पुरुषकर्मापेक्ष ईश्वरो निमित्तकारणं यच्च तेनापेक्षणीयं पुरुषकर्म तदपीश्वरनिमित्तकमेव । न च यदपेक्ष्यते तस्यानिमितत्वमित्युपदिष्टात्प्रवेदयिष्यामः । तस्मादीश्वरकारितत्वात्पुरुषकारस्य तत्सहाय ईश्वरो निमित्तकारणं जगत इत्यस्य पक्षस्य निराकरणे पुरुषकर्माभावे फलानिष्पत्तेरित्यहेतुः । निरपेक्षेश्वरनिमित्तकत्त्वनिराकरणे हेतुरेवेत्यर्थः । भाष्यं गुणविशिष्टमात्मान्तरमिति । गुणानीश्वरस्य ज्ञानादीनुपपादयिष्यति वार्त्तिककारः । आत्मकल्पादित्यत्रात्मप्रकारादात्मजातीयादिति यावत् । संसारवद्भ्य आत्मभ्यो विशेषमाह । अधर्मेति । नन्वस्य कर्मानुष्ठानाभावात् कुतो धर्मः तथा चाणिमादिकमैश्वर्यं कार्यरूपं विनैव कर्मणेत्यकृताभ्यागमप्रसङ्ग इत्यत आह । संकल्पानुविधायी चास्य धर्म इति । प्रवर्त्तयतु किमेतावतेत्यत आह । एवं च स्वकृताभ्यागमस्यालोपेनेति । मा भूद्बाह्यानुष्ठानं संकल्पलक्षणानुष्ठानजनितधर्मफलमस्यैश्वर्यं जगन्निर्माणफलमिति नाकृताभ्यागमप्रसङ्ग इत्यर्थः । स्यादेतत् । प्रयोजनं विना न प्रेक्षावतां प्रवृत्तिः न च प्राप्तसकलप्राप्तव्यस्यास्ति प्रापणीयं किं चिदीश्वरस्य, तस्मात् कृतमस्य जगन्निर्माणेनेत्यत आह । आप्तकल्पश्चेति । माभूदस्य भगवतः स्वार्थः परानुग्रहार्थं जगन्निर्माणे प्रवर्त्स्यतीत्यर्थः । अत्रैव दृष्टान्तमाह । अयं यथा पितुरपत्यानाम् । अयं पिता स्वापत्यानां यथा पितेत्यर्थः । दार्ष्टान्तिके योजयति तथा पितृभूत ईश्वर इति । नन्वात्मान्तराण्यनित्त्यज्ञानयोगीनि दृष्टानि तद्वैलक्षण्यादीश्वरोनात्मजातीयो भवितुमर्हतीत्यत आह न चात्मकल्पादिति । यद्यप्यात्मान्तराण्यनित्यज्ञानयोगीनि अयं च नित्यज्ञानादियुक्तः तथाप्यात्मजातीय एव बुद्व्यादिगुणयोगित्वात् । अन्यथा तोयादिपरमाणूनामतोयत्वादिप्रसङ्गो नित्यरूपादियोगात् । करकादिगतानां रूपादीनामनित्यत्वोपलब्धेरिति । यदि चायं बुद्ध्यादिगुणैर्नोपाख्यायेन प्रमाणाभावानुपपन्न एव स्यादित्याह बुद्ध्यादिभिश्चेति । स्यादेतत् यदि कारुण्यादीश्वरो जगन्निर्माणे प्रवर्त्तते हन्त भोः सुखिनमेव सृजेन्न तु दुःखिनम् । न च क्षेत्रज्ञगतधर्माधम्रसहकारितया निर्माणवैचित्र्यं वाच्यं, धर्मस्य तदनधिष्ठितस्य स्वकार्याकरणेन कारुणिकेन तदधिष्टानायोगात्तस्मात्सुखिदुःख्यादिभेदेन जगद्वैचित्र्यदर्शनान्नानुकम्पाप्रयुक्त ईश्वरः करोतीत्यत आह । स्वकृताभ्यागमालोपेन प्रवर्तमानस्येति । अयमभिसन्धिः । कारुणिकोऽप्ययमात्मान्तरातिशायितमहिमापि न वस्तूनां सामर्थ्यमन्यथा कर्तुं पारयति । तस्मादधर्मेणोत्पत्तिमता(पि) नेश्वरप्रभावादपि नित्येन भवितुं युक्तम् । न च स्वफलविरोधिना फलमप्रदाय विनंष्टुमपि शक्यम् । अतः क्षेत्रज्ञानां नियतिमलङ्घयता ईश्वरेण नाधर्मः शक्योऽनधिष्ठातुम्, तस्मात्कारुणिकोऽप्ययं वस्तुस्वभावमनुविधीयमानो धर्माधर्मसहकारी जगद्वैचित्र्यं विधत्ते तदिदमुक्तं स्वकृताभ्यागमालोपेन प्रवर्त्तमानस्येति । पुरुषैर्यत्कर्म कृतं तत्फलाभ्यागमालो पेन प्रवर्त्तमानस्येत्यर्थः । वार्तिक ईश्वरप्रक्रियेति । ( ४५७।९ ) प्रक्रिया प्रकरणं ईश्वरनिमित्तत्वविचार इत्यर्थः । अथ विद्यमानः प्रतिबन्धान्न प्रवर्त्तयतीति । ( ४५८।१२ ) सुखाय पुरुषार्थेन प्रधाने प्रवर्तयितव्ये अधर्मः पुरुषार्थस्य प्रतिबन्धकः एवं दुःखाय पुरुषार्थेन प्रधाने प्रवर्त्तयितव्ये अधर्मः पुरुषार्थस्य प्रतिबन्धकः एवं दुःखाय पुरुषार्थेन प्रधाने प्रवर्तयितव्ये धर्म इत्यर्थः । न चायं हेतुस्तस्मान्निवर्त्तत इति । (४५९।१४) अयमेवाचेतनत्वलक्षणो हेतुः क्षीरान्न निवर्त्तत इत्यर्थः । परिस्पन्दःक्रिया सा मूर्त्यनुविधायिनी नामूर्ते सर्वगत ईश्वरे संभविनी इति मन्वानः शङ्कते । क्रियानावेशादकारणमिति चेदिति । (४६०।१६) अपरिस्पन्दा अपि ज्ञानचिकीर्षाप्रयत्ना आख्यातपदवाच्यतया भवन्ति क्रिया ईश्वरैत्यभिसंधिना परिहारः । न विकल्पानुपपत्तेः । यदा च युगपदनेकानि द्रव्याणि संहन्यते तदासाधारणकार्यव्यावृत्तेभ्यः संयोगेभ्यः इति । (४६१।८) असाधारणं कार्यमेकैकस्य तन्तुद्वयसंयोगस्य द्वितन्तुकं तस्माद्व्यावृत्तेभ्यः संयोगेभ्यः सह साधारणस्यैव कार्यस्य पटलक्षणस्योत्पादादित्यर्थः । न केवलमुत्पन्नक्रियेषु क्रियोपरतौद्रव्योत्पादः क्व चिदनुत्पन्नक्रियेष्वपि द्रव्येष्ववस्थितसंयोगेभ्यः पूर्वद्रव्योपरतौ द्रव्यान्तरोत्पाद इत्याह । एकावयवविभागे त्विति । तुशब्देन पूर्वस्मादुत्पन्नोपरतक्रियाविशेषो दर्शितः । किमक्रियावतामेवारम्भो नेत्याह कानि चित्पुनरिति । अन्यतरकर्मजान्नोदनात्संयोगान्निवृत्ते कर्मणि इतरस्मिन् द्रव्ये कर्मनिर्वृत्तिसमकालमेव द्रव्यं चोत्पद्यत इति तत्स्वाभाव्यात्प्रवर्त्ततैत्यदुष्टमिति । चेतनोऽप्ययं परानुग्रहस्वभावोऽपि वस्तुस्वभावमनुरुध्यमानः कर्माशयानुरोधेन जगद्वैचित्र्यं विधत्ते । न चावश्यं दुष्कृते पुंसां प्रवृत्तिं विहन्तीत्यर्थः । अद्यत्वेऽपि चेतनानां विचित्रस्वभावत्वं दृष्ट्रं सदसन्मध्यमानां जनानाम् । अथ नित्यमैश्वर्यं धर्मवैयर्थ्यं न तद्धर्माद्भवतीति । ( ४६४।३ ) ततश्चेश्वरस्यैश्वर्यं स्वकृतकर्मफलं वेदितव्यमित्ययुक्तं भाष्यमिर्तिं भावः । परिहरति नित्यमिति ब्रूमः । तस्य हि ज्ञानक्रियाशक्ती नित्ये इति ऐश्वर्यं नित्यम् । अणिमादिकं त्वनित्यं तदभिप्रायं च भाष्यकारस्य धर्मफलत्वाभिधानम् । प्रत्यात्मवृत्तिधर्माधर्मसन्निचयाधिष्ठानं धृत्यात्मवृत्तिसंकल्पानुविधायिन ईश्वरस्य धर्मस्य प्रयोजनमिति । अभ्युपेत्येश्वरधर्ममेतदुक्तं भाष्यकृता । परमार्थतस्तु नेश्वरस्य धर्मसद्भावे प्रमाणमस्ति नित्याभ्यामेव ज्ञानक्रियाशक्तिभ्यां सकलकार्योत्पादसिद्धेरित्याशयवानाह । न चेश्वरे धर्मोऽस्तीति । बुद्धिमत्त्वात्तर्ह्यत्मान्तरमिति । आत्मान्तरं शरीर्यन्तरमभिप्रेतमिति । स च शरीरसंबन्धो वर्त्तमानः केषां चिद्यथा संसारिणां केषां चिदतीतो यथा मुक्तानां शुकप्रह्लादादीनाम् । तदनेनेश्वरेण बुद्धिमता सतावश्यं भाव्यं शरीरिणेति देश्यार्थः । नात्मान्तरं शरीर्यन्तरमित्यर्थः । कुतो गुणभेदात् । नित्याश्चेदस्य बुद्ध्यादयः कृतं शरीरग्रहणेन तदुत्पादार्थेनेति भावः । नन्विदमेव बुद्धिमत्कारणाधिष्ठिताः परमाणवः प्रवर्त्तन्त इति । पक्षधर्मताबलात्तर्कसहायान्नित्यबुद्धिमत्त्वमस्य सिद्ध्यतीत्यर्थः । प्रत्यर्थनियमासंभवादित्यादिना तर्कः प्रमाणसहायो दर्शितः । एवं तावद्गुणभेदेनाशरीरित्वमीश्वरस्य दर्शितं न चैतस्य शरीरयोगो विकल्पमपि सहतैत्याह । अथ बुद्धिमत्तयेति । ( ४६५।४ ) अतीतानागतवर्त्तमानविषया प्रत्यक्षेति । साक्षात्कारवतीत्यर्थः । न पुनरक्षमाश्रिता नित्यत्वात् । उपलक्षणं चैतत् । नानुमानिकी चेति । नैन्द्रियकी नौपमानिकीत्यपि द्रष्टव्यम् । अक्लिष्टेति । ( ४६६।४ ) क्लेशोऽविद्या तददूषितेत्यर्थः । मूर्त्तिमद्द्रव्यसम्बन्धित्वादिति । संयोगित्वादित्यर्थः । तथा च न रूपादिभिर्व्याभिचारः । तथा च न रूपादिभिर्व्यभिचारः । एतावदभिप्रेतमाचार्यस्य त्रयो हि खलु भावा जगति भवन्ति प्रसिद्धचेतनकर्तृकाः यथा प्रासादाट्टालगोपुरतोरणादयः । प्रसिद्धतद्विपर्ययाः । यथा परमाण्वाकाशादयः । सन्दिग्धचेतनकर्त्तृका यथा तनुगिरिमहीधरादयः । तत्र प्रमेयत्वाद्वादिविप्रतिपत्तेर्वा साधकबाधकप्रमाणाभावेचेतनकर्त्तृत्वे संशयः । न च प्रत्यक्षानुपलब्धिमात्रमत्र बाधकं भवितुमर्हति । स्वभावविप्रकर्षिणां सतामपि प्रत्यक्षानुपलब्धेः परमाण्वादीनाम् । तथा च विवादाध्यासितास्तनुतरुमहीधरादय उपादानाभिज्ञकर्तृका उत्पत्तिमत्वात् अचेतनोपादानत्वाद्वा युदुत्पत्तिमदचेतनोपादानकं वा तत्सर्वमुपादानाभिज्ञपूर्वकं यथा प्रासादादि, तथा च विवादाध्यासितास्तनुतरुमहीधरादयस्तस्मात्तथेति । न चैषामुत्पत्तिमत्त्वमसिद्धम् । सावयवत्वेन वा महत्त्वे सति क्रियावत्त्वेन वा वस्त्रादिवत्तत्सिद्धेः । न चैतावता वैनाशिकानां कर्मणा चेतनेन मीमांसकानां क्षेत्रज्ञेन चेतनेन चेतनकर्त्तृत्वसिद्धेः पृथिव्यादीनां सिद्धसाधनं चैतन्येऽपि तेषामुपादानानभिज्ञत्वात् । तज्ज्ञत्वे वा स एवास्माकमीश्वरः ईदृशमस्तु सिद्धसाधनं को हे क्लेशं विना न वाञ्छितसिद्धिमिच्छेत् । न च साध्यहीनो दृष्टान्तः । पटादीनामप्युपादानाभिज्ञकुविन्दादिकर्त्तृकत्वात् । अत एव न विरुद्धता हेतोः, एवं हि सा भवेत्, यद्युपादानाभिज्ञर्त्तृकाः पटादयो भवेयुः न चैतत्परेषामपि सम्मतम् । स्यादेतद् अर्थाक्षिप्तस्य विशेषस्य शरीरादिमत्त्वादेः प्रमाणविरोधाद्विरुद्धता । यथा तृणादिविकारकारित्वादग्निमद्धिममित्यत्र वह्निमत्वाक्षिप्ततृणादिविकारोपयुक्तवह्निगतोद्भूतोष्णस्पर्शविरुद्धशीतस्पर्शस्य प्रतयक्षेणोपलम्भाद्बाधितो विरुद्धो हेतुः । तथा ह्यस्य क्षित्याद्युपादानादिविषयं ज्ञानमात्ममनःसन्निकर्षशरीरादिकारणकं नासति तस्मिन् भवतीति तदनेनाक्षिप्तं, तच्चात्र प्रमाणबाधितं, तन्निवृत्तौ च ज्ञानमस्य निर्वत्तेत उष्णत्वोद्भूतिनिवृत्ताविव दाहको वह्निरवश्याय इति । न । अव्यापकनिवृत्तावव्याप्यनिवृत्तोरयोगात् । कारणं चेदव्यापकं कार्यस्य हन्त हता तर्हि व्याप्यव्यापकसंकथा । भवेदेतद्यदि क्षित्याद्युपादानज्ञानमप्यस्य कार्यं स्यान्नित्यं तु तदभ्युपेयत इति न शरीरादिनिवृत्तावपि निवर्त्तितुमर्हति । अव्यापकनिवृत्तेरव्याप्यस्यानिवृत्तेरिति । अन्यथा नाश्ववान् मैत्र इति गोमानपि न स्यात् । न च बुद्ध्यादीनामनित्यानां बहुलमुपलब्धेर्नित्या बुद्धिरसम्भाविनीति सांप्रतम् । न हि प्रत्यक्षाः पाथसीया हिमकरकादयस्तद्गता रूपादयोऽनित्या इति तदारम्भकैः परमाणुभिस्तद्गतैर्वा रूपादिभिस्तथा भवितव्यम् । सदकारणतया तु नित्यतोभयत्रापि तुल्या । न च शरीरादिसहभावेन ज्ञानस्य तत्र तत्रोपलम्भाच्छरीरादीनां ज्ञानं व्याप्यमिति युक्तम् । स्वाभाविकसम्बन्धशालिता हि व्याप्यता सा चोपाधिविरहे भवति, अस्ति च शरीरादिसहभावे ज्ञानस्योपाधिः कार्यत्वम् । कार्यं ज्ञानं स्वकारणं शरीरादिनातिवर्त्तते नित्यं तु तदतिवर्त्तमानमपि साहित्योपलम्भं न विरुणद्धि, तस्माद्यथाऽनित्यः शब्दः उत्पत्तिमत्वात् घटवदिति प्रयुक्ते कश्चित्साध्यदृष्टान्तयोर्धर्मवैचित्र्यात्प्रत्यवतिष्ठेत, यदि घटसाधर्म्यादुत्पत्तिमत्त्वादनित्यः शब्दः हन्त तस्मादेव रूपादिमता तेन भाव्यम्, न चेदयं घटसाधर्म्येण रूपादिमान् एवमनित्योऽपि माभूदित्येवं च प्रत्यवतिष्ठमान उत्कर्षसमजातिवादी पराजीयते एवमेवेवाद्युत्कर्षसमजातिवादितया पराजेतव्यः साधर्म्यमात्रेणाप्रयोजकेन प्रत्यवस्थानात् । तस्य च सर्वानुमानेषु सुलभतया सर्वानुमानोच्छेदापादकत्वात् । स्यादेतत् । उत्पत्तिमत्त्वमुपादानाद्यभिज्ञकर्तृपूर्वकत्वमात्रव्याप्तं घटादिषु दृष्टं तावन्मात्रमेव पृथिव्यादीनां गमयेद् नित्यसर्वविषयज्ञानवत्कर्तृत्वं तु कुतस्त्यम् । न हि तद्दृष्टान्तधर्मिणि दृष्टम् । अथ रूपाद्युपलब्धेः क्रियात्वेन चक्षुराद्यनुमानपि कथं, न हि च्छिदादयः क्रिया इन्द्रियादिसाधनाः तासां कुठारादिसाधनत्वात् । अथ दृष्टान्तधर्मिण्यदृष्टमपीन्द्रियसाधनत्वं पक्षधर्मताबलात्सिध्यति । रूपाद्युपलब्धिगतं हि क्रियात्वं तदेव करणं गमयेद् यदुपलब्धिनिर्वर्तनसमर्थं, न च कुठारादयः समर्था इति पक्षधर्मताबलात्कुठारादिविलक्षणमदृष्टचरमपि चक्षुराद्युपस्थापयतीति ? तदितरत्रापि समानम् । न ह्ययरिभेयानियतदिग्देशैन्द्रियकानैन्द्रियकत्रसस्थावरादिलक्षणकार्योत्पादयौगपद्यमसत् इ सर्वविषयज्ञाने तन्नित्यत्वेवा सूद्धुमर्हति, नो खल्वीदृशं परमेश्वरविज्ञानं कार्यशरीरादिकार्यं सम्भवति शरीराद्युत्पत्तेः प्रागस्याचैतन्येन तत्प्राक्कालकार्यान्तरोत्पादायेश्वरान्तरकल्पनाप्रसङ्गात् । एवं तत्प्राक्तत्प्रागित्यनेकालौकिककल्पनया वरं बुद्धिनित्यत्वं कल्पितम् । एतेन शरीरेन्द्रियनित्यत्वकल्पनाऽपि प्रत्युक्ता । एतेन यदेके ब्रुवते

सन्निवेशादिमत्सर्वं बुद्धिमद्धेतु यद्यपि । प्रसिध्येत्सन्निवेशादेरेककारणता कुतः ।

इति । तदपि परिहृतम् । तेषां प्रसिध्येत्सर्वज्ञनिराक्रियामनोरथो यदि पिशितचक्षुषः परमाणून् क्षेत्रज्ञान् तत्समवेतान्वा कर्माशयान् द्रष्टुमीशते, न चैतदस्ति । तस्मादतीन्द्रियार्थदर्शिनोऽस्मदादिबिलक्षणा बहवः कल्पनीयाः तद्वरमेक एव तादृशः कल्पनालाघवायेति । न च कादाचित्कपरिपाकादृष्टवत् क्षेत्रज्ञपरमाणुसंयोगादेव तनुभुवनादिकार्योपपत्तेः कृतं चेतनकर्तृकत्वेनेति वाच्यम् । उत्पत्तिमत्त्वस्योपादानाद्यभिज्ञकर्तृकत्वेनोपाधिविरह्विणः स्वाभाविकप्रतिबन्धसिद्धेः । न चाविज्ञातानामिन्द्रियमनसां ज्ञानोत्पादसाधनानामनधिष्ठानस्य च वत्सवृद्धिनिमित्तस्याप्येचतनस्य क्षीरस्य स्वातन्त्र्येण प्रकृतेः, वने विटपादीनां च विना प्रयत्नमुत्पादस्य दर्शनाद्व्यभिचार इति सांप्रतम् । सर्वेषामेव तेषां विवादास्पदीभूतत्वेन पक्षनिक्षेपात् । न च शशशृङ्गास्तितावदनुपलब्धिविरोधादपक्षधर्मत । धर्मिणो दर्शनानर्ह्वतया भगवतस्तद्विरोधानुपपत्तेः । अन्यथा सर्वानुमानोच्छेदप्रसङ्गात् शृङ्गस्य तु शशाशिरोवर्तिनो वत्सादिगतस्येव दर्शनार्हस्यानुपलब्धिनिराकृतस्य साधनानर्हत्वात् । स्यादेतत् । नोत्पत्तिमात्रं स्वभावप्रतिबद्धं बुद्धिमद्धेतुत्वेन, किं तु तद्विशेषः, यद्दृष्टेरक्रियादर्शिनोऽपि कृतबुद्धिरुत्पद्यते तस्य च दृष्टेः सोपजायते । यद् बुद्धिमद्भावानुविधायिभावाभावं दृष्टं घटादि च तथा न तृत्पत्तिमन्मात्रं तनुभुवनाद्यपि तस्य सद्भावासद्भावानुविधानादर्शनात् । तदेतेन विशेषेणोपाधिना प्रयुक्तां बुद्धिमद्धेतुकत्वव्याप्तिमुपजीवदुत्पत्तिसामान्यं न तेन स्वभावप्रतिबद्धमिति न तद्गमयितुमर्हतीति, अन्यथा धूमप्रयुक्तां धूमध्वजव्याप्तिमुपजीव्य पाण्डुतादेः कुमुदकपोतकादिगतादपि धूमकेतुनानुमानप्रसङ्गादिति । अत्रोच्यते । इदमेव निपुणतरं भवन्तो निरूपयन्तु किं बुद्धिमदन्वयव्यतिरेकानुविधानं विशेष आहो तद्दर्शनम् । यदि पूर्वपक्षः स बुद्धिमद्धेतुकत्वं तनुभुवनादीनामातिष्ठमानैरभ्युपेयत एव । न हि कारणं कार्याननुविहितभावाभावमन्यो वक्तुमर्हत्यस्वीकात् । अथ दर्शनं नतर्ह्यक्रियादर्शिनः कृतबुद्धिसंभवः । य एव हि पटोऽनेन बुद्धिमद्धेत्वेन्वयव्यतिरेकानुविधायी दृष्टः स एव तत्कार्यो न तु विपणिवर्ती । तज्जातीयस्य तदन्वयव्यतिरेकानुविधानदर्शनाददृष्टान्वयव्यतिरेकानुविनधानमपि तज्जातीयं तथेति चेत् । हन्तोत्पत्तिमद् घटादि बुद्धिमदन्वयव्यतिरेकानुविधायीत्यन्यदपि तज्जातीयं तनुभुवनादि तथा भवद्दण्डेन न पराणुद्यते । घटजातीयमुत्पत्तिमद् बुद्धिमत्पूर्वमिति चेत् । ननु प्रासादादि न तद्धेतुकं भवेत् । अघटजातीयत्वात् । अथ यज्जातीयं बुद्धिमदन्वयव्यतिरेकानुविधायि दृष्टं तज्जातीयमेवादृष्टान्वयव्यतिरेकमपि बुद्धिमद्धेतुकम् । तत्कि मिदार्नीं कार्यजातीयं प्रासादादि बुद्धिमद्धेतुकं न दृष्टं येनोत्पत्तिमत्तनुभुवनादि तथा न स्यात् । न खलु तज्जातीयत्वे कश्चिद्विशेष इति । यत्तु मृद्विकारत्वेन वल्मीकस्य घटादिवत्कुलालकार्यत्वं न भवति तत्कुम्भकारस्य प्रत्यक्षानुपलम्भविरोधात् । अदृश्यचेतनपूर्वकत्वे तु तस्योपेयत एव । स्यादेतत् । नोत्पत्तिमात्रमुपादानाभिज्ञकर्तृकत्वेन व्याप्तम् । अपि तु यदस्मदादिशक्यज्ञानोपादानादि, न च तथा तनुभुवनाद्युत्पत्तिमदपि, तस्माद् व्याप्तिविरहान्न तत्पूर्वकमिति । तदयुक्तम् । उत्पत्तिमत्त्वतदुपादानाद्यभिज्ञकर्तृकत्त्वयोः प्रथममन्वयव्यतिरेकाभ्यां व्याप्तौ सिद्धायां तदुपादानादिशक्यज्ञानत्वकल्पनायाः कार्यज्ञानविषये व्यवस्थापनात् । व्याप्तिबलेन ज्ञानसामान्यसिद्धौपक्षधर्मताबलेन तन्नित्यत्वसिद्धिरित्युक्तम् । तेनोपाधेरनुस्त्रियमाणस्यानुपलब्धेः स्वभावप्रतिबद्धमुत्पत्तिमत्त्वं बुद्धिमद्धेतुकत्त्वेन । न चस्वभावप्रतिबद्धमुत्पत्तिमत्वं स्वसंबन्धिनमतीत्यापि वर्त्स्यतीति शक्यं शङ्कितुम् । तथा सति स्वभावहानिप्रसङ्गः । स्यादेतत् । न सर्वज्ञपूर्वकाः क्षित्यादयः प्रमेयत्वसत्वादिभ्यः घटादिवदित्यनुमानानि सन्ति प्रतिपक्षसाधनानीति सत्प्रतिपक्षतया प्रकृतमनुमानाभासम् । अत्रोच्यते । किमनेन सर्वज्ञपूर्वकत्वं निषिध्यते उत ज्ञातृमात्रपूर्वकत्वं सर्वग्रहणमुपलक्षणार्थम् । यदि पूर्वःपक्षः तदैकदेशदर्शिपूर्वकत्वं साधितं स्यात् । तथा चापसिद्धान्तः, न च शक्यमपि, न ह्यस्मदादिनाऽर्वाग्दर्शिनाशक्याः पृथिव्यादयः कर्तुं, ज्ञातृमात्रपूर्वकत्वे तु निषेध्ये घटादिभिर्व्यभिचारः । यच्चेश्वरो नाधिष्ठाता परमाण्वादीनामशरीरित्वाद् मुक्तात्मवत् ऐश्वरं ज्ञानं न सर्वविषयम् अनित्यं च ज्ञानत्वात् अस्मदादिज्ञानवदित्यनुमानं तत्पक्षधर्मतासिद्ध्यर्थमीश्वरसिद्धिं तद्बुद्धिमत्त्वं चापेक्षमाणं तत्साधकप्रमाणविरुद्धमात्मानमेव तावन्नासादयितुमर्हति प्रागेव तद्विरोद्धुम् । न ह्यागमानुमाने जगत्कर्तृत्वनित्यसर्वविषयबुद्धिमत्त्वव्यतिरेकेण केवलमश्विरं साधयतः तथा च ताभ्यां विरुद्धं भवदनुमानं नोत्पतुमर्हतीति सिद्धम् । बुद्धिवदिच्छाप्रयत्नावपि तस्य नित्यौ सकर्तृकत्वसाधनान्तर्गतौ वेदितव्यौ ज्ञानचिकीर्षाप्रयत्नसमवायलक्षणत्वात् कर्तृत्वस्य, तेषां च परस्पराविनाभावादन्यतरसिद्धावितरयोः सिद्धेः । तदेवमुत्पत्तिमत्वादेव पक्षधर्मतासहायादेवम्भूतेश्वरसिद्धिरित्युक्तम् । भवतु वा तस्मादुपादानाद्यभिज्ञकर्तृकत्वमात्रसिद्धिः परिशेषानुमानात्तु व्यतिरेकसिद्धेर्विशेषसिद्धिः । तथा हि तनुभुवनाद्यभिज्ञः कर्त्ता नानित्यासर्वविषयबुद्धिमान् तत्कर्तुस्तदुपादानाद्यनभिज्ञत्वप्रसङ्गात् । न ह्येवंविधस्तदुपादानाद्यभिज्ञो दृष्टः यथास्मदादिः तदुपादानाद्यभिज्ञश्चायं तस्मात्तथेति । नोखलु परमाणुभेदान् प्रतिक्षेत्रज्ञसमवायिनश्च तस्मात्तथेति । नोखलु परमाणुभेदान् प्रतिक्षेत्रज्ञसमवायिनश्च कर्माशयानन्यः शक्तो ज्ञातुमृते तादृशादीश्वरादिति प्रपञ्चितमधस्तात् । परपुरुषसमवेतावपि धर्माधर्मावधिष्टातुं शक्नोति सम्बन्धाद् न हि साक्षात्संयोगसमवायावेव सम्बन्धौ संयुक्तसंयोगिसमवायस्यापि तद्भावात् । संयुक्ताः खल्वीश्वेरण परमाण्वादयः तैश्च क्षेत्रज्ञाः तत्समवेतौ धर्माधर्माविति संयुक्तसमवायोव वा क्षेत्रज्ञेनेश्वरस्य संयोगात् अजसंयोगस्याप्युपपादितत्वात् । धर्माधर्मौ परमाणून्वा स्वधर्मोपग्रहमन्तरेणापि चेश्वरः स्वकार्याभिमुखान् करिष्यति विषविद्याविदिव विषशकलं क्रियारम्भाभिमुखम् । एतेन चेतनोपादानत्त्मपि व्याख्यातम् । वार्तिककृता तूपलक्षणतया चेततत्वं हेतुरुक्तः । उत्पत्तिमत्वादयोऽपि हेतव ऊहनीयाः इमं च न्यायमाम्नाय उपोद्बलयति ।ऽएतस्य वाक्षरस्य प्रशासने गांर्गि द्यावापृथिवी विधृते तिष्ठतःऽऽद्यावापृथिवी जनयन् देव एकःऽऽतदैक्षत बहु स्यां प्रजायेयेऽत्यादिः । स्मृतिश्च भवति ।

अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः ।
ईश्वरप्रेरितो गच्छेत्स्वर्गं वा श्वभ्रमेव वाऽ अकारणत्वेन चेश्वरज्ञाननित्यतां दर्शयति श्रुतिःऽअपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः स वेत्ति विश्वं न हि तस्य वेत्ता तमाहुरग्र्यं पुरुषं पुराणऽ मित्यादिका ।
एतयैवाशरीरित्वं दर्शितं भवति ।
परिशिष्टं तु वार्त्तिककृता स्वयमेव प्रपञ्चितमित्युपरम्यते ॥ २१ ॥

न्या.सू._४,१.२२: अनिमित्ततो भावोत्पत्तिः कण्टकतैक्ष्ण्यादिदर्शनात् ॥

कण्टकादीनां संस्थानविशेषवतां निमित्तादर्शनेनानिमित्तत्तां मन्वानस्येनैव दृष्टान्तेन शरीरादीनामपि संस्थानभेदवतामनिमित्ततां मन्वानः पूर्वपक्षयति ।

अनिमित्तत इति ।
अदृश्यमाननिमित्तानां शरीरकण्टकाकादीनां पक्षनिक्षेपात् पक्षेण व्यभिचारानुद्भावनात् ।
उद्भावने वा सर्वानुमानोच्छदप्रसङ्गात् सर्वत्र तस्य सुलभत्वात् ।
उभयसिद्धेन निमित्ततत्पटादिदृष्टान्तेन संस्थान भेदवत्त्वात्कण्टकशरीरादीनामपि निमित्तवत्त्वमिति सिद्धान्तः ॥ २२ ॥

न्या.सू._४,१.२३: अनिमित्तनिमित्तत्वाद् नानिमित्ततः ॥

सिद्धान्त्येकदेशिमतमुद्भाव्य दूषयति । अपरे त्विति ( ४६८।९ ) ॥ २३ ॥

न्या.सू._४,१.२४: निमित्तानिमित्तयोरर्थान्तरभावादप्रतिषेधः ॥

स्वयं वार्तिककारः कण्टकादीनामनिमित्ततां विकल्प्य दूषयति । कण्टकादीनामनिमित्तं जन्मेति । प्रतिपाद्यप्रतिपादकन्यायस्येति । ( ४६९।२ ) प्रतिपाद्यः पुरुषः कर्म, प्रतिपादकश्च पुरुषः कर्ता, कर्तृकर्मणी च कारके, कारकं च क्रियाया निमित्तमिति प्रतिपाद्यप्रतिपादकविषयो न्यायः स चायमनिमित्तं शरीरादीनां जन्मेति प्रतिजानानेनानेनाभ्युपेयते । अन्यथा तेमूकतैव स्यादिति । तदिदमुक्तं सर्वं चामिमित्तं प्रतिपादयसि चेति व्याहतम् । न केवलं प्रतिपाद्यप्रतिपादकन्यायाभ्युपगमादितोऽपीत्याह । वाक्योपादानाच्चेति । प्रतिपादननिमित्तं वाक्यमुपादत्से अभिधत्सेचानिमित्तं सर्वमिति व्याघात इत्यर्थः । तथाऽप्यन्यतरधर्मासिद्ध इति । अन्यतरेण साध्यधर्मेणानिमित्तत्वाख्येनासिद्धोऽनिमित्तत्वस्यैवासिद्धेः ।

ननु प्रतिवादिनो वाङ्न्यात्रेण न सिद्धमसिद्धं भवत्यतिप्रसङ्गादित्यत आह ।
संस्थानविशेषवत्त्वस्य भावात् ।
पटादिदृषन्तेन कण्टकादीनां सनिमित्तकत्वस्य प्रामाणिकत्वेन वाङ्न्यात्रादसिद्धेरिति ।
कस्मात्पुनः पूर्व पक्षः स्वयं सूत्रकारेण न निराकृत इत्यत आह भाष्कारः स खल्वयं वादोऽकर्मनिमितित्त इति ॥ २४ ॥

न्या.सू._४,१.२५: सर्वमनित्यम् उत्पत्तिविनाशधर्मकत्वात् ॥

अन्ये तु मन्यन्ते । सर्वमनित्यमुत्पत्तिविनाशधर्मकत्वादिति । हेतोर्गकत्वं दर्शयितुं पृच्छति । किमनित्यमिति । उतरं यस्य कदा चिद्भावः । हेत्वर्थं विवृणोति उत्पत्तीति । यद् उत्पत्तिधर्मकर्मनुत्पन्नं नास्ति तद् उत्पन्नं चास्ति विनाशधर्मकं च विनष्टं नास्ति अविनष्टं चास्ति तस्मात्पूर्वापरयोः कालयोरभावान्मध्ये च भावात्सिद्धं कदाचिद्भावलक्षणमनित्यत्वमुत्पत्तिविनाशधर्मकत्वादित्यर्थः । साध्यधर्मिरूपं पृच्छति, किं पुनरिति । उत्तरं भौतिकं चेति । अत्र तावत्स्वयं वार्तिककार उत्तरमाह । सर्वमनित्यमिति सूत्रस्य दृष्टान्तार्थत्वादिति । ( ४७०।१ ) अर्थशब्दो निमित्तवचनः दृष्टान्तनिमित्तत्वात् सूत्रस्य प्रतिज्ञाहेतूपन्यासपरस्य ।

न दृष्टान्तं विना हेतुः प्रतिज्ञातार्थस्य गमको यत इत्यर्थः ।
एतदेव विभजते सर्वमनित्यमिति ।
निराकरणान्तरमाह उत्पत्तिविनाशधर्मकत्वादितिचायमिति ॥ २५ ॥

न्या.सू._४,१.२६: नानित्यतानित्यत्वात् ॥

सिद्धान्त्येकदेशिमतमुपन्यस्य दूषयति ।
नानित्यतानित्यत्वादिति ॥ २७२८ ॥

न्या.सू._४,१.२७: तदनित्यत्वम् अग्नेर्दाह्यं विनाश्यानुविनाशवत् ॥

न्या.सू._४,१.२८: नित्यस्याप्रत्याख्यानं यथोपलब्धि व्यवस्थानात् ॥

परमसिद्धान्तं सूत्रोक्तमाह । अयं खल्विति । अथोच्चते न वयं सर्वमनित्यं साधयामोऽपि तु यस्पय यस्यानित्यता नामास्ति धर्मस्तत्सर्वमनित्यमिति । ततश्चाकाशादीनां नित्यत्वेऽपि नास्मत्पक्षक्षतिरिति तदेतत्सिद्धसाधनेन दूषयति । अनित्यताभावाच्च सर्वमनित्यमिति न दोष इति । ( ४७१।५ ) यस्य सन् धर्मीस्वं तद्योगादनित्यः स्यात्स एव कदाचिन्नास्तीत्यत आह । अनित्यत्वं नाम धर्मः सोऽसति धर्मिणि न भवतीति ।

स्यादेतद् उत्पत्तिविनाशधर्मकत्वावगतावनित्यतायोगाद् घटादि भवत्वनित्यं तेनैव दृष्टान्तेन सत्त्वादाकाशादयोऽपि भविष्यन्त्यनित्या इति देशयति ।
अथ पुनरिति परिहरति ।
तस्याप्युत्तरपदसिद्धौ तत्पदार्थस्य नित्यत्वस्य सिद्धेरिति ॥ २८ ॥

न्या.सू._४,१.२९: सर्वं नित्यं पञ्चभूतनित्यत्वात् ॥

अयमपर एकान्तः सर्वं नित्यं कस्मात्पञ्चभूतनित्यत्वात् ।
पञ्चभूतात्मकं खल्वेतद् गोघटादिकार्यमुपलभ्यते व्यपदिशन्ति हि मृद् घटो सृच्छरीरमिति ।
भूतानि च नित्यानि तेषामुच्छेदस्य नैयायिकैरनभ्युपगमात् ।
तेन भूतानां गोघटादीनां नित्यतेति पूर्वः पक्षः ॥ २९ ॥

न्या.सू._४,१.३०: नोत्पत्तिविनाशकारणोपलब्धेः ॥

भूतेभ्यो भौतिकानि भिन्नानि न हि परमसूक्ष्माः परमाणवो गोघटादयः ।

परमाणुवत्तेषामतीन्द्रियत्वे सर्वाग्रहप्रसङ्गादित्युक्तं द्वितीयेऽध्याये ।
तस्माद्ग्रहणाग्रहणविरुद्धधर्माध्यातयोगादन्वे भौतिका भूतेभ्यः ।
तथा च तेषामुत्पत्तिविनाशकारणोपलब्धेर्न नित्यत्वं भूनित्यत्वेऽपीति सिद्धान्तमाह ।
नोत्पत्तिविनाशकारणोपलब्धेरिति ॥ ३० ॥

न्या.सू._४,१.३१: तल्लक्षणावरोधादप्रतिषेधः ॥

भूतसारूप्येण तादात्म्यं मन्यमानः पुनरपि पूर्वपक्षवाद्याह ।
तल्लक्षणावरोधाद्गोघटादीनां भूतनित्यत्वेन नित्यत्वाप्रतिषेधः ॥ ३१ ॥

न्या.सू._४,१.३२: नोत्पत्तितत्कारणोपलब्धेः ॥

भूतसाम्यं गोघटादीनां भूतकार्यत्वेऽप्युपपद्यमानं न भूतात्मकत्वमवगमयतीत्याशयवानाह । नोत्पत्तितत्कारणोपलब्धेरिति । (३२) अपि च यद्युत्पत्तिविनाशौ न भावानां वस्तुसन्तौ कथ प्रेक्षावतामभिमतोत्वपत्तिकारणेऽनभिमतविनाशकारणे च तदर्थिनां प्रवृत्तिरित्याह । उत्पत्तिविनाशकारणेति । अपि चाव्यापको हेतुरित्याह शब्दकर्मबुद्ध्यादीनां चाव्याप्तिः । अव्यापकश्चानैकान्त उक्तः । पक्षो हि सर्वं नित्यमिति । ( ४७१। ० ) तस्मिन्सत्वासत्त्वाभ्यामनेकान्तः नैकः सत्त्वासत्त्वलक्षणोऽन्तोऽस्येत्यनेकान्त इति । तदेतद्वार्त्तिककारो वक्ष्यत्यर्थदृष्ट्या पक्षस्यान्तद्वयेऽवस्थानादिति । हेतोरन्तद्वये सत्त्वासत्त्वरूपे पक्षस्यावस्थानादिति योजना । असति बाधके मिथ्यात्वकल्पनायामतिप्रसङ्ग इत्यमुमर्थं शङ्कानिराकरणाभ्यामाह स्वप्नविषयेत्यादि । भाष्योक्तमर्थमुक्त्वा स्वयं वार्तिककार आह । सर्वस्य चेति । यावद्येन प्रतिपाद्यत इति । प्रतिपादनेन क्रियत इत्यर्थः । शेषमतिरोहितार्थम् ।

न्या.सू._४,१.३३: न व्यवस्थानुपपत्तेः ॥

तदेवं सांख्यानां मतमपास्य स्वायम्भुवानां मतमपाकर्तुमुपन्यस्यति । अपरे सर्वं नित्यमित्यन्था वर्णयन्ति । त्रिविधः खल्वयं धर्मिणः परिणामोधर्मलक्षणावस्थारूपः तद्यथासुवर्णं धर्मि तस्य परिणामो वर्धमानरुचकादिः धर्मस्य तु लक्षणपरिणामोऽनागतादि । यदा खल्वयं सुवर्णकारो वर्धमानकं भङ्क्त्वा रुचकं रचयति तदा वर्धमानको वर्त्तमानलक्षणं हित्त्वातीतलक्षणमापद्येते रुचकं त्वनागतलक्षणं हित्वा वर्त्तमानतामापद्यते वत्तमानतापन्न एव तु रुचको नवपुराणभावमापद्यमानोऽवस्थापरिणामवान् भवति । नवपुराणावस्थाश्च वर्त्तमानलक्षणाश्रया लक्षणपरिणामाः सोऽयं त्रिविधः परिणामो धर्मिणः धर्मलक्षणावस्थाश्च धर्मिणो भिन्नाश्चाभिन्नाश्च । तथा च ते धर्म्यभेदान्नित्याः भेदाच्चोत्पत्तिविनाशविषत्वमित्युभयमुपपन्नम् । ननु यद्युपजनापायधर्मकत्वं धर्मिणां हन्तोत्पत्तेः प्राक्तेषा मसत्वाद्विनाशाच्चोर्द्धमसत्वात्कथं सर्वनित्यत्वसिद्धिरित्यत आह यच्चोपजायते तत्प्रागप्युपजनादस्ति । धर्मिरूपेणेति शेषः ।

तन्निवृत्तमप्यस्तीति ।
अत्रापिप धर्मिरूपेणेति शेषः ।
निराकरोति ।
न व्यवस्थानुपपत्तेः (सू. ३३) ॥

उपजनापाययोः स्वरूपतः कालतो विशेषतः सम्बन्धितोऽनागतत्वादिव्यवस्थानुपपत्तिरित्यर्थः । एतदुक्तं भवति न तावद्भेदाभेदो परस्परपरीहारव्यवस्थितधर्मावेकत्र समाविशतः । तस्मादुपजनापायव्यवस्थायै भेदं धर्मलक्षणावस्थानां धर्मिण इच्छता तेषामतित्यत्वमभ्युपेतव्यं, सांख्यवत्सकार्याभ्युपगमेन तु नित्यत्वव्यवस्थापने वार्त्तिककार आह ।

यच्च निवर्त्तते तन्निवृत्तमप्यस्तीति ब्रुवाण इति ।
सुगमम् ॥ ३३ ॥

न्या.सू._४,१.३४: सर्वं पृथग् भावलक्षणपृथक्त्वात् ॥

अयमप्यन्य एकान्तो बौद्धानां सर्वं पृथक् कस्माद् भावलक्षणपृथक्त्वात् ।
न रूपाद्यतिरिक्तं द्रव्यं नाम किं चिदस्ति नाप्यवयवातिरिक्तः कश्चिदस्त्यवयवीति सौत्रान्तिका वैभाषिकाश्च प्रपतिपेदिरे ॥ ३४ ॥

न्या.सू._४,१.३५: नानेकलक्षणैरेकभावनिष्पत्तेः ॥

तान्निराकरोति ।
नानेकलक्षणैरेकभावनिष्पत्तेः (सू. ३५) ॥

अनेकविधैर्लक्षणैः सम्बद्धस्यैकस्य भावस्य घटादेरवयविनो निष्पत्तेरिति ॥ ३५ ॥

न्या.सू._४,१.३६: अथापि लक्षणव्यवस्थानादेवाप्रतिषेधः ॥

अथापीति । अपि चेत्यर्थः । अणुसमूहे चागृह्यमाण इति । परमसूक्ष्मत्वेनातीन्द्रियत्वादित्यर्थः । अथाप्येतदनूक्तमिति । अपि च भावलक्षणपृथत्कादिति हेतुमुत्का बोद्धेन पश्चादेतदुक्तं, किं तदुक्तमित्यत आह । नास्त्यको भावो यस्मात्समुदाय इति । एतदनूक्तं दूषयति । एकानुपपत्तेर्नास्त्येव समूहः । अनूक्तं विवृणोति । नास्त्येको भावो यस्मात् समूहे भावशब्दप्रयोगः । अस्य दूषणं विवृणोति । एकस्यानुपपत्तेरिति । एततप्रपञ्चयति एकसमुच्चयो हीति । नास्त्येको भाव इति यस्य भावस्यैकत्वप्रतिषेधः प्रतिज्ञायते समूहे भावशब्दप्रयोग इति ब्रुवता स एवाभ्यनुज्ञायते । ननु समूहोऽभ्यनुज्ञायते न त्वेको भाव इत्यत आह । एकसमुच्चयो हि समूह इति । तदेनन प्रतिज्ञाया हेतोर्व्याघात उक्तः । संप्रति प्रतिज्ञाया हेतुना व्याघात इत्याह समूहे भावशब्दप्रयोगादिति चेति । वार्त्तिकम् । अस्य प्रयोग इति । ( ४७५।९ ) कुम्भशब्दोऽनेकविषय इति पारमार्थिकानेकविषयः काल्पनिकं तु कुम्भस्यैकत्वं न वार्यते तथा चैकपदमित्येकपदेन व्यभिचारः तस्यापि पारमार्थिकानेकविषयत्वादित्यर्थः । स्यादेतद् घटादिशब्देभ्यो रूपादीनां बुध्नादीनां च बहूनामवगमात् कथमेकार्थतेत्यत आह । आधाराधेयभावेति । यदि नानार्थताऽपि भवति घटादिशब्दानां तथाऽपि प्रत्येकमेकत्वं तदर्थानामशक्यापह्नवमिति न पूर्वपक्षिणोऽभिमतसिद्धिरिति । उपेत्य तूच्चते अनेकार्थत्वमप्यत्र न सम्भवतीति । समूहे भेदस्य चानवस्थादिति । ( ४७६। १९) यदि समूहमात्रमेव न त्वेकं किं चिदस्ति तथा सति घटलक्षणे समूहे भेद्यमाने नाल्पतरतमादिभेदः प्रतीयेत घटादिकपालशर्कराचूर्णपरमाणूनां समूहत्वेनानन्तावयवत्वादयं महानयमल्पोऽल्पतर इति विभागो न स्यात् । तस्मादनेन तारतम्यं समर्थयमानेन क्व चित् समूहनिवृत्तिर्वाच्यान चासावसमूहमेक मन्तरेणेत्येकोऽभ्युपेयतैत्यर्थः । उक्तमर्थमविद्वान् शङ्कते । अथ मन्यस इति । (४७७।५) रूपादीनां समुदाय इति चत्वारि वाद्रव्याणीति चावान्तरदर्शनभेदविवक्षया द्रष्टव्यम् । उक्तार्थदर्शनेनोत्तरम् । एतस्मिन् वै दर्शन इति१ अथानन्तं समुदायं प्रतिपद्यस इति निराकृतस्यापि पुनराशङ्का आगमविरोधमापायितुम् । एकानुपपत्तौ नानेकोपपत्तिरिति । यत्तदनेकमुक्तमेतत् त्याज्यमिति । शेषं भाष्यव्याख्यया व्याख्यातम् ॥ ३६ ॥

न्या.सू._४,१.३७: सर्वमभावो भावेष्वितरेतराभावसिद्धेः ॥

सम्प्रति शून्यतावादिनमुत्थापयति । अयमपर एकान्तः । (४७८।१) सर्वमभाव इति प्रतिज्ञा । अत्र हेतुर्भावेष्वितरेतराभावसिद्धेरिति । सर्वमिदं प्रमाणप्रमेयप्रमितिरूपमभावस्तुच्छम् । भावेष्वितरेतराभावसिद्धेरिति । वार्त्तिककारो व्याचष्टे असत्प्रत्ययभावप्रतिषेधाभ्यां भावशब्दसामानाधिकरण्यात् । प्रमाणादयः खल्वमी परस्परानात्मकतया असदिति प्रत्ययस्य नञश्च गोचरा इत्यनुभूयन्ते अतस्तद्वाचिनां शब्दानां तत्सामानाधिकरण्यं ततः प्रमाणादयोऽसन्तः अनुत्पन्नप्रध्वस्तपटवत् । अपि चामी भावा नित्या अनित्या वा नित्यत्वे सर्वसामर्थ्यरहितस्यासत्त्वम् । न हि नित्यं क्व चित्कार्यौपयुज्यते क्रमाक्रमानुपपत्तेरित्युक्तम् । अनित्यत्वे तु विनाशस्वभावाश्चेद् द्वितीयादिक्षणैव प्रथमक्षणेऽपि न स्युः । सत्त्वे वानामी विनाशस्वभावाः अतत्स्वभावत्त्वे वा क्षणान्तरेऽपि न विनश्येयुः । नो खलु नीलं स्वकारणादुपजातं जातु कारणसहस्रैरपि शक्यं पीतं कर्त्तुमिति विनाशस्वभावकत्वमकामेनापि अनित्यानामेषितत्यम् । तस्माद्भावानां शून्यतैव पारमार्थिकी कल्पनया त्ववस्तुसत्या सन्तैवावभासन्त इति युक्तमुत्पश्यामः । तथा च सर्वे भावा इति । सर्वे भावशब्दा इत्यर्थः । प्रयोगश्च सर्वेभावशब्दा असद्विषयाः असत्प्रत्ययप्रतिषेधाभ्यां सामानाधिकरण्यात् । अनुत्पन्नप्रध्वस्तपटशब्दवत् । अत्र तावदुत्सूत्रं भाष्योक्तं दूषण वार्त्तिककार आह । प्रतिज्ञापदयोः प्रतिज्ञाहेत्वोश्च व्याघात इति । अभिन्नविभक्तिकत्वमभिन्नार्थकविभक्तिकत्वं न त्वभिन्नविभक्तिकत्वमेव, भिन्नविभक्तिकानामपि सामानाधिकरण्यात् । यथा चैत्रः पठतीति । यथा च न त्वां तृणाय मन्य इति । नामति तत्प्रत्ययेन भवितुमिति ।

न ह्यत्यन्तासन्निरूपाख्यं सर्वमिति वा भाव इति वाऽभिधानस्पय गोचरः उपपादितं हि द्वितीयसूत्र एव यथाऽसद्वाऽनिर्वचनीयं वा न ख्यातिगोचरोऽपि तु सदेव सदन्तरात्मना, तथा च कुतोऽत्यन्तासतः कल्पनागोचरत्वमपीति ।
शेषं भाष्य इति ।
प्रतिज्ञाहेतोर्व्याघातो भाष्ये प्रपञ्चित इति ॥ ३७ ॥

न्या.सू._४,१.३८: न स्वभावसिद्धेर्भावानाम् ॥

उत्सूत्रमुत्का भाष्यकारः सौत्रं दूषणं वक्तुमाह ।
सूत्रेण चाभिसम्बन्धो दूषणस्य ।
न स्वभावसिद्धेर्भावानाम् (सू. ३८) ॥

सर्वमभाव इति नास्ति । कस्मात्स्वभावसिद्धेर्भावानां स्वभावो धर्मो द्रव्यादीनां सदादिः । अथ वा स्वभावः स्वरूपं भावानां येनामी भावाः स्वभावाद्व्यावर्त्तन्ते । यद्वा असन्निति प्रत्ययस्य गव्यश्वात्मनेति विशेषणात् । अगौरित्यस्य गां परिहृत्याश्वादिभिः संबन्धाद्गोभावसिद्धेरेवमश्वादिष्वपीति स्वभावसिद्धेर्भावानां नाभाव इत्यर्थः । न स्वभावसिद्धेरिति सूत्रमनूद्य वार्त्तिकारः स्वरूपमात्रेण व्याख्यायं प्रश्नपूर्वकं तात्पर्यमस्य दर्शयति । पूर्वसूत्रस्येति । ( ४७९।५ ) कश्चस्वभावैत्यादिना सिद्धो भाव इत्यन्तेन सूत्रस्य व्याख्यानत्रयं भाष्यकारीयं वार्त्तिककारो दर्शयति । सामान्यो धर्मः समानो नित्यत्वादिरित्यर्थः । प्रश्नपूर्वकमसत्प्रत्ययप्रतिषेधसामानाधिकरण्यं भावस्योपपादयति । कथं तर्हीति । ( ४८०।२ ) असच्छब्दः खल्व भावविशेषणं सदेवाभिधत्ते शुक्लगुणविशिष्टे पटे वर्त्तते तथा चासत्प्रत्ययाभिधानयोरुपपन्नं भाववाचिना पदेवन सामानाधिकरण्यमित्यर्थः । भावश्च कश्चिन्नित्यः कश्चिदनित्यः तत्र नित्यस्यार्थक्रियाकारित्वमुपपादितं क्षणभङ्गभङ्ग एव । अनित्योऽपि न विनाशस्वभावो भावः किं तु स्वकारणादयं सत्स्वभावो जातः कारणान्तरात्तु विनश्यति । यतूक्तं नीलं शक्यं न पीतं कर्त्तुमिति । तत्र ब्रूमः शक्य एव नीलः पटः पीतः कर्त्तुम् आमश्यामो घटो वह्निसंयोगाद्रक्तः । अथ नीलत्वं न पीतत्वं शक्यं कर्तुं ननु भावोऽपि नाभावः कर्त्तुं शक्य इति । यथैव कुम्भाधिकरणे श्यामरक्तत्वे पर्यायेण भवतः एवं कपालाधिकरणौ कुम्भभावाभावावित्यदोषः ॥ ३८ ॥

न्या.सू._४,१.३९: न स्वभावसिद्धिर् आपेक्षिकत्वात् ॥

स्वभावसिद्धेरिति यदुक्तं तदाक्षिपति शून्यवादी ।
न स्वभावसिद्धिरापेक्षिकत्वात् (सू. ३९) ॥

सर्व एवं हि भावा भिन्नस्वभावा भिन्नत्वं च तेषामन्यापेक्षम् ।
तथा हि नीलं भिन्नं पीताद्यपेक्षया न तु स्वभावतः एवं ह्रस्वत्वदीर्घत्वपरत्त्वापरत्वपितापुत्रत्वादयः परस्परापेक्षा द्रष्टव्याः ।
यच्च परापक्षं तन्न स्वाभाविकं यथा जपाकुसुमापेक्षं स्फटिकस्य रक्तत्वमित्याक्षेपार्थः ॥ ३९ ॥

न्या.सू._४,१.४०: व्याहतत्वादयुक्तम् ॥

समाधत्ते ।
व्याहतत्वादयुक्तम् (सू. ४०) ॥

तद्व्याचष्टे यदीति । ननु यद्यनेन क्रमेणोभयाभावो भवति भवतु सिद्धमेव नः समीहितमित्यत आह । अपेक्षायामनपेक्षायां चेति । परिमाणभेदो हि दीर्घत्वं ह्रस्वत्वं च स च भावानामौत्पत्तिकः केवलं तस्यातिशयानतिशयौ परस्परग्रहणाधीनौ । तथा हीक्षुयष्टेर्वेणुयष्टितो ह्रस्वत्वं पूर्वसंख्यायोगिहस्तपरिमितत्वमनतिशयः वेणुयष्टेर्दीर्घत्वमतिशयः परसंख्यायोगिहस्तपरिमितत्वं तच्चेदं प्रतियोगिनिरूपणाधीननिरूपणम्, न तु प्रतियोग्यधीनोत्पत्तीति, न वस्तुधर्मोऽयं परापरापेक्षः । भिन्नत्वं च भेदः स च वस्तुविशेषणं नोत्पत्तौ वस्त्वन्तरमपेक्षते किं तु स्वनिरूपणे । एवं पितृत्वमपि व्यवस्थिता जनकशक्तिरेव सा जन्यनिरूपणाधीननिरूपणा न तु तदधीनोत्पत्तिः । विपञ्चितं चैतदस्माभिर्ब्रह्मतत्त्वपरीक्षायाम् । परत्वापरत्वादयस्त्वपेक्षाबुद्धिनिमित्ततया परापेक्षोत्पत्तिका अपि लोकयात्रां वहन्तो न शक्याः प्रत्याख्यातुम् । न चैतावता तदधिकरणं भावो न निरपेक्ष इति सर्वमवदातम् । स्यादेतत् अपेक्षामात्रमेव दीर्घत्वादयो भविष्यन्ति कृतमेषां वस्तुस्वभावेनेत्यत आह । स्वभावसिद्धौ चासत्यामिति । (४८१।१) अपेक्षा सामर्थ्यमपेक्षाप्रयोजनयोगः ।

स्वयंवार्तिककारो दूषणान्याह सर्वथा चायं व्याहत इति ।
निगदव्याख्यातम् ॥ ४० ॥

न्या.सू._४,१.४१: संख्यैकान्तासिद्धिः कारणानुपपत्त्युपपत्तिभ्याम् ॥

उत्तरसूत्रावतारपरं भाष्यम् । अथैते संख्यैकान्तवादाः संख्या एकान्तो येषु वादेषु ते तथोक्ताः । अथ शून्यतावादानन्तरं ते परीक्ष्यन्तैत्यर्थः । तत्र प्रथमं ब्रह्माद्वैतमुत्थापयति । सर्वमेकं कुतः सदविशेषात् । इदमस्याकूतम् । न तावदयं नामरूपप्रपञ्चः प्रकाशाद्भिन्नः सन् प्रकाशितुमर्हति । जडस्य स्वयंप्रकाशासंभवात् । न च प्रकाशयोनगात्प्रकाशत इति युक्तम् । न खल्वान्तरेण प्रकाशेनास्य कश्चिद्योगः संभवति । विषयविषयिभावः सम्बन्ध इति चेन्न । तत्राकिञ्चित्करस्य विषयित्वासम्भवात् । न चार्थे ज्ञानं फपवलं जनयतीति सांप्रतम् । अतीतानागतयोरर्थयोस्तदसंभवात् । न च न तयोर्विषयभावः । तस्मात् ज्ञानाद्भिन्नस्य नामरूपप्रपञ्चस्य न प्रकाशसम्भव इति ज्ञानस्यैवायं विवर्त्त इति युक्तमुत्पश्यामः । न च प्रकाशात्मनो घटादय एवोदयव्ययधर्मिणः परस्परव्यावृत्ताः सन्त्विति सांप्रतम् । तद्व्यावृत्तिग्रहे प्रमाणाभावात् । सा हि यद्यतो वयावर्तते तदुभयग्रहे गृह्यते न च विज्ञानानि विलक्षणानि स्वरूपमात्रावस्थितानि परस्परवार्त्तानभिज्ञानि ज्ञानान्तरमपि ग्रहीतुमुत्सहन्ते प्रागेव स्वस्माद्व्यावर्तयितुम् । न च निषेध्यनिषेधाधिकरणग्रहणकारणको व्यावृत्तिग्रहः स्वकारणेन समसमयोत्पादो भवितुमर्हति । तादृशोः सव्येतरविषाणवत्कार्यकारणभावाभावात् । न चैकं विज्ञानं क्षणिकं निषेध्यनिषेधाधिकरणे गृहीत्वा पश्चान्निषेधं गृह्णातीति युक्तम् । क्षणिकस्याक्रमस्य क्रमवद्व्यापारायोगात् । न चैकं विज्ञानं निषेध्यनिषेधाधिकरणे गृह्णाति अथ ज्ञानान्तरं निषेधतीति युक्तम् । चैत्रगृहीतेऽपि तस्मिन्यैत्रस्य निषेधज्ञानप्रसङ्गात् । न च ज्ञानस्वरूपग्रह एवास्य निषेध ग्रह इति सांप्रतम् । एवं हि स भवेद्यदि स्वरूपतदन्यव्याववृत्त्योरेकत्वं भवेत् । तत्र व्यावृत्तिस्वभावो वा भावो भावस्वभाव वा व्यावृत्तिः । तत्र पूर्वस्मिन्कल्पे व्यावृत्तेस्तुच्छत्वात्तत्स्वभावा भवाभेदास्तुच्छाः स्युः । ततश्च वचोभङ्न्यन्तरेण शून्यबादप्रसङ्गः । उत्तरस्मिंस्तु कल्पे विधिरूपो भाव एव व्यावृत्तिरिति विधिरूपतया च ते व्यावर्त्तन्त इति न व्यावृत्ता भावाः परस्परं परमार्थतः तदिदमुक्तं सदविशेषादिति । (४८२।१) अनाद्यनिर्वचनीयाविद्यानिबन्धनं तु भावानां भेदं न व्यासेधामः । न च ज्ञातुरपि ज्ञानाद्भेदग्राहकमस्ति प्रमाणमुक्तादेव विशेषात् । तस्मान्न ज्ञेयानां परस्परतश्च ज्ञानाच्च भेदः । नापि ज्ञातुर्ज्ञानादसित भेदः नापि ज्ञानानामन्योन्यस्य, तस्मात्प्रकाश एव स्वयं प्रकाशः कूटस्थनित्य आनदघनोऽनाद्यविद्योपदर्शितविविधविचित्रनामरूपप्रपञ्चो ब्रह्मेत्यद्वैतसिद्धिः । अत एव श्रुतयो भवन्ति ।ऽएकमेवाद्वितीयं ब्रह्म नेह नानास्ति किञ्च न । मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यतिऽ इत्येवमादिकाः । तदेवमैकान्तिकमेकत्वमुपन्यस्य द्वित्वमैकान्तिकमाह सर्वं द्वेधा कुतः नित्यानित्यभेदात् । न हि नित्यानित्याभ्यामन्यो राशिरस्ति यमाश्रित्य पदार्थास्त्रित्वादिके व्यावतिष्ठेरन्निति । मतान्तरमाह सर्वं त्रेधा । तदेव दर्शयति । ज्ञाता ज्ञेयं ज्ञानमिति । ज्ञप्तिरपि ज्ञायमानत्वाज् ज्ञेयान्नातिरिच्यत इति भावः । मतान्तरमाह । सर्वा चतुर्धा । दर्शयति । प्रमाता प्रमाणं प्रमेयं प्रमितिरिति । यदि प्रमितिर्नाम तत्त्वं प्रमाणादिभ्यो भिन्नं नाश्रीयते प्रमायाः प्रधानक्रियाया अभावात्कथं प्रमात्रादयः । कथं च प्रधाक्रियामन्तरेणैकवाक्यता स्यात् कारकवैचिश्यं वा । प्रमायाः फलत्वावस्थाया उपरि प्रमेयव्यपदेशं न वारयामः । न चैतावता तत्त्वान्तरं न भवति ।

इति ।
एवं यथासम्भवमन्येऽपीति ।
प्रकृतिपुरुषाविति वा पञ्चस्कन्धा इति वा पशुपाशतदुच्छेदेश्वरा इति वेत्यादयः ।
तत्र परीक्षां संख्यैकान्ततानिराकरणरूपान्तां दर्शयति सूत्रेण ॥

संख्यैकान्तासिद्धिः कारणानुपपत्त्युपपत्तिभ्याम् (सू. ४१) ॥

अनवयवेन सर्वं चेदेकं द्वेधा त्रेधा चतुर्धा चेति प्रतिज्ञार्थः ? तदतिरिक्तं साधनं वाच्यम् । न हि साध्यमेव साधनं भवति । तथा च साधनस्य तदतिरेकान्न सेख्यैकान्तसिद्धिः, न च किं चिदपि स्वसंवेदनमस्ति, ज्ञानप्रदीपादीनामपि परसंवेद्यत्वात् । यथा च ज्ञानातिरिक्तोऽप्यर्थो विषयस्तथा विज्ञानवादनिरासावसरे वक्ष्यते । न च विज्ञानादर्थस्य भेदोऽशक्यग्रहः । तथा हि नीलमुपलभ इत्यनुहङ्कारास्पदमश्वेतादिरूपं नीलं प्रतयात्ममनुभवगोचरः एवं नीलादीनामपि परस्परम् । अन्यथा घटमानयेति देशितो नयने निमील्य शयीत, शयीथा इति देशिते तोयमाहरेत् । कस्य चित् कुतश्चित्कथं चिद्विवेचकाभावात् । न चानिर्वचनीयानाद्यविद्यानिबन्धनोऽयं भेदव्यवहार इति सांप्रतम् । अनिर्वचनीयख्यातेः पूर्वमेव निराकृतत्वात् । तस्मात्सर्वजनसंवेदनसिद्धोऽयं भेदप्रत्ययो न कारणमुखनिरीक्षणेन युक्तो निराकर्तुम् । अपि तु स्पष्टदृष्टात्कार्याद्भेदप्रत्ययलक्षणात्तादृशं तत्कारणं कल्पनीयं यादृशेन तत्कारणेन प्रपञ्चप्रत्ययोऽप्रत्यूहमुत्पद्येत । तच्च प्रत्यक्षमेव । तथा हि तन्नीलं परिच्छिन्दत्पीतादिभ्योऽस्य भेदं परिच्छिनत्ति संयुक्तविशेषणतालक्षणादिन्द्रियार्थसन्निकर्षात् । नीलं हि नीलमित्यनुभवन् पीतादिकं च पीतादिकमित्यनुभवन्स्मरन्वा शक्नोति निषेध्यनिषेधाधिकरणतया समाकलयितुं रूपमात्रेणागृहीतपरस्पभेदमपि । न हि तन्न भेदेन प्रथतैत्यभेदेन प्रथेत।न येनानयोर्नीलपीतयोर्गृहीतस्वरूपयोरवध्यवधिमद्भावो न स्यात् । तथा च तौ गृहीत्वा प्रत्यक्षेण शक्योऽनयोर्भेदो ग्रहीतुमित्यसांप्रतमेतत् ।ऽअन्योन्यसंश्रयाद्भेदो न प्रमान्तरसाधनः । तस्मिन्निदं नायमयमिति भेदं विना नधीःऽ । एतेन प्रमातुरपि प्रमाया भेदो व्याख्यातः । प्रमातारश्चानेकविधसुखदुःखोपभोगव्यवस्थानाद्बधिरान्धकाणादिकोविदजाल्मसंसारिमुक्तविभागोपपत्तेश्च भेदवन्तोऽनुमीयन्ते । एकस्मिन्नपर्यायेण विरुद्धधर्मसंसर्गासंभवात् । कल्पनया कथञ्चित्संभाव्यमानोऽप्ययं गोमयपायसीयन्यामावहति । तदेवं प्रत्यक्षविरोधादनुपपन्नार्थाः श्रुतयऽएकमेवाद्वितीयऽ मित्याद्याः प्रथमां वृत्तिमुल्लङ्घ्य जधस्यामवलम्बन्तेऽयजमानः प्रस्तरऽऽआदित्यो वै यूपऽ इत्यादिवदिति । यदाह भगवान् जैमिनिःऽगुणवादस्त्वितिऽऽतत्सिद्धिरितिऽ चेति, तस्मान्नाद्वैतमिति ।

न्या.सू._४,१.४२: न कारणावयवभावात् ॥

साध्यात्साधनस्य भेदेन च संख्यान्तरैकान्ता अप्यपहृतार्था इत्युक्तम् ॥ ४१ ॥न्या. सू. ॥ ४ ॥ १ ॥ ४२ ॥ अत्र पूर्वपक्षवाद्याह न कारणावयवभावात् (सू. ४२) ॥

तद्व्याचष्टे कारणस्य साध्यावयवभावात् ।
एकस्य द्वयादीनां वा कश्चिदेकदेशः साधनं तथा च न संख्यान्तरं न च साधनभाव इत्यर्थः ॥ ४२ ॥

न्या.सू._४,१.४३: निरवयवत्वादहेतुः ॥

निराकरोति ।
निरवयवत्वादहेतुः (सू. ४३) ॥

अवयवभावादिति यदि साध्यस्य कश्चिदवयवो भवेन्न संख्यैकान्तः स्यादिति सर्वमेकमित्येतस्मिन्प्रतिज्ञार्थे न किं चिदपवृज्यते व्यावर्त्तते यतस्तत्साधनं स्यादित्यर्थः । अथ कस्मान्न साध्यमेव हेतुरित्यत आह । आत्मनि चेति । (४०२।२०) चो हेतौ । अपि चैते संख्यैकान्ताः प्रत्यक्षादिप्रमाणविरोधान्मिथ्यावादा इत्याह । ते खल्विमे संख्यैकान्ता इति । खलुशब्दः समुच्चये । प्रक्रकोटरपाण्यादिविशेषकारितो योर्ऽथभेदः स्थाणुपुरुषादिः तत्प्रत्याख्यानेनेत्यर्थः । अथ विशेषकारितार्थभेदाभ्यनुज्ञानेन वर्तन्ते तथाऽप्येकान्तत्वं जहति एकत्वादिसंख्याया अनैकान्तिकत्वमित्यर्थः । अथ सामान्यकारित इति (४८३।५) संख्यामात्रमङ्गीक्रियते न पुनरस्नया ऐकान्तिकत्वमित्यर्थः । तदस्माकमभिमतमेवेत्याह तथाऽपि न किं चिद्बाध्यत इति । येऽप्याहुः सत्तासामान्यमेव तत्त्वं भेदास्तु काल्पनिका इति तान् प्रत्याह । न च भेदमन्तरेणेति । यदाहुः ।ऽनिर्विशेषं न सामान्यं भवेच्छशविषाणवऽ दिति । स्यादेतत् प्रेत्यभावपरीक्षायां क एषामवसरो यदेते एकान्तवादाः परीक्ष्यन्त इत्यत आह । ते इति । अद्वैतादिष्वेकान्तेषु प्रेत्यभावो न तात्त्विको भवेदपि तु काल्पनिकः न केवलं प्रेत्यभावोऽपि तु षोडशापि पदार्थाः ।

तस्मादेतेषां यत्तत्त्वज्ञानं तस्य प्रविवेकार्थं ज्ञेयप्रविवेकेन ज्ञानप्रविवेक इति तदर्थमेते परीक्षिता इति ।
तदनेन प्रबन्धेन प्रेत्यभावः परीक्षितः ॥ ४३ ॥

न्या.सू._४,१.४४: सद्यः कालान्तरे च फलनिष्पत्तेः संशयः ॥

अथोद्देशक्रमानुरोधात्फलमिदानीं परीक्ष्यते । तत्राग्निहोत्रादीनां फलमनन्तरभावि कालान्तरभावि वेति संशयः । एतदुक्तं भवति । कर्मानन्तरं दुःखं च लोकपङ्क्त्यादि चोपलभ्यते प्रशंसन्ति हि लौकिका धार्मिकोऽयं साधुतम इति, तत्किमेतावदेवास्य फलमस्तु अथामुष्मिकं स्वर्गादीति । किं प्राप्तं स्वर्गादिफलत्वे कर्मणः स्वरूपेणाकारणत्वाच्चिरनिवृत्ते तस्मिंस्तदुत्पत्तेः अपूर्वकल्पनायां च प्रधानाङ्गापूर्वाणि भूयांसि कल्पनीयानि न च तान्युत्पन्नमात्राणि जनयन्ति फलमिति तत्सहकार्यन्तराणि कल्पनीयानीत्यदृष्टकल्पनागौरवात् तदनन्तरदृष्टफलाबाधनाच्च, नास्याऽभुष्मिकं फलं स्वर्गादि, अपि त्वनन्तरदृश्यमानमेव । तत्रापि दुःखफलत्वे उपदेशव्याघाताल् लोकपङ्क्तिलाभख्यात्यादिकमेव फलं तच्च सुखहेतुतया कथं चित्स्वर्गादिपदेनोच्यते । दृष्टो हि सुखहेतौ स्वर्गपदप्रयोगो लोके यथा चन्दनं स्वर्गः सूक्ष्माणिवासांसि स्वर्ग इति प्राप्तम् । एवं प्राप्ते ब्रूमः । स्वर्ग पदस्य तावदर्थवादतोऽयन्न दुःखेन संभिन्नं न च ग्रस्तमनन्तरम् । अभिलाषोपनीतं च तत्सुखं स्वःपदास्पदऽमिति सुखं प्रति वाचकत्वमवधारितम् । न च तद्वाचकत्वेनैव चन्दनादौ तत्प्रयोगोपपत्तावनेकार्थत्वकल्पनाप युक्ता । यदाहुरन्यायश्चानेकार्थत्वमिति । तस्मान्मुख्योऽयं स्वर्गशब्द उक्तभेदे सुखे । तथा च स्वर्गकाम इत्यत्र मुख्यार्थसंभवे नोपचरितार्थता युक्ता । न चानेकादृष्टकल्पनाभयान्मुख्यार्थपरित्यागो न्याय्यः प्रमाणसिद्धे नियोगपर्यनुयोगानुपपत्तेः । यथाऽहुः ।ऽश्रुतिसिद्ध्यर्थमश्रुतोपलब्धौ यत्नवता भवितव्यं न तु श्रुतशैथिल्यमादरणीयऽमिति । तथाऽप्रमाणवन्त्यदृष्टानि कल्प्यानि सुबहून्यपिऽ । न चानन्तरदृश्यमानं लोकपङ्क्त्यादि होमाद्यनुष्ठानफलमपि तु तदुपलम्भफलम् । अदाम्भिकानां प्रच्छन्नमनुतिष्ठतामपि लोकपङ्क्यादेरभावात् । तस्मात्सुष्ठूक्तं न सद्यः कालान्तरोपभोग्यत्वादिति भाष्यम् । तथा प्रवृत्त्या संस्कारो धर्माधर्मलक्षणो जन्यत इति । नैष पुरुषसंस्कारः स्नानादिजन्य इव बोद्धव्योऽपि तु पुरुषधर्मतामात्रेण संस्कार इत्युच्यते परमार्थतस्त्वयं धर्मः पुरुषाश्रयोऽपि कर्मणा फले जनयितव्ये तस्यावान्तरव्यापार इति । वार्तिकं सद्यस्तापादिफलेतञ् (४८४।१) अतिद्गुणसंविज्ञानोऽयं बहुव्रीहिस्तापादीति । तेन लोकपङ्क्त्यादिकमुच्यते ॥ ४४ ॥

न्या.सू._४,१.४५: न सद्यः कालान्तरोपभोग्यत्वात् ॥

न्या.सू._४,१.४६: कालान्तरेणानिष्पत्तिर् हेतुविनाशात् ॥

न्या.सू._४,१.४७: प्राङ् निष्पत्तेर्वृक्षफलवत् तत् स्यात् ॥

स्वर्गः फलं श्रूयते इत्ययुक्तम्, स्वर्गकाम इति स्वर्गस्य पुरुषविशेषणत्वेन श्रवणादसाध्यत्वादत आह । देशितया च क्रियया नानर्थिकया श्रवितव्यम् । आप्तोपदेशः खल्वयमुपदेश्यस्य कर्मणोऽभिमतोपायतामाह तत्र कर्मणोऽभिमतापेक्षायां पुरुषविशेषणस्याप्यपेक्षितत्वात्साध्यत्वमिति सिद्धम् । एवं हि लोकपङ्क्त्यादिरग्निहोत्राद्यनुष्ठानसाध्या भवेद् यदि तत्कामस्य स्वर्गकामस्येवाग्निहोत्राद्यनुष्ठानं देश्येत, न चैतदस्तीत्याह न च तापादिकाम इति । लोकपङ्क्त्यादिकाम इत्यर्थः । शेषमतिरोहितार्थम् ॥ ४५ ॥ ४६ ॥ ४७ ॥

न्या.सू._४,१.४८: नासन् न सन् न सदसत् सदसतोर्वैधर्म्यात् ॥

इदमिदानीं चिन्त्यते किमेतत्फलमुत्पत्तेः प्रायसद्वा सद्वा सदसद्वाऽनभयं वेति । अत्र समस्तपक्षाक्षेपेण फलाभावमभिधित्सुः पूर्वपक्षयति । तदिदं फलं निष्पत्तेः प्राक् । नासन्न सन्न सदसत् । सदसत् कस्मान्न भवतीत्यत आह । सदसतोर्वैर्ध्म्यात् । परस्परविरुद्धधर्मत्वाद् धर्मः स्वभावः विरोधादित्यर्थः । अथानुभयं कस्मान्न भवतीत्यत

आह ।
नाप्युभयविपरीतमिति ।
सिद्धान्त्याह ।
प्रागुत्पत्तेरुत्पत्तिधर्मकमसदित्यद्धा ॥ ४८ ॥

न्या.सू._४,१.४९: प्रागुत्पत्तेरुत्पत्तिधर्मकम् असद् इत्य् अद्धा, कस्माद् उत्पादव्ययदर्शनात् ॥

ननु नासदुतपद्यते न सन्निरुद्ध्यतैत्याचक्षते सांख्याः तत्कथमेतदित्यत आह ।
उत्पादव्ययदर्शनात् (सू. ४९) ॥

यथा नित्यस्वरूपायाश्चितिशक्तेर्नोत्पादो न च व्यय एवं फलस्यापि नित्यस्य तौ न स्यातामित्यर्थः । न हि सत्पक्ष इति । (४८६।१) सत्कार्यपक्षैत्यर्थः । न किं चिज्जायत इति । न प्रतिज्ञावाक्यात्किञ्चित्तत्त्वज्ञानं सम्भवति । किं चिच्च संदेहादि न विनश्यतीति ।

अज्ञानतिरो भावः संशयविपर्ययतिरोभावः ।
कारणस्य हि प्रधानस्य लक्षणं महान् लक्ष्यते हि महता प्रधानमिति ।
एवं तस्याप्यहङ्कारस्तस्य पुष्टिः स्थूलतेत्यर्थः ।
पश्चाद्भवतीति केवलकारणावस्थायाः पश्चादिति ॥ ४९ ॥

न्या.सू._४,१.५०: बुद्धिसिद्धं तु तद् असत् ॥

यच्चोक्तमुपादाननियमादिति । तत्र यदि पुरुषस्योपादाननियमः पटार्थी तन्तूनेवोपादत्ते न वीरणं, कटार्थी वीरणमिति, ततस्तदुपादानानां तत्र तत्र कार्ये सामर्थ्यपरिज्ञानात् तच्च सामर्थ्यमानुमानिकं तदिदमुच्यते । सू. बुद्धिसिद्धं तु तदसदिति ॥ ५० ॥ तदसद्भावि कार्यमनेनैव कारणेन जन्यते नान्येनेत्यनुमानाद् बुद्धिसिद्धमेवेत्यर्थः । अथासत्कार्यपक्षे तन्तव एव पटस्योपादानं न वीरणादीत्ययं नियमो न स्यादिति ब्रूषे तदयुक्तम्, असत्त्वाविशेषेऽपि स्वकारणादुत्पन्नं किं चिदेव चित्कार्यं जनयितुं समर्थं नान्यदित्ययं स्वभावविशेषादुपपद्यत इति । अपि च सत्कार्यपक्षे प्रधानोपादानत्वाद्विश्वस्य तस्य चाभेदापवत्कारणात्मकत्वाच्च कार्यजातस्य सर्वं सर्वात्मकमितीदमिहनेदमिदमिदानीं नेदमिदमेवंनेदमिति नियमो न स्यात् कस्य चित्कुतश्चिद्विवेकहेतोरभावात् । तस्मादस्ति रासभेऽपि विषाण मिति तत्र तस्यासत्त्वं ब्रुवाणः स्वसिद्धान्तं बाधतैत्याह । असत्त्वाच्च खरविषाणं नोत्पद्यत इति ब्रुवाण इति । सत्त्वे चासत्त्वे च समाने यस्य कारणमस्ति तदुत्पद्यत इति गुडजिह्विका । परमार्थतस्त्वसत्त्वे कारणसामर्थ्यनियमादुत्पत्तिनियमः कल्पते, सर्वात्मना सर्वस्य सत्त्ववे तु न नियमहेतुरस्तीत्युक्तप्रापयम् । देशयति अथासत्कार्ये किं प्रमाणं ? न ह्यनुमानमस्मिन्नर्थे प्रमाणं भवितुमर्हति आश्रयासिद्धेः । नापि प्रत्यक्षं तेनाप्यसतः स्वातन्त्र्येणानिरूपणादिति भावः । विदिताभिप्राय उत्तरमाह नासत्त्ववे न सत्त्ववेऽनुमानमस्ति । यथाऽस्माकमाश्रयासिद्धिदोषादसत्त्वे कार्यस्य नानुमानम् । एवं भावेऽपि कार्यस्य सत्त्वे नानुमानमाश्रयासिद्धेरेव । क्व तर्ह्यनुमानमित्यत आह धर्मिण्यविप्रतिपत्तेरनुमानमस्तीति योजना । तथा सत्याश्रयोऽस्यसिद्ध्यतीत्यर्थः । पुनः पृच्छति क्वेति । यदि धर्मिण्यविप्रतिपत्तिः क्व तर्हि विवादः । उत्तरं यदुभयेति । धर्म्यधिकरणान् सत्कार्यवादिनामेव वादान्विभजते तान्प्रतीति । तन्तुमात्रं पट इति । तन्तुभ्योऽभिन्न इत्यर्थः । कार्यात्मनेति । कार्यं कारणाद्भिन्नाभिन्नमित्यर्थः । असत्कार्यपक्षस्तु स्वाभिमतः स्फुटत्वादवान्तरप्रतिबन्द्यभावाच्च नोपन्यस्तः । उपपादित इति द्वितीयाध्याये । प्रागुपलब्धिकालादिति । कारणव्यापारात् प्रागित्यर्थः । संस्थानविशेषशून्यतामात्रविवक्षया तुर्यादिदृष्टान्तो न तु प्रागभावो विवक्षितः । शक्तिविशेषावस्थिता इति कारणव्यापारात् प्रागिति शेषः । अत्र सिद्धसाधनं वयमपि ब्रमहे स्वव्यापारात्पटोत्पत्तिनिमित्तात्प्राक् तन्तवः शक्तिविशेषावच्छिन्ना ऐवेति । परेषां सत्कार्यसाधनमुपन्यस्यति । विद्यमानांभिव्यक्त्यर्थास्तन्तवस्तदर्थिना नियमेनोपादानात् खनित्रादिवत् । (४८९।१) यथा हि खनित्रं विद्यमानमेवोदकं मृदपनयनेन व्यनक्तीति । तदेतद् दूषयति । विद्यमानस्याभिव्यक्तिरसतीति अभिव्यक्तिवत्कार्येऽपि प्रसङ्गः । यथाव्यक्तेरसत्या एवोत्पादस्तथा कार्यस्याप्यसत पत्रोत्पाद इत्यर्थः । खनित्रादिवदिति दृष्टान्तः साध्यविकल इत्याह यदपीति । साऽप्राप्तिः कुतो भवतीति वक्तव्यमिति । प्राप्तिः खलु संयोगः स च गुणः गुणश्च द्रव्यविनाशाद्विनश्येद् विरोधिगुणान्तराद्वा । तत्र तावदावरणद्रव्यमाव्रियमाणं वोदकं न विनष्टं येन तयोः संयोगो विनश्येत् ततस्तद्विरोधिगुणान्तरोत्पादो वक्तव्यः स एव च संयोगविरोधी गुणो विभाग इत्युच्यतैत्यर्थः । प्राप्तेरभावोऽप्राप्तिरिति पक्षं दूषयित्वा पर्युदासपक्षमाशङ्क्य दूषयति अथ प्राप्तेरिति । पुनः शङ्कते अथभिन्नदेशोत्पत्तिमिति । न च वयं संयोगं विभागं वा गुणमुपेमः । किं तु भिन्नदेशोत्पन्न एव द्रव्ये विभागो निरन्तरोत्पन्न एव संयोग इत्यर्थः । निराकरोति श्रिन्नदेश इति । विशेषणोपादानान्न भिन्नदेशोत्पत्तिर्विभागः कस्माद् उत्पन्ने उत्पन्नमिति भिन्नदेशतया भिन्नमिति विशेषणं हि स्वानुरिक्तं प्रत्ययं विशेष्ये जनयति, न त्वन्यानुरक्तम् । न खलु नीलं विशेषणमुत्पले रक्तप्रत्ययं जनयत्वभ्रान्तस्येत्यर्थः । अपि च क्षणभङ्गं भावानां व्यासेधद्भिरस्माभिर्भिन्नदेशोत्पत्तेः प्रतिषेधान्न भिन्नदेशोत्पत्तिर्विमागः । शङ्कते क्षणिकत्वाद्विभागस्येति । उत्पद्य हीन्द्रियसन्निकर्षाद्विभागेन स्वविषयं ज्ञानं जनयितव्यम् । न चैतावन्तं कालमसावस्ति क्षणिकत्वेनोत्पन्नापवर्गित्वादित्यर्थः । निराकरोति नसामान्याभिव्यक्तीति । (४९०।१) एतद्विभजते । पूर्वं तावदुत्पन्नो विभागः सामान्यं व्यनक्तीति । स्वकारणसमवायः सत्तासमवायो वा उत्पत्तिः ।

तद्विशिष्ट उत्पन्न इत्युच्यते ।
येषां सामान्यग्रहपुरः सरं विशेषज्ञानं तन्मते न सामान्यं व्यनक्ति तदुत्तरकालं च स्वप्रत्ययं जनयतीत्युक्तम् ।
एतदुक्तं भवति न वयं बौद्धा इव पूर्वापरकालमात्रावस्थितिलक्षणां क्षणिकतां विभागादीनामाचक्ष्महे किं त्वाशुतरविनाशलक्षणां सा च द्वित्रादिक्षणस्थायिनां चिरस्थायिभ्योव घटादिभ्यो व्यावृत्तात्मा शक्यावक्तुमिति ॥ ५० ॥

न्या.सू._४,१.५१: आश्रयव्यतिरेकाद् वृक्षफलोत्पत्तिवदित्यहेतुः ॥

देहाद्यतिरिक्तमात्मानं नित्यं परलोकिनमसन्तं मन्यमान आह ।
आश्रयव्यतिरेकाद्वृक्षफलोत्पत्तिवदित्यहेतुः (सू. ५१) ॥

मूलसेकफलोत्पादयोरेकवृक्षाश्रयत्वम् । कर्मणस्तु होमादेराश्रयः शरीरम् । न चामुष्मिकस्य स्वर्गादेः शरीरमाश्रयः तस्मिन्नष्टेऽस्य भावात् । तस्मादाश्रयव्यतिरेकात्स्वर्गादेर्वृक्षफलोत्पत्तिवदित्ययं दृष्टान्तः स्वर्गफलत्वे होमस्याहेतुरित्यर्थः ॥ ५१ ॥

न्या.सू._४,१.५२: प्रीतेरात्माश्रयत्वादप्रतिषेधः ॥

अस्त्यात्मा स्वगौपभोगसमर्थः शरीरादिव्यतिरिक्तः कर्त्तेत्युषपादितमित्याशयवानाह । प्रीतेरात्माश्रयत्वादप्रतिषेधः (सू. ५२)

न्या.सू._४,१.५३: न पुत्रपशुस्त्रीपरिच्छदहिरण्यान्नादिफलनिर्देशात् ॥

अस्तु स्वर्गाद्यात्माश्रयं तथाऽप्यव्यापको हेतुः पुत्रादिफलेभ्यो निवृत्तेरिति देशयति ।
न पुत्रपशुस्त्रीपरिच्छदहिरण्यान्नादिफलनिर्द्देशात् (सू. ५३) ॥

न्या.सू._४,१.५४: तत्संबन्धात् फलनिष्पत्तेस्तेषु फलवदुपचारः ॥

परिहरति ।
तत्सम्बन्धात्फलनिष्पत्तेस्तेषु फलवदुपचारः (सू. ५४) ॥

स्वर्गोऽपि तावत्स्वर्गतया न काम्यते किं तु भोग्यतया ।

एवं सति कैव कथा पुत्रादिषु ।
तेऽपि भोग्यतयैव काम्यन्ते न तु स्वरूपं भोग्यमिति तत्साध्यं सुखं भोग्यम् ।
तस्मात्पुत्रादिसम्बधात्तदुत्पत्तेः सुखोत्पत्तेः तेषु यथा फलशब्दप्रयोगस्तथा तेषु पुत्रादिष्वित्यर्थः ।
सूत्रार्थकथनेनैव भाष्यवार्तिकेव्याख्याते ॥ ५४ ॥

न्या.सू._४,१.५५: विविधबाधनायोगाद् दुःखमेव जन्मोत्पत्तिः ॥

फलानन्तरं दुःखपरीक्षणं, तत्रेयं परीक्षा भवतु दुःखं बाधनालक्षणमनुभूयमानं, यत्पुनरिदं सुखं प्रत्यात्ममनुकूलवेदनीयं तत्कथं दुःखमनुभवविरोधात् । शरीरेन्द्रियबुद्धयश्च यदि दुःखहेतुतया दुःखं कस्मात्सुखहेतुतया सुखमेव न भवन्ति । सेयमतिभीरुता सकललोकयात्राविरोधिनी । यथाहुःऽन हि मृगाः सन्तीति शालयो नोप्यन्ते । न हि भिक्षवः सन्तीति स्थाल्यो नाधिश्रीयन्तऽइति । तस्मान्मांसार्थीव कण्टकानुद्धृत्त्य मांसमश्नन्नानर्थं कण्टकजन्यमाप्नोतीत्येवं प्रेक्षावान् दुःखमुद्धृत्त्येन्द्रियादिसाधनं सुखं भोक्ष्यते, सन्ति च विविधदुःखपरिवर्जनहेतवो दृष्टाः परिदृष्टसामर्थ्या अन्वयव्यतिरेकाभ्यामित्यभिप्रायवान् पूर्वपक्षी गुडजिव्हिकया संशयान इव पृच्छति । तत्किमिदमिति । सिद्धान्तिन उत्तरम् अन्य इत्याह सूत्रकार इति । तेनैवाभिप्रायेण पूर्वपक्षी पृच्छति कथम् । उत्तरं न वै सर्वलोकसाक्षिकमिति । अयं तु दुःखभावनोपदेशः किमर्थमित्यत आह भाष्यकारः दुःखहानार्थः । किंभूतस्य दुःखहानमित्यत आह । जन्ममरणप्रबन्धस्यानुभवः प्राप्तिः तन्निमित्ताद् दुःखोपदेशपरिशीलनेन निर्विण्णस्यालंप्रत्ययवतः अत एव दुःखं जिहासत इति योजनीयम् । स्वाभिप्रायेण पूर्वपक्षी पृच्छति । कया युक्त्या । उत्तरम् । सर्वे खपलु सत्त्वनिकाया इति । उत्पत्तिः सुखदुःखहेतुभूता विषयसंपत्तिः तस्याः संस्थानानि भुवनानि । आ सत्यलोकादा चावीचेरिति । एतदुक्तं भवति ।

यदि दुःखवर्जनेन शक्यते सुखमुपादातुं ततस्तादृशं सुखमनकूलवेदनीयं कः प्रज्ञावान् प्रजह्यात् ।
न च तादृशमस्ति सुखं क्व चिदपि सर्वस्य दुःखाविनाभाविनः केवलस्योपादातुमशक्यत्वात् ।
न हि मधुविषसंपृक्तमन्नं विषमपहृत्य शक्यं मधुमात्रमुपादातुमिति ।
तस्मान्नेदं सुखस्य प्रत्याख्यानमपि तु सुख एव दुःखभावनमुपदिश्यते ॥ ५५ ॥

अत्र हेतुरुपादीयते ऋषिणा । विविधबाधनायोद् दुःखमेव जन्मोत्पत्तिः (सू. ५५) ॥

जन्मन उत्पत्तिः सा दुखमेव भावयितव्या विविधबाधनायोगादिति ॥ ५५ ॥

न्या.सू._४,१.५६: न सुखस्याप्यन्तरालनिष्पत्तेः ॥

कस्मात्पुनर्दुःखमेव स्वरूपतो न भवतीत्यत आह ।
न सुखस्यान्तरालनिष्पत्तेः (सू. ५६) ॥

न खल्वयं दुःखोद्देशो दुःखकयनं सुखस्य प्रत्याख्यानम् ॥ ५६ ॥

न्या.सू._४,१.५७: बाधनानिवृत्तेर्वेदयतः पर्येषणदोषादप्रतिषेधः ॥

इतश्च दुःखसंज्ञाभावनं न सुखस्य प्रत्याख्यानं दुःखोद्देशेनेत्याह । यस्मादिदं मे सुखसाधनमिति वेदयन् प्रार्थयते सुखसाधनम् । तच्च उक्ताद्बहुप्रकाराद्बाधनाहेतुरिति दुःखभावनयोपदेशनमिति । कामं काम्यं कामयमानस्य यदा कामः समृध्यति संपन्नो भवति ।

अथानन्तरमेनं पुरुषमपरः काम इच्छा क्षिप्रं बाधते स्वर्गादिप्राप्तावपि स्वराज्यादि कामयते ।
एवं तत्प्राप्तौ प्राजापत्यादीति अस्येच्छा तदुपायप्रार्थनादिना दुःखेन प्रबाधतैत्यर्थः ।
समन्तादुदनेमि यथा भवति तथा भूमिं लभति इति योजना ॥ ५७ ॥

न्या.सू._४,१.५८: दुःखविकल्पे सुखाभिमानाच्च ॥

नन्वयं यद्यप्यन्तराले सुखान्यनुभवति तथाऽपि दुःखसंभेदमाकलयन् अनुपदिष्टोऽपि स्वयमेव निवर्त्स्यति कृतमस्य दुःखभावनोपदेशेनेत्यत आह ॥

दुःखविकल्पे सुखाभिमानाच्च (सू. ५८) ॥

शास्त्रनिष्ठानां विवेकिनां खलु विविधबाधनानुषङ्गाद् अनवयवेन सुखमात्रं दुःखमेवेति विनिश्चयोऽक्षिपात्रकल्पा हि ते । तद्यथेषीकातूलसम्पर्कादप्यक्षिपात्र दूयते न गात्रावयवान्तराणि तथा मृदुचित्ततया विवेकिनो दूयन्ते अविवेकिनस्तु प्रणयकलहकुपितकुरङ्गशाबलोचनाङ्गनालक्तकरसार्द्रपोदपल्लवपातमपि शिरसि रहसि सुखमभिमन्यमाना धनपुलककञ्चुकाञ्चिततनवः सान्द्रानन्दाश्रुप्लुतनयना निर्वृण्वन्तीति तान् प्रत्ययमुपदेशोर्ऽथवानित्यर्थः । जायस्व म्रियस्व चेति संधावतीति । पुनर्जायते पुनर्म्रियते जनित्वा म्रियते मृत्वा जायते तदिदं संधावनव्यापारप्रचय इत्यर्थः । चोदयति । कस्माद् दुःखं जन्मेति नोच्यत इति । यदि दुःखभावनोपदेशो जन्मनि एवं सत्येवकारः किमर्थ इत्यर्थः । परिहरति । जन्मविनिग्रहार्थीय इति विनिग्रहो विनिवृत्तिः स एवार्थः प्रवर्तत इति जन्मविनिग्रहार्थीयः ।

यथा च मत्वर्थीय इति ।
एतदुक्तं भवति ।
जन्म दुःखमेवेति भावयितव्यं नात्रमनागपि सुखबुद्धिः कर्तव्या अनेकानर्थपरम्परायामपवर्गप्रत्यूहप्रसङ्गादिति ॥ ५८ ॥

न्या.सू._४,१.५९: ऋणक्लेशप्रवृत्त्यनुबन्धादपवर्गाभावः ॥

दुःखोद्देशानन्तरमपवर्ग उद्दिष्टो लक्षितश्चेति शेषः ।
स प्रत्याख्यायते ।
ऋणक्लेशप्रवृत्त्यनुबन्धादपवर्गाभावः (सू. ५९) ॥

तद्व्याचष्टे भाष्यकारः । ऋणानुबन्धादिति । अस्ति हि । ... ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेद् । अनपाकृत्य मोहेन मोक्षमिच्छन् व्रजत्यधः। ...

ऋणत्रयापाकरणेनैव वयःसमाप्तेर्मोक्षनिवेशक्षणो नास्तीत्यपवर्गाभाव इत्यर्थः ।
क्लेशानुबन्धान्नास्त्यपवर्गः ।
नानुच्छिन्ननिदानः संसारः शक्य उच्छेत्तुमित्यर्थः ।
प्रवृत्त्यनुबन्धादित्यस्यापीयमेव व्याख्या ॥ ५९ ॥

न्या.सू._४,१.६०: प्रधानशब्दानुपपत्तेर्गुणशब्देनानुबादो निन्दाप्रशंसोपपत्तेः ॥

एवं पूर्वपक्षयित्वा सिद्धान्तमुपक्रमते । अत्राभिधीयते । यत्तावदृणानुबन्धादिति । जायमान इत्यस्य प्रधानार्थतानुपपत्त्या गुणशब्दत्वं साधयितुं दृष्टान्तलाभाय ऋणशब्दस्य प्रथमं गुणशब्दत्वमाह । प्रधानशब्दानुपपत्तेरिति । तद्व्याचष्टे । ऋणैरिति । नायं प्रधानशब्द इति । (४९१।१) ऋणवानिवास्वतन्त्रस्तेषु तेषु कर्मसु नाधिकारीति निन्दा । तदभावे तु स्वतन्त्र इति प्रशंसा । एवं जायमान इति गुणशब्दो न मुख्य इति । कस्मात् पुनर्न मुख्य इत्यत आह मातृतो जातमात्रस्यैवानधिकारात् । कस्मादनधिकार इत्यत आह । अर्थिनः शक्तस्य चाधिकारात् । कस्मादर्थिन इत्यत आह । कर्मविधावग्निहोत्रं जुहुयात्स्वर्गकाम इत्यादौ कामसंयोगश्रुतेः । न च बालकः सुखदुःखप्राप्तिपरिहारकामोऽपि विवेकेन स्वर्गपुत्रपश्वन्नादि कामयत इति । शक्तस्य च प्रवृत्तीति । न ह्यशकनीयमर्थमशक्तं प्रति वेद आप्तोपदेशरूपो विधातुमर्हति । न च बालकः शक्तोऽविद्वत्त्वादिना । अत एव तिर्यग्देवर्षिपङ्गुशूद्रषार्षेयाणामनधिकारः सामर्थ्याभावात् । न केवलं वैदिकोऽयमीदृशो व्यवहारोऽपि तु लौकिको पीत्याह । न भिद्यते चायं लौकिकात् । तद्व्याचष्टे लौकिकस्तावदिति । उपपन्नानवद्यवादीति । उपपन्नं प्रमाणेन अनवद्यं पुनरुक्तदोण अनपेक्षितमुपदेष्टव्यं यन्न भववति तदित्यर्थः । न्यायप्राप्तमिममर्थं लिङ्गदर्शनमुपोद्बलयतीत्याह । गार्हस्थ्यलिङ्गं च मन्त्रब्राह्मणं कर्माभिवदतीति । गार्हस्थ्यस्य लिङ्गं पत्नी यस्मिन्कर्मणि तत्तथोक्तम् ।ऽपत्न्यवेक्षितमाज्यं भवतिऽ ।ऽपत्न्य उद्गायन्तिऽ ।ऽक्षौमे वसानावग्निमादधीयाताऽ मित्येवमादि । तदनेन गार्हस्थ्यात्पूर्वावस्था तावदृणानुबद्धा न भवतीत्युक्तं संप्रत्युत्तरावस्थापि न ऋणानुबद्धेत्याह । यदा चार्थिनोऽधिकारस्तदाऽर्थित्वस्याविपरिणामे जरामर्यवादोपपत्तिः । तेन युदक्तमृणापाकरणेन वयःपर्यवसानान्नस्ति मोक्षावसरस्तदपाकृतं भवति । अविपरिणामपदार्थव्याख्यानं न निवर्तत इति । तुरीयस्येत्यस्य व्याख्यानं चतुर्थस्येति । प्रायेण पञ्चसप्ततिवर्षेष्वतिवाहितेषु अर्थतृष्णा तनूभवति । अत्यन्तसंयोगे तु जरया हवेत्यनर्थकम् । मृत्युना वेत्यनेनैव सिद्धेरिति शेषः । यद्युच्यते अशक्ततोपलक्षणमेतज्जरया हवा मृत्युना वेति, तेन कस्यानर्थक्यमित्यत आह । अशक्तो विमुच्यतैत्येतदपि नोपपद्यत इति । स्यादेतत् । यद्यपि गृहस्थस्य यज्ञादिविधानान्तराणि सन्ति तथाऽपि जायमानस्त्रिभिरृणैरिति वाक्यं बालस्यापि यज्ञादि विधास्यतीत्येतां शङ्कां विमर्शपूर्वमपाकरोति । अथापि विहितं वाऽनूद्येत कामाद्वार्ऽथः प्रकल्प्येतेति । न तावज्जायमानो हवै इति शक्ये विधिविभक्तिरस्ति तेन सिद्धानुवादः स्वरसतः प्रतीयते यदि तु तस्यार्थस्य सिद्धिर्वाक्यान्तराद्वा प्रमाणान्तराद्वा कथमपि न कल्पेत ततोवऽवचनानि त्वपूर्वत्वाऽ दिति न्यायान्द्विधित्वमस्य कल्प्येत, सन्ति तु शतशस्तदर्थविधायकानि वाक्यानि विभक्तिमन्तीति को जात्वस्य स्वेच्छामात्रेण विधित्वं कल्पयेत् । तस्माद्विहितानुवचनमेव न्याय्यमिति जायमानशब्दो जघन्यवृत्तिरिति युक्तमुत्पश्यामः । स्यादेतत् । जायमानशब्दोऽनुपचारितार्थः स्वभावतो मातुरुदराद्विभागमाह । स कथं चिदनुवादानुरोधपेन जघन्यवृत्तिः कल्पनीयः । तद्वरं मुख्यार्थानुरोधेन विधानमेव कल्प्यताम् । एवं सति श्रुतिरनुरोधिता भवति । अस्ति च बालकस्यापि फलोत्पादनयोग्यता तदात्मनः फलं प्रति समवायिकारणत्वात् । तेन यद्यपि जातमात्रस्य फलसाधनानुष्ठानयोग्यता नास्ति तथाऽपि फलोत्पादं प्रति योग्यताऽस्ति, फलेन च प्रयोजनं न तत्साधनेनेत्यत आह फलस्य साधनानि हि प्रयत्नविषयो न फलमिति । अयमभिसन्धिः । विधिर्हि स्वव्यापारे कर्तृतया पुरुषं नियुङ्क्ते प्रयत्नश्चास्य व्यापारः सम्भवति विषये न शक्यो निवर्त्तयितुमिति स्वविषयमपेक्षते । न चास्य साक्षात्फलं विषयो भवितुमर्हति । उद्देश्यतामात्रेण तु भवेत् । नैतावता प्रयत्नोऽस्य निर्वृणोति यावदयं साक्षादभिनिर्वर्तनीयं न प्राप्नोति । तदुपायस्य साक्षादभिनिवर्त्तनीय इति फलोद्देशप्रवृत्तस्य पुरुषप्रयत्नस्य निर्वृणोति यावदुपायो विषयः । न च बालकस्य तदुपायमविदुषस्तत्र सामर्थ्यमस्ति । असमर्थश्चाकर्ता कथमात्मानं प्रयत्नेन व्याप्नुयात् । अव्याप्नुवंश्च कथमधिकारीति जायमानशब्दो जघन्यवृत्तिरेव न्याय्य इति सिद्धम् । विहितं च जायमानमिति ऋणवाक्यात्प्राग्विधीयते च ऋणवाक्यार्द्ध्वमित्यर्थः । यदुक्तं तत्र हि प्रव्रज्या विधीयत इति तदमूष्यमाण आह प्रत्यक्षविधानाभावादिति चेत् । शङ्कां निराकरोति । न प्रतिषेधस्यापि विधानाभावात । शङ्कां विभजते प्रत्यक्षत इति । परमाप्तो हि भगवानीश्वरोऽनुकम्पया भूतोपदेशायप्रवृत्तो यद्गार्हस्थ्यमेवाश्रयममुपदिशति ततोऽवगच्छामो न सन्त्याश्रमान्तराणि भूतेभ्यो हितानीत्यर्थः । अत एवाहुःऽऐकाश्रम्यं त्वाचार्याः प्रत्यक्षविधानाद्गार्हस्थ्यस्येतिऽ । निराकरणं विभजते न प्रतिषेधस्येति । स्मृतीतिहासपुराणानि तावदविवादं विदधति चातुराश्रम्यमुपलभ्यन्ते यदि प्रत्यक्षया श्रुत्या प्रतिषिध्यन्ते ततस्तद्विरोधेनौदुम्बरीसर्ववेष्टनवत् तत्राप्रमाणानि स्युः, न च तत्प्रतिषेधः श्रुतेः साक्षादवगम्यते । तस्मात्स्मृत्यादिविहितं चातुराश्रम्यमप्रतिषिद्धं श्रुत्या न शक्यं परित्यक्तुमित्यर्थः । न चाविधानेन तत्प्रतिषेधानुमानमित्याह । अधिकाराच्चेति । गार्हस्थ्योपदेशस्याधिकारात्तस्यैव विधानं नाश्रमान्तरस्य न त्वाश्रमान्तराभावात् । न हि व्याकरणं शब्दं व्युत्पादयत्प्रमाणाद्यभावमाक्षिपति । अपि च मा भूत्प्रत्यक्षविधानं श्रुतौ ससाधनापवर्गाभिधानानि चातुराश्रम्याभिधानानि च प्रत्यक्षाण्युपलभ्यन्ते वचनानि तान्यपूर्वत्वाद्विधानानि अपवर्गस्य ससाधनस्य चातुराश्रम्यस्य च भविष्यन्तीत्याह । ऋग्ब्राह्मणं चापवर्गाभिधाय्यभिधायत इति । मृत्युमिः परं कर्मभ्य इति । कर्मपरित्यागमपवर्गसाधनं सूचयति । अमृतत्वमिति चापवर्गो दर्शितः । सूचितं कर्मत्यागमपवर्गसाधनं श्रुत्यन्तरेण विशदयति । न कर्मणा न प्रजयेति । परेण नाकमिति । नाकमित्यविद्यामुपलक्षयति । अविद्यातः परमित्यर्थः । निहितं गुहायामिति लौकिकप्रमाणागोचरत्वं दर्शयति । तमसः परस्तादिति । अविद्या तमः तस्य परस्तात् । आदित्यवर्णमिति । नित्यप्रकाशमित्यर्थः । तदनेनेश्वरप्रणिधानस्यापवर्गोपायतवमुक्तम् । ऋच उदाहूत्य ब्राह्मणमुदाहरति अथ ब्राह्मणानीति । यज्ञ इत्यादिना गृहस्थाश्रमो दर्शितः । तप एवेति वानप्रस्थाश्रमः । ब्रह्मचारीति ब्रह्मचर्याश्रमः । एषामभ्युदयलक्षणं फलमाह । सर्व एवैत इति । चतुर्थाश्रममाह । ब्रह्मसंस्थ इति । तथाक्रतुरिति । क्रतुः संकल्पः । कामयमानोव य आसीत् स एवाथाकामयमानो भवति । अकामयमानः कामं परिहरन् तत्परिहारसिद्धौ सोऽकामयंस्तस्य व्याख्यानं निष्काम इति । आत्मकाम इति । कैवल्योपेतात्मकामः तत्प्राप्त्या आप्तकामो भवति । न तस्य प्राण इति शाश्वतो भवतीत्यर्थः । प्रकृतमुपसंहरति तत्र यदुक्तमिति । अपरामपि चातुराश्रम्याभिधायिनीं श्रुमिमाह । ये चत्वाच इति ।

इतश्च फलार्थिन एष जरामर्यवाद इत्याह ।
फलार्थिनश्चेति ॥ ६० ॥

न्या.सू._४,१.६१: समारोपणादात्मन्यप्रतिषेधः ॥

पृष्ट्वा ।
सूतं पटते कथम् ।
समारोपणादात्मन्यप्रतिषेधः (सू. ६१) ॥

आत्मयग्नीनां समारोपणादृणानुबन्धनापवर्गस्याप्रतिषेधः । तदेनन च्छलेन प्रत्यक्षविधानं प्रव्रज्याया अपि दर्शितम् । एषणाव्युत्थितस्य विपर्यस्तुबुद्धेः

अलमाभिरेषणाभिरनर्थहेतुभिरिति कृतबुद्धेः अत एव निवृत्ते फलार्थित्वे समारोषणमात्मन्यग्नीनां विधीयते इति ।
एवं ब्राह्मणानीति यदैषणाभ्यो व्युत्थितस्य प्रव्रज्याविधानं तदा तदभिधायीनि ब्राह्मणान्युपपन्नानीत्यर्थः ॥ ६१ ॥

न्या.सू._४,१.६२: पात्रचयान्तानुपपत्तेश्च फलाभावः ॥

प्रमृते खलु यजमाने यज्ञपात्राणि यजमानस्य शरीरे यथावयसवं निधायान्त्येष्टिः क्रियते । तत्र जरामर्ये कर्मण्यविशेषेण कल्प्यमाने सर्वस्य पात्रचयान्तानि कर्माणीति प्रसज्येत मरणपर्यन्तानि कर्माणीति प्रसज्येतेत्यर्थः । नन्विष्यत एव पात्रचयान्तत्वं कर्मणामित्यत आह । तत्रैषणाव्युत्थानमिति । तस्मान्नाविशेषेण कर्तुः प्रयोजकं फलं भवतीति । फलाभाव इत्यस्य सूत्रावपयवस्याविशेषेण फनस्य कर्तृप्रयोजनकत्वाभाव इत्यर्थः । तदनेनैषणाव्युत्थानश्रुतिविरोधा दर्शितः । तदेवं चातुराश्रम्यस्य श्रुतिरुक्ता । संप्रति स्मृत्यादयोऽपि चातुराश्रयम्यस्योपदेशकाः सन्तीत्याह चातुराश्रम्यविधानाच्चेति । शङ्कते तदप्रमाणमिति चेत् । जगन्निर्मातुः परमकारुणिकस्य सर्वज्ञस्यात्रभवतः परमेश्वरस्यागमो भवतु प्रमाणमाप्तोक्तत्वात् । मनुव्यासादीनां त्वाप्तत्वानिश्चयात्कयं तत्प्रणीतानां प्रामाण्यनिश्चय इत्यर्थः । उत्तरं प्रमाणेनेति । स्यादेतत् । भवतु वेदेनाभ्यनुज्ञानादितिहासपुराणप्रामाण्यं धर्मशास्त्राणां तु मन्वादिप्रणीतानां कुतः प्रामाण्यनिश्चय इत्यत आह । अप्रामाण्ये चेति । सर्वजनपरिग्रहात्तेषामपिप्रामाण्यमित्यर्थः । बुद्धादिस्मृतयस्तु वेदनिन्दितैर्म्लेच्छादिभिः परिगृहीता न त्वार्यैरिति न ताः प्रमाणं भवितुमर्हन्तीत्यर्थः । द्रष्टृप्रवक्तृसामान्याच्चाप्रामाण्यानुपपत्तिः । य एव वेदस्य द्रष्ट्रारोऽनुष्ठातारश्च तदर्थस्य त एवेतिहासादीनां प्रवक्तारः प्राचेतसकृष्णद्वैयायनमनुप्रभृतयः । अपि च वैदिकानि कर्माणि स्मार्तीमितिकर्तव्यतामपेक्षन्ते स्मार्तनि च वैदिकानि मन्त्रादीनीति सर्वमेतदप्रमाण्ये धर्मशास्त्राणां नोपपद्यते ।

यद्यपि च मन्वादयोऽपि धर्मज्ञानवैराग्यैश्वर्यशालितया अनुभूयाप्युपदिशन्तीति संभवति तथापि वेदमूलकत्वमेवेतिहासपुराणादिनां युक्तम् ।
तथा हि ।
ऽवेदोऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम् ।
यः कश्चित्कस्य चिद्धर्मोमनुना परिकीर्तितः ॥

स सर्वोऽभिहितो वेदे सर्वज्ञानमयो हि सः ... इत्यादिभिः स्ववचनप्रपञ्चैरात्मा बद्धपा वेद एवार्पितस्तैरिति । अथायमितिहासादिगोचरोर्ऽथः कस्मात्प्रत्यक्षप्रतीतेन वेदेन नोच्यत इति तदनभिधानादवगच्छमो नूनमयमनभिमतो वेदानां कर्तुरिति । निराकृतोऽप्ययं पुनर्निराक्रियते दार्ढ्यार्थं विषयव्यवस्थानाच्चेत्यनेन॥ ६२ ॥

न्या.सू._४,१.६३: सुषुप्तस्य स्वप्नादर्शने क्लेशाभावादपवर्गः ॥

यदप्युक्तं क्पलेशानुबन्धस्याविच्छेदादिति तद्दूषयति । सुषुप्तस्य स्वप्नादर्शने क्लेशाभावादपवर्गः (सू. ६३) तद्व्याचष्टे सुषुप्तस्य खल्विति ।

लोकसिद्धतया सुषुप्तावस्थोदाहृता ।
महाप्रलयावस्थायामपि क्लेशमुक्ता एवात्मानः केवलमसौ न लोकसिद्धेति नोदाहृता ।
एतावांस्तु मुक्तावस्थायां विशेषः यदस्यां क्लेशवासनापि नास्ति ।
सुषुप्तावस्थायां प्रलयावस्थायां च क्लेशविच्छेदेऽपि तद्वासनाऽस्तीति ॥ ६३ ॥

न्या.सू._४,१.६४: न प्रवृत्तिः प्रतिसंधानाय हीनक्लेशस्य ॥

यदपि प्रवृत्त्यनुबन्धादिति तत्राह न प्रवृत्तिः प्रतिसंधानाय हि हीनक्लेशस्य (सू. ६४) ॥

देहिनः । तद्व्याचष्टे क्षीणेषु रागद्वेषमोहेषु सत्यपि न प्रवृत्तिः स्वप्रतिसंधानाय । उपपादितमिदमस्माभिर्यथा दोषतुषावनद्धाः कर्मतन्दुला जन्माङ्कुराय कल्पन्ते, न केवला इत्यर्थः । शङ्कते कर्मवैफल्येति।वैफल्ये शास्त्रस्य कर्मणां फलसाधनताप्रतिपादकस्याप्रामाण्यप्रसङ्ग

इति भावः ।
निराकरोति न कर्मविपाकेति ।
विपाक फलं तस्य प्रतिसंवेदनं भोगः ॥ ६४ ॥

न्या.सू._४,१.६५: न क्लेशसंततेः स्वाभाविकत्वात् ॥

पूर्वपक्षबाद्याह ।
न क्लेशसंततेः स्वाभाविकत्वात् (सू. ६५) ॥

सिद्धान्त्येकदेशी ब्रूते ।

न्या.सू._४,१.६६: प्रागुत्पत्तेरभावानित्यत्ववत् स्वाभाविकेप्यनित्यत्वम् ॥

प्रागुत्वम् (सू. ६६) ॥

दध्यादेरुत्पत्तेः प्राक् क्षीरादिषुयो भावस्तस्यानित्यत्ववदिति योजना ॥ ६६ ॥

न्या.सू._४,१.६७: अणुश्यामतानित्यत्ववद्ध ॥

अपरस्त्वेकदेशी भावमेव दृष्टान्तयतीत्याह ।
अणुश्यामतानित्यत्ववद्वा (सू. ६७) ॥

यदेतच्छ्यामं रूपं तदन्नस्येत्यागमः पार्थिवानां परमाणूनां श्यामतामनादिमाह अन्नपदेन मृदोऽभिधानादिति भावः । अत्र प्रथममेकदेशिनं दूषयति सतः खल्विति । द्वितीयमेकदेशिनं दूषयति । अनादिरणुश्यामतेति हेत्वश्रावान्न युक्तम् ।

अणुश्यामता कार्या पृथिवीरूपत्वात् लोहितादिवदिति प्रत्युतानित्यताहेतुरस्ति ।
पुरुषयत्नजलोहितापदिरूपवैलक्षण्येन त्वस्पवयाप्रयत्नपूर्वकत्वमात्रेणानादित्वाभिधानमिति नागमविरोधः ॥ ६७ ॥

न्या.सू._४,१.६८: न संकल्पनिमित्तत्वाच्च रागादीनाम् ॥

तदेवमेकदेशिनौ दूषयित्वा परमसमाधिमाह ।

अयं तु समाधिः न संकल्पनिमित्तत्वाच्च रागादीनाम् (सू. ६८) ॥

चकारमनुक्तसमुच्चायार्थं व्याचष्टे । कर्मनिमित्तत्वादितरेतरनिमित्तत्वाच्च । समुच्च्योऽनुक्तस्येति शेषः । तत्र संकल्पनिमित्तत्वादिति विभजते । मिथ्यासंकल्पेभ्य इति । यद्यप्यनुभूतविषयप्रार्थना संकल्पः तथाऽपितस्य पूर्वभागोऽनुभवो ग्राह्यः । प्रार्थनाया रागत्वात् । तेन मिथ्यानुभवः संकल्प इत्यर्थः । नन्वेकस्मान्मिथ्याज्ञानात्कुतः कार्यवैचित्र्यमित्यत आह । रञ्जनीयकोपनीयमोहनीयेभ्य इति । भव्यगेयादिषु पाठात्कर्त्तरिकृत्यः । मोहनीयः संकल्पो मिथ्याज्ञानसंस्कारः । कर्मनिमित्तत्वं रागादीनां विभजते । कर्म चेति निकायेन जातिरुपलक्ष्यते । इतरेतरनिमित्तत्वं रागादीनामाह । इतरेतरेति । स्यादेतत् । भवन्त्यनित्याः क्लेशाः तथापि यदेषां निर्वर्त्तकं मिथ्याज्ञानं तस्य निवृत्तिहोतोरभावत्स एव क्लेशानुबन्धादपवर्गाभाव इत्यत आह । सर्वमित्यासंकल्पानामिति । अपि चानादिः क्लेशसंततिरित्युक्तम् । कुतः सर्वैमे आध्यात्मिका भावा इति । आत्मानमधिकृत्य प्रवर्तमानाः शरीरेन्द्रियादयो भवन्त्यापध्यात्मिका इति । अथ यद्यनादीनामपि निवृत्तिः हन्तानुत्पत्तिधर्मकाणामपि निवृत्तिप्रसङ्ग इत्यत आह । न चैवं सत्यनुत्पत्तिधर्मकं किं चिदिति । रागादीनामुत्पत्तिधर्मकाणामेव व्ययधर्मकत्वाभ्युपगमादित्यर्थः । ननु मा भूवन्मिथ्याज्ञाननिमित्ता रागादयो मिथ्याज्ञानानिवृत्तौ, ये पुनरमी कर्मनिमित्तास्तेषां कुतो निवृत्तिः न च कर्मनिवृत्तौ रागादिनिवृत्तिः रागादिमतः कर्मनिवृत्तेरभावात्, तस्मान्न मोक्ष इत्यत आह । कर्म च निकायनिर्वर्तकं तत्त्वज्ञानकृतान्मिथ्याज्ञानरूपसंकल्पविघातान्न रागाद्युतपत्तिनिमित्तं भवति । सर्वरागादीनां मित्याज्ञानमेव निमित्तम् । कर्माणि तु निकायनियमेन रागादीन् प्रवर्तयन्तीति कर्मनिमित्तत्वमुक्तमिति भावः । ननु यथा रागादयः सत्यपि कर्मणि मिथ्याज्ञाननिवृत्त्या निवर्तन्ते एवं सत्यपि कर्मणि मिथ्याज्ञाननिवृत्त्या फलमपि मा भूदित्यत आह । सुखदुः खसंवित्तिः फलं तु भवतीति । वार्त्तिकम् । यावज्जीवसंयोगे हि जरया ह वेत्यनर्थकमिति । (४९५।९) मृत्युना वेत्यनेनैव गतार्थत्वादित्यनुक्त्वा भाष्योक्ता द्वितीय युक्तिरभिहिता वार्तिककृता । यस्मात्स्वयमशक्तस्येत्यनेन । यज्ञसाधनत्वादिति । (४९६।७) यज्ञकर्तृत्वादित्यर्थः । एतदेव स्फटयति । यस्माद्यजमानो यज्ञाङ्गं भवति । यथाह भगवान जैमिनिः पुरुषश्च कर्मार्थत्वादिति । संकल्पाद्यपेक्षं कर्म रागादिकारणमिति । (४९८।२०) यज्जातीयस्य जन्मनो यत्कर्म कारणं तज्जन्मोचितामेव मिथ्याज्ञानवासनामभिव्यनक्तीति तद्द्वारेण रागादीनां कारणं भवति । चोदयति । सुखादीनामिति ।

यथा मिथ्याज्ञानसहायं कर्म रागादिहेतुः एवं तत्सहायं फलहेतुरिति चरमदेहस्य तत्वज्ञानवतः सदपि कर्म फलकारणं न स्यादित्यर्थः ।
परिहरति ।
न निरप्रेक्षत्वादिति ।
कर्माशयप्रपञ्चमुच्छेत्तुममूढोऽप्यसक्तोऽप्यद्विष्टोऽपि मूढ इव सक्त इव द्विष्ट इव तत्फलं भुङ्क्त इति रागाद्यनपेक्षं कर्म स्वफलं जनयति तेनासौ फलोषभोगो न बन्धहेतुः मूढादीनां बन्धहेतुः मूढादीनां बन्धहेतुफलोपभोगः स चतादृशो रागादिसहायैः कर्मभिः क्रियते न रागादिनिरपेक्षैरित्यवदातम् ॥ इति मिश्रश्रीवाचस्पतिविरचितायां न्यायवार्तिकतात्पर्यटीकायां चतुर्थाध्यायस्याद्यमाह्निकम् ॥

चतुर्थेऽध्यायेद्वितीयमाह्निहम् ।

न्या.सू._४,२.१: दोषनिमित्तानां तत्त्वज्ञानादहङ्कारनिवृत्तिः ॥

तदेवं संशयप्रमाणप्रमेयाणि परीक्षितानि । प्रयोजनादयोऽपि यत्र संशयस्तत्रैवमुत्तरोत्तरप्रसङ्ग इतयतिदेशेन परीक्षिता इति षोडशापि प्रमाणादयः परीक्षिताः । तेषां तत्त्वज्ञानं निःश्रेयसाधिगमहेतुरित्युक्तम् । तत्रापि प्रमेयतत्त्वज्ञानं साक्षान्निःश्रेयसहेतुरितरेषां तु तत्त्वज्ञानाङ्गतयेत्युक्तम्१ इदमिहेदानीं परीक्ष्यते किंप्रत्येकमात्मादीनां प्रमेयाणां तत्त्वज्ञानं निःश्रेयसाधिगमहेतुरुताहो कस्य चिदेषामेकदेशस्येति । तामिमां परीक्षामवतारयति भाष्यकारः । किं नु खवलु भोः यावन्तो विषयाः प्रमेयाणि तावत्सु प्रत्येकमिति।प्रतिप्राणभृद्भेदं यावन्त आत्मानः यावन्ति चेन्द्रियाणिप चेत्यर्थः । पार्श्वस्थः पूर्वपक्षिणं पृच्छति कश्चात्र विशेषः । पूर्वपक्षिण उत्तरं न तावदेकैकत्रेति । समुदायैकदेशाभ्यामनुपपत्तेः । प्रमाणादितत्त्वज्ञानान्निःश्रेयसाधिगम इत्ययुक्तमिति पूर्वः पक्षः । सिद्धान्तमाह । मिथ्याज्ञानं वै खलु मोह इति । वैशब्दः खलु पूर्वषक्षाक्षमायां खलुशब्दो हेत्यर्थे । अयुक्तः पूर्वपक्षो यस्मान्मिथ्याज्ञानं मोह इति । न तत्त्वज्ञानमज्ञाननिवृत्तिमात्रेण निः श्रेयसोपयोगि अपि तु संसारनिदानोच्छेदद्वारेण दृष्टेनैव, न च तत्त्वाज्ञानं संसारहेतुरपि तु मिथ्याज्ञानम् । तदुच्छिन्दद्विरोधितया तत्त्वज्ञानमपवर्गहेतुरिति । भवत्वेतत्तथाऽपि पूर्वपक्षस्य किमायातमित्यत आह । तच्च मिथ्याज्ञानं यत्र विषये प्रवर्तमानमिति । स्वसम्बन्धिनो ह्यात्मादयो विपर्ययेण परिच्छिन्नाः संसारहेतव इति तद्विषयमेव मिथ्याज्ञानमपनेयं नात्माद्यन्तरविषयं ज्ञानं तेन तत्र मिथ्याज्ञानं मा निवर्तिष्ट निवर्ततां वा, स्वात्मादिदृष्टान्तेन, न तु तस्य संसारनिवृत्तिं प्रत्युपयोगः । यस्य तूपयोगस्तत्र तत्त्वज्ञानं दुष्करमिति । पृच्छति । किं पुनस्तन्मिथ्याज्ञानम् ? सन्ति खलु वादिनां नानाविप्रतिपत्तयः । के चिदाहुः । विधूतविविधनामरूपप्रपञ्चोपप्लवविशुद्धविदानन्दघनाद्वैतब्रह्मसाक्षात्कारस्तत्त्वज्ञानमिति । अन्ये तु सत्त्वपुरुषान्यताख्यातिम् । धर्ममुद्गलनैरात्म्यज्ञानमित्यपरे । शरीरेन्द्रियाद्यनित्वव्यतिरिक्तनित्यात्मदर्शनमिति वृद्धाः । तदेवं विप्रतिपत्तेः प्रश्नः । उत्तरम् । अनात्मन्यात्मग्रहोऽहमस्तीति मोहोऽहङ्कारः । न तावदद्वैतानन्दघनात्मज्ञानं तत्त्वज्ञानम् । भेदस्य प्रत्यक्षसिद्धस्यासति बाधकेऽपह्नोतुमशक्यत्वात् । न च प्रकाशानन्दावात्मधर्मातिरिक्तावात्मस्वभावौ भवितुमर्हतः । सत्यं विज्ञानमानन्दं ब्रह्मेति श्रुतिरानन्दचैतन्यशक्त्यभिप्रापया भेद एव च तद्वत्तया कथं चित् सामानाधिकरण्यमुपपद्यते । अभेदे त्वानन्दविज्ञानयोस्तत्पदयोः पर्यायतया सह प्रयोगानुपपत्तिः । न च प्रकृष्टप्रकाशः सवितेत्यत्र प्रकृष्टप्रकाशयोरभेदोऽप्रकाशस्यापि प्रकर्षसम्भवात् । अप्रकृष्टस्यापि खद्योतादेः प्रकाशसम्भवात् । तस्माद्यत्किं चिदेतत् । सत्त्वपुरुषान्यताख्यातिस्तु सत्त्वस्यैव प्रकृतेरसम्भवादयुक्ता सत्कार्यवादमूलत्वात्प्रधानसद्भावस्य तन्निराकरणेनैव निराकरणम् । धर्मपुद्गलनैरात्म्ये तु क्षणभङ्गभङ्गे नित्यात्मसद्भावकथनेन निराकृते । तस्मात्सुष्ठूक्तमनात्मन्यात्मग्रहोऽहमस्मीति मोहोऽहङ्कार इति । अत एव सर्वस्यैवमात्माशीः कृमेरपि मा न भूवं भूयासमिति । सोऽयमीदृशोऽभिनिवेशः शरीरादीनामात्मत्वेनाध्यवस्यतो भवति नात्मतत्त्वविदुषः स खल्वहिनिर्ल्वयनीमिवाहिस्ततो व्यतिरिक्तं शरीरादि पश्यन्न तत्र स्निह्यति स्नेहविरहान्न तप्यते नाप्यनुशोचतीति । अतत्त्वज्ञानवतः संसारं दर्शयित्वा तत्त्वज्ञानवतः संसारनिवृत्तिमाह । यस्तु दुःखमिति । तदेवमुक्तेन प्रकारेण मोहतत्त्वज्ञानयोः संसारापवर्गहेतुभावो यस्मात्तस्मान्मोक्षमाणैः प्रेत्यभावफलदुःखानि च ज्ञेयानि व्यवस्थापयतीत्यादिपूर्वोपसंहारः ।

आसेवमानस्याभ्य स्यतो भावयत इति पर्यायकथनं भावनादार्ढ्येपदर्शनार्थम् ।
अर्थगतिं परिशोध्यात्रार्थे सूत्रं पठति ।
दोषनिमित्तानां तत्त्वज्ञानादहङ्कारनिवृत्तिः (सूः१) ॥

शास्त्रार्थसंग्रहोऽनूद्यते शास्त्रतात्पर्यसंग्रहो द्वितीयसूवेणानूद्यतैत्यर्थः । किं नु खलु भो इति भाष्यं तदनुपपन्नं यतो न विषयमात्रज्ञानमपवर्गहेतुरपि तु प्रमेयतत्त्वज्ञानमित्यत आह वार्तिककारः । तत्र विषयान्तराणामिति । (५००।८) यावन्तो विषया इति न विषयमात्राभिप्रायमपि तु प्रमेयाभिप्रायमित्यर्थः । सुगममन्यद्वार्तिकम् ॥ १ ॥

न्या.सू._४,२.२: दोषनिमित्तं रूपादयो विषयाः संकल्पकृताः ॥

शरीरादिष्वनात्मस्वात्मबुद्धिर्निवर्तनीयेत्युक्तं तत्र प्रथमं कस्मिन्नात्मबुद्धिर्निवर्तनीयेत्यपेक्षायामाह ।

प्रसंख्यानानुपूर्व्या तु खलु ।
प्रसंख्यानं समाधिजं तत्त्वज्ञानं तच्च विषये सुकरमिति तत्रैव प्राथमिकस्य प्रथमं प्रयत्नो युक्तः ।
सूत्रम् ।
दोषनिमित्तं रूपादयो विषयाः संकल्पकृताः (सू. २) ॥

मिथ्याज्ञानं संकल्पस्तेन विषयीकृता इत्यर्थः ।
कामाः काम्याः ॥ २ ॥

न्या.सू._४,२.३: तन्निमित्तं त्व् अवयव्यभिमानः ॥

अन्ये खलु अवयविसंज्ञां निवर्तयन्तोऽवयविनमेव प्रत्याचक्षते तान् प्रत्याचक्षाण आह । अतः परं काचिदिति (५०२।२) सूत्रम् तन्निमित्तं त्ववयव्यभिमानः (सू. ३) ॥

निमित्तं दन्तत्वादि तद्विशिष्टा विषयाः संज्ञाः प्रियायाः कामुको दन्तोष्ठनासिकादीनवयवाननुभावयन् तस्यां सक्तो भवति । व्यञ्जनान्यवयविनोऽवयवास्तैः सहोपलम्भात्तेषामनुव्यञ्जनं तत्सादृश्यं तेन तदारोपः । तथा च स्त्रैणानां व्यवहारः । द्रवत्कनकनिर्मलद्युतिरनङ्गलीलैकभ र्महेभकटविभ्रमस्तनभरालसाङ्गी यदि । प्रिया न परिरभ्यते तुलितसिद्धंसंजीविनी सहेमहि कुतोऽन्यथा विषमबाणबाणव्यथाम् । मदनसरितमेनां गाहमानो जनोऽयं जघनपुलिननाभीमण्डलावर्तरम्याम् । मुखनलिनसनाथामुल्लसद्भ्रुलतोर्मिं चिरविरहहुताशायासमुज्झां चकार । विवेकिनस्त्वशुभसंज्ञां भावयन्तः प्राहुः । मज्जामस्थ्नामथ प्लीह्नां यकृतां शकृतामपि । पूर्णाः स्नायुशिरास्यूताः स्त्रियश्चर्मप्रसेविकाः । ऋषयोऽप्यूचुः । स्थानाद्बीजादुपष्टम्भान्निष्पन्दान्निधनादपि । कायमाधेयशौचत्वात्पण्डिता ह्यशुचिं विदुः । अशुभसंज्ञाभावनाप्रयोजनमाह । तामस्यभावयत इति । तत्किमिदानीमवयवानुव्यञ्जनसंज्ञयोर्विषयो नास्त्यशुभसंज्ञाविषय एव परमस्तीत्यत आह । सत्येव च द्विविधविषय इति । द्विविध

एवासौ कामिनीलक्षणो विषयस्तथाऽपि रागादिप्रहाणार्थमवयवादिसंज्ञागोचरत्वं परित्यज्याशुभसंज्ञागोचरत्वमस्योपादीयते वैराग्योत्पादनायेत्यर्थः ।
अत्रैव दृष्टान्तमाह ।
यथा विषसंपृक्त इति ।
न हि विषमधुनी परमार्थतो न स्तः अपि तु वैराग्याय विषसंज्ञा तत्रोपादीयतैत्यर्थः ॥ ३ ॥

न्या.सू._४,२.४: विद्याविद्याद्वैविध्यात् संशयः ॥

तदेवं स्वमतेन प्रसंख्यानोपदेशमुक्त्वा पराभिमतप्रसंख्यानं निराकर्त्तुमुपन्यस्यति । अथेदानीमर्थं निराकरिष्यता विज्ञानवादिनाऽवयविनिराकरणमुपपाद्यते ।

अर्थविशेषे खल्ववयवानुव्यञ्जनसंज्ञे ।
तत्रार्थमात्रस्याभावात्कुतोऽवयवानुव्यञ्जनसंज्ञे, तन्निराकरणाय प्रथममवयवी निराक्रियते पश्चात्परमाणुः, ततश्च ज्ञानमात्रमर्थरहितं सिद्धं भवतीत्यभिप्रायः ।
तत्र संशयपूर्वकत्वादुपपादनस्य विचारस्य संशयं प्रथममाह ।
विद्याविद्याद्वैविध्यात्संशयः (सू. ४) ॥

उपलब्धिर्विद्या अनुपलब्धिश्चाविद्या । सच्चोपलभ्यते यथा तडागे तोयम् । असच्चोपलभ्यते यथा मरुमरीचिकायामुदकम् । सच्च नोपलभ्यते यथा चिरनिखातं भूमौ निध्यादि । असच्च नोपलभ्यते यथा भूतले दृश्यमाने तत्तुल्योपलम्भनयोग्यतो घटादिः । तदेवं विद्याविद्याद्वैविध्यादवयविनि संशयः । यद्यवयव्युपलभ्यते तथापि संशयः अथ नोपलभ्यते तथाऽपि संशय इत्यर्थः ।

न्या.सू._४,२.५: तदसंशयः पूर्वहेतुप्रसिद्धत्वात् ॥

तत्र सिद्धान्ती वक्ष्यमाणमप्यवयविनिराकरणहेतुं निराकरिष्यामीत्याशयवानाह ।
तदसंशयः पूर्वहेतुप्रसिद्धत्वात् (सू. ५) ॥

अवयविनः । वार्तिककारस्तु स्वयं संशयं निराकरोति । न विद्याविद्याद्वैविध्यं संशयस्य कारणमिति (५०२।२१)॥ ४५ ॥

न्या.सू._४,२.६: वृत्त्यनुपपत्तेरपि तर्हि न संशयः ॥

पूर्वपक्षवाद्याह वृत्त्यनुपपत्तेरिति ॥ ६ ॥

न्या.सू._४,२.७: कृत्स्नैकदेशावृत्तित्वादवयवानामवयव्यभावः ॥

वृक्षस्तिष्ठति शाखादिषु शाखादयो वा वृक्ष इति लौकिकीं प्रतिपत्तिमनुरुध्यमानो विकल्पयति वार्त्तिककारः । अवयवा अवयविनीति । (५०३।१०) एकद्रव्यश्चावयवः प्राप्नोति । कुतः एकावयविवृत्तित्वात् । भवतु को दोष इत्यत आह । न चैकद्रव्यं द्रव्यमविनश्यदाधारमस्ति । कृतकस्य नित्यत्वप्रसङ्गादिति शेषः । अवयव्येकदेशेनेति । अवयविनो य एकदेशास्तेनावयवोऽवयविनि वर्त्ततैत्यर्थः । न ह्यस्यावयविनोऽन्ये अवयवेषु एकदेशा अवयवाः सन्तीति

न्या.सू._४,२.८: तेषु चावृत्तेरवयव्यभावः ॥

एकेनावयवेनारभ्यत इति सततोत्पत्तिप्रसङ्गः ।
संयोगाय किल चरमभाविने अवयवव्यापारस्तन्निमित्तानि चापेक्ष्यन्ते ।
एकद्रव्यस्योत्पत्तिं प्रति न संयोगापेक्षेति यावदवयवमवयव्युत्पद्येतेत्यवयव्यनवरुद्धो न कदाचिदवयवो दृश्येतेत्यर्थः ॥ ७८ ॥

न्या.सू._४,२.९: पृथक् चावयवेभ्योऽवृत्तेः ॥

अवयव्यतिरेकेण वर्त्तमानोऽवयव्युपलभ्येत न चास्याधारान्तमुपलभ्यते दृश्यमानश्चावयवो नाधिकरणमस्येति भवतैव वादिनाऽभ्युपगतमित्यभिप्रायेणाह ।
नित्यश्च स्यात् ॥ ९ ॥

न्या.सू._४,२.१०: न चावयव्यवयवाः ॥

यस्तु मन्यते अवयवानां धर्ममात्रमवयवी न त्ववयवेभ्योऽत्यन्तं भिन्नोऽभिन्नो वा भिन्नत्वे गवाश्ववद्वर्मधर्मिभावानुपपत्तेः ।
अभेदेऽपि धर्मिरूपवत्तदनुपपत्तेश्च ।
तस्मात्कथं चिद्भिन्नोऽभिन्नश्च कथं चिद्धर्ममात्रमवयवानाममयवीति तं प्रत्याह ।
न चावयव्यवयवाः (सू. १०) ॥

न तावद्भेदाभेदौ परस्पराभावात्मानावेकत्र समवेत इत्युक्तम् । नाप्यात्यन्तिकेऽभेदे धर्मधर्मिभावः तस्माद्यथात्यन्तिकभेदेऽपि केषाञ्चिदेव कार्यकारणभावः तथा केषां चिदेव धर्मधर्मिभाव इत्येषितव्यम् । तथा च दूषणमित्यर्थः । अवयवी चैकदेशेनावयवे वर्त्तत इति अवयवसमूहमात्रमवयवी प्राप्नोतीति । अस्यायमर्यः । अवयवे हि वर्त्तमानोऽवयवीत्युच्यते । अवयव्येकदेशाश्चेदवयवेषु वर्त्तन्ते एकदेश

एव तर्ह्यवयविनः ।
ते च नानेत्त्यवयवसमूहमात्रमवयवी प्राप्नोति ।
एकस्मिंश्चावयवे एकदेशे वर्त्तमानोऽवयवीति न तावदवयवी क्वचिदवयवे वर्त्तत इति तदेकदेशानां तत्र तत्रावयवे वृत्तेः तावन्मात्रेण चावयविनो ग्रहणमिति यत्रैवास्यैकदेशो वर्त्तते तत्रैव ग्रहीतव्यः ।
तथा चैकस्मिन् तन्तौ पटैकदेशो वर्त्तत इति तन्तावेकस्मिन् पटो दृश्येतेत्यर्थः ॥ १० ॥

न्या.सू._४,२.११: एकस्मिन् भेदाभावाद् भेदशब्दप्रयोगानुपपत्तेरप्रश्नः ॥

सिद्धान्तवाद्याह ।

न्या.सू._४,२.१२: अवयवान्तराभावेऽप्यवृत्तेरहेतुः ॥

एकदेशनेन चावयवी न स्वावयवेषु वर्त्ततैत्यत्र प्रतिज्ञार्थे अवयवान्तराभावादित्यहेतुः । कस्माद् यद्यप्यवयवान्तरमवयविनो भवति तथाप्यवयवान्तराण्यवयविनोऽवयवान्तरेषु वर्त्तन्ते किमायातमवयविवृत्तेरिति । एक श्चानेकत्र वर्त्तत इति प्रतिज्ञानानः किं कार्त्स्न्येन किमेकदेशेनेति नानुयोक्तव्यः, कस्मात् उभयेन कार्त्स्न्येन एकदेशेन वा नानात्वैकार्थसमवायिना एकस्यावयविनो व्याघातात् । एतदुपजीव्याह यद्यवयवी नैकदेशेन वर्त्तने न कार्त्स्न्येन अथ कथं वर्त्तत इति । शङ्कते रूपान्तरानिर्द्देशादिति चेत् । (५०६।७) सोपहासं दृष्टान्तमाह । यथा अचित्रास्तन्तवः पटं चित्रमारभन्त इति । नैयायिकैः किलाचित्रैस्तन्तुभिश्चित्रः पट आरभ्यतैत्यभ्युपेयते । तच्चैतदयुक्तम् । न तावच्चित्रं रूपमेकं पटसमेवतं स्ववचनविरोधात् । नाना हि चित्रमुच्यते तत्कथमेकमिति । तेन यदुक्तं भवति नानैकमिति तदुक्तं भवति चित्रमेकमिति । यदाहुः ... चित्रं तदेकमिति चेदिदं चित्रतरं महदिति । न च नीलपीतादय एव बहवोऽव्याप्यवृत्तयश्चित्रपदास्पदमिति सांप्रतम् । रूपादनां व्याप्यवृत्तित्वात् । तेऽमी विवादाध्यासिता नीलपीतादयो व्यापनीया आश्रयवृत्तयो रूपजातीयत्वात् शुक्लपटगतरूपवदितिउपपन्न उपहासो यथा अचित्रास्तन्तवः पटं चित्रमारभन्त इति । निराकरोति । नोपलभ्यमानरूपाधारत्वात् । अवयविनो रूपं निर्द्दिश्यतामिति ब्रुवाणेनेति । अवयवोऽस्यास्तीत्यवयवी अवयवश्च कारणं तद्वानवयवी कार्यमिति कार्यकारणभावाभ्युपगमः कुतो भवति । न च प्रसङ्गसाधनं नाम किं चिदस्ति प्रमाणम् । तर्कस्तु भवेत् न चायं प्रमाणेनेतिकर्तव्यतां विना प्रमाणमर्थं साधयितुमर्हतीत्यर्थः । यदपि त्वयोपहासाभिप्रायेण पटरूपं चित्रं दृष्टान्तीकृतं तत्राभिप्रायस्तावत्तव यादृशस्तादृशोवा सचनात्तावदयं दृष्टान्तः प्रतिभाति । दृष्टान्तश्च वादिप्रतिवादिनोरविवादविषय इति तत्साधनं व्यर्थम् । तथाऽप्युपेत्य चित्रवादं ब्रूमः त्वां प्रति चित्रं रूपं पटसम्बन्धितया साधयामस्त्वदभिप्रायव्याप्तोपहासनिराकरणायेत्यर्थः । पटस्य चित्रं रूपमित्यनुभव एवात्राबाधितः प्रमाणमिति भावः । बौद्धः स्वाभिप्रायमुद्घाटयति अनेकत्वप्रसङ्ग इति श्चेदिति । निराकरोति । चित्रशब्दस्यैकानेकविषयत्वात् । यदि नानैव चित्रमुच्येत ततः स्याद्विरोधः किं त्वेकस्मिन्नपि चित्रपदं प्रयुज्यते । तस्मान्नैकत्वेनास्य विरोध इत्यर्थः । देशक आह नैकस्मिन्नदृष्टत्वात् । एकस्मिंश्चित्रग्राहिणोऽनुभवस्यादृष्टत्वात् । पुरुषविवक्षाधीनप्रवृत्तयस्तु शब्दाः क्व नाम दुर्लभा इति भावः । परिहरति नाभ्युपेतहानेरिति । (५०७।१) न तावदनेकपदपर्यायश्चित्रशब्दोऽनेकं चित्रमित्यनेक प्रदेन सामानाधिकरण्यं प्रतिपत्तुमर्ह्वति । पर्यायशब्दानां सहप्रयोगानुपपत्तेः दृश्यते तु प्रयोगोऽनेकं चित्रमिति । तस्माद्यथा शुक्लानि नाना तथा चित्राणि नानेत्यभ्युपेतव्यम् । तथा चैकं शुक्लमनभ्युपगच्छतो यथा शुक्लनानात्वाभ्युपगमो हीयते एवमेवैकं चित्रमनभ्युपगच्छतश्चित्रनात्वाभ्युपगमो हीयतहत्यर्थः । शङ्कान्तरमाह । अथानेकमचित्रमिति । निराक्ररोति । एवमपीति । शङ्कते । अथाचित्राणीति । परिहरति एवं च न किं चिदिति । इष्यत एवास्माभिर्यथाऽवयवसमवेतैः सितहरितलोहितादिभिरसमवायिकारणैरवयविनि चित्रं रूपमारभ्यत इति । देशयति पुटान्तर इति । पुटान्तरं पार्श्वान्तरम् । परिहरति । भवतैवेदेमुक्तमिति । एकोऽपि गुण आरभत इति मत्वा शङ्कते । चित्रप्रत्ययस्तत्रेति । समाधते न प्रसक्त इति । ननु यच्चित्राचित्राभ्यामारब्धमवयविनो रूपं तदपि पीतादिवन्निद्दिंश्यतां न च शक्य निर्द्देष्टुं तस्मान्नास्तीत्यत आह । एतावदिति । अनिर्वाच्यमप्यनुभूयमानमशक्यापहूवम् । यथेक्षुक्षरीरादीनां माधर्यस्यान्तरं महदित्यर्थः । न तावदवयवरूपादयवविनो ग्रहणं युक्तमिति । न द्रव्यान्तररूपेण द्रव्यान्तरे चाक्षुषत्वं दृष्टं न खलु पृथिव्यादिरूपेण वायुश्चाक्षुष इत्यर्थः । प्रकृतमुपसंहरति । तस्मादिति । अविकल्पिता अविचारिता इत्यर्थः (५०८।५) ॥ १२ ॥

न्या.सू._४,२.१३: केशसमूहे तैमिरिकोपलब्धिवत्तदुपलब्धिः ॥

न्या.सू._४,२.१४: स्वविषयानतिक्रमेणेन्द्रियस्य पटुमन्दभावाद् विषयग्रहणस्य तथाभावो नाविषये प्रवृत्तिः ॥

सर्वाग्रहणमवयव्यसिद्धेरिति अत्र प्रत्यवस्थितः पूर्वपक्षी अथेदमाहेति ।
केशसमूहे तैमिरिकोपलब्धिवत्तदुपलब्धेरित्यादिसूत्रभाष्यवार्तिकानि पूर्वपक्षसिद्धान्तयोरतिरोहितार्थानि ॥ १३१४ ॥

न्या.सू._४,२.१५: अवयवावयवप्रसङ्गश्चैवम् आप्रलयात् ॥

अपि चायं वृत्तिविकल्पं आश्रयव्याघातादयुक्त इत्याह ।
अवयवावयविप्रसङ्गश्चैवमा प्रलयात् (सू. १५) ॥

अत्र त्रयः पक्षाः संभवन्ति । योऽयमवयवेषु अवयविवृत्तिविकल्पानुपपत्त्या अवयविनोऽभावप्रसङ्ग आपाद्यते स आ प्रलयाद्वा निवर्त्तता परमाणोर्वा न क्व चिदपि निवर्त्तते इति । तत्र प्रथम द्वितीयविकल्पावाश्रित्येदंसूत्रम् । यथैव वृत्तिविकल्पः स्थूले घटादाववयवेषु तदवयवेष्विति तदभावात्प्रलये व्यवतिष्ठेत । न च तदा प्रलयः सर्वोपाख्याविरहितो दर्शनविषयः संभवतीति दर्शनविषयाभावादनाश्रयो विकल्प आत्मानमेव न लभते । उपलक्षणं चैतदा प्रलयादिति । आ परमाणोरित्यपि द्रष्टव्यम् । परमाणूनामप्यतीन्द्रियत्वेन दर्शनविषयत्वाभावादनाश्रयता विकल्पस्य तदवस्थैव । तदिदमुक्तं निरवयवाद्वा परमाणुतो निवर्त्तेतेति ॥ १५ ॥ अथापीति ।

न्या.सू._४,२.१६: न प्रलयोऽणुसद्भावात् ॥

अपि चेत्यर्थः ।
अपि च प्रलयमभ्युपेत्येदमुक्तमा प्रलयादिति ।
वस्तुतस्तु ।
न प्रलयोऽणुसद्भावात् (सू. १६) ॥

निरवयवत्वे प्रमाणमाह ।
निरवयवत्वं तु परमाणोरिति ॥ १६ ॥

न्या.सू._४,२.१७: परं वा त्रुटेः ॥

अथानन्त एवायमवयवाक्यविविभागः कस्मान्न भवतीत्यत आह ।
परं वा त्रुटेः (सू. १७) ॥

त्रुटिस्त्रसरेणुरित्यनर्थान्तरम् । जालसूर्यमरीचिस्थं त्रसरेण रजः स्मृतम् । यदि त्रुटेः परं द्वित्रिपदकेऽवयवविभगो न व्यवतिष्ठते ततोऽवयवविभागस्यानवस्थानाद् द्रव्याणामसंख्येयत्वात् त्रुटित्वनिवृत्तिः त्रुटिरपि सुमेरुणा तुल्यपरिमाणः स्यात् । न खल्वनन्तावयवत्वे कश्चिद्विशेष इत्यर्थः । वार्तिकं यावद्वा प्रलयोऽनिवृत्तिर्वेति । प्रलयपरमाणुपक्षे विकल्पनिवृतिर्नास्ति दर्शनविषयस्तु नास्तीत्यनाश्रयो विकल्पः । अनन्तावयवत्वे सर्वस्य विकल्पाघ्रातत्वेव दर्शनविषयाभाव इत्यनाश्रयो विकल्पैत्यर्थः । संख्योदाहरणम् । इयन्तश्च ते परमाणवः संहतास्त्रुटिभावमापद्यन्त इति (५१०) । सावयवत्वे तु परमाणुशब्दस्यार्थो वक्तव्यः । किमुक्तं भवति परमाणुरिति परमत्वविशिष्टो ह्यणुः परमाणुः यतः क्षोदीयो नापरमस्तीति यावत् ।

तस्मादपि चेत् क्षोदीयोऽन्यदस्ति नैष परमत्वविशिष्टोऽणुरित्यर्थः ।
अथ भिन्नपरिमाणाः परमाण्ववयवास्ततो न्यूनपरिमाणा इति यावत् ।
ततो न परमाणुः प्रतिषिध्यते परमाण्ववयवा एव परमाणवस्ते चानवयवत्वादकार्याः ।
त्वया च परमाण्वारब्धं कार्यं परमाणुरिति कृत्वा आरोप्य वृत्तित्रिकल्पेन प्रतिषिध्यत इति ॥ १७ ॥

न्या.सू._४,२.१८: आकाशव्यतिभेदात् तदनुपपत्तिः ॥

अथेदानीमानुपलम्भिकस्तस्य व्याख्यानं सर्वं नास्तीति मन्वानं आह । आकाशव्यतिभेदात्तस्य परमाणोर्निरवयवस्यानुपपत्तिः । सावयत्वे तु वृत्तिविकल्पात्तदभाव इति शून्यतैव तत्त्वं भावानाम् । अनाश्रितोपि विकल्पो यथा लोकप्रतीतिकल्पनामात्रनिर्मितस्तात्त्विकीं शून्यतां गमयति । मिथ्याज्ञानानामपि तत्त्वावगमहेतुत्वदर्शनात् । यथा दूराद्वनस्पतौ हस्तिप्रत्ययप्रवाहो वनस्पतितत्त्वप्रतिपत्तेर्द्देतुः । यथा रेखागवयो वा गवयत्वप्रतिपत्तेरित्यादि बहूत्प्रेक्षितव्यमिति भावः । तेदतद्वार्त्तिककारोदूषयति । आकाशव्यतिभेदादनित्यः परमाणुरित्यभिधानो व्यतिश्रेदार्थं प्रष्टव्य इति ।

न्या.सू._४,२.१९: आकाशासर्वगतत्वं वा ॥

न्या.सू._४,२.२०: अन्तर्बहिश्च कार्यद्रव्यस्य कारणान्तरवचनादकार्ये तदभावः ॥

(५११।४) अन्तर्बहिरिति वचनं कार्यस्य कारणान्तरवचनमिति (५१२।३) कारणान्तरं कारणविशेषः तस्य वचनमित्यर्थः । उपेत्य परमाणोरवयवान्न तद्विभागस्याकाशं कारणमिति आकाशव्यतिभेदादित्याकाशहेतुकं व्यतिभेदं विभागमाह । न चाकाशं विभज्यमानयोर्द्रव्यान्तरयोर्विभागस्य कारणमपि तु कर्मेत्यर्थः । सर्वतोऽव्यवहितस्य यस्य मध्ये अवयवा न सन्तीति तत्सुपिरमिति । सर्वतोऽव्यवहितस्पय निरन्तरस्यावयविनः स्वावयवद्वारेण ।

एतदुक्तं भवति ।
यस्यावयवाः परितो निरन्तरमवस्थिता मध्ये च न सन्ति तत्सुषिरमिति ।
यन्मूर्तिमत्तेन सर्वेणसम्बध्यते ।
मूर्तिमता सर्वेण सम्बद्धत्त्वं सर्वतत्वं वदतो वार्तिककारस्याजसंयोगस्याभ्युपगमः प्रौढिवादतयेति लक्ष्यते ॥ १९२० ॥

न्या.सू._४,२.२१: सर्वसंयोगशब्दविभवाच्च सर्वगतम् ॥

न्या.सू._४,२.२२: अव्यूहाविष्टम्भविभुत्वानि चाकाशधर्मार्ः ॥

स्यादेतत्

आकाशं चेत्सर्वगतं ततो मूर्तिमतां द्रव्याणां तेन प्रतिबन्धाद्गतेरावरणं व्यूहान्तरापादनं च जलौघस्येव नावादिना भवेन्न चास्ति, तस्मान्न सर्वगतमित्यत आह ।
अव्यूहाविष्टम्भविभुत्वानि चाकाशधर्माः (सू. २२) ॥

यत एवाव्यूहाविष्टम्भावत एवाप्रत्यूहं विभुत्वमस्येत्यर्थः ॥ २२ ॥

न्या.सू._४,२.२३: मूर्तिमतां च संस्थानोपपत्तेरवयवसद्भावः ॥

पुनः शून्यतावादी प्रत्यवतिष्ठते ।
मूर्त्तिमतांव च संस्थानोपपत्तेरवयवसद्भावः (सू. २३) ॥

चस्त्वर्थः सिद्धान्तं निवर्त्तयति । यद्यपि मूर्तिमतामिति संबन्धित्वमात्रेणोपात्तं सूत्रं तथापि हेतुपदतया वार्तिककारोव्याचष्टे । सावयवाः परमाणवोमूर्त्तिमत्त्वाद् घटादिवदिति । (५१३।१९) प्रयोगान्तरमाह संस्थानवत्त्वादिति ॥ २३ ॥

न्या.सू._४,२.२४: संयोगोपपत्तेश्च ॥

सूत्रान्तरमनुवृत्तिसहितं पठति ।
संयोगोपपत्तेश्च (सू. २४) ॥

इति ।

न्या.सू._४,२.२५: अनवस्थाकारित्वादनवस्थानुपपत्तेश्चाप्रतिषेधः ॥

पौनरुक्त्यं देशयति । नन्विदमिति (५१४।४) परिहरति । न चरितार्थमिति । मूर्तिर्नामाव्यापिनो द्रव्यस्य षड्विधं परिमाणमिति । परमह्वस्वत्वपरमाणुत्वे परमसूक्ष्म एव द्रव्ये व्यवतिष्ठेते व्यापि तु गृहीत्वा परममहत्त्वपरमदीर्घत्वाभ्यामष्टविधं परिमाणं भवति । परममहत्त्वपरमदीर्घत्वं च सर्वगतव्यापिनी इति न मूर्तिः । असर्वगतद्रव्यपरिमाणं मूर्त्तिरिति पारमर्षंवचनात् । संस्थानं नाम प्रचयाख्यः संयोगो घटादिवृत्तिर्घटत्वादिजातिव्यक्तिहेतुरिति । संयोगः संयोगमात्रं न त्वप्राप्तिपूर्विका प्राप्तिरिति । तस्मादपौनरुक्त्यम् । तदेतच्छून्यतामतमपाकरोति । यत्तावन्मूर्तिमत्त्वादिति । शून्यतावादी प्रलयान्तत्वाभिमानेनाह । अथ तावदिति । सिद्धान्त्याह अन्तो निरवयव इति । प्रलयान्तत्वमधस्तान्निकाकृतमिति भावः । नन्वधस्तान्निराकरणान्मा भूत्प्रलयान्तो विभागो विभागान्तस्तु भविष्यति किं परमाण्वन्तताग्रहेणेत्याशङ्कते । अथान्तो विभागः । निराकरोति । स न युक्त इति । नासति गुणिनि गुणोऽस्तीत्यर्थः । एतावन्तश्च कल्पाः सम्भविनः । तत्र प्रथमकल्पे अनैकान्तिकत्वव्याघातौ द्वितीये विभागस्यानाधारत्वप्रसङ्गः तृतीये त्रुटेरमेयत्वप्रसङ्ग इत्याह । एतावच्चैतत् (कल्पजातं) स्यादिति । परमाण्वन्ततां विभागस्य ब्रुवन्निरवयवं मूर्त्तिमन्तं परमाणुं प्रतिपद्यस इति । अनन्तत्वे तु त्रुटेरमेयत्वप्रसङ्गो व्याघातः । प्रलयान्तत्वे च विभागस्यानाधारत्त्वप्रसङ्गो व्याघातः । सावयवशब्दस्यार्थः समानजातीयावयवं न केवलं तदारव्धमपि तु तदाश्रितम् । तन्त्वाद्यारब्धं पटादि द्रव्यं तन्त्वाद्याश्रितं च । नन्वेवमपि कुतः सावयवत्वमित्यत आह । अवयवस्तदाधारस्तस्य समानजातीयारब्धस्य कार्यद्रव्यस्याधारः तस्मात्सावयवत्वं कार्यविशेषः तस्मात्सावयवाः परमाणव इत्यतिब्रुवता कार्यविशैषः परमाणुरित्युक्तं भवति । कार्यविषेश्च परमाणुरिति व्याहतम् । (५१५।२) आनन्त्ये तु त्रुटेरमेयत्वप्रसङ्गात् । सा खल्वनवयवस्य कल्पितस्य परमसूक्ष्मतया परमाण्वाख्या तेन परमाणुरिति किमुक्तं भवति अनवयवोऽकार्यश्चेति । सावयव इति किमुक्तं भवति सावयवः कार्यश्चेति । प्रतिज्ञापदयोर्व्याघातैत्यर्थः । अथ मा भूत्त्रृटेरमेयत्वमित्येकपरमाणुपूर्वकत्वं परमाणोः प्रतिपद्यसे । शेषमतिरोहितार्थम् । यदि द्वे द्रव्य अधिकृत्याभिधीयत इति । मध्यस्य हि परमाणोरुपयर्धः पार्श्ववर्तिभिः परमाणुभिर्ये संयोगास्तत्र मध्यस्य पूर्वेण परमाणुना यः संयोगो नासौ मध्यपश्चिमपरमाण्वाश्रितः एवं मध्यमपरमाणुसंयोगो नैव मध्यमपूर्वपरमाण्वाश्रय इति । एव मन्यत्रापि द्रष्टव्यम् । षडपि भिन्नदेशा एवेति समानदेशत्वमंसिद्धम् । अथ परमाणूनां सम्बन्धिनं परमाणुं मध्यमधिकृत्योच्यते तदाश्रिता हि संयोगाः षडपि भवन्तीति तत्राह । न किं चिद्बाध्यत इति । (५१७।२) स्यादेतत् । संयोगसमानदेशत्वेन परमाणवोऽपि संयुक्ताः समानदेशा इति पिण्डस्याणुमात्रत्वप्रसङ्ग इति परोक्तमनुवदति । यत्पुनरेतदिति । तद् दूषयति । तन्नेति । यत्र यत्समवेतं स तस्य दोशो यथा रूपादीनां द्रव्यं, न च परमाणवः क्व चित्समवयन्ति किं तु तत्संयोगाः । तेन देशवतां संयोगानामस्तु समानदेशता न तु परमाणूनामदेशत्वादित्यर्थः । देशयति । ननु कार्यकारणे इति । यथेह कुण्डे बदरमिति यथा बदरं कुण्डदेश एवं तदवयवास्तदवयवाः । न च समवाय एव देशदेशित्वनिबन्धनमपि तु संयोगोऽपि । न हीह कुण्डे बदरमिह पटे शुक्लत्वमिति वा आधार्याधारप्रत्ययो विशिष्यते । तस्माद्बहूनां द्रव्याणां समानदेशत्त्वदर्शनान्नासिद्धो दृष्टान्त इत्यर्थः । तद् दूषयति । एतदनभ्युपगमेन प्रत्युक्तम् । द्रव्याणामेकत्र समवायेन समानदेशतां व्यासेधामो न तु संयोगेन, समवायेन हि समानदेशता स्थौल्यपरिपन्थिनी । यथा गन्धरसरूपस्पर्शाः समानदेशा न स्थौल्यमारभन्ते तत्कस्य हेतोः एषाममूर्तानां समानदेशसमवायात् । मूर्तास्तु स्पर्शवन्तः समवायेनासमानदेशाः परस्परसंयोगिनो यदि स्थौल्यमारभन्ते किं बाध्यते तस्मात्संयोगिनो यदि स्थौल्यमारभन्ते किं बाध्यते तस्मात्संयोगेन समानदेशता न प्रतिषध्यते समवायेन तु प्रतिषिध्यते सा हि स्थौल्यविरोधिनीति सिद्धम् । अभ्युपेत्यैवमुक्तं संयोगाः समानदेशा इति । परमार्थतस्तु कुण्डबदरसंयोगस्य कुण्डबदरे आश्रयः तदवयवकुण्डबदरसंयोगस्य कुण्डबदरावयवा इति सिद्धं संयोगानामपि भिन्नदेशत्वमित्याह । न च संयोगा अपीति । उपसंहरति । षण्णां समानदेशत्वादिति । वाक्यमिति । यत्पुनरुक्तं दिग्देशभेदो यस्यास्ति तस्यैकत्वं न युक्तमिति । परमाणोः किल भवदभिमतस्यैकस्य दिग्भागाः षट्, न चैकस्य दिग्भागे भेदोऽस्तीति षडेव परमाणवः । एतद् दूषयति क एवमाह दिग्देशभेदो (यस्या) स्तीति । स्वरूपेणैका दिक् सर्वगता च नास्या भेदोऽस्तीत्यर्थः । यद्येकैव दिक् क्व तर्हि परमाणावस्मादयं परमाणुः पूर्वोऽयं पश्चिम इत्यादयो बुद्धिव्यपदेशभेदा इत्यत आह । दिग्देशभेदाश्च दिशः संयोगा एकत्वेऽपि दिश आदित्योदयदेशप्रत्यासन्नदेशसंयुक्तो यः सैतरस्माद्विप्रकृष्टदेशसंयोगात्परमाणोः पूर्वःप एवमादित्यास्तमयदेशप्रत्यासन्नदेशसंयुक्तो यः स इततस्माद्विप्रकृष्टदेशसंयोगात्परमाणोः पश्चिमः तौ च पूर्वपश्चिमौ परमाणू अपेक्ष्य यः सूर्योदयास्तमयदेशविप्रकृष्टदेशसंयोगः स मध्ववतीं । एवमेतयोर्यौ तिर्यग्देशसम्बन्धिनौ मध्यस्य आर्जवेन व्यवस्थितौ पार्श्ववर्तिनौ तौ दक्षिणोत्तरौ परमाणू एवं मध्यन्दिनवर्तिसूर्यसन्निकर्षविप्रकर्षौ पूर्वसंख्यावच्छिन्नत्वं चाल्पत्वं परसंख्यावच्छिन्नत्वं च भूयस्त्वम् । तस्मादेकस्यापि परमाणोः परमाण्वन्तरसंयोगा अव्याप्यवृत्तय एव भागाः । एवं दिशोऽप्येकस्या अपि संयोगा एव भागाः सोऽयं परमाणोः षट्केन युगपद्योगो मूर्त्तत्वमात्रप्रयुक्तो न सावयवत्वप्रयुक्त इति न सावयवत्वं गमयितुमर्हतीति । तेन युदच्यते प्रसङ्गसाधनं परैः यन्निरयवं तन्न षट्केन संयुक्तं यथा विज्ञानं तथा च परमाणुरिति व्यापकविरुद्धोपलब्धिरिति तन्निरस्तम् । मूर्तत्वप्रयुक्तत्वेन षट्कसंयोगस्य सावयवत्वेन व्याप्तेरसिद्धेः । छायातपयोगोऽपि परमाणोरेकसंयोगस्याव्याप्यवृत्तित्वेनोपपन्नः । नन्वनवस्था नोपपद्यत इत्युक्तं तत्कुत इत्यत आह भाष्यकारः । अनवस्थायां प्रत्यधिकरणं द्रव्यावयवानामानन्त्यात् । क्रियावत्त्वादीनहेतून् सर्वथा विकल्प्य वार्तिककारो दूषयति । ये तु क्रियावत्त्वादिति ।

एतेनासिद्धत्वेन ।
न हि घटादिकमवयविनमनभ्युपगच्छतो घटादिरस्तीत्यर्थः ।
मतुपश्चार्थान्तरे दृष्टत्वाद्विरुद्ध इति ।
क्रिया परमाणोरर्थान्तरमनिच्छतो मतुप्प्रयोगो विरुद्ध इत्यर्थः ॥ २५ ॥

न्या.सू._४,२.२६: बुद्ध्या विवेचनात्तु भावानां याथात्म्यानुपलब्धिस्तन्त्वपकर्षणे पटसद्भावानुपलब्धिवत्तदनुपलब्धिः ॥

विज्ञानवाद्याह यदिदं भवान् बुद्धीरिति । यदि पटस्तन्तुभ्योभिन्नो भवेत्तन्त्वतिनेकेण गौरिवाश्वातिरेकेणोपलभ्येत । न चोपलभ्यते तस्मात्पट इति मिथ्याबुद्धिरियम् । तन्तुरित्यपि मिथ्याबुद्धिरंशुभ्यो भेदेनानुपलम्भात् । एवमंशुरित्यपि । तदनेन क्रमेण परमाणुष्वपि बुद्ध्या विविच्यमानेषु याथात्म्यानुपलब्धेर्न बाह्यवस्तु स्थूलं वा क्षोदीयो वास्तीति सर्वा एव बुद्धयः स्वाकारमबाह्यं बाह्यतया आलम्बमाना मिथ्याभूता इति । ननु पटादयः सावयवा भवन्त्वेवं परमाणूनां त्वनवयवत्वाद् बुद्ध्या विवेचनाद्भावानां याथात्म्योपलब्धिरित्यत आह । परमाणवोऽपि भागशोविभज्यमानाम्तावद्यावत्प्रलय इति (५१९।१७) । भवन्तु परमाणवोऽनवयवाः संयोगेभ्यस्तु षड्भ्यो बुद्ध्या विविच्यमानस्य याथात्म्यमुपलभ्यत इति ॥ २६ ॥

न्या.सू._४,२.२७: व्याहतत्वादहेतुः ॥

तदेतद् दूषयति । व्याहतत्वादहेतुरिति । यस्य विविच्यामानस्य याथात्म्यानुपलब्धिस्तत्कुतश्चिद्विवेचनीयम् अवध्यभावे तदनुपपत्तेः । तथा च तेनावधिपना क्व चिदवस्थातव्यम् । अनवस्थायां त्रुटेरमेयत्वप्रसङ्गादित्युक्तम् । तस्मात्परमाणुषु वा तत्संयोगेषु वा तेनावस्थातव्यम् । तथा च यतो विविच्यते भावः स एवास्पयावधिर्याथात्म्येनोपलभ्यत इति बुद्ध्या विविच्यमानस्य सर्वभावानुपपत्त्याव्याघात इति सिद्धम् । दूषणान्तरमाह । सर्वभावानुपपत्तिरिति । (२५०।५) प्रमाणस्यापि भावात् तद्गतत्वेन तदनुपपत्तौ सर्वभावानुपपत्तिरित्यर्थः ॥ २७ ॥

न्या.सू._४,२.२८: तदाश्रयत्वादपृथग्ग्रहणम् ॥

तदाश्रयत्वादपृथग्ग्रहणम् (सू. २८) ॥

अपृथग्ग्रहणादिति ब्रुवाणः प्रष्टव्यो जायते । किं विलक्षणव्यवहाराभावः उत भेदाभावः उत तन्तुव्यतिरेकेण देशान्तरेऽनुपलम्भ इति । न तावदाद्यः तन्तवो हि भिन्नाभबुद्धिवेद्याः पटस्तु अभिन्नाभबुद्धिवेद्य इति । नापि द्वितीयः ।

तन्तूनामंशुदेशत्वात् पटस्य तन्तुदेशत्वात् ।
तस्मात्तन्तुभ्योऽन्यत्रादर्शनमपृथग्ग्रहणं तच्च भेदेऽपि तदाश्रितत्वेनोपपद्यमानं नाभेदं गमयितुमर्हतीत्यर्थः ।
भाष्यं बुद्ध्या विवेचनात्तु भावानां पृथग्ग्रहणमतीन्द्रियेष्वणुषु ।
यत्र खल्ववयवावयविनावैन्द्रियकौ तत्र पृथग्ग्रहणमविवेचकानामस्फुटतरमतीन्द्रियेभ्योऽणुभ्य आनुमानिकेभ्यः प्रत्यक्षदृश्यानां तदाश्रितानामवयविनां पृथग्ग्र्हणमित्यतिस्फुटमित्यर्थः ॥ २८ ॥

न्या.सू._४,२.२९: प्रमाणतश्चाथप्रतिपत्तेः ॥

संप्रत्यैन्द्रियकेऽप्यवयवेऽवयविनो विविच्यमानस्य याथात्म्येन पृथग्ग्रहणमाह । प्रमाणतश्चार्थप्रतिपत्तेरिति । यदस्तिपटादिकमवयवि द्रव्यं यथा च स्वावयवसमवेतत्वेन गुणाधारतया च,

यन्नास्तिशशविषाणादि, यथा चकार्यकारणभावेन, तत्सर्वं प्रमाणत उपलब्ध्या सिध्यति ।
सुगमं भाष्यम् ॥ २९ ॥

न्या.सू._४,२.३०: प्रमाणानुपपत्त्युपपत्तिभ्याम् ॥

न्या.सू._४,२.३१: स्वप्नवविषयाभिमानवदयं प्रमाणप्रमेयाभिमानः ॥

यदुक्तं प्रमाणोपपत्त्यनुपपत्तिभ्यां न सर्वभावानुपपत्तिरिति । तत्र प्रत्यवतिष्ठते विज्ञानवादी ।

स्वप्नविषयाभिमानवदयं प्रमाणप्रमेयाभिमानः (सू. ३१) ॥

न खलु वास्तवः प्रमाणप्रमेयभावः किं त्वनादिवासनानिबन्धनकल्पनाधीनः ।
यथा हि न स्वप्ने सन्ति विषया अथ च प्रतिभान्ति कल्पनामत्रेण तथा च सांवृतेनापरमार्थसता प्रमाणप्रमेयभावेन बाह्यार्थशून्यता सिध्यति परमार्थसती प्रत्ययानां दृष्टा मिथ्याप्रत्ययानामपि तत्त्वप्रतिपत्तिहेतुतेत्यावेदितं पुरस्तादित्यर्थः ।
तद्व्याचष्टे वार्त्तिककारः ।
यथा न स्वप्ने विषयाः सन्तीति ॥ ३१ ॥

न्या.सू._४,२.३२: मायागन्धर्वनगरमृगतृष्णिकावद्वा ॥

ननु स्वप्नप्रत्ययानामस्त्वेवन्धर्मकत्वं ये पुनरभी जाग्रत्यत्प्रयाः स्तम्भ इति वा कुम्भ इति वा किमायातं तेषामत्यन्तवैलक्षण्यादित्यत आह ।
मायागन्धर्वेति ।
जाग्रत्प्रत्यया अप्येवंविधाः सहस्रशो दृश्यन्ते न चैते स्तम्भकुम्भादिप्रत्ययास्ततो विलक्षणा इत्यर्थः ॥ ३२ ॥

न्या.सू._४,२.३३: हेत्वभावादसिद्धिः ॥

तदेतद्दूषयति ।
हेत्वभावादसिद्धिः (सू. ३३) ॥

न्या.सू._४,२.३४: स्मृतिसंकल्पवच्च स्वप्नविषयाभिमानः ॥

तद्व्याचष्टे भाष्यकारः । स्वप्नान्ते विषयाभिमानवदिति । अन्तशब्दोऽवयववचनोऽप्याश्रितत्वमात्रेणावस्थायां प्रयुक्तः । तेन स्वप्नावस्थाया मित्यर्थः । एतदुक्तं भवति स्वप्नज्ञानस्यायाथार्थ्यमिच्छता वाधकपन्तरेण तदनुपपत्तेर्जाग्रत्प्रत्ययोऽस्य बाधको वक्तव्यः न चासावसमीचीनस्तद्बाधितुमुत्सहत इति समीचीनत्वं जाग्रत्प्रत्ययस्याभ्युपगन्तव्यम् । तथा च जागरितान्ते विषयोपलब्धिवदित्यनुपपन्नम् । वार्त्तिकं ख्यातिरिति चेत् । प्रत्ययत्वमेव स्वप्नोदाहरणसहितं प्रमाणप्रमेयाभिमानभिथ्यात्वे हेतुरित्यर्थः । विपर्यये च सामर्थ्याभावादिति । पूर्वं प्रतिबुद्धेनेति विशेषणं विवक्षित्वोक्तम् । अधुना त्वनुपलब्धेरिति विवक्षित्वोच्यतैत्ययौ नरुक्त्यम् । अत्र विज्ञानवादी स्वपक्षे प्रमाणमाह । न चित्तव्यतिरेकिणो विषयाः ग्राह्यत्वाद् वेदनावदिति । इदमत्राकूतम् । विज्ञानस्य हि बाह्योर्ऽथो ग्राह्यो भवन्निराकारस्य सत्तामात्रेण वा भवेत् कारणत्वेन वा एकसामग्र्यधीनत्वेन वा ज्ञानाहितफलाधारत्वेन वा । न तावत्सत्तामात्रेणान्यस्यान्यो विषयः सत्तामात्रस्य विषयान्तरेषु भावात्सर्वेऽर्थाः सर्वविषया इति सर्वसर्वज्ञतापत्तिः । न च सत्तामात्रामपि विषयत्वव्यवस्थापकम् असतोऽपि विषयत्वात् । अत एव न कारणत्वेन विषयभावः । अपि च चक्षुरादयोऽपि विज्ञानस्य कारणमिति विषया रूपविज्ञानस्य प्रसज्येरन्, वर्त्तमानावभासि च विज्ञानं न भवेत् । क्षणिकत्वेनोत्पादकस्यार्थक्षणस्योत्पाद्यविज्ञानसमये विनिपातात् । एकसामग्र्यधीनत्वेन तु विषयत्वे वर्त्तमानावभासितोपपद्यते । सा तु नोपपद्यते असतोरप्यतीतानागतयोर्ग्रहणे व्यापकत्वादतिव्यापकत्वाच्च इन्द्रियादिक्षणस्यैकसामग्र्यधीनस्यालम्बनत्वप्रसङ्गात् । विज्ञानाहितफलाधार आलम्बनमिति चेत् किं पुनर्विज्ञानेनार्थे जन्यते प्राकट्यं न चैतदर्थधर्मोऽपि शुक्लादिवत्सर्वपुरुषसाधारणम् । ज्ञानाहितस्यार्थधर्मस्यापि ज्ञानवन्तं प्रत्यसाधारणत्वदर्शनात् । यथा यस्यापेक्षाबुद्धिजनितं द्वित्वमर्थधर्मः सोऽपेक्षाबुद्धिमन्तमेव पुरुषं प्रत्यसाधारण इति । तन्न अव्यापकत्वात् । सन्ति खल्वतीतानागतविषयाणि सहस्रशो विज्ञानानि शब्दानुमानजानि च, न चैतन्यर्थे फलमाधातुमुत्सहन्ते अर्थस्य तदानीमसम्भवात् । न खल्वस्ति सम्भवोऽसन्ननुत्पन्नरूपो धर्मी धर्मोऽस्याविनश्यन् प्रत्युत्पन्नरूप इति । स्वकारणादात्मानात्मप्रकाशनशक्तियुक्तमुत्पद्यते ज्ञानं तादृशं येन कश्चिदेवास्य विषयो न सर्वमिति चेत् । हन्त भोः शक्तेः शक्यनिष्ठत्वात्किमस्य शक्यमिति वक्तव्यम् । अर्थ इति चेन्न । न तावदयमस्य निर्वर्त्यः अर्थस्यैव ज्ञाननिर्वर्त्तकत्वात् । न चार्थाधारं फलमाधत्तैत्युक्तम् । न चासति शक्ये शक्तिसंभवः तस्मादनाकारं विज्ञानं बाह्मं गोचरयतीति मनोरथमात्रम् । अस्तु साकारमेव बाह्यगोचरम् । तथा हि नीलाद्याकारं ज्ञानं नीलादिगोचरम् । नीलमस्य स्वरूपं यतः । अत्रैवं वक्तव्यम् । किं सर्वात्मना सारूप्यभावाद् विषयभाव आहो कथं चित्सारूप्यभावात् । न तावदर्थस्य जडात्मनो ज्ञानेन प्रकाशात्मना सर्वथा सारूप्यं सारूप्ये ज्ञानमपि जडं भवेदिति ज्ञानत्वहानिः । एकदेशेन च सारूप्ये तत् क्व नाम नास्तीति सर्वं ज्ञानं सर्वं वेदयेत् । अपि च नीलज्ञानात्समनन्तरप्रत्ययादुत्पन्नं ज्ञानं न तथा नीलार्थसरूपं यथा नीलज्ञानसरूपमिति समनन्तरप्रत्ययतत्सारूप्याभ्यां विषयः स्यानन चैतदस्ति, तस्मान्न सारूप्यसमुत्पत्ती अपि विषयलक्षणम् । स्तामस्य सारूप्यसमुत्पत्ती मनस्कारेन्द्रियादिभिस्तथापि यमध्यवस्यति सोऽस्य विषयोऽर्थं चाध्यवस्यतीति अर्थ एवास्य विषयो न मनस्कारादीतिचेत् । अथ कोऽयमध्यवसायः।न तावद्ग्रहणं न खलु द्वावाकारौ गृह्येते नीलमित्यनुभवो न तु नीले इति । स्वाकारस्य बाह्यसमारोपोऽध्यवसाय इति चेत् । स किं गृह्यमाणे बाह्ये उतागृह्यमाणे । न हि नीलद्वयं प्रकाशतैत्युक्तम् । न चारोपविषयमगृहीत्वारोप्यमारोपयितुमर्हतीति । न ह्यननुभवन् पुरोवर्तति शुक्लभास्वरं रजतमारोपयति तत्र । अपि चागृह्यमाणे बाह्ये प्रवृत्तिनियमो न भवेत् । इतरेषामगृह्यमाणत्वेनाविशेषात्तेष्वपि प्रवृत्तिप्रसङ्गात् । न च साकारज्ञाननये बाह्यसद्भावे प्रमाणमस्ति अगृह्यमाणत्वात् । ननु नीलाद्याकारस्य कादाचित्कत्वमेव प्रमाणम् । तथाहि यद्यस्मिन्सत्यपि कदा चिद्भवेत्तत्तदितरापेक्षम् । यथा सत्यपि सोपाने विच्छिन्नगमनरचनप्रतिभासाः प्रत्ययाः सन्तानान्तरापेक्षास्तथा च सत्यप्यालयसंताने षडपि प्रवृत्तिप्रत्यया इति स्वभावहेतुः । वासनापरिपाकप्रत्ययकादाचित्कत्वात् कदा चिदुत्पाद इति चेत् । नन्वेकसन्तानपतितानामालयज्ञानानां तत्तत्प्रवृत्तिविज्ञानजननशक्तिर्वासना तस्याश्च कार्यजननं प्रत्याभिमुख्यं परिपाकः तस्य च प्रत्ययः स्वसन्तानवर्त्ती पूर्वक्षणो हेतुः सन्तानान्तरापेक्षानभ्युपगमात् । तथा च सर्वे आलयसन्तानपतिताः परिपाकहेतवो भवेयुः न वा कश्चिदपि अविशेषात् । क्षणभेदाच्छक्तिभेदस्तस्य कादाचित्कत्वात्कार्यकादाचित्कत्वमिति चेत् । नन्वेकस्यैव नीलविज्ञानजननसामर्थ्यं शक्तिप्रबोधजननसामर्थ्य च क्षणान्तरस्य तन्न स्यात् । सत्त्वे वा कथं क्षणभेदात्सामर्थ्यभेद इत्यालयसन्तानवत्रिनः सर्वे समर्था इति समर्थहेतुसद्भावे कार्यक्षेपानुपपत्तिः । स्वसन्तानमात्राधीनत्वे तु निषेध्यस्य कादाचित्कत्वस्य विरुद्धं सदातनत्वं तस्योपलब्ध्या तु कादाचित्कत्वं निवर्त्तमानं हेत्वन्तरापेक्षत्वे व्यवतिष्ठत इति प्रतिबन्धसिद्धिः । न च संतानान्तरनिमित्तानि प्रवृत्तिविज्ञानानि सन्तत्यन्तराणामपि नित्यसन्निधानाद्विज्ञानानामदेशात्मकत्वेन दूरत्वानुपपत्तेर्व्यतिरिक्तस्यानभ्युपगमात् । नापि कालतो विप्रकर्षसम्भवः अपूर्वसत्त्वप्रादुर्भावानभ्युपगमात् । तदिदमनुमानं सौत्रान्तिकानां बाह्याम्युपगम इति । तदयुक्तम् । स्वसन्तानमात्रनिमित्तत्वेऽपि नीलादिविज्ञानानां कादाचित्कत्वोपपत्तौ सन्दिग्धव्यतिरोकित्वेन हेतोरनैकान्तिकत्वात् । ननूक्तम् न क्षण्भेदः कार्यभेदहेतुरिति कल्पितस्य सन्तानस्य सर्वसामर्थ्यविरहिणो भेदः कार्यभेदहेतुरिति न तु परमार्थसतः क्षणस्य कार्यभेदहेतुत्वमिति कोऽन्यो भदन्ताद्वक्तुमर्हति । ननु यदि क्षणभेदः शक्तिभेदहेतुस्ततो भिनानां क्षणानां नैका शक्ति स्यात् तथा चैकेन केन चिन्नीलज्ञाने जनिते तन्नीलज्ञानं क्षणान्तरान्न स्यात् । यदि भिन्नानां नैकं सामर्थ्यम् । अथ बाह्यार्थवादिनोऽपि कथं भिन्नानां नीलोत्पलसन्तानानामेकनीलोत्पलाकारज्ञानधारासामर्थ्यम् । यद्युच्यते अन्यदेव नीलविज्ञानं यन्नीलोत्पलसन्तानान्तरात् । वयमपि ब्रूमहे अन्यदेव नीलविज्ञानं यत् क्षणान्तरादिति । तस्मात्कश्चिदेव तादृशः स्वलक्षणभेदो जायते यः कं चिदेव कार्यभेदं जनयति न कार्यान्तरमिति । तस्मात्साकारस्यापि ज्ञानस्यार्थो न गोचरो । न चागोचरः शक्योऽनुमातुमिति । न च प्रत्यक्षवदनुमानमप्यर्थगोचरं तस्मात्साधूक्तं वार्त्तिककृता न चित्तव्यतिरेकिणो विषयः ग्राह्यत्वाद्वेदनावदिति । नीलादयो हि विषया उभयवादिसिद्धास्तेषां चित्तभेदाभेदयोर्विप्रतिपत्तिः । तत्रैषां चित्तव्यतिरेकः परैरभ्युपगतः प्रतिषिध्यते यावांश्च प्रतिषिध्यते सर्वोऽनुपलब्धेरिति ग्राह्यत्वादित्ययं हेतुर्विरुद्धव्याप्तोपलब्धिः प्रतिषेध्यश्चित्तव्पयतिरेकस्तद्विरुद्धस्तदव्यतिरेकस्तेन व्याप्तं ग्राह्यत्वं तस्योपलब्धिरेव तन्निषेध्यस्यानुपलब्धिरिति । अत्र तावदेतद्वक्तव्यम् । ग्राह्यत्त्वस्याभेदेन व्याप्तौ सत्यां भेदं निवर्तयेद् न त्वभेदेनास्य व्याप्तिः । तथा हि यदेतन्नीलं स्थूलं विच्छिन्नमुपलभ्यते तस्यास्य विच्छेदः स्थौल्यं च न ज्ञानस्यात्मा, नानादिग्देशव्यापिता हि स्थौल्यम् । न चैकमदिग्देशात्मकमनवयवं विज्ञानं नानादिग्देशव्यापि सम्भवति । यथाह । तस्मान्नार्थे न विज्ञाने स्थूलाभासस्तदात्मनः । एकत्र प्रतिषिद्धत्वाद्वहुष्वपि न सम्भव इति । एवमर्थविच्छेदोऽपि न ज्ञानात्मकः । तस्य तथात्वे परमार्थतोर्ऽथाद्विच्छिन्नं ज्ञानं स्यात् । तस्मादयमपि न ज्ञानमित्यसन्नभ्युपगन्तव्यः । न च सदसतोरेकत्वमित्यनात्माऽपि विज्ञाने प्रकाशतैत्यनिच्छताऽपि स्वीकर्त्तव्यम् । तथा च सदपि प्रकाशिष्यते । नन्वनात्म्न्यर्थेऽकिंञ्चित्करं विज्ञानं कथमर्थप्रकाशकम् । अथाकिञ्चित्करं ज्ञानं स्थौल्ये कथमस्य प्रकाशकम् । स्वभावादिति चेत् अत्राप्यसौ न दण्डवारितः । यद्धि यस्य स्वभावः तस्य नान्यापेक्षा यथा लिङ्गस्य स्वसाध्यसम्बन्धे । स्वभावतश्चार्थस्य ज्ञानमिति न तदीयत्वे अन्यदपेक्षते । असम्बद्धत्वात्कथं ज्ञानमर्थस्येति चेद् अथ सम्बन्ध एव सम्बन्धिनोः कथम् । सम्बन्धान्तरकल्पनायामनवस्था । तस्माद्यथा सम्बन्ध एव सम्बन्धान्तरमन्तेरण सम्बन्धिनोः एवं ज्ञानमपि सम्बन्धान्तरमन्तरेणार्थस्येति समानम् । न चातिप्रसङ्गः । स्वकारणादुत्पन्नस्य कस्य चिद्विज्ञानस्य कश्चिदेव विषयो नान्यः । न स्वभावाः पर्यनुयोगमर्हन्ति एवं भवतैवं मा भवत एवं कस्मान्न भवतेति । अकिञ्चित्करस्य रूपविज्ञानस्य कथं रूपविषयतेति चेत् । किं रूपविज्ञानं प्रमाणं विवक्षित्वेदमुच्यते आहो फलं विवक्षित्वा । यदि प्रमाणं ततो न तदकिञ्चित्करं तत्र हानोपादानोपेक्षाप्रसवहेतुत्वात् । अथ फलं तदयुक्तम् । क्व नाम फलं किञ्चित्करं न हि गतिजन्या नगरप्राप्तिश्चैत्रस्य चैत्रनगरसंयोगसमवायाय किं चित्करोति । एवमर्थविषयत्वाय स्वाभाविकाय न ज्ञानेन किं चिदपरं जनयितव्यम् । अर्थप्रतिबद्धत्वं ज्ञानस्यार्थविषयत्वं न हि ज्ञानिमनुव्यवसायज्ञानेन निरूप्यमाणमर्थनिरूपणं विना शक्यं निरूपयितुमित्युक्तम् । कर्मण्यसमवेतं कथं कर्मणः । तत्पारतन्त्र्यादिति चेत् किमिदं पारतन्त्र्यम् । तन्निरूपणाधीननिरूपणत्वमिति चेत् तदिहापि समानमन्यत्राभिनिवेशात् । तस्मादभेदेन ग्राह्यस्याव्याप्यत्वाद्ग्राह्यत्वं विरुद्धव्याप्तं न भेदं निवर्तयितुमर्हतीति दूषणे स्थवीयसि सत्येव दूषणान्तरमाह वार्तिककारः वेदना सुखदुःखे चित्तं विज्ञानमिति । अभ्युपेत्याह अथाभिन्नंविज्ञानं वेदनात इति । (५२२।१)यथाऽङ्गुल्यग्रं न तेनैवाङ्गुल्यग्रेण स्पृश्यते एवं ज्ञानं न तेनैव ज्ञानेन ग्रहीतुं शक्यते । ननु न गृहीतिर्ग्राह्या न ह्यस्याः कर्मभावो विद्यते क्रियाफलशालितया कर्म भवति न चास्यामस्ति फलान्तरम्, अपि तु स्वयमाविर्भूतस्वभावा गृहीतिरपराधीनप्रकाशा ग्राह्येत्युच्यते । यदि वैषा स्वयं न प्रकाशेत नार्था अपि प्रकाशेरन् तत्प्रकाशाधीनप्रकाशा हि ते । तथा हि यद्यत्प्रकाशाधीनप्रकाशं तत्तस्मिन् प्रकाशमाने प्रकाशते यथा दण्डप्रकाशाधीनप्रकाशो दण्डिप्रकाशः ज्ञानप्रकाशाधीनप्रकाशश्च विषय इति स्वभावहेतुः न च ज्ञानादन्यत्स्वसंवेदनं न दृष्टमित्येतावता स्वसंवेदनं विज्ञानं न भवेदिति दर्शनादर्शनाभ्यां न हेतुर्गमकोऽपि तु स्वसाध्याविनाभावात् स च विपर्यये बाधकप्रमाणप्रवृत्त्या सिध्यतीति कृतं दृष्टान्तेनेत्यत्र आह । न कर्म क्रिया चैकं भवतीति । इदमत्राकूतम् । किं पुनरिदमर्थानां संवित्प्रकाशाधीनत्वप्रकाशत्वं नाम न हि संवित्प्रकाशेनार्थे प्रकाशान्तरं जन्यते । अपि च लिङ्गप्रकाशाधीनप्रकाशो हि लिङ्गिप्रकाशः न च लिङ्गे प्रकाशमाने प्रकाशते किं तु लिङ्गप्रकाशे विनष्टे । यद्युच्येत न ज्ञानादतिरिक्तोऽरथप्रकाशो ज्ञानप्रकाशश्च किं तु ज्ञानमेव स्वसंवेदनमर्थस्य स्वात्मनश्चेति । एवं तर्हि किमायातं न ह्यात्मैवात्मायत्तः । न च ज्ञानमेवात्मनः परस्य च प्रकाश इति सिद्धम् । अन्यो हि ज्ञानप्रकाशो मानस ऐन्द्रियकश्चार्थप्रकाशः । न च प्रमाणज्ञानप्रकाशाधीनोर्ऽथप्रकाशः किं तु प्रमाणज्ञानसत्ताधीनः फलाधीनं तु न किं चिदित्यविदितम् । तत्सिद्धमेतद्विवादाध्यासितं विज्ञानं स्वप्रकाशाद्भिन्नं प्रकाशमानत्वात् । सत्त्वान्तरप्रकाशस्य सत्त्वान्तरप्रकाशवत् । तदनेनाभिसंधिनोक्तं न च कर्म च क्रिया चैकं भवतीति । एतेन सहोपलम्भनियमादभेदो नीलतद्धियोरिति परास्तं वेदितव्यम् । अर्थज्ञानोपलम्भयोरेकोपलम्भतैव नास्ति कुतः पुनरस्य नियम इति । अथ यथाश्रुतः सहोपलम्भो हेतुरित्युच्यते ततो विरुद्धः अभेदे सहार्थासंभवात् । कृतप्रपञ्चश्चायमर्थो न्यायकाणिकायामिह तु विस्तरभयान्न प्रपञ्चित इत्युपरम्यते । सोऽपि दृष्टं विज्ञानभेदमनुवयोक्तव्य इति । न संतानमात्रनिबन्धनो विज्ञानभेदो भवितुमर्हति नीलपीतादिरूपः नापि संतानान्तराधिपत्यसन्निधाननिबन्धनो विज्ञानानामदेशात्मकानां स्वरूपेण देशविप्रकर्षायोगात् । नापि कालविप्रकर्षोऽपूर्वसत्त्वप्रादुर्भावाभावादिति भावः । शङ्कते स्वप्नवद्विज्ञानश्रेदमिति । बाह्याभावेऽप्याध्यात्मिको विज्ञानभेदहेतुरस्तीति भावः । निराकरोति सोऽपीति । स्वप्नज्ञानमपि पारंपर्येण बाह्यनिबन्धनमित्यर्थः । अवाह्यनिमित्तकत्वं स्वप्नप्रत्ययस्याभ्युपेत्याह । अथ स्वप्नपक्षेऽपीति । वर्गः पक्षः । न चैकं विज्ञानं चिन्तनीयमपरं चिन्तकमिति वाच्यम् । व्यतिरिक्तालम्बनत्वानभ्युपगमादिति भावः । अभ्युपेत्य त्वबाह्यनिमित्तत्वं स्वप्नप्रत्ययानामेतदुक्तम् । बाह्यनिमित्तत्वमेव तु पारमार्थिकं इत्याह । ये चैते स्वप्न प्रत्यया इति । समापीति । अपिशब्दः संभावनायां मम पक्षे संभाव्यत एतत् यत्सर्व एव प्रत्यया मिथ्या भवन्तीत्यर्थः । सुगममितरत् । मिथ्या निद्रा । विषयमन्तरेण विज्ञानस्फुटता चावक्तव्येति । सामान्यविशेषतद्वतां ग्रहणं स्फुटता सामान्यमात्रग्रहणमस्फुटता तच्चैतदसतिविषये दुष्करं तदाकारोत्पत्तेरशक्यत्वादित्यर्थः । शङ्कते असत्यर्थे विज्ञानश्रेदो दृष्ट इति चेत् । (५२३।१२) स्वप्नमायागन्धर्वनगरमृगतृष्णादिविज्ञानेष्वनुवर्तमानेषु विषयेन्र्दियमनोदोषननिमित्तत्वमस्तु, ये पुनरमी प्रतीनां सर्वेषामनुवृत्तिमन्तः पूयपूर्णनदीप्रत्यया न ते बाह्यविषया दोषवत्त्वाद्भवितुमर्हन्ति । दोषनिमित्तत्वाद्बहुनामनुवृत्तेरभावात् । अदुष्टेन्द्रियार्थसन्निकर्षकत्वे तु जलरुचिराकारविरोधात् । तस्मादनादिवासनावैचित्र्यलब्धजन्मतयाऽर्थनिरपेक्षा एव विचित्राकारा बुद्धय उदयन्ते व्ययन्ते चेति सांप्रतमिति शङ्कार्थः । न तत्र नद्यस्तीति स्वमतदार्ढ्येनोक्तम् । न व्याघातादितञ् अयिमभिसंधिः । जनरुधिरयो रसवीर्यविपाकादिभेदात्तोयरसवीर्यपरिपाकादिदर्शनान्नद्यास्तोयपूर्णत्वे निश्चिते पूयपूर्णत्वनिश्चयः प्रेतानां मिथ्येति निश्चये तदनुवृत्तेर्देषानुवृत्तिः कल्पनीया दोषश्च प्रेत्तशरीरनिवर्त्तकं कर्मैव । यथोक्तं तुल्यकर्मविपाकोत्पन्नाः प्रेता इति । कर्मणो वासनाऽन्यत्र फलमन्यत्र कल्पत इति । (५२४।६) फनपलं पुत्रपश्वन्नादि । तद्यदि विज्ञानं तदा यत्र ज्ञानसन्ताने कर्मवासना तत्रैव पुत्राद्याकारं विज्ञानं फलमिति सामानाधिकरण्यमुपपद्यते । पुत्रपश्वन्नादौ त्वर्थरूपे फले वैयधिकरण्यं स्यात् तथा चातिप्रसङ्ग इति भाव । निराकरोति तन्नानभ्युपगमादिति । न पुत्रादि स्वरूपेण फलमपि तु तन्निमित्ता प्रीतिः । तस्या एव चेतनेन काम्यमानत्वात् तल्लक्षणत्वाच्च फलस्येति भावः । मुक्तकेनार्थं साधयित्वा प्रयोगानाह । मदीयाच्चित्तादिति । यदि चित्तमात्रं पक्षीक्रियते तदा दृष्टान्तो नास्तीत्यत उक्तं मदीयाच्चितादिति । मदीयाहङ्कारानास्पदत्वे सतीति विशेषणान्न स्वचित्तेन व्यभिचारः । आरोपनिराकरणार्थत्वाच्च हेतूनां नासमर्थविशेष्यतेति ।

न्या.सू._४,२.३५: मिथ्योपलब्धिविनाशस्तत्त्वज्ञानात् स्वप्नविषयाभिमानप्रणाशवत् प्रतिबोधे ॥

अपि च मित्योपलब्धीनां बाह्यानालम्बनत्वमास्थाय तत्त्वबुद्धीनां बाह्यानालम्बनत्वं साधनीयम् । तासां बाह्यानालम्बनत्वं बाधकाधीनं बाधकं चात्र समारोपितरजताद्यभिमानं निवर्त्तयति न तु पुरोऽवस्थितमर्थसामान्यं शुक्लभास्वरम् ।

तस्मान्न बाधकानुरोधादपि मिथ्याज्ञानं बाह्यानालम्बनमिति स्वप्नवदिति दृष्टान्तः साध्यविकल इत्याह ।
एवं सति मिथ्याज्ञानस्य प्रधानाश्रयत्वे मिथ्योपलब्धेर्विनाशस्तत्त्वज्ञानाद्बाधकात् स्वप्नविषयाभिमानप्रणाशवत् प्रतिषेधो न सामान्यस्यापीति शेषः ।
शेषं भाष्ये ।
भाष्यं सुबोधम् ॥ ३५ ॥

न्या.सू._४,२.३६: बुद्धेश्चैवं निमित्तसद्भावोपलम्भात् ॥

यस्तु माध्यमिको मिथ्याबुद्धि दृष्टान्तेन बाह्यापह्नवं कृत्ववा तेनैव दृष्टान्तेन विज्ञानाभावं कृत्वा विचारासहत्वं तत्त्वम्भावानां व्यवस्थापयांबभूव तं प्रत्याह ।
बुद्धेश्चैवं निमित्तसद्भावोपलम्भात् (सू. ३६) ॥

अर्थे हि निषिद्धे भवेदप्येतत् । तद्व्यवस्थापने तद्वदेवाप्रत्यूहं बुद्धिसद्भावोऽपि सिध्यति । न चैवं वादिनः प्रमाणमस्त्यसता च प्रमाणेन विचारासहत्त्वं भावानां व्यवस्थापयन् श्लाघनीयप्रज्ञो देवानांप्रिय इतञ् नि च कल्पनामात्रर्मित उपायस्तत्त्वज्ञानाय पर्याप्तः । न च वनस्पत्यादितत्त्वज्ञानस्य मिथ्याहस्तिज्ञानं निबन्धनमपि तु प्रणिहितमनस इन्द्रियार्थसन्निकर्षविशेषः । न चासौ मिथ्याज्ञानसमये आसीत् । न च मोहाभ्यासः समीचीनाय ज्ञानाय कल्पते स हि माहेमेव द्रढयतीति सर्वमवदातम् । सोऽयं माध्यमिकोऽनुभूयमानां मिथ्याबुद्धिं नापह्नोतुमर्हति । तथा च मिथ्याबुद्धिं प्रतिपद्यमानेन तस्या निमित्तं वक्तव्यमित्युक्तम् ॥ ३६ ॥

न्या.सू._४,२.३७: तत्त्वप्रधानभेदाच्च मिथ्याबुद्धेर्द्वैविध्योपपत्तिः ॥

तत्त्वप्रधानभेदाच्च मिथ्याबुद्धेर्द्वैविध्योपपतिः (सू. ३७) ॥

मिथ्याबुद्ध्या स्वनिमित्तं लक्ष्यते तेन मिथ्याज्ञाननिमित्तस्य द्वैविध्यमित्यर्थः । यत्र स्थाणौ पुरुष इति ज्ञानं भवति तत्र तत्त्वं स्थाणुरिति प्रधानं पुरुष इति यः पूर्वं पुरुषोऽभूदित्यर्थः ।

एवं तावद्रूपबुद्धीः प्रतिपाद्य गन्धादिबुद्धीरपि प्रतिपादयति भाष्यकारः ।
गन्धादौ च प्रमेय इति ।
उपसंहरति ।
तस्मादयुक्तमेतदिति ॥ ३७ ॥

न्या.सू._४,२.३८: समाधिविशेषाभ्यासात् ॥

दोषनिमित्तानां तत्त्वज्ञानादहङ्कारनिवृत्तिरित्युक्तम् । अथ तत्त्वज्ञानं कथमुत्पद्यत इति । (५२५।९) न तावदागमत उपपत्तितो वा तत्त्वज्ञानमहङ्कारनिवृत्तिं कर्तु मुत्सहते ।

दोषनिमित्तेषूत्पन्नज्ञानानामपि पूर्ववदहङ्कारदोषानुवृत्तेः साक्षात्कारस्तूपायाभावादयुक्त इति ।
अस्योत्तरं सूत्रम् ।
समाधितत्त्वाभ्यासात् (सू. ३८) ॥

समाधिपदं व्याचष्टे भाष्यकारः । स तु प्रत्याहृतस्येन्द्रियेभ्यो मनस इति । अनेन विक्षेपं निवर्त्तयति । इन्द्रियेभ्यः प्रतीपमाहृतस्य मनसः क्व चित् हृत्पुण्डरीकप्रदेशे आत्मनो निजौकसि धारकेण प्रयत्नेन धार्यमाणस्यात्मना संयोगोऽयम् ।

स खलु सुप्तावस्थायामस्तीत्यत उक्तं तत्त्वबुभुत्साविषिष्ट इति ।
तदभ्यासश्च तद्विषयप्रयत्नोत्पादषौनःपुन्यं तस्मादादरनैरन्तर्यदीर्घकालविशिष्टात्तत्त्वबुद्धिरुत्पद्यते ॥ ३८ ॥

न्या.सू._४,२.३९: नार्थविशेषाप्राबल्यात् ॥

एतदाक्षेपसूत्रमवतारयति यदुक्तं सति हि तस्मिन्निति ।

न्या.सू._४,२.४०: क्षुदादिभिः प्रवर्तनाच्च ॥

इन्द्रियविषयैरपहृतमनसो धारणा । तथा च तदभ्यासाभावान्न सत्त्वसाक्षात्कार इति सूत्रार्थः ॥ ३९ ॥ ४० ॥

न्या.सू._४,२.४१: पूर्वकृतफलानुबन्धात् तदुत्पत्तिः ॥

समाधानसूत्रमवतारयति ।
अस्त्वेतत्समाधिव्युत्थाननिमित्तमिति ।
सूत्रम् ।
पूर्वकृतफलानुबन्धात्तदुत्पत्तिः (सू. ४१) ॥

पूर्वकृतः समाधिः तस्य फलं संस्कारः तस्यानुबन्धः स्थेमा तस्मादिति सूत्रार्थः । तद्व्याचष्टे भाष्यकारः । पूर्वकृत इति । प्रविविच्यतेऽनेनेति प्रविवेकः प्रकृष्टः संस्कारः स त्वात्मधर्म इति । कस्मात्पुनरदृश्यमानः संस्कारः कल्प्यतैत्यत आह । निष्फले हीति । प्रयत्नविशेषा हि विशरारवो बहवोऽपि परस्परमसहभवन्तो न तत्त्वसाक्षात्कारापय पार्याप्ता इति तज्जनिताः संस्काराः कल्प्यन्ते तेषां स्थेम्ना सम्भवति सम्भूयकारितेत्यर्थः ।

न्या.सू._४,२.४२: अरण्यगुहापुलिनादिषु योगाभ्यासोपदेशः ॥

प्रचयकाष्ठा प्रचयावधिः यतः परमपरः प्रचयो नास्ति ।
तत्सहकारिशालितया प्रकृष्टायां समाधिभावनायां समाधिप्रयत्नः समाधिभावना तस्यामित्यर्थः ॥ ४२ ॥

न्या.सू._४,२.४३: अपवर्गेऽप्येवं प्रसङ्गः ॥

पूर्वपक्षवाद्याह ।
यद्यर्थविशेषप्राबल्यादिति ।
स खल्वयमीदृशो बाह्यार्थस्य महिमा यत इन्द्रियाद्यनपेक्षादेवात्मनो बुद्धिं जनयिव्यतीत्यभिमानः पूर्वपक्षिणः ॥ ४३ ॥

न्या.सू._४,२.४४: न निष्पन्नावश्यम्भावित्वात् ॥

सिद्धान्तसूत्रम् ।
न निष्पन्नावश्यं भावित्वात् (सू. ४४) व्याख्यातम् ।
न खलु तण्डुला अत्यन्तं फलीकृता अपि पिठरोदकदहनसंयोगप्रचयमन्तरेण पुलाका भवन्तीति भावः ॥ ४४ ॥

न्या.सू._४,२.४५: तदभावश्चापवर्गे ॥

न्या.सू._४,२.४६: तदर्थं यमनियमाभ्यामात्मसंस्कारो योगाच्चाध्यात्मविध्युपायैः ॥

किं समाधिविशेष एव तत्त्वज्ञानसाधनम् । मैवम् । किं तु । तदर्थं यमनियमाभ्यामात्मसंस्कारो योगच्चाध्यात्मविध्युपायैः (सू. ४६) समानमाश्रमिणां धर्मसाधनम् । अहिंसा सत्यमस्तेयं ब्रह्मचर्यमपरिग्रह इति यमः । नियम इति । यस्याश्रमिणोऽसाधारणो धर्मोपायः । योग इति विषयेण योगशास्त्रं पातञ्जलं लक्षयति । योगाचारः एकाकिता आहारविशेषः एकत्रानवस्थानमित्यादि यतिधर्मोक्तम् । एतेऽपि तत्त्वज्ञानक्रमोत्पादक्रमेणापमर्गसाधनमित्यर्थः ॥ ४६ ॥

न्या.सू._४,२.४७: ज्ञानग्रहणाभ्यासस्तद्विद्यैश्च सह संवादः ॥

ननु यद्येते तत्त्वज्ञानोत्पादक्रमेणापवर्गोपायः कृतं तर्ह्यान्वीक्षिक्येत्यत आह ।
ज्ञानग्रहणाभ्यासस्तद्विद्यैश्च सह संवादः (सू. ४७) ॥

तद्व्याचष्टे तदर्थमिति प्रकृतम् । आत्मविद्याऽन्वीक्षिकी । अभ्यासः सततक्रिया तत्र प्रयत्न इत्यर्थः । प्रयोजनमाह प्रज्ञापरिपाकार्थम् । परिपाकस्तु संशयच्छेदनम् ।

किं देहाद्यतिरिक्त आत्मा उत नेति संशयः ।
तस्य च्छेदनं लोकस्य तत्त्वज्ञानमात्मनि तदवरोधः अध्यवसितं प्रमाणेन ।
तस्याभ्यनुज्ञानं तर्केण ॥ ४७ ॥

न्या.सू._४,२.४८: तं शिष्यगुरुसब्रह्मचारिविशिष्टश्रेयोर्थिभिरनसूयुभिरभ्युपेयात् ॥

सब्रह्मचारी सहाध्यायी ।

गुरुशिष्यसहाध्यायिभ्योऽन्यः शास्त्रेणानुशिष्टः शिष्टश्रेयोर्थिनः श्रेयसि मोक्षलक्षणे श्राद्धाः ।

तेषामपवर्गे श्रद्धादर्शनादस्ति तदुपायाभ्यासः प्रागभवीय इत्यनुमीयते ।
तेन तेषामपि प्राग्भवीयसंस्कारवशात्प्रतिभोपावसनीयेति ।
अभ्युपेयादभिमुखमुपेत्य जानीयात् गुर्वादिभिः सहेत्यर्थः ।
नीतार्थम् गतार्थम् ॥ ४८ ॥

न्या.सू._४,२.४९: प्रतिपक्षहीनमपि वा प्रयोजनार्थमर्थित्वे ॥

तदनेन गुर्वादिभिर्वादं कृत्वा तत्वनिर्णय उक्तः ।

यदि च मन्येत पक्षप्रतिपक्षपरिग्रहः प्रतिकूलः परस्य गुर्वादेस्तस्मान्न वादोऽप्युचित इति ।
तत्रेदं सूत्रमुपतिष्ठते ।
प्रतिपक्षहीनमपि वा प्रयोजनार्थमर्थित्वे (सू. ४९) ॥

व्याचष्टे तमभ्युपेयादिति वर्त्तते ।
परतो गुर्वादेः प्रज्ञामुपादित्समानस्तत्त्वबुभुत्साप्रकाशनेनात्मनः शरीरादिभ्यो भेदं बुभुत्सैत्यभिदधानः स्वपक्षमनवस्थापयन् स्वदर्शनं गुर्वादिकृताद्विचारात्पूर्वपक्षोच्छेदेन सिद्धान्तव्यवस्थापनलक्षणात् स्वदर्शनं परिशोधयेत् ।
अन्योन्यप्रत्यनीकानिं च प्रावादुकानां दर्शनान्ययुक्तपरित्यागेन युक्तपरिग्रहणेन च परिशोधयेदिति संबध्यते ॥ ४९ ॥

न्या.सू._४,२.५०: तत्त्वाध्यवसायसंरक्षणार्थं जल्पवितण्डे बीजप्ररोहसंरक्षणार्थं कण्टकशाखावरणवत् ॥

ननु यत्र वादस्यैव दशेयमीदृशी तत्त्वनिर्णये दत्तजलाञ्जली तर्हि जल्पवितण्डे इत्यत आह ।

स्वपक्षरागेण चैकै न्यायमतिवर्त्तन्ते ।
तत्र ।
तत्त्वाध्यवसायसंरक्षणार्थं जल्पवितण्डे बीजप्ररोहसंरक्षणार्थं कण्टकशाखावरणवत् (सू. ५०) इति सूत्रम् ।
तद् व्याचष्टे अनुत्पन्नतत्त्वज्ञानानामिति ॥ ५० ॥

न्या.सू._४,२.५१: ताभ्यां विगृह्य कथनम् ॥

न केवलं तदर्थं घटमानानां जल्पवितण्डे अपि तु विद्यानिर्वेदादिभिनश्च परेणावज्ञायमानस्य ।

ताभ्यां विगृह्य कथनम् (सू. ५१) इति सूत्रम् । यस्तु स्वदर्शनविलसितमिथ्याज्ञानावलेपदुर्विदग्यतया सद्विद्यानवैराग्याद्वा लाभपूजाख्यात्यर्थितया कुहेतुभिरीश्वराणां जनाधाराणां पुरतो वेदब्राह्मणपरलोकादिदूषणप्रवृत्तस्तं प्रति वादी समीचीनदूषणमप्रतिभयापश्यन् जल्पवितण्डे अवतार्य विगृह्य जल्पवितण्डाभ्यां तत्त्वकथनं करोति विद्यापरिपालनाय । मा भूदीश्वराणां मतिविभ्रमेण तच्चरितमनुवर्तिनीनां प्रजानां धर्मविप्लव इति । इदमपि प्रयोजनं जल्पवितण्डयोः । न तु लाभख्यात्यादि दृष्टम् । न हि परहितप्रवृत्तः परमकारुणिको मुनिर्दृष्टार्थं परपांसुलोपायमुपदिशतीति । शङ्कावार्त्तिकम् । व्यापकत्वादन्तः करणस्येति । (५२५।१३) अस्य वक्ष्यमाणोऽभिसन्धिः । निराकरोति । नोक्तोत्तरत्वाद् सांख्यं दूपयद्भिरित्यर्थः । शङ्किता स्वाभिप्रायमुद्घाटयति । स्वाङ्गगतीक्षणेति । यावद्धस्तावच्छिन्ने आत्मप्रदेशे प्रयत्नो न जायते न तावत्तत्रकर्म न च तत्रात्ममनः सन्निकर्षं विना प्रयत्नः । न च मनस इन्द्रियसंयोगं विनेक्षणम् । न चाणुना मनसा इन्द्रियेण हस्ते चापर्यायेण सम्भवः । तस्माद्व्यापकं मन इति शङ्कार्थः । निराकरोति न शरीरात्ममनः संयोगयौगपद्यात् प्रयत्नदर्शनयोर्युपगदुत्पत्तेः । तत्रात्मनःशरीरसम्बन्धात्स्वाङ्गगतिरिति । पाणिचालनेच्छापेक्षेणात्ममनःसंयोगेन पाणिं चालयामीत्येवमाकारः प्रयत्नो जायते तत्र प्रयत्नवदात्ममनःसंयोगात्पाणौ क्रिया जायते । यद्यप्यात्मनः सर्वाङ्गे संयोगो न विशिष्यते तथापीच्छाविशेषादुत्पन्नः प्रयत्नविशेषः पाणावेव कर्म करोति । नान्यत्र प्रयत्नवदात्मसयोगाच्चक्षुषः प्रेरणम् । यद्यपि चानयोः प्रयत्नयोर्न युगपदुत्पादः तथापि तदत्यन्तसौक्ष्म्यात्कालभेदो न लक्ष्यते ।

नन्वेकस्मिन्नात्मप्रदेशे वर्त्तमानसंयोगो वा प्रयत्नो वा कथं देशान्तरे असंयोगित्यप्रयत्नवति कार्यमारभत इत्यत आह ।
न चात्मनः प्रदेशाः सन्तीति ।
परिशिष्टवार्त्तिकं भाष्यव्याख्यया व्याख्यातम् ॥ ५१ ॥

इति मिश्रश्रीवाचस्पतिविरचितायां न्यायवार्त्तिकतात्पर्यटीकायां चतुर्थोध्यायः समाप्तः ॥

४ अध्याये १ आह्निके ६७ सूत्राणि २४ प्रकरणानि । २ आह्निके ५१ सूत्राणि ६ प्रकरणानि । आदित आरभ्यमिलित्वा ४६० सूत्राणि ६० प्रकरणानि ।