न्यायसूत्रभाष्यम्

विकिस्रोतः तः
(न्यायभाष्यम् इत्यस्मात् पुनर्निर्दिष्टम्)
न्यायदर्शनम्
वात्स्यायनभाष्यम्


********************** न्यायभाष्यम्१,१.१ **********************
प्रमणतोऽर्थप्रतिपत्तौ प्रवृत्तिसामर्थ्याद् अर्थवत् प्रमाणम्।


प्रमाणम् अन्तरेण नार्थप्रतिपत्तिः, नार्थप्रतिपत्तिम् अन्तरेण प्रवृत्तिसामर्थ्यम्। प्रमाणेन खल्व् अयं ज्ञातार्थम् अभीप्सति जिहासति वा। तस्येप्साजिहासाप्रयुक्तस्य समीहा प्रवृत्तिर् इत्य् उच्यते। सामर्थ्यं पुनर् अस्याः फलेनाभिसम्बन्धः। समीहमानस् तम् अर्थम् अभीप्सन् जिहासन् वा तम् अर्थम् आप्नोति जहाति वा। अर्थस् तु सुखं सुखहेतुश् च, दुःखं दुःखहेतुश् च।


सोऽयं प्रमाणार्थोऽपरिसङ्ख्येयः, प्राणभृद्भेदस्यापरिसङ्ख्येयत्वात्। अर्थवति च प्रमाणे प्रमाता प्रमेयं प्रमितिर् इत्य् अर्थवन्ति भवन्ति। कस्मात्? अन्यतमापायेऽर्थस्यानुपपत्तेः।


तत्र यस्येप्साजिहासाप्रयुक्तस्य प्रवृत्तिः स प्रमाता, स येनार्थं प्रमिणोति तत् प्रमाणम्, योऽर्थः प्रमीयते तत् प्रमेयम्, यद् अर्थविज्ञानं सा प्रमितिः, चतसृषु चैवंविधास्व् अर्थतत्त्वं परिसमाप्यते।
किं पुनस् तत्त्वम्? सतश् च सद्भावोऽसतश्üEचासद्भावः। सत् सद् इति गृह्यमाणं यथाभूतम् अविपरीतं तत्त्वं भवति।
यथाभूतम् अविपरीतं तत्त्वं भवति।] पृ.२५
असच् चासद् इति गृह्यमाणं यथाभूतम् अविपरीतं तत्त्वं भवति।


कथम् उत्तरस्य प्रमाणेनोपलब्धिर् इति? सत्य् उपलभ्यमाने तदनुपलब्धेः प्रदीपवत्। यथा दर्शकेन दीपेन दृश्ये गृह्यमाणे तद् इव यन् न गृह्यते, तन् नास्ति। यद्य् अभविष्यद् इदम् इव व्यज्ञास्यत, विज्ञानाभावान् नास्तीति। एवं प्रमाणेन सति गृह्यमाणे तद् इव यन् न गृह्यते,


तन् नास्ति। यद्य् अभविष्यद् इदम् इव व्यज्ञास्यत, विज्ञानाभावान् नास्तीति। तद् एवं सतः प्रकाशकं प्रमाणम् असद् अपि प्रकाशयतीति।


सच् च खलु षोडशधा व्यूढम् उपदेक्ष्यते। तासां खल्व् आसां सद्विधानाम्---
न्याभा१,१.१_ प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानां तत्त्वज्ञानान् निःश्रेयसाधिगमः ॥


निर्देशे यथावचनं विग्रहः। चार्थे द्वन्द्वसमासः। प्रमाणादीनां तत्त्वम् इति शैषिकी षष्ठी।


तत्त्वस्य ज्ञानं निःश्रेयसस्याधिगम इति कर्मणि षष्ठौ। त एतावन्तो विद्यमानार्थाः, येषाम् अविपरीतज्ञानार्थम् इहोपदेशः।
विद्यमानार्था, ...] पृ.३२
सोऽयम् अनवयवेन तन्त्रार्थ उद्दिष्टो वेदितव्यः। आत्मादेः खलु प्रमेयस्य तत्त्वज्ञानान् निःश्रेयसाधिगमः।


तच् चैतद् उत्तरसूत्रेणानूद्यत इति। हेयम्, तस्य निर्वर्तकं हानम् आत्यन्तिकम्, तस्योपायोऽधिगन्तव्य इत्य् एतानि चत्वार्य् अर्थपदानि सम्यग् बुद्ध्वा निःश्रेयसम् अधिगच्छति।


तत्र संशयादीनां पृथग्वचनम् अनर्थकम् --- संशयादयो यथासम्भवं प्रमाणेषु प्रमेयेषु चान्तर्भवन्तो न व्यतिरिच्यन्त इति? सत्यम् एतत्, इमास् तु चतस्रो विद्याः पृथक्प्रस्थानाः प्राणभृताम् अनुग्रहायोपदिश्यन्ते, यासां चतुर्थीयम् आन्वीक्षिकी न्यायविद्या।
-प्रस्थानाः प्राणभृताम् ... ] पृ.३५
तस्याः पृथक्प्रस्थानाः संशयादयः पदार्थाः। तेषां पृथग्वचनम् अन्तरेणाध्यात्मविद्यामात्रम् इयं स्यात्, यथोपनिषदः। तस्मात् संशयादिभिः पदार्थैः पृथक् प्रस्थाप्यते। तत्र नानुपलब्धे न निर्णीतेऽर्थे न्यायः प्रवर्तते, किं तर्हि? संशयितेऽर्थे। यथोक्तं --- ’’विमृश्य पक्षप्रतिपक्षाभ्याम् अर्थावधारणं निर्णयःऽऽ इति। विमर्शः --- संशयः। पक्षप्रतिपक्षौ --- न्यायप्रवृत्तिः। अर्थावधारणं --- निर्णयस् तत्त्वज्ञानम् इति। स च ’’यं किंस्विद्ऽऽ इति वस्तुविमर्शमात्रम् अनवधारणं ज्ञानं संशयः, प्रमेयेऽन्तर्भवन्न् एवम् अर्थं पृथग् उच्यते।


अथ प्रयोजनम् --- येन प्रयुक्तः प्रवर्तते, तत् प्रयोजनम्। यम् अर्थम् अभीप्सन् जिहासन् वा कर्मारभते,
कर्मारभते] पृ.३८
तेनानेन सर्वे प्राणिनः सर्वाणि कर्माणि सर्वाश् च विद्या व्याप्ताः, तदाश्रयश् च न्यायः प्रवर्तते। कः पुनर् अयं न्यायः? प्रमाणैर् अर्थपरीक्षणं न्यायः।


प्रत्यक्षागमाश्रितम् अनुमानम्, सान्वीक्षा। प्रत्यक्षागमाभ्याम् ईक्षितस्यान्वीक्षणम् अन्वीक्षा। तया प्रवर्त्तत इत्य् आन्वीक्षिकी --- न्यायविद्या --- न्यायशास्त्रम्। यत् पुनर् अनुमानं प्रत्यक्षागमविरुद्धं न्यायाभासः स इति।


तत्र वादजल्पौ सप्रयोजनौ। वितण्डा तु परीक्ष्यते। वितण्डया प्रवर्तमानो वैतण्डिकः। स प्रयोजनम् अनुयुक्तो यदि प्रतिपद्यते सोऽस्य पक्षः सोऽस्य सिद्धान्त इति, वैतण्डिकत्वं जहाति। अथ न प्रतिपद्यते नायं लौकिको न परीक्षक इत्य् आपद्यते। अथापि परपक्षप्रतिषेधज्ञापनं प्रयोजनं ब्रवीति, एतद् अपि तादृग् एव। यो ज्ञापयति यो जानाति येन ज्ञाप्यते यच् च ज्ञाप्यते एतच् च प्रतिपद्यते यदि, तदा वैतण्डिकत्वं जहाति। अथ न प्रतिपद्यते, परपक्षप्रतिषेधज्ञापनं प्रयोजनम् इत्य् एतद् अस्य वाक्यम् अनर्थकं भवति। वाक्यसमूहश् च स्थापनाहीनो वितण्डा, तस्य यद्य् अभिधेयं प्रतिपद्यते, सोऽस्य पक्षः स्थापनीयो भवति। अथ न प्रतिपद्यते, प्रलापमात्रम् अनर्थकं भवति, वितण्डात्वं निवर्तत इति।
अथ दृष्टान्तः प्रत्यक्षविषयोऽर्थः, यत्र लौकिकपरीक्षकाणां दर्शनं न व्याहन्यते।


स च प्रमेयम्। तस्य पृथग्वचनं च तदाश्रयाव् अनुमानागमौ, तस्मिन् सति स्याताम् अनुमानागमौ असति च न स्याताम्। तदाश्रया च न्यायप्रवृत्तिः। दृष्टान्तविरोधेन च परपक्षप्रतिषेधो वचनीयो भवति, दृष्टान्तसमाधिना च स्वपक्षः साधनीयो भवति। नास्तिकश् च दृष्टान्तम् अभ्युपगच्छन्न् आस्तिकत्वं जहाति। अनभ्युपगच्छन् किंसाधनः परम् उपालभेतेति। निरुक्तेन च दृष्टान्तेन शक्यम् अभिधातुं ’’साध्यसाधर्म्यात् तद्धर्मभावी दृष्टान्त उदाहरणम्ऽऽ ’’तद्विपर्ययाद् विपरीतम्ऽऽ इति।


अस्त्य् अयम् इत्य् अनुज्ञायमानोऽर्थः सिद्धान्तः। स च प्रमेयम्। तस्य पृथग्वचनं सत्सु सिद्धान्तभेदेषु वादजल्पवितण्डाः प्रवर्तन्ते, नातोऽन्यथेति।


साधनीयार्थस्य यावति शब्दसमूहे सिद्धिः परिसमाप्यते तस्य पञ्चावयवाः प्रतिज्ञादयः, समूहम् अपेक्ष्यावयवा उच्यन्ते।


तेषु प्रमाणसमवायः, आगमः प्रतिज्ञा। हेतुर् अनुमानम्।


उदाहरणं प्रत्यक्षम्। उपनयनम् उपमानम्।


सर्वेषाम् एकार्थसमवाये सामर्थ्यप्रदर्शनं निगमनम् इति। सोऽयं परमो न्याय इति। एतेन वादजल्पवितण्डाः प्रवर्तन्ते नातोऽन्यथेति।


तदाश्रया च तत्त्वव्यवस्था। ते चैतेऽवयवाः शब्दविशेषाः सन्तः प्रमेयेऽन्तर्भूता एवमर्थं पृथग् उच्यन्त इति।
तर्को न प्रमाणसंगृहीतो, न प्रमाणान्तरम्, प्रमाणानाम् अनुग्राहकस् तत्त्वज्ञानाय कल्पते। तस्योदाहरणम् --- किम् इदं जन्म कृतकेन हेतुना निर्वर्त्यते, आहोस्विद् अकृतकेन, अथाकस्मिकम् इति?
-आकस्मिकम् इति?] पृ.५४
एवम् अविज्ञातेऽर्थे कारणोपपत्त्या ऊहः प्रवर्त्तते --- यदि कृतकेन हेतुना निर्वर्त्यते, हेतूच्छेदाद् उपपन्नोऽयं जन्मोच्छेदः। अथाकृतकेन हेतुना, ततो हेतूच्छेदस्याशक्यत्वाद् अनुपपन्नो जन्मोच्छेदः। अथाकस्मिकम्, अतोऽकस्मान् निर्वर्त्यमानं न पुनर् निवर्त्स्यतीति निवृत्तिकारणं नोपपद्यते, तेन जन्मानुच्छेद इति। एतस्मिंस् तर्कविषये कर्मनिमित्तं जन्मेति प्रमाणानि प्रवर्त्तमानानि तर्केणानुगृहन्ते,


तत्त्वज्ञानविषयस्य विभागात् तत्त्वज्ञानाय कल्पते तर्क इति। सोऽयम् इत्थम्भूतस् तर्कः प्रमाणसहितो वादे साधनायोपालम्भाय चार्थस्य भवतीत्य् एवम् अर्थं पृघग् उच्यते प्रमेयान्तर्भूतोऽपीति।


निर्णयस् तत्त्वज्ञानं प्रमाणानां फलम्, तदवसानो वादः, तस्य पालनार्थं जल्पविटण्डे। ताव् एतौ तर्कनिर्णयौ लोकयात्रां वहत इति। सोऽयं निर्णयः प्रमेयान्तर्भूत एवमर्थं पृथग् उद्दीष्ट इति।


वादः खलु नानाप्रवक्तृकः प्रत्यधिकरणसाधनोऽन्यतराधिकरणनिर्णयावसानो वाक्यसमूहः।
वाक्यसमूहः।] पृ.५८
पृथग् उद्दिष्ट उपलक्षणार्थम्। उपलक्षितेन व्यवहारस् तत्त्वज्ञानाय भवतीति। ’’तद्विशेषौ जल्पवितण्डे तत्त्वाध्यवसायसंरक्षणार्थम्ऽऽ इत्य् उक्तम्।


निग्रहस्थानेभ्यः पृथग् उद्धिष्टा हेत्वाभासा वादे चोदनीया भविष्यन्तीति।


जल्पवितण्डयोस् तु निग्रहस्थानानीति।


छलजातिनिग्रहस्थानानां पृथगुपदेश उपलक्षणार्थम् इति। उपलक्षितानां स्ववाक्ये परिवर्जनम्, छलजातिनिग्रहस्थानानां परवाक्ये पर्यनुयोगः। जातेश् च परेण प्रयुज्यमानायाः सुलभः समाधिः, स्वयं च सुकरः प्रयोग इति।


सेयम् आन्वीक्षिकी प्रमाणादिभिः पदार्थैर् विभज्यमाना ---
प्रदीपः सर्वविद्यानाम् उपायः सर्वकर्मणाम्।
आश्रयः सर्वधर्माणां विद्योद्देशे प्रकीर्तिता॥


तद् इदं तत्त्वज्ञानं निःश्रेयसाधिगमार्थं यथाविद्यं वेदितव्यम्। इह त्व् अध्यात्मविद्यायाम् आत्मादिज्ञानं तत्त्वज्ञानम्। निःश्रेयसाधिगमोऽपवर्गप्राप्तिः॥१॥


********************** न्यायभाष्यम्१,१.२ **********************


तत् खलु निःश्रेयसं किं तत्त्वज्ञानान्तरम् एव भवति? नेत्य् उच्यते। किं तर्हि? तत्त्वज्ञानात् ---


न्याभा१,१.२_ दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानाम् उत्तरोत्तरापाये तदनन्तरापायाद् अपवर्गः ॥


तत्रात्माद्यपवर्गपर्यन्तप्रमेये मिथ्याज्ञानम् अनेकप्रकारकं वर्त्तते।


आत्मनि तावन् नास्तीति, अनात्मनि आत्मेति दुःखे सुखम् इति अनित्ये नित्यम् इत्य् अत्राणे त्राणम् इति,
अत्राणे त्राणम् इति] पृ.७६
सभये निर्भयम् इति, जुगुप्सितेऽभिमतम् इति, हातव्ये अप्रतिहातव्यम् इति, प्रवृत्तौ नास्ति कर्म, नास्ति कर्मफलम् इति, दोषेषु नायं दोषनिमित्तः संसार इति, प्रेत्यभावे नास्ति जन्तुर् जीवो वा सत्त्व आत्मा वा, यः प्रेयात्, प्रेत्य च भवेद् इति, अनिमित्तं जन्म, अनिमित्तो जन्मोपरम इत्य् आदिमान् प्रेत्यभावः, अनन्तश् चेति, नैमित्तिकः सन्न् अकर्मनिमित्तः प्रेत्यभाव इति, देहेन्द्रियबुद्धिवेदनासन्तानोच्छेदप्रतिसन्धानाभ्यां निरात्मकः प्रेत्यभाव इति। अपवर्गे भीष्मः खल्व् अयं सर्वकायोपरमः, सर्वविप्रयोगेऽपवर्गे बहु च भद्रकं लुप्यत इति कथं बुद्धिमान् सर्वसुखोच्छेदम् अचैतन्यम् अमुम् अपवर्गं रोचयेद् इति।
एतस्मान् मिथ्याज्ञानाद् अनुकूलेषु रागः, प्रतिकूलेषु द्वेषः। रागद्वेषाधिकाराच् चासत्येर्ष्यमायालोभादयो दोषा भवन्ति। दोषैः प्रयुक्तः शरीरेण प्रवर्त्तमानो हिंसास्तेयप्रतिषिद्धमैथुनान्य् आचरति, वाचानृतपरुषसूचनासम्बद्धानि, मनसा परद्रोहं परद्रव्याभीप्सां नास्तिक्यं चेति। सेयं पापात्मिका प्रवृत्तिर् अधर्माय।
अथ शुभा --- शरीरेण दानं परित्राणं परिचरणं च, वाचा सत्यं हितं प्रियं स्वाध्यायं चेति, मनसा दयाम् अस्पृहां श्रद्धां चेति। सेयं धर्माय।
अत्र प्रवृत्तिसाधनौ धर्माधर्मौ प्रवृत्तिशब्देनोक्तौ, यथान्नसाधनाः प्राणाः ’’न्नं वै प्राणिनः प्राणाऽऽिति।


सेयं प्रवृत्तिः कुत्सितस्याभिपूजितस्य च जन्मनः कारणम्। जन्म पुनः शरीरेन्द्रियबुद्धीनां निकायविशिष्टः प्रादुर्भावः, तस्मिन् सति दुःखम्। तत् पुनः प्रतिकूलवेदनीयं बाधना पीडा ताप इति। त इमे मिथ्याज्ञानादयो दुःखान्ता धर्मा अविच्छेदेनैव प्रवर्तमानाः संसार इति।


यदा तु तत्त्वज्ञानान् मिथ्याज्ञानम् अपैति, तदा मिथ्याज्ञानापाये दोषा अपयन्ति, दोषापाये प्रवृत्तिर् अपैति,
प्रवृत्तिर् अपैति,] पृ.८०
प्रवृत्त्यपाये जन्मापैति, जन्मापाये दुःखम् अपैति, दुःखापाये च आत्यन्तिकोऽपवर्गो निःश्रेयसम् इति।


तत्त्वज्ञानं तु खलु मिथ्याज्ञानविपर्ययेण व्याख्यातम्। आत्मनि --- तावद् अस्तीति, अनात्मनि --- अनात्मेति, एवं दुःखेऽनित्येऽत्राणे सभये जुगुप्सिते हातव्ये च यथाविषयं वेदितव्यम्, प्रवृत्तौ --- अस्ति कर्म, अस्ति कर्मफलम् इति, दोषेषु --- दोषनिमित्तोऽयं संसार इति, प्रेत्यभावे खलु --- अस्ति जन्तुर् जीवः सत्त्व आत्मा वा, यः प्रेत्य भवेद् इति, निमित्तवज् जन्म, निमित्तवान् जन्मोपरम इत्य् अनादिः प्रेत्यभावोऽपवर्गान्त इति, नैमित्तिकः सन् प्रेत्यभावः प्रवृत्तिनिमित्त इति, सात्मकः सन् देहेन्द्रियबुद्धिवेदनासन्तानोच्छेदप्रतिसन्धानाभ्यां प्रवर्त्तत इति, अपवर्गे शान्तः खल्व् अयं सर्वविप्रयोगः सर्वोपरमोऽपवर्गः, बहु च कृच्छं घोरं पापकं लुप्यत इति कथं बुद्धिमान् सर्वदुःखोच्छेदं सर्वदुःखासंविदम् अपवर्गं न रोचयेद् इति,
-म् अपवर्गं न रोचयेद् इति,] पृ.८३
तद् यथा मधुविषसम्पृक्तान्नम् अनादेयम् इति, एवं सुखं दुःखानुषक्तम् अनादेयम् इति॥२॥


********************** न्यायभाष्यम्१,१.३ **********************


त्रिविधा चास्य शास्त्रस्य प्रवृत्तिः, --- उद्देशो लक्षणं परीक्षा चेति। तत्र नामधेयेन पदार्थमात्रस्याभिधानम् उद्द्शः।
नामधेयेन ... उद्देशः।] पृ.८४
तत्रोद्दिष्टस्य तत्त्वव्यवच्छेदको धर्मओ लक्षणम्। लक्षितस्य यथालक्षणम् उपपद्यते न वेति प्रमाणैर् अवधारणं परीक्षा। तत्रोद्दिष्टस्य प्रविभक्तस्य लक्षणम् उच्यते,
-द्दिष्टस्य प्रविभक्तस्य लक्षणम् उच्यते,] पृ.८५
यथा --- प्रमाणानां प्रमेयस्य च। उद्धिष्टस्य लक्षितस्य च विभागवचनम्, यथा --- छलस्य ’’वचनविघातोऽर्थविकल्पोपपत्त्या च्छलम्ऽऽ, ’’तत् त्रिविधम्ऽऽ इति। अथोद्दिष्टस्य विभागवचनम् ---
न्याभा१,१.३_ प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि ॥


अक्षस्याक्षस्य प्रतिविषयं वृत्तिः प्रत्यक्षम्। वृत्तिस् तु --- सन्निकर्षः, ज्ञानं वा।


यदा सन्निकर्षस् तदा ज्ञानं प्रमितिः, यदा ज्ञानम्, तदा हानोपादानोपेक्षाबुद्धयः फलम्।


अनुमानं --- मितेन लिङ्गेन लिङ्गिनोऽर्थस्य पश्चान् मानम् अनुमानम्।


उपमानं --- सामीप्यज्ञानं --- यथा गौर् एवं गवय इति। सामीप्यं तु सामान्ययोगः। शब्दः --- शब्द्यतेऽनेनार्थ इत्य् अभिधीयते ज्ञाप्यते।


उपलब्धिसाधनानि प्रमाणानि समाख्यानिर्वचनसामर्थ्यात् बोद्धव्यम्। प्रमीयतेऽनेनेति करणार्थाभिधानो हि प्रमाणशब्दः। तद्विशेषसमाख्याया अपि तथैव व्याख्यानम्।
किं पुनः प्रमाणानि प्रमेयम् अभिसंप्लवन्ते? अथ प्रतिप्रमेयं व्यवतिष्ठन्त इति?


उभयथा दर्शनम्, ’’स्त्य् आत्माऽऽ इत्य् आप्तोपदेशात् प्रतीयते, तत्रानुमानम् --- ’’िच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्य् आत्मनो लिङ्गम्ऽऽ इति, प्रत्यक्षं --- युञ्जानस्य योगसमाधिजम् ’’ात्ममनसोः संयोगविशेषाद् आत्मा प्रत्यक्षऽऽ इति। अग्निर् आप्तोपदेशात् प्रतीयते ’’त्राग्निःऽऽिति, प्रत्यासीदता धूमदर्शनेनानुमीयते, प्रत्यासन्नेन च प्रत्यक्षत उपलभ्यते। व्यवस्था पुनः --- ’’ग्निहोत्र जुहुयात् स्वर्गकामःऽऽ इति, लौकिकस्य स्वर्गे न लिङ्गदर्शनम्, न प्रत्यक्षम्। स्तनयित्नुशब्दे श्रूयमाणे शब्दहेतोर् अनुमानम्, तत्र न प्रत्यक्षम्, नागमः। पाणौ प्रत्यक्षत उपलभ्यमाने नानुमानम्, नागम इति।
सा चेयं प्रमितिः प्रत्यक्षपरा। जिज्ञासितम् अर्थम् आप्तोपदेशात् प्रतिपद्यमानो लिङ्गदर्शनेनापि बुभुत्सते,
बुभुत्सते,] पृ.९३
लिङ्गदर्शनानुमितं च प्रत्यक्षतो दिदृक्षते, उपलब्धेऽर्थे जिज्ञासा निवर्त्तते। पूर्वोक्तम् उदाहरणम् ’’ग्निःऽऽ इति। प्रमातुः प्रमाणानां सम्भवोऽभिसंप्लवः, असम्भवो व्यवस्थेति॥३॥
इति त्रिसूत्रीभाष्यम्।


********************** न्यायभाष्यम्१,१.४ **********************


अथ विभक्तानां लक्षणवचनम् इति।
न्याभा१,१.४_ इन्द्रियार्थसन्निकर्षोत्त्पन्नं ज्ञानम् अव्यपदेश्यम् अव्यभिचारि व्यवसायात्मकं प्रत्यक्षम् ॥
इन्द्रियस्यार्थेन सन्निकर्षाद् उत्पद्यते यज् ज्ञानं तत् प्रत्यक्षम्।


न तर्हीदानीम् इदं भवति, आत्मा मनसा संयुज्यते, मन इन्द्रियेण, इन्द्रियम् अर्थेनेति?


नेदं कारणावधारणम् --- एतावत् प्रत्यक्षे कारणम् इति, किं तु विशिष्टकारणवचनम् इति। यत् प्रत्यक्षज्ञानस्य विशिष्टकारणं तद् उच्यते, यत् तु समानम् अनुमानादिज्ञानस्य, न तन्निवर्त्तत इति।
मनसस् तर्हीन्द्रियेण संयोगो वक्तव्यः?


भिद्यमानस्य प्रत्यक्षज्ञानस्य नायं भिद्यत इति समानत्वान् नोक्त इति।


यावद् अर्थं वै नामधेयशब्दास् तैर् अर्थसम्प्रत्ययः, अर्थसम्प्रत्ययाच् च व्यवहारः। तत्रेदम् इन्द्रियार्थसन्निकर्षाद् उत्पन्नम् अर्थज्ञानं ’’रूपम्ऽऽ इति वा, ’’रसःऽऽ इत्य् एवं वा भवति, रूपरसशब्दाश् च विषयनामधेयम्। तेन व्यपदिश्यते ज्ञानं --- रूपम् इति जानीते, रस इति जानीते। नामधेयशब्देन व्यपदिश्यमानं सत् शाब्दं प्रसज्यते, अत आह --- अव्यपदेश्यम् इति।


यद् इदम् अनुपयुक्ते शब्दार्थसन्बन्धेऽर्थज्ञानम्, न तत् नामधेयशब्देन व्यपदिश्यते, गृहीतेऽपि च शब्दार्थसम्बन्धेऽस्यार्थस्यायं शब्दो नामधेयम् इति। यदा तु सोऽर्थो गृह्यते,
गृह्यते,] पृ.१११
तदा तत् पूर्वस्माद् अर्थज्ञानान् न विशिष्यते, तद् अर्थविज्ञानं तादृग् एव भवति। तस्य त्व् अर्थज्ञानस्यान्यः समाख्याशब्दो नास्तीति, येन प्रतीयमानं व्यवहाराय लक्पेत। न चाप्रतीयमानेन व्यवहारः। तस्माज् ज्ञेयस्यार्थस्य संज्ञाशब्देनेतिकरणयुक्तेन निर्दिश्यते --- रूपम् इति ज्ञानम्, रस इति ज्ञानम् इति। तद् एवम् अर्थज्ञानकाले स न समाख्याशब्दो व्याप्रियते, व्यवहारकाले तु व्याप्रियते। तस्माद् अशाब्दम् अर्थज्ञानम् इन्द्रियार्थसन्निकर्षोत्पन्नम् इति।


ग्रीष्मे मरीचयो भौमेनोष्मणा संसृष्टाः स्पन्दमाना दूरस्थस्य चक्षुषा सन्निकृष्यन्ते,


तत्रेन्द्रियार्थसन्निकर्षाद् उदकम् इति ज्ञानम् उत्पद्यते, तच् च प्रत्यक्षं प्रसज्यत इत्य् अत आह --- अव्यभिचारीति। यद् अतस्मिंस् तद् इति तद् व्यभिचारि प्रत्यक्षम् इति।


दूराच् चक्षुषा ह्य् अयम् अर्थं पश्यन् नावधारयति धूम इति वा रेणुर् इति वा। तद् एतद् इन्द्रियार्थसन्निकर्षोत्पन्नम् अनवधारणज्ञानं प्रत्यक्षं प्रसज्यत इत्य् अत आह --- व्यवसायात्मकम् इति। न चैतन् मन्तव्यम् --- आत्ममनःसन्निकर्षजम् एवानवधारणज्ञानम् इति। चक्षुषा ह्य् अयम् अर्थं पश्यन् नावधारयति,
ह्य् अयम् अर्थं पश्यन् नावधारयति,] पृ.१२२
यथा चेन्द्रियेणोपलब्धम् अर्थं मनसोपलभते, एवम् इन्द्रियेणानवधारयन् मनसा नावधारयति। यच् च तदिन्द्रियानवधारणपूर्वकं मनसानवधारणं तद् विशेषापेक्षं विमर्शमात्रं संशयः, न पूर्वम् इति। सर्वत्र प्रत्यक्षविषये ज्ञातुर् इन्द्रियेण व्यवसायः,
व्यवसायः,] पृ.१२३
पश्चान् मनसाअनुव्यवसायः, उपहतेन्द्रियाणाम् अनुव्यवसायाभावाद् इति।
आत्मादिषु सुखादिषु च प्रत्यक्षलक्षणं वक्तव्यम्, अनिन्द्रियार्थसन्निकर्षजं हि तद् इति। इन्द्रियस्य वै सतो मनस इन्द्रियेभ्यः पृथगुपदेशो धर्मभेदात्, भौतिकानीन्द्रियाणि नियतविषयाणि,
-नीन्द्रियाणि नियतविषयाणि,] पृ.१२४
सगुणानां चैषाम् इन्द्रियभाव इति, मनस् त्व् अभौतिकं सर्वविषयं च, नास्य सगुणस्येन्द्रियभाव इति। सति चेन्द्रियार्थसन्निकर्षे सन्निधिम् असन्निधिं चास्य युगपज्ज्ञानानुत्पत्तिकारणं वक्ष्यामः इति।
-म् असन्निधिं ... वक्ष्यामः इति।] पृ.१२९
मनसश् चेन्द्रियभावान् न वाच्यं लक्षणान्तरम् इति। तन्त्रान्तरसमाचाराच् चैतत् प्रत्येतव्यम् इति। परमतम् अप्रतिषिद्धम् अनुमतम् इति हि तन्त्रयुक्तिः। व्याख्यातं प्रत्यक्षम्॥४॥


********************** न्यायभाष्यम्१,१.५ **********************


न्याभा१,१.५_ अथ तत्पूर्वकं त्रिविधम् अनुमानं पूर्ववच् छेषवत् सामान्यतो दृष्टं च ॥


तत्पूर्वकम् इत्य् अनेन लिङ्गलिङ्गिनोः सम्बन्धदर्शनं लिङ्गदर्शनं चाभिसम्बध्यते।


लिङ्गलिङ्गिनोः सम्बद्धयोर् दर्शनेन लिङ्गस्मृतिर् अभिसम्बध्यते। स्मृत्या लिङ्गदर्शनेन चाप्रत्यक्षोऽर्थोऽनुमीयते।
पूर्ववद् इति --- यत्र कारणेन कार्यम् अनुमीयते, यथा मेघोन्नत्या भविष्यति वृष्टिर् इति।


शेषवत् तद् --- यत्र कार्येण कारणम् अनुमीयते, पूर्वोदकविपरीतम् उदकं नद्याः पूर्णत्वं शीघ्रत्वञ् च दृष्ट्वा स्रोतसोऽनुमीयते भूता वृष्टिर् इति। सामान्यतोदृष्टम् --- व्रज्यापूर्वकम् अन्यत्र दृष्टस्य ण्यत्र दर्शनम् इति,
दृष्टस्य ण्यत्र दर्शनम् इति,] पृ.१४९
तथा चादित्यस्य, तस्माद् अस्त्य् अप्रत्यक्षाप्य् आदित्यस्य व्रज्येति।


अथ वा पूर्ववद् इति --- यत्र यथापूर्वं प्रत्यक्षभूतयोर् अन्यतरदर्शनेनान्यतरस्यानुमानम्,


ऽप्रत्यक्षस्यानुमानम्, यथा धूमेनाग्निर् इति। शेषवन् नाम परिशेषः, स च प्रसक्तप्रतिषेधे ण्यत्राप्रसङ्गाच् छिष्यमाणे सम्प्रत्ययः, यथा सद् अनित्यम् एवमादिना द्रव्यगुणकर्मणाम् अविशेषेण सामान्यविशेषसमवायेभ्यो विभक्तस्य शब्दस्य, तस्मिन् द्रव्यकर्मगुणसंशये, न द्रव्यम्, एकद्रव्यत्वात्, न कर्म, शब्दान्तरहेतुत्वात्, यस् तु शिष्यते सो .यम् इति शब्दस्य गुणत्वप्रतिपत्तिः।
शब्दस्य गुणत्वप्रतिपत्तिः।] पृ.१५६
सामान्यतोदृष्टं नाम --- यत्राप्रत्यक्षे लिङ्गलिङ्गिनोः सम्बन्धे केनचिद् अर्थेन लिङ्गस्य सामान्याद् अप्रत्यक्षो लिङ्गी गम्यते, यथेच्छादिभिर् आत्मा, इच्छादयो गुणाः,
गुणाः,] पृ.१५७
गुणाश् च द्रव्यसंस्थानाः, तद् तद् एषां स्थानं स आत्मेति।
विभागवचनाद् एव त्रिविधम् इति सिद्धे त्रिविधवचनं महतो महाविषयस्य न्यायस्य लघीयसा सूत्रेणोपदेशात् परं वाक्यलाघवं मन्यमानस्यान्यस्मिन् वाक्यलाघवेऽनादरः। तथा चायम् इत्थंभूतेन वाक्यविकल्पेन प्रवृत्तः सिद्धान्ते छले शब्दादिषु च बहुलं समाचारः शास्त्र इति।


सद्विषयं च प्रत्यक्षं सदसद्विषयं चानुमानम्। कस्मात्?। त्रैकाल्यग्रहणात् ---


त्रिकालयुक्ता अर्था अनुमानेन गृह्यन्ते, भविष्यतीत्य् अनुमीयते, भवतीति, चाभूद् इति च, असच् च खल्व् अत्तम् अनागतं चेति॥५॥


********************** न्यायभाष्यम्१,१.६ **********************


अथोपमानम् ---
न्याभा१,१.६_ प्रसिद्धसाधर्म्यात् साध्यसाधनम् उपमानम् ॥
प्रज्ञातेन सामान्यात् प्रज्ञापनीयस्य प्रज्ञापनम् उपमानम् इति। यथा गौर् एवं गवय इति।


किं पुनर् अत्रोपमानेन क्रियते? यदा खल्व् अयं गवा समानधर्मं प्रतिपद्यते तदा प्रत्यक्षतस् तम् अर्थं प्रतिपद्यत इति, समाख्यासम्बन्धप्रतिपत्तिर् उपमानार्थ इत्य् आह। यथा गौर् एवं गवय इत्य् उपमाने प्रयुक्ते गवा समानधर्मम् अर्थम् इन्द्रियार्थसन्निकर्षाद् उपलभमानोऽस्य गवयशब्दः संज्ञेति संज्ञासंज्ञिसम्बन्धं प्रतिपद्यत इति।
गौर् एवं गवय ... प्रतिपद्यत इति] पृ.१७०
यथा मुद्गस् तथा मुद्गपर्णी,
-पर्णी,] पृ.१७१
यथा माषस् तथा माषपर्णीत्य् उपमाने प्रयुक्ते उपमानात् संज्ञासंज्ञिसन्बन्धं प्रतिपद्यमानस् ताम् ओषधीं भैषज्यायाहरति।


एवम् अन्योऽप्य् उपमानस्य लोके विषयो बुभुत्सितव्य इति॥६॥


********************** न्यायभाष्यम्१,१.७ **********************


अथ शब्दः ---
न्याभा१,१.७_ आप्तोपदेशः शब्दः ॥
आप्तः खलु साक्षात्कृतधर्मा यथादृष्टस्यार्थस्य चिख्यापयिषया प्रयुक्त उपदेष्टा।


साक्षात्करणम् अर्थस्याप्तिः, तया प्रवर्तत इत्य् आप्तः। ऋष्यार्यम्लेच्छानां समानं लक्षणम्।
समानं लक्षणम्।] पृ.१७६
तथा च सर्वेषां व्यवहाराः प्रवर्त्तन्त इति। एवम् एभिः प्रमाणैर् देवमनुष्यतिरश्चां व्यवहाराः प्रकल्पन्ते, नातोऽन्यथेति॥७॥


********************** न्यायभाष्यम्१,१.८ **********************


न्याभा१,१.८_ स द्विविधो दृष्टादृष्.आर्थत्वात् ॥
यस्येह दृश्यतेऽर्थः स दृष्टार्थः। यस्यामुत्र प्रतीयते सोऽदृष्टार्थः। एवम् ऋषिलौकिकवाक्यानां विभाग इति। किमर्थं पुनर् इदम् उच्यते? स न मन्येत दृष्टार्थ एवाप्तोपदेशः प्रमाणम्, अर्थस्यावधारणाद् इति, अदृष्टार्थोऽपि प्रमाणम् अर्थस्यानुमानाद् इति॥८॥


********************** न्यायभाष्यम्१,१.९ **********************


किं पुनर् अनेन प्रमाणेनार्थजातं प्रमातव्यम् इति? ---
न्याभा१,१.९_ आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गास् तु प्रमेयम् ॥


तत्रात्मा सर्वस्य द्रष्टा सर्वस्य भोक्ता सर्वज्ञः सर्वानुभावी। तस्य भोगायतनं शरीरम्। भोगसाधनानीन्द्रियाणि। भोक्तव्या इन्द्रियार्थाः। भोगो बुद्धिः। सर्वार्थोपलब्धौ नेन्द्रियाणि प्रभवन्तीति सर्वविषयम् अन्तःकरणं मनः। शरीरेन्द्रियार्थबुद्धिसुखवेदनानां निवृत्तिकारणं प्रवृत्तिः, दोषाश् च। नास्येदं शरीरम् अपूर्वम् अनुत्तरं च, पूर्वशरीराणाम् आदिर् नास्ति, उत्तरेषाम् अपवर्गोऽन्त इति प्रेत्यभावः। ससाधनसुखदुःखोपभोगः फलम्। दुःखम् इति नेदम् अनुकूलवेदनीयस्य सुखस्य प्रतीतेः प्रत्याख्यानम्। किं तर्हि? जन्मन एवेदं ससुखसाधनस्य दुःखानुषङ्गात् दुःखेनाविप्रयोगाद् विविधबाधनायोगाद् दुःखम् इति समाधिभावनम् उपदिश्यते।
-योगाद् दुःखम् ... उपदिश्यते।] पृ.१८३
समाहितो भावयति, भावयन् निर्विद्यते, निर्विण्णस्य वैराग्यम्, विरक्तस्यापवर्ग इति। जन्ममरणप्रबन्धोच्छेदः सर्वदुःखप्रहाणम् अपवर्ग इति। अस्त्य् अन्यद् अपि द्रव्यगुणकर्मसामान्यविशेषसमवायाः प्रमेयम्, तद्भेदेन चापरिसङ्ख्येयम्॑ अस्य तु तत्त्वज्ञानाद् अपवर्गो मिथ्याज्ञानात् संसार इत्य् अत एतद् उपदिष्टं विशेषेणेति॥९॥


********************** न्यायभाष्यम्१,१.१० **********************


तत्रात्मा तावत् प्रत्यक्षतो न गृह्यते। स किम् आप्तोपदेशमात्राद् एव प्रतिपद्यत इति? नेत्य् उच्यते। अनुमानाच् च प्रतिपत्तव्य इति। कथम्?
न्याभा१,१.१०_ इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्य् आत्मनो लिङ्गम् इति ॥


यज्जातीयस्यार्थस्य सन्निकर्षात् सुखम् आत्मोपलब्धवान्, तज्जातीयम् एवार्थं पश्यन्न् उपादातुम् इच्छति, सेयम् आदातुम् इच्छा एकस्यानेकार्थदर्शिनो दर्शनप्रतिसन्धानाद् भवति लिङ्गम् आत्मनः। नियतविषये हि बुद्धिभेदमात्रे न सम्भवति, देहान्तरवद् इति। एवम् एकस्यानेकार्थदर्शिनो दर्शनप्रतिसन्धानात् दुःखहेतौ द्वेषः,
-नेकार्थदर्शिनो ... द्वेषः,] पृ.१८७
यज्जातीयोऽस्यार्थः सुखहेतुः प्रसिद्धस् तज्जातीयम् अर्थं पश्यन्न् आदातुं प्रयतते। एकम् अनेकार्थदर्शिनं दर्शनप्रतिसन्धातारम् अन्तरेण न स्यात्। नियतविषये बुद्धिमात्रे न सम्भवति, देहान्तरवद् इति। एतेन दुःखहेतौ प्रयत्नो व्याख्यातः। सुखदुःखस्मृत्या चायं तत्साधनम् आददानः सुखम् उपलभते दुःखम् उपलभते, सुखदुःखे वेदयते। पूर्वोक्त एव हेतुः। बुभुत्समानः खल्व् अयं विमृशति किंस्विद् इति, विमृशंश् च जानीते इदम् इति, तद् इदं ज्ञानं बुभुत्साविमर्शाभ्याम् अभिन्नकर्तृकं गृह्यमाणम् आत्मलिङ्गम्। पूर्वोक्त एव हेतुर् इति। तत्र देहान्तरवद् इति विभज्यते यथानात्मवादिनो देहान्तरेषु नियतविषया बुद्धिभेदा न प्रतिसन्धीयन्ते तथैकदेहविषया अपि न प्रतिसन्धीयेरन्, अविशेषात्।
तथैकदेहविषया अपि न प्रतिसन्धीयेरन्, अविशेषात्।] पृ.१८८
सोऽयम् एकसत्त्वस्य समाचारः स्वयंदृष्टस्य स्मरणम्, नान्यद्दृष्टस्य, नादृष्टस्येति। एवं खलु नानासत्त्वानां समाचारोऽन्यदृष्टम् अन्यो न स्मरतीति। तद् एतद् उब्ययम् अशक्यम् अनात्मवादिना व्यवस्थापयितुम् इत्य् एवम् उपपन्नम् अस्त्य् आत्मेति॥१०॥


********************** न्यायभाष्यम्१,१.११ **********************


तस्य भोगाधिष्ठानम् ---
न्याभा१,१.११_ चेष्टेन्द्रियार्थाश्रयः शरीरम् ॥
कथं चेष्टाश्रयः? ईप्सितं जिहासितं वार्थम् अधिकृत्येप्साजिहासाप्रयुक्तस्य तदुपायानुष्ठानलक्षणा समीहा चेष्टा, सा यत्र वर्त्तते तच् छरीरम्।
तदुपायानुष्ठानलक्षणा ... तच् छरीरम्।] पृ.१९४
कथम् इन्द्रियाश्रयः? यस्यानुग्रहेणानुगृहीतानि उपघाते चोपहतानि स्वविषयेषु साध्वसाधुषु वर्तन्ते स एषाम् आश्रयः तच् छरीरम्। कथम् अर्थाश्रयः।
स एषाम् आश्रयः तच् छरीरम्। कथम् अर्थाश्रयः।] पृ.१९५
यस्मिन्न् आयतने इन्द्रियार्थसन्निकर्षाद् उत्पन्नयोः सुखदुःखयोः प्रतिसंवेदनं प्रवर्तते स एषाम् आश्रयः,
सुखदुःखयोः प्रतिसंवेदनं प्रवर्तते स एषाम् आश्रयः,] पृ.१९६
तच् छरीरम् इति॥११॥


********************** न्यायभाष्यम्१,१.१२ **********************


भोगसाधनानि पुनः ---
न्याभा१,१.१२_ घ्राणरसनचक्षुस्त्वक्श्रोत्राणीन्द्रियाणि भूतेभ्यः ॥
जिघ्रत्य् अनेनेति घ्राणं गन्धं गृह्णातीति। रसयत्य् अनेनेति रसनं रसं गृह्णातीति। चष्टेऽनेनेति चक्षू रूपं पश्यतीति। त्वक्स्थानम् इन्द्रियं त्वक्। तदुपचारः स्थानाद् इति।
तदुपचारः स्थानाद् इति।] पृ.१९८
शृणोत्य् अनेनेति श्रोत्रं शब्दं गृह्णातीति। एवं समाख्यानिर्वचनसामर्थ्याद् बोध्यं स्वविषयग्रहणलक्षणानीन्द्रियाणीति।


भूतेभ्य इति। नानाप्रकृतीनाम् एषां सतां विषयनियमः, नैकप्रकृतीनाम्। सति च विषयनियमे स्वविषयग्रहणलक्षणत्वं भवतीति॥१२॥


********************** न्यायभाष्यम्१,१.१३ **********************


कानि पुनर् इन्द्रियकारणानि?
न्याभा१,१.१३_ पृथिव्य् आपस् तेजो वायुर् आकाशम् इति भूतानि ॥
संज्ञाशब्दैः पृथगुपदेशो भूतानां विभक्तानां सुवचं कार्यं भविष्यतीति॥१३॥


********************** न्यायभाष्यम्१,१.१४ **********************


इमे तु खलु ---
न्याभा१,१.१४_ गन्धरसरूपस्पर्शशब्दाः पृथिव्यादिगुणास् तदर्थाः ॥
पृथिव्यादीनां यथाविनियोगं गुणा इन्द्रियाणां यथाक्रमम् अर्था विषया इति॥१४॥


********************** न्यायभाष्यम्१,१.१५ **********************


अचेतनस्य करणस्य बुद्धेर् ज्ञानं वृत्तिः चेतनस्याकर्तुर् उपलब्धिर् इति युक्तिविरुद्धम् अर्थं प्रत्याचक्षाणक इवेदम् आह ---
न्याभा१,१.१५_ बुद्धिर् उपलब्धिर् ज्ञानम् इत्य् अनर्थान्तरम् ॥
नाचेतनस्य करणस्य बुद्धेर् ज्ञानं भवितुम् अर्हति, तद् धि चेतनं स्यात्, एकश् चायं चेतनो देहेन्द्रियसंघातव्यतिरिक्त इति।
देहेन्द्रियसंघातव्यतिरिक्त इति।] पृ.२१४
प्रमेयलक्षणार्थस्य वाक्यस्यान्यार्थप्रकाशनम् उपपत्तिसामर्थ्याद् इति॥१५॥


********************** न्यायभाष्यम्१,१.१६ **********************


स्मृत्यनुमानागमसंशयप्रतिभास्वप्नज्ञानोहाः सुखादिप्रत्यक्षम् इच्छादयश् च मनसो लिङ्गानि। तेषु सत्स्व् अयम् अपि ---
न्याभा१,१.१६_ युपगज्ज्ञानानुत्पत्तिर् मनसो लिङ्गम् ॥
अनिन्द्रियनिमित्ताः स्मृत्यादयः करणान्तरनिमित्ता भवितुम् अर्हन्तीति। युगपच् च खलु घ्राणादीनां गन्धादीनां च सन्निकर्षेषु सत्सु युगपज् ज्ञानानि नोत्पद्यन्ते,
खलु घ्राणादीनां ... युगपज्ज्ञानानि नोत्पद्यन्ते, ] पृ.२१६
तेनानुमीयते, अस्ति तत् तद् इन्द्रियसंयोगि सहकारि निमित्तान्तरम् अव्यापि, यस्यासन्निधेर् नोत्पद्यते ज्ञानं सन्निधेश् चोत्पद्यत इति।
ज्ञानं सन्निधेश् चोत्पद्यत इति।] पृ.२१७
मनःसंयोगानपेक्षस्य हीन्द्रियार्थसन्निकर्षस्य ज्ञानहेतुत्वे युगपद् उप्तद्येरन् ज्ञानानीति॥१६॥


********************** न्यायभाष्यम्१,१.१७ **********************


क्रमप्राप्ता तु ---
न्याभा१,१.१७_ प्रवृत्तिर् वाग्बुद्धिशरीरारम्भः ॥
मनोऽत्र बुद्धिर् इत्य् अभिप्रेतम्, बुध्यतेऽनेनेति बुद्धिः। सोऽयम् आरम्भः शरीरेण वाचा मनसा च पुण्यः पापश् च दशविधः। तद् एतत् कृतभाष्यं द्वितीयसूत्र इति॥१७॥


********************** न्यायभाष्यम्१,१.१८ **********************


न्याभा१,१.१८_ प्रवर्तनालक्षणा दोषाः ॥
प्रवर्तना प्रवृत्तिहेतुत्वम्, ज्ञातारं हि रागादयः प्रवर्तयन्ति पुण्ये पापे वा। यत्र मिथ्याज्ञानं तत्र रागद्वेषाव् इति। प्रत्यात्मवेदनीया हीमे दोषाः कस्माल् लक्षणतो निर्दिश्यन्त इति? कर्मलक्षणाः खलु रक्तद्विष्टमूढाः, रक्तो हि तत् कर्म कुरुते येन कर्मणा सुखं दुःखं वा लभते, तथा द्विष्टस् तथा मूढ इति। रागद्वेषमोहा इत्य् उच्यमाने बहु नोक्तं भवतीति॥१८॥


********************** न्यायभाष्यम्१,१.१९ **********************


न्याभा१,१.१९_ पुनरुत्पत्तिः प्रेत्यभावः ॥
उत्पन्नस्य क्वचित् सत्त्वनिकाये मृत्वा या पुनरुत्पत्तिः स प्रेत्यभावः। उत्पन्नस्य --- सम्बद्धस्य। सम्बन्धस् तु देहेन्द्रियमनोबुद्धिवेदनाभिः। पुनरुत्पत्तिः --- पुनर् देहादिभिः सम्बन्धः। पुनर् इत्य् अभ्यासाभिधानम्। यत्र क्वचित् प्राणभृन्निकाये वर्तमानः पूर्वोपात्तान् देहादीन् जहाति तत् प्रैति।
पूर्वोपात्तान् देहादीन् जहाति तत् प्रैति।] पृ.२२२
यत् तत्रान्यत्र वा देहादीन् अन्यान् उपादत्ते तद् भवति। प्रेत्यभावः --- मृत्वा पुनर्जन्म, सोऽयं जन्ममरणप्रबन्धाभ्यासोऽनादिर् अपवर्गान्तः प्रेत्यभावो वेदितव्य इति॥१९॥


********************** न्यायभाष्यम्१,१.२० **********************


न्याभा१,१.२०_ प्रवृत्तिदोषजनितोऽर्थः फलम् ॥
सुखदुःखसंवेदनं फलम्। सुखविपाकं कर्म दुःखविपाकं च। तत् पुनर् देहेन्द्रियविषयबुद्धिषु सतीषु भवतीति सह देहादिभिः फलम् अभिप्रेतम्। तथा हि प्रवृत्तिदोषजनितोऽर्थः फलम् एतत् सर्वं भवति।
प्रवृत्तिदोषजनितोऽर्थः फलम् एतत् सर्वं भवति।] पृ.२२३
तद् एतत् फलम् उपातम् उपातं हेयम्, त्यक्तं त्यक्तम् उपादेयम् इति नास्य हानोपादानयोर् निष्ठा पर्यवसानं वास्ति, स खल्व् अयं फलस्य हानोपादानस्रोतसोह्यते लोक इति॥२०॥


********************** न्यायभाष्यम्१,१.२१ **********************


अथैतद् एव ---
न्याभा१,१.२१_ बाधनालक्षणं दुःखम् ॥
बाधना पीडा ताप इति। तयानुविद्धम् अनुषक्तम् अविनिर्भागेन वर्तमानं दुःखयोगाद् दुःखम् इति। सोऽयं सर्वं दुःखेनानुविद्धम् इति पश्यन् दुःखं जिहासुर् जन्मनि दुःखदर्शी निर्विद्यते, निर्विण्णो विरज्यते, विरक्तो विमुच्यते॥२१॥


********************** न्यायभाष्यम्१,१.२२ **********************


यत्र तु निष्ठा यत्र तु पर्यवसानं सो .यम् ---
न्याभा१,१.२२_ तदत्यन्तविमोक्षो .पवर्गः ॥
तेन --- दुःखेन जन्मना अत्यन्तं विमुक्तिर् अपवर्गः। कथम्? उपात्तस्य जन्मनो हानम्, अन्यस्य चानुपादानम्। एताम् अवस्थाम् अपर्यन्तम् अपवर्गं वेदयन्तेऽपवर्गविदः। तद् अभयम् अजरम् अमृत्युपदं ब्रह्म क्षेमप्राप्तिर् इति।


नित्यं सुखम् आत्मनो महत्त्ववन् मोक्षे व्यज्यते, येनाभिव्यक्तेनात्यन्तं विमुक्तः सुखी भातीति केचिन् मन्यन्ते। तेषां प्रमाणाभावाद् अनुपपत्तिः। न प्रत्यक्षं नानुमानं नागमो वा विद्यते नित्यं सुखम् आत्मनो महत्त्ववन् मोक्षेऽभिव्यज्यत इति।
नित्यस्याभिव्यक्तिः --- संवेदनम्, तस्य हेतुवचनम्। नित्यस्याभिव्यक्तिः ---संवेदनम् --- ज्ञानम् इति, तस्य हेतुर् वाच्यो यतस् तद् उत्पद्यत इति।


सुखवन् नित्यम् इति चेत्? संसारस्थस्य मुक्तेनाविशेषः। यथा मुक्तः सुखेन तत्संवेदनेन च सन्नित्येनोपपन्नस् तथा संसारस्थोऽपि प्रसज्यत इति, उभयस्य नित्यत्वात्।


अभ्यनुज्ञाने च धर्माधर्मफलेन साहचर्यं यौगपद्यं गृह्येत। यद् इदम् उत्पत्तिस्थानेषु धर्माधर्मफलं सुखं दुःखं वा संवेद्यते पर्यायेण, तस्य च नित्यसंवेदनस्य च सहभावो यौगपद्यं गृह्येत, न सुखाभावो नानभिव्यक्तिर् अस्ति, उभयस्य नित्यत्वात्।
अनित्यत्वे हेतुवचनम्। अथ मोक्षे नित्यस्य सुखस्य संवेदनम् अनित्यम्? यत उत्पद्यते स हेतुर् वाच्यः।
आत्ममनःसंयोगस्य निमित्तान्तरसहितस्य हेतुत्वम्। आत्ममनःसंयोगो हेतुर् इति चेत्? एवम् अपि तस्य सहकारि निमित्तान्तरं वचनीयम् इति।
धर्मस्य कारणवचनम्। यदि धर्मो निमित्तान्तरम्? तस्य हेतुर् वाच्यो यतः उत्पद्यत इति। योगसमाधिजस्य कार्यावसायविरोधात् प्रक्षये संवेदननिवृत्तिः। यदि योगसमाधिजो धर्मो हेतुः?
-समाधिजो धर्मो हेतुः?] पृ.२२९
तस्य कार्यावसायविरोधात् प्रक्षये संवेदनम् अत्यन्तं निवर्तते।
असंवेदने चाविद्यमानेनाविशेषः। यदि धर्मक्षयात् संवेदनोपरमो नित्यं सुखं न संवेद्यत इति? किं विद्यमानं न संवेद्यते, अथाविद्यमानम् इति नानुमानं विशिष्टेऽस्तीति।
अप्रक्षयश् च धर्मस्य निरनुमानम् उत्पत्तिधर्मकत्वात्। योगसमाधिजो धर्मो न क्षीयत इति नास्त्य् अनुमानम्। उत्पत्तिधर्मकम् अनित्यम् इति विपर्ययस्य त्व् अनुमानम्। यस्य तु संवेदनोपरमो नास्ति तेन संवेदनहेतुर् नित्य इत्य् अनुमेयम्।
नित्ये च मुक्तसंसारस्थयोर् अविशेष इत्य् उक्तम्। यथा मुक्तस्य नित्यं सुखं तत्संवेदनहेतुश् च, संवेदनस्य तूपरमो नास्ति, कारणस्य नित्यत्वात्, तथा संसारस्थस्यापीति। एवं च सति धर्माधर्मफलेन सुखदुःखसंवेदनेन साहचर्यं गृह्येतेति।
शरीरादिसम्बन्धः प्रतिबन्धहेतुर् इति चेत्? न, शरीरादीनाम् उपभोगार्थत्वात् विपर्ययस्य चाननुमानात्।
विपर्ययस्य चाननुमानात्।] पृ.२३०
स्यान् मतम् --- संसारावस्थस्य शरीरादिसम्बन्धो नित्यसुखसंवेदनहेतोः प्रतिबन्धकः, तेनाविशेषो नास्तीति। एतच् चायुक्तम्, शरीरादयः उपभोगार्थास् ते भोगप्रतिबन्धं करिष्यन्तीत्य् अनुपपन्नम्॑ न चास्त्य् अनुमानम् अशरीरस्यात्मनो भोगः कश्चिद् अस्तीति।


इष्टाधिगमार्था प्रवृत्तिर् इति चेत्? न, अनिष्टोपरमार्थत्वात्। इदम् अनुमानम् --- इष्टाधिगमार्थो मोक्षोपदेशः प्रवृत्तिश् च मुमुक्षूणाम्, नोभयम् अनर्थकम् इति। एतच् चायुक्तम्, अनिष्टोपरमार्थो मोक्षोपदेशः प्रवृत्तिश् च मुमुक्षूणाम् इति। नेष्टम् अनिष्टेनाननुविद्धं सम्भवतीति इष्टम् अप्य् अनिष्टं सम्पद्यते, अनिष्टहानाय घटमान इष्टम् अपि जहाति, विवेकहानस्याशक्यत्वाद् इति।
दृष्टातिक्रमश् च देहादिषु तुल्यः। यथा दृष्टम् अनित्यं सुखं परित्यज्य नित्यं सुखं कामयते, एवं देहेन्द्रियबुद्धीर् अनित्या दृष्टा अतिक्रम्य मुक्तस्य नित्या देहेन्द्रियबुद्धयः कल्पयितव्याः, साधीयश् चैवं मुक्तस्य चैकात्म्यं कल्पितं भवतीति।
उपपत्तिविरुद्धम् इति चेत्? समानम्। देहादीनां नित्यत्वं प्रमाणविरुद्धं कल्पयितुम् अशक्यम् इति? समानं सुखस्यापि नित्यत्वं प्रमाणविरुद्धं कल्पयितुम् अशक्यम् इति।
आत्यन्तिके च संसारदुःखाभावे सुखवचनाद् आगमेऽपि सत्य् अविरोधः। यद्य् अपि कश्चिद् आगमः स्यात् मुक्तस्यात्यन्तिकं सुखम् इति?
कश्चिद् आगमः स्यात् मुक्तस्यात्यन्तिकं सुखम् इति?] पृ.२३२
सुखशब्द आत्यन्तिके दुःखाभावे प्रयुक्त इत्य् एवम् उपपद्यते, दृष्टो हि दुःखाभावे सुखशब्दप्रयोगो बहुलं लोक इति।
नित्यसुखरागस्याप्रहाणे मोक्षाधिगमाभावः, रागस्य बन्धनसमाज्ञानात्। यद्य् अयं मोक्षो नित्यं सुखम् अभिव्यज्यत इति, नित्यसुखरागेण मोक्षाय घटमानो न मोक्षम् अधिगच्छेत्, नाधिगन्तुम् अर्हतीति। बन्धनसमाज्ञातो हि रागः। न च बन्धने सत्य् अपि कश्चिन् मुक्त इत्य् उपपद्यत इति।
प्रहीणनित्यसुखरागस्याप्रतिकूलत्वम्। अथास्य नित्यसुखरागः प्रहीयते, तस्मिन् प्रहीणे नास्य नित्यसुखरागः प्रतिकूलो भवति? यद्य् एवम्, मुक्तस्य नित्यं सुखं भवति, अथापि न भवति, नास्योभयोः पक्षयोर् मोक्षाधिगमो विकल्प्यते इति॥२२॥


********************** न्यायभाष्यम्१,१.२३ **********************


स्थानवत एव तर्हि संशयस्य लक्षणं वाच्यम् इति तद् उच्यते ---


न्याभा१,१.२३_ समानानेकधर्मोपपत्तेर् विप्रतिपत्तेर् उपलब्ध्यनुपलब्ध्यव्यवस्थातश् च विशेषापेक्षो विमर्शः संशयः ॥
समानधर्मोपपत्तेर् विशेषापेक्षो विमर्शः संशय इति। स्थाणुपुरुषयोः समानं धर्मम् आरोहपरिणाहौ पश्यन् पूर्वदृष्टं च तयोर् विशेषम् बुभुत्समानः किंस्विद् इत्य् अन्यतरं नावधारयति, तदनवधारणं ज्ञानं संशयः। समानम् अनयोर् धर्मम् उपलभे विशेषम् अन्यतरस्य नोपलभ इत्य् एषा बुद्धिर् अपेक्षा ---
नोपलभ इत्य् एषा बुद्धिर् अपेक्षा ---] पृ.२४०
संशयस्य प्रवृत्तिका वर्तते, तेन विशेषापेक्षो विमर्शः संशयः।
अनेकधर्मोपपत्तेर् इति। समानजातीयम् असमानजातीयं चानेकम्। तस्यानेकस्य धर्मोपपत्तेः ---
धर्मोपपत्तेः ---] पृ.२४४
विशेषस्योबयथा दृष्टत्वात्। समानजातीयेभ्योऽसमानजातीयेब्यश् चार्था विशिष्यन्ते, गन्धवत्त्वात् पृथिव्य् अबाधिब्यो विशिष्यते गुणकर्मभ्यश् च । अस्ति च शब्दे विभागजन्यत्वं विशेषः। तस्मिन् द्रव्यं गुणः कर्म वेति सन्देहः, विशेषस्योबयथा दृष्टत्वात्।
-त्वात्] पृ.२४९
किं द्रव्यस्य सतो गुणकर्मभ्यो विशेषः, आहोस्विद् गुणस्य सत इति, अथ कर्मणः सत इति? विशेषापेक्षा --- अन्यतमस्य व्यवस्थापकं धर्म नोपलब इति बुद्धिर् इति।
विप्रतिपत्तेर् इति। व्याहतम् एकार्थदर्शनं विप्रतिपत्तिः, व्याघातः --- विरोधोऽसहभाव इति। अस्त्य् आत्मेत्य् एकं दर्शनम्, नास्त्य् आत्मेत्य् अपरम्, न च सद्भावासद्भावौ सहैकत्र सम्भवतः, न चान्यतरसाधको हेतुर् उपलभ्यते, तत्र तत्त्वानवधारणं संशय इति।
उपलब्ध्यवयवस्थातः खल्व् अपि सच् चोदकम् उपलभ्यते तडागादिषु, मरीचिषु चाविद्यमानम् उदकम् इति, अतः क्वचिद् उपलभ्यमाने तत्त्वव्यवस्थापकस्य प्रमाणस्यानुपलब्धेः किं सद् उपलभ्यतेऽथासद् इति संशयो भवति।
अनुपलब्ध्यव्यवस्थातः। सच् च नोपलब्यते मूलकीलकोदकादि, असच् चानुत्पन्नं निरुद्धं वा,
नुरुद्धं वा,] पृ.२५०
ततः क्वचिद् अनुपलभ्यमाने संशयः, किं सन् नोपलब्यते उतासद् इति संशयो भवति। विशेषापेक्षा पूर्ववत्।
पूर्वः समानोऽनेकश् च धर्मो ज्ञेयस्थः, उपलब्ध्यनुपलब्धी पुनर् ज्ञातृस्थे, एतावता विशेषेण पुनर्वचनम्।
विशेषेण पुनर्वचनम्।] पृ.२५५
समानधर्माधिगमात् समानधर्मोपपत्तेर् विशेषस्मृत्यपेक्षो विमर्श इति॥२३॥


********************** न्यायभाष्यम्१,१.२४ **********************


स्थानवतां लक्षणम् इति समानम्।
न्याभा१,१.२४_ यम् अर्ह्तम् अधिकृत्य प्रवर्तते तत् प्रयोजनम् ॥
यम् अर्थम् आप्तव्यं हातव्यं वा व्यवसाय तदाप्तिहानोपायम् अनुतिष्ठति, प्रयोजनं तद् वेदितव्यम्, प्रवृत्तिहेतुत्वात्। इमम् अर्थम् आप्स्यामि हास्यामि वेति व्यवसायोऽर्थस्याधिकारः, एवं व्यवसीयमानोऽर्थोऽधिक्रियत इति॥२४॥


********************** न्यायभाष्यम्१,१.२५ **********************


न्याभा१,१.२५_ लौकिकपरीक्षकाणां यस्मिन्न् अर्थे बुद्धिसाम्यं स दृष्टानतः ॥
लोकसामान्यम् अनतीता लौकिका नैसर्गिकं वैनयिकं बुद्ध्यतिशयम् अप्राप्ताः। तद्विपरीताः परीक्षकाः। तर्केण प्रमाणैर् अर्थं परीक्षितुम् अर्हन्तीति। यथा यम् अर्थं लौकिका बुध्यन्ते तथा परीक्षका अपि,
यम् अर्थं लौकिका ...] पृ.२५९
सोऽर्थो दृष्टान्तः। दृष्टान्तविरोधेन हि प्रतिपक्षाः प्रतिषेद्धव्या भवन्तीति, दृष्टान्तसमाधिना च स्वपक्षाः स्थापनीया भवन्तीति, अवयवेषु चोदाहरणाय कल्पत इति॥२५॥


********************** न्यायभाष्यम्१,१.२६ **********************


अथ सिद्धान्तः, इदम् इत्थम्भूतञ् चेत्य् अभ्यनुज्ञायमानम् अर्थजातं सिद्धम्, सिद्धस्य संस्थितिः सिद्धान्तः, संस्थितिर् इत्थम्भावव्यवस्था धर्मनियमः।
स खल्व् अयम् ---
न्याभा१,१.२६_ तन्त्राधिकरणाभ्युपगमसंस्थितिः सिद्धान्तः ॥


तन्त्रार्थसंस्थितिः तन्त्रसंस्थितिः, तन्त्रम् इतरेतराभिसम्बद्धस्यार्थसमूहस्योपदेशः शास्त्रम्। अधिकरणानुषक्तार्थसंस्थितिर् अधिकरणसंस्थितिः, अभ्युपगमसंस्थितिर् अनवधारितार्थपरिग्रहः, तद्विशेषपरीक्षणायाभ्युपगमसिद्धान्तः।


********************** न्यायभाष्यम्१,१.२७ **********************
तन्त्रभेदात् तु खलु
न्याभा१,१.२७_ स चतुर्विधः सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमसंस्थित्यर्थान्तरभावात् ॥


तत्रैताश् चतस्रः संस्थितयोऽर्थोआनरभूताः॥२७॥


********************** न्यायभाष्यम्१,१.२८ **********************


तासाम् ---
न्याभा१,१.२८_ सर्वतन्त्राविरुद्धस् तन्त्रेऽधिकृतोऽर्थः सर्वतन्त्रसिद्धान्तः ॥
यथा घ्राणादीनीनिन्द्रियाणि गन्धादय इन्द्रियार्हाः पृथिव्यादीनि भूतानि प्रमाणैर् अर्थस्य ग्रहणम् इति॥२८॥


********************** न्यायभाष्यम्१,१.२९ **********************


न्याभा१,१.२९_ समानतन्त्रसिद्धः प्रतन्त्रासिद्धः प्रतितन्त्रसिद्धान्तः ॥
यथा नासत आत्मलाभः, न सत आत्महानम्, निरतिशयाश् चेतनाः देहेन्द्रियमनःसु विषयेषु तत्तत्कारणेषु च विशेष इति साङ्ख्यानाम्, पुरुषकर्मादिनिमित्तो भूतसर्गः, कर्महेतवो दोषाः प्रवृत्तिश् च, स्वगुणविशिष्टाश् चेतनाः, असद् उत्पद्यते उत्पन्नं निरुध्यत इति योगानाम्॥२९॥


********************** न्यायभाष्यम्१,१.३० **********************


न्याभा१,१.३०_ यत्सिद्धाव् अन्यप्रकरणसिद्धिः सोऽधिकरणसिद्धान्तः ॥
यस्यार्ह्तस्य सिद्धाव् अन्येऽर्था अनुषज्यन्ते, न तैर् विना सोऽर्थः सिध्यति तेऽर्था यदधिष्ठानाः सोऽधिकरणसिद्धान्तः,
-ष्ठानाः सोऽधिकरणसिद्धान्तः,] पृ.२६५
यथा देहेन्द्रियव्यतिरिक्तो ज्ञाता ’’दर्शनस्पर्शनाभ्याम् एकार्थग्रहणाद्ऽऽ इति अत्रानुषङ्गिणोऽर्था इन्द्रियनानात्वं नियतविषयाणीन्द्रियाणि स्वविषयग्रहणलिङ्गानि ज्ञातुर् ज्ञानसाधनानि, गन्धादिगुणव्यतिरिक्तं द्रव्यं गुणाधिकरणम् अनियतविषयाश् चेतना इति पूर्वार्थसिद्धाव् एतेऽर्हाः सिध्यन्ति न तैर् विना सोऽर्थः सम्भवतीति॥३०॥


********************** न्यायभाष्यम्१,१.३१ **********************


न्याभा१,१.३१_ अपरीक्षिताभ्युपगमात् तद्विशेषपरीक्षणम् अभ्युपगमसिद्धान्तः ॥
यत्र किञ्चिद् अर्थजातम् अपरीक्षितम् अभ्युपगम्यते, अस्तु द्रव्यं शब्दः स तु नित्योऽथानित्य इति? द्रव्यस्य सतो नित्यतानित्यता वा तद्विशेषः परीक्ष्यते, सोऽभ्युपगमसिद्धान्तः स्वबुद्ध्यतिशयचिख्यापयिषया परबुद्ध्यवज्ञानाच् च प्रवर्तत इति॥३१॥


********************** न्यायभाष्यम्१,१.३२ **********************


अथावयवाः ---
न्याभा१,१.३२_ प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्य् अवयवाः ॥
दशावयवान् एके नैयायिका वाक्ये सञ्चक्षते, जिज्ञासा संशयः शक्यप्राप्तिः प्रयोजनं संशयव्युदास इति, ते कस्मान् नोच्यन्त इति। तत्राप्रतीयमानेऽर्थे प्रत्ययार्थस्य प्रवर्तिका जिज्ञासा।
जिज्ञासा।]ü॰प्.२७०
अप्रतीयमानम् अर्थं कस्माज् जिज्ञासते? तं तत्त्वतो ज्ञातं हास्यामि वोपादास्य उपेक्षिष्ये वेति। ता एता हानोपादानोपेक्षाबुद्धयस् तत्त्वज्ञानस्यार्थष् तदर्थम्(शुद्ध ; -र्थः, स्तदर्थम्, सम्पादकः) अयं जिज्ञासते। सा खल्व् अयम् असाधनम् अर्थस्येति। जिज्ञासाधिष्ठानं संशयश् च व्याहतधर्मोपसङ्घातात् तत्त्वज्ञाने प्रत्यासन्नः, व्याहतयोर् हि धर्मयोर् अन्यतरतत्त्वं भवितुम् अर्हतीति। स पृथग् उपदिष्टोऽप्य् असाधनम् अर्थस्येति। प्रमातुः प्रमाणानि प्रमेयाधिगमार्थानि, सा शक्यप्राप्तिर् न साधकस्य वाक्यस्य भागेन युज्यते प्रतिज्ञादिवद् इति। प्रयोजनं तत्त्वावधारणम् अर्थसाधकस्य वाक्यस्य फलं नैकदेश इति। संशयव्युदासः प्रतिपक्षोपवर्णनं तत्प्रतिषेधेन तत्त्वज्ञानाभ्यनुज्ञानार्थम्, न त्व् अयं साधकवाक्यैकदेश इति। प्रकरणे तु जिज्ञासादयः समर्था अवधारणीयार्थोपकारात्।
तु जिज्ञासदयः समर्था अवधारणीयार्थोपकारात्।] पृ.२७१
तत्त्वार्थसाधकभावात् तु प्रतिज्ञादयः साधकवाक्यस्य भागा एकदेशा अवयवा इति॥ ३२ ॥


********************** न्यायभाष्यम्१,१.३३ **********************


तेषां तु यथाविभक्तानाम् ---
न्याभा१,१.३३_ साध्यनिर्देशः प्रतिज्ञा ॥
प्रज्ञापनीयेन धर्मेण धर्मिणो विशिष्टस्य परिग्रहवचनं प्रतिज्ञा साध्यनिर्देशः अनित्यः शब्द इति॥३३॥


********************** न्यायभाष्यम्१,१.३४ **********************


न्याभा१,१.३४_ उदाहरणसाधर्म्यात् साध्यसाधनं हेतुः ॥
उदाहरणेन सामान्यात् साध्यस्य धर्मस्य साधनं प्रज्ञापनं हेतुः, साध्ये प्रतिसन्धाय धर्मम् उदाहरणे च प्रतिसन्धाय तस्य साधनतावचनं हेतुः उत्पत्तिधर्मकत्वाद् इति।
प्रतिसन्धाय धर्मम् ... उत्पत्ति-] पृ.२८४
-धर्मकत्वाद् इति।] पृ.२८८
उत्पत्तिधर्मकम् अनित्यं दृष्टम् इति॥ ३४ ॥


********************** न्यायभाष्यम्१,१.३५ **********************


किम् एतावद् धेतुलक्षणम् इति? नेत्य् उच्यते। किं तर्हि?
न्याभा१,१.३५_ तथा वैधर्म्यात् ॥
उदाहरणवैधर्म्याच् च साध्यसाधनं हेतुः। कथम्? अनित्यः शब्द उत्पत्तिधर्मकत्वात्, अनुत्पत्तिधर्मकं नित्यं यथात्मादिद्रव्यम् इति॥३५॥


********************** न्यायभाष्यम्१,१.३६ **********************


न्याभा१,१.३६_ साध्यसाधर्म्यात् तद्धर्मभावी दृष्टान्त उदाहरणम् ॥
साध्येन साधर्म्यं समानधर्मता। साध्यसाधर्म्यात् कारणात् तद्धर्मभावी दृष्टान्त इति।
दृष्टान्त इति।] पृ.३०८
तस्य धर्मस् तद्धर्मः, तस्य --- साध्यस्य। साध्यं च द्विविधं धर्मिविशिष्टो वा धर्मः शब्दस्यानित्यत्वम्, धर्मविशिष्टो वा धर्म्य् अनित्यः शब्द इति। इहोत्तरं तद्ग्रहणेन गृह्यत इति। कस्मात्? पृथग्धर्मवचनात्। तस्य धर्मस् तद्धर्मस् तस्य भावस् तद्धर्मभावः स यस्मिन् दृष्टान्ते वर्तते स दृष्टान्तः साध्यसाधर्म्याद् उत्पत्तिधर्मकत्वत् तद्धर्मभावी भवति, स चोदाहरणम् इष्यते। तत्र यद् उत्पद्यते तद् उत्पत्तिधर्मकम्। तच् च भूत्वा न भवति आत्मानं जहाति निरुध्यत इत्य् अनित्यम्। एवम् उत्पत्तिधर्मकत्वं साधनम् अनित्यत्वं साध्यम्।


सोऽयम् एकस्मिन् द्वयोर् धर्मयोः साध्यसाधनभावः साधर्म्याद् व्यवस्थित उपलभ्यते, तं दृष्टान्त उपलभमानः शब्देऽप्य् अनुमिनोति --- शब्दोऽप्य् उत्पत्तिधर्मकत्वाद् अनित्यः स्थाल्यादिवद् इति, उदाह्रियतेऽनेन धर्मयोः साध्यसाधनभाव इत्य् उदाहरणम्॥३६॥


********************** न्यायभाष्यम्१,१.३७ **********************


न्याभा१,१.३७_ तद्विपर्ययाद् वा विपरीतम् ॥
दृष्टान्त उदाहरणम् इति प्रकृतम्। साध्यवैधर्म्याद् अतद्धर्मभावी दृष्टान्त उदाहरणम् इति। अनित्यः शब्द उत्पत्तिधर्मकत्वात् अनुत्पत्तिधर्मकं नित्यम् आत्मादि, सोऽयम् आत्मादिर् दृट्ष्टान्तः साध्यवैधर्म्याद् अनुत्पत्तिधर्मकत्वाद् अतद्धर्मभावी --- योऽसौ साध्यस्य धर्मोऽनित्यत्वं स तस्मिन् न भवतीति।
धर्मोऽनित्यत्वं ...] पृ.३१०
अत्रात्मादौ दृष्टान्त उत्पत्तिधर्मकत्वस्याभावाद् अनित्यत्वं न भवतीत्य् उपलभमानः शब्दे विपर्ययम् अनुमिनोत्य् उत्पत्तिधर्मकत्वस्य भावाद् अनित्यः शब्द इति। साधर्म्योक्तस्य हेतोः साध्यसाधर्म्यात् तद्धर्मभावी दृष्टान्त उदाहरणम्। वैधर्म्योक्तस्य हेतोः साध्यवैधर्म्याद् अतद्धर्मभावी दृष्टान्त उदाहरणम्।


पूर्वस्मिन् दृष्टान्ते यौ तौ धर्मौ साध्यसाधनभूतौ पश्यति साध्येऽपि तयोः साध्यसाधनभावम् अनुमिनोति। उत्तरस्मिन् दृष्टान्ते तयोर् धर्मयोर् एकस्याभावाद् इतरस्याभावं पश्यति तयोर् एकस्य भावाद् इतरस्य भावं साध्येऽनुमिनोतीति। तद् एतद् धेतुवाभासेषु न सम्भवतीत्य् अहेतवो हेत्वाभासाः।
न सम्भवतीत्य् अहेतवो हेत्वाभासाः।] पृ.३१२
तद् इदं हेतूदाहरणयोः सामर्थ्यं परमसूक्ष्मं दुःखबोधं पण्डितरूपवेदनीयम् इति॥३७॥


********************** न्यायभाष्यम्१,१.३८ **********************


न्याभा१,१.३८_ उदाहरणापेक्षस् तथेत्य् उपसंहारो न तथेति वा साध्यस्योपनयः ॥
उदाहरणापेक्ष उदाहरणतन्त्र उदाहरणवशः। वशः सामर्थ्यम्। साध्यसाधर्म्ययुक्ते उदाहरणे स्थाल्यादि द्रव्यम् उत्पत्तिधर्मकम् अनित्यं दृष्टम्, तथा शब्द उत्पत्तिधर्मक इति साध्यस्य शब्दस्योत्पत्तिधर्मकत्वम् उपसंह्रियते।
उत्पत्तिधर्मक इति ...] पृ.३१४
साध्यवैधर्म्ययुक्ते पुनर् उदाहरण आत्मादि द्रव्यम् अनुत्पत्तिधर्मकं नित्यं दृष्टम्, न च तथा शब्द इति, अनुत्पत्तिधर्मकत्वस्योपसंहाररप्रतिषेधेनोत्पत्तिधर्मकत्वम् उपसंह्रियते। तद् इदम् उपसंहारद्वैतम् उदाहरणद्वैताद् भवति। उपसंह्रियतेऽनेनेति चोपसंहारो वेदितव्य इति॥३८॥


********************** न्यायभाष्यम्१,१.३९ **********************


द्विविधस्य पुनर् हेतोर् द्विविधस्य चोदाहरणस्योपसंहारद्वैते च समानम् ---
न्याभा१,१.३९_ हेत्वपदेशात् प्रतिज्ञायाः पुनर्वचनं निगमनम् ॥
साधर्म्योक्ते वा वैधर्म्योक्ते वा यथोदाहरणम् उपसंह्रियते, तस्माद् उत्पत्तिधर्मकत्वाद् अनित्यः शब्द इति निगमनम् --- निगम्यन्तेऽनेनेति प्रतिज्ञाहेतूदाहरणोपनया एकत्रेति निगमनम्। निगम्यन्ते --- समर्थ्यन्ते --- सम्बध्यन्ते। तत्र साधर्मोक्ते तावद् धेतौ वाक्यम् अनित्यः शब्द इति प्रतिज्ञा। उत्पत्तिधर्मकत्वाद् इति हेतुः। उत्पत्तिधर्मकं स्थाल्यादि द्रव्यम् अनित्यम् इत्य् उदाहरणम्। तथा चोत्पत्तिधर्मकः शब्द इत्य् उपनयः। तस्माद् उत्पत्तिधर्मकत्वाद् अनित्यः शब्द इति निगमनम्। वैधर्म्योक्तेऽप्य् अनित्यः शब्द उत्पत्तिधर्मकत्वात्,
उत्पत्तिधर्मकत्वात्,] पृ.३१६
अनुत्पत्तिधर्मकम् आत्मादि द्रव्यं नित्यं दृष्टम्, न च तथानुत्पत्तिधर्मकः शब्दः तस्माद् उत्पत्तिधर्मकत्वाद् अनित्यः शब्द इति।
अवयवसमुदाये च वाक्ये सम्भूयेतरेतराभिसम्बन्धात् प्रमाणान्य् अर्थान् साधयन्तीति। सम्भवस् तावत् शब्दविषया प्रतिज्ञा, आप्तोपदेशस्य प्रत्यक्षानुमानाभ्यां प्रतिसन्धानाद् अनृषेश् च स्वातन्त्र्यानुपपत्तेः। अनुमानं हेतुः, उदाहरणे सादृश्यप्रतिपत्तेः। तच् चोदाहरणभाष्ये व्याख्यातम्। प्रत्यक्षविषयम् उदाहरणं दृष्टेनादृष्टसिद्धेः। उपमानम् उपनयः तथेत्य् उपसंहारात्, न च तथेति वोपमानधर्मप्रतिषेदेहे विपरीतधर्मोपसंहारसिद्धेः। सर्वेषाम् एकार्थप्रतिपत्तौ सामर्थ्यप्रदर्शनं निगमनम् इति।
इतरेतराभिसम्बन्धोऽपि --- असत्यां प्रतिज्ञायाम् अनाश्रया हेत्वादयो न प्रवर्तेरन्।


असति हेतौ कस्य साधनभावः प्रदर्श्येत। उदाहरणे साध्ये च कस्योपसंहारः स्यात् कस्य चापदेशात् प्रतिज्ञायाः पुनर्वचनं निगमनं स्याद् इति। असत्य् उदाहरणे केन साधर्म्यं वैधर्म्यं वा साध्यसाधनम् उपादीयेत, कस्य वा साधर्म्यवशाद् उपसंहारः प्रवर्तेत। उपनयं चान्तरेण साध्येऽनुपसंहृतः साधको धर्मो नार्थं साधयेत्। निगमनाभावे चानभियुक्तसम्बन्धानां प्रतिज्ञादीनाम् एकार्थेन प्रवर्तनं तथेति प्रतिपादनं कस्येति।
अथावयवार्थः --- साध्यस्य धर्मस्य धर्मिणा सम्बन्धोपादानं प्रतिज्ञार्थः। उदाहरणेन समानस्य विपरीतस्य वा साध्यस्य धर्मस्य साधकभाववचनं हेत्वर्थः। धर्मयोः साध्यसाधनभावप्रदर्शनम् एकत्रोदाहरणार्थः। साधनभूतस्य धर्मस्य साध्येन धर्मेण सामानाधिकरण्योपपादनम् उपनयार्थः। उदाहरणस्थयोर् धर्मयोः साध्यसाधनभावोपपत्तौ साध्ये विपरीतप्रसङ्गप्रतिषेधार्थं निगमनम्। नचैतस्यां हेतूदाहरणपरिशुद्धौ सत्यां साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानस्य विकल्याज् जातिनिग्रहस्थानबहुत्वं प्रक्रमते। अव्यवस्थाप्य खलु धर्मयोः साध्यसाधनभावम् उदाहरणे जातिवादी प्रत्यवतिष्ठते। व्यवस्थिते तु खलु धर्मयोः साध्यसाधनभावे दृष्टान्तस्थे गृह्यमाणे साधनभूतस्य धर्मस्य हेतुत्वेनोपादानं न साधर्म्यमात्रस्य न वैधर्म्यमात्रस्य वेति॥ ३९ ॥


********************** न्यायभाष्यम्१,१.४० **********************


साधनभूतस्य ...] पृ.३१८
अत ऊर्ध्वं तर्को लक्षणीय इत्य् अथेदम् उच्यते ---
न्याभा१,१.४०_ अविज्ञाततत्त्वेऽर्थे कारणोपपत्तितस् तत्त्वज्ञानार्थम् ऊहस् तर्कः ॥
अविज्ञायमानतत्त्वेऽर्थे जिज्ञासा तावज् जायते जानीयेमम् अर्थम् इति। अथ जिज्ञासितस्य वस्तुनो व्याहतौ धर्मौ विभागेन विमृशति ---
जिज्ञासितस्य वस्तुनो ...] पृ.३२१
किंस्विद् इत्थम् आहोस्विन् नेत्थम् इति। विमृश्यमानयोर् धर्मयोर् एकं कारणोपपत्त्यानुजानाति, सम्भवत्य् अस्मिन् कारणं प्रमाणं हेतुर् इति कारणोपपत्त्या स्याद् एवम् एतन् नेतरद् इति।
तत्र निदर्शनम् --- योऽयं ज्ञाता ज्ञातव्यम् अर्थं जानीते तं तत्त्वतो जानीयेति जिज्ञासा। स किम् उत्पत्तिधर्मकोऽथानुत्पत्तिधर्मक इति विमर्शः। विमृश्यमानेऽविज्ञाततत्तेऽर्थे यस्य धर्मस्याभ्यनुज्ञाकारणम् उपपद्यते तम् अनुजानाति। यद्य् अयम् अनुत्पत्तिधर्मकः, ततः स्वकृतस्य कर्मणः फलम् अनुभवति ज्ञाता, दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानाम् उत्तरम् उत्तरं पूर्वस्य पूर्वस्य कारणम्, उत्तरोत्तरापाये तदनन्तरापायाद् अपवर्ग इति स्यातां संसारापवर्गौ।
-पवर्गौ।] पृ.३२२
उत्पत्तिधर्मके ज्ञातरि पुनर् न स्याताम्। उत्पन्नः खलु ज्ञाता देहेन्द्रियबुद्धिवेदनाभिः सम्बध्यत इति नास्येदं स्वकृतस्य कर्मणः फलम् उत्पन्नश् च भूत्वा न भवतीति तस्याविद्यमानस्य निरुद्धस्य वा स्वकृतकर्मणः फलोपभोगो नास्ति। तद् एवम् एकस्यानेकशरीरयोगः शरीरवियोगश् चात्यन्तं न स्याद् इति यत्र कारणम् अनुपपद्यमानं पश्यति तन् नानुजानाति। सोऽयम् एवंलक्षण ऊहस् तर्क इत्य् उच्यते।
कथं पुनर् अयं तत्त्वज्ञानार्थो न तत्त्वज्ञानम् एवेति? अनवधारणात्। अनुजानात्य् अयम् एकतरं धर्मं कारणोपपत्त्या, न त्व् अवधारयति न व्यवस्यति न निश्चिनोति एवम् एवेदम् इति। कथं तत्त्वज्ञानार्थ इति? तत्त्वज्ञानविषयाभ्यनुज्ञालक्षणानुग्रहभावितात् प्रसन्नाद् अनतरप्रमाणसामर्थ्यात् तत्त्वज्ञानम् उत्पद्यत इत्य् एवं तत्त्वज्ञानार्थ इति।
सोऽयं तर्कः प्रमाणानि प्रतिसन्दधानः प्रमाणाभ्यनुज्ञानात् प्रमाणसहितो वादेऽपदिष्ट इत्य् अविज्ञाततत्त्वम् अनुजानाति।
वादेऽपदिष्ट ...] पृ.३२३
यथा सोऽर्हो भवति तस्य तथाभावः तत्त्वम्, अविपर्ययो याथातथ्यम्॥४०॥


********************** न्यायभाष्यम्१,१.४१ **********************


एतस्मिंश् च तर्कविषये ---
न्याभा१,१.४१_ विमृश्य पक्षप्रतिपक्षाभ्याम् अर्थावधारणं निर्णयः ॥
स्थापना साधनम्, प्रतिषेध उपालम्भः। तौ साधनोपालम्भौ पक्षप्रतिपक्षाश्रयौ व्यतिषक्ताव् अनुबन्धेन प्रवर्तमानौ पक्षप्रतिपक्षाव् इत्य् उच्येते। तयोर् अन्यतरस्य निवृत्तिर् एकतरस्यावस्थानम् अवश्यम्भावि, यस्यावस्थानं तस्यार्थावधारणं निर्णयः।
नेदं पक्षप्रतिपक्षाभ्याम् अर्थावधारणं सम्भवतीति --- एको हि प्रतिज्ञातम् अर्थं हेतुतः स्थापयति प्रतिषिद्धं चोद्धरति द्वितीयस्य। द्वितीयेन स्थापनाहेतुः प्रतिषिध्यते तस्यैव प्रतिषेधहेतुश् चोद्ध्रियते स निवर्तते।
तस्यैव प्रतिषेधहेतुश् ...] पृ.३३०
तस्य निवृत्तौ योऽवतिष्ठते तेनार्थावधारणं निर्णयः।
उभाभ्याम् एवार्थावधारणम् इत्य् आह। कया युक्त्या? एकस्य सम्भवो द्वितीयस्यासम्भवः। ताव् एतौ सम्भवासम्भवौ विमर्शं सह निवर्त्तयतः --- उभयसम्भवे उभयासम्भवे वानिवृत्तो विमर्श इति। विमृश्येति विमर्शं कृत्वा। सोऽयं विमर्शः पक्षप्रतिपक्षाव् अवद्योत्य न्यायं प्रवर्तयतीत्य् उपादीयत इति। एतच् च विरुद्धयोर् एकधर्मिस्थयोर् बोद्धव्यम्। यत्र तु धर्मिसामान्यगतौ विरुद्धौ धर्मौ हेतुतः सम्भवतः तत्र समुच्चयः, हेतुतोऽर्थस्य तथाभावोपपत्तेः। यथा --- क्रियावद् द्रव्यम् इति लक्षणवचने यस्य द्रव्यस्य क्रियायोगो हेतुतः सम्भवति तत् क्रियावत्, यस्य न सम्भवति तद् अक्रियम् इति। एकधर्मिस्थयोश् च विरुद्धयोर् धर्मयोर् अयुगपद्भाविनोः कालविकल्पः। यथा --- तद् एव द्रव्यं क्रियायुक्तं क्रियावत्, अनुत्पन्नोपरतक्रियं पुनर् अक्रियम् इति।
न चायं निर्णये नियमो विमृश्यैव पक्षप्रतिपक्षाभ्याम् अर्थावधारणं निर्णय इति, किं त्व् इन्द्रियार्थसन्निकर्षोत्पन्नप्रत्यक्षेऽर्थावधारणं निर्णय इति, परीक्षाविषये तु विमृश्य पक्षप्रतिपक्षाभ्याम् अर्थावधारणं निर्णयः। वादे शास्त्रे च विमर्शवर्जम्॥ ४१ ॥


********************** न्यायभाष्यम्१,२.१ **********************
इति वात्स्यायनीये न्यायभाष्ये प्रथमाध्यायस्य प्रथमाह्निकम्।


द्वितीयाह्निकम्
तिस्रः कथा भवन्ति --- वादो जल्पो वितण्डा चेति। तासाम् ---
न्याभा१,२.१_ प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहो वादः ॥
एकाधिकरणस्थौ विरुद्धौ धर्मौ पक्षप्रतिपक्षौ प्रत्यनीकभावात्, अस्त्य् आत्मा नास्त्य् आत्मेति।
-त्मेति] पृ.३३६
नानाधिकरणस्थौ विरुद्धौ न पक्षप्रतिपक्षौ, यथा --- नित्य आत्मा अनित्या बुद्धिर् इति। परिग्रहोऽभ्युपगमव्यवस्था। सोऽयम् पक्षप्रतिपक्षपरिग्रहो वादः। तस्य विशेषनं प्रमाणतर्कसाधनोपालम्भः, प्रमाणैस् तर्केण च साधनम् उपालम्भश् चास्मिन् क्रियत इति। साधनं स्थापना। उपालम्भः प्रतिषेधः। तौ साधनोपालम्भाव् उभयोर् अपि पक्षयोर् व्यतिषक्ताव् अनुबद्धौ च यावद् एको निवृत्त एकतरो व्यवस्थित इति निवृत्तस्योपालम्भो व्यवस्थितस्य साधनम् इति।
उभयोर् अपि ... साधनम् इति।] पृ.३३९
जल्पे निग्रहस्थानविनियोगाद् वादे तत्प्रतिषेधः। प्रतिषेधे कस्यचिद् अभ्यनुज्ञानार्थं सिद्धान्ताविरुद्ध इति वचनम्।
सिद्धान्ताविरुद्ध इति वचनम्।] पृ.३४०
’’सिद्धान्तम् अभ्युपेत्य तद्विरोधी विरुद्धऽऽ इति हेत्वाभासस्य निग्रहस्थानस्याभ्यनुज्ञा वादे। पञ्चावयवोपपन्न इति


’’हीनम् अन्यतमेनाप्य् अवयवेन न्यूनम्ऽऽ ’’हेतूदाहरणाधिकम् अधिकम्ऽऽ इति चैतयोर् अभ्यनुज्ञानार्थम् इति। अवयवेषु प्रमानतर्कान्तर्भावे पृथक् प्रमाणतर्कग्रहणं साधनोपालम्भव्यतिषङ्गज्ञापनार्थम्। अन्यथोभाव् अपि पक्षौ स्थापनाप्रवृत्तौ वाद इति स्यात्।
प्रवृत्तौ वाद इति स्यात्।] पृ.३४२
अन्तरेणापि चावयवसम्बन्धं प्रमाणान्य् अर्थं साधयन्तीति दृष्टम्, तेनापि कल्पेन साधनोपालम्भौ वादे भवत इति ज्ञापयति। ’’छलजातिनिग्रहस्थानसाधनोपालम्भो जल्पऽऽ इति वचनाद् विनिग्रहो जल्प इति मा विज्ञायि, छलजातिनिग्रहस्थानसाधनोपालम्भ एव जल्पः प्रमाणतर्कसाधनोपालम्भो वाद् एवेति मा विज्ञायीत्य् एवमर्थं पृथक् प्रमानतर्कग्रहणम् इति॥ १ ॥


********************** न्यायभाष्यम्१,२.२ **********************


न्याभा१,२.२_ यथोक्तोपपन्नश् छलजातिनिग्रहस्थानसाधनोपालम्भो जल्पः ॥
यथोक्तोपपन्न इति, प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहः। छलजातिनिग्रहस्थानसाधनोपालम्भ इति, छलजातिनिग्रहस्थानैः साधनम् उपालम्भश् चास्मिन् क्रियत इति एवंविशेषणो जल्पः।


न खलु वै छलजातिनिग्रहस्थानैः साधनं कस्यचिद् अर्थस्य सम्भवति, प्रतिषेधार्थतैवैषां सामान्यलक्षणे विशेषलक्षणे च श्रूयते --- ’’वचनविघातोऽर्थविकल्पोपपत्त्या छलम्ऽऽ इति ’’साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं जातिःऽऽ ’’विप्रतिपत्तिर् अप्रतिपत्तिश् च निग्रहस्थानम्ऽऽ इति।
-स्थानम्ऽऽ इति।] पृ.३५९
विशेषलक्षणेष्व् अपि यथास्वम् इति। न चैतद् विजानीयात् प्रतिषेधार्थतयैवार्थं साधयन्तीति, छलजातिनिग्रहस्थानोपालम्भो जल्प इत्य् एवम् अप्य् उच्यमाने विज्ञायत एतद् इति।
प्रमाणैः साधनोपालम्भयोश् छलजातिनिग्रहस्थानानाम् अङ्गभावः स्वपक्षरक्षणार्थत्वात्। न स्वतन्त्राणां साधनभावः --- यत् तत् प्रमाणैर् अर्थस्य साधनं तत्र छलजातिनिग्रहस्थानानाम् अङ्गभावो रक्षणार्थत्वात्। तानि हि प्रयुज्यमानानि परपक्षविघातेन स्वपक्षं रक्षन्ति।
-विघातेन स्वपक्षं रक्षन्ति।] पृ.३६०
तथा चोक्तं ’’तत्त्वाध्यवसायसंरक्षणाथं जल्पवितण्डे बीजप्ररोहसंरक्षणार्थं कण्टकशाखावरणवत्ऽऽ इति। यश् चासौ प्रमाणैः प्रतिपक्षस्योपालम्भस् तस्य चैतानि प्रयुज्यमानानि प्रतिषेधविघातात् सहकारीणि भवन्ति। तद् एवम् अङ्गीभूतनां छलादीनाम् उपादानं जल्पे, न स्वतन्त्राणां साधनभावः। उपालम्भे तु स्वातन्त्र्यम् अप्य् अस्तीति॥ २ ॥


********************** न्यायभाष्यम्१,२.३ **********************


न्याभा१,२.३_ स प्रतिपक्षस्थापनाहीनो व्वितण्डा ॥
स जल्पो वितण्डा भवति। किंविशेषणः? प्रतिपक्षस्थापनया हीनः। यौ तौ समानाधिकरणौ विरुद्धौ धर्मौ पक्षाव् इत्य् उक्तं तयोर् एकतरं वैतण्डिको न स्थापयतीति प्रपक्षप्रतिषेधेनैव प्रवर्तत इति।


अस्तु तर्हि स प्रतिपक्षहीनो वितण्डा? यद् वै खलु तत् परप्रतिषेधलक्षणं वाक्यं स वैतण्डिकस्य पक्षः, न त्व् असौ साध्यं कञ्चिद् अर्थं प्रतिज्ञाय स्थापयतीति। तस्माद् यथान्यासम् एवास्त्व् इति॥ ३ ॥


********************** न्यायभाष्यम्१,२.४ **********************


हेतुलक्षणाभावाद् अहेतवो हेतुसामान्याद् धेतुवद् आभासमानाः। त इमे ---
न्याभा१,२.४_ सव्यभिचारविरुद्धप्रकरणसमसाध्यसमकालातीता हेत्वाभासाः ॥


तेषाम् ---


********************** न्यायभाष्यम्१,२.५ **********************


न्याभा१,२.५_ अनैकान्तिकः सव्यभिचारः ॥
व्यभिचार एकत्राव्यवस्थितिः। सहव्यभिचारेण वर्तत इति स्वयभिचारः।
-चारः] पृ.३७४
निदर्शनम् --- नित्यः शब्दोऽस्पर्शत्वात्, स्पर्शवान् कुम्भोऽनित्यो दृष्टः न च तथा स्पर्शवान् शब्दस् तस्माद् अस्पर्शत्वान् नित्यः शब्द इति।
तथा स्पर्शवान् ...] पृ.३७५
दृष्टान्ते स्पर्शवत्त्वम् अनित्यत्वं च धर्मौ न साध्यसाधनभूतौ गृह्येते स्पर्शवांश् चाणुर् नित्यश् चेति। आत्मादौ च दृष्टान्ते
दृष्टान्ते] पृ.३७६
’’ुदाहरणसाधर्म्यात् साध्यसाधनं हेतुःऽऽ इत्य् अस्पर्शत्वाद् इति हेतुर् नित्यत्वं व्यभिचरति, अस्पर्शा बुद्धिर् अनित्या चेति। एवं द्विविधेऽपि दृष्टान्ते व्यभिचारात् साध्यसाधनभावो नास्तीति लक्षणाभावाद् अहेतुर् इति।
नित्यत्वम् अप्य् एकोऽन्तोऽनित्यत्वम् अप्य् एको ण्त एकस्मिन्न् अन्ते विद्यत इति ऐकान्तिकः विपर्ययाद् अनैकान्तिक उभयान्तव्यापकत्वाद् इति॥ ५ ॥


********************** न्यायभाष्यम्१,२.६ **********************


न्याभा१,२.६_ सिद्धान्तम् अभ्युपेत्य तद्विरोधी विरुद्धः ॥
तं विरुणद्धीति तद्विरोध्य् अभ्युपेतं सिद्धान्तं व्याहन्तीति। यथा सोऽयं विकारो व्यक्तेर् अपैति नित्यत्वप्रतिषेधात् ---
व्यक्तेर् अपैति नित्यत्वप्रतिषेधात्] पृ.३७८
न नित्यो विकार उपपद्यत अपेतोऽपि विकारोऽस्ति विनाशप्रतिषेधात्। सोऽयं नित्यत्वप्रतिषेधाद् इति। हेतुर् व्यक्तेर् अपेतोऽपि विकारोऽस्तीत्य् अनेन स्वसिद्धान्तेन विरुध्यते। कथम्? व्यक्तिर् आत्मलाभः। अपायः प्रच्युतिः। यद्य् आत्मलाभात् प्रच्युतो विकारोऽस्ति नित्यत्वप्रतिषेधो नोपपद्यते। यद् व्यक्तेर् अपेतस्यापि विकारस्यास्तित्वं तत् खलु नित्यत्वम् इति। नित्यत्वप्रतिषेधो नाम विकारस्यात्मलाभात् प्रच्युतेर् उपपत्तिः।
नाम विकारस्यात्मलाभात् ...] पृ.३७९
यद् आत्मलाभात् प्रच्यवते तद् अनित्यं दृष्टम्, यद् अस्ति न तद् आत्मलाभात् प्रच्यवते। अस्तित्वं चात्मलाभात् प्रच्युतिर् इति च विरुद्धाव् एतौ धर्मौ न सह सम्भवत इति। सोऽयं हेतुर् यं सिद्धान्तम् आश्रित्य प्रवर्तते तम् एव व्याहन्तीति॥ ६ ॥


********************** न्यायभाष्यम्१,२.७ **********************


न्याभा१,२.७_ यस्मात् प्रकरणचिन्ता स निर्णयार्थम् अपदिष्टः प्रकरणसमः ॥
विमर्शाधिष्ठानौ पक्षप्रतिपक्षाव् उभाव् अनवसितौ प्रकरणम्, तस्य चिन्ता विमर्शात् प्रभृति प्राङ् निर्णयाद् यत् समीक्षणम्,
प्राङ् निर्णयाद् यत् समीक्षणम्,] पृ.३८१
सा जिज्ञासा यत्कृता स निर्णयार्थं प्रयुक्त उभयपक्षसाम्यात् प्रकरणम् अनतिवर्तमानः प्रकरणसमो निर्णयाय न प्रकल्पते।
प्रज्ञापनं त्व् अनित्यः शब्दो नित्यधर्मानुपलब्धेर् इति, अनुपलभ्यमानन् इत्य् अधर्मकं नित्यं दृष्टम् स्थाल्यादि। नित्यः शब्दो वानित्यधर्मानुपलब्धेः अनुपलभ्यमानानित्यधर्मकं नित्यं दृष्टम् आकाशादि।
यत्र समानो धर्मः संशयकारणं हेतुत्वेनोपादीयते स संशयसमः सव्यभिचार एव।


या तु विमर्शस्य विशेषापेक्षिता उभयपक्षविशेषानुपलब्धिश् च सा प्रकरणं प्रवर्तयति। यथा शब्दे नित्यधर्मो नोपलभ्यत एवम् अनित्यधर्मोऽपि। सेयम् उभयपक्षविशेषानुपलब्धिः प्रकरणचिन्तां प्रवर्तयति।
प्रकरणचिन्तां प्रवर्तयति।] पृ.३८३
कथम्? विपर्यये हि प्रकरणनिवृत्तेः --- यदि नित्यधर्मः शब्दे गृह्येत न स्यात् प्रकरणम्, यदि न स्यात् प्रकरणम्, यदि वानित्यधर्मो गृह्येत एवम् अपि निवर्तेत प्रकरणम्। सोऽयं हेतुर् उभौ पक्षौ प्रवर्तयन्न् अन्यतरस्य निर्णयाय न प्रकल्पते॥ ७ ॥


********************** न्यायभाष्यम्१,२.८ **********************


न्याभा१,२.८_ साध्याविशिष्टः साध्यत्वात् साध्यसमः ॥
द्रव्यं छायेति साध्यम्, गतिमत्त्वाद् इति हेतुः साध्येनाविशिष्टः साधनीयत्वात् साध्यसमः।
साध्यसमः।] पृ.३८५
अयम् अप्य् असिद्धत्वात् साध्यवत् प्रज्ञापयितव्यः। साध्यं तावद् एतत् किं पुरुषवच् छायापि गच्छत्य् आहोस्विद् आवरकद्रव्ये संसर्पत्य् आवरणसन्तानाद् असन्निधिसन्तानोऽयं तेजसो गृह्यत इति।
-सन्नधिसन्तानोऽयं तेजसो गृह्यत इति।] पृ.३८६
सर्पता खलु द्रव्येण यो यस् तेजोभाग आव्रियते तस्य तस्यासन्निधिर् एवाविच्छिन्नो गृह्यत इति। आवरणं तु प्राप्तिप्रतिषेधः॥ ८ ॥


********************** न्यायभाष्यम्१,२.९ **********************


न्याभा१,२.९_ कालात्ययापदिष्टः कालातीतः ॥
कालात्ययेन युक्तो यस्यार्थैकदेशोऽपदिश्यमानस्य स कालात्ययापदिष्टः कालातीत इत्य् उच्यते। निदर्शनम् --- नित्यः शब्दः संयोगव्यङ्ग्यत्वाद् रूपवत्।


प्राग् ऊर्ध्वं च व्यक्तेर् अवस्थितं रूपं प्रदीपघटसंयोगेन व्यज्यते, तथा च शब्दोऽप्य् अवस्थितो भेरीदण्डसंयोगेन व्यज्यते दारुपरशुसंयोगेन वा, तस्मात् सम्योगव्यङ्ग्यत्वान् नित्यः शब्द इति॑ अयम् अहेतुः कालात्ययापदेशात्। व्यञ्जकस्य संयोगस्य कालं न व्यङ्ग्यस्य रूपस्य व्यक्तिर् अत्येति। सति प्रदीपसंयोगे रूपस्य ग्रहणं भवति, न निवृत्ते संयोगे रूपं गृह्यते। निवृत्ते दारुपरशुसंयोगे दूरस्थेन शब्दः श्रूयते विभागकाले। सेयं शब्दस्य व्यक्तिः संयोगकालम् अत्येतीति न संयोगनिर्मिता भवति। कस्मात्? कारणाभावाद् धि कार्याभाव इति। एवम् उदाहरणसाधर्म्यस्याभावाद् असाधनम् अयं हेतुर् हेत्वाभास इति।


अवयवविपर्यासवचनं तु न सूत्रार्थः। कस्मात्?
’’यस्य येनार्थसम्बन्धो दूरस्थस्यापि तस्य सः।
अर्थतो ह्य् असमर्थानाम् आनन्तर्यम् अकारणम्॥ऽऽ
इत्य् एतद्वचनाद् विपर्यासेनोक्तो हेतुर् उदाहरणसाधर्म्यात् तथा वैधर्म्यात् साध्यसाधनं हेतुलक्षणं न जहाति। अजहद्धेतुलक्षणं न हेत्वाभासो भवतीति।
’’वयवविपर्यासवचनम् अप्राप्तकालम्ऽऽ इति निग्रहस्थानम् उक्तम्, तद् एवेदं पुनर् उच्यत इति, अतस् तन् न सूत्रार्थः॥ ९ ॥


********************** न्यायभाष्यम्१,२.१० **********************


अथ छलम्


न्याभा१,२.१० _ वचनविघातोऽर्थविकल्पोपपत्त्या छलम् ॥
न सामान्यलक्षणे छलं शक्यम् उदाहर्तुम्, विभागे तूदाहरणानि॥ १०॥


********************** न्यायभाष्यम्१,२.११ **********************


विभागश् च ---
न्याभा१,२.११ _ तत् त्रिविधं वाक्छलं सामान्यच्छलम् उपचारच्छलम् चेति ॥
तेषाम् ---


********************** न्यायभाष्यम्१,२.१२ **********************


न्याभा१,२.१२ _ अविशेषाभिहितेऽर्थे वक्तुर् अभिप्रायाद् अर्थान्तरकल्पना वाक्छलम् ॥
नवकम्बलोऽयं माणवक इति प्रयोगः। अत्र नवः कम्बलोऽस्येति वक्तुर् अभिप्रायः। विग्रहे तु विशेषः, न समासे। तत्रायं छलवादी वक्तुर् अभिप्रायाद् अविवक्षितम् अन्यम् अर्थं नव कम्बला अस्येति तावद् अभिहितं भवतेति कल्पयति,
नव कम्बला अस्येति] पृ.३९३
कल्पयित्वा चासम्भवेन प्रतिषेधति एकोऽस्य कम्बलः कुतो नव कम्बला इति।
तद् इदं सामान्यशब्दे वाचि छलं वाक्छलम् इति।
अस्य प्रत्यवस्थानम् --- सामान्यशब्दस्यानेकार्थत्वेऽन्यतराभिधानकल्पनायां विशेषवचनम्। नवकम्बल इत्य् अनेकार्थाभिधानम्, नवः कम्बलोऽस्येति नव कम्बला अस्येति॑ एतस्मिन् प्रयुक्ते येयं कल्पना नव कम्बला अस्येत्य् एतद्भवताभिहितं तच् च न सम्भवतीति, एतस्याम् अन्यतराभिधानकल्पनायां विशेषो वक्तव्यः। यस्माद् विशेषोऽर्थविशेषेषु विज्ञायतेऽयम् अर्थोऽनेनाभिहित इति। स च विशेषो नास्ति। तस्मान् मिथ्याभियोगमात्रम् एतद् इति।
प्रसिद्धश् च लोके शब्दार्थसम्बन्धोऽभिधानाभिधेयनियमनियोगः। अस्याभिधानस्यायम् अर्थोऽभिधेय इति समानः सामान्यशब्दस्य, विशेषो विशिष्टशब्दस्य। प्रयुक्तपूर्वाश् चेमे शब्दा अर्थे प्रयुज्यन्ते नाप्रयुक्तपूर्वाः। प्रयोगश् चार्थसम्प्रत्ययार्थः। अर्थप्रत्ययाच् च व्यवहार इति।
इति।] पृ.३९४
तत्रैवम् अर्थगत्यर्थे शब्दप्रयोगे सामर्थ्यात् सामान्यशब्दस्य प्रयोगनियमः। अजां ग्रामं नय सर्पिर् आहार ब्राह्मणं भोजयेति सामान्यशब्दाः सन्तोऽर्थावयवेषु प्रयुज्यन्ते सामार्थ्यत्, यत्रार्थक्रियाचोदना सम्भवति तत्र प्रवर्तन्ते नार्थसामान्ये, क्रियादेशनासम्भवात्। एवम् अयं सामान्यशब्दो नवकम्बल इति योऽर्थः सम्भवति नवः कम्बलोऽस्येति तत्र प्रवर्तते, यस् तु न सम्भवैत् नव कम्बला अस्येति तत्र न प्रवर्तते। सोऽयम् अनुपपद्यमानार्थकल्पनया परवाक्योपालम्भो न कल्पत इति॥१२॥


********************** न्यायभाष्यम्१,२.१३ **********************


न्याभा१,२.१३ _ सम्भवतोऽर्थस्यातिसामान्ययोगाद् असम्भूतार्थकल्पना सामान्यच्छलम् ॥
अहो खल्व् असौ ब्राह्मणो विद्याचरणसम्पन्न इत्य् उक्ते कश्चिद् आह सम्भवति ब्राह्मणे विद्याचरणसम्पद् इति।
विद्याचरणसम्पद् इति] पृ.३९६
अस्य वचनस्य विघातोऽर्थविकल्पोपपत्त्यासम्भूतार्थकल्पनया क्रियते --- यदि ब्राह्मणे विद्याचरंसम्पत् सम्भवति व्रात्येऽपि सम्भवेत्, व्रात्योऽपि ब्राह्मणः, सोऽप्य् अस्तु विद्याचरणसम्पन्न इति। यद् विवक्षितम् अर्थम् आप्नोति चात्येति च तद् अतिसामान्यम्। यथा ब्राह्मणत्वं विद्याचरणसम्पदं क्वचिद् आप्नोति क्वचिद् अत्येति। सामान्यनिमित्तं छलं सामान्यच्छलम् इति।
अस्य च प्रत्यवस्थानम् --- अविवक्षितहेतुकस्य विषयानुवादः प्रशंसार्थत्वाद् वाक्यस्य॑ तद् अत्रासम्भूतार्थकल्पनानुपपत्तिः। यथा सम्भवन्त्य् अस्मिन् क्षेत्रे शालय इति अनिराकृतम् अविवक्षितं च बीजजन्म, प्रवृत्तिविषयस् तु क्षेत्रं प्रशस्यते॑ सोऽयं क्षेत्रानुवादः नास्मिन् शालयो विधीयन्त इति॑ बीजात् तु शालिनिर्वृत्तिः सती न विवक्षिता। एवं सम्भवति ब्राह्मणे विद्याचरणसम्पद् इति सम्पद्विषयो ब्राह्मणत्वं न सम्पद्धेतुः। न चात्र हेतुर् विवक्षितः। विषयानुवादस् त्व् अयं प्रशंसार्थत्वाद् वाक्यस्य, सति ब्राह्मणत्वे सम्पद्धेतुः समर्थ इति। विस्ऽयं च प्रशंसता वाक्येन यथाहेतुतः फलनिर्वृत्तिर् न प्रत्याख्यायते। तद् एवं सति वचनविघातोऽसम्भूतार्थकल्पनया नोपपद्यत इति॥


********************** न्यायभाष्यम्१,२.१४ **********************


न्याभा१,२.१४ _ धर्मविकल्पनिर्देशेऽर्थसद्भावप्रतिषेध उपचारच्छलम् ॥
अभिधानस्य धर्मो यथार्थप्रयोगः, धर्मविकल्पोऽन्यत्र दृष्टस्यान्यत्र प्रयोगः, तस्य निर्देशे धर्मविकल्पनिर्देशे। यथा मञ्चाः क्रोशन्तीति अर्थसद्भावेन प्रतिषेधः,


मञ्चस्थाः पुरुषाः क्रोशन्ति न तु मञ्चाः क्रोशन्ति।
का पुनर् अत्रार्थविकल्पोपपत्तिः? अन्यथा प्रयुक्तस्यान्यथार्थकल्पनम्, भक्त्या प्रयोगे प्राधान्येन कल्पनम् उपचारविषयं छलम् उपचारच्छलम्। उपचारो नीतार्थः सहचरणादिनिमित्तेन, अतद्भावे तद्वद् अभिधानम् उपचार इति।
अत्र समाधिः --- प्रसिद्धे प्रयोगे वक्तुर् यथाभिप्रायं शब्दार्थयोर् अभ्यनुज्ञा प्रतिषेधा वा न च्छन्दतः। प्रधानभूतस्य शब्दस्य भाक्तस्य च गुणभूतस्य प्रयोग उभयोर् लोकसिद्धः। सिद्धे प्रयोगे यथा वक्तुर् अभिप्रायस् तथा शब्दार्थाव् अनुज्ञेयौ प्रतिषेध्यौ वा न च्छन्दतः। यदि वक्ता प्रधानशब्दं प्रयुङ्क्ते यथाभूतस्याभ्यनुज्ञा प्रतिषेधो वा, न च्छन्दतः। अथ गुणभूतम्, तदा गुणभूतस्य। यत्र तु वक्ता गुणभूतं शब्दं प्रयुङ्क्ते प्रधानभूतम् अभिप्रेत्य परः प्रतिषेधति, स्वमनीषया प्रतिषेधोऽसौ भवति न परोपालम्भ इति॥


********************** न्यायभाष्यम्१,२.१५ **********************


न्याभा१,२.१५ _ वाक्छलम् एवोपचारच्छलं तदविशेषात् ॥
न वाक्छलाद् उपचारच्छलं भिद्यते तस्याप्य् अर्थान्तरकल्पनाया अविशेषात्। इहापि स्थान्यर्थो गुणशब्दः प्रधानशब्दः स्थानार्थ इति कल्पयित्वा प्रतिषिध्यत इति॥


********************** न्यायभाष्यम्१,२.१६ **********************


न्याभा१,२.१६ _ न तदर्थान्तरभावात् ॥
न वाक्छलम् एवोपचारच्छलम्, तस्यार्थसद्भावप्रतिषेधस्यार्थान्तरभावात्। कुतः? अर्थान्तरकल्पनातः। अन्या ह्य् अर्थान्तरकल्पना, अन्योऽर्थसद्भावप्रतिषेध इति॥


********************** न्यायभाष्यम्१,२.१७ **********************


न्याभा१,२.१७ _ अविषेषे वा किञ्चित् साधर्म्याद् एकच्छलप्रसङः ॥
छलस्य द्वित्वम् अभ्यनुज्ञाय त्रित्वं प्रतिषिध्यते किञ्चित् साधर्म्यात्। यथा चायं हेतुस् त्रित्वं प्रतिषेधति तथा द्वित्वम् अप्य् अभ्यनुज्ञातं प्रतिषेधति, विद्यते हि किञ्चित् साधर्म्यं द्वयोर् अपीति। अथ द्वित्वं किञ्चित्साधर्म्यान् न निवर्तते, त्रित्वम् अपि न निवर्त्स्यति॥


********************** न्यायभाष्यम्१,२.१८ **********************
छललक्षणाद् ऊर्ध्वम् ---
न्याभा१,२.१८ _ साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं जातिः ॥
प्रयुक्ते हि हेतौ यः प्रसङ्गो जायते स जातिः। स च प्रसङ्गः साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानम् उपालम्भः प्रतिषेध इति।
साधर्म्यवैधर्म्याभ्यां ...] पृ.४०२
’’ुदाहरणसाधर्म्यात् साध्यसाधनं हेतुर्ऽऽ इत्य् अस्योदाहरणवैधर्म्येण प्रत्यवस्थानम्, ’’ुदाहरणवैधर्म्यात् साध्यसाधनं हेतुर्ऽऽ इत्य् अस्योदाहरणसाधर्म्येण प्रत्यवस्थानम्, प्रत्यनीकभावात्। जायमानोऽर्थो जातिर् इति॥


********************** न्यायभाष्यम्१,२.१९ **********************


न्याभा१,२.१९ _ विप्रतिपत्तिर् अप्रतिपत्तिश् च निग्रहस्थानम् ॥
विपरीता वा कुत्सिता वा प्रतिपत्तिर् विप्रतिपत्तिः। विप्रतिपद्यमानः पराजयं प्राप्नोति। निग्रहस्थानं खलु पराजयप्राप्तिः। अप्रतिपत्तिस् त्व् आरम्भविषये अनारम्भः। परेण स्थापितं वा न प्रतिषेधति प्रतिषेधं वा नोद्धरति। असमासाच् च नैते एव निग्रहस्थाने इति॥


********************** न्यायभाष्यम्१,२.२० **********************


किं पुनर् दृष्टान्तवज् जातिनिग्रहस्थानयोर् अभेदोऽथ सिद्धान्तवद् भेद इत्य् अत आह ---
न्याभा१,२.२० _ तद्विकल्पाज् जातिनिग्रहस्थानबहुत्वम् ॥
तस्य साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानस्य विकल्पाज् जातिबहुत्वम्, तयोश् च विप्रतिपत्त्यप्रतिपत्त्योर् विकल्पान् निग्रहस्थानबहुत्वम्। नाना कल्पो विकल्पः, विविधो वा कल्पो विकल्पः। तत्र अननुभाषणम् अज्ञानम् अप्रतिभा विक्षेपो मतानुज्ञा पर्यनुयोज्योपेक्षणम् इत्य् अप्रतिपत्तिर् निग्रस्थानम्। शेषस् तु विप्रतिपत्तिर् इति।


इमे प्रमाणादयः पदार्था उद्दिष्टाः, यथोद्देशं लक्षिताः, यथालक्षणं परीक्षिष्यन्त इति त्रिविधा चास्य शास्त्रस्य प्रवृत्तिर् वेदितव्येति॥


इति वात्स्यायनीये न्यायभाष्ये प्रथमाध्यायस्य द्वितीयम् आह्निकम्।
समाप्तश् चायं प्रथमोऽध्यायः॥


********************** न्यायभाष्यम्२,१.१ **********************


अत ऊर्ध्वं प्रमाणादिपरीक्षा। सा च ’’विमृश्य पक्षप्रतिपक्षाभ्याम् अर्थावधारणं निर्णयःऽऽ इत्य् अग्रे विमर्ष एव परीक्ष्यते ---
न्याभा२,१.१ _ समानानेकधर्माध्यवसायाद् अन्यतरधर्माध्यवसायाद् वा न संशयः ॥
समानस्य धर्मस्याध्यवसायात् संशयो न धर्ममात्रात्। अथ वा समानम् अनयोर् धर्मम् उपलभ इति धर्मधर्मिग्रहणे संशयाभाव इति।
-म् उपलभ इति] पृ.४०९
अथ वा समानधर्माध्यवसायाद् अर्थान्तरभूते धर्मिणि संशयोऽनुपपन्नः, न जातु रूपस्यार्थान्तरभूतस्याध्यवसायाद् अर्थान्तरभूते स्पर्शे संशय इति। अथ वा न अध्यवसायाद् अर्थावधारणाद् अनवधारणज्ञानं संशय उपपद्यते कार्यकारणयोः सारूप्याभावाद् इति। एतेनानेकधर्माध्यवसायाद् इति व्याख्यातम्। अन्यतरधर्माध्य्वसायाच् च संशयो न भवति, ततो ह्य् अन्यतरावधारणम् एवेति॥


********************** न्यायभाष्यम्२,१.२ **********************


न्याभा२,१.२ _ विप्रतिपत्त्यव्यवस्थाध्यवसायाच् च ॥
न विप्रतिपत्तिमात्राद् अव्यवस्थामात्राद् वा संशयः। किं तर्हि? विप्रतिपत्तिम् उपलभमानस्य संशयः। एवम् अव्यवस्थायाम् अपीति। अथ वास्त्य् आत्मेत्य् एके नास्त्य् आत्मेत्य् अपरे मन्यन्त इत्य् उपलब्धेः कथं संशयः स्याद् इति। तथोपलब्धिर् अव्यवस्थिता अनुपलब्धिश् चाव्यवस्थितेति विभागेनाध्यवसिते संशयो नोपपद्यत इति॥


********************** न्यायभाष्यम्२,१.३ **********************


न्याभा२,१.३ _ विप्रतिपत्तौ च सम्प्रतिपत्तेः ॥
यां च विप्रतिपत्तिं भवान् संशयहेतुः मन्यते सा सम्प्रतिपत्तिः, सा हि द्वयोः प्रत्यनीकधर्मविषया। तत्र यदि विप्रतिपत्तेः संशयः, सम्प्रतिपत्तेर् एव संशय इति॥


********************** न्यायभाष्यम्२,१.४ **********************


न्याभा२,१.४ _ अव्यवस्थात्मनि व्यवस्थितत्वाच् चाव्यवस्थायाः ॥
न संशयः। यदि तावद् इयम् अव्यवस्था आत्मनि एव व्यवस्थिता, व्यवस्थानाद् अव्यवस्था न भवतीत्य् अनुपपन्नः संशयः।
अथ अव्यवस्थात्मनि न व्यवस्थिता, एवम् अतादात्म्याद् अव्यवस्था न भवतीति संशयाभाव इति॥


********************** न्यायभाष्यम्२,१.५ **********************


न्याभा२,१.५ _ तथात्यन्तसंशयस् तद्धर्मसातत्योपपत्तेः ॥
येन कल्पेन भवान् समानधर्मोपपत्तेः संशय इति मन्यते, तेन खल्व् अत्यन्तसंशयः प्रसज्यते। समानधर्मोपपत्तेर् अनुच्छेदात् संशयानुच्छेदः। न ह्य् अयम् अतद्धर्मा धर्मी विमृश्यमाणो गृह्यते, सततं तु तद्धर्मा भवतीति॥


********************** न्यायभाष्यम्२,१.६ **********************


अस्य प्रतिषेधप्रपञ्चस्य सङ्क्षेपेणोद्धारः ---
न्याभा२,१.६ _ यथोक्ताध्यवसायाद् एव तदविशेषापेक्षात् संशये नासंशयो नात्यन्तसंशयो वा ॥
न संशयानुत्पत्तिः संशयानुच्छेदश् च प्रसज्यते। कथम्? यत् तावत् समानधर्माध्यवसायः संशयहेतुः न समानधर्ममात्रम् इति, एवम् एतत्। कस्माद् एवं नोच्यत इति? विशेषापेक्ष इति वचनात् तत्सिद्धेः --- विशेषस्यापेक्षा आकङ्क्षा, सा चानुपलभ्यमाने विशेषे समर्था, न चोक्तं समानधर्मापेक्ष इति। समाने च धर्मे कथम् आकङ्क्षा न भवेद् यद्य् अयं प्रत्यक्षः स्यात्। एतेन सामर्थ्येन विज्ञायते समानधर्माध्यवसायाद् इति।
उपपत्तिवचनाद् वा --- समानधर्मोपपत्तेर् इत्य् उच्यते न चान्या सद्भावसंवेदनाद् ऋते समानधर्मोपपत्तिर् अस्ति। अनुपलभ्यमानसद्भावो हि समानो धर्मोऽविद्यमानवद् भवतीति।
विषयशब्देन वा विषयिणः प्रत्ययस्याभिधानम् --- यथा लोके धूमेनाग्निर् अनुमीयते इत्य् उक्ते धूमदर्शनेनाग्निर् अनुमीयत इति ज्ञायते। कथम्? दृष्ट्वा हि धूमम् अथाग्निम् अनुमिनोति नादृष्ट्वेति॑ न च वाक्ये दर्शनशब्दः श्रूयते, अनुजानाति च वाक्यस्यार्थप्रत्यायकत्वम्॑ तेन मन्यामहे विषयशब्देन विषयिणः प्रत्ययस्याभिधानं बोद्धानुजानाति। एवम् इहापि समानधर्मशब्देन समानधर्माध्य्वसायम् आहेति।


यथोहित्वा समानमनयोर् धर्मम् उपलभ इति धर्मधर्मिग्रहणे संशयाभाव इति, पूर्वदृष्टविषयम् एतत्। याव् अहम् अर्थौ पूर्वम् अद्राक्षं तयोः समानं धर्मम् उपलभे विशेषं नोपलभ इति, कथं नु विशेषं पश्येयं येनान्यतरम् अवधारयेयम् इति। न चैतत् समानधर्मोपलब्धौ धर्मधर्मिग्रहणमात्रेण निवर्तत इति।
यच् चोक्तं नार्थान्तराध्यवसायाद् अन्यत्र संशय इति, यो ह्य् अर्थान्तराध्यवसायमात्रं संशयहेतुम् उपाददीत स एवं वाच्य इति।
यत् पुनर् एतत् कार्यकारणयोः सारूप्याभावाद् इति, कारणस्य भावाभावयोः कार्यस्य भावाभावौ कार्यकारणयोः सारूप्यम्।
भावाभावौ ...] पृ.४१५
यस्योत्पादाद् यद् उत्पद्यते यस्य चानुत्पादाद् यन् नोत्पद्यते तत् कारणं कार्यम् इतरद् इत्य् एतत् सारूप्यम्, अस्ति च संशयकारणे संशये चैतद् इति। एतेनानेकधर्माध्यवसायाद् इति प्रतिषेधः परिहृत इति।
यत् पुनर् एतद् उक्तं ’’विप्रतिपत्त्यव्यवस्थाध्यवसायाच् च न संशयऽऽ इति, पृथक्प्रवादयोर् व्याहतम् अर्थम् उपलभे विशेषं च न जानामि नोपलभे येनान्यतरम् अवधारयेयम्,
-र् व्याहतम् अर्थम् उपलभे ...] पृ.४१६
तत् कोऽत्र विशेषः स्याद् येनैकतरम् अवधारयेयम् इति संशयो विप्रतिपत्तिजनितोऽयं न शक्यो विप्रतिपत्तिसम्प्रतिपत्तिमात्रेण निवर्तयितुम् इति।एवम् उपलब्ध्यनुपलब्ध्यव्यवस्थाकृते संशये वेदितव्यम् इति।
यत् पुनर् एतत् विप्रतिपत्तौ च सम्प्रतिपत्तेर् इति, विप्रतिपत्तिशब्दस्य योऽर्थः तदध्यवसायो विशेषापेक्षः संशयहेतुस् तस्य च समाख्यान्तरेण न निवृत्तिः। समानेऽधिकरणे व्याहतार्थौ प्रवादौ विप्रतिपत्तिशब्दस्यार्थः तदध्यवसायश् च विशेषापेक्षः संशयहेतुः। न चास्य सम्प्रतिपत्तिशब्दे समाख्यान्तरे योज्यमाने संशयहेतुतुवं निवर्तते। तद् इदम् अकृतबुद्धिसम्मोहनम् इति।
यत् पुनः ’’व्यवस्थात्मनि व्यवस्थितत्वाच् चाव्यवस्थायाऽऽ इति, संशयहेतोर् अर्थस्याप्रतिषेधाद् अव्यवस्थाभ्यनुज्ञानाच् च निमित्तान्तरेण शब्दान्तरकल्पना व्यर्था। शब्दान्तरकल्पनाव्यवस्था खल्व् अव्यवस्था न भवत्य् अव्यवस्थात्मनि व्यवस्थितत्वाद् इति।
-कल्पनाव्यवस्था खल्व् ...] पृ.४१७
नानयोर् उपलब्ध्यनुपलब्ध्योः सदसद्विषयत्वं विशेषापेक्षं संशयहेतुर् न भ्वतीति प्रतिषिध्यते यावता चाव्यवस्थात्मनि व्यवस्थिता न तावतात्मानं जहाति, तावता ह्य् अनुज्ञाताव्यवस्था। एवम् इयं क्रियमाणापि शब्दान्तरकल्पना नार्थान्तरं साधयतीति।
यत् पुनर् एतत् ’’तथात्यन्तसंशयस् तद्धर्मसातत्योपपत्तेःऽऽ इति, नायं समानधर्मादिभ्य एव संशयः। किं तर्हि? तद्विषयाध्यवसायाद् विशेषस्मृतिसहिताद् इत्य् अतो नात्यन्तसंशय इति।
अन्यतरधर्माध्यवसायाद् वा न संशय इति, तन् न युक्तम्॑ विशेषापेक्षो विमर्षः संशय इति वचनात्। विशेषश् चान्यतरधर्मो न तस्मिन्न् अध्य्वसीयमाने विशेषापेक्षा सम्भवतीति॥


********************** न्यायभाष्यम्२,१.७ **********************


न्याभा२,१.७ _ यथ्र संशयस् तत्रैवम् उत्तरोत्तरप्रसङ्गः ॥
यत्र यत्र संशयपूर्विका परीक्षा शास्त्रे कथायां वा, तत्र तत्रैवं संशये परेण प्रतिषिद्धे समाधिर् वाच्य इति। अतः सर्वपरीक्षाव्यापित्वात् प्रथमं संशयः परीक्षित इति॥


********************** न्यायभाष्यम्२,१.८ **********************


अथ प्रमाणपरीक्षा ---
न्याभा२,१.८ _ प्रत्यक्षादीनाम् अप्रामाण्यं त्रैकाल्यासिद्धेः ॥
प्रत्यक्षादीनां प्रमाणत्वं नास्ति त्रैकाल्यासिद्धेः पूर्वापरसहभावानुपपत्तेर् इत्य् अर्थः॥


********************** न्यायभाष्यम्२,१.९ **********************


अस्य सामान्यवचनस्यार्थविभागः ---
न्याभा२,१.९ _ पूर्वं हि प्रमाणसिद्धौ नेन्द्रियार्थसन्निकर्षात् प्रत्यक्षोत्पत्तिः ॥
गन्धादिविषयं ज्ञानं प्रत्यक्षम्, तद् यदि पूर्वम्, पश्चाद् गन्धादीनां सिद्धिः, नेदं गन्धादिसन्निकर्षाद् उत्पद्यत इति॥


********************** न्यायभाष्यम्२,१.१० **********************


न्याभा२,१.१० _ पश्चात् सिद्धौ न प्रमाणेभ्यः प्रमेयसिद्धिः ॥
असति प्रमाणे केन प्रमीयमाणोऽर्थः प्रमेयः स्यात् प्रमाणेन खलु प्रमीयमाणोऽर्थः प्रमेयम् इत्य् एतत् सिध्यति॥


********************** न्यायभाष्यम्२,१.११ **********************


न्याभा२,१.११ _ युगपत्सिद्धौ प्रत्यर्थनियतत्वात् क्रमवृत्तित्वाभावो बुद्धीनाम् ॥
यदि प्रमाणं प्रमेयं च युगपद्भवतः, एवम् अपि गन्धादिष्व् इन्द्रियार्थेषु ज्ञानानि प्रत्यर्थनियतानि युगपत्सम्भवन्तीति ज्ञानानां प्रत्यक्षनियतत्वात् क्रमवृत्तित्वाभावः। या इमा बुद्धयः क्रमेणार्थेषु वर्त्तन्ते तासां क्रमवृत्तित्वं न सम्भवतीति। व्याघातश् च ’’युगपज् ज्ञानानुत्पत्तिर् मनसो लिङ्गम्ऽऽ इति। एतावांश् च प्रमाणप्रमेययोः सद्भावविषयः स चानुपपन्न इति। तस्मात् प्रत्यक्षादीनां प्रमाणत्वं न सम्भवतीति।
अस्य समाधिः --- उपलब्धिहेतोर् उपलब्धिविषयस्य चार्थस्य पूर्वापरसहभावानियमाद् यथादर्शनं विभागवचनम्।
यथाददर्शनं विभागवचनम्] पृ.४२३
कवचिद् उपलब्धिहेतुः, पश्चाद् उपलब्धिविषयः, यथादित्यस्य प्रकाश उत्पद्यमानानाम्। क्वचित् पूर्वम् उपलब्धिविषयः पश्चाद् उपलब्धिहेतुः, यथावस्थितानां प्रदीपः। क्वचिद् उपलब्धिहेतुर् उपलब्धिविषयश् च सह भ्वतः, यथा धूमेनाग्नेर् ग्रहणम् इति। उपलब्धिहेतुश् च प्रमाणं प्रमेयं तूपलब्धिविषयः। एवं प्रमाणप्रमेययोः पूर्वापरसहभावेऽनियते यथार्थो दृश्यते तथा विभज्य वचनीय इति तत्रैकान्तेन प्रतिषेधानुपपत्तिः, सामान्येन खलु विभज्य प्रतिषेध उक्त इति।
समाख्याहेतोस् त्रैकाल्ययोगात् तथाभूता समाख्या। यत् पुनर् इदं पश्चात् सिद्धाव् असति प्रमाणे प्रमेयं न सिध्यति, प्रमाणेन प्रमीयमाणोऽर्थः प्रमेयम् इति विज्ञायत इति। प्रमाणम् इत्य् एतस्याः समाख्याया उपलब्धिहेतुत्वं निमित्तम्,
म् इत्य् एतस्याः समाख्याया ...] पृ.४२४
तस्य त्रैकाल्ययोगः। उपलब्धिम् अकार्षीत्, उपलब्धिं करोति, उपलब्धिं करिष्यतीति समाख्याहेतोस् त्रैकाल्ययोगात् समाख्या तथाभूता प्रमितोऽनेनार्थः प्रमीयते प्रमास्यत इति प्रमाणम्॑ प्रमितम्, प्रमीयते, प्रमास्यते इति च प्रमेयम्। एवं सति भविष्यत्य् अस्मिन् हेतुत उपलब्धिः, प्रमास्यतेऽयम् अर्थः प्रमेयम् इदम् इत्य् एतत् सर्वं भ्वतीति। त्रैकाल्यानभ्यनुज्ञाने च व्यवहारानुपपत्तिः। यश् चैवं नाभ्यनुजानीयात् तस्य पाचकम् आनय पक्ष्यति लावकम् आनय लविष्यतीति व्यवहारो नोपपद्यत इति।
’’प्रत्यक्षादीनाम् अप्रामाण्यं त्रैकाल्यासिद्धेर्ऽऽ इत्य् एवमादि वाक्यं प्रमाणप्रतिषेधः। तत्रायं प्रष्टव्यः, अथानेन प्रतिषेधेन भवता किं क्रियत इति? किं सम्भवो निवर्त्यते अथासम्भवो ज्ञाप्यते इति।
सम्भवो ज्ञाप्यते] पृ.४२५
तद् यदि सम्भवो निवर्त्यते सति सम्भवे प्रत्यक्षादीनां प्रतिषेधानुपपत्तिः। अथासम्भवो ज्ञाप्यते, प्रमाणलक्षणं प्राप्तस् तर्हि प्रतिषेधः प्रमाणासम्भवस्योपलब्धिहेतुत्वाद् इति॥


********************** न्यायभाष्यम्२,१.१२ **********************
किं चातः?
न्याभा२,१.१२ _ त्रैकाल्यासिद्धेः प्रतिषेधानुपपत्तिः ॥
अस्य तु विभागः। पूर्वं हि प्रतिषेधसिद्धाव् असति प्रतिषेध्ये किम् अनेन प्रतिषिध्यते पश्चात् सिद्धौ प्रतिषेध्यासिद्धिः प्रतिषेधाभावाद् इति। युगपत्सिद्धौ प्रतिषेध्यसिद्ध्यभ्यनुज्ञानाद् अनर्थकः प्रतिषेध इति।
-ज्ञानाद् अनर्थकः ...] पृ.४२६
प्रतिषेधलक्षणे च वाक्येऽनुपपद्यमाने सिद्धं प्रत्यक्षादीनां प्रमाणत्वम् इति॥


********************** न्यायभाष्यम्२,१.१३ **********************


कथम्?
न्याभा२,१.१३ _ सर्वप्रमाणप्रतिषेधाच् च प्रतिषेधानुपपत्तिः ॥
त्रैकाल्यासिद्धेर् इत्य् अस्य हेतोर् यद्य् उदाहरणम् उपादीयते हेत्वर्थस्य साधकत्वं दृष्टान्ते दर्शयितव्यम् इति,
दर्शयितव्यम् इति,] पृ.४२८
न च तर्हि प्रत्यक्षादीनाम् अप्रामाण्यम्। अथ प्रत्यक्षादीनाम् अप्रामाण्यम्, उपादीयमानम् अप्य् उदाहरणं नार्थं साधयिष्यतीति सोऽयं सर्वप्रमाणव्याहतो हेतुर् अहेतुः॑ ’’सिद्धान्तम् अभ्युपेत्य तद्विरोधी विरुद्धःऽऽ इति। वाक्यार्थो ह्य् अस्य सिद्धान्तः। स च वाक्यार्थः प्रत्यक्षादीनि नार्थं साधयन्तीतीदं चावयवानाम् उपादानम् अर्थस्य साधनायेति। अथ नोपादीयते अप्रदर्शितं हेत्वर्थस्य दृष्टान्तेन साधकत्वम् इति निषेधो नोपपद्यते हेतुत्वासिद्धेर् इति॥


********************** न्यायभाष्यम्२,१.१४ **********************


न्याभा२,१.१४ _ तत्प्रामाण्ये वा न सर्वप्रमाणविप्रतिषेधः ॥
प्रतिषेधलक्षणे स्ववाक्ये तेषाम् अवयवाश्रितानां प्रत्यक्षादीनां प्रामाण्येऽभ्यनुज्ञायमाने परवाक्येऽप्य् अवयवाश्रितानां प्रामाण्यं प्रसज्यतेऽविशेषाद् इति। एवं च न सर्वाणि प्रमाणानि प्रतिषिध्यन्त इति। विप्रतिषेध इति वीत्य् अयम् उपसर्गः सम्प्रतिपत्त्यर्थे, न व्याघातेऽर्थाभावाद् इति॥


********************** न्यायभाष्यम्२,१.१५ **********************


न्याभा२,१.१५ _ त्रैकाल्याप्रतिषेधश् च शब्दाद् आतोद्यसिद्धिवत् तत्सिद्धेः ॥
किम् अर्थं पुनर् इदम् उच्यते? पूर्वोक्तनिबन्धनार्थम्। यत् तावत् पूर्वोक्तम् उपलब्धिहेतोर् उपलब्धिविषयस्य चार्थस्य पूर्वापरसहभावानियमाद् यथादर्शनं विभागवचनम् इति, तद् इतः समुत्थानं यथा विज्ञायेत। अनित्यम् अदर्शी खल्व् अयम् ऋषिर् नियमेन प्रतिषेधं प्रत्याचष्टे --- त्रैकाल्यस्य चायुक्तः प्रतिषेध इति। तत्रैकां विधाम् उदाहरति शब्दाद् आतोद्यसिद्धिवद् इति।
-द् इति] पृ.४३१
यथा पश्चात् सिद्धेन शब्देन पूर्वसिद्धम् आतोद्यम् अनुमीयते, साध्यं चातोद्यं साधनं च शब्दः, अन्तर्हिते ह्य् आतोद्ये स्वनतोऽनुमानं भवतीति वीणा वाद्यते वेणुः पूर्यते इति स्वनविशेषेण आतोद्यविशेषं प्रतिपद्यते॑ तथा पूर्वसिद्धम् उपलब्धिविषयं पश्चात् सिद्धेनोपलब्धिहेतुना प्रतिपद्यत इति। निदर्शनार्थत्वाच् चास्य शेषयोर् विधयोर् यथोक्तम् उदाहरणं वेदितव्यम् इति।
कस्मात् पुनर् इह तन् नोच्यते? पूर्वोक्तम् उपपाद्यत इति। सर्वथा तावद् अयम् अर्थः प्रकाशयितव्यः, स इह वा प्रकाश्येत तत्र वा, न कश्चिद् विशेष इति॥


********************** न्यायभाष्यम्२,१.१६ **********************


प्रमाणं प्रमेयम् इति च समाख्या समावेशेन वर्त्तते समाख्यानिमित्तवशात्। समाख्यानिमित्तं तूपलब्धिसाधनं प्रमाणम् उपलब्धिविषयश् च प्रमेयम् इति। यदा च उपलब्धिविषयः क्वचिद् उपलब्धिसाधनं भवति तदा प्रमाणं प्रमेयम् इति चैकोऽर्थोऽभिधीयते। अस्यार्थस्यावद्योतनार्थम् इदम् उच्यते ---


न्याभा२,१.१६ _ प्रमेया च तुलाप्रामाण्यवत् ॥
गुरुत्वपरिमाणज्ञानसाधनं तुला प्रमाणम्, ज्ञानविषयो गुरु द्रव्यं सुवर्णादि प्रमेयम्। यथा सुवर्णादिना तुलान्तरं व्यवस्थाप्यते तदा तुलान्तरप्रतिपत्तौ सुवर्णादि प्रमाणम् तुलान्तरं प्रमेयम् इति। एवम् अनवयवेन तन्त्रार्थ उद्दिष्टो वेदितव्यः। आत्मा तावद् उपलब्धिविषयत्वात् प्रमेये परिपठितः, उपलब्धौ स्वातन्त्र्यात् प्रमाता। बुद्धिर् उपलब्धिसाधनत्वात् प्रमाणम्, उपलब्धिविषयत्वात् प्रमेयम्॑ उभयाभावात् तु प्रमितिः। एवम् अर्थविशेषे समाख्यासमावेशो योज्यः। तथा च कारकशब्दा निमित्तवशात् समावेशेन वर्त्तन्त इति।
समावेशेन वर्तन्त इति।] पृ.४३४
वृक्षस् तिष्ठतीति स्वस्थितौ स्वातन्त्र्यात् कर्ता। वृक्षं पश्यतीति दर्शनेनाप्तुम् इष्यमाणतमत्वात् कर्म।
पश्यतीति दर्शनेनाप्तुम् ...] पृ.४३७
वृक्षेण चन्द्रमसं ज्ञापयतीति ज्ञापकस्य साधकतमत्वात् करणम्।
साधकतमत्वात् करणम्।] पृ.४३८
वृक्षायोदकम् आसिञ्चतीति आसिच्यमानेनोदकेन वृक्षम् अभिप्रैतीति सम्प्रदानम्। वृक्षात् पर्णं पततीति ’’ध्रुवम् अपायेऽपादानम्ऽऽ इत्य् अपादानम्। वृक्षे वयांसि सन्तीति ’’ाधारोऽधिकरणम्ऽऽ इत्य् अधिकरणम्। एवम् च सति न द्रव्यमात्रं कारकम्, न क्रियामात्रम्। किं तर्हि? क्रियासाधनं क्रियाविशेषयुक्तं कारकम्। यत् क्रियासाधनं स्वतन्त्रम् स कर्ता, न द्रव्यमात्रं न क्रियामात्रम्। क्रियया व्याप्तुम् इष्यमाणतमं कर्म,
-म् इष्यमाणतमं कर्म,] पृ.४३९
न द्रव्यमात्रं न क्र्यामात्रम्। एवं साधकतमादिष्व् अपि। एवं च कारकान्वाख्यानं यथैव उपपत्तित एवं लक्षणतः। कारकान्वाख्यानम् अपि न द्रव्यमात्रे न क्रियायाम् वा। किं तर्हि? क्रियासाधने क्रियाविशेषयुक्त इति। कारकशब्दश् चायं प्रमाणं प्रमेयम् इति, स च कारकधर्मं न हातुम् अर्हति॥१६॥


********************** न्यायभाष्यम्२,१.१७ **********************


अस्ति भोः कारकशब्दानां निमित्तवशात् समावेषः। प्रत्यक्षादीनि च प्रमाणानि उपलब्धिहेतुत्वात्, प्रमेयं चोपलब्धिविषयत्वात्। संवेद्यानि च प्रत्यक्षादीनि प्रमाणानि, प्रत्यक्षेणोपलभे अनुमानेनोपलभे उपमानेनोपलभे आगमेनोपलभे। प्रत्यक्षं मे ज्ञानम् आनुमानिकं मे ज्ञानम् औपमानिकं मे ज्ञानम् आगमिकं मे ज्ञानम् इति विशेषा गृह्यन्ते। लक्षणतश् च ज्ञाप्यमानानि ज्ञायन्ते विशेषेणेन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानम् इत्य् एवमादिना।


सेयम् उपलब्धिः प्रत्यक्षादिविषया किं प्रमाणान्तरतः अथान्तरेण प्रमाणान्तरम् असाधनेति? कश् चात्र विशेषः?
न्याभा२,१.१७ _ प्रमाणतः सिद्धेः प्रमाणानां प्रमाणान्तरसिद्धिप्रसङ्गः ॥
यदि प्रत्यक्षादीनि प्रमाणेनोपलभ्यन्ते, येन प्रमाणेनोपलभ्यन्ते तत् प्रमाणान्तरम् अस्तीति प्रमाणान्तरसद्भावः प्रसज्यत इति अनवस्थाम् आह तस्याप्य् अन्येन तस्याप्य् अन्येनेति।
-म् अस्तीति प्रमाणान्तरसद्भावः ...] पृ.४४२
न चानवस्था शक्यानुज्ञातुम् अनुपपत्तेर् इति॥


********************** न्यायभाष्यम्२,१.१८ **********************
अस्तु तर्हि प्रमाणान्तरम् अन्तरेण निःसाधनेति?---
न्याभा२,१.१८ _ तद्विनिवृत्तेर् वा प्रमाणसिद्धिवत् प्रमेयसिद्धिः ॥
यदि प्रत्यक्षाद्युपलब्धौ प्रमाणान्तरं निवर्त्तने आत्माद्युपलब्धाव् अपि प्रमाणान्तरं निवर्त्स्यत्य् अविशेषात्॥


********************** न्यायभाष्यम्२,१.१९ **********************


एवं च सर्वप्रमाणविलोप इत्य् अत आह ---
न्याभा२,१.१९ _ न प्रदीपप्रकाशसिद्धिवत् तत्सिद्धेः ॥
यथा प्रदीपप्रकाशः प्रत्यक्षाङ्गत्वाद् दृश्यदर्शने प्रमाणम्, स च प्रत्यक्षान्तरेण चक्षुषः सन्निकर्षेण गृह्यते॑ प्रदीपभावाभावयोर् दर्शनस्य तथाभावाद् दर्शनहेतुर् अनुमीयते, तमसि प्रदीपम् उपाददीथा इत्य् आप्तोपदेशेनापि प्रतिपद्यते॑ एवं प्रत्यक्षादीनां यथादर्शनं प्रत्यक्षादिभिर् एवोपलब्धिः। इन्द्रियाणि तावत् स्वविषयग्रहणेनैवानुमीयन्ते। अर्थाः प्रत्यक्षतो गृह्यन्ते। इन्द्रियार्थसन्निकर्षास् त्व् आवरणेन लिङ्गेनानुमीयन्ते।


इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानम् आत्ममनसोः संयोगविशेषाद् आत्मसमवयाच् च सुखादिवद् गृह्यते। एवं प्रमाणविशेषो विभज्य वचनीयः। यथा च दृश्यः सन् प्रदीपप्रकाशो दृश्यान्तराणां दर्शनहेतुर् इति दृश्यदर्शनव्यवस्थां लभते, एवं प्रमेयं सत् किञ्चिद् अर्थजातम् उपलब्धिहेतुत्वात् प्रमाणप्रमेयव्य्वस्थां लभते। सेयं प्रत्यक्षादिभिर् एव प्रत्यक्षादीनां यथादर्शनम् उपलब्धिर् न प्रमाणान्तरतः, न च प्रमाणम् अन्तरेण निःसाधनेति।
तेनैव तस्याग्रहणम् इति चेत्, न॑ अर्थभेदस्य लक्षणसामान्यात् --- प्रत्यक्षादीनां प्रत्यक्षादिभिर् एव ग्रहणम् इत्य् अयुक्तम्, अन्येन ह्य् अन्यस्य ग्रहणं दृष्टम् इति। न, अर्थभेदस्य लक्षणसामान्यात् --- प्रत्यक्षलक्षणेनानेकोऽर्थः संगृहीतस् तत्र केनचित् कस्यचिद् ग्रहणम् इत्य् अदोषः। एवम् अनुमानादिष्व् अपीति। यतोद्धृतेनोदकेनाशयस्थस्य ग्रहणम् इति।


ज्ञातृमनसोश् च दर्शनात् --- अहं सुखी अहं दुःखी चेति तेनैव ज्ञात्रा तस्यैव ग्रहणं दृश्यते। ’’युगपज्ज्ञानानुत्पत्तिर् मनसो लिङ्गम्ऽऽ इति च तेनैव मनसा तस्यैवानुमानं दृश्यते, ज्ञातुर् ज्ञेयस्य चाभेदो ग्रहणस्य ग्राह्यस्य चाभेद इति।
निमित्तभेदोऽत्रेति चेत् समानम् --- न निमित्तान्तरेण विना ज्ञाता आत्मानं जानीते, न च निमित्तान्तरेण विना मनसा मनो गृह्यत इति समानम् एतत्, प्रत्यक्षाद्भिः प्रत्यक्षादीनां ग्रहंम् इत्य् अत्राप्य् अर्थभेदो न गृह्यत इति।
प्रत्यक्षादीनां चाविषयस्यानुपपत्तेः --- यदि स्यात् किंचिद् अर्थजातं प्रत्यक्षादीनाम् अविषयः यत् प्रत्यक्षादिभिर् न शक्यं ग्रहीतुम्, तस्य ग्रहणाय प्रमाणान्तरम् उपादीयेत, तत् तु न शक्यं केनचिद् उपपादयितुम् इति। प्रत्यक्षादीनां यथादर्शनम् एवेदं सच् चासच् च सर्वं विषय इति॥


********************** न्यायभाष्यम्२,१.२० **********************


न्याभा२,१.२० _ क्वचिन् निवृत्तिदर्शनाद् अनिवृत्तिदर्शनाच् च क्वचिद् अनेकान्तः ॥
केचित् तु दृष्टान्तम् अपरिगृहीतं हेतुना विशेषहेतुम् अन्तरेण साध्यसाधनायोपाददते॑ यथा प्रदीपप्रकाशः प्रदीपान्तरप्रकाशम् अन्तरेण गृह्यते तथा प्रमाणानि प्रमाणान्तरम् अन्तरेण गृह्यत इति। स चायम् ---
यथा चायं प्रसङ्गो निवृत्तिदर्शनात् प्रमाणसाधायोपादीयते। एवं प्रमेयसाधनायाप्य् उपादेयोऽविशेषहेतुत्वात् --- यथा च स्थाल्यादिरूपग्रहणे प्रदीपप्रकाशः प्रमेयसाधनायोपादीयते,
-साधायोपादीयते,] पृ.४४७
एवं प्रमाणसाधायाप्य् उपादेयो विशेषहेत्वभावात्, सोऽयं विशेषहेतुपरिग्रहम् अन्तरेण दृष्टान्त एकस्मिन् पक्षे उपादेयो न प्रतिपक्ष इत्य् अनेकान्तः। एकस्मिंश् च पक्षे दृष्टान्त इत्य् अनेकान्तो विशेषहेत्वभावाद् इति।


विशेषहेतुपरिग्रहे सति उपसंहाराभ्यनुज्ञानाद् अप्रतिषेधः --- विशेषहेतुपरिगृहीतस् तु दृष्टान्त एकस्मिन् पक्षे उपसंह्रियमाणो न शक्योऽनुज्ञातुम्। एवं च सत्य् अनेकान्त इत्य् अयं प्रतिषेधो न भवति।
प्रत्यक्षादीनां प्रत्यक्षादिभिर् उपलब्धाव् अनवस्थेति चेद्, न संविद्विषयनिमित्तानाम् उपलब्ध्या व्यवहारोपपत्तेः --- प्रत्यक्षेणार्थम् उपलभे, अनुमानेनार्थम् उपलभे, उपमानेनार्थम् उपलभे, आगमेनार्थम् उपलभे इति, प्रत्यक्षं मे ज्ञानम्, आनुमानिकं मे ज्ञानम्, औपमानिकं मे ज्ञानम्, आगमिकं मे ज्ञानम् इति संविद्विषयं संविन्निमित्तं चोपलभमानस्य धर्मार्थसुखापवर्गप्रयोजनस् तत्प्रत्यनीकपरिवर्जनप्रयोजनश् च व्यवहार उपपद्यते, सोऽयं तावत्य् एव निवर्तते।
तावत्य् एव निवर्तते] पृ.४४९
न चास्ति व्यवहारान्तरम् अनवस्थासाधनीयं येन प्रत्युक्तानवस्थाम् उपाददीतेति॥२०॥


********************** न्यायभाष्यम्२,१.२१ **********************


सामान्येन प्रमाणानि परीक्ष्य विशेषेण परीक्ष्यन्ते। तत्र ---
न्याभा२,१.२१_ प्रत्यक्षलक्षणानुपपत्तिर् असमग्रवचनात् ॥
आत्ममनःसन्निकर्षो हि कारणान्तरं नोक्तम् इति॥२१॥


********************** न्यायभाष्यम्२,१.२२ **********************


न चासंयुक्ते द्रव्ये संयोगजन्यस्य गुणस्योत्पत्तिर् इति ज्ञानोत्पत्तिदर्शनाद् आत्ममनःसन्निकर्षः कारणम्।
-द् आत्ममनःसन्निकर्षः कारणम्।] पृ.४५१
मनःसन्निकर्षानपेक्षस्य चेन्द्रियार्थसन्निकर्षस्य ज्ञानकारणत्वे युगपद् उत्पद्येरन् बुद्धय इति मनःसन्निकर्षोऽपि कारणम्। तद् इदं सूत्रं पुरस्तात् कृतभाष्यम्।
न्याभा२,१.२२_ नात्ममनसोः सन्निकर्षाभावे प्रत्यक्षोत्पत्तिः ॥
आत्ममनसोः सन्निकर्षाभावे नोत्पद्यते प्रत्यक्षम् इन्द्रियार्थसन्निकर्षाभाववद् इति॥२२॥


********************** न्यायभाष्यम्२,१.२३ **********************


सति चेन्द्रियार्थसन्निकर्षे ज्ञानोत्पत्तिदर्शनात् कारणभावं ब्रुवतः ---
न्याभा२,१.२३_ दिग्देशकालाकाशेष्व् अप्य् एवं प्रसङ्गः ॥
दिगादिषु सत्सु ज्ञानभावात् तान्य् अपि कारणानीति? अकारणभावेऽपि ज्ञानोत्पत्तिर् दिगादिसन्निधेर् अवर्जनीयत्वात् --- यदाप्य् अकारणं दिगादीनि ज्ञानोत्पत्तौ, तदापि सत्सु दिगादिषु ज्ञानेन भवितव्यम्,
-दिषु ज्ञानेन भवितव्यम्,] पृ.४५३
न हि दिगादीनां सन्निधिः शक्यः परिवर्जयितुम् इति। तत्र कारणभावे हेतुवचनम्, एतस्माद् धेतोर् दिगादीनि ज्ञानकारणानीति॥२३॥


********************** न्यायभाष्यम्२,१.२४ **********************
आत्ममनःसन्निकर्षस् तर्ह्य् उपसङ्ख्येय इति। तत्रेदम् उच्यते ---
न्याभा२,१.२४_ ज्ञानलिङ्गत्वाद् आत्मनो नानवरोधः ॥


ज्ञानम् आत्मलिङ्गं तद्गुणत्वात्। न चासंयुक्ते द्रव्ये संयोगजस्य गुणस्योत्पत्तिर् अस्तीति॥२४॥


********************** न्यायभाष्यम्२,१.२५ **********************


न्याभा२,१.२५_ तदयौगपद्यलिङ्गत्वाच् च न मनसः ॥
अनवरोध इति वर्त्तते। युगपज् ज्ञानानुत्पत्तिर् मनसो लिङ्गम् इत्य् उच्यमाने सिध्यत्य् एव मनःसन्निकर्षापेक्ष इन्द्रियार्थसन्निकर्षो ज्ञानकारणम् इति॥२५॥


********************** न्यायभाष्यम्२,१.२६ **********************


न्याभा२,१.२६_ प्रत्यक्षनिमित्तत्वाच् चेन्द्रियार्थयोः सन्निकर्षस्य स्वशब्देन वचनम् ॥
प्रत्यक्षानुमानोपमानशब्दानां निमित्तम् आत्ममनःसन्निकर्षः, प्रत्यक्षस्यैवेन्द्रियार्थसन्निकर्ष इत्य् असमानः, असमानत्वात् तस्य ग्रहणम्॥२६॥


********************** न्यायभाष्यम्२,१.२७ **********************


न्याभा२,१.२७_ सुप्तव्यासक्तमनसां चेन्द्रियार्थयोः सन्निकर्षनिमित्तत्वात् ॥
इन्द्रियार्थसन्निकर्षस्य ग्रहणं नात्ममनसोः सन्निकर्षस्येति। एकदा खल्व् अयं प्रबोधकालं प्रणिधाय सुप्तः प्रणिधानवशात् प्रबुध्यते। यदा तु तीव्रौ ध्वनिस्पर्शौ प्रबोधकारणं भवतस् तदा प्रसुप्तस्येन्द्रियसन्निकर्षनिमित्तं प्रबोधज्ञानम् उत्पद्यते। तत्र न ज्ञातुर् मनसश् च सन्निकर्षस्य प्राधान्यं भवति। किं तर्हि? इन्द्रियार्थयोः सन्निकर्षस्य। न ह्य् आत्मा जिज्ञासमानः प्रयत्नेन मनस् तदा प्रेरयतीति।
एकदा खल्व् अयं विषयान्तरासक्तमनाः सङ्कल्पवशाद् विषयान्तरं जिज्ञासमानः प्रयत्नप्रेरितेन मनसा इन्द्रियं संयोज्य तद् विषयान्तरं जानीते। यदा तु खल्व् अस्य निःसङ्कल्पस्य निर्जिज्ञासस्य च व्यासक्तमनसो बाह्यविषयोपनिपातनाज् ज्ञानम् उत्पद्यते तदेन्द्रियार्थसन्निकर्षस्य प्राधान्यम्।
-सन्निकर्षस्य प्राधान्यम्।] पृ.४५८
न ह्य् अत्रासौ जिज्ञासमानः प्रयत्नेन मनः प्रेरयतीति। प्राधान्याच् चेन्द्रियार्थसन्निकर्षस्य ग्रहणं कार्यं गुणत्वाद् नात्ममनसोः सन्निकर्षस्येति॥२७॥


********************** न्यायभाष्यम्२,१.२८ **********************
प्राधान्ये च हेत्वन्तरम् ---
न्याभा२,१.२८_ तैश् चापदेशो ज्ञानविशेषाणाम् ॥
तैर् इन्द्रियैर् अर्थैश् च व्यपदिश्यन्ते ज्ञानविशेषाः। कथम्? घ्राणेन जिघ्रति, चक्षुषा पश्यति, रसनया रसयतीति, घ्राणविज्ञानं चक्षुर्विज्ञानं रसनाविज्ञानं गन्धविज्ञानं रूपविज्ञानं रसविज्ञानम् इति च। इन्द्रियविषयविशेषाच् च पञ्चधा बुद्धिर् भवति। अतः प्राधान्यम् इन्द्रियार्थसन्निकर्षस्येति॥२८॥


********************** न्यायभाष्यम्२,१.२९ **********************


यद् उक्तम् इन्द्रियार्थसन्निकर्षग्रहणं कार्यम्, नात्ममनसोः सन्निकर्षस्येति, कस्मात्? सुप्तव्यासक्तमनसाम् इन्द्रियार्थयोः सन्निकर्षस्य ज्ञाननिमित्तत्वाद् इति। सोऽयम् ---
न्याभा२,१.२९_ व्याहतत्वाद् अहेतुः ॥
यदि तावत् क्वचिद् आत्ममनसोः सन्निकर्षस्य ज्ञानकारणत्वं नेष्यते, तदा ’’युगपज्ज्ञानानुत्पत्तिर् मनसो लिङ्गम्ऽऽ इति व्याहन्येत। नेदानीं मनसः सन्निकर्षम् इन्द्रियार्थसन्निकर्षोऽपेक्षते।


मनःसंयोगानपेक्षायां च युगपज्ज्ञानोत्पत्तिप्रसङ्गः। अथ मा भूद् व्याघात इति सर्वविज्ञानानाम् आत्ममनसोः सन्निकर्षः कारणम् इष्यते, तदवस्थम् एवेदं भवति॑ ज्ञानकारणत्वाद् आत्ममनसोः सन्निकर्षस्य ग्रहणं कार्यम् इति॥२९॥


********************** न्यायभाष्यम्२,१.३० **********************


न्याभा२,१.३०_ नार्थविशेषप्राबल्यात् ॥
नास्ति व्याघातः, न ह्य् आत्ममनःसन्निकर्षस्य ज्ञानकारणत्वं व्यभिचरति। इन्द्रियार्थसन्निकर्षस्य प्राधान्यम् उपादीयते। अर्थविशेषप्राबल्याद् धि सुप्तव्यासक्तमनसां ज्ञानोत्पत्तिर् एकदा भवति। अर्थविशेषः कश्चिद् एवेन्द्रियार्थः, तस्य प्राबल्यं तीव्रतापटुते। तच् चार्थविशेषप्राबल्यम् इन्द्रियार्थसन्निकर्षविषयं नात्ममनसोः सन्निकर्षविषयम्, तस्माद् इन्द्रियार्थसन्निकर्षः प्रधानम् इति।


असति प्रणिधाने सङ्कल्पे चासति सुप्तव्यासक्तमनसां यद् इन्द्रियार्थसन्निकर्षाद् उत्पद्यते ज्ञानम्, तत्र मनःसंयोगोऽपि कारणम् इति मनसि क्रियाकारणं वाच्यम् इति।
यथैव ज्ञातुः खल्व् अयम् इच्छाजनितः प्रयत्नो मनसः प्रेरक आत्मगुणः, एवम् आत्मनि गुणान्तरं सर्वस्य साधकं प्रवृत्तिदोषजनितम् अस्ति, येन प्रेरितं मन इन्द्रियेण सम्बध्यते। तेन ह्य् अप्रेर्यमाणे मनसि संयोगाभावाज् ज्ञानानुत्पत्तौ सर्वार्थतास्य निवर्त्तते। एषितव्यं चास्य गुणान्तरस्य द्रव्यगुणकर्मकारणत्वम्, अन्यथा हि चतुर्विधानाम् अणूनां भूतसूक्ष्माणां मनसां च ततोऽन्यस्य क्रियाहेतोर् असम्भवात् शरीरेन्द्रियविषयाणाम् अनुत्पत्तिप्रसङ्गः॥३०॥


********************** न्यायभाष्यम्२,१.३१ **********************


न्याभा२,१.३१_ प्रत्यक्षम् अनुमानम् एकदेशग्रहणाद् उपलब्धेः ॥
यद् इदम् इन्द्रियार्थसन्निकर्षाद् उत्पद्यते ज्ञानं वृक्ष इति, एतत् किल प्रत्यक्षम्, तत् खल्व् अनुमानम् एव। कस्मात्? एकदेशग्रहणाद् वृक्षस्योपलब्धेः। अर्वाग्भागम् अयं गृहीत्वा वृक्षम् उपलभते। न चैकदेशो वृक्षः। तत्र यथा धूमं गृहीत्वा वह्निम् अनुमिनोति तादृग् एव तद् भवति।


किं पुनर् गृह्यमाणाद् एकदेशाद् अर्थान्तरम् अनुमेयं मन्यसे? अवयवसमूहपक्षे अवयवान्तराणि द्रव्यान्तरोत्पत्तिपक्षे तानि चावववी चेति। अवयवसमूहपक्षे तावद् एकदेशग्रहणाद् वृक्षबुद्धेर् अभावः, नागृह्यमाणम् एकदेशान्तरं वृक्षो गृह्यमाणैकदेशवद् इति।


अथैकदेशग्रहणाद् एकदेशान्तरानुमाने समुदायप्रतिसन्धानात् तत्र वृक्षबुद्धिः? न तर्हि वृक्षबुद्धिर् अनुमानम् एवं सति भवितुम् अर्हतीति।
वृक्षबुद्धिर् अनुमानम् एवं सति भवितुम् अर्हतीति।] पृ.४६७
द्रव्यान्तरोत्पत्तिपक्षे नावयव्यनुमेयः, अस्यैकदेशसम्बद्धस्याग्रहणात् ग्रहणे चाविशेषाद् अनुमेयत्वाभावः। तस्माद् वृक्षबुद्धिर् अनुमानं न भवति॥३१॥


********************** न्यायभाष्यम्२,१.३२ **********************


एकदेशग्रहणम् आश्रित्य प्रत्यक्षस्यानुमानत्वम् उपपाद्यते। तच् च ---
न्याभा२,१.३२_ न, प्रत्यक्षेण यावत् तावद् अप्य् उपलम्भात् ॥
न प्रत्यक्षम् अनुमानम्, कस्मात्? प्रत्यक्षेणैवोपलम्भात्। यत् तदेकदेशग्रहणम् आश्रीयते प्रत्यक्षेणासाव् उपलम्भः। न चोपलम्भो निर्विषयोऽस्ति। यावच् चार्थजातं तस्य विषयस् तावद् अभ्युपज्ञायमानं प्रत्यक्षव्यवस्थापकं भवति।
किं पुनस् ततोऽन्यद् अर्थजातम्, अवयवी समुदायो वा? न चैकदेशग्रहणम् अनुमानं भावयितुं शक्यं हेत्वभावाद् इति।


अन्यथापि च प्रत्यक्षस्य नानुमानत्वप्रसङ्गस् तत्पूर्वकत्वात् --- प्रत्यक्षपूर्वकम् अनुमानम्, सम्बद्धाव् अग्निधूमौ प्रत्यक्षतो दृष्टवतो धूमप्रत्यक्षदर्शनाद् अग्नाव् अनुमानं भवति। यच् च सम्बद्धयोर् लिङ्गलिङ्गिनोः प्रत्यक्षम्, यच् च लिङ्गमात्रप्रत्यक्षग्रहणम्, नैतद् अन्तरेण अनुमानस्य प्रवृत्तिर् अस्ति॑ न त्व् एतद् अनुमानम् इन्द्रियार्थसन्निकर्षजत्वात्। न चानुमेयस्येन्द्रियेण सन्निकर्षाद् अनुमानं भवति। सोऽय. प्रत्यक्षानुमानयोर् लक्षणभेदो महान् आश्रयितव्य इति।


न चैकदेशोपलब्धिर् अवयविसद्भावात्। न चैकदेशोपलब्धिमात्रम्। किं तर्हि? एकदेशोपलब्धिः तत्सहचरितावयव्युपलब्धिश् च। कस्मात्? अवयविसद्भावात्। अस्ति ह्य् अयम् एकदेशव्यतिरिक्तोऽवयवी तस्यावयवस्थानस्योपलब्धिकारणप्राप्तस्यैकदेशोपलब्धाव् अनुपलब्धिर् अनुपपन्नेति।
अकृत्स्नग्रहणाद् इति चेत्, न कारणतोऽन्यस्यैकदेशस्याभावात् --- न चावयवाः कृत्स्ना गृह्यन्ते अवयवैर् एवावयवान्तरव्यवधानात्,
कृत्स्ना गृह्यन्ते अवयवैर् एवावयवान्तरव्यवधानात्, ] पृ.४७१
नावयवी कृत्स्नो गृह्यत इति, नायं गृह्यम्नाणेष्व् अवयवेषु परिसमाप्त इति, सेयम् एकद्देशोपलब्धिर् अनिवृत्तैवेति।
कृत्स्नम् इति वै खल्व् अशेषतायां सत्यां भवति, अकृत्स्नम् इति शेषे सति, तच् चैतद् अवयवेषु बहुष्व् अस्ति अव्यवधाने ग्रहणाद् व्यवधाने चाग्रहणाद् इति। अङ्ग तु भवान् पृष्टो व्याचष्टां गृह्यमाणस्यावयविनः किम् अगृहीतं मन्यते?
भवान् पृष्टो ... अगृहीतं मन्यते?] पृ.४७२
येनैकदेशोपलब्धिः स्याद् इति। न ह्य् अस्य कारणेभ्योऽन्ये एकदेशा भवन्तीति तत्रावयववृत्तं नोपपद्यत इति।
नोपपद्यत इति।] पृ.४७३
इदं तस्य वृत्तम् --- येषाम् इन्द्रियसन्निकर्षाद् ग्रहणम् अवयवानां तैः सह गृह्यते, येषाम् अवयवानां व्यवधानाद् अग्रहणं तैः सह न गृह्यते। न चैतत्कृतोऽस्ति भेद इति।


समुदायशेषता वा समुदायो वृक्षः स्यात् तत्प्राप्तिर् वा, उभयथा ग्रहणाभावः। मूलस्कन्धशाखापलाशादीनाम् अशेषता वा समुदायो वृक्ष इति स्यात् प्राप्तिर् वा समुदायिनाम् इति, उभयथा समुदायभूतस्य वृक्षस्य ग्रहणं नोपपद्यत इति। अवयवैस् तावद् अवयवान्तरस्य व्यवधानाद् अशेषग्रहणं नोपपद्यते। प्राप्तिग्रहणम् अपि नोपपद्यते प्राप्तिमताम् अग्रहणात्। सेयम् एकदेशग्रहणसहचरिता वृक्षवुद्धिर् द्रव्यान्तरोत्पत्तौ कल्पते न समुदयमात्रे इति॥३२॥


********************** न्यायभाष्यम्२,१.३३ **********************


न्याभा२,१.३३_ साध्यत्वाद् अवयविनि सन्देहः ॥
यद् उक्तम् अवयविसध्बावाद् इति, अयम् अहेतुः साध्यत्वात्। साध्यं तावद् एतत् कारणेभ्यो द्रव्यान्तरम् उत्पद्यत इति, अनुपपादितम् एतत्। एवं च सति विप्रतिपत्तिमात्रं भवति विप्रतिपत्तेश् चावयविनि संशय इति॥३३॥


********************** न्यायभाष्यम्२,१.३४ **********************


न्याभा२,१.३४_ सर्वाग्रहणम् अवयव्यसिद्धेः ॥
यद्य् अवयवी नास्ति सर्वस्य ग्रहणं नोपपद्यते। किं तत् सर्वम्? द्रव्यगुणकर्मसामान्यविशेषसमवायाः। कथं कृत्वा? परमाणुसमवस्थानं तावद् दर्शनविषयो न भवत्य् अतीन्द्रियत्वाद् अणूनाम्, द्रव्यान्तरञ् चावयविभूतं दर्शनविषयो नास्ति, दर्शनविषयस्थाश् चेमे द्रव्यादयो गृहन्ते ते निरधिष्ठाना न गृह्येरन्। गृह्यन्ते तु कुम्भोऽयं श्याम एको महान् संयुक्तः स्पन्दते अस्ति मृन्मयश् चेति, सन्ति चेमे गुणादयो धर्मा इति। तेन सर्वस्य ग्रहणात् पश्यामोऽस्ति द्रव्यान्तरभूतो .वयवीति॥३४॥


********************** न्यायभाष्यम्२,१.३५ **********************


न्याभा२,१.३५_ धारणाकर्षणोपपत्तेश् च ॥
अवयव्य् अर्थान्तरभूत इति।
सङ्ग्रहकारिते वै धारणाकर्षणे। संग्रहो नाम संयोगसहचरितं गुणान्तरं स्नेहद्रवत्वकारितम्, अपां संयोगाद् आमे कुम्भे, अग्निसंयोगात् पक्वे। यदि त्व् अवयविकारिते अभविष्यतां पांशुराशिप्रभृतिश्व् अप्य् अज्ञास्येताम्। द्रव्यान्तरानुत्पत्तौ च तृणोपलकाष्ठादिषु जतुसंगृहीतेष्व् अपि नाभाविष्यताम् इति।


अथावयविनं प्रत्याचक्षाणको मा भूत् प्रत्यक्षलोप इत्य् अणुसञ्चयं दर्शनविषयं प्रतिजानानः किम् अनुयोक्तव्य इति। एकम् इदं द्रव्यम् इत्य् एकवुद्धेर् विषयं पर्यनुयोज्यः --- किम् एकबुद्धिर् अभिन्नार्थविषयेति आहोस्वित् भिन्नार्थविषयेति। अभिन्नार्थविषयेति चेत् ---
चेत् ---] पृ.५००
अर्थान्तरानुज्ञानाद् अवयवविसिद्धिः। नानार्थविषयेति चेत् --- भिन्नेष्व् एकदर्शनानुपपत्तिः अनेकस्मिन्न् एक इति व्याहता बुद्धिर् न दृश्यत इति॥३५॥


********************** न्यायभाष्यम्२,१.३६ **********************


न्याभा२,१.३६_ सेनावनवत् ग्रहणम् इति चेन् नातीन्द्रियत्वाद् अणूनाम् ॥
यथा सेनाङ्गेषु वनाङ्गेषु च दूराद् अगृह्यमाणपृथक्त्वेष्व् एकम् इदम् इत्य् उपपद्यते बुद्धिः एवम् अणुषु सञ्चितेष्व् अगृह्यमाणपृथक्त्वेष्व् एकम् इदम् इत्य् उपपद्यते बुद्धिर् इति। यथा गृह्यमाणपृथक्त्वानां सेनावनाङ्गानाम् आरात् कारणान्तरतः पृथक्त्वस्याग्रहणम्,


यथा गृह्यमाणजातीनां पलाश इति वा खदिर इति वा नाराज् जातिग्रहणं भवति। यथा गृह्यमाणप्रस्पन्दानां नारात् स्पन्दग्रहणम्, गृह्यमाणे चार्थजाते पृथक्त्वस्याग्रहणाद् एकम् इति भाक्तः प्रत्ययो भवति, न त्व् अणूनां गृह्यमाणपृथक्त्वानां कारणतः पृथक्त्वस्याग्रहणाद् भाक्त एकप्रत्ययः, अतीन्द्रियत्वाद् अणूनाम् इति।


इदम् एव च परीक्ष्यते किम् एकप्रत्ययो णुसञ्चयविषय आहोस्वित् नेति, अणुसञ्चय एव सेनावनाङानि। न च परीक्ष्यमाणम् उदाहरणम् इति युक्तं साध्यत्वाद् इति।
दृष्टम् इति चेन् न तद्विषयस्य परीक्षोपपत्तेः। यद् अपि मन्येत दृष्टम् इदं सेनावनाङ्गानां पृथक्त्वस्याग्रहणाद् अभेदेनैकम् इति ग्रहणम्, न च दृष्टं शक्यं प्रत्याख्यातुम् इति, तच् च नैवम्, तद्विषयस्य परीक्षोपपत्तेः --- दर्शनविषय एवायं परीक्ष्यते योऽयम् एकम् इति प्रत्ययो दृश्यते, स परीक्ष्यते किं द्रव्यान्तरविषयो वा अथाणुसञ्चयविषय इति। अत्र दर्शनम् अन्यतरस्य साधकं न भवति। नानाभावे चाणूनां पृथक्त्वस्याग्रहणाद् अभेदेनैकम् इति ग्रहणम् अतस्मिंस् तद् इति प्रत्ययः, यथा स्थाणौ पुरुष इति। ततः किम्?
किम्?] पृ.५०४
अतस्मिंस् तद् इति प्रत्ययस्य प्रधानापेक्षित्वात् प्रधानसिद्धिः। स्थाणौ पुरुष इति प्रत्ययस्य किं प्रधानम्? सोऽसौ पुरुषे पुरुषप्रत्ययः, तस्मिन् सति पुरुषसामान्यग्रहणात् स्थाणौ पुरुषो .यम् इति। एवं नानाभूतेष्व् एकम् इति सामान्यग्रहणात् प्रधाने सति भवितुम् अर्हति। प्रधानं च सर्वस्याग्रहणाद् इति नोपपद्यते। तस्माद् अभिन्न एवायम् अभेदप्रत्यय एकम् इति।


इन्द्रियान्तरविषयेष्व् अभेदप्रत्ययः प्रधानम् इति चेद्, न विशेषहेत्वभावाद् दृष्टान्ताव्यवस्था --- श्रोत्रादिविषयेषु शब्दादिष्व् अभिन्नेष्व् एकप्रत्ययः प्रधानम् अनेकस्मिन्न् एकप्रत्ययस्येति। एवं च सति दृष्टान्तोपादानं न व्यवतिष्ठते विशेषहेत्वभावात्। अणुषु संशितेष्व् एकप्रत्ययः किम् अतस्मिंस् तद् इति प्रत्ययः स्थाणौ पुरुषप्रत्ययवत्, अथार्थस्य तथाभावात् तस्मिंस् तद् इति प्रत्ययः यथा शब्दस्यैकत्वाद् एकः शब्द इति विशेषहेतुपरिग्रहणम् अन्तरेण दृष्टान्तौ संशयम् आपादयत इति। कुम्भवत्सञ्चयमात्रं गन्धादयोऽपीत्य् अनुदाहरणं गन्धादय इति।
-दाहरणं गन्धादय इति।] पृ.५०७
एवं परिमाणसंयोगस्पन्दजातिविशेषप्रत्ययान् अप्य् अनुयोक्तव्यः, तेषु चैवं प्रसङ्ग इति।
एकत्वबुद्धिस् तस्मिंस् तद् इति प्रत्यय इति विशेषहेतुर् महद् इति प्रत्ययेन सामानाधिकरण्यात् --- एकम् इदं महच् चेति एकविषयौ प्रत्ययौ समानाधिकरणौ भवतः तेन विज्ञायते यन् महत् तद् एकम् इति। अणुसमूहातिशयग्रहणं महत्प्रत्यय इति चेत् सो .यम् अमहत्सु अणुषु महत्प्रत्ययोऽतस्मिंस् तद् इति प्रत्ययो भवतीति। किं चातः? अतस्मिंस् तद् इति प्रत्ययस्य प्रधानापेक्षित्वात् प्रधानसिद्धिर् इति भवितव्यं महत्य् एव महत्प्रत्ययेनेति।


अणुः शब्दो महान् इति च व्यवसायात् प्रधानसिद्धिर् इति चेत्, न मन्दतीव्रताग्रहणम् इयत्तानवधारणात् --- यथा द्रव्ये अणुः शब्दोऽल्पो मन्द इत्य् एतस्य ग्रहणं महन् शब्दः पटुस् तीव्र इत्य् एतस्य ग्रहणम्। कस्मात्? इयत्तानवधारणात्। न ह्य् अयं महान् शब्द इति व्यवस्यन्न् इयान् अयम् इत्य् अवधारयति, यथा बदरामलकबिल्वादीनि।


संयुक्ते इमे इति च द्वित्वसमानाश्रयप्राप्तिग्रहणम् --- द्वौ समुदायाव् आश्रयः संयोगस्येति चेत् कोऽयं समुदायः? प्राप्तिर् अनेकस्यानेका वा प्राप्तिर् एकस्य समुदाय इति चेत् प्राप्तेर् अग्रहणं प्राप्त्याश्रितायाः। संयुक्ते इमे वस्तुनी इति नात्र द्वे प्राप्ती संयुक्ते गृह्येते।
अनेकसमूहः समुदाय इति चेत्, न द्वित्वेन समानाधिकरणस्य ग्रहणात्। द्वाव् इमौ संयुक्ताव् अर्थाव् इति ग्रहणे सति नानेकसमूहाश्रयः संयोगो गृह्यते। न च द्वयोर् अण्वोर् ग्रहणम् अस्ति। तस्मान् महती द्वित्वाश्रयभूते द्रव्ये संयोगस्य स्थानम् इति।


प्रत्यासत्तिः प्रतीघातावसाना संयोगो नार्थान्तरम् इति चेत्, नार्थान्तरहेतुत्वात् संयोगस्य। शब्दरूपादिस्पन्दानां हेतुः संयोगः। न च द्रव्ययोर् गुणान्तरोपजननम् अन्तरेण शब्दे रूपादिषु स्पन्दे च कारणत्वं गृह्यते, तस्माद् गुणान्तरम्। प्रत्ययविषयश् चार्थान्तरं तत्प्रतिषेधो वा, कुण्डली गुरुर् अकुण्डलश् छात्र इति। संयोगबुद्धेश् च यद्य् अर्थान्तरं न विषयः अर्थान्तरप्रतिषेधस् तर्हि विषयः, तत्र प्रतिषिध्यमानवचनम् --- संयुक्ते द्रव्ये इति यद् अर्थान्तरम् अन्यत्र दृष्टम् इह प्रतिषिध्यते तद्वक्तव्यम् इति। द्वयोर् महतोर् आश्रितस्य ग्रहणान् नाण्वाश्रय इति।


जातिविशेषस्य प्रत्ययानुवृत्तिलिङ्गस्याप्रत्याख्यानम्, प्रत्याख्याने वा प्रत्ययव्यवस्थानुपपत्तिः। व्यधिकरणस्यानभिव्यक्तेर् अधिकरणवचनम्। अणुसमवस्थानं विषय इति चेत् प्राप्ताप्राप्तसामर्थ्यवचनम् --- किम् अप्राप्ते अणुसमवस्थाने तदाश्रयो जातिविशेषो गृह्यते अथ प्राप्ते इति। अप्राप्ते ग्रहणम् इति चेत् व्यवहितस्याणुसमवस्थानस्याप्य् उपलब्धिप्रसङ्गः, व्यवहितेऽण्समवस्थाने तदाश्रयो जातिविशेषो गृह्येत। प्राप्ते ग्रहणम् इति चेत्,
चेत्,] पृ.५१२
मध्यपरभागयोर् अप्राप्ताव् अनभिव्यक्तिः। यावत् प्राप्तं भवति तावत्य् अभिव्यक्तिर् इति चेत्, तावतोऽधिकरणत्वम् अणुसमवस्थानस्य। यावति प्राप्ते जातिविशेषे गृह्यते तावद् अस्याधिकरणम् इति प्राप्तं भवति। तत्रैकसमुदाये प्रतीयमानेऽर्थभेदः। एवं च सति योऽयम् अणुसमुदायो वृक्ष इति प्रतीयते तत्र वृक्षबहुत्वं प्रतीयेत, यत्र यत्र ह्य् अणुसमुदायस्य भागे वृक्षत्वं गृह्यते स स वृक्ष इति। तस्मात् समुदिताणुसमवस्थानस्यार्थान्तरस्य जातिविशेषाभिव्यक्तिविषयत्वाद् अवयव्यर्थान्तरभूत इति॥३९॥


********************** न्यायभाष्यम्२,१.३७ **********************


परीक्षितं प्रत्यक्षम्। अनुमानम् इदानीं परीक्ष्यते ---
न्याभा२,१.३७_ रोधोपघातसादृश्येभ्यो व्यभिचाराद् अनुमानम् अप्रमाणम् ॥
अप्रमाणम् इति एकदाप्य् अर्थस्य न प्रतिपादकम् इति। रोधाद् अपि नदी पूर्णा गृह्यते, तदा चोपरिष्टाद् वृष्टो देव इति मिथ्यानुमानम्। नीडोपघाताद् अपि पिपीलिकाण्डसञ्चारो भवति, तदा च भविष्यति वृष्टिर् इति मिथ्यानुमानम् इति। पुरुषोऽपि मयूरवाशितम् अनुकरोति तदाऽपि शब्दसादृश्यान् मिथ्यानुमानं भवति॥३७॥


********************** न्यायभाष्यम्२,१.३८ **********************


न्याभा२,१.३८_ नैकदेशत्राससादृश्येभ्योऽर्थान्तरभावात् ॥
नायम् अनुमानव्यभिचारः, अननुमाने तु खल्व् अयम् अनुमानाभिमानः। कथम्? नाविशिष्टो लिङ्गं भवितुम् अर्हति। पूर्वोदकविशिष्टं खलु वर्षोदकं शीग्रतरत्वं स्रातसो बहुतरफेनफलपर्णकाष्ठादिवहनं चोपलभमानः पूर्णत्वेन नद्या उपरि वृष्टो देव इत्य् अनुमिनोति नोदकवृद्धिमात्रेण। पिपीलिकाप्रायस्याण्डसञ्चारे भविष्यति वृष्टिर् इत्य् अनुमीयते न कासाञ्चिद् इति। नेदं मयूरवाशितं तत्सदृशोऽयं शब्द इति विशेषापरिज्ञानान् मिथ्यानुमानम् इति। यस् तु सदृशाद् विशिष्टाच् छब्दाद् विशिस्टमयूरवाशितं गृह्णाति तस्य विशिष्टोऽर्थो गृह्यमाणो लिङ्गम्, यथा सर्पादीनाम् इति। सोऽयम् अनुमातुर् अपराधो नानुमानस्य, योऽर्थविशेषेणानुमेयम् अर्थम् अविशिष्टार्थदर्शनेन बुभुत्सत इति॥३८॥


********************** न्यायभाष्यम्२,१.३९ **********************


त्रिकालविषयम् अनुमानं त्रैकाल्यग्रहणाद् इत्य् उक्तम्। अत च ---
न्याभा२,१.३९_ वर्तमानाभावः पततः पतितपतितव्यकालोपपत्तेः ॥
वृन्तात् प्रच्युतस्य फलस्य भूमौ प्रत्यासीदतो यदूर्ध्वं स पतितोऽध्वा तत्संयुक्तः कालः पतितकालः, योऽधस्तात् स पतितव्योऽध्वा, तत्संयुक्तः कालः पतितव्यकालः। नेदानीं तृतीयोऽध्वा विद्यते यत्र पततीति वर्तमानः कालो गृह्येत। तस्माद् वर्तमानः कालो न विद्यत इति॥३९॥


********************** न्यायभाष्यम्२,१.४० **********************


न्याभा२,१.४०_ तयोर् अप्य् अभावो वर्तमानाभावे तदपेक्षत्वात् ॥
नाध्वव्यङ्ग्यः कालः। किं तर्हि? क्रियाव्यङ्ग्यः पततीति। यदा पतनक्रिया व्युपरता भवति स कालः पतितकालः। यदोत्पत्स्यते स पतितव्यकालः।


यदा द्रव्ये वर्तमाना क्रिया गृह्यते स वर्तमानः कालः। यदि चायं द्रव्ये वर्तमानं पतनं न गृह्णाति कस्योपरमम् उत्पत्स्यमानतां वा प्रतिपद्यते। पतितः काल इति भूता क्रिया, पतितव्यः काल इति चोत्पत्स्यमाना क्रिया, उभयोः कालयोः क्रियाहीनं द्रव्यम्॑ अधः पततीति क्रियासम्बद्धम्। सोऽयं क्रियाद्रव्ययोः सम्बन्धं गृह्णातीति वर्तमानः कालः, तदाश्रयौ चेतरौ कालौ तदहावे न स्याताम् इति॥४०॥


********************** न्यायभाष्यम्२,१.४१ **********************


अथापि ---
न्याभा२,१.४१_ नातीतानागतयोर् इतरेतरापेक्षा सिद्धिः ॥
यद्य् अतीतानागताव् इतरेतरापेक्षौ सिध्येतां प्रतिपद्येमहि वर्तमानविलोपम्। नातीतापेक्षानागतसिद्धिः नाप्य् अनागतापेक्षातीतसिद्धिः। कया युक्त्या? केन कल्पेनातीतः कथम् अतीतापेक्षानागतसिद्धिः, केन च कल्पेनानागत इति नैतच् छक्यं निर्वक्तुम् अव्याकरणीयम् एतद् वर्तमानलोप इति। यच् च मन्येत ह्रस्वदीर्घयोः स्थलनिम्नयोश् छायातपयोश् च यथेतरेतरापेक्षया सिद्धिर् एवम् अतीतानागतयोर् इति, तन् नोपपद्यते विशेषहेत्वभावात्। दृष्टान्तवत् प्रतिदृष्टान्तोऽपि प्रसज्यते, यथा रूपस्पर्शौ गन्धरसौ नेतरेतरापेक्षौ सिद्ध्यतः एवम् अतीतानागताव् इति नेतरेतरापेक्षा कस्यचित् सिद्धिर् इति।
सिद्ध्यतः एवम् ... सिद्धिर् इति।] पृ.५२३
यस्माद् एकाभावे ण्यतराभावाद् उभयाभावः --- यद्य् एकस्यान्यतरापेक्षा सिद्धिर् अन्यतरस्येदानीं किम् अपेक्षा? यद्य् अन्यतरस्यैकापेक्षा सिद्धिर् एकस्येदानीं किम् अपेक्षा? एवम् एकस्याभावे अन्यतरन् न सिध्यतीत्य् उभयाभावः प्रसज्यते॥४१॥


********************** न्यायभाष्यम्२,१.४२ **********************
अर्थसद्भावव्यङ्ग्यश् चायं वर्तमानः कालः, विद्यते द्रव्यं विद्यते गुणः विद्यते कर्मेति। यस्य चायं नास्ति, तस्य ---
न्याभा२,१.४२_ वर्तमानाभावे सर्वाग्रहणं प्रत्यक्षानुपपत्तेः ॥
प्रत्यक्षम् इन्द्रियार्थसन्निकर्षजम्, न चाविद्यमानम् असद् इन्द्रियेण सन्निकृष्यते। नचायं विद्यमानं सत् किञ्चिद् अनुजानाति। प्रत्यक्षनिमित्तं प्रत्यक्षविषयः प्रत्यक्षज्ञानं सर्वं नोपपद्यते, प्रत्यक्षानुपपत्तौ तत्पूर्वकत्वाद् अनुमानागमयोर् अनुपपत्तिः। सर्वप्रमाणविलोपे सर्वग्रहणं न भवतीति॥४२॥


********************** न्यायभाष्यम्२,१.४३ **********************


उभयथा च वर्तमानः कालो गृह्यते क्वचिद् अर्थसद्भावव्यङ्ग्यः यथास्ति द्रव्यम् इति। क्वचित् क्रियासन्तानव्यङ्ग्यः यथा पचति छिनत्तीति। नानाविधा चैकार्था क्रिया क्रियासन्तानः क्रियाभ्यासश् च। नानाविधा चैकार्था क्रिया पचतीति स्थाल्यधिश्रयणम् उदकासेचनं तण्डुलावपनम् एधोऽपसर्पणम् अग्न्यभिज्वालनं दर्वीघट्टनं मण्डस्रावणम् अधोऽवतारणम् इति।
छिनत्तीति क्रियाभ्यास उद्यम्योद्यम्य परशुं दारुणि निपातयन् छिनत्तीत्य् उच्यते।


यच् चेदं पच्यमानं छिद्यमानं च तत् क्रियमाणम्, तस्मिन् क्रियमाणे ---
न्याभा२,१.४३_ कृतताकर्तव्यतोपपत्तेस् तूभयथा ग्रहणम् ॥
क्रियासन्तानो णारब्धश् चिकीर्षितो .आगतः कालः पक्ष्यतीति। प्रयोजनावसानः क्रियासन्तानोपरमः अतीतः कालः अपाक्षीद् इति।
क्रियासन्तानोपरमः अतीतः कालः अपाकृईद् इति।] पृ.५२६
आरब्धक्रियासन्तानो वर्तमानः कालः पचतीति। तत्र या उपरता सा कृतता। या चिकीर्षिता सा कर्तव्यता। या विद्यमाना सा क्रियमाणता। तद् एवं क्रियासन्तानस्थस् त्रैकाल्यसमाहारः पचति पच्यत इति वर्तमानग्रहणेन गृह्यते, क्रियासन्तानस्य ह्य् अत्राविच्छेदोऽभिधीयते नारम्भो नोपरम इति। सोऽयम् उभयथा वर्तमानो गृह्यते अपवृक्तो व्यपवृक्तश् चातीतानागताभ्याम्। स्थितिव्यङ्ग्यः --- विद्यते द्रव्यम् इति। क्रियासन्तानाविच्छेदाभिधायी च त्रैकाल्यान्वितः --- पचति छिनत्तीति। अन्यश् च प्रत्यासत्तिप्रभृतेर् अर्थस्य विवक्षायां तदभिधायी बहुप्रकारो लोकेषु उत्प्रेक्षितव्यः। तस्माद् अस्ति वर्तमानः काल इति॥४३॥


********************** न्यायभाष्यम्२,१.४४ **********************


न्याभा२,१.४४_ अत्यन्तप्रायैकदेशसाधर्म्याद् उपमानसिद्धिः ॥
अत्यन्तसाधर्म्याद् उपमानं न सिध्यति। न चैवं भवति यथा गौर् एवं गौर् इति।
गौर् इति] पृ.५२८
प्रायःसाधर्म्याद् उपमानं न सिध्यति, न हि भवति यथानड्वान् एवं महिष इति। एकदेशसाधर्म्याद् उपमानं न सिध्यति, न हि सर्वेण सर्वम् उपमीयत इति॥४४॥


********************** न्यायभाष्यम्२,१.४५ **********************


न्याभा२,१.४५_ प्रसिद्धसाधर्म्याद् उपमानसिद्धेर् यथोक्तदोषानुपपत्तिः ॥
न साधर्म्यस्य कृत्स्नप्रायाल्पभावम् आश्रित्योपमानं प्रवर्तते। किं तर्हि?


प्रसिद्धसाधर्म्यात् साध्यसाधनभावम् आश्रित्य प्रवर्तते। यत्र चैतद् अस्ति न तत्रोपमानं प्रतिषेद्धुं शक्यम्। तस्माद् यथोक्तदोषो नोपपद्यत इति॥४५॥


********************** न्यायभाष्यम्२,१.४६ **********************
अस्तु तर्ह्य् उपमानम् अनुमानम् ---
न्याभा२,१.४६_ प्रत्यक्षेणाप्रत्यक्षसिद्धेः ॥
यथा धूमेन प्रत्यक्षेणाप्रत्यक्षस्य वह्नेर् ग्रहणम् अनुमानम्, एवं गवा प्रत्यक्षेणाप्रत्यक्षस्य गवयस्य ग्रहणम् इति नेदम् अनुमानाद् विशिष्यते॥४६॥


********************** न्यायभाष्यम्२,१.४७ **********************


विशिष्यत इत्य् आह। कया युक्त्या?
न्याभा२,१.४७_ नाप्रत्यक्षे गवये प्रमाणार्थम् उपमानस्य पश्यामः ॥
यदा ह्य् अयम् उपयुक्तोपमानो गोदर्शी गवयसमानम् अर्थं पश्यति तदायं गवय इत्य् अस्य संज्ञाशब्दस्य व्यवस्थां प्रतिपद्यते न चैवम् अनुमानम् इति। परार्थं चोपमानम् --- यस्य ह्य् उपमानम् अप्रसिद्धं तदर्थं प्रसिद्धोभयेन क्रियत इति परार्थम् उपमानम् इति चेत्॑ न,


स्वयम् अध्यवसायात् --- भवति च भोः स्वयम् अध्यवसायः यथा गौर् एवं गवय इति। नाध्यवसायः प्रतिषिध्यते उपमानं तु तन् न भवति ’’प्रसिद्धसाधर्म्यात् साध्यसाधनम् उपमानम्ऽऽ। न च यस्योभयं प्रसिद्धं तं प्रति साध्यसाधनभाअवो विद्यत इति॥४७॥


********************** न्यायभाष्यम्२,१.४८ **********************
अथापि ---
न्याभा२,१.४८_ तथेत्य् उपसंहाराद् उपमानसिद्धेर् नाविशेषः ॥
तथेति समानधर्मोपसंहाराद् उपमानं सिध्यति नानुमानम्। अयं चानयोर् विशेष इति॥४८॥


********************** न्यायभाष्यम्२,१.४९ **********************


न्याभा२,१.४९_ शब्दोऽनुमानम् अर्थस्यानुपलब्धेर् अनुमेयत्वात् ॥
शब्दोऽनुमानम्, न प्रमाणान्तरम्। कस्मात्? शब्दार्थस्यानुमेयत्वात्। कथम् अनुमेयत्वम्? प्रत्यक्षतोऽनुपलब्धेः। यथानुपलभ्यमानो लिङ्गी मितेन लिङ्गेन पश्चान् मीयत इति अनुमानम्। एवं मितेन शब्देन पश्चान् मीयते अर्थोऽनुपलभ्यमान इत्य् अनुमानं शब्दः॥


********************** न्यायभाष्यम्२,१.५० **********************


इतश् चानुमानं शब्दः।
न्याभा२,१.५०_ उपलब्धेर् अद्विप्रवृत्तित्वात् ॥
प्रमाणान्तरभावे द्विप्रवृत्तिर् उपलब्धिः, अन्यथा ह्य् उपलब्धिर् अनुमाने अन्यथोपमाने तद् व्याख्यातम्। शब्दानुमानयोस् तूपलब्धिर् अद्विप्रवृत्तिः यथानुमाने तथा शब्देऽपि। विशेषाभावाद् अनुमानं शब्द इति॥


********************** न्यायभाष्यम्२,१.५१ **********************


न्याभा२,१.५१_ सम्बन्धाच् च ॥
शब्दोऽनुमानम् इति वर्तते। सम्बद्धयोश् च शब्दार्थयोः सम्बन्धप्रसिद्धौ शब्दोपलब्धेर् अर्थग्रहणं यथा सम्बद्धयोर् लिङ्गलिङिनोः सम्बन्धप्रतीतौ लिङ्गोपलब्धौ लिङ्गिग्रहणम् इति॥


********************** न्यायभाष्यम्२,१.५२ **********************


यत् तावद् अर्थस्यानुमेयत्वाद् इति तन् न---
न्याभा२,१.५२_ आप्तोपदेशसामर्थ्याच् छब्दाद् अर्थसम्प्रत्ययः ॥
स्वर्गः अप्सरसः उत्तराः कुरवः सप्त द्वीपाः समुद्रो लोकसन्निवेश इत्य् एवमादेर् अप्रत्यक्षस्यार्थस्य च शब्दमात्रात् प्रत्ययः, किं तर्हि? आप्तैर् अयम् उक्ताः शब्द इत्य् अतः सम्प्रत्ययः विपर्ययेण सम्प्रत्ययाभावात्॑ न त्व् एवम् अनुमानम् इति।


यत् पुनर् उपलब्धेर् अद्विप्रवृत्तित्वाद् इति, अयम् एव शब्दानुमानयोर् उपलब्धेः प्रवृत्तिभेदः॑ तत्र विशेषे सत्य् अहेतुर् विशेषाभावाद् इति।


यत् पुनर् इदं सम्बन्धाच् चेति, अस्ति च शब्दार्थयोः सम्बन्धोऽनुज्ञातः, अस्ति च प्रतिषिद्धः। अस्येदम् इति षष्ठीविशिष्टस्य वाक्यस्यार्थविशेषोऽनुज्ञातः, प्राप्तिलक्षणस् तु शब्दार्थयोः सम्बन्धः प्रतिषिद्धः। कस्मात्? प्रमाणतोऽनुपलब्धेः---प्रत्यक्षतस् तावच् छब्दार्थप्राप्तेर् नोपलब्धिर् अतीन्द्रियत्वात्। येनेन्द्रियेण गृह्यते शब्दस् तस्य विषयभावम् अतिवृत्तोऽर्थो न गृह्यते। अस्ति चातीन्द्रियविषयभूतोऽप्य् अर्थः समानेन चेन्द्रियेण गृह्यमाणयोः प्राप्तिर् गृह्यत इति॥


********************** न्यायभाष्यम्२,१.५३ **********************


न्याभा२,१.५३_ पूरणप्रदाहपाटनानुपलब्धेश् च सम्बन्धाभावः ॥
प्राप्तिलक्षणे च गृह्यमाणे सम्बन्धे शब्दार्थयोः शब्दान्तिके वार्थः स्यात्, अर्थान्तिके वा शब्दः स्यात्, उभयं वोभयत्र। अथ खल्व् उभयम्?
स्थानकरणाभावाद् इति चार्थः। न चायम् अनुमानतोऽप्य् उपलभ्यते शब्दान्तिकेऽर्थ इति। एतस्मिन् पक्षेऽप्य् आस्यस्थानकरणोच्चारणीयः शब्दस् तदन्तिकेऽर्थ इत्य् अन्नाग्न्यसिशब्दोच्चारणे पूरणपाहपाटनानि गृह्येरन्, न च गृह्यन्ते॑ अग्रहणात् नानुमेयः प्राप्तिलक्षणः सम्बन्धः।


अर्थान्तिके शब्द इति स्थानकरणासम्भवाद् अनुच्चारणम्---स्थानं कण्ठादयः, करणं प्रयत्नविशेषः, तस्यार्थान्तिकेऽनुपपत्तिर् इति। उभयप्रतिषेधाच् च नोभयम्। तस्मान् न शब्देनार्थः प्राप्त इति॥


********************** न्यायभाष्यम्२,१.५४ **********************


न्याभा२,१.५४_ शब्दार्थव्यवस्थानाद् अप्रतिषेधः ॥
शब्दाद् अर्थप्रत्ययस्य व्यवस्थादर्शनाद् अनुमीयत अस्ति शब्दार्थसम्बन्धो व्यवस्थाकारणम्। असम्बन्धे हि शब्दमात्राद् अर्थमात्रे प्रत्ययप्रसङ्गः। तस्माद् अप्रतिषेधः सम्बन्धस्येति॥


********************** न्यायभाष्यम्२,१.५५ **********************


अत्र समाधिः---
न्याभा२,१.५५_ न सामायिकत्वाच् छब्दार्थसम्प्रत्ययस्य ॥
न सम्बन्धकारितं शब्दार्थव्यवस्थानम्। किं तर्हि? समयकारितम्। यत् तद् अवोचाम अस्येदम् इति षष्ठीविशिष्टस्य वाक्यस्यार्थविशेषोऽनुज्ञातः शब्दार्थयोः सम्बन्ध इति समयं तम् अवोचाम इति। कः पुनर् अयं समयः? अस्य शब्दस्येदम् अर्थजातम् अभिधेयम् इत्य् अभिधानाभिधेयनियमनियोगः। तस्मिन्न् उपयुक्ते शब्दाद् अर्थसम्प्रत्ययो भवति। विपर्यये हि शब्दश्रवणऽपि प्रत्ययाभावः। सम्बन्धवादिनोऽपि चायम् अवर्जनीय इति।


प्रयुज्यमानग्रहणाच् च समयोपयोगो लौकिकानाम्। समयपरिपालनार्थं चेदं पदलक्षणाया वाचान्वाख्यानं व्याकरणम् वाक्यलक्षणाया वाचोऽर्थलक्षणम्,
लक्षणाया ...ऽर्थलक्षणम्,] पृ.५४५
पदसमूहो वाक्यम् अर्थपरिसमाप्राव् इति। तद् एवं प्राप्तिलक्षणस्य शब्दार्थसम्बन्धस्यार्थतुषोऽपि अनुमानहेतुर् न भवतीति॥५५॥


********************** न्यायभाष्यम्२,१.५६ **********************


न्याभा२,१.५६_ जातिविशेषे चानियमात् ॥
सामायिकः शब्दाद् अर्थसम्प्रत्ययो न स्वाभाविकः। ऋष्यार्यम्लेच्छानां यथाकामं शब्दविनियोगोऽर्थप्रत्यायनाय प्रवर्तते। स्वाभाविके हि शब्दस्यार्थप्रत्यायकत्वे यथाकामं न स्याद् यथा तैजसस्य प्रकाशस्य रूपप्रत्ययहेतुत्वं न जातिविशेषे व्यभिचरतीति॥५६॥


********************** न्यायभाष्यम्२,१.५७ **********************


पुत्रकामेष्टिहवनाभ्यासेषु---
न्याभा२,१.५७_ तदप्रामाण्यम् अनृतव्याघातपुनरुक्तदोषेभ्यः ॥
तस्येति शब्दविशेषम् एवाधिकुरुते भगवान् ऋषिः। शब्दस्य प्रमाणत्वं न सम्भवति। कस्मात्? अनृतदोषात्---पुत्रकमेष्टौ ’’पुत्रकामः पुत्रेष्ट्या यजेतऽऽ इति॑ नेष्टौ संस्थितायां पुत्रजन्म दृश्यते। दृष्टार्थस्य वाक्यस्यानृतत्वाद् अदृष्टार्थम् अपि वाक्यम् ’’ग्निहोत्रं जुहुयात् स्वर्गकामऽऽ इत्याद्य् अनृतम् इति ज्ञायते।


विहितव्याघातदोषाच् च, हवने ’’ुदिते होतव्यम् अनुदिते होतव्यम् समयाध्युषिते होतव्यम्ऽऽ इति विधाय विहितं व्याहन्ति---’’श्यावोऽस्याहुतिम् अभ्यवहरति य उदिते जुहोति, शबलोऽस्याहुतिम् अभ्यवहरति योऽनुदिते जुहोति श्यावशबलौ वास्याहुतिम् अभ्यवहरतो यः समयाध्युषिते जुहोतिऽऽ। व्याघाताच् चान्यतरन् मिथ्येति।


पुनरुक्तदोषाच् च, अभ्यासे देश्यमाने ’’त्रिः प्रथमाम् अन्वाह त्रिर् उत्तमाम्ऽऽ इति पुनरुक्तदोषो भवति। पुनरुक्तं च प्रमत्तवाक्यम् इति। तस्माद् अप्रमाणं शब्दोऽनृतव्याघातपुनरुक्तदोषेभ्य इति॥५७॥


********************** न्यायभाष्यम्२,१.५८ **********************


न्याभा२,१.५८_ न कर्मकर्तृसाधनवैगुण्यात् ॥
नानृतदोषः पुत्रकामेष्टिऔ। कस्मात्? कर्मकर्तृसाधनवैगुण्यात्। इष्ट्या पितरौ संयुज्यमानौ पुत्रं जनयत इति। इष्टेः करणं साधनम्, पितरौ कर्तारौ, संयोगः कर्म, त्रयाणां गुणयोगात् पुत्रजन्म, वैगुण्याद् विपर्ययः। इष्ट्याश्रयं तावद् कर्मवैगुण्यं समीहाभ्रेषः, कर्तृवैगुण्यम् अविद्वान् प्रयोक्ता कपूयाचरणश् च।


साधनवैगुण्यं हविर् असंकृतम् उपहतम् इति, मन्त्रा न्यूनाधिकाः स्वरवर्णहीना इति, दक्षिणा दुरागता हीना निन्दिता चेति। अथोपजनाश्रयं कर्मवैगुण्यं मिथ्यासम्प्रयोगः, कर्तृवैगुण्यं योनिव्यापदो बीजोपघातश् चेति। साधनवैगुण्यम् इष्टाव् अभिहितम्। लोके च ’’ग्निकामो दारुणी मथ्नीयात्ऽऽ इति विधिवाक्यम्, तत्र कर्मवैगुण्यं मिथ्याभिमन्थनम्, कर्तृवैगुण्यं प्रज्ञाप्रयत्नतः प्रमादः, साधनवैगुण्यम् आर्द्रं सुषिरं दाविति, तत्र फलं न निष्पद्यत इति नानृतदोषः, गुणयोगेन फलनिष्पत्तिदर्शनात्। न चेदं लौकिकाद् भिद्यते ’’पुत्रकामः पुत्रेष्ट्या यजेतऽऽ इति॥५८॥


********************** न्यायभाष्यम्२,१.५९ **********************


न्याभा२,१.५९_ अभ्युपेत्य कालभेदे दोषवचनात् ॥
न व्याघातो हवन इत्य् अनुवर्तते। योऽभ्युपगतं हवनकालं भिनत्ति ततोऽन्यत्र जुहोति तत्रायम् अभ्युपगतकालभेदे दोष उच्यते ’’श्यावोऽस्याहुतिम् अभ्यवहरति य उदिते जुहोतिऽऽ। तद् इदं विधिभ्रेषे निन्दावचनम् इति॥५९॥


********************** न्यायभाष्यम्२,१.६० **********************


न्याभा२,१.६०_ अनुवादोपपत्तेश् च ॥
पुनरुक्तदोषोऽभ्यासे नेति प्रकृतम्।
अनर्थकोऽभ्यासः पुनरुक्तम्, अर्थवान् अभ्यासोऽनुवादः। योऽयम् अभ्यासः ’’त्रिः प्रथमाम् अन्वाह त्रिर् उत्तमाम्ऽऽ इत्य् अनुवाद उपपद्यते अर्थवत्त्वात्। त्रिर्वचनेन हि प्रथमोत्तमयोः पञ्चदशत्वं सामिधेनीनां भवति।
दशत्वं सामिधेनीनां भवति।] पृ.५५५
तथा च मन्त्राभिवादः ’’िदम् अहं भ्रातृव्यं पञ्चदशावरेण वाग्वज्रेणावबोधे योऽस्मान् द्वेष्टि यं च वयं द्विष्मऽऽ इति पञ्चदश सामिधेनीर् वज्रमन्त्रोऽभिवदति तद् अभ्यासम् अन्तरेण न स्याद् इति॥६०॥


********************** न्यायभाष्यम्२,१.६१ **********************


न्याभा२,१.६१_ वाक्यविभागस्य चार्थग्रहणात् ॥
प्रमाणं शब्दो यथा लोके॥६१॥


********************** न्यायभाष्यम्२,१.६२ **********************
विभागश् च ब्राह्मणवाक्यानां त्रिविधः---
न्याभा२,१.६२_ विध्यर्थवादानुवादवचनविनियोगात् ॥
त्रिधा खलु ब्राह्मणवाक्यानि विनियुक्तानि---विधिवचनान्य् अर्थवादवचनानि अनुवादवचनानीति॥६२॥


********************** न्यायभाष्यम्२,१.६३ **********************


तत्र---
न्याभा२,१.६३_ विधिर् विधायकः ॥
यद् वाक्यं विधायकं चोदकं स विधिः। विधिस् तु नियोगोऽनुज्ञा वा। यथा ’’ग्निहोत्रं जुहुयात् स्वर्गकामःऽऽ इत्यादि॥६३॥


********************** न्यायभाष्यम्२,१.६४ **********************


न्याभा२,१.६४_ स्तुतिर् निन्दा परकृतिः पुराकल्प इत्य् अर्थवादः ॥
विधेः फलवादलक्षणा या प्रशंसा सा स्तुतिः सम्प्रत्ययार्था, स्तूयमानं श्रद्दधीतेति, प्रवर्तिका च, फलश्रवणात् प्रवर्तते---’’सर्वजिता वै देवाः सर्वम् अजयन् सर्वस्याप्त्यै सर्वस्य जित्यै सर्वम् एवैतेनाप्तेनाप्नोति सर्वं जयतिऽऽ इति एवमादि। अनिष्टफलवादो निन्दा वर्जनार्था निन्दितं न समाचरेद् इति


स एष वाव प्रथमो यज्ञो यज्ञानां यज् जोतिष्टोमो य एतेनादिष्ट्वान्यन यजते गर्त्तपत्यम् एव तज् जीयते वा प्रमीयते वा इत्य् एवमादिः।
अन्यकर्तृकस्य व्याहतस्य विधेर् वादः परकृतिः ’’हुत्वा वपाम् एवाग्रेऽभिघारयन्ति अथ पृषद् आज्यं तदुह चरकाध्वर्यवः पृषदाज्यम् एवाग्रेऽभिधारयन्ति अग्नेः प्राणाः पृषदाज्यस्तोमम् इत्य् एवम् अभिदधतिऽऽ इत्य् एवमादि।
ऐतिह्यसमाचरितो विधिः पुराकल्प इति। ’’तस्माद् वा एतेन ब्राह्मणा बहिष् पवमानं सामस्तोमम स्तोषन् योने यज्ञं प्रतनवामहे इत्य् एवमादि।
कथं पुराकृतिपुराकल्पाव् अर्थवादाव् इति? स्तुतिनिन्दावाक्येनाभिसम्बन्धाद् विध्याश्रयस्य कस्यचिद् अर्थस्य द्योतनाद् अर्थवाद इति॥६४॥


********************** न्यायभाष्यम्२,१.६५ **********************


न्याभा२,१.६५_ विधिविहितस्यानुवचनम् अनुवादः ॥
विध्यनुवचनं चानुवादो विहितानुवचनं च। पूर्वः शब्दानुवादोऽपरोऽर्थानुवादः। यथा पुनरुक्तं द्विविधम् एवम् अनुवादोऽपि। किमर्थं पुनर् विहितम् अनूद्यते? अधिकारार्थम्॑ विहितम् अधिकृत्य स्तुतिर् बोध्यते निन्दा वा, विधिशेषो वाभिधीयते।


विहितानन्तरार्थोऽपि चानुवादा भवति। एवम् अन्यद् अप्य् उत्प्रेक्षणीयम्।
लोकेऽपि च विधिर् अर्थवादोऽनुवाद इति च त्रिविधं वाक्यम्। ओदनं पचेद् इति विधिवाक्यम्। अर्थवादवाक्यम्---आयुर्वर्चो बलं सुखं प्रतिभानं चान्ने प्रतिष्ठितम्। अनुवादः---पचतु पचतु भवान् इत्य् अभ्यासः, क्षिप्रं पच्यताम् इति वा॑ अङ्ग पच्यताम् इत्य् अध्येषणार्थम्, पच्यताम् एवेति चावधारणार्थम्।
यथा लौकिके वाक्ये विभागेनार्थग्रहणात् प्रमाणत्वम् एवम् वेदवाक्यानाम् अपि विभागेनार्थग्रहणात् प्रमाणत्वं भवितुम् अर्हतीति॥६५॥


********************** न्यायभाष्यम्२,१.६६ **********************


न्याभा२,१.६६_ नानुवादपुनरुक्तयोर् विशेषः शब्दाभ्यासोपपत्तेः ॥
पुनरुक्तम् असाधु साधुर् अनुवाद इति अयं विशेषो नोपपद्यते। कस्मात्? उभयत्र हि प्रतीतार्थः शब्दोऽभ्यस्यते चरितार्थस्य शब्दस्याभ्यासाद् उभयम् असाध्व् इति॥६६॥


********************** न्यायभाष्यम्२,१.६७ **********************


न्याभा२,१.६७_ शीघ्रतरगमनोपदेशवद् अभ्यासान् नाविशेषः ॥
नानुवादपुनरुक्तयोर् अविशेषः। कस्मात्? अर्थवतोऽभ्यासस्यानुवादभावात्। अर्थवान् अभ्यासोऽनुवादः, शीघ्रतरगमनोपदेशवत्। शीघ्रं शीघ्रं गम्यताम् इति क्रियातिशयोऽभ्यासेनैवोच्यते।
शयोऽभ्यासेनैवोच्यते।] पृ.५६४
उदाहरणार्थं चेदम्। एवम् अन्योऽप्य् अभ्यासः पचति पचतीति क्रियानुपरमः। ग्रामो ग्रामो रमनीय इति व्याप्तिः। परि परि त्रिगर्तेभ्यो वृष्टो देव इति परिवर्जनम्। अध्य् अधि कुड्यं निषण्णम् इति सामीप्यम्। तिक्तं तिक्तम् इति प्रकारः। एवम् अनुवादस्य स्तुतिनिन्दाशेषविधिष्व् अधिकारार्थता विहितानन्तरार्थता चेति॥६७॥


********************** न्यायभाष्यम्२,१.६८ **********************
किं पुनः प्रतिषेधहेतूद्धाराद् एव शब्दस्य प्रमाणत्वं सिध्यति? न, अतश् च---


न्याभा२,१.६८_ मन्त्रायुर्वेदप्रामाण्यवच् च तत्प्रामाण्यम् आप्तप्रामाण्यात् ॥
किं पुनर् आयुर्वेदस्य प्रामाण्यम्? यत् तद् आयुर्वेदेनोपदिश्यते इदं कृत्वेष्टम् अधिगच्छति, इदं वर्जयित्वानिष्टं जहाति, तस्यानुष्ठीयमानस्य तथाभावः सत्यार्थताविपर्ययः। मन्त्रपदानां च विषयभूताशनिप्रतिषेधार्थानां प्रयोगेऽर्थस्य तथाभाव एतत्प्रामाण्यम्। किंकृतम् एतत्? आप्तप्रामाण्यकृतम्। किं पुनर् आप्तानां प्रामाण्यम्? साक्षात्कृतधर्मता भूतदया यथाभूतार्थचिख्यापयिषेति।
यथाभूतार्थचिख्यापयिषेति।] पृ.५६६
आप्ताः खलु साक्षात्कृतधर्माणः इदं हातव्यम् इदम् अस्य हानिहेतुर् इदम् अस्याधिगन्तव्यम् इदम् अस्याधिगमहेतुः इति भूतान्य् अनुकम्पन्ते। तेषां खलु वै प्राणभृतां स्वयम् अनवबुध्यमानानां नान्यद् उपदेशाद् अवबोधकारणम् अस्ति।वै प्राणभृतां स्वयम् अनवबुध्यमानानां नान्यद् उपदेशाद् अवबोधकारणम् अस्ति।] पृ.५६७
न चानवबोधे समीहा वर्जनं वा, न वाकृत्वा स्वस्तिभावः, नाप्य् अस्यान्य उपकारकोऽप्य् अस्ति। हन्त वयम् एभ्यो यथादर्शनं यथाभूतम् उपदिश्यामः त इमे श्रुत्वा प्रतिपद्यमाना हेयं हास्यन्त्य् अधिगन्तव्यम् एवाधिगमिष्यन्तीति। एवम् आप्तोपदेशः एतेन त्रिविधेनाप्तप्रामाण्येन परिगृहीतोऽनुष्ठीयमानोऽर्थस्य साधको भवति॑ एवम् आप्तोपदेशः प्रमाणम्। एवम् आप्ताः प्रमाणम्।
दृष्टार्थेनाप्तोपदेशेनायुर्वेदेनादृष्टार्थो वेदभागोऽनुमातव्यः प्रमाणम् इत्य् आप्तप्रामाण्यस्य हेतोः समानत्वाद् इति। अस्यापि चैकदेशो ’’ग्रामकामो यजेतऽऽ इत्य् एवमादिर् दृष्टार्थः, तेनानुमातव्यम् इति।
लोके च भूयान् उपदेशाश्रयो व्यवहारः। लौकिकस्याप्य् उपदेष्टुर् उपदेष्टव्यार्थज्ञानेन परानुजिघृक्षया यथाभूतार्थचिख्यापयिषया च प्रामाण्यम्,
ज्ञानेन परानुजिघृक्षया यथाभूतार्थचिख्यापयिषया च प्रामाण्यम्,] पृ.५६८
तत्परिग्रहाद् आप्तोपदेशः प्रमाणम् इति।
द्रष्टृप्रवक्तृसामान्याच् चानुमानम्। य एवाप्ता वेदार्थानां द्रष्टारः प्रवक्तारश् च त एवायुर्वेदप्रभृतीनाम् इत्य् आयुर्वेदप्रामाण्यवद् वेदप्रामाण्यम् अनुमातव्यम् इति।
नित्यत्वाद् वेदवाक्यानां प्रमाणत्वे तत्प्रामाण्यम् आप्तप्रामाण्याद् इत्य् अयुक्तम्। शब्दस्य वाचकत्वाद् अर्थप्रतिपत्तौ प्रमाणत्वं न नित्यत्वाद्। नित्यत्वे हि सर्वस्य सर्वेण वचनाच् छब्दार्थव्यवस्थानुपपत्तिः। नानित्यत्वे वाचकत्वम् इति चेद् न, लौकिकेष्व् अदर्शनात्। तेऽपि नित्या इति चेत् न, अनाप्तोपदेशाद् अर्थविसंवादोऽनुपपन्नः। नित्यत्वाद् धि शब्दः प्रमाणम् इति।
शब्दः प्रमाणम् इति।] पृ.५६९
अनित्यः स इति चेत्? अविशेषवचनम्। अनाप्तोपदेशो लौकिको न नित्य इति कारणं वाच्यम् इति। यथायोगं चार्थस्य प्रत्यायनाद् नामधेयशब्दानां लोके प्रामाण्यं नित्यत्वात् प्रामाण्यानुपपत्तिः। यत्रार्थे नामधेयशब्दो नियुज्यते लोके तस्य नियोगसामर्थ्यात् प्रत्यायको भवति, न नित्यत्वात्। मन्वन्तरयुगान्तन्तरेषु चातीतानागतेषु सम्प्रदायाभ्यासप्रयोगाविच्छेदो वेदानां नित्यत्वम्,
चातीतानागतेषु सम्प्रदायाभ्यासप्रयोगाविच्छेदो वेदानां नित्यत्वम्,] पृ.५७०
आप्तप्रामाण्याच् च प्रामाण्यम्॑ लौकिकेषु शब्देषु चैतत् समानम् इति॥६८॥
इति वात्स्यायनीये न्यायाभाष्ये द्वितीयाध्यायस्याद्यम् आह्निकम्।


********************** न्यायभाष्यम्२,२.१ **********************
अथ द्वितीयाध्यायस्य द्वितीयम् आह्निकम्
अयथार्थः प्रमाणोद्देश इति मत्वाह---
न्याभा२,२.१_ न चतुष्ट्वम् ऐतिह्यार्थापत्तिसम्भवाभावप्रामाण्यात् ॥
न चत्वार्य् एव प्रमाणानि। किं तर्हि? ऐतिह्यम् अर्थापत्तिः सम्भवोऽभाव इत्य् एतान्य् अपि प्रमाणानि,
प्रमाणानि,] पृ.५७३
तानि कस्मान् नोक्तानि। इतिहोचुर् इत्य् अनिर्दिष्टप्रवक्तृकम् प्रवादपारम्पर्यम् ऐतिह्यम्। अर्थाद् आपत्तिर् अर्थापत्तिः। आपत्तिः प्राप्तिः प्रसङ्गः। यत्राभिधीयमानेऽर्थे योऽन्योऽर्थः प्रसज्यते सोऽर्थापत्तिः। यथा मेघेष्व् असत्सु वृष्टिर् न भवतीति।
भवतीति] पृ.५७४
किम् अत्र प्रसज्यते? सत्सु भवतीति। सम्भवो नामाविनाभाविनोऽर्थस्य सत्ताग्रहणाद् अन्यस्य सत्ताग्रहणम्। यथा द्रोणस्य सत्ताग्रहणाद् आढकस्य सत्ताग्रहणम्, आडकस्य सत्ताग्रहणात् प्रस्थस्येति। अभावो विरोध्य् अभूतं भूतस्य, अविद्यमानं वर्षकर्म विद्यमानस्य वाय्वभ्रसंयोगस्य प्रतिपादकम्, विधारके हि वाय्वभ्रसंयोगे गुरुत्वाद् अपां पतनकर्म न भवतीति॥१॥


********************** न्यायभाष्यम्२,२.२ **********************


सत्यम् एतानि प्रमाणानि, न तु प्रमाणान्तराणि। प्रमाणान्तरं च मन्यमानेन प्रतिषेध उच्यते। सोऽयम्---
न्याभा२,२.२_ शब्द ऐतिह्यानर्थान्तरभावाद् अनुमानेऽर्थापत्तिसम्भवाभावानर्थान्तरभावाच् चाप्रतिषेधः ॥
अनुपपन्नः प्रतिषेधः। कथम्? ’’ाप्तोपदेशः शब्दःऽऽ इति। न च शब्दलक्षणम् ऐतिह्याद् व्यावर्तते॑ सोऽयं भेदः सामान्यात् संगृह्यत इति। प्रत्यक्षेणाप्रत्यक्षस्य सम्बद्धस्य प्रतिपत्तिर् अनुमानम्।
सम्बद्धस्य प्रतिपत्तिर् अनुमानम्।] पृ.५७६
तथा चार्थापत्तिसम्भवाभावः। वाक्यार्थसम्प्रत्ययेनानभिहितस्यार्थस्य प्रत्यनीकभावाद् ग्रहणम् अर्थापत्तिर् अनुमानम् एव। अविनाभाववृत्त्या च सम्बद्धयोः समुदायसमुदायिनोः समुदायेनेतरस्य ग्रहणं सम्भवः,
वृत्त्या च सम्बद्धयोः समुदायसमुदायिनोः समुदायेनेतरस्य ग्रहणं सम्भवः,] पृ.५७७
तद् अप्य् अनुमानम् एव। अस्मिन् सतीदं नोपपद्यत इति विरोधित्वे प्रसिद्धे कार्यानुपपत्त्या कारणस्य प्रतिबन्धकम् अनुमीयते। सोऽयं यथार्थ एव प्रमाणोद्देश इति॥२॥


********************** न्यायभाष्यम्२,२.३ **********************


सत्यम् एतानि प्रमाणानि न तु प्रमाणान्तराणीत्य् उक्तम्, अत्रार्थापत्तेः प्रमाणभावाभ्यनुज्ञा नोपपद्यते। तथा हीयम्---
न्याभा२,२.३_ अर्थापत्तिर् अप्रमाणम् अनैकान्तिकत्वात् ॥
असत्सु मेघेषु वृष्टिर् न भवतीति सत्सु भवतीत्य् एतद् अर्थाद् आपद्यते, सत्स्व् अपि चैकदा न भवति। सेयम् अर्थापत्तिर् अप्रमाणम् इति॥३॥


********************** न्यायभाष्यम्२,२.४ **********************


नानैकान्तिकत्वम् अर्थापत्तेः---
न्याभा२,२.४_ अनर्थापत्ताव् अर्थापत्त्यभिमानात् ॥
असति कारणे कार्यं नोत्पद्यत इति वाक्यात् प्रत्यनीकभूतोऽर्थः सति कारणे कार्यम् उत्पद्यत इत्य् अर्थाद् आपद्यते। अभावस्य हि भावः प्रत्यनीक इति। सोऽयं कार्योत्पादः सति कारणेऽर्थाद् आपद्यमानो न कारणस्य सत्तां व्यभिचरति। न खल्व् असति कारणे कार्यम् उत्पद्यते तस्मान् नानैकान्तिकी।
यत् तु सति कारणे निमित्तप्रतिबन्दात् कार्यं नोत्पद्यत इति कारणधर्मोऽसौ न त्व् अर्थापत्तेः प्रमेयम्। किं तर्ह्य् अस्याः प्रमेयम्? सति कारणे कार्यम् उत्पद्यत इति योऽसौ कार्योत्पादः कारणस्य सत्तां न व्यभिचतति तद् अस्याः प्रमेयम्। एवं तु सत्य् अनर्थापत्ताव् अर्थापत्त्यभिमानं कृत्वा प्रतिषेध उच्यत इति।
सत्य् अनर्थापत्ताव् अर्थापत्त्यभिमानं कृत्वा प्रतिषेध उच्यत इति।] पृ.५८०


********************** न्यायभाष्यम्२,२.५ **********************


न्याभा२,२.५_ प्रतिषेधाप्रामाण्यं चानैकान्तिकत्वात् ॥
अर्थापत्तिर् न प्रमाणम् अनैकान्तिकत्वाद् इति वाक्यं प्रतिषेधः। तेनानेनार्थापत्तेः प्रमाणत्वं प्रतिषिध्यते न सद्भावः, एवम् अनैकान्तिको भवति। अनैकान्तिकत्वाद् अप्रमाणेनानेन न कश्चिद् अर्थः प्रतिषिध्यत इति॥५॥


********************** न्यायभाष्यम्२,२.६ **********************


अथ मन्यसे नियतविषयेष्व् अर्थेषु स्वविषये व्यभिचारो भवति, न च प्रतिषेधस्य सद्भावो विषयः? एवं तर्हि---
न्याभा२,२.६_ तत्प्रामाण्ये वा नार्थापत्त्यप्रामाण्यम् ॥
अर्थापत्तेर् अपि कार्योत्पादेन कारणसत्ताया अव्यभिचारो विषयः। न च कारणधर्मो निमित्तप्रतिबन्धात् कार्यानुत्पादकत्वम् इति॥६॥


********************** न्यायभाष्यम्२,२.७ **********************


अभावस्य तर्हि प्रमाणभावाभ्यनुज्ञा नोपपद्यते। कथम् इति?
न्याभा२,२.७_ नाभावप्रामाण्यं प्रमेयासिद्धेः ॥
अभावस्य भूयसि प्रमेये लोकसिद्धे वैयात्याद् उच्यते नाभावप्रामाण्यं प्रमेयासिद्धेर् इति॥७॥


********************** न्यायभाष्यम्२,२.८ **********************


अथायम् अर्थबहुत्वाद् अर्थैकदेश उदाह्रियते---
न्याभा२,२.८_ लक्षितेष्व् अलक्षणलक्षितत्वाद् अलक्षितानां तत्प्रमेयसिद्धेः ॥


तस्याभावस्य सिध्यति प्रमेयम्। कथम्? लक्षितेषु वासःसु अनुपादेयेष्व् उपादेयानाम् अलक्षितानाम् अलक्षणलक्षितत्वाद् लक्षणाभावेन लक्षितत्वाद् इति। उभयसन्निधाव् अलक्षितानि वासांस्य् आनयेति प्रयुक्तो येषु वासःसु लक्षणानि न भवन्ति तानि लक्षणाभावेन प्रतिपद्यते, प्रतिपद्य चानयति, प्रतिपत्तिहेतुश् च प्रमाणम् इति॥८॥


********************** न्यायभाष्यम्२,२.९ **********************


न्याभा२,२.९_ असत्य् अर्थे नाभाव इति चेन् नान्यलक्षणोपपत्तेः ॥
यत्र भूत्वा किञ्चिन् न भवति तत्र तस्याभाव उपपद्यते। न चालक्षितेषु वासःसु लक्षितानि भूत्वा न भवन्ति, तस्मात् तेषु लक्षणाभावोऽनुपपन्न इति।
ऽनुपपन्न इति] पृ.५८५
नान्यलक्षणोपपत्तेः---यथायम् अन्येषु वासःसु लक्षणानाम् उपपत्तिं पश्यति नैवम् अलक्षितेषु। सोऽयं लक्षणाभावं पश्यन्न् अभावेनार्थं प्रतिपद्यत इति॥९॥


********************** न्यायभाष्यम्२,२.१० **********************


न्याभा२,२.१०_ तत्सिद्धेर् अलक्षितेष्व् अहेतुः ॥
तेषु वासःसु लक्षितेषु सिद्धिर् विध्यमानता येषां भवति न तेषाम् अभावो लक्षणानाम्। यानि च लक्षितेषु विद्यन्ते लक्षणानि तेषाम् अलक्षितेष्व् अभाव इत्य् अहेतुः। यानि खलु भवन्ति तेषाम् अभावो व्याहत इति॥१०॥


********************** न्यायभाष्यम्२,२.११ **********************


न्याभा२,२.११_ न लक्षणावस्थितापेक्षसिद्धेः ॥
न ब्रूमो यानि लक्षणानि भवन्ति तेषाम् अभाव इति, किन् तु केषुचिल् लक्षणान्य् अवस्थितानि अनवस्थितानि केषुचित्, अपेक्षमाणो येषु लक्षणानां भावं न पश्यति तानि लक्षणाभावेन प्रतिपद्यत इति॥११॥


********************** न्यायभाष्यम्२,२.१२ **********************


न्याभा२,२.१२_ प्राग् उत्पत्तेर् अभावोपपत्तेश् च ॥
अभावद्वैतं खलु भवति प्राक् चोत्पत्तेर् अविद्यमानता, उत्पन्नस्य चात्मनो हानाद् अविद्यमानता। तत्रालक्षितेषु वासःसु प्राग् उत्पत्तेर् अविद्यमानतालक्षणो लक्षणानाम् अभावो नेतर इति॥१२॥


********************** न्यायभाष्यम्२,२.१३ **********************


’’ाप्तोपदेशः शब्दःऽऽ इति प्रमाणभावे विशेषणं ब्रुवता नानाप्रकारः शब्द इति ज्ञाप्यते। तस्मिन् सामन्येन विचारः---किं नित्योऽथानित्य इति।
विमर्शहेत्वनुयोगे च विप्रतिपत्तेः संशयः। आकाशगुणः शब्दओ विभुर् नित्योऽभिव्यक्तिधर्मक इत्य् एके।


गन्धादिसहवृत्तिर् द्रव्येषु सन्निविष्टो गन्धादिवद् अवस्थितोऽभिव्यक्तिधर्मक इत्य् अपरे।
आकाशगुणः शब्द उत्पत्तिनिरोधधर्मको बुद्धिवद् इत्य् अपरे।
महाभूतसंक्षोभजः शब्दोऽनाश्रित उत्पत्तिधर्मको निरोधधर्मक इत्य् अन्ये। अतः संशयः किम् अत्र तत्त्वम् इति॥


अनित्यः शब्द इत्य् उत्तरम्। कथम्?---
न्याभा२,२.१३_ आधिमत्त्वाद् ऐन्द्रियकत्वात् कृतकवद् उपचाराच् च ॥
आदिर् योनिः कारणम् आदीयते अस्माद् इति। कारणवद् अनित्यं दृष्टम्। संयोगविभागजश् च शब्दः कारणवत्त्वाद् अनित्य इति। का पुनर् इयम् अर्थदेशना कारणवत्त्वाद् इति? उत्पत्तिधर्मकत्वात्॑ अनित्यः शब्द इति---भूत्वा न भवति विनाशधर्मक इति।
सांशयिकम् एतत्---किम् उत्पत्तिकारणं संयोगविभागौ शब्दस्य, आहोस्विद् अभिव्यक्तिकारणम् इत्य् अत आह---ऐन्द्रियकत्वात्। इन्द्रियप्रत्यासत्तिग्राह्य ऐन्द्रियकः।
किम् अयं व्यञ्जकेन समानदेशोऽभिव्यज्यते रूपादिवत् अथ संयोगजाच् छब्दाच् छब्दसन्ताने सति श्रोत्रप्रत्यासन्नो गृह्यत इति? संयोगनिवृत्तौ शब्दग्रहणात् न व्यञ्जकेन समानदेशस्य ग्रहणम्---दारुव्रश्चने दारुपरशुसंयोगनिवृत्तौ दूरस्थेन शब्दो गृह्यते। न च व्यञ्जकाभावे व्यङ्ग्यग्रहणं भवति,
च वय्ञ्जकाभावे व्यङ्ग्यग्रहणं भवति,] पृ.५९६
तस्मान् न व्यञ्जकः संयोगः, उत्पादके तु संयोगे संयोगजाच् छब्दाच् छब्दसन्ताने सति श्रोत्रप्रत्यासन्नस्य ग्रहणम् इति युक्तं संयोगनिवृत्तौ शब्दस्य ग्रहणम् इति।


इतश् च शब्द उत्पद्यते नाभिव्यज्यते---कृतकवद् उपचारात्। तीव्रं मन्दम् इति कृतकम् उपचर्यते, तीव्रं सुखं मन्दं सुखं तीव्रं दुःखं मन्दं दुःखम् इति, उपचर्यते च तीव्रः शब्दो मन्दः शब्द इति।


व्यञ्जकस्य तथाभावाद् ग्रहणस्य तीव्रमन्दता रूपवद् इति चेद् न अभिभवोपपत्तेः---संयोगस्य व्यञ्जकस्य तीव्रमन्दतया शब्दग्रहणस्य तीव्रमन्दता भवति न तु शब्दो भिद्यते यथा प्रकाशस्य तीव्रमन्दतया रूपग्रहणस्येति, तच् च न, एवम् अभिभवोपपत्तेः---तीव्रो भेरीशब्दो मन्दं तन्त्रीशब्दम् अभिभवति न मन्दः। न च शब्दग्रहणम् अभिभावकम्, शब्दश् च न भिद्यते, शब्दे तु भिद्यमाने युक्तोऽभिभवः। तस्माद् उत्पद्यते शब्दो नाभिव्यज्यत इति।


अभिभवानुपपत्तिश् च व्यञ्जकसमानदेशस्याभिव्यक्तौ प्राप्त्यभावात्---व्यञ्जकेन समानदेशेऽभिव्यज्यते शब्द इत्य् एतस्मिन् पक्षे नोपपद्यतेऽभिभवः। न हि भेरीशब्देन तन्त्रीस्वनः प्राप्त इति।


अप्राप्तेऽभिभव इति चेत् शब्दमात्राभिभवप्रसङ्गः---अथ मन्येत असत्याम् प्राप्ताव् अभिभवो भवतीति, एवं सति यथा भेरीशब्दः कञ्चित् तन्त्रीस्वनम् अभिभवति एवम् अन्तिकस्थोपादानम् इव दवीयःस्थो पादानान् अपि तन्त्रीस्वनान् अभिभवेद् अप्राप्तेर् अविशेषात्। तत्र क्वचिद् एव भेर्यां प्रणादितायां सर्वलोकेषु समानकालास् तन्त्रीस्वना न श्रूयेरन् इति। नानाभूतेषु शब्दसन्तानेषु सत्सु श्रोत्रप्रत्यासत्तिभावेन कस्यचिच् छब्दस्य तीव्रेण मन्दस्याभिभवो युक्त इति।
मन्दस्याभिभवो युक्त इति।] पृ.६०६
कः पुनर् अयम् अभिभवो नाम? ग्राह्यसमानजातीयग्रहणकृतम् अग्रहणम् अभिभवः॑ यथोल्काप्रकाशस्य ग्रहणार्हस्यादित्यप्रकाशेनेति॥१३॥


********************** न्यायभाष्यम्२,२.१४ **********************


न्याभा२,२.१४_ न घटाभावसामान्यनित्यत्वान् नित्येष्व् अप्य् अनित्यवद् उपचाराच् च ॥
न खलु आदिमत्त्वाद् अनित्यः शब्दः। कस्मात्? व्यभिचारात्। आदिमतः खलु घटाभावस्य दृष्टं नित्यत्वम्। कथम् आदिमान्? कारणविभागेभ्यो हि घटो न भवति। कथम् अस्य नित्यत्वम्? योऽसौ कारणविभागेभ्यो न भवति न तस्याभावो भावेन कदाचिन् निवर्त्यत इति। यद् अप्य् ऐन्द्रियकत्वात्, तद् अपि व्यभिचरति, ऐन्द्रियकं च सामान्यं नित्यं चेति। यद् अपि कृतकवद् उपचाराद् इति, एतद् अपि व्यभिचरति॑ नित्येष्व् अनित्यवद् उपचारो दृष्टः---तथा हि भवति वृक्षस्य प्रदेशः कम्बलस्य प्रदेशः एवम् आकाशस्य प्रदेशः आत्मनः प्रदेश इति भवतीति॥१४॥


********************** न्यायभाष्यम्२,२.१५ **********************


न्याभा२,२.१५_ तत्त्वभाक्तयोर् नानात्वस्य विभागाद् अव्यभिचारः ॥
नित्यम् इत्य् अत्र किं तावत् तत्त्वम्? अर्थान्तरस्यानुत्पत्तिधर्मकस्यात्महानानुपपत्तिर् नित्यत्वम्, तच् चाभावे नोपपद्यते। भाक्तं तु भवति यत् तत्रात्मानम् अहासीद् यद् भूत्वा न भवति न जातु तत् पुनर् भवति, तत्र नित्य इव नित्यो घटाभाव इत्य् अयं पदार्थ इति। तत्र यथाजातीयकः शब्दो न तथाजातीयकं कार्यं किंचिन् नित्यं दृश्यत इत्य् अव्यभिचारः॥


********************** न्यायभाष्यम्२,२.१६ **********************


यद् अपि सामान्यनित्यत्वाद् इतीन्द्रियप्रत्यासत्तिग्राह्यम् ऐन्द्रियकम् इति---
न्याभा२,२.१६_ सन्तानानुमानविशेषणात् ॥
नित्येष्व् अव्यभिचार इति प्रकृतम्। नेन्द्रियग्रहणसामर्थ्याच् छब्दस्यानित्यत्वम्। किं तर्हि इन्द्रियप्रत्यासत्तिग्राह्यत्वात् सन्तानानुमानं तेनानित्यत्वम् इति ॥


********************** न्यायभाष्यम्२,२.१७ **********************
यद् अपि नित्येष्व् अप्य् अनित्यवद् उपचाराद् इति। न---
न्याभा२,२.१७_ कारणद्रव्यस्य प्रदेशशब्देनाभिधानात् ॥
नित्येष्व् अप्य् अव्यभिचार इति। एवम् आकाशप्रदेशः आत्मप्रदेश इति नात्राकाशात्मनोः कारणद्रव्यम् अभिधीयते यथा कृतकस्य। कथं ह्य् अविद्यमानम् अभिधीयते,
अविद्यमानता च प्रमाणतोऽनुपलब्धेः। किं तर्हि तत्राभिधीयते? संयोगस्याव्याप्यवृत्तित्वम्---परिच्छिन्नेन द्रव्येनाकाशस्य संयोगो नाकाशं व्याप्नोति अव्याप्य वर्तत इति, तद् अस्य् कृतकेन द्रव्येण सामान्यम्। न ह्य् आमलकयोः संयोग आश्रयं व्याप्नोति। सामान्यकृता च भक्तिर् आकाशस्य प्रदेश इति। अनेनात्मप्रदेशो व्याख्यातः। संयोगवच् च शब्दबुद्ध्यादीनाम् अव्याप्यवृत्तित्वम् इति। परीक्षिता च तीव्रमन्दता शब्दतत्त्वं न भक्तिकृतेति।


कस्मात् पुनः सूत्रकारस्यास्मिन्न् अर्थे सूत्रं न श्रूयत इति? शीलम् इदं भव्गवतः सूत्रकारस्य बहुष्व् अधिकरणेषु द्वौ पक्षौ न व्यवस्थापयति तत्र शास्त्रसिद्धान्तात् तत्त्वावधारणं प्रतिपत्तुम् अर्हतीति मन्यते। शास्त्रसिद्धान्तस् तु न्यायसमाख्यातम् अनुमतं बहुशाखम् अनुमानम् इति॥१७॥


********************** न्यायभाष्यम्२,२.१८ **********************


अथापि खल्व् इदम् अस्ति इदं नास्तीति कुत एतत् प्रतिपत्तव्यम् इति? प्रमाणत उपलब्धेर् अनुपलब्धेश् चेति। अविद्यमानस् तर्हि शब्दः---
न्याभा२,२.१८_ प्राग् उच्चारणाद् अनुपलब्धेर् आवरणाद्यनुपलब्धेश् च ॥
प्राग् उच्चारणान् नास्ति शब्दः। कस्मात्? अनुपलब्धेः। ’’सतो नुपलब्धिर् आवरणादिभ्यःऽऽ एतन् नोपपद्यते। कस्मात्? आवरणादीनाम् अनुपलब्धिकारणानाम् अग्रहणात्---अनेनावृतः शब्दो नोपलभ्यत असन्निकृष्टश् चेन्द्रियव्यवधानाद् इत्य् एवमादि अनुपलब्धिकारणं न गृह्यत इति सोऽयम् अनुच्चारितो नास्तीति। उच्चारणम् अस्य व्यञ्जकं तदभावाद् प्राग् उच्चारणाद् अनुपलब्धिर् इति। किम् इदम् उच्चारणं नामेति? विवक्षाजनितेन प्रयत्नेन कोष्ठ्यस्य वायोः प्रेरितस्य कण्ठताल्वादिप्रतिघातः,
प्रयत्नेन कोष्ठ्यस्य वायोः प्रेरितस्य कण्ठताल्वादिप्रतिघातः,] पृ.६१५
यथास्थानं प्रतिघाताद् वर्णाभिव्यक्तिर् इति। संयोगविशेषो वै प्रतिघातः, प्रतिषिद्धं च संयोगस्य व्यञ्जकत्वम्, तस्मान् न व्यञ्जकाभावाद् अग्रहणम्, अपि त्व् अभावाद् एवेति। सोऽयम् उच्चार्यमाणः श्रूयते श्रूयमाणश् चाभूत्वा भवतीति अनुमीयते। ऊर्ध्वं चोच्चारणान् न श्रूयते स भूत्वा न भवति अभावान् न श्रूयत इति। कथम्? आवरणाद्यनुपलब्धेर् इत्य् उक्तम्। तस्माद् उत्पत्तितिरोभावधर्मकः शब्द इति॥१८॥


********************** न्यायभाष्यम्२,२.१९ **********************
एवं च सति तत्त्वं पांशुभिर् इवावकिरन्न् इदम् आह---
न्याभा२,२.१९_ तदनुपलब्धेर् अनुपलम्भाद् आवरणोपपत्तिः ॥
यद्य् अनुपलम्भाद् आवरणं नास्ति, आवरणानुपलब्धिर् अपि तर्ह्य् अनुपलम्भात् नास्तीति तस्या अभावाद् अप्रतिषिद्धम् आवरणम् इति। कथं पुनर् जानीते भवान् नावरणानुपलब्धिर् उपलभ्यत इति?
इति] पृ.६१६
किम् अत्र ज्ञेयं प्रत्यात्मवेदनीयत्वात् समानम्---अयं खल्व् आवरणम् अनुपलम्भमानः प्रत्यात्मम् एव संवेदयते नावरणम् उपलभ इति, यथा कुड्येनावृतस्यावरणम् उपलभमानः प्रत्यात्मम् एव संवेदयते। सेयम् आवरणोपलब्धिवद् आवरणानुपलब्धिर् अपि संवेद्यैवेति। एवं च सत्य् अपहृतविषयम् उत्तरवाक्यम् अस्तीति॥१६॥


********************** न्यायभाष्यम्२,२.२० **********************


अभ्यनुज्ञावादेन तूच्यते जातिवादिना---
न्याभा२,२.२०_ अनुपलम्भाद् अप्य् अनुपलब्धिसद्भावान् नावरणानुपपत्तिर् अनुपलम्भात् ॥
यथानुपलम्भमानाप्य् आवरणानुपलब्धिर् अस्ति एवम् अनुपलभ्यमानम् अप्य् आवरणम् अस्तीति यद्य् अभ्यनुजानाति भवान् अनुपलभ्यमानावरणानुपलब्धिर् अस्तीति अभ्यनुज्ञाय च वदति नास्त्य् आवरणम् अनुपलम्भाद् इति, एतस्मिन्न् अप्य् अभ्यनुज्ञावादे प्रतिपत्तिनियमो नोपपद्यत इति॥२०॥


********************** न्यायभाष्यम्२,२.२१ **********************


न्याभा२,२.२१_ अनुपलम्भात्मकत्वाद् अनुपलब्धेर् अहेतुः ॥
यद् उपलभ्यते तद् अस्ति, यन् नोपलभ्यते तन् नास्ति, इत्य् अनुपलम्भात्मकम् असद् इति व्यवस्थितम्। उपलब्ध्यभावश् चानुपलब्धिर् इति सेयम् अभावत्वान् नोपलभ्यते। सच् च खल्व् आवरणं तस्योपलब्ध्या भवितव्यं न चोपलभ्यते तस्मान् नास्तीति।
खल्व् आवरणं तस्योपलब्ध्या भवितव्यं न चोपलभ्यते तस्मान् नास्तीति।] पृ.६१९
तत्र यद् उक्तं नावरणानुपपत्तिर् अनुपलम्भाद् इत्य् अयुक्तम् इति॥२१॥


********************** न्यायभाष्यम्२,२.२२ **********************
अथ शब्दस्य नित्यत्वं प्रतिजानानः कस्माद् धेतोः प्रतिजानीते---


न्याभा२,२.२२_ अस्पर्शत्वात् ॥
अस्पर्शम् आकाशं नित्यं दृष्टम् इति तथा च शब्द इति॥२२॥


********************** न्यायभाष्यम्२,२.२३ **********************
सोऽयम् उभयतः सव्यभिचारः---स्पर्शवांश् चाणुर् नित्यः, अस्पर्शं च कर्मानित्यं दृष्टम्।
अस्पर्शत्वाद् इत्य् एतस्य साध्यसाधर्म्येणोदाहरणम्---
न्याभा२,२.२३_ न कर्मानित्यत्वात् ॥
साध्यवैधर्म्येणोदाहरणम्---


********************** न्यायभाष्यम्२,२.२४ **********************


न्याभा२,२.२४_ नाणुनित्यत्वात् ॥
उभयस्मिन्न् उदाहरणे व्यभिचाराण् न हेतुः॥२४॥


********************** न्यायभाष्यम्२,२.२५ **********************


अयं तर्हि हेतुः---
न्याभा२,२.२५_ सम्प्रदानात् ॥
सम्प्रदीयमानम् अवस्थितं दृष्टम्, सम्प्रदीयते च शब्द आचर्येणान्तेवासने, तस्माद् अवस्थित इति॥२५॥


********************** न्यायभाष्यम्२,२.२६ **********************


न्याभा२,२.२६_ तदन्तरालानुपलब्धेर् अहेतुः ॥
येन सम्प्रदीयते यस्मै च, तयोर् अन्तरालेऽवस्थानम् अस्य केन लिङ्गेनोपलभ्यते। सम्प्रदीयमानोऽह्य् अवस्थितः सम्प्रदातुर् अपैति सम्प्रदानं च प्राप्नोतीत्य् अवर्जनीयम् एतत्॥२६॥


********************** न्यायभाष्यम्२,२.२७ **********************


न्याभा२,२.२७_ अध्यापनाद् अप्रतिषेधः ॥
अध्ययनं लिङ्गम्, असति सम्प्रदानेऽध्यापनं न स्याद् इति॥२७॥


********************** न्यायभाष्यम्२,२.२८ **********************


न्याभा२,२.२८_ उभयोः पक्षयोर् अन्यतरस्याध्यापनाद् अप्रतिषेधः ॥
समानम् अध्यापनम् उभयोः पक्षयोः संशयानिवृत्तेः, किम् आचार्यस्थः शब्दोऽन्तेवासिनम् आपद्यते तद् अध्यापनम्,
म् आपद्यते तद् अध्यापनम्,] पृ.६२३
आहोस्विन् नृत्योपदेशवद् गृहीतस्यानुकरणम् अध्यापनम् इति। एवम् अध्यापनम् अलिङ्गं सम्प्रदानस्येति॥२८॥


********************** न्यायभाष्यम्२,२.२९ **********************
अयं तर्हि हेतुः---
न्याभा२,२.२९_ अभ्यासात् ॥
अभ्यस्यमानम् अवस्थितं दृष्टम्।
पञ्चकृत्वः पश्यतीति रूपम् अवस्थितं पुनः पुनर् दृश्यते। भवति च शब्देऽभ्यासः---दशक्ट्त्वोऽधीतोऽनुवाको विंशतिकृत्वोऽधीत इति। तस्माद् अवस्थितस्य पुनः पुनर् उच्चारणम् अभ्यास इति॥२९॥


********************** न्यायभाष्यम्२,२.३० **********************


न्याभा२,२.३०_ नान्यत्वेऽप्य् अभ्यासस्योपचारात् ॥
अनवस्थानेऽप्य् अभ्यासस्याभिधानं भवति द्विर् नृत्यतु भवान् त्रिर् नृत्यतु भवान् इति, द्विर् अनृत्यत् त्रिर् अनृत्यद् द्विर् अग्निहोत्रं जुहोति द्विर् भुङ्क्ते॥३०॥


********************** न्यायभाष्यम्२,२.३१ **********************


एवं व्यभिचारात् प्रतिषिद्धहेताव् अन्यशब्दस्य प्रयोगः प्रतिषिध्यते---
न्याभा२,२.३१_ अन्यद् अन्यस्माद् अनन्यत्वाद् अनन्यद् इत्य् अन्यताभावः ॥
यद् इदम् अन्यद् इति मन्यसे तत् स्वार्थेनानन्यत्वाद् अन्यन् न भवति, एवम् अन्यताया अभावः। तत्र यद् उक्तम् अन्यत्वेऽप्य् अभ्यासोपचाराद् इति एतद् अयुक्तम् इति॥३१॥


********************** न्यायभाष्यम्२,२.३२ **********************


शब्दप्रयोगं प्रतिषेधतः शब्दान्तरप्रयोगः प्रतिषिध्यते---
न्याभा२,२.३२_ तदभावे नास्त्य् अनन्यता तयोर् इतरेतरापेक्षसिद्धेः ॥
अन्यस्माद् अनन्यताम् उपपादयति भवान्, उपपाद्य चान्यत् प्रत्याचष्टे अनन्यद् इति च शब्दम् अनुजानाति, प्रयुङ्क्ते चानन्यद् इत्य् एतत् समासपदम्, अन्यशद्बोऽयं प्रतिषेधेन सह समस्यते। यदि चात्रोत्तरं पदं नास्ति कस्यायं प्रतिषेधेन सह समासः? तस्मात् तयोर् अन्यानन्यशब्दयोर् इतरोऽनन्यशब्द इतरम् अन्यशब्दम् अपेक्षमाणः सिध्यतीति तत्र यद् उक्तम् अन्यताया अभाव इति एतद् अयुक्तम् इति॥३२॥


********************** न्यायभाष्यम्२,२.३३ **********************


अस्तु तर्हीदानीं शब्दस्य नित्यत्वम्---
न्याभा२,२.३३_ विनाशकारणानुपलब्धेः ॥
यद् अनित्यं तस्य विनाशः कारणाद् भवति यथा लोष्टस्य कारणद्रव्यविभागात्। शब्दश् चेद् अनित्यस् तस्य विनाशो यस्मात् कारणाद् भवति तद् उपलभ्येत, न चोपलभ्यते तस्मान् नित्य इति॥३३॥


********************** न्यायभाष्यम्२,२.३४ **********************


न्याभा२,२.३४_ अश्रवणकारणानुपलब्धेः सततश्रवणप्रसङ्गः ॥
यथा विनाशकारणानुपलब्धेर् अविनाशप्रसङ्ग एवम् अश्रवणकारणानुपलब्धेः सततं श्रवणप्रसङ्गः। व्यञ्जकाभावाद् अश्रवणम् इति चेत्? प्रतिषिद्धं व्यञ्जकम्। अथ विद्यमानस्य निर्निमित्तम् अश्रवनम् इति विद्यमानस्य निर्निमित्तो विनाश इति। समानश् च दृष्टविरोधो निमित्तम् अन्तरेण विनाशे चाश्रवणे चेति॥३४॥


********************** न्यायभाष्यम्२,२.३५ **********************


न्याभा२,२.३५_ उपलभ्यमाने चानुपलभ्देर् असत्त्वाद् अनपदेशः ॥
अनुमानाच् चोपलभ्यमाने शब्दस्य विनाशकारणे विनाशकारणानुपलब्धेर् असत्त्वाद् इत्य् अनपदेशः, यथा यस्माद् विषाणी तस्माद् अश्व इति। किम् अनुमानम् इति चेत्? सन्तानोपपत्तिः। उपपादितः शब्दसन्तानः संयोगविभागजाच् छब्दाच् छब्दान्तरं ततोऽन्तत् ततोऽप्य् अन्यद् इति। तत्र कार्यः शब्दः कारणशब्दं निरुणद्धि प्रतिघातिद्रव्यसंयोगस् त्व् अन्त्यस्य शब्दस्य निरोधकः।
प्रतिघातिद्रव्यसंयोगस् त्व् अन्त्यस्य शब्दस्य निरोधकः।] पृ.६२९
दृष्टं हि तिरःप्रतिकुड्यम् अन्तिकस्थेनाप्य् अश्रवणं शब्दस्य श्रवणं दूरस्थेनाप्य् असति व्यवधाने इति।


घण्टायाम् अभिहन्यमानायां तारस् तारतरो मन्दो मन्दतर इति श्रुतिभेदान् नानाशब्दसन्तानोऽविच्छेदेन श्रूयते। तत्र नित्ये शब्दे घण्टास्थम् अन्यगतं वावस्थितं सन्तानवृत्ति वाभिव्यक्तिकारणं वाच्यम्,
सन्तानवृत्ति वाभिव्यक्तिकारणं वाच्यम्,] पृ.६३१
येन श्रुतिसन्तानो भवतीति शब्दभेदे वासति श्रुतिभेद उपपादयितव्य इति। अनित्ये तु शब्दे घण्टास्थं सन्तानवृत्ति संयोगसहकारि निमित्तान्तरं संस्कारभूतं पटु मन्दम् अनुवर्तते तस्तानुवृत्त्या शब्दसन्तानानुवृत्तिः, पटुमन्दभावाच् च तीव्रमन्दता शब्दस्य, तत्कृतश् च श्रुतिभेद इति॥३५॥


********************** न्यायभाष्यम्२,२.३६ **********************


न वै निमित्तान्तरं संस्कार उपलभ्यते। अनुपलब्धेर् नास्तीति?
न्याभा२,२.३६_ पाणिनिमित्तप्रश्लेषाच् छब्दाभावे नानुपलब्धिः ॥
पाणिकर्मणा पाणिघण्टाप्रश्लेषो भवति तस्मिंश् च सति शब्दसन्तानो नोत्पद्यते अतः श्रवणानुपपत्तिः।
अतः श्रवणानुपपत्तिः।] पृ.६३४
तत्र प्रतिघातिद्रव्यसंयोगः शब्दस्य निमित्तान्तरं संस्कारभूतं निरुणद्धीत्य् अनुमीयते॑ तस्य च निरोधाच् छब्दसन्तानो नोत्पद्यते। अनुत्पत्तौ श्रुतिविच्छेदो यथा प्रतिघातिद्रव्यसंयोगाद् इषोः क्रियाहेतौ संस्कारे निरुद्धे गमनाभाव इति। कम्पसन्तानस्य स्पर्शनेन्द्रियग्राह्यस्य चोपरमः। कांस्यपात्रादिषु पाणिसंश्लेषो लिङ्गं संस्कारसन्तानस्येति। तस्मान् निमित्तान्तरस्य संस्कारभूतस्य नानुपलब्धिर् इति॥३६॥


********************** न्यायभाष्यम्२,२.३७ **********************


न्याभा२,२.३७_ विनाशकारणानुपलब्धेश् चावस्थाने तन्नित्यत्वप्रसङ्गः ॥
यदि यस्य विनाशकारणं नोपलभ्यते तद् अवतिष्ठते, अवस्थानाच् च तस्य नित्यत्वं प्रसज्यते॑ एवं यानि खल्व् इमानि शब्दश्रवणानि शब्दाभिव्यक्तय इति मतम्, न तेषां विनाशकारणं भवतोपपाद्यते, अनुपपादनाद् अवस्थानम् अवस्थानात् तेषां नित्यत्वं प्रसज्यत इति। अथ नैवम्, न तर्हि विनाशकारणानुपलब्धेः शब्दस्यावस्थानान् नित्यत्वम् इति॥३७॥


********************** न्यायभाष्यम्२,२.३८ **********************
कम्पसमानाश्रयस्यानुनादस्य पाणिप्रश्लेषात् कम्पवत् कारणोपरमाद् अभावः। वैयधिकरण्ये हि प्रतिघातिद्रव्यप्रश्लेषात् समानाधिकरणस्यैवोपरमः स्याद् इति---


न्याभा२,२.३८_ अस्पर्शत्वाद् अप्रतिषेधः ॥
यद् इदं नाकाशगुणः शब्द इति प्रतिषिध्यते अयम् अनुपपन्नः प्रतिषेधः, अस्पर्शत्वाच् छब्दाश्रयस्य। रूपादिसमानदेशस्याग्रहणे शब्दसन्तानोपपत्तेर् अस्पर्शव्यापिद्रव्याश्रयः शब्द इति ज्ञायते न कम्पसमानाश्रय इति॥३८॥


********************** न्यायभाष्यम्२,२.३९ **********************


प्रतिद्रव्यं रूपादिभिः सह सन्निविष्टः शब्दः समानदेशो व्यज्यत इति नोपपद्यते। कथम्?---
न्याभा२,२.३९_ विभक्त्यन्तरोपपत्तेश् च समासे ॥
सन्तानोपपत्तेश् चेति चार्थः। तद् व्याख्यातम्। यदि रूपादयः शब्दाश् च प्रतिद्रव्यं समस्ताः समुदिताः समुदितास् तस्मिन् समासे समुदाये यो यथाजातीयकः सन्निविष्टस् तस्य तथा जातीयस्यैव ग्रहणेन भवितव्यं शब्दे रूपादिवत्। तत्र योऽयं विभाग एकद्रव्ये नानारूपा भिन्नश्रुतयो विधर्माणः शब्दा अभिव्यज्यमानाः श्रूयन्ते यच् च विभागान्तरं सरूपाः समानश्रुतयः सधर्माणः शब्दास् तीव्रमन्दधर्मतया भिन्नाः श्रूयन्ते तद् उभयं नोपपद्यते, नानाभूतानाम् उत्पद्यमानानाम् अयं धर्मो नैकस्य व्यज्यमानस्येति।
भूतानाम् उत्पद्यमानानाम् अयं धर्मो नैकस्य व्यज्यमानस्येति।] पृ.६३८
अस्ति चायं विभागो विभागान्तरं च, तेन विभागोपपत्तेर् मन्यामहे न प्रतिद्रव्यं रूपादिभिः सह शब्दः सन्निविष्टो व्यज्यत इति॥३९॥


********************** न्यायभाष्यम्२,२.४० **********************
द्विविधश् चायं शब्दो वर्णात्मको ध्वनिमात्रश् च। तत्र वर्णात्मनि तावत्---
न्याभा२,२.४०_ विकारादेशोपदेशात् संशयः ॥
दध्य् अत्रेति केचित् इकार इत्वं हित्वा यत्वम् आपद्यत इति विकारं मन्यन्ते। केचिद् इकारस्य प्रयोगे विषयकृते यद् इकारः स्थानं जहाति तत्र यकारस्य प्रयोगं ब्रुवते। संहितायां विषये इकारो न प्रयुज्यते तस्य स्थाने यकारः प्रयुज्यते स आदेश इति उभयम् इदम् उपदिश्यते। तत्र न ज्ञायते किं तत्त्वम् इति।


आदेशोपदेशस् तत्त्वम्। विकारोपदेशे ह्य् अन्वयस्याग्रहणाद् विकाराननुमानम्---सत्य् अन्वये किञ्चिन् निवर्तते किञ्चिद् उपजायत इति शक्येत विकारोऽनुमातुम्। न चान्वयो गृह्यते तस्माद् विकारो नास्तीति।
भिन्नकरणयोश् च वर्णयोर् अप्रयोगे प्रयोगोपपत्तिः---विवृतकरण इकार ईषत्स्पृष्टकरणो यकारः, ताव् इमौ पृथक्करणाख्येन प्रयत्नेनोच्चारणीयौ, तयोर् एकस्याप्रयोगेऽन्यस्य प्रयोग उपपन्न इति।
अविकारे चाविशेषः। यत्रेमाव् इकारयकारौ न विकारभूतौ---यतते, यच्छति, प्रायंस्त, इति, इकार इदम् इति च, यत्र च विकारभूतौ इष्ट्या दध्य् आहरेति, उभयत्र प्रयोक्तुर् अविशेषो यत्नः श्रोतुश् च श्रुतिर् इत्य् आदेशोपपत्तिः।


प्रयुज्यमानाग्रहणाच् च। न खल्व् इकारः प्रयुज्यमानो यकारताम् आपद्यमानो गृह्यते। किं तर्हि? इकारस्य प्रयोगे यकारः प्रयुज्यते, तस्माद् अविकार इति।
अविकारे च न शब्दान्वाख्यानलोपः। न विक्रियन्ते वर्णा इति। न चैतस्मिन् पक्षे शब्दान्वाख्यानस्यासम्भवे येन वर्णविकारं प्रतिपद्येमहीति।
न खल्व् वर्णस्य वर्णान्तरं कार्यम्, न हि इकाराद् यकार उत्पद्यते यकाराद् वा इकारः। पृथक्स्थानप्रयत्नोत्पाद्या हीमे वर्णाः तेषाम् अन्योन्यस्य स्थाने प्रयुज्यत इति युक्तम्। एतावच् चैतत् परिणामो वा विकारः स्यात् कार्यकारणभावो वा। उभयं च नास्ति तस्मात् न सन्ति वर्णविकाराः।
वर्णसमुदायविकारानुपपत्तिवच् च वर्णविकारानुपपत्तिः---’’स्तेर् भूःऽऽ ’’ब्रुवो वचिर्ऽऽ इति यथा वर्णसमुदायस्य धातुलक्षणस्य क्वचिद् विषये वर्णान्तरसमुदायो न परिणामो न कार्यं शब्दान्तरस्य स्थाने शब्दान्तरं प्रयुज्यते तथा वर्णस्य वर्णानतरम् इति॥४०॥


********************** न्यायभाष्यम्२,२.४१ **********************


इतश् च न सन्ति वर्णविकाराः---
न्याभा२,२.४१_ प्रकृतिविवृद्धौ विकारविवृद्धिः ॥
प्रकृत्यनुविधानं विकारेषु दृष्टम्, यकारे ह्रस्वदीर्घानुविधानं नास्ति येन विकारत्वम् अनुमीयत इति॥४१॥


********************** न्यायभाष्यम्२,२.४२ **********************


न्याभा२,२.४२_ न्यूनसमाधिकोपलब्धेर् विकाराणाम् अहेतुः ॥
द्रव्यविकारा न्यूनाः समाः अधिकाश् च गृह्यन्ते। तद्वद् अयं विकारो न्यूनः स्याद् इति॥४२॥


********************** न्यायभाष्यम्२,२.४३ **********************


न्याभा२,२.४३_ द्विविधस्यापि हेतोर् अभावाद् असाधनं दृष्टान्तः ॥
अत्र नोदाहरणसाधर्म्याद् धेतुर् अस्ति न वैधर्म्यात्। अनुपसंहृतश् च हेतुना दृष्टान्तो न साधक इति।
प्रतिदृष्टान्ते चानियमः प्रसज्येत। यथानुडुहः स्थानेऽश्वो वोढुं नियुक्तो न तद्विकारो भवति एवम् इवर्णस्य स्थाने यकारः प्रयुक्तो न विकार इति। न चात्र नियमहेतुर् अस्ति---दृष्टान्तः साधको न प्रतिदृष्टान्त इति॥४३॥


********************** न्यायभाष्यम्२,२.४४ **********************


द्रव्यविकारोदाहरणं च---
न्याभा२,२.४४_ नातुल्यप्रकृतीनां विकारविकल्पात् ॥
अतुल्यानां द्रव्याणां प्रकृतिभावो विकल्पते विकाराश् च प्रकृतीर् अनुविधीयन्ते। न त्व् इवर्णम् अनुविधीयते यकारः। तस्माद् अनुदाहरणं द्रव्यविकार इति॥४४॥


********************** न्यायभाष्यम्२,२.४५ **********************


न्याभा२,२.४५_ द्रव्यविकारवैषम्यवद् वर्णविकारविकल्पः ॥
यथा द्रव्यभावेन तुल्यायाः प्रकृतेर् विकारवैषम्यम्, एवं वर्णाभावेन तुल्यायाः प्रकृतेर् विकारविकल्प इति॥४५॥


********************** न्यायभाष्यम्२,२.४६ **********************


न्याभा२,२.४६_ न विकारधर्मानुपपत्तेः ॥
अयं विकारधर्मा द्रव्यसामान्ये, यदात्मकं द्रव्यं मृद् वा सुवर्णं वा तस्यात्मनोऽन्वये पूर्वो व्यूहो निवर्तते, व्यूहान्तरं चोपजायते॑ तं विकारम् आचष्टे। न वर्णसामान्ये कश्चिच् छब्दात्माऽन्वयी य इत्थं जहाति यत्वं चापद्यते। तत्र यथा सति द्रव्यभावे विकारवैषम्ये नानडुहोऽश्वो विकारो विकारधर्मानुपपत्तेः, एवम् इवर्णस्य न यकारो विकारो विकारधर्मानुपपत्तेर् इति॥४६॥


********************** न्यायभाष्यम्२,२.४७ **********************


इतश् च न सन्ति वर्णविकाराः---
न्याभा२,२.४७_ विकारप्राप्तानाम् अपुनरापत्तेः ॥
अनुपपन्ना पुनरापत्तिः। कथम्? पुनरापत्तेर् अननुमानाद् इति। इकारो यकारत्वम् आपन्नः पुनर् इकारो भवति, न पुनर् इकारस्य स्थाने यकारस्य प्रयोगोऽप्रयोगश् चेत्य् अत्रानुमानं नास्ति॥४७॥


********************** न्यायभाष्यम्२,२.४८ **********************


अननुमानाद् इति न। इदं ह्य् अनुमानम्---
न्याभा२,२.४८_ सुवर्णादीनां पुनरापत्तेर् अहेतुः ॥
सुवर्णं कुण्डलत्वं हित्वा रुचकत्वम् आपद्यते रुचकत्वं हित्वा पुनः कुण्डलत्वम् आपद्यते, एवम् इकारोऽपि यकारत्वम् आपन्नः पुनर् इकारो भवतीति॥४८॥


********************** न्यायभाष्यम्२,२.४९ **********************


व्यभिचाराद् अननुमानम् यथा पयो दधिभावम् आपन्नं पुनः न पयो भवति किम् एवं वर्णानां न पुनरापत्तिः, अथ सुवर्णवत् पुनरापत्तिर् इति सुवर्णोदाहरणोपपत्तिश् च---
न्याभा२,२.४९_ न तद्विकाराणां सुवर्णभावाव्यतिरेकात् ॥
अवस्थितं सुवर्णं हीयमानेन धर्मेण उपजायमानेन च धर्मि भवति, नैवं कश्चिच् छब्दात्मा हीयमानेन इत्वेनोपजायमानेन यत्वेन धर्मी गृह्यते, तस्मात् सुवर्णोदाहरणं नोपपद्यत इति॥


वर्णत्वाव्यतिरेकाद् वर्णविकाराणाम् अप्रतिषेधः। वर्णविकारा अपि वर्णत्वं न व्यभिचरन्ति यथा सुवर्णविकारः सुवर्णत्वम् इति।
सामान्यवतो धर्मयोगो न सामान्यस्य। कुण्डलरुचकौ सुवर्णस्य धर्मौ न सुवर्णत्वस्य, एवम् इकारयकारौ कस्य वर्णात्मनो धर्मौ? वर्णत्वं सामान्यं न तस्येमौ धर्मौ भवितुम् अर्हति। न च निवर्तमानो धर्म उपजायमानस्य प्रकृतिस् तत्र निवर्तमान इकारो न यकारस्योपजायमानस्य प्रकृतिर् इति॥४९॥


********************** न्यायभाष्यम्२,२.५० **********************
इतश् च वर्णविकारानुपपत्तिः---
न्याभा२,२.५०_ नित्यत्वेऽविकाराद् अनित्यत्वे चानवस्थानात् ॥
नित्या वर्णा इत्य् एतस्मिन् पक्षे इकारयकारौ वर्णौ इत्य् उभयोर् नित्यत्वाद् विकारानुपपत्तिः, नित्यत्वेऽविनाशित्वात् कः कस्य विकार इति। अथानित्या वर्णा इति पक्षः,
पक्षः] पृ.६४८
एवम् अप्य् अनवस्थानं वर्णानाम्। किम् इदम् अनवस्थानं वर्णानाम्? उत्पद्य निरोधः। उत्पद्य निरुद्धे इकारे यकार उत्पद्यते यकारे चोत्पद्य निरुद्धे इकार उत्पद्यत इति कः कस्य विकारः? तद् एतद् अवगृह्य सन्धाने सन्धाय चावग्रहे वेदितव्यम् इति॥५०॥


********************** न्यायभाष्यम्२,२.५१ **********************
नित्यपक्षे तु तावत् समाधिः---
न्याभा२,२.५१_ नित्यानाम् अतीन्द्रियत्वात् तद्धर्मविकल्पाच् च वर्णविकाराणाम् अप्रतिषेधः ॥
नित्या वर्णा न विकल्पन्त इति विप्रतिषेधः। यथा नित्यत्वे सति किञ्चिद् अतीन्द्रियं किञ्चिद् इन्द्रियग्राह्यम्, इन्द्रियग्राह्याश् च वर्णाः, एवं नित्यत्वे सति किञ्चिन् न विक्रियते, वर्णास् तु विक्रियन्त इति।


विरोधाद् अहेतुस् तद्धर्मविकल्पः। नित्यं नोपजायते नापैत्य् अनुपजनापायधर्मकं नित्यम् अनित्यं पुनर् उपजनापाययुक्तम्, न चान्तरेणोपजनापायौ विकारः सम्भवति। तद् यदि वर्णा विक्रियन्ते, नित्यत्वम् एषां निवर्तते। अथ नित्याः, विकारधर्मत्वम् एषां निवर्तते। सोऽयं विरुद्धो हेत्वाभासो धर्मविकल्प इति॥५१॥


********************** न्यायभाष्यम्२,२.५२ **********************
अनित्यपक्षे समाधिः---
न्याभा२,२.५२_ अनवस्थायित्वे च वर्णोपलब्धिवत् तद्विकारोत्पत्तिः ॥
यथानवस्थायिनां वर्णानां श्रवणं भवत्य् एवम् एषां विकारो भवति।
असम्बन्धाद् असमर्था अर्थप्रतिपादिका वर्णोपलब्धिः न विकारेण सम्बन्धाद् असमर्था या गृह्यमाणा वर्णविकारम् अनुमापयेद् इति। तत्र यादृग् इदं यथा गन्धगुणा पृथिव्य् एवं शब्दसुखादिगुणापीति, तादृग् एतद् भवतीति।
गुणा पृथिव्य् एवं शब्दसुखादिगुणापीति, तादृग् एतद् भवतीति।] पृ.६५०
न च वर्णोपलब्धिर् वर्णनिवृत्तौ वर्णान्तरप्रयोगस्य निवर्तिका। योऽयम् इवर्णनिवृत्तौ यकारस्य प्रयोगो यद्य् अयं वर्णोपलब्ध्या निवर्तते तदा तत्रोपलभ्यमाना इवर्णो यत्वम् आपद्यते इति गृह्येत। तस्माद् वर्णोपलब्धिर् अहेतुर् वर्णविकारस्येति॥५२॥


********************** न्यायभाष्यम्२,२.५३ **********************


न्याभा२,२.५३_ विकारधर्मित्वे नित्यत्वाभावात् कालान्तरे विकारोपपत्तेश् चाप्रतिषेधः ॥
तद्धर्मविकल्पाद् इति न युक्तः प्रतिषेधः। न खल्व् विकारधर्मकं किञ्चिन् नित्यम् उपलभ्यत इति वर्णोपलब्धिवद् इति न युक्तः प्रतिषेधः। अवग्रहे हि दधि अत्रेति प्रयुज्य चिरं स्थित्वा ततः संहितायां प्रयुङ्क्ते दध्य् अत्रेति।
प्रयुज्य चिरं स्थित्वा ततः संहितायां प्रयुङ्क्ते दध्य् अत्रेति।] पृ.६५१
चिरनिवृत्ते चायम् इवर्णे यकारः प्रयुज्यमानः कस्य विकार इति प्रतीयते, कारणाभावात् कार्याभाव इति अनुयोगः प्रसज्यत इति॥५३॥


********************** न्यायभाष्यम्२,२.५४ **********************
इतश् च वर्णविकारानुपपत्तिः---
न्याभा२,२.५४_ प्रकृत्यनियमात् ॥
इकारस्थाने यकारः श्रूयते यकारस्थाने खल्व् इकारो विधीयते विध्यतीति। तद् यदि स्यात् प्रकृतिविकारभावा वर्णानाम्, तस्य प्रकृतिनियमः स्यात्। दृष्टो विकारधर्मित्वे प्रकृतिनियम इति॥५४॥


********************** न्यायभाष्यम्२,२.५५ **********************


न्याभा२,२.५५_ अनियमे नियमान् नानियमः ॥
योऽयं प्रकृतेर् अनियम उक्तः स नियतो यथाविषयं व्यवस्थितो नियतत्वान् नियम इति भवति, एवं सत्य् अनियमो नास्ति, तत्र यद् उक्तं प्रकृत्यनियमाद् इति, एतद् अयुक्तम् इति॥५५॥


********************** न्यायभाष्यम्२,२.५६ **********************


न्याभा२,२.५६_ नियमानियमविरोधाद् अनियमे नियमाच् चाप्रतिषेधः ॥
नियम इत्य् अत्रार्थाभ्यनुज्ञा, अनियम इति तस्य प्रतिषेधः। अनुज्ञातनिषिद्धयोश् च व्याघाताद् अनर्थान्तरत्वं न भवति। अनियमश् च नियतत्वात् नियमो न भवतीति नात्रार्थस्य तथाभावः प्रतिषिध्यते। किं तर्हि? तथाभूतस्यार्थस्य नियमशब्देनाभिधीयमानस्य नियतत्वान् नियमशब्द एवोपपद्यते। सोऽयं नियमाद् अनियमे प्रतिषेधो न भवतीति॥५६॥


********************** न्यायभाष्यम्२,२.५७ **********************


न चेयं वर्णविकारोपपत्तिः परिणामात् कार्यकारणभावाद् वा। किं तर्हि?
न्याभा२,२.५७_ गुणान्तरापत्त्युपमर्दह्रासवृद्धिलेशश्लेशेभ्यस् तु विकारोपपत्तेर् वर्णविकाराः ॥
स्थान्यादेशभावाद् अप्रयोगो विकारशब्दार्थः, स भिद्यते। गुणान्तरापत्तिः उदात्तस्यानुदात्त इत्य् एवमादिः। उपमर्दो नाम एकरूपनिवृत्तौ रूपान्तरोपजनः। ह्रासो दीर्घस्य ह्रस्वः। वृद्धिर् ह्रस्वस्य दीर्घः, तयोर् वा प्लुतः। लेशो लाघवम्, स्त इत्य् अस्तेर् विकारः। श्लेष आगमः, प्रकृतेः प्रत्ययस्य वा। एत एव विशेषा विकारा इति। एत एवादेशाः, एते चेद् विकारा उपपद्यन्ते तर्हि वर्णविकारा इति॥५७॥


********************** न्यायभाष्यम्२,२.५८ **********************


न्याभा२,२.५८_ ते विभक्त्यन्ताः पदम् ॥


यथादर्शनं विकृता वर्णा विभक्त्यन्ताः पदसंज्ञा भवन्ति। विभक्तिर् द्वयी---नामिक्य् आख्यातिकी च, ब्राह्मणः पचतीत्य् उदाहरणम्।


न्याभा२,२.५८_ ते विभक्त्यन्ताः पदम् ॥


यथादर्शनं विकृता वर्णा विभक्त्यन्ताः पदसंज्ञा भवन्ति। विभक्तिर् द्वयी --- नामिक्य् आख्यातिकी च, ब्राह्मणः पचतीत्य् उदाहरणम्।
ढ़्.६५७
उपसर्गनिपातास् तर्हि न पदसंज्ञाः लक्षणान्तरं वाच्यम् इति॑ शिष्यते च खलु नामिक्या विभक्तेर् अव्ययाल् लोपः तयोः पदसंज्ञार्थम् इति॥५८॥


********************** न्यायभाष्यम्२,२.५९ **********************


पदेनार्थसम्प्रत्यय इति प्रयोजनम्, नामपदं चाधिकृत्य परीक्षा, गौर् इति पदं खल्व् इदम् उदाहरणं तदर्थे ---


न्याभा२,२.५९_ व्यक्त्याकृतिजातिसन्निधाव् उपचारात् संशयः ॥
अविनाभाववृत्तिः सन्निधिः। अविनाभावेन वर्तमानासु व्यक्त्याकृतिजातिषु गौर् इति प्रयुज्यते, तत्र न ज्ञायते किम् अन्यतमः पदार्थः उतैतत् सर्वम् इति॥


********************** न्यायभाष्यम्२,२.६० **********************


शब्दस्य प्रयोगसामर्थ्यात् पदार्थावधारणम्। तस्मात् ---
न्याभा२,२.६०_ याशब्दसमूहत्यागपरिग्रहसङ्ख्यावृद्ध्यपचयवर्णसमासानुबन्धानां व्यक्ताव् उपचाराद् व्यक्तिः ॥
व्यक्तिः पदार्थः। कस्मात्? याशब्दप्रभृतीनां व्यक्ताव् उपचारात्। उपचारः प्रयोगः। या गौस् तिष्ठति या गौर् निषण्णेइति, नेदं वाक्यं जातेर् अभिधायकम् अभेदात्, भेदात् तु द्रव्याभिधायकम्।
द्रव्याभिधायकम्।] पृ.६६१
गवां समूह इति भेदाद् द्रव्याभिधानं न जातेर् अभेदात्। वैद्याय गां ददतीति द्रव्यस्य त्यागो न जातेर् अमूर्तत्वात् प्रतिक्रमानुक्रमानुपपत्तेएश् च। परिग्रहः स्वत्वेनाभिसम्बन्धः, कौण्डिन्यस्य गौर् ब्राह्मणस्य गौर् इति॑ द्रव्याभिधाने द्रव्यभेदात् सम्बन्धभेद इत्य् उपपन्नम्, अभिन्ना तु जातिर् इति। सङ्ख्या --- दश गावो विंशतिर् गाव इति भिन्नं द्रव्यं सङ्ख्यायते, न जातिर् अभेदाद् इति। वृद्धिः कारणवतो द्रव्यस्यावयवोपचयः अवर्धत गौर् इति॑ निरवयवा तु जातिर् इति। एतेनापचयो व्याख्यातः। वर्णः --- शुक्ला गौः कपिला गौर् इति॑ द्रव्यस्य गुणयोगो न सामान्यस्य। समासः --- गोहितं गोसुखम् इति, द्रव्यस्य सुखादियोगो न जातेर् इति। अनुबन्धः --- सरूपप्रजननसन्तानो गौर् गां जनयतीति, तदुत्पत्तिधर्मत्वाद् द्रव्ये युक्तं न जातौ विपर्ययाद् इति। द्रव्यं व्यक्तिर् इति हि नार्थान्तरम्॥६०॥


********************** न्यायभाष्यम्२,२.६१ **********************


अस्य प्रतिषेधः ---
न्याभा२,२.६१_ न तदनवस्थानात् ॥
न व्यक्तिः पदार्थः। कस्मात्? अनवस्थानात्। याशब्दप्रभृतिभिर् यो विशेष्यते स गोशब्दार्थो या गौस् तिष्ठति या गौर् निषण्णेति, न द्रव्यमात्रम् अविशिष्टं जात्या विनाभिधीयते। किं तर्हि? जातिविशिष्टम्। तस्मान् न व्यक्तिः पदार्थः । एवं समूहादिषु द्रष्टव्यम्॥६१॥


********************** न्यायभाष्यम्२,२.६२ **********************
यदि न व्यक्तिः पदार्थः कथं तर्हि व्यक्ताव् उपचार इति? निमित्ताद् अतद्भावेऽपि तदुपचारः। दृश्यते खलु ---


न्याभा२,२.६२_ सहचरणस्थानतादर्थ्यवृत्तमानधारणसामीप्ययोगसाधनाधिपत्येभ्यो ब्राह्मणमञ्चकटराजसक्तु चन्दनगङ्गाशाटकान्नपुरुषेष्व् अतद्भावेऽपि तदुपचारः ॥
अतद्भावेऽपि तदुपचार इति अतच्छब्दस्य तेन शब्देनाभिधानम् इति। सहचरणाद् --- यष्टिकां भोजयेति, यष्तिकासहचरितो ब्राह्मणोऽभिधीयत इति।


स्थानात् --- मञ्चाः क्रोशन्तीति मञ्चस्थाः पुरुषा अभिधीयन्ते। तादर्थ्यात् --- कटार्थेषु वीरणेषु व्युह्यमानेषु कटं करोतीति भवति। वृतात् --- यमो राजा कुबेरो राजेति तद्वद्वर्तत इति। मानात् --- आढकेन मिताः सक्तवः आढकसक्तव इति। धारणात् --- तुलायां धृतं चन्दनं तुलाचन्दनम् इति। सामीप्यात् --- गङ्गायां गावश् चरन्तीति देशोऽभिधीयते सन्निकृष्टः। योगात् --- कृष्णेन रागेण युक्तः शाटकः कृष्ण इत्य् अभिधीयते। साधनात् --- अन्नं प्राणा इति। आधिपत्यात् --- अयं पुरुषः कुलम् अयं गोत्रम् इति। तत्रायं सहचरणाद् योगाद् वा जातिशब्दो व्यक्तौ प्रय्ज्यत इति॥६२॥


********************** न्यायभाष्यम्२,२.६३ **********************


यदि गौर् इत्य् अस्य पदस्य न व्यक्तिर् अर्थः, अस्तु तर्हि ---
न्याभा२,२.६३_ आकृतिस् तदपेक्षत्वात् सत्त्वव्यवस्थानसिद्धेः ॥
आकृतिः पदार्थः। कस्मात्? तदपेक्षत्वात् सत्त्वव्यवस्थानिसिद्धेः। सत्त्वावयवानां तदवयवानां च नियतो व्यूह आकृतिः, तस्यां गृह्यमाणायां सत्त्वव्यवस्थानं सिध्यत्य् अयम् गौर् अयं अश्व इति, नागृह्यमाणायाम्। यस्य ग्रहणात् सत्त्वव्यवस्थानं सिध्यति तं शब्दोऽभिधातुम् अर्हति सोऽस्यार्थ इति॥६३॥


********************** न्यायभाष्यम्२,२.६४ **********************
तद् उपपद्यते यस्य जात्या योगस् तद् अत्र जातिविशिष्टम् अभिधीयते गौर् इति।न


चावयवव्यूहस्य जात्या योगः। कस्य तर्हि? नियतावयवव्यूहस्य द्रव्यस्य।तस्मान् नाकृतिः पदार्थः।
अस्तु तर्हि जातिः पदार्थः ---
न्याभा२,२.६४_ व्यक्त्याकृतियुक्तेऽप्य् अप्रस्ङ्गात् प्रोक्षादीनां मृदगवके जातिः ॥
जातिः पदार्थः। कस्मात्? व्यक्त्याकृतियुक्तेऽपि मृद्गवके प्रोक्षणादीनाम् अप्रसङ्गाद् इति। गां प्रोक्षय गाम् आनय गां देहीति नैतानि मृद्गवके प्रयुज्यन्ते। कस्मात्? जातेर् अभावात्।
-र् अभावात्।] पृ.६६७
अस्ति हि तत्र व्यक्तिः अस्त्य् आकृतिः यदभावात् तत्रासम्प्रत्ययः स पदार्थ इति॥६४॥


********************** न्यायभाष्यम्२,२.६५ **********************


न्याभा२,२.६५_ नाकृतिव्यक्त्यपेक्षत्वाज् जात्यभिव्यक्तेः ॥
जातेर् अभिव्यक्तिर् आकृतिव्यक्ती अपेक्षते, नागृह्यमाणायाम् आकृतौ व्यक्तौ च जातिमात्रं शुद्धं गृह्यते॑ तस्मान् न जातिः पदार्थ इति॥६५॥


********************** न्यायभाष्यम्२,२.६६ **********************
न वै पदार्थेन न भवितुं शक्यम्, कः खल्व् इदानीं पदार्थ इति?
न्याभा२,२.६६_ व्यक्त्याकृतिजातयस् तु पदार्थः ॥


तुशब्दो विशेषणार्थः। किं विशिष्यते? प्रधानाङ्गभावस्यानियमेन पदार्थत्वम् इति। यदा हि भेदविवक्षा विशेषगतिश् च तदा व्यक्तिः प्रधानम् अङ्गं तु जात्याकृती। यदा तु भेदोऽविवक्षितः सामान्यगतिश् च, तदा जातिः प्रधानम् अङ्गं तु व्यक्त्याकृती। तद् एतद् बहुलं प्रयोगेषु। आकृतेस् तु प्रधानभाव उत्प्रेक्षितव्यः॥६६॥


********************** न्यायभाष्यम्२,२.६७ **********************


कथं पुनर् ज्ञायते नाना व्यक्त्याकृतिजातय इति? लक्षणभेदात्। तत्र तावत् ---
न्याभा२,२.६७_ व्यक्तिर् गुणविशेषाश्रयो मूर्तिः ॥


व्यज्यत इति व्यक्तिर् इन्द्रियग्राह्येति न सर्वं द्रव्यं व्यक्तिः। यो गुणविशेषाणां स्पर्शान्तानां गुरुत्वघनत्वद्रवत्वसंस्काराणाम् अव्यापिनः परिमाणस्याश्रयो यथासम्भवं तद् द्रव्यं मूर्तिः मूर्च्छितावयवत्वाद् इति॥६७॥


********************** न्यायभाष्यम्२,२.६८ **********************


न्याभा२,२.६८_ आकृतिर् जातिलिङ्गाख्या ॥
यया जातिर् जातिलिङ्गानि च प्रख्यायन्ते ताम् आकृतिं विद्यात्। सा च नान्या सत्त्वावयवानां तदवयवानां च नियताद् व्यूहाद् इति।
सत्त्वावयवानां ... इति।] पृ.६९२
नियतावयवव्यूहाः खलु सत्त्वावयवा जातिलिङ्गम्, शिरसा पादेन गाम् अनुमिन्वन्ति। नियते च सत्त्वावयवानां व्यूहे सति गोत्वं प्रख्यायत इति। अनाकृतिव्यङ्ग्यायां जातौ मृत्सुवर्णं रजतम् इत्य् एवमादिष्व् आकृतिर् निवर्तते जहाति पदार्थत्वम् इति॥६८॥


********************** न्यायभाष्यम्२,२.६९ **********************


न्याभा२,२.६९_ समानप्रसवात्मिका जातिः ॥
या समानं बुद्धिं प्रसूते भिन्नेष्व् अधिकरणेषु, यया बहूनीतेरेतरतो न व्यावर्तन्ते योऽर्थोऽनेकत्र प्रत्ययानुवृत्तिनिमित्तं तत् सामान्यम्। यच् च केषाञ्चिद् अभेदं कुतश्चिद् भेदं करोति तत् सामान्यविशेषो जातिर् इति॥६९॥
इति वात्स्यायनीये न्यायभाष्ये द्वितीयाध्यायस्य द्वितीयम् आह्निकम्॥
समाप्तश् चायं द्वितीयोऽध्यायः॥२॥


तृतीयोऽध्यायः प्रथमाह्निकम्।


********************** न्यायभाष्यम्३,१.१ **********************
परीक्षितानि प्रमाणानि, प्रमेयम् इदानीं परीक्ष्यते। तच् चात्मादीत्य् आत्मा विविच्यते, किं देहेन्द्रियमनोबुद्धिवेदनासङ्घातमात्रम् आत्मा आहोस्वित् तद्वयतिरिक्त इति ।


कुतः संशयः व्यपदेश्योभयथा सिद्धेः। क्रियाकरणयोः कर्त्रा सम्बन्धस्याभिधानं व्यपदेशः।
व्यपदेशः।] पृ.७०९
स द्विविधः, अवयवेन समुदायस्य --- मूलैर् वृक्षस् तिष्ठति, स्तम्भैः प्रासादो ध्रियत इति। अन्येनान्यस्य व्यपदेशः --- परशुना वृश्चति, प्रदीपेन पश्यति। अस्ति चायं व्यपदेशः चक्षुषा पश्यति मनसा विजानाति बुद्ध्या विचारयति शरीरेण सुखदुःखम् अनुभवतीति । तत्र नावधार्यते किम् अवयवेन समुदायस्य देहादिसङ्घातस्य, अथान्येनान्यस्य तद्व्यतिरिक्तस्य वेति॥


अन्येनायम् अनयस्य व्यपदेशः। कस्मात्?
न्याभा३,१.१_ दर्शनस्पर्शनाभ्याम् एकार्थग्रहणात् ॥
दर्शनेन कश्चिद् अर्थो गृहीतः स्पर्शनेनापि सोऽर्थो गृह्यते --- यम् अहम् अद्राक्षं चक्षुषा तं स्पर्शनेनापि स्पृशामीति, यं चास्पार्क्षं स्पर्शनेन तं चक्षुषा पश्यामीति। एकविषयौ चेमौ प्रत्ययाव् एककर्तृकौ प्रतिसन्धीयेते,
चेमौ प्रत्ययाव् ...] पृ.७११
न च सङ्घातकर्तृकौ, नेन्द्रियेणैककर्तृकौ। तद् योऽसौ चक्षुषा त्वगिन्द्रियेण चैकार्थस्य ग्रहीता भिन्ननिमित्ताव् अन्यकर्तृकौ प्रत्ययौ समानविषयौ प्रतिसन्दधाति सोऽर्थान्तरभूत आत्मा।
योऽसौ चक्षुषा ...] पृ.७१२
कथं पुनर् नेन्द्रियेणैककर्तृकौ? इन्द्रियं खलु स्वस्वविषयग्रहणम् अनन्यकर्तृकं प्रतिसन्धातुम् अर्हति नेन्द्रियान्तरस्य विषयान्तरग्रहणम् इति। कथं न सङ्घातकर्तृकौ? एकः खल्व् अयं भिन्ननिमित्तौ स्वात्मकर्तृकौ पर्ययौ प्रतिसंहितौ वेदयते न सङ्घातः। कस्मात्? अनिवृत्तं हि सङ्घाते प्रत्येकं विषयान्तरग्रहणस्याप्रतिसन्धानम् इन्द्रियान्तरेणेवेति॥१॥


********************** न्यायभाष्यम्३,१.२ **********************


न्याभा३,१.२_ न विषयव्यवस्थानात् ॥
न देहादिसङ्घाताद् अन्यश् चेतनः। कस्मात्? विषयव्यवस्थानात्। व्यवस्थितविषयाणीन्द्रियाणि, चक्षुष्य् असति रूपं न गृह्यते सति च गृह्यते। यच् च यस्मिन्न् असति न भवति सति भवति तस्य तद् इति विज्ञायते।
भवति सति भवति ...] पृ.७१३
तस्माद् रूपग्रहणं चक्षुषः, चक्षू रूपं पश्यति। एवं घ्राणादिष्व् अपीति। तानीन्द्रियाणीमानि स्वस्वविषयग्रहणाच् चेतनानि इन्द्रियाणां भावाभावयोर् विषयग्रहणस्य तथाभावात्। एवं सति किम् अन्येन चेतनेन?
सन्धिग्धत्वाद् अहेतुः --- योऽयम् इन्द्रियाणां भावाभावयोर् विषयग्रहणस्य तथाभावः, स किं चेतनत्वात्, आहोस्विच् चेतनोपकरणानां ग्रहणनिमित्तत्वाद् इति सन्दिह्यते। चेतनोपकरणत्वेऽपीन्द्रियाणां ग्रहणनिमित्तत्वाद् भवितुम् अर्हति॥२॥


********************** न्यायभाष्यम्३,१.३ **********************
यच् चोक्तं विषयव्यवस्थानद् इति ---


न्याभा३,१.३_ तद्व्यवस्थानाद् एवात्मसद्भावाद् अप्रतिषेधः ॥
यदि खल्व् एकम् इन्द्रियम् अव्यवस्थितविषयं सर्वज्ञं सर्वविषयग्राहि चेतनं स्यात् कस् ततोऽन्यं चेतनम् अनुमातुं शक्नुयात्? यस्मात् तु व्यवस्थितविषयाणीन्द्रियाणि तस्मात् तेभ्योऽन्यश् चेतनः सर्वज्ञः सर्वविषयग्राही विषयव्यवस्थितम् अतीतोऽनुमीयते। तत्रेदम् अभिज्ञानम् अप्रत्याख्येयं चेतनवृत्तम् उदाह्रियते। रूपदर्शी खल्व् अयं रसं गन्धं वा पूर्वगृईतम् अनुमिनोति। गन्धप्रतिसंवेदी च रूपरसाव् अनुमिनोति। एवं विषयशेषेऽपि वाच्यम्। रूपं दृष्ट्वा (एमेन्द्.॑ दृष्टा, सम्पादकः) गन्धं जिघ्रति, घ्रात्वा च गन्धं रूपं पश्यति। तद् एवम् अनियतपर्यायं सर्वविषयग्रहणम् एकचेतनाधिकरणम् अनन्यकर्तृकं प्रतिसन्धत्ते,
सर्वविषयग्रहणम् ...] पृ.७१५
प्रत्यक्षानुमानागमसंशयान् प्रत्ययांश् च नानाविषयान् स्वात्मकर्तृकान् प्रतिसन्धाय वेदयते, सर्वविषयं च शास्त्रं प्रतिपद्यते, अर्थम् अविषयभूतं श्रोत्रस्य क्रमभाविनो वर्णान् श्रुत्वा पदवाक्यभावेन प्रतिसन्धाय शब्दार्थव्यवस्थां च बुध्यमानोऽनेकविषयम् अर्थजातम् अग्रहणीयम् एकैकेनेन्द्रियेण गृह्णाति। सेयं सर्वज्ञस्य ज्ञेयाव्यवस्थानुपदं न शक्या परिक्रमितुम्। आकृतिमात्रं तूदाहृतम्। तत्र यद् उक्तम् इन्द्रियचैतन्ये सति किम् अनेय चेतनेन तद् अयुक्तं भवति ॥३॥


********************** न्यायभाष्यम्३,१.४ **********************


इतश् च देहादिव्यतिरिक्त आत्मा, न देहादिसङ्घातमात्रम्
न्याभा३,१.४_ शरीरदाहे पातकाभावात् ॥
शरीरग्रहणेन शरीरेन्द्रियबुद्धिवेदनासङ्घातः प्राणिभूतो गृह्यते। प्राणिभूतं शरीरं दहतः प्राणिहिंसाकृतपापं पातकम् इत्य् उच्यते॑ तस्याभावः, तत्फलेन कर्तुर् असम्बन्धात्, अकर्तुश् च सम्बन्धात्। शरीरेन्द्रियबुद्धिवेदनाप्रबन्धे खल्व् अन्यः सङ्घात उत्पद्यते अन्यो निरुध्यते,
निरुध्यते,] पृ.७१७
उत्पादनिरोधसन्ततिभूतः प्रबन्धो नान्यत्वं बाधते देहादिसङ्घातस्यान्यत्वाधिष्ठानत्वात्। अन्यत्वाधिष्ठानो ह्य् असौ प्रख्यायत इति। एवं च सति यो देहादिसङ्घातः प्राणिभूतो हिंसां करोति नासौ हिंसाफलेन सम्बध्यते, यश् च सम्बध्यते न तेन हिंसा कृता। तद् एवं सत्त्वभेदे कृतहानम् अकृताभ्यागमः प्रसज्यते। सति च सत्त्वोत्पादे सत्त्वनिरोधे चाकर्मनिमित्तः सत्त्वसर्सर्गः प्राप्नोति, तत्र मुक्त्यर्थो ब्रह्मचर्यवासो न स्यात्। तद् यदि देहादिसङ्घातमात्रं सत्त्वं स्यात् शरीरदाहे पातकं न भवेत्, अनिष्टं चैतत्। तस्माद् देहादिसङ्घातव्यतिरिक्त आत्मा नित्य इति॥४॥


********************** न्यायभाष्यम्३,१.५ **********************


न्याभा३,१.५_ तदभावः सात्मकप्रदाहेऽपि तन्नित्यत्वात् ॥
यस्यापि नित्येनात्मना सात्मकं शरीरं दह्यते तस्यापि शरीरदाहे पातकं न भवेद् दग्धुः।
न भवेद् दग्धुः।] पृ.७२१
कस्मात्? नित्यत्वाद् आत्मनः॑ न जातु कश्चिन् नित्यं हिंसितुम् अर्हति। अथ हिंस्यते, नित्यत्वम् अस्य न भवति। सेयम् एकस्मिन् पक्षे हिंसा निष्फला अन्यस्मिंस् त्व् अनुपपन्नेति॥५॥


********************** न्यायभाष्यम्३,१.६ **********************


न्याभा३,१.६_ न, कार्याश्रयकर्तृवधात् ॥
न ब्रूमो नित्यस्य सत्त्वस्य बधो हिंसा, अपि त्व् अनुच्छित्तिधर्मकस्य सत्त्वस्य कार्याश्रयस्य शरीरस्य स्वविषयोपलब्धेश् च कर्तृणाम् इन्द्रियाणाम् उपघातः पीडा वैकल्यलक्षणः प्रबन्धोच्छेदो वा प्रमापणलक्षणो वा वधो हिंसेति। कार्यं तु सुखदुःखसंवेदनं तस्यायतनम् अधिष्ठानम् आश्रयः शरीरम्,
तस्यायतनम् अधिष्ठानम् ...] पृ.७२५
कार्याश्रयस्य शरीरस्य स्वविषयोपलब्धेश् च कर्तृणाम् इन्द्रियाणां बधो हिंसा, न नित्यस्यात्मनः। तत्र यद् उक्तम् --- ’’तदभावः सात्मकप्रदाहेऽपि तन्नित्यत्वाद्ऽऽ इत्य् एतद् अयुक्तम्। यस्य सत्त्वोच्छेदो हिंसा तस्य कृतहानम् अकृताभ्यागमश् चेति दोषः। एतावच् चैतत् स्यात् --- सत्त्वोच्छेदो वा हिंसा, अनुच्छित्तिधर्मकस्य सत्त्वस्य कार्याश्रयकर्तृवधो वा॑ न कल्पान्तरम् अस्ति। सत्त्वोच्छेदश् च प्रतिषिद्धः, तत्र किम् अन्यत्? शेषं यथाभूतम् इति।
अथ वा कार्याश्रयकर्तृवधाद् इति, कार्याश्रयो देहेन्द्रियबुद्धिसङ्घातः, नित्यस्यात्मनस् तत्र सुखदुःखप्रतिसंवेदनम्, तस्याधिष्ठानम् आश्रयः तदायतनं तद् भवति न ततोऽन्यद् इति स एव कर्ता। तन्निमित्ता हि सुखदुःखसंवेदनस्य निवृत्तिः न तम् अन्तरेणेति। तस्य वध उपघातः पीडा प्रमापणम् वा हिंसा न नित्यत्वेनात्मोच्छेदः। तत्र यद् उक्तम् --- ’’तदभावः सात्मकप्रदाहेऽपि तन्नित्यत्वात्ऽऽ एतन् नेति॥६॥


********************** न्यायभाष्यम्३,१.७ **********************


इतश् च देहादिव्यतिरिक्त आत्मा ---
न्याभा३,१.७_ सव्यदृष्टस्येतरेण प्रत्यभिज्ञानात् ॥
पूर्वपरयोर् विज्ञानयोर् एकविषये प्रतिसन्धिज्ञानं प्रत्यभिज्ञानम् --- तम् एवैतर्हि पश्यामि यम् अज्ञासिषम् स एवायम् अर्थ इति सव्येन चक्षुषा दृष्टस्येतरेणापि चक्षुषा प्रत्यभिज्ञानाद् यम् अद्राक्षं तम् एवैतर्हि पश्यामीति।
यम् अद्राक्षं ...] पृ.७२७
इन्द्रियचैतन्ये तु नान्यदृष्टम् अन्यः प्रत्यभिजानातीति प्रत्यभिज्ञानुपपत्तिः। अस्ति त्व् इदं प्रत्यभिज्ञनम् तस्माद् इन्द्रियव्यतिरिक्तश् चेतनः॥७॥


********************** न्यायभाष्यम्३,१.८ **********************


न्याभा३,१.८_ नैकस्मिन् नासास्थिव्यवहिते द्वित्वाभिमानात् ॥
एकम् इदं चक्षुर् मध्ये नासास्थिव्यवहितं तस्यान्तौ गृह्यमाणौ द्वित्वाभिमानं प्रयोजयतो मध्यव्यवहितस्य दीर्घस्येव॥८॥


********************** न्यायभाष्यम्३,१.९ **********************


न्याभा३,१.९_ एकविनाशे द्वितीयाविनाशान् नैकत्वम् ॥
एकस्मिन्न् उपहते चोद्धृते वा चक्षुषि द्वितीयम् अवतिष्ठते चक्षुःविषयग्रहणलिङ्गम्, तस्माद् एकस्य व्यवधानानुपपत्तिः॥९॥


********************** न्यायभाष्यम्३,१.१० **********************


न्याभा३,१.१०_ अवयवनाशेऽप्य् अवयव्युपलब्धेर् अहेतुः ॥
एकविनाशे द्वितीयाविनाशाद् इत्य् अहेतुः। कस्मात्? वृक्षस्य हि कासुचिच् छाखासु छिन्नासूपलभ्यते एव वृक्षः॥१०॥


********************** न्यायभाष्यम्३,१.११ **********************


न्याभा३,१.११_ दृष्टान्तविरोधाद् अप्रतिषेधः ॥
न कारणद्रव्यस्य विभागे कार्यद्रव्यम् अवतिष्टते नित्यत्वप्रसङ्गात्। बहुष्व् अवयविषु यस्य कारणानि विभक्तानि तस्य विनाशः, येषां कारणान्य् अविभक्तानि तानि अवतिष्ठन्ते।
अथ वा दृश्यमानार्थविरोधो दृष्टान्तविरोधः। मृतस्य हि शिरःकपाले द्वाव् अवटौ नासास्थिव्यवहितौ चक्षुषः स्थाने भेदेन गृह्येते न चैतद् एकस्मिन् नासास्थिव्यवहिते सम्भवति।
अथ वा एकविनाशस्यानियमाद् द्वाव् इमाव् अर्थौ, तौ च पृथगावरणोपघातौ अनुमीयेते विभिन्नव् इति।
अनुमीयेते विभिन्नव् इति।] पृ.७३१
अवपीडनाच् चैकस्य चक्षुषो रश्मिविषयसन्निकर्षस्य भेदाद् दृश्यभेद इव गृह्यते॑ तच् चैकत्वे विरुध्यते॑ अवपीडननिवृत्तौ चाभिन्नप्रतिसन्धानम् इति। तस्माद् एकस्य व्यवधानानुपपत्तिः॥११॥


********************** न्यायभाष्यम्३,१.१२ **********************
अनुमीयते चायं देहादिसङ्घातव्यतिरिक्तश् चेतन इति ---


न्याभा३,१.१२_ इन्द्रियान्तरविकारात् ॥
कस्यचिद् अम्लफलस्य गृहीततद्रससाहचर्ये रूपे गन्धे वा केनचिद् इन्द्रियेण गृह्यमाणे रसनस्येन्द्रियान्तरस्य विकारः रसानुस्मृतौ रसगर्धिवर्तितो दन्तोदकसंप्लवभूतो गृह्यते। तस्येन्द्रियचैतन्येऽनुपपत्तिः, नान्यदृष्टम् अन्यः स्मरति॥१२॥


********************** न्यायभाष्यम्३,१.१३ **********************


न्याभा३,१.१३_ न स्मृतेः स्मर्तव्यविषयत्वात् ॥
स्मृतिर् नाम धर्मो निमित्ताद् उत्पद्यते, तस्याः स्मर्तव्यो विषयः, तत्कृत इन्द्रियान्तरविकारो नात्मकृत इति॥१३॥


********************** न्यायभाष्यम्३,१.१४ **********************


न्याभा३,१.१४_ तदात्मगुणसद्भावाद् अप्रतिषेधः ॥
तस्या आत्मगुणत्वे सति सद्भावाद् अप्रतिषेध आत्मनः। यदि स्मृतिर् आत्मगुणः, एवं सति स्मृतिर् उपपद्यते नान्यद् दृष्टम् अन्यः समरतीति। इन्द्रियचैतन्ये तु नानाकर्तृकाणां विषयग्रहणानाम् अप्रतिसन्धानम्, प्रतिसन्धाने वा विषयव्यवस्थानुपपत्तिः। एकस् तु चेतनोऽनेकार्थदर्शी भिन्ननिमित्तः पूर्वदृष्टम् अर्थम् स्मरतीति एकस्यानेकार्थदर्शिनो दर्शनप्रतिसन्धानात् स्मृतेर् आत्मगुणत्वे सति सद्भावः विपर्यये चानुपपत्तिः।
-प्रतिसन्धानात् स्मृतेर् ...] पृ.७३४
स्मृत्याश्रयाः प्राणभृतां सर्वे व्यवहाराः। आत्मलिङ्गम् उदाहरणमात्रम् इन्द्रियान्तरविकार इति।
अपरिसङ्ख्यानाश् च स्मृतिविषयस्य --- अपरिसङ्घ्याय च स्मृतिविषयम् इदम् उच्यते ’’न स्मृतेः स्मर्तव्यविषयत्वाद्ऽऽ इति। येयं स्मृतिर् अगृह्यमाणेऽर्थे अज्ञासिषम् अहम् अमुम् अर्थम् इति, एतस्या ज्ञातृज्ञानविशिष्टः पूर्वज्ञातोऽर्थो विषयो नार्थमात्रम्, ज्ञातवान् अहम् अमुम् अर्थम्,


असव् अर्थो मया ज्ञतः, अस्मिन्न् अर्थे मम ज्ञानम् अभूद् इति चतुर्विधम् एतद्वाक्यं स्मृतिविषयज्ञापकं समानार्थम्। सर्वत्र खलु ज्ञाता ज्ञानं ज्ञेयं च गृह्यते। अथ प्रत्यक्षेऽर्थे या स्मृतिस् तया त्रीणि ज्ञानानि एकस्मिन्न् अर्थे प्रतिसन्धीयन्ते समानकर्तृकाणि, न नानाकर्तृकाणि नाकर्तृकाणि। किं तर्हि? एककर्तृकाणि। अद्राक्षम् अमुम् अर्थं यम् एवैतर्हि पश्यामि। अद्राक्षम् इति दर्शनं दर्शनसंविच् च, न खल्व् असंविदिते स्वे दर्शने स्याद् एतद् अद्रक्षम् इति। ते खल्व् एते द्वे ज्ञाने, यम् एवैतर्हि पश्यामीति तृतीयं ज्ञानम्, एवम् एकोऽर्थस् त्रिभिर् ज्ञानैर् युज्यमानो नाकर्तृको न नानाकर्तृकः किं तर्हि?
-स् त्रिभिर् ज्ञानैर् ...] पृ.७३६
एककर्तृक इति। सोऽयं स्मृतिविषयोऽपरिसङ्ख्यायमानो विद्यमानः प्रज्ञातोऽर्थः प्रतिषिध्यते --- नास्त्य् आत्मा स्मृतेः स्मर्तव्यविषयत्वाद् इति। न चेदं स्मृतिमात्रं स्मर्तव्यमात्रविषयम् वा इदं खलु ज्ञानप्रतिसन्धानवत् स्मृतिप्रतिसन्धानम् एकस्य सर्वविषयत्वात्। एकोऽयं ज्ञाता सर्वविषयः स्वानि ज्ञानानि प्रतिसन्धत्ते अमुम् अर्थं ज्ञास्यामि अमुम् अर्थम् विजानाम्य् अमुम् अर्थम् अज्ञासिषम् अमुम् अर्थं जिज्ञासमानश् चिरम् अज्ञात्वाध्यवस्यत्य् अज्ञासिषम् इति। एवं स्मृतिम् अपि त्रिकालविशिष्टां सुष्मूर्षाविशिष्टां च प्रतिसन्धत्ते। संस्कारसन्ततिमात्रे तु सत्त्वे उत्पद्योत्पद्य संस्कारास् तिरोभवन्ति। स नास्त्य् एकोऽपि संस्कारो यस् त्रिकालविशिष्टं ज्ञानं स्मृतिं चानुभवेत्। न चानुभवम् अन्तरेण ज्ञानस्य स्मृतेश् च प्रतिसन्धानम् अहं ममेति चोत्पद्यते देहान्तरवत्। अतोऽनुमीयते अस्त्य् एकः सर्वविषयः प्रतिदेहं स्वज्ञानप्रबन्धं स्मृतिप्रबन्धं च प्रतिसन्धत्त इति, यस्य देहान्तरेषु वृत्तेर् अभावान् न प्रतिसन्धानं भवतीति॥१४॥


********************** न्यायभाष्यम्३,१.१५ **********************


न्याभा३,१.१५_ नात्मप्रतिपत्तिहेतूनां मनसि सम्भवात् ॥
न देहादिसङ्घातव्यतिरिक्त आत्मा। कस्मात्? आत्मप्रतिपत्तिहेतूनां मनसि सम्भवात् ---’’दर्शनस्पर्शनाभ्याम् एकार्थग्रहणाद्ऽऽ इत्य् एवमादीनाम् आत्मप्रतिपादकानां हेतूनां मनसि सम्भवो यतः, मनो हि सर्वविषयम् इति। तस्मान् न शरीरेन्द्रियमनोबुद्धिसङ्घातव्यतिरिक्त आत्मेति॥१५॥


********************** न्यायभाष्यम्३,१.१६ **********************


न्याभा३,१.१६_ ज्ञातुर् ज्ञानसाधनोपपत्तेः संज्ञाभेदमात्रम् ॥
ज्ञातुः खलु ज्ञानसाधनान्य् उपपद्यन्ते --- चक्षुषा पश्यति घ्राणेन जिघ्रति स्पर्शनेन स्पृशति, एवं मन्तुः सर्वविषयस्य मतिसाधनम् अन्तःकरणभूतं सर्वविषयं विद्यते येनायं मन्यत इति। एवं सति ज्ञातर्य् आत्मसंज्ञा न मृष्यते मनःसंज्ञाभ्यनुज्ञायते। मनसि च मनःसंज्ञा न मृष्यते मतिसाधनं त्व् अभ्यनुज्ञायते। तद् इदं संज्ञाभेदमात्रं नार्थे विवाद इति।


प्रत्याख्याने वा सर्वेन्द्रियविलोपप्रसङः। अथ मन्तुः सर्वविषयस्य मतिसाधनं सर्वविषयं प्रत्याख्यायते नास्तीति, एवं रूपादिविषयग्रहणसाधनान्य् अपि न सन्तीति सर्वेन्द्रियविलोपः प्रसज्यत इति॥१६॥


********************** न्यायभाष्यम्३,१.१७ **********************


न्याभा३,१.१७_ नियमश् च निरनुमानः ॥
योऽयम् नियम इष्यते, रूपादिग्रहणसाधनान्य् अस्य सन्ति, मतिसाधनं सर्वविषयं नास्तीति, अयं नियमो निरनुमानः। नात्रानुमानम् अस्ति येन नियमं प्रतिपद्यामह इति।
रूपादिभ्यश् च विषयान्तरं सुखादयस् तदुपलब्धौ करणान्तरसद्भावः। यथा चक्षुषा गन्धो न गृह्यत इति करणान्तरं घ्राणम् एवं चक्षुर् घ्राणाभ्यां रसो न गृह्यत इति करणान्तरं रसनम्। एवं शेषेष्व् अपि। तथा चक्षुरादिभिः सुखादयो न गृह्यन्त इति करणान्तरेण भवितव्यम्।
कारणान्तरेण भवितव्यम्।] पृ.७३९
तच् च ज्ञानायौगपद्यलिङ्गम्। यच् च सुखाद्युपलब्धौ करणं तच् च ज्ञानायौगओअद्यलिङ्गं तस्येन्द्रियम् इन्द्रियं प्रति सन्निधेर् असन्निधेः च न युगपज् ज्ञानान्य् उत्पद्यन्त इति। तत्र यद् उक्तम् ’’ात्मप्रतिपत्तिहेतूनां मनसि सम्भवात्ऽऽ इति तद् अयुक्तम्॥१७॥


********************** न्यायभाष्यम्३,१.१८ **********************


किं पुनर् अयं देहादिसङ्घाताद् अन्यो नित्यः उतानित्य इति। कुतः संशयः? उभयथा दृष्टत्वात् संशयः। विद्यमानम् उभयथा भवति नित्यम् अनित्यं च। प्रतिपादिते च आत्मसद्भावे संशयानिवृत्तिर् इति।


आत्मसद्भावहेतुभिर् एवास्य प्राग् देहभेदाद् अवस्थानं सिद्धम् ऊर्द्ध्वम् अपि देहभेदाद् अवतिष्ठते। कुतः?
न्याभा३,१.१८_ पूर्वाभ्यस्तस्मृत्यनुबन्धाज् जातस्य हर्षभयशोकसम्प्रतिपत्तेः ॥
जातः खल्व् अयं कुमारकोऽस्मिन् जन्मन्य् अगृहीतेषु हर्षभयशोकहेतुषु हर्षभयशोकान् प्रतिपद्यते लिङ्गानुमेयान्। ते च स्मृत्यनुबन्धाद् उत्पद्यन्ते नान्यथा। स्मृत्यनुबन्धश् च पूर्वाभ्यासम् अन्तरेण न भवति। पूर्वाभ्यासश् च पूर्वजन्मनि सति, नान्यथेति सिध्यत्य् एतत् अवतिष्ठतेऽयम् ऊर्ध्वं शरीरभेदाद् इति॥१८॥


********************** न्यायभाष्यम्३,१.१९ **********************


न्याभा३,१.१९_ पद्मादिषु प्रबोधसम्मीलनविकारवत् तत्विकारः ॥
यथा पद्मादिष्व् अनित्येषु प्रबोधः सम्मीलनं विकारो भवति एवम् अनित्यस्यात्मनो हर्षभयशोकसम्प्रतिपत्तिर् विकारः स्यात्।
हेत्वभावाद् अयुक्तम् --- अनेन हेतुना पद्मादिषु प्रबोधसम्मीलनविकारवद् अनित्यस्यात्मनो हर्षादिसम्प्रतिपत्तिर् इति नात्रोदाहरणसाधर्म्यात् साध्यसाधनं हेतुर् न वैधर्म्याद् अस्ति हेत्वभावात् असम्बद्धार्थकम् अपार्थकम् उच्यत इति।


दृष्टान्ताच् च हर्षादिनिमित्तस्यानिवृत्तिः --- या चेयम् आसेवितेषु विषयेषु हर्षादिसम्प्रतिपत्तिः स्मृत्यनुबन्धकृता प्रत्यात्मनं गृह्यते सेयं पद्मादिसम्मीलनदृष्टान्तेन न निवर्तते। यथा चेयं न निवर्त्तते तथा जातस्यापीति। क्रियाजातौ च पर्णविभागसंयोगौ प्रबोधसम्मीलने, क्रियाहेतुश् च क्रियानुमेयः। एवं च सति किं दृष्टान्तेन प्रतिषिध्यते॥१९॥


********************** न्यायभाष्यम्३,१.२० **********************
अथ निर्निमित्तः पद्मादिषु प्रबोधसम्मीलनविकार इति मतम् एवम् आत्मनोऽपि हर्षादिसम्प्रतिपत्तिर् इति। तच् च ---
न्याभा३,१.२०_ नोष्णशीतवर्षाकालनिमित्तत्वात् पञ्चात्मकविकाराणाम् ॥
उष्णादिषु सत्सु भावाद् असत्स्व् अभावात् तन्निमित्ताः पञ्चभूतानुग्रहेण निवृत्तानां पद्मादीनां प्रबोधसम्मीलनविकारा इति न निर्निमित्ताः। एवं हर्षादयोऽपि विकारा निमित्तद् भवितुम् अर्हन्ति न निमित्तम् अन्तरेण।
निमित्तद् भवितुम् अर्हन्ति ...] पृ.७४५
न चान्यत् पूर्वाभ्यस्तस्मृत्यनुबन्धान् निमित्तम् अस्तीति। न चोत्पत्तितिरोधकारणानुमानम् आत्मनो दृष्टान्तात्, न हर्षादीनां निमित्तम् अन्तरेणोत्पत्तिः, नोष्णादिवन् निमित्तान्तरोपादानं हर्षादीनाम्, तस्माद् अयुक्तम् एतत्॥२०॥


********************** न्यायभाष्यम्३,१.२१ **********************
इतश् च नित्य आत्मा ---
न्याभा३,१.२१_ प्रेत्याहाराभ्यासकृतात् स्तन्याभिलाषात् ॥
जातमात्रस्य वत्सस्य प्रवृत्तिलिङ्गः स्तन्याभिलाषो गृह्यते। स च नान्तरेणाहाराभ्यासम्। कया युक्त्या? दृश्यते हि शरीरिणां क्षुधा पीड्यमानानाम् आहाराभ्यासकृतात् स्मरणानुबन्धाद् आहाराभिलाषः। न च पूर्वशरीराभ्यासम् अन्तरेणासौ जातमात्रस्योपपद्यते।
जातमात्रस्योपपद्यते।] पृ.७४६
तेनानुमीयते भूतपूर्वं शरीरं यत्रानेनाहारोऽभ्यस्त इति। स खल्व् अयम् आत्मा पूर्वशरीरात् प्रेत्य शरीरान्तरम् आपन्नः क्षुत्पीडितः पूर्वाभ्यस्तम् आहारम् अनुस्मरन् स्तन्यम् अभिलषति। तस्मान् न देहभेदाद् आत्मा भिद्यते भवत्य् एवोर्द्ध्वं देहभेदाद् इति॥२१॥


********************** न्यायभाष्यम्३,१.२२ **********************


न्याभा३,१.२२_ अयसोऽयस्कान्ताभिगमनवत् तदुपसर्पणम् ॥
यथा खल्व् अयोऽभ्यासम् अन्तरेणायस्कान्तम् उपसर्पति, एवम् आहाराभ्यासम् अन्तरेण बालः स्तन्यम् अभिलषति॥२२॥


********************** न्यायभाष्यम्३,१.२३ **********************


किम् इदम् अयसोऽयस्कान्ताभिसर्पणं निर्निमित्तम् अथ निमित्ताद् इति? निर्निमित्तं तावत् ---
न्याभा३,१.२३_ नान्यत्र प्रवृत्त्यभावात् ॥
यदि निर्निमित्तम्, लोष्टादयोऽप्य् अयस्कान्तम् उपसर्पेयुः। न जातु नियमे कारणम् अस्तीति। अथ निमित्तात्, तत् केनोपलभ्यते इति। क्रियालिङ्गः क्रियाहेतुः, क्रियानियमलिङ्गश् च क्रियाहेतुनियमः, तेनान्यत्र प्रवृत्त्यभावः, बालस्यापि नियतम् उपसर्पणक्रियोपलभ्यते। न च स्तन्याभिलाषलिङ्गम् अन्यद् आहाराभ्यासकृतात् स्मरणाउबन्धात्। निमित्तं दृष्टान्तेनोपपाद्यते,
दृष्टान्तेनोपपाद्यते,] पृ.७४८
न चासति निमित्ते कस्यचिद् उत्पत्तिः। न च दृष्टान्तो दृष्टम् अभिलाषहेतुं बाधते। तस्माद् अयसोऽयस्कान्ताभिगमनम् अदृष्टान्त इति।
अयसः खल्व् अपि नान्यत्र प्रवृत्तिर् भवति, न जात्व् अयो लोष्टम् उपसर्पति, किंकृइतोऽस्य नियम इति? यदि कारणनियमात्, स च क्रियानियमलिङ्गः। एवं बालस्यापि नियतविषयोऽभिलाषः कारणनियमाद् भवितुम् अर्हति। तच् च कारणम् अभ्यस्तस्मरणम् अन्यद् वेति दृष्टेन विशिष्यते। दृष्टो हि शरीरिणाम् अभस्तस्मरणाद् आहाराभिलाष इति॥२३॥


********************** न्यायभाष्यम्३,१.२४ **********************
इतश् च नित्य आत्मा। कस्मात्? ---
न्याभा३,१.२४_ वीतरागजन्मादर्शनात् ॥
सरागो जायत इत्य् अर्थाद् आपद्यते। अयं जायमानो रागानुभद्धो जायते, रागस्य पूर्वानुभूतविषयानुचिन्तनं योनिः, पूर्वानुभवश् च विषयाणाम् अन्यस्मिन् जन्मनि शरीरम् अन्तरेण नोपपद्यते।
शरीरम् अन्तरेण नोपपद्यते।] पृ.७४९
सोऽयम् आत्मा पूर्वशरीरानुभूतान् विषयान् अनुस्मरन् तेषु तेषु रज्यते, तथा चायं द्वयोर् जन्मनोः प्रतिसन्धिः। एवं पूर्वशरीरस्य पूर्वतरेण पूर्वतरस्य पूर्वतमेनेत्यादिनानादिश् चेतनस्य शरीरयोगः, अनादिश् च रागानुबन्ध इति सिद्धं नित्यत्वम् इति॥२४॥


********************** न्यायभाष्यम्३,१.२५ **********************


कथं पुनर् ज्ञायते पूर्वानुभूतविषयानुचिन्तनजनितो जातस्य रागः, न पुनः ---
न्याभा३,१.२५_ सगुणद्रव्योत्पत्तिवत् तदुत्पत्तिः ॥
अथोत्पत्तिधर्मकस्य द्रव्यस्य गुणाः कारणत उत्पद्यन्ते तथोत्पत्तिधर्मकस्यात्मनो रागः कुतश्चिद् उत्पद्यते। अत्रायम् उदितानुवादो निदर्शनार्थः॥२५॥


********************** न्यायभाष्यम्३,१.२६ **********************


न्याभा३,१.२६_ न, सङ्कल्पनिमित्तत्वाद् रागादीनाम् ॥
न खलु सगुणद्रव्योत्पत्तिवद् उत्पत्तिर् आत्मनो रागस्य च। कस्मात्? सङ्कल्पनिमित्तत्वाद् रागादीनाम्। अयं खलु प्राणिनां विषयान् आसेवमानानां सङ्कल्पजनितो रागो गृह्यते, सङ्कल्पश् च पूर्वानुभूतविषयानुचिन्तनयोनिः। तेनानुमीयते जातस्यापि पूर्वानुभूतार्थचिन्तनकृतो राग इति। आत्मोत्पादाधिकरणात् तु रागोत्पत्तिर् भवन्ती सङ्कल्पाद् अन्यस्मिन् रागकारणे सति वाच्या कार्यद्रव्यगुणवत्। न चात्मोत्पादः सिद्धो नापि सङ्कल्पाद् अन्यद् रागकारणम् अस्ति।
नापि सङ्कल्पाद् अन्यद् रागकारणम् अस्ति।] पृ.७५१
तस्माद् अयुक्तं सगुणद्रव्योत्पत्तिवत् तयोर् उत्पत्तिर् इति।
अथापि सङ्कल्पाद् अन्यद् रागकारणं धर्माधर्मलक्षणम् अदृष्टम् उपादीयते, तथापि पूर्वशरीरयोगोऽप्रत्याख्येयः। तत्र हि तस्य निर्वृत्तिः नास्मिन् जन्मनि।
तन्मयत्वाद् राग इति। विषयाभ्यासः खल्व् अयं भावनाहेतुः तन्मयत्वम् उच्यते इति। जातिविशेषाच् च रागविशेष इति। कर्म खल्व् इदं जातिविशेषनिर्वर्तकं तादर्थ्यात् ताच्छब्द्यं विज्ञायते। तस्माद् अनुपपन्नं सङ्कल्पाद् अन्यद् रागकारणम् इति॥२६॥


********************** न्यायभाष्यम्३,१.२७ **********************


अनादिश् चेतनस्य शरीरयोग इत्य् उक्तम्, स्वकृतकर्मनिमित्तं चास्य शरीरं सुखदुःखाधिष्ठानम्। तत् परीक्ष्यते --- किं घ्राणादिवद् एकप्रकृतिकम् उत नानाप्रकृतीति। कुतः संशयः? विप्रतिपत्तेः संशयः। पृथिव्यादीनि भूतानि सङ्ख्याविकल्पेन शरीरप्रकृतिर् इति प्रतिजानत इति। किं तत्र तत्त्वम्?


न्याभा३,१.२७_ पार्थिवं गुणान्तरोपलब्धेः ॥
तत्र मानुषं पार्थिवम्। कस्मात्? गुणान्तरोपलब्धेः। गन्धवती पृथिवी गन्धवच् च शरीरम्। अबादीनाम् अगन्धत्वात् तत्प्रकृत्यगन्धं स्यात्। न त्व् इदम् अबादिभिर् असम्पृक्तया पृथिव्यारब्धं चेष्टेन्द्रियार्थाश्रयभावेन कल्पते इत्य् अतः पञ्चानां भूतानां संयोगे सति शरीरं भवति। भूतसंयोगो हि मिथः पञ्चानां न निषिद्ध इति। आप्यतैजसवायव्यानि लोकान्तरे शरीराणि तेष्व् अपि भूतसंयोगः पुरुषार्थतन्त्र इति। स्थाल्यादिद्रव्यनिष्पत्ताव् अपि निःसंशयो नाबादिसंयोगम् अन्तरेन निष्पत्तिर् इति॥२७॥


********************** न्यायभाष्यम्३,१.२८-३० **********************


न्याभा३,१.२८_ पार्थिवाप्यतैजसं तदगुणोपलब्धेः ॥
न्याभा३,१.२९_ निःश्वासोच्छ्वासोपलब्धेश् चातुर्भौतिकम् ॥
न्याभा३,१.३०_ गन्धक्लेदपाकव्यूहावकाशदानेभ्यः पाञ्चभौतिकम् ॥
त इमे सन्दिग्धा हेतव इत्य् उपेक्षितवान् सूत्रकारः। कथं सन्दिग्धाः? सति च प्रकृतिभावे भूतानां धर्मोपलब्धिर् असति च संयोगाप्रतिषेधात् सन्निहितानाम् इति, यथा स्थाल्याम् उदकतेजोवाय्वाकाशानाम् इति। तद् इदम् अनेकभूतप्रकृति शरीरम् अगन्धम् अरसम् अरूपम् अस्पर्शं च प्रकृत्यनुविधानात् स्यात्,
-म् अरूपम् अस्पर्शं च प्रकृत्यनुविधानात् स्यात्,] पृ.७५५
न त्व् इदम् इत्थम्भूतम्। तस्मात् ’’पार्थिवं गुणान्तरोपलब्धेःऽऽ॥२८-२९-३०॥


********************** न्यायभाष्यम्३,१.३१ **********************


न्याभा३,१.३१_ श्रुतिप्रामाण्याच् च ॥
’’सूर्यं ते चक्षुर्गच्छताद्ऽऽ इत्य् अत्र मन्त्रे ’’पृथिवीं ते शरीरम्ऽऽ इति श्रूयते। तद् इदं प्रक्र्तौ विकारस्य प्रलयाभिधानम् इति।
प्रक्र्तौ विकारस्य प्रलयाभिधानम् इति।] पृ.७५७
’’सूर्यं ते चक्षुः स्पृणोमिऽऽ इत्य् अत्र मन्त्रान्तरे ’’पृथिवीं ते शरीरं स्पृणोमीतिऽऽ श्रूयते। सेयं कारणाद् विकारस्य स्पृतिर् अभिधीयत इति। स्थाल्यादिषु च तुल्यजातीयानाम् एककार्यारम्भदर्शनाद् भिन्नजातीयानाम् एककार्यारम्भानुपपत्तिः॥३१॥


********************** न्यायभाष्यम्३,१.३२ **********************


अथेदानीम् इन्द्रियाणि प्रमेयक्रमेण विचार्यन्ते --- किम् आव्यक्तिकान्य् आहोस्विद् भौतिकानीति।
-नीति।] पृ.७५८
कुतः संशयः? ---
न्याभा३,१.३२_ कृष्णसारे सत्य् उपलम्भाद् व्यतिरिच्य चोपलम्भात् संशयः ॥
कृष्णसारं भौतिकम्, तस्मिन्न् अनुपहते रूपोपलब्धिः उपहते चानुपलब्धिर् इति। व्यतिरिच्य कृष्णसारम् अवस्थितस्य विषयस्य उपलम्भो न कृष्णसारप्राप्तस्य। न चाप्राप्यकारित्वम् इन्द्रियाणाम्, तद् इदम् अभौतिकत्वे विभुत्वात् सम्भवति। एवम् उभयधर्मोपलब्धेः संशयः॥३२॥
-पलब्धेः संशयः॥३२॥] पृ.७५९


********************** न्यायभाष्यम्३,१.३३ **********************


अभौतिकानीत्य् आह। कस्मात्?
न्याभा३,१.३३_ महदणुग्रहणात् ॥
महद् इति महत्तरं महत्तमं चोपलभ्यते यथा न्यग्रोधपर्वतादि। अण्व् इति अणुतरम् अणुतमं च गृह्यते यथा न्यग्रोधधानादि। तदुभयम् उपलभ्यमानं चक्षुषो भौतिकत्वं बाधते। भौतिकं हि यावत् तावद् एव व्याप्नोति। अभौतिकं तु विभुत्वात् सर्वव्यापकम् इति॥३३॥


********************** न्यायभाष्यम्३,१.३४ **********************


न महदणुग्रहणमात्राद् अभौतिकत्वं विभुत्वं चेन्द्रियाणां शक्यं प्रतिपत्तुम्। इदं खलु ---
न्याभा३,१.३४_ रश्म्यर्थसन्निकर्षविशेषात् तद्ग्रहणम् ॥
तयोर् महदण्वोर् ग्रहणं चक्षूरश्मेर् अर्थस्य च सन्निकर्षविशेषाद् भवति यथा प्रदीपरश्मेर् अर्थस्य चेति।
-र् अर्थस्य चेति।] पृ.७६३
रश्म्यर्थसन्निकर्षश् चावरणलिङ्गः। चाक्षुषो हि रश्मिः कुड्यादिभिर् आवृतम् अर्थं न प्रकाशयति यथा प्रदीपरश्मिर् इति॥३४॥


********************** न्यायभाष्यम्३,१.३५ **********************


आवरणानुमेयत्वे सतीदम् आह ---
न्याभा३,१.३५_ तदनुपलब्धेर् अहेतुः ॥
रूपस्पर्शवद् धि तेजः, महत्त्वाद् अनेकद्रव्यवत्त्वाद् रूपवत्त्वाच् चोपलब्धिर् इति प्रदीपवत् प्रत्यक्षत उपलभ्येत चाक्षुषो रश्मिर् यदि स्याद् इति॥३५॥


********************** न्यायभाष्यम्३,१.३६ **********************


न्याभा३,१.३६_ नानुमीयमानस्य प्रत्यक्षतोऽनुपलब्धिर् अभावहेतुः ॥


सन्निकर्षप्रतिषेधार्थेनावरणेन लिङ्गेनानुमीयमानस्य रश्मेर् या प्रत्यक्षतोऽनुपलब्धिर् नासाव् अभावं प्रतिपादयति यथा चन्द्रमसः परभागस्य प्र्थिव्याश् चाधोभागस्य॥३६॥


********************** न्यायभाष्यम्३,१.३७ **********************


न्याभा३,१.३७_ द्रव्यगुणधर्मभेदाच् चोपलब्धिनियमः ॥
भिन्नः खल्व् अयं द्रव्यधर्मो गुणधर्मश् च, महदनेकद्रव्यवच् च विषक्तावयवम् आप्यं द्रव्यं प्रत्यक्षतो नोपलभ्यते स्पर्शस् तु शीतो गृह्यते। तस्य द्रव्यस्यानुबन्धाद् हेमन्तशिशिरौ कल्प्येते तथाविधम् एव च तैजसं द्रव्यम् अनुद्भूतरूपं सह रूपेण नोपलभ्यते,
कल्प्येते तथाविधम् ... नोपलभ्यते,] पृ.७६६
स्पर्शस् त्व् अस्योष्ण उपलभ्यते तस्य द्रव्यस्यानुबन्धाद् ग्रीष्मवसन्तौ कल्प्येते॥३७॥


********************** न्यायभाष्यम्३,१.३८ **********************
यत्र त्व् एषा भवति ---
न्याभा३,१.३८_ अनेकद्रव्यसमवायाद् रूपविशेषाच् च रूपोपलब्धिः ॥
तत्र रूपं च द्रव्यं च तदाश्रयः प्रत्यक्षत उपलभ्यते। रूपविशेषस् तु यद्भावात् क्वचिद् रूपोपलब्धिः यदभावाच् च द्रव्यस्य क्वचिद् अनुपलब्धिः स रूपधर्मोऽयम् उद्भव समाख्यात इति। अनुद्भूतरूपश् चायं नायनो रश्मिः, तस्मात् प्रत्यक्षतो नोपलभ्यत इति।
इति।] पृ.७६७
दृष्टश् च तेजसो धर्मभेदः, उद्भूतरूपस्पर्शं प्रत्यक्षं तेजो यथा आदित्यरश्मयः। उद्भूतरूपम् अनुद्भूतस्पर्शं च प्रत्यक्षं यथा प्रदीपरश्मयः। उद्भूतस्पर्शम् अनुद्भूतरूपम् अप्रत्यक्षं यथाबादिसंयुक्तं तेजः। अनुद्भूतरूपस्पर्शोऽप्रत्यक्षश् चाक्षुषो रश्मिर् इति॥३८॥


********************** न्यायभाष्यम्३,१.३९ **********************


न्याभा३,१.३९_ कर्मकारितश् चेन्द्रियाणां व्यूहः पुरुषार्थतन्त्रः ॥
यथा चेतनस्यार्थो विषयोपलब्धिभूतः सुखदुःखोपलब्धिभूतश् च कल्प्यते तथेन्द्रियाणि व्यूढानि, विषयप्राप्त्यर्थश् च रश्मेश् चाक्षुषस्य व्यूहः। रूपस्पर्शानभिव्यक्तिश् च व्यवहारप्रकॢप्त्यर्था, द्रव्यविशेषे च प्रतीघाताद् आवरणोपपत्तिर् व्यवहारार्था। सर्वद्रव्याणां विश्वरूपो व्यूह इन्द्रियवत् कर्मकारितः पुरुषार्थतन्त्रः। कर्म तु धर्माधर्मभूतं चेतनस्योपभोगार्थम् इति।


अव्यभिचाराच् च प्रतीघातो भौतिकधर्मः। यश् चात्वरणोपलम्भाद् इन्द्रियस्य द्रव्यविशेषे प्रतिघातः स भौतिकधर्मो न भूतानि व्यभिचरति, नाबौतिकं प्रतिघातधर्मकं दृष्टम् इति। अप्रतिघातस् तु व्यभिचारी भौतिकाभौतिकयोः समानत्वाद् इति।
यद् अपि मन्येत प्रतिघाताद् भौतिकानीन्द्रियाणि, अप्रतिघाताद् अभौतिकानीति प्राप्तम्? दृष्टश् चाप्रतिघातः काचाभ्रपटलस्फटिकान्तरितोपलब्धेः। तन् न युक्तम्। कस्मात्? यस्माद् भौतिकम् अपि न प्रतिहन्यते, काचाभ्रपटलस्फटिकान्तरितप्रकाशात् प्रदीपरश्मीनाम्, स्थाल्यादिषु पाचकस्य तेजसोऽप्रतिघातः॥३९॥


********************** न्यायभाष्यम्३,१.४० **********************


उपपद्यते च अनुपलब्धिः कारणभेदात् ---
न्याभा३,१.४०_ मध्यन्दिनोल्काप्रकाशानुपलब्धिवत् तदनुपलब्धिः ॥
यथा ’’नेकद्रव्येण समवायाद् रूपविशेषाच् चोपलब्धिर्ऽऽ इति सत्य् उपलब्धिकारणे मध्यन्दिनोल्काप्रकाशो नोपकभ्यते आदित्यप्रकाशेनाभिभूतः, एवं महदनेकद्रव्यवत्त्वाद् रूपविशेषाच् चोपलभिर् इति सत्य् उपलब्धिकारणे चाक्षुषो रश्मिर् नोपलभ्यते निमित्तान्तरतः॥ तच् च व्याख्यातम् अनुद्भूतरूपस्पर्शस्य द्रव्यस्य प्रत्यक्षतोऽनुपलब्धिर् इति॥४०॥


********************** न्यायभाष्यम्३,१.४१ **********************
अत्यन्तानुपलब्धिश् चाभावकारणम्। यो हि ब्रवीति लोष्टप्रकाशो मध्यन्दिने आदित्यप्रकाशाभिभवान् नोपलभ्यत इति, तस्यैतत् स्यात्?


न्याभा३,१.४१_ न, रात्राव् अप्य् अनुपलब्धेः ॥
अप्य् अनुमानतोऽनुपलब्धेर् इति। एवम् अत्यन्तानुपलब्धेर् लोष्टप्रकाशो नास्ति, न त्व् एवं चक्षुषो रश्मिर् इति॥४१॥


********************** न्यायभाष्यम्३,१.४२ **********************


उपपन्नरूपा चेयम् ---
न्याभा३,१.४२_ बाह्यप्रकाशानुग्रहाद् विषयोपलब्धेर् अनभिव्यक्तितोऽनुपलब्धिः ॥
बाह्येन प्रकाशेनानुगृहीतं चक्षुः विषयग्राहकं तदभावेऽनुपलब्धिः। सति च प्रकाशानुग्रहे शीतस्पर्शोपलब्धौ च सत्यां तदाश्रयस्य द्रव्यस्य चक्षुषाऽग्रहणं रूपस्यानुद्भूतत्वात्,
प्रकाशानुग्रहे ...] पृ.७७१
सेयं रूपानभिव्यक्तितो रूपाश्रयस्य द्रव्यस्यानुपलब्धिर् दृष्टा। तत्र यद् उक्तं ’’तदनुपलब्धेर् अहेतुर्ऽऽ इति एतद् अयुक्तम्॥४२॥


********************** न्यायभाष्यम्३,१.४३ **********************
कस्मात् पुनर् अभिभवोऽनुपलब्धिकारणं चाक्षुषस्य रश्मेर् नोच्यत इति?
न्याभा३,१.४३_ अभिव्यक्तौ चाभिभवात् ॥
बाह्यप्रकाशानुग्रहनिरपेक्षतायां चेति चार्थः। यद् रूपम् अभिव्यक्तम् उद्भूतं बाह्यप्रकाशानुग्रहं च नापेक्षते तद्विषयोऽभिभवः, विपर्ययेऽभिभवाभावात्। अनुद्भूतरूपत्वाच् चानुपलभ्यमानं बाह्यप्रकाशानुग्रहाच् चोपलभ्यमानं नाभिभूयत इति।
-नुपलभ्यमानं] पृ.७७२
एवम् उपपन्नम् अस्ति चाक्षुषो रश्मिर् इति॥४३॥


********************** न्यायभाष्यम्३,१.४४ **********************


न्याभा३,१.४४_ नक्तञ्चरनयनरश्मिदर्शनाच् च ॥
दृश्यन्ते हि नक्तं नयनरश्मयो नक्तञ्चराणां वृषदंशप्रभृतीनाम्, तेन शेषस्यानुमानम् इति। जातिभेदवद् इन्द्रियभेद इति चेत्? धर्मभेदमात्रं चानुपपन्नम् आवरणस्य प्रातिप्रतिषेधार्थस्य दर्शनाद् इति॥४४॥


********************** न्यायभाष्यम्३,१.४५ **********************


इन्द्रियार्थसन्निकर्षस्य ज्ञानकारणत्वानुपपत्तिः। कस्मात्?
न्याभा३,१.४५_ अप्राप्य ग्रहणं काचाभ्रपटलस्फटिकान्तरितोपलब्धेः ॥
तृणादि सर्पद् द्रव्यं काचे अभ्रपटले वा प्रतिहतं दृष्त्ऽम्, अव्यवहितेन सन्निकृष्यते व्याहन्यते वै प्राप्तिर् व्यवधानेनेति। यदि च रश्म्यर्थसन्निकर्षो ग्रहणहेतुः स्यात् न व्यवहितस्य सन्निकर्ष इत्य् अग्रहणं स्यात्। अस्ति चेयं काचाभ्रपटलस्फटिकान्तरितोपलब्धिः सा ज्ञापयति अप्राप्यकारीणीन्द्रियाणि अत एवाभौतिकानि, प्राप्यकारित्वं हि भौतिकधर्म इति॥४५॥


********************** न्यायभाष्यम्३,१.४६ **********************


न्याभा३,१.४६_ कुड्यान्तरितानुपलब्धेर् अप्रतिषेधः ॥
अप्राप्यकरित्वे सतीन्द्रियाणां कुड्यान्तरितस्यानुपलब्धिर् न स्यात्॥४६॥


********************** न्यायभाष्यम्३,१.४७ **********************


प्राप्यकारित्वेऽपि तु काचाभ्रपटलस्फटिकान्तरितोपलब्धिर् न स्यात्?
न्याभा३,१.४७_ अप्रतीघातात् सन्निकर्षोपपत्तिः ॥
न च काचोऽभ्रपटलं वा नयनरश्मिं विष्टभ्नाति सोऽप्रतिहन्यमानः सन्निकृष्यत इति॥४७॥


********************** न्यायभाष्यम्३,१.४८ **********************


यश् च मन्यते न भौतिकस्याप्रतिघात इति तन् न ---
न्याभा३,१.४८_ आदित्यरश्मेः स्फटिकान्तरितेऽपि दाह्ये .विघातात् ॥
आदित्यरश्मेर् अविघातात् स्फटिकान्तरितेऽप्य् अविघातात्, दाह्येऽविघातात्। अविघाताद् इति च पदाभिसम्बन्धाद् वाक्यभेद इति। प्रतिवाक्यं चार्थभेद इति। आदित्यरश्मिः कुम्भादिषु न प्रतिहन्यते, अविघातात् कुम्भस्थम् उदकं तपति। प्राप्तौ हि द्रव्यान्तरगुणस्य उष्णस्य स्पर्शस्य ग्रहणं तेन च शीतस्पर्शाभिभव इति। स्फटिकान्तरितेऽपि प्रकाशनीये प्रदीपरश्मीनाम् अप्रतिघातः, अप्रतिघातात् प्राप्तस्य ग्रहणम् इति। भर्जनकपालादिस्थं च द्रव्यम् आग्नेयेन तेजसा दह्यते तत्राविघातात् प्राप्तिः, प्राप्तौ तु दाहो नाप्राप्यकारि तेज इति।


अविघाताद् इति च केवलं पदम् उपादीयते, कोऽयम् अविघातो नाम? अव्युह्यमानावयवेन व्यवधायेन द्रव्येण सर्वतो द्रव्यस्याविष्ठ्म्भः क्रियाहेतोर् अप्रतिबन्धः प्राप्तेर् अप्रतिषेध इति। दृष्टं हि कलशनिषक्तानाम् अपां बहिः शीतस्पर्शस्य ग्रहणम्। न चेन्द्रियेणासन्निकृष्टस्य द्रव्यस्य स्पर्शोपलब्धिः। दृष्टौ च प्रस्पन्दपरिस्रवौ। तत्र काचाभ्रपटलादिभिर् नयनरश्मेर् अप्रतिघाताद् विभिद्यार्थेन सह सन्निकर्षाद् उपपन्नं ग्रहणम् इति॥४८॥


********************** न्यायभाष्यम्३,१.४९ **********************


न्याभा३,१.४९_ नेतरेतरधर्मप्रसङ्गात् ॥
काचाभ्रपटलादिवद् वा कुड्यादिभिर् अप्रतिघातः, कुड्यादिवद् वा काचाभ्रपटलादिभिः प्रतिघात इति प्रसज्यते, नियमे कारणं वाच्यम् इति॥४९॥


********************** न्यायभाष्यम्३,१.५० **********************


न्याभा३,१.५०_ आदर्शोदकयोः प्रसादस्वाभाव्याद् रूपोपलब्धिवत् तदुपलब्धिः ॥
आदर्शोदकयोः प्रसादो रूपविशेषः स्वो धर्मो नियमदर्शनात्, प्रसादस्य वा स्वो धर्मो रूपोपलम्भनम्। यथा आदर्शप्रतिहतस्य परावृत्तस्य नयनरश्मेः स्वेन मुखेन सन्निकर्षे सति स्वमुखोपलम्भनं प्रतिबिम्बग्रहणाख्यम् आदर्शरूपानुग्रहात् तन्निमित्तं भवति,
-कर्षे सति ...] पृ.७७९
आदर्शरूपोपघाते तदभावात्, कुड्यादिषु च प्रतिबिम्बग्रहणं न भवति एवं काचाभ्रपटलादिभिर् अविघातश् चक्षूरश्मेः कुड्यादिभिश् च प्रतिघातो द्रव्यस्वभावनियमाद् इति॥५०॥


********************** न्यायभाष्यम्३,१.५१ **********************


न्याभा३,१.५१_ दृष्टानुमितानां हि नियोगप्रतिषेधानुपपत्तिः ॥
प्रमाणस्य तत्त्वविषयत्वात्। न खलु भोः परीक्षमाणेन दृष्टानुमिता अर्थाः शक्या नियोक्तुम् एवं भवतेति,
नियोक्तुम् एवं भवतेति,] पृ.७८०
नापि प्रतिषेद्धुम् एवं न भवतेति। न हीदम् उपपद्यते रूपवद् गन्धोऽपि चाक्षुषो भवत्व् इति, गन्धवद् वा रूपं चाक्षुषं मा भूद् इति, अग्निप्रतिपत्तिवत् धूमेनोदकप्रतिपत्तिर् अपि भवत्व् इति, उदकाप्रतिपत्तिवद् वा धूमेनाग्निप्रतिपत्तिर् अपि मा भूद् इति। किं कारणम्? यथा खल्व् अर्था भवन्ति य एषां स्वो भावः स्वो धर्म इति तथाभूताः प्रमाणेन प्रतिपद्यन्त इति। तथाभूतविषयकं हि प्रमाणम् इति। इमौ खलु नियोगप्रतिषेधौ भवता देशितौ काचाभ्रपटलादिवद् वा कुड्यादिभिर् अप्रतिघातो भवतु कुड्यादिवद् वा काचाभ्रपटलादिभिर् अप्रतिघातो मा भूद् इति। न, दृष्टानुमिताः खल्व् इमे द्रव्यधर्माः, प्रतिघाताप्रतिघातयोर् ह्य् उपलब्धी व्यवस्थापिके। व्यवहितानुपलब्ध्यानुमीयते कुड्यादिभिः प्रतिघातः, व्यवहितोपलब्ध्यानुमीयते काचाभ्रपटलादिभिर् अप्रतिघात इति॥५१॥


********************** न्यायभाष्यम्३,१.५२ **********************


अथापि खल्व् एकम् इदम् इन्द्रियं बहूनीन्द्रियाणि वा? कुतः संशयः?
न्याभा३,१.५२_ स्थानान्यत्वे नानात्वाद् अवयविनानास्थानत्वाच् च संशयः ॥
बहूनि द्रव्याणि नानास्थानानि दृश्यन्ते, नानास्थानश् च सन्न् एकोऽवयवी चेति। तेनेन्द्रियेषु भिन्नस्थानेषु संशय इति॥५२॥


********************** न्यायभाष्यम्३,१.५३ **********************


एकम् इन्द्रियम् ---
न्याभा३,१.५३_ त्वग् अव्यतिरेकात् ॥
त्वग् एकम् इन्द्रियम् इत्य् आह। कस्मात्? अव्यतिरेकात्। न त्वचा किञ्चिद् इन्द्रियाधिष्ठानं न प्राप्तम्, न चासत्यां त्वचि किञ्चिद् विषयग्रहणं भवति, यया सत्वेन्द्रियस्थानानि व्याप्तानि यस्यां च सत्यां विषयग्रहणं भवति सा त्वग् एकम् इन्द्रियम् इति।
नेन्द्रियान्तरार्थानुपलब्धेः। स्पर्शोपलब्धिलक्षणायां सत्यां त्वचि गृह्यमाणे त्वगिन्द्रियेण स्पर्शे इन्द्रियान्तरार्था रूपादयो न गृह्यन्ते अन्धादिभिः। न स्पर्शग्राहकात् इन्द्रियाद् इन्द्रियान्तरम् अस्तीति स्पर्शवद् अन्धादिभिर् गृह्येरन् रूपादयः, न च गृह्यन्ते तस्मान् नैकम् इन्द्रियं त्वग् इति।


त्वगवयवविशेषेण धूमोपलब्धिवत् तदुपलब्धिः। यथा त्वचोऽवयवविशेषः कश्चिच् चक्षुषि सन्निकृष्टो धूमस्पर्शं गृह्णाति नान्यः, एवं त्वचोऽवयवविशेषा रूपादिग्राहकास् तेषाम् उपघाताद् अन्धादिभिर् न गृह्यन्ते रूपादय इति। व्याहतत्वाद् अहेतुः। त्वगव्यतिरेकाद् एकम् इन्द्रियम् इत्य् उक्त्वा ’’त्वग् अवयवविशेषेण धूमोपलब्धिवद् रूपाद्युपलब्धिर्ऽऽ इत्य् उच्यते। एवं च सति नानाभूतानि विषयग्राहकाणि विषयव्यवस्थानात् तद्भावे विषयग्रहणस्य भावात् तदुपघाते चाभावात्, तथा च पूर्वो वाद उत्तरेण वादेण व्याहन्यत इति।
सन्दिग्धश् चाव्यतिरेकः। पृथिव्यादिभिर् अपि भूतैर् इन्द्रियाधिष्ठानानि व्याप्तानि, न च तेष्व् असत्सु विषयग्रहणं भवतीति। तस्मान् न त्वग् अन्यद् वा सर्वविषयम् एकम् इन्द्रियम् इति॥५३॥


********************** न्यायभाष्यम्३,१.५४ **********************


न्याभा३,१.५४_ न युगपदर्थानुपलब्धेः ॥
आत्मा मनसा सम्बध्यते, मन इन्द्रियेण, इन्द्रियं सर्वार्थैः सन्निकृष्टम् इति, आत्मेन्द्रियमनोर्थसन्निकर्षेभ्यो युगपद् ग्रहणानि स्युः। न च युगपद् रूपादयो गृह्यन्ते तस्मान् नैकम् इन्द्रियं सर्वविषयम् अस्तीति। असाहचर्याच् च विषयग्रहणानां नैकम् इन्द्रियं सर्वविषयकम्, साहचर्ये हि विषयग्रहणानाम् अन्धाद्यनुपपत्तिर् इति॥५४॥


********************** न्यायभाष्यम्३,१.५५ **********************


न्याभा३,१.५५_ विप्रतिषेधाच् च न त्वग् एका ॥
न खलु त्वग् एकम् इन्द्रियं व्याघातात् --- त्वचा रूपाण्य् अप्राप्तानि गृह्यन्त इत्य् अप्राप्यकारित्वे स्पर्शादिष्व् अप्य् एवं प्रसङ्गः। स्पर्शादीनां च प्राप्तानां ग्रहणाद् रूपादीनां प्राप्तानां ग्रहणम् इति प्राप्तम्।


प्राप्याप्राप्यकारित्वम् इति चेत्? आवरणानुपपत्तेर् विषयमात्रस्य ग्रहणम्। अथापि मन्येत प्राप्ताः स्पर्शादयस् त्वचा गृह्यन्ते रूपाणि त्व् अप्राप्तानीति? एवं सति नास्त्य् आवरणम्, आवरणानुपपत्तेश् च रूपमात्रस्य ग्रहणं व्यवहितस्य चाव्यवहितस्य चेति। दूरान्तिकानुविधानं च रूपोपलब्ध्यनुपलब्ध्योर् न स्यात्। अप्राप्तं त्वचा गृह्यते रूपम् इति दूरे रूपस्याग्रहणम् अन्तिके च ग्रहणम् इत्य् एतन् न स्याद् इति॥५५॥


********************** न्यायभाष्यम्३,१.५६ **********************


प्रतिषेधाच् च नानात्वसिद्धौ स्थापनाहेतुर् अप्य् उपादीयते ---
न्याभा३,१.५६_ इन्द्रियार्थपञ्चत्वात् ॥
अर्थः प्रयोजनम्, तत् पञ्चविधम् इन्द्रियाणाम्, स्पर्शनेनेन्द्रियेण स्पर्शग्रहणे सति न तेनैव रूपं गृह्यत इति रूपग्रहणप्रयोजनं चक्षुर् अनुमीयते।
तेनैव रूपं गृह्यत इति रूपग्रहणप्रयोजनं चक्षुर् अनुमीयते।] पृ.७८८
स्पर्शरूपग्रहणे च ताभ्याम् एव न गन्धो गृह्यत इति गन्धग्रहणप्रयोजनं घ्राणम् अनुमीयते। त्रयाणां ग्रहणे न तैर् एव रसो गृह्यत इति रसग्रहणप्रयोजनं रसनम् अनुमीयते। न च चतुर्णां ग्रहणे तैर् एव शब्दः श्रूयत इति शब्दग्रहणप्रयोजनं श्रोत्रम् अनुमीयते। एवम् इन्द्रियप्रयोजनस्यानितरेतरसाधनसाध्यत्वात् पञ्चैवेन्द्रियाणि॥५६॥


********************** न्यायभाष्यम्३,१.५७ **********************


न्याभा३,१.५७_ न, तदर्थबहुत्वात् ॥
न खल्व् इन्द्रियार्थपञ्चत्वात् पञ्चेन्द्रियाणीति सिध्यति। कस्मात्? तेषाम् अर्थानां बहुत्वात्। बहवः खल्व् इमे इन्द्रियार्थाः, स्पर्शास् तावत् शीतोष्नानुष्णाशीता इति। रूपाणि शुक्लहरितादीनि। गन्धा इष्टानिष्टोपेक्षणीयाः। रसाः कटुकादयः, शब्दा वर्णात्मानो ध्वनिमात्राश् च भिन्नाः। तद् यस्येन्द्रियार्थपञ्चत्वात् पञ्चेन्द्रियाणि तस्येन्द्रियार्थबहुत्वाद् बहूनि इन्द्रियाणि प्रसज्यन्त इति॥५७॥


********************** न्यायभाष्यम्३,१.५८ **********************


न्याभा३,१.५८_ गन्धत्वाद्यव्यतिरेकाद् गन्धादीनाम् अप्रतिषेधः ॥
गन्धत्वादिभिः स्वसामान्यैः कृतव्यवस्थानां गन्धादीनां यानि गन्धादिग्रहणानि तान्य् असमानसाधनसाध्यत्वाद् ग्राहकान्तराणि न प्रयोजयन्ति। अर्थसमूहोऽनुमानमुक्तो नार्थैकदेशः।
-मुक्तो नार्थैकदेशः।] पृ.७९०
अर्थैकदेशं चाश्रित्य विषयपञ्चत्वमात्रं भवान् प्रतिषेधति तस्माद् अयुक्तोऽयं प्रतिषेध इति।
कथं पुनर् गन्धत्वादिभिः स्वसामान्यैः कृतव्यवस्था गन्धादय इति? स्पर्शः खल्व् अयं त्रिविधः शीत उष्णोऽनुष्णाशीतश् च स्पर्शत्वेन स्वसामान्येन संगृहीतः। गृह्यमाणे च शीतस्पर्शे नोष्णस्यानुष्णाशीतस्य वा स्पर्शस्य ग्रहणं ग्राहकान्तरं प्रयोजयति स्पर्शभेदानाम् एकसाधनसाध्यत्वाद् येनैव शीतस्पर्शो गृह्यते तेनैवेतराव् अपीति। एवं गन्धत्वेन गन्धानाम्, रूपत्वेन रूपाणाम्, रसत्वेन रसानाम्, शब्दत्वेन शब्दानाम् इति। गन्धादिग्रहणानि पुनर् असमानसाधनसाध्यत्वाद् ग्राहकान्तराणां प्रयोजकानि। तस्माद् उपपन्नम् इन्द्रियार्थपञ्चत्वात् पञ्चेन्द्रियाणीति॥५८॥


********************** न्यायभाष्यम्३,१.५९ **********************
यदि सामान्यं सङ्ग्राहकम्, प्राप्तम् इन्द्रियाणाम् ---
न्याभा३,१.५९_ विषयत्वाव्यतिरेकाद् एकत्वम् ॥
विषयत्वेन हि सामान्येन गन्धादयः सङ्गृहीता इति॥५९॥


********************** न्यायभाष्यम्३,१.६० **********************


न्याभा३,१.६०_ न, बुद्धिलक्षणाधिष्ठानगत्याकृतिज्ञातिपञ्चत्वेभ्यः ॥
न खलु विषयत्वेन सामान्येन कृतव्यवस्था विषया ग्राहकान्तरनिरपेक्षा एकसाधनग्राह्या अनुमीयन्ते, अनुमीयन्ते च पञ्च गन्धादयो गन्धत्वादिभिः स्वसामान्यैः कृतव्यवस्था इन्द्रियान्तरग्राह्याः, तस्माद् असम्बद्धम् एतत्। अयम् एव चार्थोऽनूद्यते बुद्धिलक्षणपञ्चत्वाद् इति।
बुद्धय एव लक्षणानि विषयग्रहणलिङ्गत्वात् इन्द्रियाणाम्, तद् एतत् ’’िन्द्रियार्थपञ्चत्वात्ऽऽ इत्य् एतस्मिन् सूत्रे कृतभाष्यम् इति। तस्माद् बुद्धिलक्षणपञ्चत्वात् पञ्चेन्द्रियाणि।


अधिष्ठानान्य् अपि खलु पञ्चेन्द्रियाणाम्, सर्वशरीराधिष्ठानं स्पर्शनं स्पर्शग्रहणलिङ्गम्, कृष्णसाराधिष्ठानं चक्षुः बहिर्निःसृतं रूपग्रहणलिङ्गम्, नासाधिष्ठानं घ्राणम्, जिह्वाधिष्ठानं रसनम्, कर्णच्छिद्राधिष्ठानं श्रोत्रम्, गन्धरसरूपस्पर्शशब्दग्रहणलिङ्गत्वाद् इति।
गतिभेदाद् अपीन्द्रियभेदः। कृष्णसारोपनिबद्धं चक्षुर् बहिर्निःसृत्य रूपाधिकरणानि द्रव्याणि प्राप्नोति। स्पर्शनादीनि त्व् इन्द्रियाणि विषया एवाश्रयोपसर्पणात् प्रत्यासीदन्ति। सन्तानवृत्त्या शब्दस्य श्रोत्रप्रत्यासत्तिर् इति।
आकृतिः खलु परिमाणम् इयत्ता सा पञ्चधा। स्वस्थानमात्राणि घ्राणरसनस्पर्शनानि विषयग्रहणेनानुमेयानि। चक्षुः कृष्णसाराश्रयं बहिर्निःसृतं विषयव्यापि। श्रोत्रं नान्यद् आकाशात्, तच् च विभु शब्दमात्रानुभवानुमेयं पुरुषसंस्कारोपग्रहणाच् चाधिष्ठाननियमेन शब्दस्य व्यञ्जकम् इति।


जातिर् इति योनिं प्रचक्षते। पञ्च खल्व् इन्द्रिययोनयः पृथिव्यादीनि भूतानि, तस्मात् प्रकृतिपञ्चत्वाद् अपि पञ्चेन्द्रियाणीति सिद्धम्॥६०॥


********************** न्यायभाष्यम्३,१.६१ **********************
कथं पुनर् ज्ञायते भूतप्रकृतीनीन्द्रियाणि नाव्यक्तप्रकृतीनीति?
न्याभा३,१.६१_ भूतगुणविशेषोपलब्धेस् तादात्म्यम् ॥
दृष्टो हि वाय्वादीनां भूतानां गुणविशेषाभिव्यक्तिनियमः। वायुः स्पर्शव्यञ्जकः, आपो रसव्यञ्जिकाः, तेजो रूपव्यञ्जकम्, पार्थिवं किञ्चिद् द्रव्यं कस्यचिद् द्रव्यस्य गन्धव्यञ्जकम्। अस्ति चायम् इन्द्रियाणां भूतगुणविशेषोपलब्धिनियमः तेन भूतगुणविशेषोपलब्धेर् मन्यामहे भूतप्रकृतीनीन्द्रियाणि नाव्यक्तप्रकृतीनीति॥६१॥


********************** न्यायभाष्यम्३,१.६२ **********************


गन्धादयः पृथिव्यादिगुणा इत्य् उद्दिष्टम् उद्देशश् च पृथिव्यादीनाम् एकगुणत्वे चानेकगुणत्वे च समान इत्य् अत आह ---
न्याभा३,१.६२_ गन्धरसरूपस्पर्शशब्दानां स्पर्शपर्यन्ताः पृथिव्याः ॥


********************** न्यायभाष्यम्३,१.६३ **********************


न्याभा३,१.६३_ अप्तेजोवायूनां पूर्वं पूर्वम् अपोह्याकाशस्योत्तरः ॥
स्पर्शपर्यन्तानाम् इति विभक्तिविपरिणामः। आकाशस्योत्तरः शब्दः स्पर्शपर्यन्तेभ्य इति।
इति।] पृ.७९६
कथं तर्हि तरब्निर्देशः? स्वतन्त्रविनियोगसामर्थ्यात्। तेनोत्तरशब्दस्य परार्थाभिधानं विज्ञायते। उद्देशसूत्रे हि स्पर्शपर्यन्तेभ्यः परः शब्द इति। तन्त्रं वा स्पर्शस्य विवक्षितत्वात् --- स्पर्शपर्यन्तेषु नियुक्तेषु योऽन्यस् तदुत्तरः शब्द इति॥६२-६३॥


********************** न्यायभाष्यम्३,१.६४ **********************


न्याभा३,१.६४_ न सर्वगुणानुपलब्धेः ॥
नायं गुणनियोगः साधुः। कस्मात्? यस्य भूतस्य ये गुणा न ते तदात्मकेनेन्द्रियेण सर्वे उपलभ्यन्ते। पार्थिवेन हि घ्राणेन स्पर्शपर्यन्ता न गृह्यन्ते गन्ध एव एको गृह्यते एवं शेषेष्व् अपीति॥६४॥


********************** न्यायभाष्यम्३,१.६५ **********************
कथं तर्हीमे गुणा विनियोक्तव्या इति?
न्याभा३,१.६५_ एकैकश्येनोत्तरोत्तरगुणसद्भावाद् उत्तरोत्तराणां तदनुपलब्धिः ॥
गन्धादीनाम् एकैको यथाक्रमं पृथिव्यादीनाम् एकैकस्य गुणः, अतः ’’तदनुपलब्धिःऽऽ तेषां तयोः तस्य चानुपलब्धिः ---
तेषां तयोः तस्य चानुपलब्धिः ---] पृ.७९८
घ्राणेन रसरूपस्पर्शानां रसनेन रूपस्पर्शयोः चक्षुषा स्पर्शस्येति।
कथं तर्ह्य् अनेकगुणानि भूतानि गृह्यन्त इति?
संसर्गाच् चानेकगुणग्रहणम्। अबादिसंसर्गाच् च पृथिव्यां रसादयो गृह्यन्ते एवं शेषेष्व् अपीति॥६५॥


********************** न्यायभाष्यम्३,१.६६ **********************


नियमस् तर्हि न प्राप्नोति संसर्गस्यानियमात् चतुर्गुणा पृथिवी त्रिगुणा आपो द्विगुणं तेज एकगुणो वायुर् इति। नियमश् चोपपद्यते। कथम्?
न्याभा३,१.६६_ विष्टं ह्य् अपरं परेण ॥
पृथिव्यादीनां पूर्वपूर्वम् उत्तरेणोत्तरेण विष्टम् अतः संसर्गनियम इति। तच् चैतद् भूतसृष्टौ वेदितव्यं नैतर्हीति॥६६॥


********************** न्यायभाष्यम्३,१.६७ **********************


न्याभा३,१.६७_ न पार्थिवाप्ययोः प्रत्यक्षत्वात् ॥
नेति त्रिसूत्रीं प्रत्याचष्टे। कस्मात्? पार्थिवस्य द्रव्यस्याप्य् अस्य च प्रत्यक्षट्वात्। महत्वानेकद्रव्यत्वाद् रूपाच् चोपलब्धिर् इति तैजसम् एव द्रव्यं प्रत्यक्षं स्यात् न पार्थिवम् आप्यं वा रूपाभावात्। तैजसवत् तु पार्थिवाप्ययोः प्रत्यक्षत्वात् न संसर्गाद् अनेकगुणग्रहणं भूतानाम् इति। भूतान्तररूपकृतं च पार्थिवाप्ययोः प्रत्यक्षत्वं ब्रुवतः प्रत्यक्षो वायुः प्रसज्यते नियमे वा कारणम् उच्यताम् इति।


रसयोर् वा पार्थिवाप्ययोः प्रत्यक्षत्वात् --- पार्थिवो रसः षड्विधः, आप्यो मधुर एव॑ न चैतत् संसर्गाद् भव्तितुम् अर्हति। रूपयोर् वा पार्थिवाप्ययोः प्रत्यक्षत्वात् तैजसरूपानुगृहीतयोः, संसर्गे हि व्यञ्जकम् एव रूपं न व्यङ्ग्यम् अस्तीति। एकानेकविधत्वे च पार्थिवाप्ययोः प्रत्यक्षत्वाद् रूपयोः। पार्थिवं हरितलोहितपीताद्यनेकविधं रूपम्, आप्यं तु शुक्लम् अप्रकाशकम्, न चैतद् एकगुणानां संसर्गे सत्य् उपपद्यत इति। उदाहरणमात्रं चैतत्, अतः परं प्रपञ्चः ।
स्पर्शयोर् वा पार्थिवतैजसयोः प्रत्यक्षत्वात्। पार्थिवोऽनुष्नाशीतः स्पर्शः, उष्णस् तैजसः प्रत्यक्षः, न चैतद् एकगुणानाम् अनुष्णाशीतस्पर्शेन वायुना संसर्गेणोपपद्यत इति।
अथ वा पार्थिवाप्ययोर् द्रव्ययोर् व्य्वस्थितगुणयोः प्रत्यक्षत्वात्। चतुर्गुणं पार्थिवं द्रव्यं त्रिगुणम् आप्यं प्रत्यक्षम्, तेन तत्कारणम् अनुमीयते तथाभूतम् इति। तस्य कार्यं लिङ्गं कारणभावाद् धि कार्यभाव इति। एवं तैजसवायव्ययोर् द्रव्ययोः प्रत्यक्षत्वाद् गुणव्यवस्थायाः तत्कारणे द्रव्ये व्यवस्थानुमानम् इति।
दृष्टश् च विवेकः पार्थिवाप्ययोः प्रत्यक्षत्वात्। पार्थिवं द्रव्यम् अबादिभिर् वियुक्तं प्रत्यक्षतो गृह्यते,
गृह्यते,] पृ.८०२
आप्यं च पराभ्याम्, तैजसं च वायुना, न चैकैकगुणं गृह्यत इति। निरनुमानं तु ’’विष्टं ह्य् अपरं परेणऽऽ इत्य् एतद् इति। नात्र लिङ्गम् अनुमापकं गृह्यत इति येनैतद् एवं प्रतिपद्येमहि।
यच् चोक्तं विष्टं ह्य् अपरं परेणेति भूतसृष्टौ वेदितव्यं न साम्प्रतम् इति नियमकारणाभावाद् अयुक्तम्। दृष्टं च साम्प्रतम् अपरं परेण विष्टम् इति, वायुना च विष्टं तेज इति। विष्टत्वं संयोगः, स च द्वयोः समानः, वायुना च विष्टत्वात् स्पर्शवत् तेजो न तु तेजसा विष्टत्वाद् रूपवान् वायुर् इति नियमकारणं नास्तीति। दृष्टं च तैजसेन स्पर्शेन वायव्यस्य स्पर्शस्याभिभवाद् अग्रहणम् इति, न च तेनैव तस्याभिभव इति॥६७॥


********************** न्यायभाष्यम्३,१.६८ **********************
तद् एवं न्यायविरुद्धं प्रवादं प्रतिषिध्य ’’न सर्वगुणानुपलब्धेर्ऽऽ इति चोदितं समाधीयते ---
न्याभा३,१.६८_ पूर्वपूर्वगुणोत्कर्षात् तत् तत् प्रधानम् ॥
तस्मान् न सर्वगुणोपलब्धिः, घ्राणादीनां पूर्वं पूर्वं गन्धादेर् गुणस्योत्कर्षात् तत् तत् प्रधानम्। का प्रधानता? विषयग्राहकत्वम्। को गुणोत्कर्षः? अभिव्यक्तौ समर्थत्वम्। यथा बाह्यानां पार्थिवाप्यतैजसानां द्रव्याणां चतुर्गुणत्रिगुणद्विगुणानां न सर्वगुणव्यञ्जकत्वं गन्धरसरूपोत्कर्षात् तु यथाक्रमं गन्धरसरूपव्यञ्जकत्वम्,
बाह्यानां ...] पृ.८०३
एवं घ्राण रसनचक्षुषा.ं चतुर्गुणत्रिगुणद्विगुणानां न सर्वगुणग्राहकत्वम्, गन्धरसरूपोत्कर्षात् तु यथाक्रमं गन्धरसरूपग्राहकत्वम्। तस्माद् घ्राणादिभिर् न सर्वेषां गुणानाम् उपलब्धिर् इति।
यस् तु प्रतिजानीते गन्धगुणत्वाद् घ्राणं गन्धस्य ग्राहकम् एवं रसनादिष्व् अपीति, तस्य यथागुणयोगं घ्राणादिभिर् गुणग्रहणं प्रसज्यत इति॥६८॥


********************** न्यायभाष्यम्३,१.६९ **********************


किंकृतं पुनर् व्यवस्थानम् --- किञ्चित् पार्थिवम् इन्द्रियं न सर्वाणि, कानिचिद् आप्यतैजसवायव्यानि इन्द्रियाणि न सर्वाणीति?
न्याभा३,१.६९_ तद्व्यवस्थानं तु भूयस्त्वात् ॥
अर्थनिर्वृत्तिसमर्थस्य प्रविभक्तस्य द्रव्यस्य संसर्गः पुरुषसंस्कारकारितो भूयस्त्वम्। दृष्टो हि प्रकर्षे भूयस्त्वशब्दः, यथा प्रकृष्टो विषयो भूयान् इत्य् उच्यते। यथा पृथगर्थक्रियासमर्थानि पुरुषसंस्कारवशाद् विषौषधिमणिप्रभृतीनि द्रव्याणि निर्वर्त्यन्ते, न सर्वं सर्वार्थम्॑ एवं पृथग्विषयग्रहणसमर्थानि घ्राणादीनि निर्वर्त्यन्ते न सर्वविषयग्रहणसमर्थानीति॥६९॥


********************** न्यायभाष्यम्३,१.७० **********************


स्वगुणान् नोपलभन्त इन्द्रियाणि। कस्माद् इति चेत्?
न्याभा३,१.७०_ सगुणानाम् इन्द्रियभावात् ॥
स्वान् गन्धादीन् नोपलभन्ते घ्राणादीनि। केन कारणेनेति चेत्? स्वगुणैः सह घ्राणादीनाम् इन्द्रियभावात्। घ्राणं स्वेन गन्धेन समानार्थकारिणा सह बाह्यं गन्धं गृह्णाति तस्य स्वगन्धग्रहणं सहकारिवैकल्यान् न भवति, एवं शेषाणाम् अपि॥७०॥


********************** न्यायभाष्यम्३,१.७१ **********************


यदि पुनर् गन्धः सहकारी च स्याद् घ्राणस्य ग्राह्यश् चेत्य् अत आह ---
न्याभा३,१.७१_ तेनैव तस्याग्रहणाच् च ॥


न गुणोपलब्धिर् इन्द्रियाणाम्। यो ब्रूते --- यथा बाह्यं द्रव्यं चक्षुषा (शुद्ध ; चक्षषा, सम्पादकः) गृह्यते तथा तेनैव चक्षुषा तद् एव चक्षुर् गृह्यताम् इति, तादृङ् इदम्॑ तुल्यो ह्य् उभयत्र प्रतिपत्तिहेत्वभाव इति॥७१॥


********************** न्यायभाष्यम्३,१.७२ **********************


न्याभा३,१.७२_ न शब्दगुणोपलब्धेः ॥
स्वगुणान् नोपलभन्त इन्द्रियाणीति एतन् न भवति। उपलभ्यते हि स्वगुणः शब्दः श्रोत्रेणेति॥७२॥


********************** न्यायभाष्यम्३,१.७३ **********************


न्याभा३,१.७३_ तदुपलब्धिर् इतरेतरद्रव्यगुणवैधर्म्यात् ॥
न शब्देन गुणेन सगुणम् आकाशम् इन्द्रियं भवति। न शब्दः शब्दस्य व्यञ्जकः, न च घ्राणादीनां स्वगुणग्रहणं प्रत्यक्षम्, नाप्य् अनुमीयते। अनुमीयते तु श्रोत्रेणाकाशेन शब्दस्य ग्रहणम्, शब्दगुणत्वं च आकाशस्येति। परिशेषश् चानुमानं वेदितव्यम्। आत्मा तावत् श्रोता न करणम्, मनसः श्रोत्रत्वे बधिरत्वाभावः, पृथिव्यादीनां घ्राणादिभावे सामर्थ्यम्, श्रोत्रभावे चासामर्थ्यम्।
सामर्थ्यम्, श्रोत्रभावे चासामर्थ्यम्।] पृ.८०८
अस्ति चेदं श्रोत्रम् आकाशं च शिष्यते, परिशेषाद् आकाशं श्रोत्रम् इति॥७३॥
इति श्रीवात्स्यायनीये न्यायभाष्ये तृतीयाध्यायस्याद्यम् आह्निकम्॥


अथ तृतीयाध्यायास्य द्वितीयम् आह्निकम्


********************** न्यायभाष्यम्३,२.१ **********************


परीक्षितानीन्द्रियाण्य् अर्थाश् च, बुद्धेर् इदानीं परीक्षाक्रमः, सा किम् अनित्या नित्या वेति। कुतः संशयः?
न्याभा३,२.१_ कर्माकाशसाधर्म्यात् संशयः ॥
अस्पर्शवत्त्वं ताभ्यां समानो धर्म उपलभ्यते बुद्धौ, विशेषश् चोपजनापायधर्मवत्त्वम्, विपर्ययश् च यथास्वम् अनित्यनित्ययोस् तस्यां बुद्दौ नोपलभ्यते, तेन संशय इति॥१॥


********************** न्यायभाष्यम्३,२.२ **********************
अनुपपन्नरूपः खल्व् अयं संशयः। सर्वशरीरिणां हि प्रत्यात्मवेदनीया अनित्या बुद्धिः सुखादिवत्।
सुकादिवत्] पृ.८१०
भवति च संवित्तिः --- ज्ञास्यामि जानामि अज्ञासिषम् इति। न चोपजनापायाव् अन्तरेण त्रैकाल्यव्याक्तिः, ततश् च त्रैकाल्यव्यक्तेर् अनित्या बुद्धिर् इत्य् एतत् शिद्धम्। प्रमाणसिद्धं चेदं शास्तरेऽप्य् उक्तम् --- ’िन्द्रियार्थसन्निकर्षोत्पन्नम्ऽ, ’युगपज् ज्ञानानुत्पत्तिर् मनसो लिङ्गम् इत्येवमादि। तस्मात् संशयप्रक्रियानुपपत्तिर् इति।
दृष्टिप्रवादोपालम्भार्थन् तु प्रकरणम्। एवं हि पश्यन्तः प्रवदन्ति साङ्ख्याः --- पुरुषस्यान्तःकरणभूता नित्या बुद्धिर् इति। साधनं च प्रचक्षते ---


न्याभा३,२.२_ विषयप्रत्यभिज्ञानात् ॥
किं पुनर् इदं प्रत्यभिज्ञानम्? यं पूर्वम् अज्ञासिषम् अर्थं तम् इमं जानामीति ज्ञान्योः समानेऽर्थे प्रतिसन्धिज्ञानं प्रत्यभिज्ञानम्, एतच् चावस्थिताया बुद्धेर् उपपन्नम्। नानात्वे तु बुद्धिभेदेषूत्पन्नापवर्गिषु प्रत्यभिज्ञानानुपपत्तिः नान्यज्ञातम् अन्यः प्रत्यभिजानातीति॥२॥


********************** न्यायभाष्यम्३,२.३ **********************


न्याभा३,२.३_ साध्यसमत्वाद् अहेतुः ॥
यथा खलु नित्यत्वं बुद्धेः साध्यम् एवं प्रत्यभिज्ञानम् अपीति। किं कारणम्? चेतनधर्मस्य करणेऽनुपपत्तिः। पुरुषधर्मः खल्व् अयं ज्ञानं दर्शनम् उपलब्धिर् बोधः प्रत्ययः अध्यवसाय इति।
अध्यवसाय इति] पृ.८१२
चेतनो हि पूर्वज्ञातम् अर्थं प्रत्यभिजानाति, तस्यैतस्माद् धेतोर् नित्यत्वं युक्तम् इति। करणचैतन्याभ्युपगमे तु चेतनस्वरूपं वचनीयं नानिर्दिष्टस्वरूपम् आत्मान्तरं शक्यम् अस्तीति प्रतिपत्तुम्। ज्ञानं चेद् बुद्धेर् अन्तःकरणस्याभ्युपगम्यते चेतनस्येदानीं किं स्वरूपं को धर्मः किं तत्त्वम्? ज्ञानेन च बुद्धौ वर्तमानेनायं चेतनः किं करोतीति?
चेतयते इति चेत् न, ज्ञानाद् अर्थान्तरवचनम् --- पुरुषश् चेतयते बुद्धिर् जानातीति नेदं ज्ञानाद् अर्थान्तरम् उच्यते, चेतयते जानीते बुद्ध्यते पश्यति उपलभते इत्य् एकोऽयम् अर्थ इति। बुद्धिर् ज्ञ्पयतीति चेत् अद्धा --- जानीते पुरुषो बुद्धिर् ज्ञापयतीति सत्यम् एतत्। एवं चाभ्युपगमे ज्ञानं पुरुषस्येति सिद्धं भवति न बुद्धेर् अन्तःकरणस्येति।
८१३
प्रतिपुरुषं च शब्दान्तरव्यवस्थाप्रतिज्ञाने प्रतिषेधहेतुवचनम्। यश् च प्रतिजानीते --- कश्चित् पुरुषश् चेतयते, कश्चिद् बुद्ध्यते, कश्चिद् उपलभते, कश्चित् पश्यतीति॑ पुरुषान्तराणि खल्व् इमानि चेतनो बोद्धोपलब्धा द्रष्टेति नैकस्यैते धर्मा इति अत्र कः प्रतिषेधहेतुर् इति?
अर्थस्याभेद इति चेत् समानम्। अभिन्नार्था एते शब्दा इति तत्र व्यवस्थानुपपत्तिर् इत्य् एवं चेन् मन्यसे, समानं भवति --- पुरुषश् चेतयते बुद्धिर् जानीते इत्य् अत्राप्य् अर्थो न भिद्यते तत्रोभयोश् चेतनत्वाद् अन्यतरलोप इति। यदि पुनर् बुध्यतेऽनयेति बोधनं बुद्धिः मन एवोच्यते तच् च नित्यम्,
एवोच्यते तच् च नित्यम्,] पृ.८१४
अस्त्व् एतद् एवम्, न तु मनसो विषयप्रत्यभिज्ञानान् नित्यत्वम्। दृष्टं हि करणभेदे ज्ञातुर् एकत्वात् प्रत्यभिज्ञानं ’सव्यदृष्टस्येतरेण प्रत्यभिज्ञानाद्ऽ इति।


चक्षुर्वत् प्रदीपवच् च॑ प्रदीपान्तरदृष्टस्य प्रदीपान्तरेण प्रत्यभिज्ञानम् इति। तस्माज् ज्ञातुर् अयं नित्यत्वे हेतुर् इति॥३॥


********************** न्यायभाष्यम्३,२.४ **********************
यच् च मन्यते बुद्धेर् अवस्थिताया यथाविषयं वृत्तयो ज्ञानानि निश्चरन्ति वृत्तिश् च वृत्तिमतो नान्येति, तच् च ---
न्याभा३,२.४_ न, युगपद् अग्रहणात् ॥
वृत्तिवृत्तिमतोर् अनन्यत्वे वृत्तिमतोऽवस्थानाद् वृत्तीनाम् अवस्थानम् इति यानीमानि विषयग्रहणानि तान्य् अवतिष्टन्त इति युगपद् विषयाणां ग्रहणं प्रसज्यत इति॥४॥


********************** न्यायभाष्यम्३,२.५ **********************


न्याभा३,२.५_ अप्रत्यभिज्ञाने च विनाशप्रसङ्गः ॥
अतीते च प्रत्यभिज्ञाने वृत्तिमान् अप्य् अतीत इत्य् अन्तःकरणस्य विनाशः प्रसज्यते, विपर्यये च नानात्वम् इति॥५॥


********************** न्यायभाष्यम्३,२.६ **********************
अविभु चैकं मनः पर्यायेणेन्द्रियैः संयुज्यत इति ---
न्याभा३,२.६_ क्रमवृत्तित्वाद् अयुगपद् ग्रहणम् ॥
इन्द्रियार्थानाम्, वृत्तिवृत्तिमतोर् नानात्वम् इति।


********************** न्यायभाष्यम्३,२.७ **********************


न्याभा३,२.७_ अप्रत्यभिज्ञानं च विषयान्तरव्यासङ्गात् ॥
अप्रत्यभिज्ञानम् अनुपलब्धिः। अनुपलब्धिश् च कस्याचिद् अर्थस्य विषयान्तरव्यासक्ते मनस्य् उपपद्यते वृत्तिवृत्तिमतोर् नानात्वात्, एकत्वे हि अनर्थको व्यासङ्ग इति॥७॥


********************** न्यायभाष्यम्३,२.८ **********************
विभुत्वे चान्तःकरणस्य पर्यायेणेन्द्रियैः संयोगः ---
न्याभा३,२.८_ न, गत्यभावात् ॥
प्राप्तानीन्द्रियाण्य् अन्तःकरणेनेति प्राप्त्यर्थस्य गमनस्याभावः। तत्र क्रमवृत्तित्वाभावाद् अयुगपद् ग्रहणानुपपत्तिर् इति।


गत्यभावाच् च प्रतिषिद्धं विभुनोऽन्तःकरणस्यायुगपद्ग्रहणं न लिङ्गान्तरेणानुमीयते इति। यथा चक्षुषो गतिः प्रतिषिद्धा सन्निकृष्टविप्रकृष्टयोस् तुल्यकालग्रहणात् पाणिचन्द्रमसोर् व्यवधानेन प्रतीघाते सोऽनुमीयत इति सोऽयं नान्तः करणे विवादो न तस्य नित्यत्वे।
करणे विवादो न तस्य नित्यत्वे] पृ.८१९
सिद्धं हि मनोऽन्तःकरणं नित्यं चेति। क्व तर्हि विवादः? तस्य विभुत्वे, तच् च प्रमाणतोऽनुपलब्धेः प्रतिषिद्धम् इति। एकं चान्तःकरणं नाना चैता ज्ञानात्मका वृत्तयः, चक्षुर्विज्ञानं घ्राणविज्ञानं रूपविज्ञानं गन्धविज्ञानम्। एतच् च वृत्तिवृत्तिमतोर् एकत्वेऽनुपपन्नम् इति। पुरुषो जानीते नान्तःकरणम् इति। एतेन विषयान्तरव्यासङ्गः प्रत्युक्तः। विषयान्तरग्रहणलक्षणो विषयान्तरव्यासङ्गः पुरुषस्य नान्तःकरणस्येति, केनचिद् इन्द्रियेण सन्निधिः केनचिद् असन्निधिर् इत्य् अयं तु व्यासङ्गोऽनुज्ञायते मनस इति॥८॥


********************** न्यायभाष्यम्३,२.९ **********************


एकम् अन्तःकरणं नाना वृत्तय इति। सत्य् अभेदे वृत्तेर् इदम् उच्यते ---
न्याभा३,२.९_ स्फटिकान्यत्वाभिमानवत् तदन्यत्वाभिमानः ॥
तस्यां वृत्तौ नानात्वाभिमानः, यथा द्रव्यान्तरोपहिते स्फटिके अन्यत्वाभिमानो नीलो लोहित इति॑ एवं विषयान्तरोपधानाद् इति।


न हेत्वभावात्। स्फटिकान्यत्वाभिमानवद् अयं ज्ञानेषु नानात्वाभिमानो गौणो न पुनर् गन्धाद्यन्यत्वाभिमानवद् इति हेतुर् नास्ति हेत्वभावाद् अनुपपन्न इति। समानो हेत्वभाव इति चेत् न ज्ञानानां क्रमेणोपजनापायदर्शनात् --- क्रमेण हीन्द्रियार्थेषु ज्ञानान्य् उपजायन्ते चापयन्ति चेति दृश्यते।
चापयन्ति चेति दृश्यते।] पृ.८२२
तस्माद् गन्धाद्यन्यत्वाभिमानवद् अयं ज्ञानेषु नानात्वाभिमान इति॥९॥


********************** न्यायभाष्यम्३,२.१० **********************


स्फटिकान्यत्वाभिमानवद् इत्य् एतद् अमृष्यमाणः क्षणिकवाद्य् आह ---
न्याभा३,२.१०_ स्फटिकेऽप्य् अपरापरोत्पत्तेः क्षणिकत्वाद् व्यक्तीनाम् अहेतुः ॥


स्फटिकस्याभेदेनावस्थितस्योपधानभेदान् नानात्वाभिमान इत्य् अयम् अविद्यमानहेतुकः पक्षः। कस्मात्? स्फटिकेऽप्य् अपरापरोत्पत्तेः। स्फटिकेऽपि अन्या व्यक्तय उत्पद्यन्ते अन्या निरुध्यन्त इति। कथम्? क्षणिकत्वाद् व्यक्तीनाम्। क्षणश् चाल्पीयान् कालः क्षणस्थितिकाः क्षणिकाः। कथं पुनर् गम्यते क्षणिका व्यक्तय इति? उपचयापचयप्रबन्धदर्शनाच् छरीरादिषु। पक्तिनिर्वृत्तस्याहाररसस्य शरीरे रुधिरादिभावेनोपचयोऽपचयश् च प्रबन्धेन प्रवर्त्तते। उपचयाद् व्यक्तीनाम् उत्पादः, अपचयाद् व्यक्तिनिरोधः। एवं च सत्य् अवयवपरिणामभेदेन वृद्धिः शरीरस्य कालान्तरे गृह्यते इति सोऽयं व्यक्तिविशेषधर्मो व्यक्तिमात्रे वेदितव्य इति॥१०॥


********************** न्यायभाष्यम्३,२.११ **********************


न्याभा३,२.११_ नियमहेत्वभावाद् यथादर्शनम् अभ्यनुज्ञा ॥
सर्वासु व्यक्तिषु उपचयापचयप्रबन्धः शरीरवद् इति नायं नियमः। कस्मात्? हेत्वभावात्। नात्र प्रत्यक्षम् अनुमानं वा प्रतिपादकम् अस्तीति। तस्माद् यथादर्शनम् अभ्यनुज्ञा। यत्र यत्रोपचयापचयप्रबन्धो दृश्यते, तत्र तत्र व्यक्तीनाम् अपरापरोत्पत्तिर् उपचयापचयप्रबन्धदर्शनेनाभ्यनुज्ञायते,
र् उपचयापचयप्रबन्धदर्शनेनाभ्यनुज्ञायते,] पृ.८२६
यथा शरीरादिषु। यत्र यत्र न दृश्यते तत्र तत्र प्रत्याख्यायते यथा ग्रावप्रभृतिषु। स्फटिकेऽप्य् उपचयापचयप्रबन्धो न दृश्यते, तस्माद् अयुक्तं स्फटिकेऽप्य् अपराप्रोत्पत्तिर् इति। यथा चार्कस्य कटुकिम्ना सर्वद्रव्याणां कटुकिमानाम् आपादयेत् तादृग् एतद् इति॥११॥


********************** न्यायभाष्यम्३,२.१२ **********************
यश् चाशेषनिरोधेनापूर्वोत्पादं निरन्वयं द्रव्यसन्ताने क्षणिकतां मन्यते तस्यैतत् ---
न्याभा३,२.१२_ नोत्पत्तिविनाशकारणोपलब्धेः ॥
उत्पत्तिकारणं तावद् उपलभ्यते अवयवोपचयो वल्मीकादीनाम्, विनाशकारणं चोपलभ्यते घटादीनाम् अवयवविभागः।
लभ्यते घटादीनाम् अवयवविभागः।] पृ.८२७
यस्य त्व् अनपचितावयवं निरुध्यते अनुपचितावयवं चोत्पद्यते तस्याशेषनिरोधे निरन्वये वापूर्वोत्पादे न कारणम् उभयत्राप्य् उपलभ्यते इति॥१२॥


********************** न्यायभाष्यम्३,२.१३ **********************


८२९
न्याभा३,२.१३_ क्षीरविनाशे कारणानुपलब्धिवद् दध्युत्पत्तिवच् च तदुपपत्तिः ॥
यथानुपलभ्यमानं क्षीरविनाशकारणं दध्युत्पत्तिकारणं चाभ्यनुज्ञायते तथा स्फटिके परापरासु व्यक्तिषु विनाशकारणम् उत्पादकारणं चाभ्यनुज्ञेयम् इति॥१३॥


********************** न्यायभाष्यम्३,२.१४ **********************


न्याभा३,२.१४_ लिङ्गतो ग्रहणान् नानुपलब्धिः ॥
क्षीरविनाशलिङ्गं क्षीरविनाशकारणं दध्युत्पत्तिलिङ्गं दध्युत्पत्तिकारणं च गृह्यतेऽतो नानुपलब्धिः, विपर्ययस् तु स्फटिकादिषु द्रव्येषु अपरापरोत्पत्तौ व्यक्तीनां न लिङ्गम् अस्तीत्य् अनुत्पत्तिर् एवेति॥१४॥


********************** न्यायभाष्यम्३,२.१५ **********************


अत्र कश्चित् परिहारम् आह ---
न्याभा३,२.१५_ न पयसः परिणामगुणान्तरप्रादुर्भावात् ॥
पयसः परिणामो न विनाश इत्य् एक आह। परिणामश् चावस्थितस्य द्रव्यस्य पूर्वधर्मनिवृत्तौ धर्मान्तरोत्पत्तिर् इति।
गुणान्तरप्रादुर्भाव इत्य् अपर आह। सता द्रव्यस्य पूर्वगुणनिवृत्तौ गुणान्तरम् उत्पद्यत इति। स खल्व् एकपक्षीभाव इव॥१५॥


********************** न्यायभाष्यम्३,२.१६ **********************


अत्र तु प्रतिषेधः ---
न्याभा३,२.१६_ व्यूहान्तराद् द्रव्यान्तरोत्पत्तिदर्शनं पूर्वद्रव्यनिवृत्तेर् अनुमानम् ॥
संमूर्छनलक्षणाद् अवयवव्यूहाद् द्रव्यान्तरे दध्नि उत्पन्ने गृह्यमाणे पूर्वं पयोद्रव्यम् अवयवविभागेभ्यो निवृत्तम् इत्य् अनुमीयते, यथा मृदवयवानां व्यूहान्तराद् द्रव्यान्तरे स्थाल्याम् उत्पन्नायां पूर्वं मृत्पिण्डद्रव्यं मृदवयवविभागेभ्यो निवर्त्तते इति। मृद्वच् चावयवान्वयः पयोदध्नोर् नाशेषनिरोधे निरन्वयो द्रव्यान्तरोत्पादो घटत इति॥१६॥


********************** न्यायभाष्यम्३,२.१७ **********************


अभ्यनुज्ञाय च निष्कारणं क्षीरविनाशं दध्युत्पादं च प्रतिषेध उच्यते ---
न्याभा३,२.१७_ क्वचिद् विनाशकारणानुपलब्धेः क्वचिच् चोपलब्धेर् अनेकान्तः ॥
क्षीरदधिवन् निष्कारणौ विनाशोत्पादौ स्फटिकव्यक्तीनाम् इति नायम् एकान्त इति। कस्मात्? हेत्वभावात्। नात्र हेतुर् अस्ति अकारणौ विनाशोत्पादौ स्फटिकादिव्यक्तीनां क्षीरदधिवत्, न पुनर् यथा विनाशकारणभावात् कुम्भस्य विनाश उत्पत्तिकारणभावाच् चोत्पत्तिः एवं स्फटिकादिव्यक्तीनां विनाशोत्पत्तिकारणभावाद् विनाशोत्पत्तिभाव इति।


निरधिष्ठानं च दृष्टान्तवचनम्। गृह्यमाणयोर् विनाशोत्पादयोः स्फटिकादिषु स्याद् अयम् आश्रयवान् दृष्टान्तः क्षीरविनाशकारणानुपलब्धिवद् दध्युत्पत्तिवच् चेति, तौ तु न गृह्येते। तस्मान् निरधिष्ठानोऽयं दृष्टान्त इति।
अभ्यनुज्ञाय च स्फटिकस्योत्पादविनाशौ योऽत्र साधकस् तस्याभ्यनुज्ञानाद् अप्रतिषेधः। कुम्भवन् न निष्कारणौ विनाशोत्पादौ स्फटिकादीनाम् इत्य् अनुज्ञेयोऽयं दृष्टान्तः प्रतिषेद्धम् अशक्यत्वात्। क्षीरदधिवत् तु निष्कारणौ विनाशोत्पादाव् इति शक्योऽयं प्रतिषेद्धुं कारणतो विनाशोत्पत्तिदर्शनात्। क्षीरदध्नोर् विनाशोत्पत्ती पश्यता तत्कारणम् अनुमेयं कार्यलिङ्गं हि कारणम् इति॥१७॥


********************** न्यायभाष्यम्३,२.१८ **********************


उपपन्नम् अनित्या बुद्धिर् इति। इदं तु चिन्त्यते कस्येयं बुद्धिर् आत्मेइन्द्रियमनोऽर्थानां गुण इति। प्रसिद्धोऽपि खल्व् अयम् अर्थः परीकषाशेषं प्रवर्त्तयामीति प्रक्रियते। सोऽयं बुद्धौ सन्निकर्षोत्पत्तेः संशयः विशेषस्याग्रहणाद् इति। तत्रायं विशेषः
न्याभा३,२.१८_ नेन्द्रियार्थयोस् तद्विनाशेऽपि ज्ञानावस्थानात् ॥
नेन्द्रियाणाम् वा गुणो ज्ञानं तेषां विनाशोऽपि ज्ञानस्य भावात्। भवति खल्व् इदम् इन्द्रियेऽर्थे च विनष्टे ज्ञानम् अद्राक्षम् इति। न च ज्ञातरि विनष्थे ज्ञानं भवितुम् अर्हति। अन्यत् खलु वै तद् इन्द्रियार्थसन्निकर्षजं ज्ञानं यद् इन्द्रियार्थविनाशे न भवति।
भवति] पृ.८५१
इदम् अन्यद् आत्ममनःसन्निकर्षजम्, तस्य युक्तो भाव इति।स्मृतिः खल्व् इयम् अद्राक्षम् इति पूर्वदृष्टविषया। न च विज्ञातरि नष्टे पूर्वोपलब्धेः स्मरणं युक्तम्, न चान्यदृष्टम् अन्यः स्मरति। न च मनसि ज्ञातर्य् अभ्युपगम्यमाने शक्यम् इन्द्रियार्थयोर् ज्ञातृत्वं प्रतिपादयितुम्॥१८॥


********************** न्यायभाष्यम्३,२.१९ **********************
आस्तु तर्हि मनोगुणा ज्ञानम् ---
न्याभा३,२.१९_ युगपज् ज्ञेयानुपलब्धेश् च न मनसः ॥
युगपज् ज्ञेयानुपलब्धिर् अन्तःकरणस्य लिङ्गम्, तत्र युगपज् ज्णेयानुपलब्ध्या यद् अनुमीयते अन्तःकरणम्, न तस्य गुणो ज्ञानम्। कस्य तर्हि? ज्ञस्य वशित्वात्।


वशी ज्ञाता वश्यं करणम्, ज्ञानगुणत्वे च करणभावनिवृत्तिः। घ्राणादिसाधनस्य च ज्ञातुर् गन्धादिज्ञानभावाद् अनुमीयते अन्तःकरणसाधनस्य सुखादिज्ञानं स्मृतिश् चेति। तत्र यज् ज्ञानगुणं मनः स आत्मा, यत् तु सुखाद्युपलब्धिसाधनम् अन्तःकरणं मनस् तद् इति संज्ञाभेदमात्रं नार्थभेद इति।


युगपज् ज्ञेयोपलब्धेश् च योगिन इति वा चार्थः। योगी खलु ऋद्धौ प्रादुर्भूतायां विकरणधर्मा निर्माय सेन्द्रियाणि शरीरान्तराणि तेषु युगपज् ज्ञेयान्य् उपलभते। तच् चैतद् विभौ ज्ञातर्य् उपपद्यते नाणौ मनसीति। विभुत्वे वा मनसो ज्ञानस्य नात्मगुणत्वप्रतिषेधः। विभु च मनस्तदन्तःकरणभूतम् इति तस्य सर्वेन्द्रियैर् युगपत् संयोगाद् युगपज् ज्ञानान्य् उत्पद्येरन्न् इति॥१९॥


********************** न्यायभाष्यम्३,२.२० **********************


न्याभा३,२.२०_ तदात्मगुणत्वेऽपि तुल्यम् ॥
विभुर् आत्मा सर्वेन्द्रियैः संयुक्त इति युगपज् ज्ञानोत्पत्तिप्रसङ्ग इति॥२०॥


********************** न्यायभाष्यम्३,२.२१ **********************


न्याभा३,२.२१_ इन्द्रियैर् मनसः सन्निकर्षाभावात् तदनुत्पत्तिः ॥
गन्धाद्युपलब्धेर् इन्द्रियार्थसन्निकर्षवद् इन्द्रियमनःसन्निकर्षोऽपि कारणम्, तस्य चायौगपद्यम् अणुत्वान् मनसः। अयौगपद्याद् अनुत्पत्तिर् युगपज् ज्ञानानाम् आत्मगुणत्वेऽपीति॥२१॥


********************** न्यायभाष्यम्३,२.२२ **********************
यदि पुनर् आत्मेन्द्रियार्थसन्निकर्षमात्राद् गन्धादिज्ञानम् उत्पद्येत?
न्याभा३,२.२२_ नोत्पत्तिकारणानपदेशात् ॥
आत्मेन्द्रियसन्निकर्षमात्राद् गन्धादिज्ञानम् उत्पद्यते इति, नात्रोत्पत्तिकारणम् अपदिश्यते येनैतत् प्रतिपद्येमहीति॥२२॥


********************** न्यायभाष्यम्३,२.२३ **********************


न्याभा३,२.२३_ विनाशकारणानुपलब्धेश् चावस्थाने तन्नित्यत्वप्रसङ्गः ॥
’’तदात्मगुणत्वेऽपि तुल्यम्ऽऽ इत्य् एतद् अनेन समुच्चीयते। द्विविधो हि गुणनाशहेतुः, गुणानाम् आश्रयाभावो विरोधी च गुणः। नित्यत्वाद् आत्मनोऽनुपपन्नः पूर्वः, विरोधी च बुद्धेर् गुणो न गृह्यते --- तस्माद् आत्मगुणत्वे सति बुद्धेर् नित्यत्वप्रसङ्गः॥२३॥


********************** न्यायभाष्यम्३,२.२४ **********************


न्याभा३,२.२४_ अनित्यत्वग्रहाद् बुद्धेर् बुद्ध्यन्तराद् विनाशः शब्दवत् ॥
अनित्या बुद्धिर् इति सर्वशरीरिणां प्रत्यात्मवेदनीयम् एतत्। गृह्यते च बुद्धिसन्तानः तत्र बुद्धेर् बुद्ध्यन्तरं विरोधी गुण इत्य् अनुमीयते यथा शब्दसन्ताने शब्दः शब्दान्तरविरोधीति॥२४॥


********************** न्यायभाष्यम्३,२.२५ **********************


असङ्ख्येयेषु ज्ञानकारितेषु संस्कारेषु स्मृतिहेतुष्व् आत्मसमवेतेष्व् आत्ममनसोश् च सन्निकर्षे समाने स्मृतिहेतौ सति न कारणस्यायौगपद्यम् अस्तीति युगपत् स्मृतयः प्रादुर्भवेयुः यदि बुद्धिर् आत्मगुणः स्याद् इति। तत्र कश्चित् सन्निकर्षस्यायौगपद्यम् उपपादयिष्यन्न् आह ---
न्याभा३,२.२५_ ज्ञानसमवेतात्मप्रदेशसन्निकर्षान् मनसः स्मृत्युत्पत्तेर् न युगपदुत्पत्तिः ॥
ज्ञानसाधनः संस्कारो ज्ञानम् इत्य् उच्यते ज्ञानसंस्कृतैर् आत्मप्रदेशैः पर्यायेण मनः सन्निकृष्यते। आत्ममनःसन्निकर्षात् स्मृतयोऽपि पर्यायेण भवन्तीति॥२५॥


********************** न्यायभाष्यम्३,२.२६ **********************


न्याभा३,२.२६_ नान्तःशरीरवृत्तित्वान् मनसः ॥
सदेहस्यात्मनो मनसा संयोगो विपच्यमानकर्माशयसहितो जीवनम् इष्यते। तत्रास्य प्राक् प्रायणाद् अन्तःशरीरे वर्तमानस्य मनसः शरीराद् बहिर्ज्ञानसंस्कृतैर् आत्मप्रदेशैः संयोगो नोपपद्यत इति॥२६॥


********************** न्यायभाष्यम्३,२.२७ **********************


न्याभा३,२.२७_ साध्यत्वाद् अहेतुः ॥
विपच्यमानकर्माशयमात्रं जीवनम्, एवं च सति साध्यम् अन्तःशरीरवृत्तित्वं मनस इति॥२७॥


********************** न्यायभाष्यम्३,२.२८ **********************


न्याभा३,२.२८_ स्मरतः शरीरधारणोपपत्तेर् अप्रतिषेधः ॥
सुस्मूर्षया खल्व् अयं मनः प्रणिदधानश् चिराद् अपि कंचिद् अर्थं स्मरति, स्मरतश् च शरीरधारणं दृश्यते। आत्ममनःसन्निकर्षजश् च प्रयत्नो द्विविधः --- धारकः प्रेरकश् च, निःसृते च शरीराद् बहिर् मनासि धारकस्य प्रयत्नस्याभावाद् गुरुत्वात् पतनं स्यात् शरीरस्य स्मरत इति॥२८॥०


********************** न्यायभाष्यम्३,२.२९ **********************


न्याभा३,२.२९_ न तदाशुगतित्वान् मनसः ॥
आशुगति मनः तस्य बहिःशरीरात्मप्रदेशेन ज्ञानसंस्कृतेन सन्निकर्षः, प्रत्यागतस्य च प्रयत्नोत्पादनम् उभयं युज्यत इति। उत्पाद्य वा धारकं प्रयत्नं शरीरान् निःसरणं मनसः, अतस् तत्रोपपन्नं धारणम् इति॥२९॥


********************** न्यायभाष्यम्३,२.३० **********************


न्याभा३,२.३०_ न स्मरणकालानियमात् ॥
किञ्चित् क्षिप्रं स्मर्यते किञ्चिच् चिरेण। यदा चिरेण, तदा सुस्मूर्षया मनसि धार्यमाणे चिन्ताप्रबन्धे सति कस्यचिद् अर्थस्य लिङ्गभूतस्य चिन्तनम् आराधितं स्मृतिहेतुर् भवति। तत्रैतच् चिरनिश्चरिते मनसि नोपपद्यत इति।
शरीरसंयोगानपेक्षश् चात्ममनःसंयोगो न स्मृतिहेतुः शरीरस्य भोगायतनत्वात्।


उपभोगायतनं पुरुषस्य ज्ञातुः शरीरं न ततो निश्चरितस्य मनस आत्मसंयोगमात्रं ज्ञानसुखादीनाम् उत्पत्तौ कल्पते, कॢप्तौ वा शरीरवैयर्थ्यम् इति॥३०॥


********************** न्यायभाष्यम्३,२.३१ **********************


न्याभा३,२.३१_ आत्मप्रेरणयदृच्छाज्ञताभिश् च न संयोगविशेषः ॥
आत्मप्रेरणेन वा मनसो बहिः शरीरात् संयोगविशेषः स्यात्, यदृच्छया वा, आकस्मिकतया ज्ञतया वा मनसः? सर्वथा चानुपपत्तिः। कथम्? स्मर्तव्यत्वात्, इच्छातः स्मरणाज् ज्ञानासम्भवाच् च। यदि तावद् आत्मा अमुष्यार्थस्य स्मृतिहेतुः संस्कारः अमुष्मिन्न् आत्मदेशे समवेतस् तेन मनः संयुज्यताम् इति मनः प्रेरयति तदा स्मृत एवासाव् अर्थो भवति न स्मर्तव्यः। न चात्मप्रत्यक्ष आत्मप्रदेशः संस्कारो वा, तत्रानुपपन्नात्मप्रत्यक्षेण संवित्तिर् इति। सुस्मूर्षया चायं मनः प्रणिदधानश् चिराद् अपि कञ्चिद् अर्थं स्मरति नाकस्मात्, ज्ञत्वं च मनसो नास्ति ज्ञानप्रतिषेधाद् इति॥३१॥


********************** न्यायभाष्यम्३,२.३२ **********************


एतच् च ---
न्याभा३,२.३२_ व्यासक्तमनसः पादव्यथनेन संयोगविशेषेण समानम् ॥
यदा खल्व् अयं व्यासक्तमनाः क्वचिद् देशे शर्करया कण्टकेन वा पादव्यथनम् आप्नोति तदा आत्ममनः संयोगविशेष एषितव्यः, दृष्टं हि दुःखं दुःखवेदनं चेति। तत्रायं समानः प्रतिषेधः। यदृच्छया तु न विशेषो नाकस्मिकी क्रिया नाकस्मिकः संयोग इति।
कर्मादृष्टम् उपभोगार्थं क्रियाहेतुर् इति चेत् समानम्। कर्मादृष्टं पुरुषस्थं पुरुषोपभोगार्थं मनसि क्रियाहेतुः एवं दुःखं दुःखसंवेदनं च सिध्यतीत्य् एवं चेन् मन्यसे, समानम् --- स्मृतिहेताव् अपि संयोगविशेषो भवितुम् अर्हति। तत्र यद् उक्तम् ’’ात्मप्रेरणयदृच्छाज्ञताभिश् च न संयोगविशेषःऽऽ इत्य् अयम् अप्रतिषेध इति। पूर्वस् तु प्रतिषेधो ’’नान्तःशरीरवृत्तित्वान् मनसऽऽ इति॥३२॥


********************** न्यायभाष्यम्३,२.३३ **********************


८६३
कः खल्व् इदानीं कारणयौगपद्यसद्भावे युगपद् अस्मरणस्य हेतुर् इति?
न्याभा३,२.३३_ प्रणिधानलिङ्गादिज्ञानानाम् अयुगपद्भावाद् युगपद् अस्मरणम् ॥
यथा खल्व् आत्ममनसोः सन्निकर्षः संस्कारश् च स्मृतिहेतुर् एवं प्रणिधानं लिङ्गादिज्ञानानि तानि च न युगपद्भवन्ति तत्कृता स्मृतीनां युगपद् अनुत्पत्तिर् इति। प्रतिभवत् तु प्रणिधानाद्यनपेक्षे स्मार्ते यौगपद्यप्रसङ्गः। यत् खल्व् इदं प्रातिभम् इव ज्ञानं प्रणिधानाद्यनपेक्षं स्मार्त्तम् उत्पद्यते कदाचित् तस्य युगपदुत्पत्तिप्रसङ्गो हेत्वभावात्। सतः स्मृतिहेतोर् असंवेदनात् प्रातिभेन समानाभिमानः। बह्वर्थविषये वै चिन्ताप्रबन्धे कश्चिद् एवार्थः कस्यचित् स्मृतिहेतुः,
चिन्ताप्रबन्धे कश्चिद् एवार्थः कस्यचित् स्मृतिहेतुः,] पृ.८६४
तस्यानुचिन्तनात् तस्य स्मृतिर् भवति। न चायं स्मर्ता सर्वं स्मृतिहेतुं संवेदयते एवं मे स्मृतिर् उत्पन्नेति। असंवेदनात् प्रातिभम् इव ज्ञानम् इदं स्मार्तम् इति अभिमन्यते, न त्व् अस्ति प्रणिधानाद्यनपेक्षं स्मार्तम् इति।
प्रातिभे कथम् इति चेत् पुरुषकर्मविशेषाद् उपभोगवन् नियमः। प्रातिभम् इदानीं ज्ञानं युगपत् कस्मान् नोत्पद्यते? यथोपभोगार्थं कर्म युगपदुपभोगं न करोति एवं पुरुषकर्मविशेषः प्रतिभाहेतुर् न युगपद् अनेकं प्रातिभं ज्ञानम् उत्पादयति।
हेत्वभावाद् अयुक्तम् इति चेत्, न करणस्य प्रत्ययपर्याये सामर्थ्यात्। ’’ुपभोगवन् नियमऽऽ इत्य् अस्ति दृष्टान्तो हेतुर् नास्तीति चेन् मन्यसे? न, करणस्य प्रत्ययपर्याये सामर्थ्यात्। नैकस्मिन् ज्ञेये युगपद् अनेकं ज्ञानम् उत्पद्यते, न चानेकस्मिन्। तद् इदं दृष्टेन प्रत्ययपर्यायेणानुमेयं करणसामर्थ्यम् इत्थम्भूतम् इति न ज्ञातुः विकरणधर्मणो देहनानात्वे प्रत्यययौगपद्याद् इति।
प्रत्ययपर्यायेणानुमेयं करणसामर्थ्यम् इत्थम्भूतम् इति न ज्ञातुः विकरणधर्मणो देहनानात्वे प्रत्यययौगपद्याद् इति।] पृ.८६५
अयं च द्वितीयः प्रतिषेधः, अवस्थितशरीरस्य चानेकज्ञानसमवायाद् एकप्रदेशे युगपद् अनेकार्थस्मरणं स्यात्। क्वचिद् देशेऽवस्थितशरीरस्य ज्ञातुर् इन्द्रियार्थप्रबन्धेन ज्ञानम् अनेकम् एकस्मिन्न् आत्मप्रदेशे समवैति। तेन यदा मनः संयुज्यते तदा ज्ञातपूर्वस्यानेकस्य युगपत् स्मरणं प्रसज्यते प्रदेशसंयोगपर्यायाभावाद् इति। आत्मप्रदेशानाम् अद्रव्यान्तरत्वाद् एकार्थसमवायस्याविशेषे सति स्मृतियौगपद्यप्रतिषेधानुपपत्तिः।


शब्दसन्ताने तु श्रोत्राधिष्ठानप्रत्यासत्त्या शब्दश्रवणवत् संस्कारप्रत्यासत्त्या मनसः स्मृत्युत्पत्तेर् न युगपद् उत्पत्तिप्रसङ्गः। पूर्व एव तु प्रतिषेधो नानेकज्ञानसमवायाद् एकप्रदेशे युगपत् स्मृतिप्रसङ्ग इति॥३३॥


********************** न्यायभाष्यम्३,२.३४ **********************
पुरुषधर्मो ज्ञानम् अन्तःकरणस्येच्छाद्वेषप्रयत्नसुखदुःखानि धर्मा इति कस्यचिद् दर्शनम्, तत् प्रतिषिध्यते ---


न्याभा३,२.३४_ ज्ञस्येच्छाद्वेषनिमित्तत्वाद् आरम्भनिवृत्त्योः ॥
अयं खलु जानाति तावद् इदं मे सुखसाधनम् इदं मे दुःखसाधनम् इति ज्ञात्वा स्वस्य सुखसाधनम् आप्तुम् इच्छति, दुःखसाधनं हातुम् इच्छति, प्राप्तीच्छाप्रयुक्तस्यास्य सुखसाधनावाप्तये समीहाविशेष आरम्भः, जिहासाप्रयुक्तस्य दुःखसाधनपरिवर्जनं निवृत्तिः, एवं ज्ञानेच्छाप्रयत्नद्वेषसुखदुःखानाम् एकेनाभिसम्बन्धः। एककर्तृकत्वं ज्ञानेच्छाप्रवृत्तीनां समानाश्रयत्वं च। तस्माज् ज्ञस्येच्छाद्वेषप्रयत्नसुखदुःखानि धर्मा नाचेतनस्येति। आरम्भनिवृत्त्योश् च प्रत्यगात्मनि दृष्टत्वात् परत्रानुमानं वेदितव्यम् इति॥३४॥


********************** न्यायभाष्यम्३,२.३५ **********************


अत्र भूतचैतनिक आह ---
न्याभा३,२.३५_ तल्लिङ्गत्वाद् इच्छाद्वेषयोः पार्थिवाद्येष्व् प्रतिषेधः ॥
आरम्भनिवृत्तिलिङ्गाव् इच्छाद्वेषाव् इति यस्यारम्भनिवृत्ती तस्येच्छाद्वेषौ तस्य ज्ञानम् इति प्राप्तं पार्थिवाप्य् अतैजसवायवीयानां शरीराणाम् आरम्भनिवृत्तिदर्शनाद् इच्छाद्वेषज्ञानैर् योग इति चैतन्यम्॥३५॥


********************** न्यायभाष्यम्३,२.३६ **********************


न्याभा३,२.३६_ परश्वादिष्व् आरम्भनिवृत्तिदर्शनात् ॥
शरीरे चैतन्यनिवृत्तिः। आरम्भनिवृत्तिदर्शनाद् इच्छाद्वेषज्ञानैर् योग इति प्राप्तं परश्वादेः करणस्यारम्भनिवृत्तिदर्शनाच् चैतन्यम् इति। अथ शरीरस्येच्छादिभिर् योगः, परश्वादेस् तु करणस्यारम्भनिवृत्ती व्यभिचरतः, न तर्ह्य् अयं हेतुः पार्थिवाप्य् अतैजसवायवीयानां शरीराणाम् आरम्भनिवृत्तिदर्शनाद् इच्छाद्वेषज्ञानैर् योग इति।


अयं तर्ह्य् अन्योऽर्थः --- तल्लिङ्गत्वाद् इच्छाद्वेषयोः पार्थिवाद्येष्व् अप्रतिषेधः। पृथिव्यादीनां भूतानाम् आरम्भस् तावत् त्रसस्थावरशरीरेषु तदवयवव्यूहलिङ्गः प्रवृत्तिविशेषः लोष्टादिषु च लिङ्गाभावात् प्रवृत्तिविशेषाभावो निवृत्तिः। आरम्भनिवृत्तिलिङ्गाव् इच्छाद्वेषाव् इति पार्थिवाद्येष्व् अणुषु तद्दर्शनाद् इच्छाद्वेषयोगस् तद्योगाज् ज्ञानयोग इति सिद्धं भूतचैतन्यम् इति।
कुम्भादिष्व् अनुपलब्धेर् अहेतुः। कुम्भादिमृदवयवानां व्यूहलिङ्गः प्रवृत्तिविशेष आरम्भः, सिकतादिषु प्रवृत्तिविशेषाभावो निवृत्तिः। न च मृत्सिकतानाम् आरम्भनिवृत्तिदर्शनाद् इच्छाद्वेषप्रयत्नज्ञानैर् योगः। तस्मात् तल्लिङ्गत्वाद् इच्छाद्वेषयोर् इत्य् अहेतुर् इति॥३६॥


********************** न्यायभाष्यम्३,२.३७ **********************


न्याभा३,२.३७_ नियमानियमौ तु तद्विशेषकौ ॥
तयोर् इच्छाद्वेषयोर् नियमानियमौ विशेषकौ भेदकौ। ज्ञस्येच्छाद्वेषनिमित्ते प्रवृत्तिनिवृत्ती न स्वाश्रये।
प्रवृत्तिनिवृत्ती न स्वाश्रये।] पृ.८७०
किं तर्हि? प्रयोज्याश्रये। तत्र प्रयुज्यमानेषु भूतेषु प्रवृत्तिनिवृत्ती स्तः न सर्वेष्व् इत्य् अनियमोपपत्तिः।
यस्य तु ज्ञत्वाद् भूतानाम् इच्छाद्वेषनिमित्ते आरम्भनिवृत्ती स्वाश्रये तस्य नियमः स्यात्, यथा भूतानां गुणान्तरनिमित्ता प्रवृत्तिर् गुणप्रतिबन्धाच् च निवृत्तिर् भूतमात्रे भवति नियमेन, एवं भूतमात्रे ज्ञानेच्छाद्वेषनिमित्ते प्रवृत्तिनिवृत्ती स्वाश्रये स्याताम्, न तु भवतः तस्मात् प्रयोजकाश्रिता ज्ञानेच्छाद्वेषप्रयत्नाः, प्रयोज्याश्रये तु प्रवृत्तिनिवृत्तीति सिद्धम्।


एकशरीरे तु ज्ञातृबहुत्वं निरनुमानम्। भूतचैतनिकस्यैकशरीरे बहूनि भूतानि ज्ञानेच्छाद्वेषप्रयत्नगुणानीति ज्ञातृबहुत्वं प्राप्तम्। ओम् इति ब्रुवतः प्रमाणं नास्ति, यथा नानाशरीरेषु नाना ज्ञातारो बुद्ध्यादिगुणव्यवस्थानात्, एवम् एकशरीरेऽपि बुद्ध्यादिव्यवस्थानुमानं स्याज् ज्ञातृबहुत्वस्येति।


दृष्टश् च अन्यगुणनिमित्तः प्रवृत्तिविशेषो भूतानां सोऽनुमानम् अन्यत्रापि। दृष्टः करणलक्षणेषु भूतेषु परश्वादिषु उपादानलक्षणेषु च मृत्प्रभृतिष्व् अन्यगुणनिमित्तः प्रवृत्तिविशेषः। सोऽनुमानम् अन्यत्रापि त्रसस्थावरशरीरेषु। तदवयवव्यूहलिङ्गः प्रवृत्तिविशेषो भूतानाम् अन्यगुणनिमित्त इति। स च गुणः प्रयत्नसमानाश्रयः संस्कारो धर्माधर्मसमाख्यातः सर्वार्थः पुरुषार्थाराधनाय प्रयोजको भूतानां प्रयत्नवद् इति।
आत्मास्तित्वहेतुभिर् आत्मनित्यत्वहेतुभिश् च भूतचैतन्यप्रतिषेधः कृतो वेदितव्यः। ’’नेन्द्रियार्थयोस् तद्विनाशेऽपि ज्जानावस्थानाद्ऽऽिति च समानः प्रतिषेध इति। क्रियामात्रं क्रियोपरममात्रं चारम्भनिवृत्ती इत्य् अभिप्रेत्योक्तम् ’’तल्लिङ्गत्वाद् इच्छाद्वेषयोः पार्थिवाद्येष्व् अप्रतिषेधःऽऽ। अन्यथा त्व् इमे आरम्भनिवृत्ती आख्याते, न च तथाविधे पृथिव्यादिषु दृश्येते। तस्माद् अयुक्तम् ’’तल्लिङ्गत्वाद् इच्छाद्वेषयोः पार्थिवाद्येष्व् अप्रतिषेधऽऽिति॥३७


********************** न्यायभाष्यम्३,२.३८ **********************


भूतेन्द्रियमनसां समानः प्रतिषेधः, मनस् तूदाहरणमात्रम्।
न्याभा३,२.३८_ यथोक्तहेतुत्वात् पारतन्त्र्याद् अकृताभ्यागमाच् च न मनसः ॥
’’िच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्य् आत्मनो लिङ्गम्ऽऽित्य् अतः प्रभृति यथोक्तं सङ्गृह्यते, तेन भूतेन्द्रियमनसां चैतन्यप्रतिषेधः।
पारतन्त्र्यात् --- परतन्त्राणि भूतेन्द्रियमनांसि धारणप्रेरणव्यूहनक्रियासु प्रयत्नवशात् प्रवर्त्तन्ते, चैतन्ये पुनः स्वतन्त्राणि स्युर् इति।


अकृताभ्यागमाच् च --- ’’प्रवृत्तिर् वाग्बुद्धिशरीरारम्भऽऽिति चैतन्ये भूतेन्द्रियमनसां परकृतं कर्म पुरुषेणोपभुज्यत इति स्यात्, अचैतन्ये तु तत्साधनस्य स्वकृतकर्मफलोपभोगः पुरुषस्येत्य् उपपद्यत इति॥३८॥


********************** न्यायभाष्यम्३,२.३९ **********************


अथायं सिद्धोपसंग्रहः ---
न्याभा३,२.३९_ परिशेषाद् यथोक्तहेतूपपत्तेश् च ॥
आत्मगुणो ज्ञानम् इति प्रकृतम्। परिशेषो नाम ’प्रसक्तप्रतिषेधे अन्यत्राप्रसङ्गाच् छिष्यमाणे सम्प्रत्ययःऽऽ। भूतेन्द्रियमनसां प्रतिषेधे द्रव्यान्तरं न प्रसज्यते शिष्यते चात्मा तस्य गुणो ज्ञानम् इति ज्ञायते।
यथोक्तहेतूपपत्तेश् चेति ’’दर्शनस्पर्शनाभ्याम् एकार्थग्रहणाद्ऽऽित्येवमादीनाम् आत्मप्रतिपत्तिहेतूनाम् अप्रतिषेधाद् इति। परिशेषज्ञापनार्थं प्रकृतस्थापनादिज्ञानार्थं च यथोक्तहेतूपपत्तिवचनम् इति।
अथ वा उपपत्तेश् चेति हेत्वन्तरम् एवेदम्। नित्यः खल्व् अयम् आत्मा, यस्माद् एकस्मिन् शरीरे धर्मं चरित्वा कायस्य भेदात् स्वर्गे देवेषूपपद्यते, अधर्मं चरित्वा देहभेदात् नरकेषूपपद्यत इति। उपपत्तिः शरीरान्तरप्राप्तिलक्षणा, सा सति सत्त्वे नित्ये चाश्रयवती, बुद्धिप्रबन्धमात्रे तु निरात्मके निराश्रया नोपपद्यत इति। एकसत्त्वाधिष्ठानश् चानेकशरीरयोगः संसार उपपद्यते, शरीरप्रबन्धोच्छेदश् चापवर्गो मुक्तिर् इत्य् उपपद्यते। बुद्धिसन्ततिमात्रे त्व् एकसत्त्वानुपपत्तेर् न कश्चिद् दीर्घम् अध्वानं सन्धावति न कश्चिच् छरीरप्रबन्धाद् विमुच्यत इति संसारापवर्गानुपपत्तिर् इति। बुद्धिसन्ततिमात्रे च सत्त्वभेदात् सर्वम् इदं प्राणिव्यवहारजातम् अप्रतिसंहितम् अव्यावृत्तम् अपरिनिष्ठं च स्यात्,
-जातम् अप्रतिसंहितम् अव्यावृत्तम् अपरिनिष्ठं च स्यात्,] पृ.८७६
ततः स्मरणाभावात् नान्यदृष्टम् अन्यः स्मरतीति। स्मरणं च खलु पूर्वज्ञातस्य समानेन ज्ञात्रा ग्रहणम् अज्ञासिषम् अमुम् अर्थं ज्ञेयम् इति। सो .यम् एको ज्ञाता पूर्वज्ञातम् अर्थं गृह्णाति तच् चास्य ग्रहणं स्मरणम् इति, तद् बुद्धिप्रबन्धमात्रे निरात्मके नोपपद्यते॥३९॥


********************** न्यायभाष्यम्३,२.४० **********************


न्याभा३,२.४०_ स्मरणं त्व् आत्मनो ज्ञस्वाभाव्यात् ॥
उपपद्यत इति। आत्मन एव स्मरणं न बुद्धिसन्ततिमात्रस्येति। तुशब्दोऽवधारणे। कथम्? ज्ञस्वभावत्वात्। ज्ञ इति अस्य स्वभावः स्वो धर्मः। अयं खलु ज्ञास्यति जानाति अज्ञासीद् इति त्रिकालविषयेणानेकेन ज्ञानेन सम्बध्यते,
ज्ञास्यति जानाति ... सम्बध्यते,] पृ.८७७
तच् चास्य त्रिकालविषयं ज्ञानं प्रत्यात्मवेदनीयं ज्ञास्यामि जानामि अज्ञासिषम् इति वर्त्तते, तद् यस्यायं स्वो धर्मस् तस्य स्मरणं न बुद्धिप्रबन्धमात्रस्य निरात्मकस्येति॥४०॥


********************** न्यायभाष्यम्३,२.४१ **********************
स्मृतिहेतूनाम् अयौगपद्याद् युगपद् अस्मरणम् इत्य् उक्तम्। अथ केभ्यः स्मृतिर् उत्पद्यत इति? स्मृतिः खलु ---
न्याभा३,२.४१_ प्रणिधाननिबन्धाभ्यासलिङ्गलक्षणसादृश्यपरिग्रहाश्रयाश्रितसम्बन्धानन्तर्यवियोगैककार्यविरोधातिशयप्राप्तिव्यवधानसुखदुःखेच्छाद्वेषभयार्थित्वक्रियारागधर्माधर्मनिमित्तेभ्यः ॥
सुस्मूर्षया मनसो धारणं प्रणिधानं सुस्मूर्षितलिङ्गचिन्तनं चार्थस्मृतिकारणम्। निबन्धः खल्व् एकग्रन्थोपयमोऽर्थानाम्, एकग्रन्थोपयताः खल्व् अर्था अन्योन्यस्मृतिहेतव आनुपूर्व्येणेतरथा वा भवन्तीति।
आनुपूर्व्येणेतरथा वा भवतीति।] पृ.८७८
धारणशास्त्रकृतो वा प्रज्ञातेषु वस्तुषु स्मर्तव्यानाम् उपनिक्षेपो निबन्ध इति।
अभ्यासस् तु समाने विषये ज्ञानानाम् अभ्यावृत्तिः, अभ्यासजनितः संस्कार आत्मगुणोऽभ्यासशब्देनोच्यते, स च स्मृतिहेतुः समान इति।
लिङ्गं पुनः संयोगि समवाय्य् एकार्थसमवायि विरोधि चेति। यथा धूमोऽग्नेः, गोर् विषाणम्, पाणिः पादस्य, रूपं स्पर्शस्य अभूतं भूतस्येति।
लक्षणं पश्ववयवस्थं गोत्रस्य स्मृतिहेतुः, विदानाम् इदं गर्गाणाम् इदम् इति। सादृश्यं चित्रगतं प्रतिरूपकं देवदत्तस्येत्येवमादि। परिग्रहात् स्वेन वा स्वामी स्वामिना वा स्वं स्मर्यते। आश्रयाद् ग्रामण्या तदधीनं संस्मरति। आश्रितात् तदधीनेन ग्रामण्यम् इति। सम्बन्धाद् अन्तेवासिना युक्तं गुरुं स्मरति, ऋत्विजा याज्यम् इति।
याज्यम् इति।] पृ.८७९
आनन्तर्याद् इति करणीयेष्व् अर्थेषु। वियोगाद् येन वियुज्यते तद्वियोगप्रतिसंवेदी भृशं स्मरति। एककार्यात् कर्त्रन्तरदर्शनात् कर्त्रन्तरे स्मृतिः। विरोधात्, विजिगीषमाणयोर् अन्यतरदर्शनाद् अन्यतरः स्मर्यते। अतिशयाद् येनातिशय उत्पादितः। प्राप्तेः यतोऽनेन किंचित् प्राप्तम् आप्तव्यं वा भवति तम् अभीक्ष्णं स्मरति। व्यवधानात् कोशादिभिर् असिप्रभृतीनि स्मर्यन्ते।
कोशादिभिर् असिप्रभृतीनि स्मर्यन्ते।] पृ.८८०
सुखदुःखाभ्यां तद्धेतुः स्मर्यते। इच्छाद्वेषाभ्यां यम् इच्छति यं च द्वेष्टि तं स्मरति। भयाद् यतो बिभेति। अर्थित्वाद् येनार्थी भोजनेनाच्छादनेन वा। क्रियया रथेन रथकारं स्मरति। रागाद् यस्यां स्त्रियां रक्तो भवति ताम् अभीक्ष्णं स्मरति। धर्माज् जात्यन्तरस्मरणम् इह चाधीतश्रुतावधारणम् इति। अधर्मात् प्रागनुभूतदुःखसाधनं स्मरति। न चैतेषु निमित्तेषु युगपत् संवेदनानि भवन्तीति युगपद् अस्मरणम् इति। निदर्शनं चेदं स्मृतिहेतूनां न परिसङ्ख्यानम् इति॥४१॥


********************** न्यायभाष्यम्३,२.४२ **********************


अनित्यायां च बुद्धाव् उत्पन्नापवर्गित्वात् कालान्तरावास्थानाच् च अनित्यानां संशयः किम् उत्पत्पन्नापवर्गिणी बुद्धिः शब्दवत् आहोस्वित् कालान्तरावस्थायिनी कुम्भवद् इति। उत्पन्नापवर्गिणीति पक्षः परिगृह्यते।कस्मात्?
न्याभा३,२.४२_ कर्मानवस्थायिग्रहणात् ॥
कर्मणोऽनवस्थायिनो ग्रहणाद् इति। क्षिप्तस्येषोर् आपतनात् क्रियासन्तानो गृह्यते, प्रत्यर्थनियमाच् च बुद्धीनां क्रियासन्तानवद् बुद्धिसन्तानोउपपत्तिर् इति। अवस्थितग्रहणे च व्यवधीयमानस्य प्रत्यक्शनिवृत्तेः। अवस्थिते च कुम्भे गृह्यमाणे सन्तानेनैव बुद्धिर् वर्तते प्राग् व्यवधानात् तेन व्यवहिते प्रत्यक्षं ज्ञानं निवर्तते,
सन्तानेन इव बुद्धिर् ... ज्,जानं निवर्तते,] पृ.८८२
कालान्तरावस्थाने तु बुद्धेर् दृश्यव्यवधानेऽपि प्रत्यक्षम् अवतिष्ठेतेति।
स्मृतिश् चालिङ्गं बुद्ध्यवस्थाने संस्कारस्य बुद्धिजस्य स्मृतिहेतुत्वात्। यश् च मन्येत अवतिष्ठते बुद्धिः दृष्टा हि बुद्धिविषये स्मृतिः सा च बुद्धाव् अनित्यायां कारणाभावान् न स्याद् इति। तद् इदम् अलिङ्गम्। कस्मात्? बुद्धिजो हि संस्कारो गुणान्तरं स्मृतिहेतुर् न बुद्धिर् इति।


हेत्वभावाद् अयुक्तम् इति चेत्? बुद्ध्यवस्थानात् प्रत्यक्षत्वे स्मृत्यभावः।यावद् अवतिष्ठते बुद्धिस् तावद् असौ बोद्धव्यार्थिः प्रत्यक्षः प्रत्य्स्क्षे च स्मृतिर् अनुपपन्न इति॥४२॥


********************** न्यायभाष्यम्३,२.४३ **********************


न्याभा३,२.४३_ अव्यक्तग्रहणम् अनवस्थायित्वाद् विद्युत्सम्पाते रूपाव्यक्तग्रहण्वत् ॥
यद्य् उत्पन्नापवर्गिणी बुद्धिः प्राप्तम् अव्यक्तं बोद्धव्यस्य ग्रहणम्, यथा विद्युत्सम्पाते वैद्युतस्य प्रकाशस्यानवस्थानाद् अव्यक्तं रूपग्रहणम् इति॑ व्यक्तं तु द्रव्याणां ग्रहणं तस्माद् अयुक्तम् एतद् इति॥४३॥


********************** न्यायभाष्यम्३,२.४४ **********************


न्याभा३,२.४४_ हेतूपादनात् प्रतिषेद्धव्याभ्यनुज्ञा ॥
उतपन्नापवर्गिणी बुद्धिर् इति प्रतिषेद्धव्यं तद् एव अभ्यनुज्ञायते विद्युत्सम्पाते रूपाव्यक्तग्रहणवद् इति।


यत्राव्यक्तग्रहणं तत्रोत्पन्नापवर्गिणी बुद्धिर् इति। ग्रहणहेतुविकल्पाद् ग्रहणविकल्पो न बुद्धिविकल्पात्। यद् इदं क्वचिद् अव्यक्तं क्वचिद् व्यक्तं ग्रहणम् अयं विकल्पो ग्रहणहेतुविकल्पात् यत्रानवस्थितो ग्रहणहेतुः तत्राव्यक्तं ग्रहणम् यत्र अवस्थितस् तत्र व्यक्तम्, न तु बुद्धेर् अवस्थानानवस्थानाभ्याम् इति। कस्मात्? अर्थग्र्हणं हि बुद्धिः यत् तदर्थग्रहणम् अव्यक्तं व्यक्तं वा बुद्धिः सा इति। विशेषाग्रहणे च सामान्यग्रहणमात्रम् अव्यक्तग्रहणं तत्र विषयान्तरे बुद्ध्यनतरानुत्पत्तिर् निमित्ताभावात्। यत्र समानधर्मयुक्तश् च धर्मी गृह्यते विशेषधर्मयुक्तश् च तद् व्यक्तम् ग्रहणम्, यत्र तु विशेषेऽगृह्यमाणे सामान्यग्रहणमात्रं तद् अव्यक्तं ग्रहणम्। समानधर्मयोगाच् च विशिष्थधर्मयोगो विषयान्तरम्, तत्र यद् ग्रहणं न भवति तद् ग्रहणनिमित्ताभावाद् न बुद्धेर् अनवस्थानाद् इति।


यथाविषयं च ग्रहणं व्यक्तम् एव प्रत्यर्थनियतत्वाच् च बुद्धीनाम्। सामान्यविषयं च ग्रहणं स्वविषयं प्रति व्यक्तं विशेषविषयं च ग्रहणं स्वविषयं प्रति व्यक्तं प्रत्यर्थनियता हि बुद्धयः, तद् इदम् अव्यक्तग्रहणं देशितं क्व विषये बुद्ध्यनवस्थानकारितं स्य्यद् इति?
धर्मिणस् तु धर्मभेदे बुद्धिनानात्वस्य भावाभावाभ्यां तदुपपत्तिः।धर्मिणः खल्व् अर्थस्य समानाश् च धर्मा विशिष्टाश् च, तेषु प्रत्यर्थनियता नानाबुद्दयः, ता उभयो यदि धर्मिणि वर्तन्ते तदा व्यकतं ग्रहणं धर्मिणम् अभिप्रेत्य। यदा तु सामान्यग्रहणमात्रं तदाव्यक्तं ग्रहणम् इति। एवं धर्मिणम् अभिप्रेत्य व्यक्ताव्यकतयोर् ग्रहणयोर् उपपत्तिर् इति॥४४॥


********************** न्यायभाष्यम्३,२.४५ **********************


न चेदम् अव्यक्तं ग्रहणं बुद्देर् बोद्धव्यस्य वानवस्थायित्वाद् उपपद्यते इति। इदं हि ---
न्याभा३,२.४५_ न प्रदीपार्चिःसन्तत्त्सभिव्यक्तग्रहणवत् तद्ग्रहणम् ॥
अनवस्थायित्वेऽपि बुद्धेस् तेषां ग्रहणं व्यक्तं प्रतिपत्तव्यम्। कथम्? प्रदीपार्चिःसन्तत्यभिव्यक्तग्रहणवत्। प्रदीपार्चिषां सन्तत्या वर्तमानानां ग्रहणानवस्थानं ग्राह्यानवस्थानं च प्रत्यर्थनियतत्वाद् बुद्धीनां यावन्ति प्रदीपार्चींषि तावत्यो बुद्दय इति। दृश्यते चात्र व्यक्तं प्रदीपार्चिषाम् ग्रहणम् इति॥४५॥


********************** न्यायभाष्यम्३,२.४६ **********************


चेतना शरीरगुणः सति शरीरे भावाद् असति च अभावाद् इति
न्याभा३,२.४६_ द्रव्ये स्वगुणपरगुणोपलब्धेः संशयः ॥
सांशयिकः सति भावः, स्वगुणोऽप्सु द्रवत्वम् उपलभ्यते, परगुणश् चोष्णता, तेनायं संशयः किं शरीरगुणश् चेतना शरीरे गृह्यत अथ द्रव्यान्तरगुण इति॥४६॥


********************** न्यायभाष्यम्३,२.४७ **********************
न शरीरगुणश् चेतना, कस्मात्?
न्याभा३,२.४७_ यावद् द्रव्यभावित्वाद् रूपादीनाम् ॥
न रूपादिहीनं शरीरं गृह्यते चेतनाहीनन् तु गृह्यते यथोष्णताहीना आपः, तस्मान् न शरीरगुणश् चेतनेति।


संस्कारवद् इति चेद् न कारणानुच्छेदात्। यथाविधे द्रव्ये संस्कारः तथाविध एवोपरमो न, तत्र कारणोच्छेदाद् अत्यन्तं संस्कारानुपपत्तिर् भवति। यथाविधे शरीरे चेतना गृह्यते तथाविधे एवात्यन्तोपरमश् चेतनाया गृह्यते। तस्मात् संस्कारवद् इत्य् असमः समाधिः।
अथापि शरीरस्थं चेतनोत्पत्तिकारणं स्यात्? द्रव्यान्तरस्थं वा? उभयस्थं वा? तन् न, नियमहेत्वभावात्। शरीरस्थेन कदाचिच् चेतनोत्पद्यते कदाचिन् नेति नियमे हेतुर् नास्तीति। द्रव्यान्तरस्थेन च शरीर एव चेतनोत्पद्यते न लोष्टादिष्व् इत्य् अत्र न नियमे हेतुर् अस्तीति। उभयस्थस्य निमित्तत्वे शरीरसमानजातीयद्रव्ये चेतना नोत्पद्यते शरीर एव चोत्पद्यते इति नियमे हेतुर् नास्तीति॥४७॥


********************** न्यायभाष्यम्३,२.४८ **********************


यच् च मन्येत सति श्यामादिगुणे द्रव्ये श्यामाद्युपरमो दृष्टः एवं चेतनोपरमः स्याद् इति ---
न्याभा३,२.४८_ न, पाकजगुणान्तरोत्पत्तेः ॥
नात्यन्तं रूपोपरमो द्रव्यस्य, श्यामे रूपे निवृत्ते पाकजं गुणान्तरं रक्तं रूपम् उत्पद्यते, शरीरे तु चेतनामात्रोपरमोऽत्यन्तम् इति॥४८॥


********************** न्यायभाष्यम्३,२.४९ **********************


अथापि ---
न्याभा३,२.४९_ प्रतिद्वन्द्विसिद्धेः पाकजानाम् अप्रतिषेधः ॥
यावत्सु द्रव्येषु पूर्वगुणप्रतिद्वन्द्विसिद्धिस् तावत्सु पाकजोत्पत्तिर् दृश्यते पूर्वगुणैः सह पाकजानाम् अवस्थानस्याग्रहणात्। न च शरीरे चेतनाप्रतिद्वन्द्विसिद्धौ सहानवस्थायि गुणान्तरं गृह्यते येनानुमीयेत तेन चेतनाया विरोधः। तस्माद् अप्रतिषिद्धा चेतना यावच् छरीरं वर्तेत, न तु वर्तते, तस्मान् न शरीरगुणश् चेतना इति॥४९॥


********************** न्यायभाष्यम्३,२.५० **********************


इतश् च न शरीरगुणश् चेतना ---
न्याभा३,२.५०_ शरीरव्यापित्वात् ॥
शरीरं शरीरावयवाश् च सर्वे चेतनोत्पत्त्या व्याप्ता इति न क्वचिद् अनुत्पत्तिश् चेतनायाः, शरीरवच् छरीरावयवाश् चेतना इति प्राप्तं चेतनबहुत्वम्। तत्र यथा प्रतिशरीरं चेतनबहुत्वे सुखदुःखज्ञानानां व्यवस्था लिङ्गम् एवम् एकशरीरेऽपि स्यात्, न तु भवति, तस्मान् न शरीरगुणश् चेतनेति॥५०॥


********************** न्यायभाष्यम्३,२.५१ **********************


यद् उक्तं न क्वचिच् छरीरावयवे चेतनाया अनुत्पत्तिर् इति सा ---
न्याभा३,२.५१_ न केशनखादिष्व् अनुपलब्धेः ॥
केशेषु नखादिषु चानुत्पत्तिश् चेतनाया इति अनुपपन्नं शरीरव्यापित्वम् इति॥५१॥


********************** न्यायभाष्यम्३,२.५२ **********************


न्याभा३,२.५२_ त्वक्पर्यन्तत्वाच् छरीरस्य केशनखादिष्व् अप्रसङ्गः ॥
इन्द्रियाश्रयत्वं शरीरलक्षणम्, त्वक्पर्यन्तं जीवमनःसुखदुःखसंवित्त्यायतनभूतं शरीरम्, तस्मान् न केशादिषु चेतनोत्पद्यते। अर्थकारितस् तु शरीरोपनिबन्धः केशादीनाम् इति॥५२॥


********************** न्यायभाष्यम्३,२.५३ **********************
इतश् च न शरीरगुणश् चेतना ---
न्याभा३,२.५३_ शरीरगुनवैधर्म्यात् ॥


द्विविधः शरीरगुणः --- अप्रत्यक्षश् च गुरुत्वम्, इन्द्रियग्राह्यश् च रूपादिः, विधान्तरं तु चेतना, नाप्रत्यक्षा संवेद्यत्वात्, नेन्द्रियग्राह्या मनोविषयत्वात्। तस्माद् द्रव्यान्तरगुण इति॥५३॥


********************** न्यायभाष्यम्३,२.५४ **********************


न्याभा३,२.५४_ न रूपादीनाम् इतरेतरवैधर्म्यात् ॥
यथा इतरेतरविधर्माणो रूपादयो न शरीरगुणत्वं जहत्य् एवं रूपादिवैधर्म्याच् चेतना शरीरगुणत्वं न हास्यतीति॥५४॥


********************** न्यायभाष्यम्३,२.५५ **********************


न्याभा३,२.५५_ ऐन्द्रियकत्वाद् रूपादीनाम् अप्रतिषेधः ॥
अप्रत्यक्सत्वाच् चेति। यथेतरेतरविधर्माणो रूपादयो न द्वैविध्यम् अतिवर्तन्ते तथा रूपादिवैधर्म्याच् चेतना न द्वैविध्यम् अतिवर्तेत यदि शरीरगुणः स्याद् इति। अतिवर्त्तते तु, तस्मान् न शरीरगुण इति।
भूतेन्द्रियमनसां ज्ञानप्रतिषेधात् सिद्धे सत्य् आरम्भो विशेषज्ञापनार्थः, बहुधा परीक्ष्यमाणं तत्त्वं सुनिश्चिततरं भवतीति॥५५॥


********************** न्यायभाष्यम्३,२.५६ **********************


परीक्षिता बुद्धिः, मनस इदानीं परीक्षाक्रमः। तत् किं प्रतिशरीरम् एकम् अनेकम् इति विचारे ---
न्याभा३,२.५६_ ज्ञानायौगपद्याद् एकं मनः ॥
अस्ति खलु वै ज्ञानायौगपद्यम् एकैकस्येन्द्रियस्य यथाविषयम्, करणस्यैकप्रत्ययनिर्वृत्तौ सामर्थ्यात्, न तदेकत्वे मनसो लिङ्गम्। यत् तु खल्व् इदम् इन्द्रियान्तराणां विषयान्तरेषु ज्ञानायौगपद्यम् इति तल् लिङ्गम्। कस्मात्? सम्भवति खलु वै बहुषु मनःस्व् इन्द्रियमनःसंयोगयौगपद्यम् इति ज्ञानयौगपद्यं स्यात्, न तु भवति। तस्माद् विषये प्रत्ययपर्यायाद् एकं मनः॥५६॥


********************** न्यायभाष्यम्३,२.५७ **********************


न्याभा३,२.५७_ न युगपद् अनेकक्रियोपलब्धेः ॥
अयं खल्व् अध्यापकोऽधीते व्रजति कमण्डलुं धारयति पन्थानं पश्यति शृणोत्य् आरण्यजान् शब्दान् बिभ्यद् व्याललिङ्गानि बुभुत्सते स्मरति च गन्तव्यं स्थानीयम् इति। क्रमस्याग्रहणाद् युगपद् एताः क्रिया इति प्राप्तं मनसो बहुत्वम् इति॥५७॥


********************** न्यायभाष्यम्३,२.५८ **********************


न्याभा३,२.५८_ अलातचक्रदर्शनवत् तदुपलब्धिर् आशुसञ्चारात् ॥
आशुसञ्चाराद् अलातस्य भ्रमतो विद्यमानः क्रमो न गृह्यते। क्रमस्याग्रहणाद् अविच्छेदबुद्ध्या चक्रवद् बुद्धिर् भवतीति।
-विच्छेदबुद्ध्या चक्रवद् बुद्धिर् भवतीति।] पृ.८९८
तथा बुद्धीनां क्रियाणां चाशुवृत्तित्वाद् विद्यमानः क्रमो न गृह्यते क्रमस्याग्रहणाद् युगपत् क्रिया भवन्न्तीत्य् अभिमानो भवति।
किं पुनः क्रमस्याग्रहणाद् युगपत् क्रियाभिमानः, अथ युगपद्भावाद् एव युगपदनेकक्रियोपलब्धिर् इति नात्र विशेषप्रतिपत्तेः कारणम् उच्यत इति। उक्तम् इन्द्रियान्तराणां विषयान्तरेषु पर्यायेण बुद्धयो भवन्तीति तच् चाप्रत्याख्येयम् आत्मप्रत्यक्षत्वात्। अथापि दृष्टश्रुतान् अर्थान् चिन्तयतः क्रमेण बुद्धयो वर्तन्ते न युगपद् अनेनानुमातव्यम् इति। वर्णपदवाक्यबुद्धीनां तदर्थबुद्धीनां चाशुवृत्तित्वात् क्रमस्याग्रहणम्। कथम्? वाक्यस्थेषु खलु वर्णेषूच्चरत्सु प्रतिवर्णं तावच् छ्रवणं भवति, श्रुतं वर्णम् एकम् अनेकं वा पदभावेन स प्रतिसन्धत्ते, प्रतिसन्धाय पदं व्यवस्यति, पदव्यवसायेन स्मृत्या पदार्थं प्रतिपद्यते, पदसमूहप्रतिसन्धानाच् च वाक्यं व्यवस्यति, सम्बद्धांश् च पदार्थान् गृहीत्वा वाक्यार्थं प्रतिपद्यते। न चासां क्रमेण वर्तमानानां बुद्धीनाम् आशुवृत्तित्वात् क्रमो गृह्यते, तद् एतद् अनुमानम् अन्यत्र बुद्धिक्रियायौगपद्याभिमानस्येति। न चास्ति मुक्तसंशया युगपद् उत्पत्तिर् बुद्धीनां यया मनसां बहुत्वम् एकशरीरेऽनुमीयेत इति॥५८॥


********************** न्यायभाष्यम्३,२.५९ **********************


न्याभा३,२.५९_ यथोक्तहेतुत्वाच् चाणु ॥
अणु मन एकं चेति धर्मसमुच्चयो ज्ञानायौगपद्यात्। महत्त्वे मनसः सर्वेन्द्रियसंयोगाद् युगपद् विषयग्रहणं स्याद् इति॥५९॥


********************** न्यायभाष्यम्३,२.६० **********************
मनसः खलु भोः सेन्द्रियस्य शरीरे वृत्तिलाभो नान्यत्र शरीरात्। ज्ञातुश् च पुरुषस्य शरीरायतना बुद्ध्यादयो विषयोपभोगो जिहासितहानम् ईप्सितावाप्तिश् च सर्वे च शरीराश्रया व्यवहाराः। तत्र खलु विप्रतिपत्तेः संशयः --- किम् अयं पुरुषकर्मनिमित्तः शरीरसर्ग आहोस्विद् भूतमात्राद् अकर्मनिमित्त इति। श्रूयते खल्व् अत्र विप्रतिपत्तिर् इति।
तत्रेदं तत्त्वम् ---
न्याभा३,२.६०_ पूर्वकृतफलानुबन्धात् तदुत्पत्तिः ॥
पूर्वशरीरे या प्रवृत्तिर् वाग्बुद्धिशरीरारम्भलक्षणा तत् पूर्वकृतं कर्मोक्तम्, तस्य फलं तज्जनितौ धर्माधर्मौ।
तज्जनितौ धर्माधर्मौ।] पृ.९००
तत्फलस्यानुबन्ध आत्मसमवेतस्यावस्थानम्, तेन प्रयुक्तेभ्यो भूएब्यस् तस्योत्पत्तिः शरीरस्य, न स्वतन्त्रेभ्य इति। यद् अधिष्ठानोऽयम् आत्माऽयम् अहम् इति मन्यमानो यत्राभियुक्तो यत्रोपभोगतृष्णया विषयानुपलभमानो धर्माधर्मौ संस्करोति तद् अस्य शरीरम्, तेन संस्कारेण धर्माधर्मलक्षणेन भूतसहिते पतितेऽस्मिन् शरीर उत्तरं निष्पद्यते, निष्पन्नस्य चास्य पूर्वशरीरवत् पुरुषार्थक्रिया, पुरुषस्य च पूर्वशरीरवत् प्रवृत्तिर् इति कर्मापेक्षेभ्यो भूतेभ्यः शरीरसर्गे सत्य् एतद् उपपद्यत इति।
प्रवृत्तिर् इति कर्मापेक्षेभ्यो ... उपपद्यत इति।] पृ.९०१
दृष्टा च पुरुषगुणेन प्रयत्नेन प्रयुक्तेभ्यो भूतेभ्यः पुरुषार्थ्क्रियासमर्थानां द्रव्याणां रथप्रभृतीनाम् उत्पत्तिः। तथानुमातव्यं शरीरम् अपि पुरुषार्थक्रियासमर्थम् उत्पद्यमानं पुरुषस्य गुणान्तरापेक्षेभ्यो भूतेभ्य उत्पद्यत इति॥६०॥


********************** न्यायभाष्यम्३,२.६१ **********************


अत्र नास्तिक आह ---
न्याभा३,२.६१_ भूतेभ्यो मूर्त्युपादानवत् तदुपादानम् ॥
यथा कर्मनिरपेक्षेभ्यो भूतेभ्यो निर्वृत्ता मूर्तयः सिकताशर्करापाषाणगैरिकाञ्जनप्रभृतयः पुरुषार्थकारित्वाद् उपादीयन्ते तथा कर्मनिरपेक्षेभ्यो भूतेभ्यः शरीरम् उत्पन्नं पुरुषार्थकारित्वाद् उपादीयते इति॥६१॥


********************** न्यायभाष्यम्३,२.६२ **********************


न्याभा३,२.६२_ न, साध्यसमत्वात् ॥
यथा शरीरोत्पत्तिर् अकर्मनिमित्ता साध्या तथा सिकताशर्करापाषाणगैरिकाञ्जनप्रभृतीनाम् अप्य् अकर्मनिमित्तः सर्गः साध्यः साध्यसमत्वाद् असाधनम् इति ’’भूतेभ्यो मूर्त्युपादानवद्ऽऽ इति चानेन साध्यम्॥६२॥


********************** न्यायभाष्यम्३,२.६३ **********************


न्याभा३,२.६३_ नोत्पत्तिनिमित्तत्वान् मातापित्रोः ॥
विषमश् चायम् उपन्यासः। कस्मात्? निर्बीजा इमा मूर्तय उत्पद्यन्ते बीजपूर्विका तु शरीरोत्पत्तिः। मातापितृशब्देन लोहितरेतसी बीजभूते गृह्येते। तत्र सत्त्वस्य गर्भवासानुभवनीयं कर्म पित्रोश् च पुत्रफलानुभवनीये कर्मणी मातुर् गर्भाश्रये शरीरोत्पत्तिं भूतेभ्यः प्रयोजयन्तीत्य् उपपन्नं बीजानुविधानम् इति॥६३॥


********************** न्यायभाष्यम्३,२.६४ **********************


न्याभा३,२.६४_ तथाहारस्य ॥
उत्पत्तिनिमित्तत्वाद् इति प्रकृतम्। भुक्तं पीतम् आहारः तस्य पक्तिनिर्वृत्तं रसद्रव्यं मातृशरीरे चोपचीयते बीजे गर्भाशयस्थे बीजसमानपाकम्, मात्रया चोपचयो बीजे यावद् व्यूहसमर्थः सञ्चय इति। सञ्चितं च कललार्बुदमांसपेशीकण्डराशिरःपाण्यादिना च व्यूहेनेन्द्रियाधिष्ठानभेदेन व्युह्यते, व्यूहे च गर्भनाड्यावतारितं रसद्रव्यम् उपचीयते यावत् प्रसवसमर्थम् इति। न चायम् अन्नपानस्य स्थाल्यादिगतस्य कल्पत इति। एतस्मात् कारणात् कर्मनिमित्तत्वं शरीरस्य विज्ञायत इति॥६४॥


********************** न्यायभाष्यम्३,२.६५ **********************


न्याभा३,२.६५_ प्राप्तौ चानियमात् ॥
न सर्वो दम्पत्योः संयोगो गर्भाधानहेतुर् दृश्यते तत्रासति कर्मणि न भवति सति च भवतीत्य् अनुपपन्नो नियमाभाव इति। कर्मनिरपेक्षेषु भूतेषु शरीरोत्पत्तिहेतुषु नियमः स्यात् न ह्य् अत्र कारणाभाव इति॥६५॥


********************** न्यायभाष्यम्३,२.६६ **********************


अथापि ---
न्याभा३,२.६६_ शरीरोत्पत्तिनिमित्तवत् संयोगोत्पत्तिनिमित्तं कर्म ॥
यथा खल्व् इदं शरीरं धातुप्राणसंवाहिनीनां नाडीनां शुक्रान्तानां धातूनां च स्नायुत्वगस्थिशिरापेशीकललकण्डराणां च शिरोबाहूदराणां सक्थ्नां च कोष्ठगानां वातपित्तकफानां च मुखहृदयामाशयपक्वाशयाधःस्रोतसां च परमदुःखसम्पादनीयेन सन्निवेशेन व्यूहनम् अशक्यं पृथिव्यादिभिः कर्मनिरपेक्षैर् उत्पादयितुम् इति कर्मनिमित्ता शरीरोत्पत्तिर् इति विज्ञायते॑ एवं च प्रत्यात्मनियतस्य निमित्तस्याभावान् निरतिशयैर् आत्मभिः सम्बन्धात् सर्वात्मनां च समानैः पृथिव्यादिभिर् उत्पादितं शरीरं पृथिव्यादिगतस्य च नियमहेतोर् अभावात् सर्वात्मनां सुखदुःखसंवित्त्यायतनं समानं प्राप्तम्। यत् तु प्रत्यात्मं व्यवतिष्ठते तत्र शरीरोत्पत्तिनिमित्तं कर्म व्यवस्ह्ताहेतुर् इति विज्ञायते। परिपच्यमानो हि प्रत्यात्मनियतः कर्माशयो यस्मिन्न् आत्मनि वर्तते तस्यैवोपभोगायतनं शरीरम् उत्पाद्य व्यवस्थापयति। तद् एवं ’’शरीरोत्पत्तिनिमित्तवत् संयोगनिमित्तं कर्मऽऽ इति विज्ञायते। प्रत्यात्मव्यवस्थानं तु शरीरस्यात्मना संयोगं प्रचक्ष्मह इति॥६६॥


********************** न्यायभाष्यम्३,२.६७ **********************


न्याभा३,२.६७_ एतेनानियमः प्रत्युक्तः ॥
यो .यम् अकर्मनिमित्ते शरीरसर्गे सत्य् अनियम इत्य् उच्यते, अयं ’’शरीरोत्पत्तिनिमित्तवत् संयोगोत्पत्तिनिमित्तं कर्मऽऽ इति अनेन प्रत्युक्तः।
-निमित्तवत् संयोगोत्पत्तिनिमित्तं ... प्रत्युक्तः।] पृ.९०८
कस् तावद् अयं नियमः? यथैकस्यात्मनः शरीरं तथा सर्वेषाम् इति नियमः। अन्यस्यान्यथान्यस्यान्यथेत्य् अनियमो भेदो व्यावृत्तिर् विशेष इति।
-त्य् अनियमो भेदो व्यावृत्तिर् विशेष इति।] पृ.९०९
दृष्टा च जन्मव्यावृत्तिर् उच्चाभिजनो निकृष्टाभिजन इति, प्रशस्तं निन्दतम् इति, व्याधिबहुलम् अरोगम् इति, समग्रं विकलम् इति, पीडाबहुलं सुखबहुलम् इति, पुरुषातिशयलक्षणोपपन्नं विपरीतम् इति, प्रशस्तलक्षणं निन्दितलक्षणम् इति, पट्विन्द्रियं मृड्विन्द्रियम् इति। सूक्ष्मश् च भेदोऽपरिमेयः। सोऽयम् जन्मभेदः प्रत्यात्मनियतात् कर्मभेदाद् उपपद्यते, असति कर्मभेदे प्रत्यात्मनियते निरतिशयत्वाद् आत्मनां समानत्वाच् च पृथिव्यादीनां पृथिव्यादिगतस्य नियमहेतोर् अह्बावात् सर्वं सर्वात्मनां प्रसज्येत, न त्व् इदम् इत्थम्भूतं जन्म। तस्मान् नाकर्मनित्ता शरीरोत्पत्तिर् इति।
उपपन्नश् च तद्वियोगः कर्मक्षयोपपत्तेः। कर्मनिमित्ते शरीरसर्गे तेन शरीरेणात्मनो वियोग उपपन्नः। कस्मात्? कर्मक्षयोपपत्तेः। उपपद्यते खलु कर्मक्षयः सम्यग्दर्शनात् प्रक्षीणे मोहे वीतरागः पुनर्भवहेतुकर्म कायवाङ्मनोभिर् न करोतीत्य् उत्तरस्यानुपचयः पूर्वोपचितस्य विपाकप्रतिसंवेदनात् प्रक्षयः। एवं प्रसवहेतोर् अभावात् पतिरेऽस्मिन् शरीरे पुनः शरीरान्तरानुपपत्तेर् अप्रतिसन्धिः। अकर्मनिमित्ते तु शरीरसर्गे भूतक्षयानुपपत्तेस् तद्वियोगानुपपत्तिर् इति॥६७॥


********************** न्यायभाष्यम्३,२.६८ **********************


न्याभा३,२.६८_ तद् अदृष्टकारितम् इति चेत् पुनस् तत्प्रसङ्गोऽपवर्गे ॥
अदर्शनं खल्व् अदृष्टम् इत्य् उच्यत अदृष्टकारिता भूतेभ्यः शरीरोत्पत्तिः। न जात्व् अनुत्पन्ने शरीरे द्रष्टा निरायतनो दृश्यं पश्यति। तच् चास्य दृश्यं द्विविधं विषयश् च नानात्वं चाव्यक्तात्मनः, तदर्थः शरीरसर्गः। तस्मिन्न् अवसिते चरितार्थानि भूतानि न शरीरम् उत्पादयन्तीत्य् उपपन्नः शरीरवियोग इत्य् एवं चेन् मन्यसे, ’’पुनस् तत् प्रसङ्गोऽपवर्गेऽऽ --- पुनः शरीरोत्पत्तिः प्रसज्यत इति। या चानुत्पन्ने शरीरे दर्शनानुत्पत्तिर् अदर्शनाभिमता या चापवर्गे शरीरनिवृत्तौ दर्शनानुत्पत्तिर् अदर्शनभूता नैतयोर् अदर्शनयोः क्वचिद् विशेष इत्य् अदर्शनस्यानिवृत्तेर् अपवर्गे पुनः शरीरोत्पत्तिप्रसङ्ग इति।


चरितार्थता विशेष इति चेत् न करणाकरणयोर् आरम्भदर्शनात्। चरितार्थानि भूतानि दर्शनावसानान् न शरीरान्तरम् आरभन्त इत्य् अयं विशेष एवं चेद् उच्यते॑ न, करणाकरणयोर् आरम्भदर्शनात् --- चरितार्थानां भूतानां विषयोपलब्धिकरणात् पुनः पुनः शरीरारम्भो दृश्यते प्रकृतिपुरुषयोर् नानात्वदर्शनस्याकरणान् निरर्थकः शरीरारम्भः पुनः पुनर् दृश्यते। तस्माद् अकर्मनिमित्तायां भूतसृष्टौ न दर्शनार्था शरीरोत्पत्तिर् युक्ता, युक्ता तु कर्मनिमित्ते सर्गे दर्शनार्था शरीरोत्पत्तिः। कर्मविपाकसंवेदनं दर्शनम् इति।


तद् अदृष्टकारितम् इति चेत्? कस्यचिद् दर्शनम् अदृष्टं नाम परमाणूनां गुणविशेषः क्रियाहेतुस् तेन प्रेरिताः परमाणवः सम्मूर्च्छिताः शरीरम् उत्पादयन्तीति तन् मनः समाविशति स्वगुणेनादृष्टेन प्रेरितं समनस्के शरीरे द्रष्टुर् उपलब्धिर् भवतीति।
एतस्मिन् वै दर्शने गुणानुच्छेदात् पुनस् तत्प्रसङ्गोऽपवर्गे। अपवर्गे शरीरोत्पत्तिः परमाणुगुणस्यादृष्टस्यानुच्छेद्यत्वाद् इति॥६८॥


********************** न्यायभाष्यम्३,२.६९ **********************


न्याभा३,२.६९_ मनःकर्मनिमित्तत्वाच् च संयोगाव्युच्छेदः ॥
मनोगुणेनादृष्टेन समावेशिते मनसि संयोगव्युच्छेदो न स्यात्, तच् च किंकृतं शरीराद् अपसर्पणं मनस इति? कर्माशयक्षये तु कर्माशयान्तराद् विपच्यमानाद् अपसर्पणोपपत्तिर् इति। अदृष्टाद् एवापसर्पणम् इति चेत् --- योऽदृष्टः शरीरोपसर्पणहेतुः स एवापसर्पणहेतुर् अपीति? न, एकस्य जीवनप्रायणहेतुत्वानुपपत्तेः --- एवं च सत्य् एकम् अदृष्टं जीवनप्रायणयोर् हेतुर् इति प्राप्तम्, नैतद् उपपद्यते॥६९॥


********************** न्यायभाष्यम्३,२.७० **********************


न्याभा३,२.७०_ नित्यत्वप्रसङ्गश् च प्रायणानुपपत्तेः ॥
विपाकसंवेदनात् कर्माशयक्षये शरीरपातः प्रायणम्, कर्माशयान्तराच् च पुनर्जन्म। भूतमात्रात् तु कर्मनिरपेक्षाच् छरीरोत्पत्तौ कस्य क्षयाच् छरीरपातः प्रायणम् इति? प्रायणानुपपत्तेः खलु वै नित्यत्वप्रसङ्गं विद्मः। यादृच्छिके तु प्रायणे प्रायणभेदानुपपत्तिर् इति॥७०॥


********************** न्यायभाष्यम्३,२.७१**********************


पुनस् तत्प्रसङ्गोऽपवर्ग इत्य् एतत् समाधित्सुर् आह ---
न्याभा३,२.७१_ अणुश्यामतानित्यत्ववद् एतत् स्यात् ॥
यथाणोः श्यामता नित्या अग्निसंयोगेन प्रतिषिद्धा न पुनर् उत्पद्यत एवम् अदृष्टकारितं शरीरम् अपवर्गे पुनर् नोत्पद्यत इति॥ ७१ ॥


********************** न्यायभाष्यम्३,२.७२ **********************


न्याभा३,२.७२_ नाकृताभ्यागमप्रसङ्गात् ॥
नायम् अस्ति दृष्टान्तः। कस्मात्? अकृताभ्यागमप्रसङ्गात्। अकृतं प्रमाणतोऽनुपपन्नम्, तस्याभ्यागमोऽभ्युपपत्तिर् व्यवसायः, एतच्छ्रद्दधानेन प्रमाणतो णुपपन्नं मन्तव्यम्। तस्मान् नायं दृष्टान्तो न प्रत्यक्षं न चानुमानं किंचिद् उच्यत इति। तद् इदं दृष्टान्तस्य साध्यसमत्वम् अभिधीयत इति।
अथ वा नाकृताभ्यागमप्रसङ्गात्। अणुश्यामतादृष्टान्तेनाकर्मनिमित्तां शरीरोत्पत्तिं समादधानस्याकृताभ्यागमप्रसङ्गः। अकृते सुखदुःखहेतौ कर्मणि पुरुषस्य सुखं दुःखम् अभ्यागच्छतीति प्रसज्येत। ओम् इति ब्रुवतः प्रत्यक्षानुमानागमविरोधः।


प्रत्यक्षविरोधस् तावत् --- भिन्नम् इदं सुखदुःखं प्रत्यात्मवेदनीयत्वात् प्रत्यक्षं सर्वशरीरिणाम्। को भेदः? तीव्रं मन्दं चिरम् आशु नानाप्रकारम् एकप्रकारम् इत्य् एवम् आदिर् विशेषः। न चास्ति प्रत्यात्मनियतः सुखदुःखहेतुविशेषः, न चासति हेतुविशेषे फलविशेषो दृश्यते। कर्मनिमित्ते तु सुखदुःखयोगे कर्मणां तीव्रमन्दतोपपत्तेः कर्मसञ्चयानां चोत्कर्षापकर्षभावात् नानाविधैकविधभावाच् च कर्मणां सुखदुःखभेदोपपत्तिः। सोऽयं हेतुभेदाभावाद् दृष्टः सुखदुःखभेदो न स्याद् इति प्रत्यक्षविरोधः।
तथानुमानविरोधः --- दृष्टं हि पुरुषगुणव्यवस्थानात् सुखदुःखव्यवस्थानम्। यः खलु चेतनावान् साधननिर्वर्तनीयं सुखं बुद्ध्वा तद् ईप्सन् साधनावाप्तये प्रयतते स सुखेन युज्यते न विपरीतः। यश् च साधननिर्वर्तनीयं दुःखं बुद्ध्वा तज् जिहासुः साधनपरिवर्जनाय यतते स च दुःखेन त्यज्यते न विपरीतः। अस्ति चेदं यत्नम् अन्तरेण चेतनानां सुखदुःखव्यवस्थानं तेनापि चेतनगुणान्तरव्यवस्थाकृतेन भवितव्यम् इत्य् अनुमानम्।
-मानम्।] पृ.९१८
तद् एतद् अकर्मनिमित्ते सुखदुःखयोगे विरुध्यत इति। तच् च गुणान्तरम् असंवेद्यत्वाद् अदृष्टं विपाककालानियमाच् चाव्यवस्थितम्। बुद्ध्यादयस् तु संवेद्याश् चापवर्गिणश् चेति।
अथागमविरोधः --- बहु खल्व् इदम् आर्षम् ऋषीणाम् उपदेशजातम् अनुष्ठानपरिवर्जनाश्रयम्, उपदेशफलं च शरीरिणां वर्णाश्रमविभागेणानुष्ठानलक्षणा प्रवृत्तिः, परिवर्जनलक्षणा निवृत्तिः। तच् चोभयम् एतस्यां दृष्टौ ’’नास्ति कर्म सुचरितं दुश्चरितं वा? कर्मनिमित्तः पुरुषाणां सुखदुःखयोगःऽऽ इति विरुध्यते। सेयं पापिष्ठानां मिथ्यादृष्टिः --- अकर्मनिमित्ता शरीरसृष्टिर् अकर्मनिमित्तः सुखदुःखयोग इति॥७२॥


********************** न्यायभाष्यम्३,२.७३ **********************
इति श्रीवात्स्यायनीये न्यायभाष्ये तृतीयाध्यायस्य द्वितीयम् आह्निकम्॥ २ ॥
समाप्तश् चायं तृतीयोऽध्यायः॥ ३ ॥


न्यायदर्शनम् अथ चतुर्थाध्यायस्याद्यम् आह्निकम्


********************** न्यायभाष्यम्४,१.१ **********************


मनसोऽनन्तरं प्रवृत्तिः परीक्षितव्या। तत्र खलु यावद् धर्माधर्माश्रयशरीरादि परीक्षितम्, सर्वा सा प्रवृत्तेः परीक्षेत्य् आह ---
न्याभा४,१.१_ प्रवृत्तिर् यथोक्ता ॥
तथा परीक्षितेति॥१॥


********************** न्यायभाष्यम्४,१.२ **********************


प्रवृत्त्यनन्तरास् तर्हि दोषाः परीक्ष्यन्ताम् इत्य् अत आह ---
न्याभा४,१.२_ तथा दोषाः ॥
परीक्षिता इति। बुद्धिसमानाश्रयत्वाद् आत्मगुणाः, प्रवृत्तिहेतुत्वात् पुनर्भवप्रतिसन्धानसामर्थ्याच् च संसारहेतवः, संसारस्यानादित्वाद् अनादिना प्रबन्धेन प्रवर्तन्ते, मिथ्याज्ञाननिवृत्तिस् तत्त्वज्ञानात् तन्निवृत्तौ रागद्वेषप्रबन्धोच्छ्येदेऽपवर्ग इति। प्रादुर्भावतिरोधानधर्मका इत्येवमाद्युक्तम् दोषाणाम् इति॥२॥


********************** न्यायभाष्यम्४,१.३ **********************


प्रवर्तनालक्षणा दोषा इत्य् उक्तम्, तथा चेमे मानेर्ष्यासूयाविचिकित्सामत्सरादयः, ते कस्मान् नोपसङ्ख्यायन्ते इत्य् अत आह ---
न्याभा४,१.३_ तत्त्रैराश्यं रागद्वेषमोहार्थान्तरभावात् ॥
तेषां दोषाणां त्रयो राशयस् त्रयः पक्षाः। रागपक्षः --- कामो मत्सरः स्पृहा तृष्णा लोभ इति। द्वेषपक्षः --- क्रोध ईर्ष्या असूया द्रोहोऽमर्ष इति। मोहपक्षो


मिथ्याज्ञानं विचिकित्सा मानः प्रमाद इति। त्रैराश्यान् नोपसङ्ख्यायन्ते इति। लक्षणस्य तर्ह्य् अभेदात् त्रित्वम् अनुपपन्नम्? नानुपपन्नम्, रागद्वेषमोहार्थान्तरभावात्॑


आसक्तिलक्षणो रागः, अमर्षलक्षणो द्वेषः, मिथ्याप्रतिपत्तिलक्षणो मोह इति। एतत् प्रत्यात्मवेदनीयं सर्वशरीरिणाम् --- विजानात्य् अयं शरीरी रागम् उत्पन्नम् ’’स्ति मेऽध्यात्मं रागधर्मऽऽ इति। विरागं च विजानाति ---’’नास्ति मेऽध्यात्मं रागधर्मऽऽ इति। एवम् इतरयोर् अपीति। मानेर्ष्यासूयाप्रभृतयस् तु त्रैराश्यम् अनुपतिता इति नोपसङ्ख्यायन्ते॥३॥


********************** न्यायभाष्यम्४,१.४ **********************


न्याभा४,१.४_ नैकप्रत्यनीकभावात् ॥
नार्थान्तरं रागादयः। कस्मात्? एकप्रत्यनीकभावात् --- तत्त्वज्ञानं सम्यङ्मतिर् आर्यप्रज्ञा सम्बोध इत्य् एकम् इदं प्रत्यनीकं त्रयाणाम् इति॥४॥


********************** न्यायभाष्यम्४,१.५ **********************


न्याभा४,१.५_ व्यभिचाराद् अहेतुः ॥
एकप्रत्यनीकाः पृथिव्यां श्यामादयोऽग्निसंयोगेनैकेन, एकयोनयश् च पाकजा इति॥५॥


********************** न्यायभाष्यम्४,१.६ **********************
सति चार्थान्तरभावे ---
न्याभा४,१.६_ तेषां मोहः पापीयान् नामूढस्येतरोत्पत्तेः ॥
मोहः पापः, पापतरो वा द्वाव् अभिप्रेत्योक्तम्। कस्मात्? नामूढस्येतरोत्पत्तेः ---
-तरोत्पत्तेः ---] पृ.९२९
अमूढस्य रागद्वेषा नोत्पद्यन्ते मूढस्य तु यथासङ्कल्पम् उत्पत्तिः, विषयेषु रञ्जनीयाः सङ्कल्पा रागहेतवः, कोपनीयाः सङ्कल्पा द्वेषहेतवः, उभये च सङ्कल्पा न मिथ्याप्रतिपत्तिलक्षणत्वान् मोहाद् अन्ये, ताव् इमौ मोहयोनी रागद्वेषाव् इति। तत्त्वज्ञानाच् च मोहनिवृत्तौ रागद्वेषानुत्पत्तिर् इत्य् एकप्रत्यनीकभावोपपत्तिः। एवं च कृत्वा तत्त्वज्ञानाद् ’’दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानाम् उत्तरोत्तरापाये तदनन्तराभावाद् अपवर्गऽऽ इति व्याख्यातम् इति॥६॥


********************** न्यायभाष्यम्४,१.७ **********************


प्राप्तस् तर्हि ---
न्याभा४,१.७_ निमित्तनैमित्तिकभावाद् अर्थान्तरभावो दोषेभ्यः ॥
अन्यद् धि निमित्तम् अन्यच् च नैमित्तिकम् इति दोषनिमित्तत्वाद् अदोषो मोह इति॥७॥


********************** न्यायभाष्यम्४,१.८ **********************


न्याभा४,१.८_ न दोषलक्षणावरोधान् मोहस्य ॥
प्रवर्त्तनालक्षणा दोषा इत्य् अनेन दोषलक्षणेनावरुध्यते दोषेषु मोह इति॥८॥


********************** न्यायभाष्यम्४,१.९ **********************


न्याभा४,१.९_ निमित्तनैमित्तिकोपपत्तेश् च तुल्यजातीयानाम् अप्रतिषेधः ॥
द्रव्याणां गुणानां वानेकविधविकल्पो निमित्तनैमित्तिकभावे तुल्यजातीयानां दृष्ट इति॥९॥


********************** न्यायभाष्यम्४,१.१० **********************
दोषानन्तरं प्रेत्यभावः, तस्यासिद्धिर् आत्मनो नित्यत्वात् --- न खलु नित्यं किंचिज् जायते म्रियते वा इति जन्ममरणयोर् नित्यत्वाद् आत्मनोऽनुपपत्तिः, उभयं च प्रेत्यभाव इति तत्रायं सिद्धानुवादः ---
न्याभा४,१.१०_ आत्मनित्यत्वे प्रेत्यभावसिद्धिः ॥
नित्योऽयम् आत्मा प्रैति पूर्वशरीरं जहाति म्रियते इति, प्रेत्य च पूर्वशरीरं हित्वा


भवति जायते शरीरान्तरम् उपादत्त इति। तच् चैतद् उभयं ’’पुनर् उत्पत्तिः प्रेत्यभावःऽऽ इत्य् अत्रोक्तं पूर्वशरीरं हित्वा शरीरान्तरोपादानं प्रेत्यभावः इति तच् चैतन्नित्यत्वे सम्भवतीति। यस्य तु सत्त्वोत्पादः सत्त्वनिरोधः प्रेत्यभावः तस्य कृतहानम् अकृताभ्यागमश् च दोषः। उच्छेदहेतुवादे ऋष्युपदेशाश् चानर्थका इति॥१०॥


********************** न्यायभाष्यम्४,१.११ **********************


कथम् उत्पत्तिर् इति चेत् ---
न्याभा४,१.११_ व्यक्ताद् व्यक्तानां प्रत्यक्षप्रामाण्यात् ॥
केन प्रकारेण किंधर्मकात् कारणाद् व्यक्तं शरीराद्य् उत्पद्यत इति? व्यक्ताद् भूतसमाख्यातात् पृथिव्यादितः परमसूक्ष्मान् नित्याद् व्यक्तं शरीरेन्द्रियविषयोपकरणाधारं प्रज्ञातं द्रव्यम् उत्पद्यते। व्यक्तं च खल्व् इन्द्रियग्राह्यं तत्सामान्यात् कारणम् अपि व्यक्तम्। किं सामान्यम्? रूपादिगुणयोगः रूपादिगुणयुक्तेभ्यः पृथिव्यादिभ्यो नित्येभ्यो रूपादिगुणयुक्तं शरीराद्य् उत्पद्यते।
-व्यादिभ्यो नित्येभ्यो रूपादिगुणयुक्तं शरीराद्य् उत्पद्यते।] पृ.९३४
प्रत्यक्षप्रामाण्यात् --- दृष्टो हि रूपादिगुणयुक्तेभ्यो मृत्प्रभृतिभ्यस् तथाभूतस्य द्रव्यस्योत्पादः, तेन चादृष्टस्यानुमानम् इति। रूपादीनाम् अन्वयदर्शनात् प्रकृतिविकारयोः, पृथिव्यादीनां नित्यानाम् अतीन्द्रियाणां कारणभावोऽनुमीयत इति॥११॥


********************** न्यायभाष्यम्४,१.१२ **********************


न्याभा४,१.१२_ न घटाद् घटानिष्पत्तेः ॥
इदम् अपि प्रत्यक्षम् --- न खलु व्यक्ताद् घटाद् व्यक्तो घट उत्पद्यमानो दृश्यते इति, व्यक्ताद् व्यक्तस्यानुत्पत्तिदर्शनान् न व्यक्तं कारणम् इति॥१२॥


********************** न्यायभाष्यम्४,१.१३ **********************


न्याभा४,१.१३_ व्यक्ताद् घटनिष्पत्तेर् अप्रतिषेधः ॥
न ब्रूमः सर्वं सर्वस्य कारणम् इति, किन् तु यद् उत्पद्यते व्यक्तं द्रव्यं तत् तथाभूताद् एवोत्पद्यते इति। व्यक्तं च तन्मृद्द्रव्यं कपालसंज्ञकं यतो घट उत्पद्यते। न चैतन्निह्नुवानः क्वचिद् अभ्यनुज्ञां लब्धुम् अर्हतीति। तद् एतत् तत्त्वम्॥१३॥


********************** न्यायभाष्यम्४,१.१४ **********************
अतः परं प्रावादुकानां दृष्टयः प्रदर्श्यन्ते ---
न्याभा४,१.१४_ अभावाद् भावोत्पत्तिर् नानुपमृद्य प्रादुर्भावात् ॥


असतः सद् उत्पद्यते इत्य् अयं पक्षः। कस्मात्? उपमृद्य प्रादुर्भावात्। उपमृद्य बीजम् अङ्कुर उत्पद्यते नानुपमृद्य, न चेद् वीजोपमर्दोऽङ्कुरकारणम् अनुपमर्देऽपि बीजस्याङ्कुरोत्पत्तिः स्याद् इति॥१४॥


********************** न्यायभाष्यम्४,१.१५ **********************
अत्राभिधीयते ---
न्याभा४,१.१५_ व्याघाताद् अप्रयोगः ॥
उपमृद्य प्रादुर्भावाद् इत्य् अयुक्तः प्रयोगो व्याघातात्। यद् उपमृद्नाति न तद् उपमृद्य प्रादुर्भवितुम् अर्हति विद्यमानत्वात्। यच् च प्रादुर्भवति न तेनाप्रादुर्भूतेनाविद्यमानेनोपमर्द इति॥१५॥


********************** न्यायभाष्यम्४,१.१६ **********************


न्याभा४,१.१६_ नातीतानागतयोः कारकशब्दप्रयोगात् ॥
अतीते चानागते चाविद्यमाने कारकशब्दाः प्रयुज्यन्ते। पुत्रो जनिष्यते, जनिष्यमाणं पुत्रम् अभिनन्दति, पुत्रस्य जनिष्यमाणस्य नाम करोति, अभूत् कुम्भः, भिन्नं कुम्भम् अनुशोचति, भिन्नस्य कुम्भस्य कपालानि, अजाताः पुत्राः पितरं तापयन्तीति बहुलं भाक्ताः प्रयोगा दृश्यन्ते। का पुनर् इयं भक्तिः? आनन्तर्यं भक्तिः, आनन्तर्यसामर्थ्याद् उपमृद्य प्रादुर्भावार्थः, प्रादुर्भविष्यन्न् अङ्कुर उपमृद्नातीति भाक्तं कर्तृत्वम् इति॥१६॥


********************** न्यायभाष्यम्४,१.१७ **********************


न्याभा४,१.१७_ न विनष्टेभ्योऽनिष्पत्तेः ॥
न विनष्टाद् बीजाद् अङ्कुर उत्पद्यते इति तस्मान् नाभावाद् भावोत्पत्तिर् इति॥१७॥


********************** न्यायभाष्यम्४,१.१८ **********************


न्याभा४,१.१८_ क्रमनिर्देशाद् अप्रतिषेधः ॥
उपमर्दप्रादुर्भावयोः पौर्वापर्यनियमः क्रमः, स खल्व् अभावाद् भावोत्पत्तेर् हेतुर् निर्दिश्यते॑ स च न प्रतिषिध्यते इति। व्याहतव्यूहानाम् अवयवानां पूर्वव्यूहनिवृत्तौ व्यूहान्तराद् द्रव्यनिष्पत्तिर् नाभावात्। बीजावयवाः कुतश्चिन् निमित्तात् प्रादुर्भूतक्रियाः पूर्वव्यूहं जहति व्यूहान्तरं चापद्यन्ते व्यूहान्तराद् अङ्कुर उत्पद्यते। दृश्यन्ते खलु अवयवास् तत्संयोगाश् चाङ्कुरोत्पत्तिहेतवः। न चानिवृत्ते पूर्वव्यूहे बीजावयवानां शक्यं व्यूहान्तरेण भवितुम् इत्य् उपमर्दप्रादुर्भावयोः पौर्वापर्यनियमः क्रमः,
-म् इत्य् उपमर्दप्रादुर्भावयोः पौर्वापर्यनियमः क्रमः,] पृ.९४०
तस्मान् नाभावाद् भावोत्पत्तिर् इति। न चान्यद् बीजावयवेभ्योऽङ्कुरोत्पत्तिकारणम् इत्य् उपपद्य्ते बीजोपादाननियम इति॥१८॥


********************** न्यायभाष्यम्४,१.१९ **********************
अथापर आह ---
न्याभा४,१.१९_ ईश्वरः कारणं पुरुषकर्माफल्यदर्शनात् ॥
पुरुषोऽयं समीहमानो नावश्यं समीहाफलं प्राप्नोति तेनानुमीयते पराधीनं पुरुषस्य कर्मफलाराधनम् इति, यदधीनं स ईश्वरः। तस्माद् ईश्वरः कारणम् इति॥१९॥


********************** न्यायभाष्यम्४,१.२० **********************


न्याभा४,१.२०_ न पुरुषकर्माभावे फलानिष्पत्तेः ॥
ईश्वराधीना चेत् फलनिष्पत्तिः स्याद् अपि तर्हि पुरुषस्य समीहाम् अन्तरेण फलं निष्पद्येतेति॥२०॥


********************** न्यायभाष्यम्४,१.२१ **********************


न्याभा४,१.२१_ तत्कारितत्वाद् अहेतुः ॥
पुरुषकारम् ईश्वरोऽनुगृह्णाति, फलाय पुरुषस्य यतमानस्येश्वरः फलं सम्पादयतीति। यदा न सम्पादयति तदा पुरुषकर्माफलं भवतीति। तस्माद् ईश्वरकारितत्वात् अहेतुः पुरुषकर्माभावे फलानिष्पत्तेर् इति।
गुणविशिष्टम् आत्मान्तरम् ईश्वरः। तस्य आत्मकल्पात् कल्पान्तरानुपपत्तिः, अधर्ममिथ्याज्ञानप्रमादहान्या धर्मज्ञानसमाधिसम्पदा च विशिष्टम् आत्मान्तरम् ईश्वरः,


तस्य च धर्मसमाधिफलम् अणिमाद्यष्टविधम् ऐश्वर्यम्। सङ्कल्पानुविधायी चास्य धर्मः प्रत्यात्मवृत्तीन् धर्माधर्मसञ्चयान् पृथिव्यादीनि च भूतानि प्रवर्तयति। एवं च स्वकृताभ्यागमस्यालोपेन निर्माणप्राकाम्यम् ईश्वरस्य स्वकृतकर्मफलं वेदितव्यम्। आप्तकल्पश् चायम् --- यथा पितापत्यानां तथा पितृभूत ईश्वरो भूतानाम्। न चात्मकल्पाद् अन्यः कल्पः सम्भवति। न तावद् अस्य बुद्धिं विना कश्चिद् धर्मो लिङ्गभूतः शक्य उपपादयितुम्। आगमाच् च द्रष्टा बोद्धा सर्वज्ञाता ईश्वर इति। बुद्ध्यादिभिश् चात्मलिङ्गैर् निरुपाख्यम् ईश्वरं प्रत्यक्षानुमानागमविषयातीतं कः शक्त उपपादयितुम्।
लिङ्गैर् निरुपाख्यम् ईश्वरं प्रत्यक्षानुमानागमविषयातीतं कः शक्त उपपादयितुम्।] पृ.९४५
स्वकृताभ्यागमलोपेन च प्रवर्तमानस्यास्य यद् उक्तं प्रतिषेधजातम् अकर्मनिमित्ते शरीरसर्गे तत् सर्वं प्रसज्यते इति॥२१॥


********************** न्यायभाष्यम्४,१.२२ **********************


अपर इदानीम् आह ---
न्याभा४,१.२२_ अनिमित्ततो भावोत्पत्तिः कण्टकतैक्ष्ण्यादिदर्शनात् ॥
अनिमित्ता शरीराद्युत्पत्तिः कस्मात्? कण्टकतैक्ष्ण्यादिदर्शनात्। कण्टकस्य


तैक्ष्ण्यम्, पर्वतधातूनां चित्रता, ग्राव्णां श्लक्ष्णता, निर्निमित्तं च उपादानवच् च दृष्टं तथा शरीरादिसर्गो .पीति॥२२॥


********************** न्यायभाष्यम्४,१.२३ **********************


न्याभा४,१.२३_ अनिमित्तनिमित्तत्वान् नानिमित्ततः ॥
अनिमित्ततो भावोत्पत्तिर् इत्य् उच्यते यतश् चोत्पद्यते तन्निमित्तम्। अनिमित्तस्य निमित्तत्वान् नानिमित्ता भावोत्पत्तिर् इति॥२३॥


********************** न्यायभाष्यम्४,१.२४ **********************


न्याभा४,१.२४_ निमित्तानिमित्तयोर् अर्थान्तरभावाद् अप्रतिषेधः ॥
अन्यद् धि निमित्तम् अन्यच् च निमित्तप्रत्याख्यानम्, न च प्रत्याख्यानम् एव प्रत्याख्येयं


यथानुदकः कमण्डलुर् इति नोदकप्रतिषेध उदकं भवतीति। स खल्व् अयं वादोऽकर्मनिमित्तः शरीरादिसर्ग इत्य् एतस्मान् न भिद्यते, अभेदात् तत्प्रतिषेधेनैव प्रतिषिद्धो वेदितव्य इति॥२४॥


********************** न्यायभाष्यम्४,१.२५ **********************


अन्ये तु मन्यन्ते ---
न्याभा४,१.२५_ सर्वम् अनित्यम् उत्पत्तिविनाशधर्मकत्वात् ॥
किम् अनित्यं नाम? यस्य कदाचिद् भावस् तद् अनित्यम्। उत्पत्तिधर्मकम् अनुत्पन्नं नास्ति विनाशधर्मकं च विनष्टं नास्ति। किं पुनः सर्वम्? भौतिकं च शरीरादि


अभौतिकं च बुद्ध्यादि, तद् उभयम् उत्पत्तिविनाशधर्मकं विज्ञायते, तस्मात् तत् सर्वम् अनित्यम् इति॥२५॥


********************** न्यायभाष्यम्४,१.२६ **********************


न्याभा४,१.२६_ नानित्यतानित्यत्वात् ॥
यदि तावत् सर्वस्यानित्यता नित्या, तन्नित्यत्वान् न सर्वम् अनित्यम्। अथानित्या तस्याम् अविद्यमानायां सर्वं नित्यम् इति॥२६॥


********************** न्यायभाष्यम्४,१.२७ **********************


न्याभा४,१.२७_ तदनित्यत्वम् अग्नेर् दाह्यं विनाश्यानुविनाशवत् ॥
तस्या अनित्यताया अप्य् अनित्यत्वम्। कथम्? यथा अग्निर् दाह्यं विनाश्यानुविनश्यति एवं सर्वस्यानित्यता सर्वं विनाश्यानुविनश्यतीति॥२७॥


********************** न्यायभाष्यम्४,१.२८ **********************


न्याभा४,१.२८_ नित्यस्याप्रत्याख्यानं यथोपलब्धि व्यवस्थानात् ॥
अयं खलु वादो नित्यं प्रत्याचष्टे, नित्यस्य च प्रत्याख्यानम् अनुपपन्नम्। कस्मात्? यथोपलब्धि व्यवस्थानात्। यस्योत्पत्तिविनाशधर्मकत्वम् उपलभ्यते प्रमाणतस् तद् अनित्यम्,


यस्य नोपलभ्यते तद्विपरीतम्। न च परमसूक्ष्माणां भूतानाम् आकाशकालदिगात्ममनसां तद्गुणानां च केषाञ्चित् सामान्यविशेषसमवायानां चोत्पत्तिविनाशधर्मकत्वं प्रमाणत उपलभ्यते, तस्मान् नित्यान्य् एतानीति॥२८॥


********************** न्यायभाष्यम्४,१.२९ **********************


अयम् अन्य एकान्तः ---
न्याभा४,१.२९_ सर्वं नित्यं पञ्चभूतनित्यत्वात् ॥
भूतमात्रम् इदं सर्वं तानि च नित्यानि भूतोच्छेदानुपपत्तेर् इति॥२९॥


********************** न्यायभाष्यम्४,१.३० **********************


न्याभा४,१.३०_ नोत्पत्तिविनाशकारणोपलब्धेः ॥
उत्पत्तिकारणं चोपलभ्यते विनाशकारणं च, तत् सर्वनित्यत्वे व्याहन्यते इति॥३०॥


********************** न्यायभाष्यम्४,१.३१ **********************


न्याभा४,१.३१_ तल्लक्षणावरोधाद् अप्रतिषेधः ॥
यस्योत्पत्तिविनाशकारणम् उपलभ्यते इति मन्यसे, न तद् भूतलक्षणहीनम् अर्थान्तरं गृह्यते, भूतलक्षणावरोधाद् भूतमात्रम् इदम् इत्य् उक्तोऽयं प्रतिषेध इति॥३१॥


********************** न्यायभाष्यम्४,१.३२ **********************


न्याभा४,१.३२_ नोत्पत्तितत्कारणोपलब्धेः ॥
कारणसमानगुणस्योत्पत्तिः कारणं चोपलभ्यते। न चैतद् उभयं नित्यविषयम्, न चोत्पत्तितत्कारणोपलब्धिः शक्या प्रत्याख्यातुम्, न चाविषया काचिद् उपलब्धिः। उपलब्धिसामर्थ्यात् कारणेन समानगुणं कार्यम् उत्पद्यते इत्य् अनुमीयते, स खलूपलब्धेर् विषय इति। एवं च तल्लक्षणावरोधोपपत्तिर् इति।
उत्पत्तिविनाशकारणप्रयुक्तस्य ज्ञातुः प्रयत्नो दृष्ट इति। प्रसिद्धश् चावयवी तद्धर्मा। उत्पत्तिविनाशधर्मा चावयवी सिद्ध इति।


शब्दकर्मबुद्ध्यादीनां चाव्याप्तिः। पञ्चभूतनित्यत्वात् तल्लक्षणावरोधाच् चेत्य् अनेन शब्दकर्मबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नाश् च न व्याप्ताः तस्माद् अनेकान्तः।
स्वप्नविषयाभिमानवन् मिथ्योपलब्धिर् इति चेत् भूतोपलब्धौ तुल्यम्। यथा स्वप्ने विषयाभिमान एवम् उत्पत्तिकारणाभिमान इति। एवं चैतद् भूतोपलब्धौ तुल्यं पृथिव्याद्युपलब्धिर् अपि स्वप्नविषयाभिमानवत् प्रसज्यते।


पृथिव्याद्यभावे सर्वव्यवहारविलोप इति चेत् तद् इतरत्र समानम् --- उत्पत्तिविनाशकारणोपलब्धिविषयस्याप्य् अभावे सर्वव्यवहारविलोप इति, सोऽयं नित्यानाम् अतीन्द्रियत्वाद् अविषयत्वाच् चोत्पत्तिविनाशयोः स्वप्नविषयाभिमानवद् इत्य् अहेतुर् इति॥३२॥


********************** न्यायभाष्यम्४,१.३३ **********************


अवस्थितस्योपादानस्य धर्ममात्रं निवर्तते धर्ममात्रम् उपजायते स खलूत्पत्तिविनाशयोर् विषयः।
-शयोर् विषयः।] पृ.९७१
यच् चोपजायते तत् प्राग् अप्य् उपजननाद् अस्ति, यच् च निवर्तते तन् निवृत्तम् अप्य् अस्तीति, एवं च सर्वस्य नित्यत्वम् इति?
न्याभा४,१.३३_ न व्यवस्थानुपपत्तेः ॥
अयम् उपजनः इयं निवृत्तिर् इति व्यवस्था नोपपद्यते, उपजातनिवृत्तयोर् विद्यमानत्वात्। अयं धर्म उपजातोऽयं निवृत्त इति सद्भावाविशेषाद् अव्यवस्था, इदानीम् उपजननिवृत्ती नेदानीम् इति कालव्यवस्था नोपपद्यते सर्वदा विद्यमानत्वात् अस्य धर्मस्योपजननिवृत्ती नास्येति व्यवस्थानुपपत्तिः,
-जननिवृत्ती नास्येति व्यवस्थानुपपत्तिः,] पृ.९७२
उभ्योर् अविशेषात्। अनागतोऽतीत इति च कालव्यवस्थानुपपत्तिः, वर्तमानस्य सद्भावलक्षणत्वात्। अविद्यमानस्यात्मलाभ उपजनो विद्यमानस्यात्महानं निवृत्तिर् इत्य् एतस्मिन् सति नैते दोषाः। तस्माद् यद् उक्तं प्राग् अप्य् उपजनाद् अस्ति निवृत्तं चास्ति तद् अयुक्तम् इति॥३३॥


********************** न्यायभाष्यम्४,१.३४ **********************
अयम् अन्य एकान्तः ---
न्याभा४,१.३४_ सर्वं पृथग् भावलक्षणपृथक्त्वात् ॥
सर्वं नाना न कश्चिद् एको भावो विद्यते। कस्मात्? भावलक्षणपृथक्त्वात् --- भावस्य लक्षणम् अभिधानम्, येन लक्ष्यते भावः स समाख्याशब्दः, तस्य पृथग्विषयत्वात्।


सर्वो भावसमाख्याशब्दः समूहवाची, कुम्भ इति संज्ञाशब्दो गन्धरसरूपस्पर्शसमूहे बुध्नपार्श्वग्रीवादिसमूहे च वर्त्तते, निदर्शनमात्रं चेदम् इति॥३४॥


********************** न्यायभाष्यम्४,१.३५ **********************


न्याभा४,१.३५_ नानेकलक्षणैर् एकभावनिष्पत्तेः ॥
अनेकविधलक्षणैर् इति मध्यमपदलोपी समासः। गन्धादिभिश् च गुणैर् बुध्नादिभिश् चावयवैः सम्बद्ध एको भावो निष्पद्यते, गुणव्यतिरिक्तं च द्रव्यम् अवयवातिरिक्तश् चावयवीति। विभक्तन्यायं चैतद् उभयम् इति॥३५॥


********************** न्यायभाष्यम्४,१.३६ **********************


अथापि ---
न्याभा४,१.३६_ लक्षणव्यवस्थानाद् एवाप्रतिषेधः ॥
न कश्चिद् एको भाव इत्य् अयुक्तः प्रतिषेधः। कस्मात्? लक्षणव्यवस्थानाद् एव। यद् इह लक्षणं भावस्य संज्ञाशब्दभूतं तद् एकस्मिन् व्यवस्थितम्, यं कुम्भम् अद्राक्षं तं स्पृशामि यम् एवास्प्राक्षं तं पश्यामीति नाणुसमूहो गृह्यते इति। अणुसमूहे चागृह्यमाणे यद् गृह्यते तद् एकम् एवेति।
अथाप्य् एतद् अनूक्तम् नास्त्य् एको भावो यस्मात् समुदायः, एकानुपपत्तेर् नास्त्य् एव समूहः --- नास्त्य् एको भावो यस्मात् समूहे भावशब्दप्रयोगः॑ेकस्य चानुपपत्तेः


समूहो नोपपद्यते एकसमुच्चयो हि समूह इति। व्याहतत्वाद् अनुपपन्नं --- नास्त्य् एको भाव इति यस्य प्रतिषेधः प्रतिज्ञायते, समूहे भावशब्दप्रयोगाद् इति हेतुं ब्रुवता स एवाभ्यनुज्ञायते, एकसमुच्चयो हि समूह इति। समूहे भावशब्दप्रयोगाद् इति च समूहम् आश्रित्य प्रत्येकं समूहिप्रतिषेधो नास्त्य् एको भाव इति। सोऽयम् उभयतो व्याघाताद् यत्किञ्चनवाद इति॥३६॥


********************** न्यायभाष्यम्४,१.३७ **********************


अयम् अपर एकान्तः ---
न्याभा४,१.३७_ सर्वम् अभावो भावेष्व् इतरेतराभावसिद्धेः ॥
यावद् भावजातं तत् सर्वम् अभावः। कस्मात्? भावेष्व् इतरेतराभावसिद्धेः। ’’सन् गौर् अश्वात्मनाऽऽ अनश्वो गौः ’’सन्न् अश्वो गवात्मना अगौर् अश्वःऽऽ इत्य् असत्प्रत्ययस्य प्रतिषेधस्य च भावशब्देन सामानाधिकरण्यात् सर्वम् अभाव इति॥३७॥


********************** न्यायभाष्यम्४,१.३८ **********************


प्रतिज्ञावाक्ये पदयोः प्रतिज्ञाहेत्वोश् च व्याघाताद् अयुक्तम्। अनेकस्याशेषता सर्वशब्दस्यार्थो, भावप्रतिषेधश् चाभावशब्दस्यार्थः। पूर्वं सोपाख्यम् उत्तरं निरुपाख्यं तत्र


समुपाख्यायमानं कथं निरुपाख्यम् अभावः स्याद् इति? न जात्व् अभावो निरुपाख्योऽनेकतयाशेषतया शक्यः प्रतिज्ञातुम् इति। सर्वम् एतद् अभाव इति चेत् --- यद् इदं सर्वम् इति मन्यसे तदभाव इति? एवं चेत् अनिवृत्तो व्याघातः, अनेकम् अशेषं चेति नाभावे प्रत्ययेन शक्यं भवितुम्। अस्ति चायं प्रत्ययः सर्वम् इति, तस्मान् नाभाव इति।
प्रतिज्ञाहेत्वोश् च व्याघातः --- सर्वम् अभाव इति भावप्रतिषेधः प्रतिज्ञा, भावेष्व् इतरेतराभावसिद्धेर् इति हेतुः। भावेष्व् इतरेतराभावम् अनुज्ञायाश्रित्य च इतरेतराभावसिद्ध्या सर्वम् अभाव इत्य् उच्यते। यदि सर्वम् अभावो भावेष्व् इतरेतराभावसिद्धेर् इति नोपपद्यते। अथ भावेष्व् इतरेतराभावसिद्धिः, सर्वम् अभाव इति नोपपद्यते।


सूत्रेण चाभिसम्बन्धः।
न्याभा४,१.३८_ न स्वभावसिद्धेर् भावानाम् ॥
न सर्वम् अभावः। कस्मात्? स्वेन भावेन सद्भावाद् भावानाम्। स्वेन धर्मेण भावा भवन्तीति प्रतिज्ञायते। कश् च स्वो धर्मो भावानाम्? द्रव्यगुणकर्मणां सदादिसामान्यम्, द्रव्याणां क्रियावद् इत्येवमादिविशेषः, स्पर्शपर्यन्ताः पृथिव्या इति च॑ प्रत्येकं चानन्तो भेदः। सामान्यविशेषसमवायानां च विशिष्टा धर्मा गृह्यन्ते।


सोऽयम् अभावस्य निरुपाख्यत्वात् सम्प्रत्यायकोऽर्थभेदो न स्यात्? अस्ति त्व् अयम्, तस्मान् न सर्वम् अभाव इति।
अथ वा न स्वभावसिद्धेर् भावानाम् इति स्वरूपसिद्धेर् इति। गौर् इति प्रयुज्यमाने शब्दे जातिविशिष्टं द्रव्यं गृह्यते, नाभावमात्रम्। यदि च सर्वम् अभावः गौर् इत्य् अभावः प्रतीयेत, गोशब्देन चाभाव उच्येत। यस्मात् तु गोशब्दप्रयोगे द्रव्यविशेषः प्रतीयते नाभावस् तस्माद् अयुक्तम् इति।
अथ वा न स्वभावसिद्धेर् इति। असन् गौर् अश्वात्मनेति गवात्मना कस्मान् नोच्यते? अवचनाद् गवात्मना गौर् अस्तीति स्वभावसिद्धिः, अनश्वोऽश्व इति वा गौर् अगौर् इति वा कस्मान् नोच्यते? अवचनात् स्वेन रूपेण विद्यमानता द्रव्यस्येति विज्ञायते।


अव्यतिरेकप्रतिषेधे च भावेन असत्प्रत्ययसामानाधिकरण्यम् भावे संयोगादिसम्बन्धो व्यतिरेकः। अत्र अव्यतिरेकः अभेदाख्यसम्बन्धः तत्प्रतिषेधे सदा च असत्प्रत्ययसामानाधिकरण्यम्, यथा न सन्ति कुण्डे बदराणीति। असन् गौर् अश्वात्मना अनश्वो गौर् इति च गवाश्वयोर् अव्यतिरेकः प्रतिषिध्यते गवाश्वयोर् एकत्वं नास्तीति। तस्मिन् प्रतिषिध्यमाने भावेन गवा सामानाधिकरण्यम् असत्प्रत्ययस्य असन् गौर् अश्वात्मनेति, यथा न सन्ति कुण्डे बदराणीति कुण्डे बदरसंयोगे प्रतिषिध्यमाने सद्भिर् असत्प्रत्ययस्य सामानाधिकरण्यम् इति॥३८॥


********************** न्यायभाष्यम्४,१.३९ **********************


न्याभा४,१.३९_ न स्वभावसिद्धिर् आपेक्षिकत्वात् ॥
अपेक्षाकृतम् आपेक्षिकम्। ह्रस्वापेक्षाकृतं दीर्घं दीर्घापेक्षाकृतं ह्रस्वम्, न स्वेनात्मनावस्थितं किञ्चित्। कस्मात्? अपेक्षासामर्थ्यात्। तस्मान् न स्वभावसिद्धिर् भावानाम् इति॥३९॥


********************** न्यायभाष्यम्४,१.४० **********************


न्याभा४,१.४०_ व्याहतत्वाद् अयुक्तम् ॥
यदि ह्रस्वापेक्षाकृतं दीर्घं ह्रस्वम् अनापेक्षिकम्। किम् इदानीम् अपेक्ष्य ह्रस्वम् इति गृह्यते? अथ दीर्घापेक्षाकृतं ह्रस्वम्, दीर्घम् अनापेक्षिकम्? एवम् इतरेतराश्रययोर् एकाभावे अन्यतराभावाद् उभयाभाव इति अपेक्षाव्यवस्थानुपपन्ना।
रेतराश्रययोर् एकाभावे अन्यतराभावाद् उभयाभाव इति अपेक्षाव्यवस्थानुपपन्ना।] पृ.९८४
स्वभावसिद्धाव् असत्यां समयोः परिमण्डलयोर् वा द्रव्ययोर् आपेक्षिके दीर्घत्वह्रस्वत्वे कस्मान् न भवतः? अपेक्षायाम् अनपेक्षायां च द्रव्ययोर् अभेदः। यावती द्रव्ये अपेक्षमाणे तावती एवानपेक्षमाणे नान्यतरत्र भेदः। आपेक्षिकत्वे तु सत्य् अन्यतरत्र विशेषोपजनः स्याद् इति।


किम् अपेक्षासामर्थ्यम् इति चेत्? द्वयोर् ग्रहणेऽतिशयग्रहणोपपत्तिः। द्वे द्रव्ये पश्यन्न् एकत्र विद्यमानम् अतिशयं गृह्णाति तद् दीर्घम् इति व्यवस्यति, यच् च हीनं गृह्णाति तद् ध्रस्वम् इति व्यवस्यतीति। एतच् चापेक्षासामर्थ्यम् इति॥४०॥


********************** न्यायभाष्यम्४,१.४१ **********************


अथेमे सङ्ख्यैकान्तवादाः ---
सर्वम् एकं सदविशेषात्।


सर्वं द्वेधा नित्यानित्यभेदात्। सर्वं त्रेधा ज्ञाता ज्ञानं ज्ञेयम् इति। सर्वं चतुर्द्धा प्रमाता प्रमाणं प्रमेयं प्रमितिर् इति। एवं यथासम्भवम् अन्येऽपीति। तत्र परीक्षा ---


न्याभा४,१.४१_ सङ्ख्यैकान्तासिद्धिः कारणानुपपत्त्युपपत्तिभ्याम् ॥
यदि साध्यसाधनयोर् नानात्वम्, एकान्तो न सिद्ध्यति व्यतिरेकात्। अथ


साध्यसाधनयोर् अभेदः? एवम् अप्य् एकान्तो न सिध्यति साधनाभावात्, न हि हेतुम् अन्तरेण कस्यचित् सिद्धिर् इति॥४१॥


********************** न्यायभाष्यम्४,१.४२ **********************


न्याभा४,१.४२_ न कारणावयवभावात् ॥
न सङ्ख्यैकान्तानाम् असिद्धिः कस्मात्? कारणस्यावयवभावात्। अवयवः कश्चित् साधनभूत इत्य् अव्यतिरेकः। एवं द्वैतादीनाम् अपीति॥४२॥


********************** न्यायभाष्यम्४,१.४३ **********************


न्याभा४,१.४३_ निरवयवत्वाद् अहेतुः ॥
कारणस्यावयवभावाद् इत्य् अहेतुः। कस्मात्? सर्वम् एकम् इत्य् अनपवर्गेण प्रतिज्ञाय कस्यचिद् एकत्वम् उच्यते, तत्र व्यपवृक्तोऽवयवः साधनभूतो नोपपद्यते। एवं द्वैतादिष्व् अपीति।


ते खल्व् इमे सङ्ख्यैकान्ता यदि विशेषकारितस्यार्थभेदविस्तारस्य प्रत्याख्यानेन वर्त्तन्ते, प्रत्यक्षानुमानागमविरोधान् मिथ्यावादा भवन्ति। अथाभ्यनुज्ञानेन वर्त्तन्ते? समानधर्मकारितोऽर्थसंग्रहो विशेषकारितश् चार्थभेद इति एवम् एकान्तत्वं जहतीति। ते खल्व् एते तत्त्वज्ञानप्रविवेकार्थम् एकान्ताः परीक्षिता इति॥४३॥


********************** न्यायभाष्यम्४,१.४४ **********************


प्रेत्यभावानन्तरं फलम्, तस्मिन् ---
न्याभा४,१.४४_ सद्यः कालान्तरे च फलनिष्पत्तेः संशयः ॥
पचति दोग्धीति सद्यः फलमोदनपयसी, कर्षति वपतीति कालान्तरे फलं


शस्याधिगम इति। अस्ति चेयं क्रिया अग्निहोत्रं जुहुयात् स्वर्गकाम इति एतस्याः


फले संशयः। न सद्यः कालान्तरोपभोग्यत्वात् । स्वर्गः फलं श्रूयते, तच् च भिन्नेऽस्मिन् देहभेदाद् उत्पद्यते इति। न सद्यः ग्रामादिकामानाम्ü॰ारम्भफलम् इति॥४४॥


********************** न्यायभाष्यम्४,१.४५ **********************


न्याभा४,१.४५_ कालान्तरेणानिष्पत्तिर् हेतुविनाशात् ॥
ध्वस्तायां प्रवृत्तौ प्रवृत्तेः फलं न कारणम् अन्तरेणोत्पत्तुम् अर्हति, न खलु वै विनष्टात् कारणात् किञ्चिद् उत्पद्यते इति॥४५॥


********************** न्यायभाष्यम्४,१.४६ **********************


न्याभा४,१.४६_ प्राङ् निष्पत्तेर् वृक्षफलवत् तत् स्यात् ॥
यथा फलार्थिना वृक्षमूले सेकादि परिकर्म क्रियते, तस्मिंश् च प्रध्वस्ते पृथिवीधातुर् अब्धातुना संगृहीत आन्तरेण तेजसा पच्यमानो रसद्रव्यं निर्वर्तयति, स द्रव्यभूतो रसो वृक्षानुगतः पाकविशिष्टो व्यूहविशेषेण सन्निविशमानः पर्णादि फलं निर्वर्तयति, एवं परिषेकादि कर्म चार्थवत्। न च विनष्टात् फलनिष्पत्तिः। तथा प्रवृत्त्या संस्कारो धर्माधर्मलक्षणो जन्यते, स जातो निमित्तान्तरानुगृहीतः कालान्तरे फलं निष्पादयतीति। उक्तञ् चैतत् ’’पूर्वकृतफलानुबन्धात् तदुत्पत्तिर्ऽऽ इति॥४६॥


********************** न्यायभाष्यम्४,१.४७ **********************


तद् इदं प्राङ् निष्पत्तेर् निष्पद्यमानम्---
न्याभा४,१.४७_ नासन् न सन् न सदसत् सदसतोर् वैधर्म्यात् ॥
प्राङ् निष्पत्तेर् निष्पत्तिधर्मकं नासत्, उपादाननियमात्। कस्यचिद् उत्पत्तये किञ्चिद् उपादेयं न सर्वं सर्वस्येत्य् असद्भावे नियमो नोपपद्यते इति। न सत्, प्राङ् उत्पत्तेर् विद्यमानस्योत्पत्तिर् अनुपपन्नेति। न, सदसत् सदसतोर् वैधर्म्यात्


सद् इत्य् अर्थाभ्यनुज्ञा, असद् इति अर्थप्रतिषेधः, एतयोर् व्याघातो वैधर्म्यं व्याघाताद् अव्यतिरेकानुपपत्तिर् इति॥४७॥


********************** न्यायभाष्यम्४,१.४८ **********************
प्राग् उत्पत्तेर् उत्पत्तिधर्मकम् असद् इत्य् अद्धा। कस्माअत्?
न्याभा४,१.४८_ उत्पादव्ययदर्शनात् ॥


यत् पुनरुक्तं प्राग् उत्पत्तेः कार्यं नासद् उपादाननियमाद् इति---


********************** न्यायभाष्यम्४,१.४९ **********************


न्याभा४,१.४९_ बुद्धिसिद्धं तु तद् असत् ॥
इदम् अस्योत्पत्तये समर्थं न सर्वम् इति प्राग् उत्पत्तेर् नियतकारणं कार्यं बुद्ध्या


सिद्धम् उत्पत्तिनियमदर्शनात्। तस्माद् उपादाननियमस्योपपत्तिः सति तु कार्ये प्राग् उत्पत्तेर् उत्पत्तिर् एव नास्तीति॥४९॥


********************** न्यायभाष्यम्४,१.५० **********************


न्याभा४,१.५०_ आश्रयव्यतिरेकाद् वृक्षफलोत्पत्तिवद् इत्य् अहेतुः ॥
मूलसेकादि परिकर्म फलं चोभयं वृक्षाश्रयम्, कर्म चेह शरीरे, फलं चामुत्र इत्य् आश्रयव्यतिरेकाद् अहेतुर् इति॥५०॥


********************** न्यायभाष्यम्४,१.५१ **********************


न्याभा४,१.५१_ प्रीतेर् आत्माश्रयत्वाद् अप्रतिषेधः ॥
प्रीतिर् आत्मप्रत्यक्षत्वाद् आत्माश्रया, तदाश्रयम् एव कर्म धर्मसंज्ञितम्, धर्मस्यात्मगुणत्वात् तस्माद् आश्रयव्यतिरेकानुपपत्तिर् इति॥५१॥


********************** न्यायभाष्यम्४,१.५२ **********************


न्याभा४,१.५२_ न पुत्रपशुस्त्रीपरिच्छदहिरण्यान्नादिफलनिर्देशात् ॥
पुत्रादि फलं निर्दिश्यते न प्रीतिः, ’’ग्रामकामो यजेतऽऽ ’’पुत्रकामो यजेतेऽऽति तत्र यद् उक्तं प्रीतिः फलम् इत्य् एतद् अयुक्तम् इति॥५२॥


********************** न्यायभाष्यम्४,१.५३ **********************


न्याभा४,१.५३_ तत्सम्बन्धात् फलनिष्पत्तेस् तेषु फलवदुपचारः ॥
पुत्रादिसम्बन्धात् फलं प्रीतिलक्षणम् उत्पद्यते इति पुत्रादिषु फलवदुपचारः, यथान्ने प्राणशब्दो ’’न्नं वै प्राणाःऽऽिति॥५३॥


********************** न्यायभाष्यम्४,१.५४ **********************


फलानन्तरं दुःखम् उद्दिष्टम्, उक्तं च ’’बाधनालक्षणं दुःखम्ऽऽिति। तत् किम् इदं प्रत्यात्मवेदनीयस्य सर्वजन्तुप्रत्यक्षस्य सुखस्य प्रत्याख्यानम्, आहोस्विद् अन्यः कल्प इति?
अन्य इत्य् आह। कथम्? न वै सर्वलोकसाक्षिकं सुखं शक्यं प्रत्याख्यातुम्। अयं तु जन्ममरणप्रबन्धानुभवनिमित्ताद् दुःखान् निर्विण्णस्य दुःखं जिहासतो दुःखसंज्ञाभावनोपदेशो दुःखहानार्थ इति।
भावनोपदेशो दुःखहानार्थ इति।] पृ.१००७
कया युक्त्या? सर्वे खलु सत्त्वनिकायाः सर्वाण्य् उत्पत्तिस्थानानि सर्वः पुनर्भवो बाधनानुषक्तो दुःखसाहचर्याद् बाधनालक्षणं दुःखम् इत्य् उक्तम् ऋषिभिः, दुःखसंज्ञाभावनम् उपदिश्यते अत्र च हेतुर् उपादीयते---
न्याभा४,१.५४_ विविधबाधनायोगाद् दुःखम् एव जन्मोत्पत्तिः ॥
जन्म जायते इति शरीरेन्द्रियबुद्धयः शरीरादीनां च संस्थानविशिष्टानां प्रादुर्भाव उत्पत्तिः। विविधा च बाधना, हीना मध्यमा उत्कृष्टा चेति। उत्कृष्टा नारकिणाम्, तिरश्चां तु मध्यमा, मनुष्याणां तु हीना, देवानां हीनतरा वीतरागाणां च। एवं सर्वम् उत्पत्तिस्थानं विविधबाधनानुषक्तं पश्यतः सुखे तत्साधनेषु च शरीरेन्द्रियबुद्धिषु दुःखसंज्ञा व्यवतिष्ठते।
बुद्धिषु दुःखसंज्ञा व्यवतिष्ठते।] पृ.१००८
दुःखसंज्ञाव्यवस्थानात् सर्वलोकेष्व् अनभिरतिसंज्ञा भवति। अनभिरतिसंज्ञाम् उपासीनस्य सर्वलोकविषया तृष्णा विच्छिद्यते, तृष्णाप्रहाणात् सर्वदुःखाद् विमुच्यते इति। यथा विषयोगात् पयो विषम् इति बुध्यमानो नोपादत्ते, अनुपाददानो मरणदुःखं नाप्नोति॥५४॥


********************** न्यायभाष्यम्४,१.५५ **********************
दुःखोद्देशस् तु न सुखस्य प्रत्याख्यानम्, कस्मात्?
न्याभा४,१.५५_ न सुखस्यान्तरालनिष्पत्तेः ॥
न खल्व् अयं दुःखोद्देशः सुखस्य प्रत्याख्यानम्। कस्मात्, सुखस्यान्तरालनिष्पत्तेः। निष्पद्यते खलु बाधनान्तरालेषु सुखं प्रत्यात्मवेदनीयं शरीरिणाम्, तद् अशक्यं प्रत्याख्यातुम् इति॥५५॥


********************** न्यायभाष्यम्४,१.५६ **********************


अर्थापि---
न्याभा४,१.५६_ बाधनानिवृत्तेर् वेदयतः पर्येषणदोषाद् अप्रतिषेधः ॥
सुखस्य, दुःखोद्देशेनेति प्रकरणात् पर्येषणं प्रार्थना विषयार्जनतृष्णा, पर्येषणस्य दोषो यद् अयं वेदयमानः प्रार्थयते तच् चास्य प्रार्थितं न सम्पद्यते, सम्पद्य वा विपद्यते, न्यूनं वा सम्पद्यते, बहुप्रत्यनीकं वा सम्पद्यते इति एतस्मात् पर्येषणदोषान् नानाविधो मानसः सन्तापो भवति एवं वेदयतः पर्येषणदोषाद् बाधनाया अनिवृत्तिः। बाधनानिवृत्तेर् दुःखसंज्ञाभावनम् उपदिश्यते । अनेन कारणेन दुःखं जन्म न तु सुखस्याभावाद् इति।


अथाप्य् एतद् अनूक्तम्---
’’कामं कामयमानस्य यदा कामः समृध्यति।
अथैनम् अपरः कामः क्षिप्रम् एव प्रबाधते॥ऽऽ
’’पि चेद् उदनेमि समन्ताद् भूमिम् इमां लभते सगवाश्वाम्। न स तेन धनेन धनैषी तृप्यति किन् नु सुखं धनकामे॥ऽऽ इति॥५६॥


********************** न्यायभाष्यम्४,१.५७ **********************


न्याभा४,१.५७_ दुःखविकल्पे सुखाभिमानाच् च ॥
दुःखसंज्ञाभावनोपदेशः क्रियते। अयं खलु सुखसंवेदने व्यवस्थितः सुखं परमपुरुषार्थं मन्यते, न सुखाद् अन्यन् निःश्रेयसम् अस्ति सुखे प्राप्ते चरितार्थः कृतकरणीयो भवति। मिथ्यासङ्कल्पात् सुखे तत्साधनेषु च विषयेषु संरज्यते, संरक्तः सुखाय घटते, घटमानस्यास्य जन्मजराव्याधिप्रायणानिष्टसंयोगेष्टवियोगप्रार्थितानुपपत्तिनिमित्तम् अनेकविधं यावद् दुःखम् उत्पद्यते, तं दुःखविकल्पं सुखम् इत्य् अभिमन्यते। सुखाङ्गभूतं दुखम्, न दुःखम् अनासाद्य शक्यं सुखम् अवाप्तुम्, तादर्थ्यात् सुखम् एवेदम् इति सुखसंज्ञोपहतप्रज्ञो जायस्व चेति संधावतीति संसारं


नातिवर्त्तते। तद् अस्याः सुखसंज्ञायाः प्रतिपक्षो दुःखसंज्ञाभावनम् उपदिश्यते, *दुःखानुषङ्गाद् (शुद्ध ; दुःखानुसङ्गाद्, सम्पादकः) दुःखं जन्मेति, न सुखस्याभावात्।
यद्य् एवं कस्माद् दुःखं जन्मेति नोच्यते? सोऽयम् एवं वाच्ये यद् एवम् आह दुःखम् एव जन्मेति तेन सुखाभावं ज्ञापयतीति जन्म विनिग्रहार्थीयो वै खल्व् अयम् एवशब्दः। कथम्? न दुःखं जन्म स्वरूपतः, किं तु दुःखोपचारात्॑ एवं सुखम् अपीति एतद् अनेनैव निर्वर्त्त्यते न तु दुःखम् एव जन्मेति॥५७॥


********************** न्यायभाष्यम्४,१.५८ **********************


दुःखोद्देशानन्तरम् अपवर्गः, स प्रत्याख्यायते---
न्याभा४,१.५८_ ऋणक्लेशप्रवृत्त्यनुबन्धाद् अपवर्गाभावः ॥
ऋणानुबन्धान् नास्त्य् अपवर्गः---’’जायमानो ह वै ब्राह्मणस् त्रिभिर् ऋणैर् ऋणवान् जायते, ब्रह्मचर्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यऽऽ इति ऋणानि, तेषाम् अनुबन्धः स्वकर्मभिः सम्बन्धः, कर्मसम्बन्धवचनात् ’’जरामर्यं वा एतत् सत्रं यद् अग्निहोत्रं दर्शपूर्णम् आसौ चऽऽ इति ’’जरया ह वा एष तस्मात् सत्राद् विमुच्यते मृत्युना ह वाऽऽ इति *ऋणानुबन्धाद् (शुद्ध ; ऋणानुवन्धाद्, सम्पादकः) अपवर्गानुष्ठानकालो नास्तीत्य् अपवर्गाभावः।


क्लेशानुबन्धान् नास्त्य् अपवर्गः क्लेशानुबद्ध एवायं म्रियते, क्लेशानुबद्धश् च जायते नास्य क्लेशानुबन्धविच्छेदो गृह्यते।
प्रवृत्त्यनुबन्धान् नास्त्य् अपवर्गः---जन्मप्रभृत्य् अयं यावत् प्रायणं वाग्बुद्धिशरीरारम्भेणाविमुक्तो गृह्यते, तत्र यद् उक्तं ’’दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानाम् उत्तरोत्तरापाये तदनन्तराभावाद् अपवर्गऽऽ इति, तद् अनुपपन्नम् इति॥५८॥


********************** न्यायभाष्यम्४,१.५९ **********************
अत्राभिधीयते। यत् तावद् ऋणानुबन्धाद् इति ऋणैर् इव ऋणैर् इति---
न्याभा४,१.५९_ प्रधानशब्दानुपपत्तेर् गुणशब्देनानुवादो निन्दाप्रशंसोपपत्तेः ॥
ऋणैर् इति नायं प्रधानशब्दः। यत्र खल्व् एकः प्रत्यादेयं ददाति, द्वितीयश् च प्रतिदेयं गृह्णाति तत्रास्य दृष्टत्वात् प्रधानम् ऋणशब्दः। न चैतद् इहोपपद्यते, प्रधानशब्दानुपपत्तेः, गुणशब्देनायम् अनुवाद ऋणैर् इव ऋणैर् इति।
नुपपत्तेः गुणशब्देनायम् अनुवाद ऋणैर् इव ऋणैर् इति।] पृ.१०१५
प्रयुक्तोपमं चैतद् यथाग्निर् माणवक इति---अन्यत्र दृष्टश् चायम् ऋणशब्द इह प्रयुज्यते, यथाग्निशब्दो माणवके। कथं गुणशब्देनानुवादः? निन्दाप्रशंसोपपत्तेः। कर्मलोपे ऋणीव ऋणादानान् निन्द्यते, कर्मानुष्ठाने च ऋणीव ऋणदानात् प्रशस्यते स एवोपमार्थ इति।


जायमान इति गुणशब्दो विपर्ययेऽनधिकारात्। जायमानो ह वै ब्राह्मण इति च गुणशब्दो गृहस्थः सम्पद्यमानो जायमान इति॑ यदायं गृहस्थो जायते तदा कर्मभिर् अधिक्रियते मातृतो जायमानस्यानधिकारात्। यदा तु मातृतो जायते कुमारो न तदा कर्मभिर् अधिक्रियते अर्थिनः शक्तस्य चाधिकारात्। अर्थिनः कर्मभिर् अधिकारः कर्मविधौ कामसंयोगस् मृतेः ’’ग्निहोत्रं जुहुयात् स्वर्गकामऽऽ इत्य् एवमादि। शक्तस्य च (३*) प्रवृत्तिसम्भवात् शक्तस्य कर्मभिर् अधिकारः प्रवृत्तिसम्भवात्। (४*) शक्तः खलु विहिते कर्मणि प्रवर्त्तते नेतर इति। उभयाभावस् तु प्रधानशब्दार्थे। मातृतो जायमाने कुमारे उभयम् अर्थिता शक्तिश् च न भवतीति।


न भिद्यते च लौकिकाद् वाक्याद् वैदिकं वाक्यं प्रेक्षापूर्वकारिपुरुषप्रणीतत्वेन। तत्र लौकिकस् तावद् अपरीक्षकोऽपि न *जातमात्रं (शुद्ध ; जातप्रात्रं, सम्पादकः) कुमारकम् एवं ब्रूयाद् अधीष्व यजस्व ब्रह्मचर्यं चरेति। कुत एवम् ऋषिर् उपपन्नानवद्यवादी उपदेशार्थेन प्रयुक्त उपदिशति? न खलु वै नर्त्तकोऽन्धेषु प्रवर्त्तते न गायको बधिरेष्व् इति।
उपदिष्टार्थविज्ञानं चोपदेशविषयः। यश् चोपदिष्टम् अर्थं विजानाति तं प्रत्य् उपदेशः क्रियते, न चैतद् अस्ति जायमानकुमारक इति। गार्हस्थ्यलिङ्गं च मन्त्रब्राह्मणं कर्म अभिवदति। यच् च मन्त्रब्राह्मणं कर्म अभिवदति तत् पत्नीसम्बन्धादिना गार्हस्थ्यलिङ्गेनोपपन्नम्, तस्माद् गृहस्थोऽयं जायमानोऽभिधीयते इति।
अर्थित्वस्य चाविपरिणामे जरामर्यवादोपपत्तिः।


यावच् चास्य फलेनार्थित्वं न विपरिणमते न निवर्तते तावद् अनेन कर्मानुष्ठेयम् इत्य् उपपद्यते जरामर्यवादस् तं प्रतीति। जरया ह वेत्य् आयुषस्ü॰तुरीयस्य चतुर्थस्य प्रव्रज्यायुक्तस्य वचनं ’’जरया ह वा एष एतस्माद् विमुच्यतेऽऽ इति। आयुषस् तुरीयं चतुर्थं प्रव्रज्यायुक्तं जरेत्य् उच्यते, तत्र हि प्रव्रज्या विधीयते॑ अत्यन्तजरासंयोगे जरया ह वेत्य् अनर्थकम्। ’’शक्तो विमुच्यतेऽऽ इत्य् एतद् अपि नोपपद्यते, स्वयम् अशक्तस्य बाह्यां शक्तिम् आह---’’न्तेवासी वा जुहुयाद् ब्रह्मणा स परिक्रीतः, क्षीरहोता वा जहुयाद् धनेन स परिक्रीतऽऽ इति।


अथापि विहितं वानूद्येत कामाद् वार्थः परिकल्प्येत? विहितानुवचनं न्याय्यम् इति। ऋणवान् इवास्वतन्त्रो गृहस्थः कर्मसु प्रवर्त्तते इत्य् उपपन्नं वाक्यस्य


सामर्थ्यम्। फलस्य हि साधनानि प्रयत्नविषयो न फलम्, तानि सम्पन्नानि फलाय कल्पन्ते। विहितं च जायमानम्, विधीयते च जायमानम्, तेन यः सम्बद्ध्यते सोऽयं जायमान इति।
प्रत्यक्षविधानाभावाद् इति चेन् न, प्रतिषेधस्यापि प्रत्यक्षविधानाभावाद् इति। प्रत्यक्षतो विधीयते *गार्हस्थ्यं (शुद्ध ; गार्हथ्यं, सम्पादकः) ब्राह्मणेन, यदि चाश्रमान्तरम् अभविष्यत् तद् अपि व्यधास्यत


प्रत्यक्षतः, प्रत्यक्षविधानाभावान् नास्त्य् आश्रमान्तरम् इति। न, प्रतिषेधस्यापि प्रत्यक्ष्तो विधानाभावात्। न प्रतिषेधोऽपि वै ब्राह्मणेन प्रत्यक्षतो विधीयते --- न सन्त्य् आश्रमान्तराणि एक एव गृहस्थाश्रम इति प्रतिषेधस्य प्रत्यक्षतोऽश्रवणाद् अयुक्तम् एतद् इति।
अधिकाराच् च विधानं विद्यान्तरवत्। यथा शास्त्रान्तराणि स्वे स्वेऽधिकारे प्रत्यक्षतो विधायकानि नार्थान्तराभावाद् एवम् इदं ब्राह्मणं गृहस्थशास्त्रं स्वेऽधिकारे प्रत्यक्षतो विधायकं नाश्रमान्तराणाम् अभावाद् इति।


ऋग्ब्राह्मणं चापवर्गाभिधाय्य् अभिधीयते। ऋचश् च ब्राह्मणानि चापवर्गाभिवादीनि भवन्ति। ऋचश् च तावत् ---
’’कर्मभिर् मृत्युम् ऋषयो निषेदुः प्रजावन्तो द्रविणम् इच्छमानाः। अथापरे ऋषयो मनीषिणः परं कर्मभ्योऽमृतत्वम् आनशुः॥ऽऽ
’’न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वम् आनशुः। परेण नाकं निहितं गुहायां विभ्राजते यद् यतयो विशन्ति॥ऽऽ
’’वेदाहम् एतं पुरुषं महान्तम् आदित्यवर्णं तमसः परस्तात्। तम् एव विदित्वातिमृत्युम् एति नान्यः पन्था विद्यतेऽयनाय॥ऽऽ
अथ ब्राह्मणानि ---
’’त्रयो धर्मस्कन्धाः ---यज्ञोऽध्ययनं दानम् इति प्रथमस् तप एव द्वितीयो ब्रह्मचार्य् आचार्यकुलवासीति तृतीयोऽत्यन्तम् आत्मानम् आचार्यकुलेऽवसादयन् सर्वे एवैते पुण्यलोका भवन्ति ब्रह्मसंस्थोऽमृतत्वम् एति।ऽऽ
’’ेतम् एव प्रव्राजिनो लोकम् इच्छन्तः प्रव्रजन्तीतिऽऽ।


अथो खल्व् आहुः काममय एवायं पुरुष इति स यथाकामो भवति तत्क्रतुर् भवति यत्क्रतुर् भवति तत् कर्म कुरुते यत् कर्म कुरुते तद् अभिसंपद्यते।ऽऽ
इति कर्मभिः संसरणम् उक्त्वा प्रकृतम् अन्यद् उपदिशन्ति ’’िति नु कामयमानोऽथाकामयमानो योऽकामो निष्काम आत्मकाम आप्तकामो भवति न तस्य प्राणा उत्क्रामन्ति इहैव समवलीयन्ते ब्रह्मैव सन् ब्रह्माप्य् एतीतिऽऽ।
तत्र यद् उक्तम् ऋणानुबन्धाद् अपवर्गाभाव इत्य् एतद् अयुक्तम् इति। ’’ये चत्वारः पथयो देवयानाऽऽ इति च चातुराश्रम्यश्रुतेर् ऐकाश्रम्यान् उपपत्तिः॥५९॥


********************** न्यायभाष्यम्४,१.६० **********************
फलार्थिनश् चेदं ब्राह्मणं ’’जरामर्यं वा एतत् सत्रं यद् अग्निहोत्रम्. दर्शपूर्णम् आसौ चेतिऽऽ कथम्?
न्याभा४,१.६०_ समारोपणाद् आत्मन्य् अप्रतिषेधः ॥


’’प्राजापत्याम् इष्टं निरूप्य तस्यां सर्ववेदसं हुत्वा आत्मन्य् अग्नीन् समारोप्य ब्राह्मणः प्रव्रजेद्ऽऽ इति *श्रूयते (शुद्ध ; श्रूयते, एद्.)। तेन विजानीमः प्रजावित्तलोकैषणाभ्यो व्युत्थितस्य निवृत्ते फलार्थित्वे समारोपणं विधीयते इति।
एवं च ब्राह्मणानि ’’सोऽन्यद् व्रतम् उपाकरिष्यमाणो याज्ञवल्क्यो मैत्रेयीम् इति होवाच प्रव्रजिष्यन् वा अरे अहम् अस्मात् स्थानाद् अस्मि हन्त तेऽनया कात्यायन्या सहान्तं करवाणीति। अथाप्य् उक्तानुशासनासि मैत्रेयि एतावद् अरे खल्व् अमृतत्वम् इति होक्त्वा याज्ञवल्क्यः प्रवव्राजेतिऽऽ


********************** न्यायभाष्यम्४,१.६१ **********************


न्याभा४,१.६१_ पात्रचयान्तानुपपत्तेश् च फलाभावः ॥


जरामर्ये च कर्मण्य् अविशेषेण कल्प्यमाने सर्वस्य पात्रचयान्तानि कर्माणीति प्रसज्यते, तत्रैषणाव्युत्थानं न श्रूयेत। ’’ेतद् ध स्म वै तत् पूर्वे ब्राह्मणा अनूचाना विद्वांसः प्रजां न कामयन्ते किं प्रजया करिष्यामो येषां नोऽयम् आत्मायं लोक इति ते ह स्म पुत्रैषणायाश् च वित्तैषणायाश् च लोकैषणायाश् च व्युत्थायाथ भिक्षाचर्यं चरन्तीतिऽऽ। एषणाभ्यश् च व्युत्थितस्य पात्रचयान्तानि कर्माणि नोपपद्यन्ते इति नाविशेषेण कर्त्तुः प्रयोजकं फलं भवतीति।


चातुराश्रम्यविधानाच् चेतिहासपुराणधर्मशास्त्रेष्व् ऐकाश्रम्यानुपपत्तिः। तद् अप्रमाणम् इति चेद् न, प्रमाणेन प्रामाण्याभ्यनुज्ञानात् --- प्रमाणेन खलु ब्राह्मणेनेतिहासपुराणस्य प्रामाण्यम् अभ्यनुज्ञायते ’’ते वा खल्व् एते अथर्वाङ्गिरस एतद् इतिहासपुराणम् अभ्यवदन्न् इतिहासपुराणं पञ्चमं वेदानां वेद इतिऽऽ। तस्माद् अयुक्तम् एतदप्रामाण्यम् इति। अप्रामाण्ये च धर्मशास्त्रस्य प्राणभृतां व्यवहारलोपाल् लोकोच्छेदप्रसङ्गः।


द्रष्टृप्रवक्तृसामाण्याच् चाप्रामान्यानुपपत्तिः। ये एव मन्त्रब्राह्मणस्य द्रष्टारः प्रवक्तारश् च, ते खल्व् इतिहासपुराणस्य धर्मशास्त्रस्य चेति।
विषयव्यवस्थानाच् च यथाविषयं प्रामाण्यम्। अन्यो मन्त्रब्राह्मणस्य विषयोऽन्यच् चेतिहासपुराणधर्मशास्त्राणाम् इति। यज्ञो मन्त्रब्राह्मणस्य, लोकवृत्तम् इतिहासपुराणस्य, लोकव्यवहारव्यवस्थानं धर्मशास्त्रस्य विषयः। तत्रैकेन न सर्वं व्यवस्थाप्यते इति यथाविषयम् एतानि प्रमाणानीन्द्रियादिवद् इति॥६१॥


********************** न्यायभाष्यम्४,१.६२ **********************


यत् पुनर् एतत् क्लेशानुबन्धस्याविच्छेदाद् इति ---
न्याभा४,१.६२_ सुषुप्तस्य स्वप्नादर्शने क्लेशाभावाद् अपवर्गः ॥
यथा सुषुप्तस्य खलु स्वप्नादर्शने रागानुबन्धः सुखदुःखानुबन्धश् च विच्छिद्यते तथापवर्गेऽपीति। एतच् च ब्रह्मविदो मुक्तस्यात्मनो रूपम् उदाहरन्तीति॥६२॥


********************** न्यायभाष्यम्४,१.६३ **********************


यद् अपि प्रवृत्त्यनुबन्धाद् इति ---
न्याभा४,१.६३_ न प्रवृत्तिः प्रतिसन्धानाय हीनक्लेशस्य ॥
प्रक्षीणेषु रागद्वेषमोहेषु प्रवृत्तिर् न प्रतिसन्धानाय। प्रतिसन्धिस् तु पूर्वजन्मनिवृत्तौ पुनर्जन्म, तच् चादृष्टकारितम्, तस्यां प्रहीणायां पूर्वजन्माभावे जन्मान्तराभावोऽप्रतिसन्धानम् अपवर्गः।
कर्मवैफल्यप्रसङ्ग इति चेद् न, कर्मविपाकप्रतिसंवेदनस्याप्रत्याख्यानात्। पूर्वजन्मनिवृत्तौ पुनर्जन्म न भवतीत्य् उच्यते, न तु कर्मविपाकप्रतिसंवेदनं प्रत्याख्यायते, सर्वाणि पूर्वकर्माणि ह्य् अन्ते जन्मनि पिपच्यन्त इति॥६३॥


********************** न्यायभाष्यम्४,१.६४ **********************


न्याभा४,१.६४_ न क्लेशसन्ततेः स्वाभाविकत्वात् ॥
नोपपद्यते क्लेशानुबन्धविच्छेदः, कस्मात्? क्लेशसन्ततेः स्वाभाविकत्वात्। अनादिर् इयं क्लेशसन्ततिः, न चानादिः शक्य उच्छेतुम् इति॥६४॥


********************** न्यायभाष्यम्४,१.६५ **********************
अत्र कश्चित् परीहारम् आह ---
न्याभा४,१.६५_ प्राग् उत्पत्तेर् अभावानित्यत्ववत् स्वाभाविकेऽप्य् अनित्यत्वम् ॥
यथानादिः प्राग् उत्पत्तेर् अभाव उत्पन्नेन भावेन निवर्त्यते, एवं स्वाभाविकी क्लेशसन्ततिर् अनित्येति॥६५॥


********************** न्यायभाष्यम्४,१.६६ **********************


अपर आह ---
न्याभा४,१.६६_ अणुश्यामताऽन्य्त्यत्ववद् वा ॥
यथानादिर् अणुश्यामता अथ चाग्निसंयोगाद् अनित्या, तथा क्लेशसन्ततिर् अपीति। सतः खलु धर्मो नित्यत्वम् अनित्यत्वं च, तत्त्वं भावे अभावे भाक्तम् इति। अनादिर् अणुश्यामतेति हेत्वभावाद् अयुक्तम्। अनुत्पत्तिधर्मकम् अनित्यम् इति नात्र हेतुर् अस्तीति॥६६॥


********************** न्यायभाष्यम्४,१.६७ **********************


अयं तु समाधिः ---
न्याभा४,१.६७_ न, सङ्कल्पनिमित्तत्वाच् च रागादीनाम् ॥
कर्मनिमित्तत्वाद् इतरेतरनिमित्तत्वाच् चेति समुच्चयः। मिथ्यासङ्कल्पेभ्यो रञ्जनीयकोपनीयमोहनीयेभ्यो रागद्वेषमोहा उत्पद्यन्ते, कर्म च सत्त्वनिकायनिर्वर्तकं नैयमिकान् रागद्वेषमोहान् निर्वर्त्तयति, नियमदर्शनात्। दृश्यते हि कश्चित् सत्त्वनिकायो रागबहुलः कश्चिद् द्वेषबहुलः कश्चिन् मोहबहुल इति। इतरेतरनिमित्ता च रागादीनाम् उत्पत्तिः। मूढो रज्यति मूढः कुप्यति रक्तो मुह्यति कुपितो मुह्यति।


सर्वमिथ्यासङ्कल्पानां तत्त्वज्ञानाद् अनुत्पत्तिः कारणानुत्पातौ च कार्यानुत्पत्तेर् इति रागादीनाम् अत्यन्तम् अनुत्पत्तिर् इति। अनादिश् च क्लेशसन्ततिर् इत्य् अयुक्तम्, सर्वे इमे खल्व् आध्यात्मिका भावा अनादिना प्रबन्धेन प्रवर्त्तन्ते शरीरादयः, न जात्व् अत्र कश्चिद् अनुत्पन्नपूर्वः प्रथमत उत्पद्यतेऽन्यत्र तत्त्वज्ञानात्। न चैवं सत्य् अनुत्पत्तिधर्मकं किञ्चिद् अव्ययधर्मकं प्रतिज्ञायते इति। कर्म च सत्त्वनिकायनिर्वर्तकं तत्त्वज्ञानकृतान् मिथ्यासङ्कल्पविघातान् न रागाद्युत्पत्तिनिमित्तं भवति, सुखदुःखसंवित्तिः फलं तु भवतीति॥६७॥


अथ चतुर्थाध्यायस्य द्वितीयम् आह्निकम्।


********************** न्यायभाष्यम्४,२.१ **********************


किं नु खलु भोः यावन्तो विषयास् तावत्सु प्रत्येकं तत्त्वज्ञानम् उत्पद्यते, अथ क्वचिद् उत्पद्यत इति। कश् चात्र विशेषः? न तावद् एकैकत्र यावद् विषयम् उत्पद्यते ज्ञेयानाम् आनन्त्यात्। नापि क्वचिद् उत्पद्यते, यत्र नोत्पद्यते तत्रानिवृत्तो मोह इति मोहशेषप्रसङ्गः। न चान्यविषयेण तत्त्वज्ञानेनान्यविषयो मोहः शक्यः प्रतिषेद्धुम् इति।


मिथ्याज्ञानं वै खलु मोहो न तत्त्वज्ञानस्यानुत्पत्तिमात्रम्। तच् च मिथ्याज्ञानं यत्र विषये प्रवर्तमानं संसारबीजं भवति स विषयस् तत्त्वतो ज्ञेय इति।
किं पुनस् तन् मिथ्याज्ञानम्? अनात्मन्य् आत्मग्रहः, अहम् अस्मीति मोहोऽहङ्कार इति। अनात्मानं खल्व् अहम् अस्मीति पश्यतो दृष्टिर् अहङ्कार इति। किं पुनस् तदर्थजातं यद्विषयोऽहङ्कारः? शरीरेन्द्रियमनोवेदनाबुद्धयः। कथं तद्विषयोऽहङ्कारः संसारबीजं भवति?
भवति?] पृ.१०३७
अयं खलु शरीराद्यर्थजातम् अहम् अस्मीति व्यवसितः तदुच्छेदेनात्मोच्छेदं मन्यमानोऽनुच्छेदतृष्णापरिप्लुतः पुनः पुनस् तद् उपादत्ते, तद् उपाददानो जन्ममरणाय यतते, तेनावियोगान् नात्यन्तं दुःखाद् विमुच्यत इति। यस् तु दुःखं दुःखायतनं दुःखानुषक्तं सुखं च सर्वम् इदं दुःखम् इति पश्यति स दुःखं परिजानति। परिज्ञातं च दुःखं प्रहीणं भवत्य् अनुपादानात् सविषान्नवत्। एवं दोषान् कर्म च दुःखहेतुर् इति पश्यति। न चाप्रहीणेषु दोषेषु दुःखप्रबन्धोच्छेदेन शक्यं भवितुम् इति दोषान् जहाति, प्रहीणेषु च दोषेषु न प्रवृत्तिः प्रतिसन्धानायेत्य् उक्तम्।
प्रेत्यभावफलदुःखानि च ज्ञेयानि व्यवस्थापयति कर्म च दोषांश् च प्रहेयान्। अपवर्गोऽधिगन्तव्यस् तस्याधिगमोपायस् तत्त्वज्ञानम्। एवं चतसृभिर् विधाभिः प्रमेयं विभक्तम् आसेवमानस्याभ्यस्यतो भावयतः सम्यग्दर्शनं यथाभूतावबोधस् तत्त्वज्ञानम् उत्पद्यते।
एवं च ---
न्याभा४,२.१_ दोषनिमित्तानां तत्त्वज्ञानाद् अहङ्कारनिवृत्तिः ॥


शरीरादिदुःखान्तं प्रमेयं दोषनिमित्तं तद्विषयत्वान् मिथ्याज्ञानस्य। तद् इदं तत्त्वज्ञानं तद्विषयम् उत्पन्नम् अहङ्कारं निवर्तयति समानविषये तयोर् विरोधात्। एवं तत्त्वज्ञानाद् ’’दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानाम् उत्तरोत्तरापाये तदनन्तराभावाद् अपवर्गऽऽ इति। स चायं शास्त्रार्थसंग्रहोऽनूद्यते नापूर्वो विधीयते इति॥१॥


********************** न्यायभाष्यम्४,२.२ **********************


प्रसङ्ख्यानानुपूर्वी तु खलु ---
न्याभा४,२.२_ दोषनिमित्तं रूपादयो विषयाः सङ्कल्पकृताः ॥
कामविषया इन्द्रियार्था इति रूपादय उच्यन्ते। ते मिथ्या सङ्कल्प्यमाना रागद्वेषमोहान् प्रवर्तयन्ति, तान् पूर्वं प्रसञ्चक्षीत। तांश् च प्रसञ्चक्षाणस्य रूपादिविषयो मिथ्यासङ्कल्पो निवर्तते। तन्निवृत्ताव् अध्यात्मं शरीरादि प्रसञ्चक्षीत। तत्प्रसङ्ख्यानाद् अध्यात्मविषयोऽहङ्कारो निवर्तते।
-द् अध्यात्मविषयोऽहङ्कारो] पृ.१०४०
सोऽयम् अध्यात्मं बहिश् च विविक्तचित्तो विहरन् मुक्त इत्य् उच्यते॥२॥


********************** न्यायभाष्यम्४,२.३ **********************
अतः परं काचित् संज्ञा हेया काचिद् भावयितव्येत्य् उपदिश्यते, नाथनिराकरणम् अर्थोपादानं वा। कथम् इति? ---
न्याभा४,२.३_ तन्निमित्तं त्व् अवयव्यभिमानः ॥
तेषां दोषाणां निमित्तं त्व् अवयव्यभिमानः। सा च खलु स्त्रीसंज्ञा सपरिष्कारा पुरुषस्य, पुरुषसंज्ञा च स्त्रियाः सपरिष्कारा निमित्तसंज्ञा अनुव्यञ्जनसंज्ञा च।
च।] पृ.१०४१
निमित्तसंज्ञा --- रसनाश्रोत्रम्, दन्तोष्ठम्, चक्षुर्नासिकम्। अनुव्यञ्जनसंज्ञा --- इत्थं दण्डा इत्थम् ओष्ठाव् इति। सेयं संज्ञा कामं वर्धयति तदनुषक्तांश् च दोषान् विवर्जनीयान्, वर्जनं त्व् अस्याः। भेदेनावयवसंज्ञा --- केशलोममांसशोणितास्थिस्नायुशिराकफपित्तोच्चारादिसंज्ञा॑
-शोणितास्थि...] पृ.१०४२
ताम् अशुभसंज्ञेत्य् आचक्षते। ताम् अस्य भावयतः कामरागः प्रहीयते।
सत्य् एव च द्विविधे विषये काचित् संज्ञा भावनीया काचित् परिवर्जनीयेत्य् उपदिश्यते, यथा विषसम्पृक्तेऽन्नेऽन्नसंज्ञोपादानाय विषसंज्ञा प्रहाणायेति॥३॥


********************** न्यायभाष्यम्४,२.४ **********************


अथेदानीम् अर्थं निराकरिष्यतावयविनिराकरणम् उपपाद्यते ---
न्याभा४,२.४_ विद्याविद्याद्वैविध्यात् संशयः ॥
सदसतोर् उपलम्भाद् विद्या द्विविधा, सदसतोर् अनुपलम्भाद् अविद्यापि द्विविधा। उपलम्भ्यमानेऽवयविनि विद्याद्वैविध्यात् संशयः, अनुपलभ्यमाने चाविद्याद्वैविध्यात् संशयः। सोऽयम् अवयवी *यद् उपलभ्यते (fओल्लोwइन्ग् ठकुर्, यद्य् अपलभ्यते ऋइन्सेन्) अथापि नोपलभ्यते न कथञ्चन संशयान् मुच्यत इति॥४॥


********************** न्यायभाष्यम्४,२.५ **********************


न्याभा४,२.५_ तदसंशयः पूर्वहेतुप्रसिद्धत्वात् ॥
तस्मिन्न् अनुपपन्नः संशयः। कस्मात्? पूर्वोक्तहेतूनाम् अप्रतिषेधाद् अस्ति द्रव्यान्तरारम्भ इति॥५॥


********************** न्यायभाष्यम्४,२.६ **********************


न्याभा४,२.६_ वृत्त्यनुपपत्तेर् अपि न संशयः ॥
वृत्त्यनुपपत्तेर् अपि तर्हि संशयानुपपत्तिर् नास्त्य् अवयवीति॥६॥


********************** न्यायभाष्यम्४,२.७ **********************
तद् विभजते ---
न्याभा४,२.७_ कृत्स्नैकदेशावृत्तित्वाद् अवयवानाम् अवयव्यभावः ॥
एकैकोऽवयवो न तावत् कृत्स्नेऽवयविनि वर्तते, तयोः परिमाणभेदाद् अवयवान्तरसम्बन्धाभावप्रसङ्गाच् च। नाप्य् अवयव्येकदेशेन, न ह्य् अस्यान्ये अवयवा एकदेशभूताः सन्तीति॥७॥


********************** न्यायभाष्यम्४,२.८ **********************


अथावयवेष्व् एवावयवी वर्तते---
न्याभा४,२.८_ तेषु चावृत्तेर् अवयव्यभावः ॥
न तावत् प्रत्यवयवं वर्तते, तयोः परिमाणभेदाद् द्रव्यस्य चैकद्रव्यत्वप्रसङ्गात्। नाप्य् एकदेशैः सर्वेषु अन्यावयवाभावात्। तद् एवं न युक्तः संशयो नास्त्य् अवयवीति॥


********************** न्यायभाष्यम्४,२.९ **********************


न्याभा४,२.९_ पृथक् चावयवेभ्योऽवृत्तेः ॥
अवयव्यभाव इति वर्तते। न चायं पृथग् अवयवेभ्यो वर्तते अग्रहणात् नित्यत्वप्रसङ्गाच् च। तस्मान् नास्त्य् अवयवीति॥


********************** न्यायभाष्यम्४,२.१० **********************


न्याभा४,२.१०_ न चावयव्यवयवाः ॥
न चावयवानां धर्मोऽवयवी। कस्मात्? धर्ममात्रस्य धर्मिभिर् अवयवैः पूर्ववत् सम्बन्धानुपपत्तेः। पृथक् चावयवेभ्यो धर्मिभ्यो धर्मस्याग्रहणाद् इति समानम्॥१०॥


********************** न्यायभाष्यम्४,२.११ **********************


न्याभा४,२.११_ एकस्मिन् भेदाभावाद् भेदशब्दप्रयोगानुपपत्तेर् अप्रश्नः ॥
किं प्रत्यवयवं कृत्स्नोऽवयवी वर्तते अथैकदेशेनेति नोपपद्यते प्रश्नः। कस्मात्? एकस्मिन् भेदाभावाद् भेदशब्दप्रयोगानुपपत्तेः। कृत्स्नम् इत्य् अनेकस्याशेषाभिधानम्, एकदेश इति नानात्वे कस्यचिद् अभिधानम्। ताव् इमौ कृत्स्नैकदेशशब्दौ भेदविषयौ नैकस्मिन्न् अवयविन्य् उअपपद्येते भेदाभावाद् इति॥११॥


********************** न्यायभाष्यम्४,२.१२ **********************
अन्यावयवाभावान् नैकदेशेन वर्तत इत्य् अहेतुः---
न्याभा४,२.१२_ अवयवान्तरभावेऽप्य् अवृत्तेर् अहेतुः ॥
अवयवान्तराभावाद् इति। यद्य् अपि एकदेशोऽवयवान्तरभूतः स्यात् तथाप्य् अवयवेऽवयवान्तरं वर्तते नावयवीति अन्योऽवयवीति।
-वान्तरं वर्तते ...] पृ.१०५०
अन्यावयवभावेऽप्य् अवृत्तेर् अवयविनो नैकदेशेन वृत्तिर् अन्यावयवाभावाद् इत्य् अहेतुः।
वृत्तिः कथम् इति चेत्? एकस्यानेकत्राश्रयाश्रितसम्बन्धलक्षणा प्राप्तिः। आश्रयाश्रितभावः कथम् इति चेत्? यस्य यतोऽन्यत्रात्मलाभानुपपत्तिः स आश्रयः। न कारणद्रव्येभ्योऽन्यत्र कार्यद्रव्यम् आत्मानं लभते विपर्ययस् तु कारणद्रव्येष्व् इति।
नित्येषु कथम् इति चेत्, अनित्येषु दर्शनात् सिद्धम्, नित्येषु द्रव्येषु कथम् आश्रयाश्रयिभाव इति चेत्? अनित्येषु द्रव्यगुणेषु दर्शनाद् आश्रयाश्रितभावस्य नित्येषु सिद्धिर् इति।


तस्माद् अवयव्यभिमानः प्रतिषिध्यते निःश्रेयसकामस्य, नावयवी, यथा रूपादिषु मिथ्यासङ्कल्पो न रूपादय इति॥१२॥


********************** न्यायभाष्यम्४,२.१३ **********************


सर्वाग्रहणम् अवयव्यसिद्धेर् इति प्रत्यवस्थितोऽप्य् एतद् आह ---
न्याभा४,२.१३_ केशसमूहे तैमिरिकोपलब्धिवत् तदुपलब्धिः ॥
यथैकैकः केशस् तैमिरिकेण नोपलभ्यते केशसमूहस् तूपलभ्यते, तथैकैकोऽणुर् नोपलभ्यते अणुसञ्चयस् तूपलभ्यते, तद् इदम् अणुसमूहविषयं ग्रहणम् इति॥१३॥


********************** न्यायभाष्यम्४,२.१४ **********************


न्याभा४,२.१४_ स्वविषयान् अतिक्रमेणेन्दिर्यस्य पटुमन्दभावाद् विषयग्रहणस्य तथाभाअवो नाविषये प्रवृत्तिः ॥
यथाविषयम् इन्द्रियाणां पटुमन्दभावाद् विषयग्रहणानां पटुमन्दभावो भवति। चक्षुः खलु प्रकृष्यमाणं नाविषयं गन्धं गृह्णाति, निकृष्यमाणं च न स्वविषयात् प्रच्यवते। सोऽयं तैमिरिकः कश्चिच् चक्षुर् विषयंकेशं न गृह्णाति, कश्चिद् गृह्णाति केशसमूहम्।


उभयं ह्य् अतैमिमिरिकेण चक्स्.उषा गृह्यते। परमाणवस् त्व् अतीन्द्रिया इन्द्रियाविषयभूता न केनचिद् इन्द्रियेण गृह्यन्ते, समुदितास् तु गृह्यन्ते, इत्य् अविषये प्रवृत्तिर् इन्द्रियस्य प्रसज्येत। न जात्व् अर्थान्तरम् अणुभ्यो गृह्यत इति। ते खल्व् इमे परमाणवः सन्निहिता गृह्यमाणा अतीन्द्रियत्वं जहति, वियुक्ताश् चागृह्यमाणा इन्द्रियविषयत्वं न लभन्त इति। सोऽयं द्रव्यान्तरानुत्पत्ताव् अतिमहान् व्याघात इत्य् उपपद्यते द्रव्याअन्तरम् यद् ग्रहणस्य विषय इति।
सञ्चयमात्रं विषय इति चेन् न, सञ्चयस्य संयोगभावात् तस्य चातीन्द्रियस्याग्रहणाद् अयुक्तम्। सञ्चयः खल्व् अनेकस्य संयोगः, स च गृह्यमाणाश्रयो गृह्यते नातीन्द्रियाश्रयः, भवति हीदम् अनेन संयुक्तम् इति। तस्माद् युक्तम् एतद् इति।


गृह्यमाणस्य चेन्द्रियेण विषयस्यावरणाद्यनुपलब्धिकारणम् उपलभ्यते। तस्मान् नेन्द्रियदौर्बल्याद् अनुपलब्धिर् अणूनाम्, यथा नेन्द्रियदौर्बल्याच् चक्षुषानुपलब्धिर् गन्धादीनाम् इति॥१४॥


********************** न्यायभाष्यम्४,२.१५ **********************


न्याभा४,२.१५_ अवयवावयविप्रसङ्गश् चैवम् आ प्रलयात् ॥
यः खल्व् अवयविनोऽवयवेषु वृत्तिप्रतिषेधाद् अभावः सोऽयम् अवयवस्यावयवेषु प्रसज्यमानः सर्वप्रलयाय वा कल्पेत, निरवयवाद् वा परमाणुतो निवर्तेत। उभयथा चोपलब्धिविषयस्याभावः, तदभावाद् उपलभ्यभावः। उपलभ्याश्रयश् चायं वृत्तिप्रतिषेधः, स आश्रयं व्याघ्नन् आत्मघाताय कल्पत इति॥१५॥


********************** न्यायभाष्यम्४,२.१६ **********************


अथापि ---
न्याभा४,२.१६_ न प्रलयोऽनुसद्भावात् ॥
अवयवविभागम् आश्रित्य वृत्तिप्रतिषेधाद् अभावः प्रसज्यमानो निरवयवात् परमाणोर् निवर्तते न सर्वप्रलयाय कल्पते, निरवयवत्वं तु परमाणोर् विभागैर् अल्पतरप्रसङ्गस्य यतो नाल्पीयस् तत्रावस्थानात्। लोष्टस्य खलु प्रविभज्यमानावयवस्याल्पतरम् अल्पतमम् उत्तरम् उत्तरं भवति। स चायम् अल्पतरप्रसङ्गः यस्मान् नाल्पतरम् अस्ति यः परमोऽल्पस् तत्र निवर्तते, यतश् च नाल्पीयोऽस्ति तं परमऽनुं प्रचक्ष्महे इति॥१६\


********************** न्यायभाष्यम्४,२.१७ **********************


न्याभा४,२.१७_ परं वा त्रुटेः ॥
अवयवविभागस्यानवस्थानाद् द्रव्याणाम् असङ्ख्येयत्वात् त्रुटित्वनिवृत्तिर् इति॥१७॥


********************** न्यायभाष्यम्४,२.१८ **********************


अथेदानीम् आनुपलम्भिकः सर्वं नास्तीति मन्यमान आह ---
न्याभा४,२.१८_ आकाशव्यतिभेदात् तदनुपपत्तिः ॥
तस्याणोर् निरवयवस्य नित्यस्यानुपपत्तिः। कस्मात्? आकाशव्यतिभेदात्। अन्तर् बहिश् चाणुर् आकाशेन समाविष्टो व्यतिभिन्नः, व्यतिभेदात् सावयवः, सावयवत्वाद् अनित्य इति॥१८॥


********************** न्यायभाष्यम्४,२.१९ **********************


न्याभा४,२.१९_ आकाशासर्वगतत्वं वा ॥
अथैतन् नेष्यते --- परमाणोर् अन्तर् नास्त्य् आकाशम् इत्य् असर्वगतत्वं प्रसज्यत इति॥१९॥


********************** न्यायभाष्यम्४,२.२० **********************


न्याभा४,२.२०_ अन्तर् बहिश् च कार्यद्रव्यस्य कारणान्तरवचनाद् अकार्ये तदभावः ॥
’’न्तर्ऽऽ इति पिहितं कारणान्तरैः कारणम् उच्यते। ’’बहिर्ऽऽ इति च व्यवधायकम् अव्यवहितं कारणम् एवोच्यते। तद् एतत् कार्यद्रव्यस्य सम्भवति, नाणोर् अकार्यत्वात्। अकार्ये हि परमाणाव् अन्तर् बहिर् इत्य् अस्याभावः।
हि परमाणाव् ...] पृ.१०६१
यत्र चास्य भावोऽनुकार्यं तत्, न परमाणुः, यतो हि नाल्पतरम् अस्ति स परमाणुर् इति॥२०॥


********************** न्यायभाष्यम्४,२.२१ **********************


न्याभा४,२.२१_ शब्दसंयोगविभवाच् च सर्वगतम् ॥
यत्र क्वचिद् उत्पन्नाः शब्दा विभवन्त्य् आकाशे --- तदाश्रया भवन्ति, मनोभिः परमाणुभिस् तत्कार्यैश् च संयोगा विभवन्त्य् आकाशे, नासंयुक्तम् आकाशेन किञ्चिन् मूर्तद्रव्यम् उपलभ्यते, तस्मान् नासर्वगतम् इति॥२१॥


********************** न्यायभाष्यम्४,२.२२ **********************


न्याभा४,२.२२_ अव्यूहाविष्टम्भविभुत्वानि चाकाशधर्माः ॥
संसर्पता प्रतिघातिना द्रव्येण न व्युह्यते, यथा काष्ठेनोदकम्। कस्मात्? निरवयवत्वात्। सर्पच् च प्रतिघाति न विष्टम्भाति --- नास्य क्रियाहेतुं गुणं प्रतिबध्नाति।


कस्मात्? अस्पर्शत्वात्। विपर्यये हि विष्टम्भो दृष्ट इति स भवान् सावयवे स्पर्शवति द्रव्ये दृष्टं धर्मं विपरीते नाशाङ्कितुम् अर्हति।
अण्ववयवस्याणुतरत्वप्रसङ्गाद् अनुकार्यप्रतिषेधः। सावयवत्वे चाणोर् अण्ववयवोऽनुतर इति प्रसज्यते। कस्मात्? कार्यकारणद्रव्ययोः परिमाणभेददर्शनात्। तस्माद् अण्ववयवस्याणुतरत्वम्, यस् तु सावयवोऽनुकार्यं तद् इति। तस्माद् अनुकार्यम् इदं प्रतिषिध्यत इति।
कारणविभागाच् च कार्यस्यानित्यत्वम्, नाकाशव्यतिभेदात्। लोष्टस्यावयवविभागाद् अनित्यत्वम्, नाकाशसमावेषाद् इति॥२२॥


********************** न्यायभाष्यम्४,२.२३ **********************


न्याभा४,२.२३_ मूर्तिमतां च संस्थानोपपत्तेर् अवयवसद्भावः ॥
परिच्छिन्नानां हि स्पर्शवतां संस्थानं त्रिकोणं चतुरस्रं समं परिमण्डलम् इत्य् उपपद्यते, यत् तत् संस्थानं सोऽवयवसन्निवेषः, परिमण्डलाश् चाणवस् तस्मात् सावयवा इति॥२३॥


********************** न्यायभाष्यम्४,२.२४ **********************


न्याभा४,२.२४_ संयोगोपपत्तेश् च ॥
मध्ये सन्न् अणुः पूर्वापराभ्याम् अणुभ्याम् संयुक्तस् तयोर् व्यवधानं कुरुते। व्यवधानेनानुमीयते पूर्वभागेन पूर्वेणाणुना संयुज्यते, परभागेन परेणाणुना संयुज्यते, यौ तौ पूर्वापरौ भागौ ताव् अस्यावयवौ, एवं सर्वतः संयुज्यमानस्य सर्वतो भागा अवयवा इति।
यत् तावन् ’’मूर्तिमतां संस्थानोपपत्तेर् अवयवसद्भावऽऽ इति? अत्रोक्तम्। किम् उक्तम्? विभागेऽल्पतरप्रसङ्गस्य यतो नाल्पीयस् तत्र निवृत्तेर् अणवयवस्य चाणुतरत्वप्रसङ्गाद् अणुकार्यप्रतिषेध इति।


यत् पुनर् एतत् संयोगोपपत्तेश् चेति? स्पर्शवत्त्वाद् व्यवधानम् आश्रयस्य चाव्याप्त्या भागभक्तिः। उक्तं चात्र स्पर्शवान् अणुः स्पर्शवतोर् अण्वोः प्रतिघाताद् व्यवधायको न सावयवत्वात्। स्पर्शवत्त्वाच् च व्यवधाने सत्य् अणुसंयोगो नाश्रयं व्याप्नोतीति भागभक्तिर् भवति भागवान्न् इवायम् इति। उक्तं चात्र विभागेऽल्पतरप्रसङ्गस्य यतो नाल्पीयस् तत्रावस्थानात् तदवयवस्य चाणुतरत्वप्रसङ्गाद् अणुकार्यप्रतिषेध इति॥२४॥


********************** न्यायभाष्यम्४,२.२५ **********************
मूर्तिमतां च संस्थानोपपत्तेः संयोगोपपत्तेश् च परमाणूनां सावयवत्वम् इति हेत्वोः ---
न्याभा४,२.२५_ अनवस्थाकारित्वाद् अनवस्थानुपपत्तेश् चाप्रतिषेधः ॥
यावन् मूर्तिमद् यावच् च संयुज्यते तत् सर्वं सावयवम् इत्य् अनवस्थाकारिणाव् इमौ हेतू, सा चानवस्था नोपपद्यते। सत्याम् अनवस्थायां सत्यौ हेतू स्याताम्, तस्माद् अप्रतिषेधोऽयं निरवयवत्वस्येति।


विभागस्य च विभज्यमानहानिर् नोपपद्यते तस्मात् प्रलयान्तता नोपपद्यत इति।


अनवस्थायां च प्रत्यधिकरणं द्रव्यावयवानाम् आनन्त्यात् परिमाणभेदानां गुरुत्वस्य चाग्रःणम् समानपरिमाणत्वं चावयवावयविनोः परमण्ववयविभागाद् ऊर्ध्वम् इति॥२५॥


********************** न्यायभाष्यम्४,२.२६ **********************


यद् इदं भवान् बुद्धीर् आश्रित्य बुद्धिविषयाः सन्तीति मन्यते मिथ्याबुद्धय एताः, यदि हि तत्त्वबुद्धयः स्युर् बुद्ध्या विवेचने याथात्म्यं बुद्धिविषयाणाम् उपलभ्येत ---
न्याभा४,२.२६_ बुद्ध्या विवेचनात् तु भावानां याथात्म्यानुपलब्धिस् तन्त्वपकर्षणे पटसद्भावानुपलब्धिवत् तदनुपलब्धिः ॥


यथायं तन्तुर् अयं तन्तुर् इति प्रत्येकं तन्तुषु विविच्यमानेषु नार्थान्तरं किञ्चिद् उपलभ्यते --- यत् पटबुद्धेर् विषयः स्यात्, याथात्म्यानुपलब्धेर् असति विषये पटबुद्धिर् भवन्ती मिथ्याबुद्धिर् भवति, एवं सर्वत्रेति॥ २६ ॥


********************** न्यायभाष्यम्४,२.२७ **********************


न्याभा४,२.२७_ व्याहतत्वाद् अहेतुः ॥
यदि बुद्ध्या विवेचनं भावानां न सर्वभावानां याथात्म्यानुपलब्धिः। अथ सर्वभावानां याथात्म्यानुपलब्धिर् न बुद्ध्या विवेचनम्। भावानां बुद्ध्या विवेचनं याथात्म्यानुपलब्धिश् चेति व्याहन्यते।
याथात्म्यानुपलब्धिश् चेति व्याहन्यते।] पृ.१०७४
तद् उक्तम् --- ’’वयवावयविप्रसङ्गश् चैवम् आ प्रलयाद्ऽऽ इति॥ २७ ॥


********************** न्यायभाष्यम्४,२.२८ **********************


न्याभा४,२.२८_ तदाश्रयत्वाद् अपृथग्ग्रहणम् ॥
कार्यद्रव्यं कारणद्रव्याश्रितं तत् कारणेभ्यः पृथङ् नोपलभ्यते, विपर्यये पृथग्ग्रहणात्,


यत्राश्रयाश्रितभावो नास्ति तत्र पृथग्ग्रहणम् इति। बुद्ध्या विवेचनात् तु भावानां पृथग्ग्रहणम् अतीन्द्रियेष्व् अणुषु, यद् इन्द्रियेण गृह्यते तद् एतया बुद्ध्या विविच्यमानम् अन्यद् इति॥ २८ ॥


********************** न्यायभाष्यम्४,२.२९ **********************


न्याभा४,२.२९_ प्रमाणतश् चार्थप्रतिपत्तेः ॥
बुद्ध्या विवेचनाद् भावानां याथात्म्योपलब्धिः, यद् अस्ति यथा च यन् नास्ति यथा च तत् सर्वं प्रमाणत उपलब्ध्या सिध्यति, या च प्रमाणत उपलोअब्धिस् तद् बुद्ध्या विवेचनं भावानाम्, तेन सर्वशास्त्राणि सर्वकर्माणि सर्वे च शरीरिणां व्यवहारा व्याप्ताः। परीक्षमाणो हि बुद्ध्याध्यवस्यतीदम् अस्तीदं नास्तीति तत्र न सर्वभावानुपपत्तिः॥ २९ ॥


********************** न्यायभाष्यम्४,२.३० **********************


न्याभा४,२.३०_ प्रमाणानुपपत्त्युपपत्तिभ्याम् ॥
एवं च सति सर्वं नास्तीति नोपपद्यते, कस्मात्? प्रमाणानुपपत्त्युपपत्तिभ्याम्। यदि सर्वं नास्तीति प्रमाणम् उपपद्यते, सर्वं नास्तीति एतद् व्याहन्यते। अथ प्रमाणं नोपपद्यते, सर्वं नास्तीत्य् अस्य कथं सिद्धिः? अथ प्रमाणम् अन्तरेण सिद्धिः, सर्वम् अस्तीत्य् अस्य कथं न सिद्धिः?॥ ३० ॥


********************** न्यायभाष्यम्४,२.३१ **********************


न्याभा४,२.३१_ स्वप्नविषयाभिमानवद् अयं प्रमाणप्रमेयाभिमानः ॥
यथा स्वप्ने न विषयाः सन्त्य् अथ चाभिमानो भवति, एवं न प्रमाणानि प्रमेयाणि च सन्त्य् अथ च प्रमाणप्रमेयाभिमानो भवति॥ ३१ ॥


********************** न्यायभाष्यम्४,२.३२ **********************


न्याभा४,२.३२_ मायागन्धर्वनगरमृगतृष्णिकावद् वा ॥


********************** न्यायभाष्यम्४,२.३३ **********************


न्याभा४,२.३३_ हेत्वभावाद् असिद्धिः ॥
स्वप्नान्ते विषयाभिमानवत् प्रमाणप्रमेयाभिमानो न पुनर् जागरितान्ते विषयोपलब्धिवद् इत्य् अत्र हेतुर् नास्ति। हेत्वभावाद् असिद्धिः। स्वप्नान्ते चासन्तो विषया उपलभ्यन्त इत्य् अत्रापि हेत्वभावः।


प्रतिबोधेऽनुपलम्भाद् इति चेत्? प्रतिबोधविषयोपलम्भाद् अप्रतिषेधः। यदि प्रतिबोधे णुपलम्भात् स्वप्ने विषया न सन्तीति, तर्हि य इमे प्रतिबुद्धेन विषया उपलभ्यन्त उपलम्भात् सन्तीति। विपर्यये हि हेतुसामर्थ्यम्। उपलम्भात् सद्भावे सत्य् अनुपलम्भाद् अभावः सिद्ध्यति, उभयथा त्व् अभावे नानुपलम्भस्य सामर्थ्यम् अस्ति, यथा प्रदीपस्याभावाद् रूपस्यादर्शनम् इति, तत्र भावेनाभावः समर्थ्यत इति।


स्वप्नान्तविकल्पे च हेतुवचनम्। स्वप्नविषयाभिमानवद् इति ब्रुवता स्वप्नान्तविकल्पे हेतुर् वाच्यः। कश्चित् स्वप्नो भयोपसंहितः, कश्चित् प्रमोदोपसंहितः, कश्चिद् उभयविपरीतः, कदाचित् स्वप्नम् एव न पश्यतीति। निमित्तवतस् तु स्वप्नविषयाभिमानस्य निमित्तविकल्पाद् विकल्पोपपत्तिः॥ ३३ ॥


********************** न्यायभाष्यम्४,२.३४ **********************


न्याभा४,२.३४_ स्मृतिसङ्कल्पवच् च स्वप्नविषयाभिमानः ॥
पूर्वोपलब्धविषयः। यथा स्मृतिश् च सङ्कल्पश् च पूर्वोपलब्धविषयौ न तस्य प्रत्याख्यानाय कल्पेते तथा स्वप्ने विषयग्रहणं पूर्वोपलब्धविषयं न तस्य प्रत्याख्यानाय कल्पत इति।
कल्पत इति] पृ.१०८४
एवं दृष्टविषयश् च स्वप्नान्तो जागरितान्तेन। यः सुप्तः स्वप्नं पश्यति स एव जाग्रत् स्वप्नदर्शनानि प्रतिसन्धत्त इदम् अद्राक्षम् इति। तत्र जाग्रद्बुद्धिवृत्तिवशात् स्वप्नविषयाभिमानो मिथ्येति व्यवसायः। सति च प्रतिसन्धाने या जाग्रतो बुद्धिवृत्तिस् तद्वशाद् अयं व्यवसायः स्वप्नविषयाभिमानो मिथ्येति।


उभयाविशेषे तु साधनानर्थक्यम्। यस्य स्वप्नान्तजागरितान्तयोर् अविशेषस् तस्य स्वप्नविषयाभिमानवद् इति साधनम् अनर्थकं तदाश्रयप्रत्याख्यानात्।
अतस्मिंस् तद् इति च व्यवसायः प्रधानाश्रयः। अपुरुषे स्थाणौ पुरुष इति व्यवसायः, स प्रधानाश्रयः, न खलु पुरुषेऽनुपलब्धे पुरुष इत्य् अपुरुषे व्यवसायो भवति, एवं स्वप्नविषयस्य व्यवसायो हस्तिनम् अद्राक्षं पर्वतम् अद्राक्षम् इति प्रधानाश्रयो भवितुम् अर्हति॥ ३४ ॥


********************** न्यायभाष्यम्४,२.३५ **********************


एवं च सति ---
न्याभा४,२.३५_ मिथ्योपलब्धिविनाशस् तत्त्वज्ञानात् स्वप्नविषयाभिमानप्रणाशवत् प्रतिबोधे ॥
स्थाणौ प्रुषोऽयम् इति व्यवसायो मिथ्योपलब्धिः अतस्मिंस् तद् इति ज्ञानम्, स्थाणौ स्थाणुर् इति व्यवसायस् तत्त्वज्ञानम्। तत्त्वज्जानेन च मिथ्योपलब्धिर् निवर्त्यते, नार्थः स्थाणुपुरुषसामान्यलक्षणः। यथा प्रतिबोधे या ज्ञानवृत्तिस् तया स्वप्नविषयाभिमानो निवर्त्यते नार्थो विषयसामान्यलक्षणः, तथा मायागन्धर्वनगरमृगतृष्णिकाणाम् अपि या बुद्धयोऽतस्मिंस् तद् इति व्यवसायास् तत्राप्य् अनेनैव कल्पेन मिथ्योपलब्धिविनाशस् तत्त्वज्ञानान् नार्थप्रतिषेध इति।
उपादानवच् च मायादिषु मिथ्याज्ञानम्। प्रज्ञापनीयसरूपं च द्रव्यम् उपादाय साधनवान् अपरस्य मिथ्याध्यवसायं करोति सा माया, नीहारप्रभृतीनां नगरसरूपसन्निवेशे दूरान् नगरबुद्धिर् उत्पद्यते विपर्यये तदभावात्, सूर्यमरीचिषु भौमेनोष्मणा संसृष्टेषु स्पन्दमानेषूदकबुद्धिर् भवति सामान्यग्रहणात्, अन्तिकस्थस्य विपर्यये तदभावात्।


क्वचित् कदाचित् कस्यचिच् च भावान् नानिमित्तं मिथ्याज्ञानम्। दृष्टं च बुद्धिद्वैतं मायाप्रयोक्तुः परस्य च, दूरानिकस्थयोर् गन्धर्वनगरमृगतृष्णिकासु, सुपुतप्रतिबुद्धयोश् च स्वप्नविषये। तद् एतत् सर्वस्याभावे निरुपाख्यतायां निरात्मकत्वे नोपपद्यत इति॥ ३५ ॥


********************** न्यायभाष्यम्४,२.३६ **********************


न्याभा४,२.३६_ बुद्धेश् चैवं निमित्तसद्भावोपलम्भात् ॥
मिथ्याबुद्धेश् चार्थवद् अप्रतिषेधः। कस्मात्? निमित्तोपलम्भात्, सद्भावोपलम्भाच् च। उपलभ्यते हि मिथ्याबुद्धिनिमित्तं मिथ्याबुद्धिश् च प्रत्यात्मम् उत्पन्ना गृह्यते संवेद्यत्वात्, तस्मान् मिथ्याबुद्धिर् अप्य् अस्तीति॥ ३६ ॥


********************** न्यायभाष्यम्४,२.३६ **********************


न्याभा४,२.३७_ तत्त्वप्रधानभेदाच् च मिथ्याबुद्धेर् द्वैविध्योपपत्तिः ॥
तत्त्वं स्थाणुर् इति, प्रधानं पुरुष इति। तत्त्वप्रधानयोर् अलोपाद् भेदात् स्थाणौ पुरुष इति मिथ्याबुद्धिर् उत्पद्यते सामान्यग्रहणात्। एवं पताकायां बलाकेति, लोष्टे कपोत इति न तु समाने विषये मिथ्याबुद्धीनां समावेशः सामान्यग्रहणव्यवस्थानात्। यस्य तु निरात्मकं निरुपाख्यं सर्वं तस्य समावेशः प्रसज्यते।


गन्धादौ च प्रमेये गन्धादिबुद्दयो मिथ्याभिमतास् तत्त्वप्रधानयोः सामान्यग्रहणस्य चाभावात् तत्त्वबुद्धय एव भवन्ति। तस्माद् अयुक्तम् एतत् --- प्रमाणप्रमेयबुद्धयो मिथ्येति॥ ३७ ॥


********************** न्यायभाष्यम्४,२.३८ **********************
दोषनिमित्तानां तत्त्वज्ञानाद् अहङ्कारनिवृत्तिर् इत्य् उक्तम्। अथ कथं तत्त्वज्ञानम् उत्पद्यत इति?
न्याभा४,२.३८_ समाधिविशेषाभ्यासात् ॥
स तु प्रत्याहृतस्येन्द्रियेभ्यो मनसो धारकेण प्रयत्नेन धार्यमाणस्यात्मना संयोगस् तत्त्वबुभुत्साविशिष्टः।
संयोगस् तत्त्वबुभुत्साविशिष्टः।] पृ.१०९१
सति हि तस्मिन्न् इन्द्रियार्थेषु बुद्धयो नोत्पद्यन्ते, तदभ्यासवशात् तत्त्वबुद्धिर् उत्पद्यते॥ ३८ ॥


********************** न्यायभाष्यम्४,२.३९ **********************
यद् उक्तं ’’सति हि तस्मिन्न् इन्द्रियार्थेषु बुद्धयो नोत्पद्यन्तऽऽ इत्य् एतत् ---
न्याभा४,२.३९_ नार्थविशेषप्राबल्यात् ॥
अनिच्छतोऽपि बुद्ध्युत्पत्तेर् नैतद् युक्तम्। कस्मात्? अर्थविशेषप्राबल्यात्। अबुभुत्समानस्यापि बुद्ध्युत्पत्तिर् दृष्टा यथा स्तनयित्नुशब्दप्रभृतिषु॑ तत्र समाधिविशेषो नोपपद्यते॥ ३९ ॥


********************** न्यायभाष्यम्४,२.४० **********************


न्याभा४,२.४०_ क्षुदादिभिः प्रवर्तनाच् च ॥


क्षुत्पिपासाभ्यां शीतोष्णाभ्यां व्याधिभिश् चानिच्छतोऽपि बुद्धयः प्रवर्तन्ते तस्माद् ऐकाग्र्यानुपपत्तिर् इति॥ ४० ॥


********************** न्यायभाष्यम्४,२.४१ **********************
अस्त्व् एतत् समाधिं विहाय व्युत्थानं व्युत्थाननिमित्तं समाधिप्रत्यनीकं च, सति त्व् एतस्मिन् ---
न्याभा४,२.४१_ पूर्वकृतफलानुबन्धात् तदुत्पत्तिः ॥


पूर्वकृतो जन्मान्तरोपचितस् तत्त्वज्ञानहेतुर् धर्मप्रविवेकः फलानुबन्धो *योगाभ्याससामर्थ्यं (शुद्ध ; गोगाभ्यास-, एद्.), निष्फले ह्य् अभ्यासे नाभ्यासम् आद्रियेरन्। दृष्टं हि लौकिकेषु कर्मस्व् अभ्याससामर्थ्यम्॥ ४१ ॥


********************** न्यायभाष्यम्४,२.४२ **********************
प्रत्यनीकपरिहारार्थं च ---
न्याभा४,२.४२_ अरण्यगुहापुलिनादिषु योगाभ्यासोपदेशः ॥
योगाभ्यासजनितो धर्मो जन्मान्तरेऽप्य् अनुवर्तते। प्रचयकाष्ठागते तत्त्वज्ञानहेतौ धर्मे प्रकृष्टायां समाधिभावनायां तत्त्वज्ञानम् उत्पद्यत इति। दृष्टश् च समाधिनार्थविशेषप्राबल्याभिभवः ’’नाहम् एतद् अश्रौषं नाहम् एतद् अज्ञासिषम् अन्यत्र मे मनोऽभूद्ऽऽ इत्य् आह लौकिक इति॥ ४२ ॥


********************** न्यायभाष्यम्४,२.४३ **********************


यद्य् अर्थविशेषप्राबल्याद् अनिच्छतोऽपि बुद्ध्युत्पत्तिर् अनुज्ञायते ---
न्याभा४,२.४३_ अपवर्गेऽप्य् एवं प्रसङ्गः ॥
मुक्तस्यापि बाह्यार्थसामर्थ्याद् बुद्धय उत्पद्येरन्न् इति॥ ४३ ॥


********************** न्यायभाष्यम्४,२.४४ **********************


न्याभा४,२.४४_ न, निष्पन्नावश्यम्भावित्वात् ॥
कर्मवशान् निष्पन्ने शरीरे चेष्टेन्द्रियार्थाश्रये निमित्तभावाद् अवश्यम्भावी बुद्धीनाम् उत्पादः। न च प्रबलोऽपि सन् बाह्यो ऋथ आत्मनो बुद्ध्युत्पादे समर्थो भवति तस्येन्द्रियेण संयोगाद् बुद्ध्युत्पादे सामर्थ्यं दृष्टम् इति॥ ४४ ॥


********************** न्यायभाष्यम्४,२.४५ **********************


न्याभा४,२.४५_ तदभावश् चापवर्गे ॥
तस्य बुद्धिनिमित्ताश्रयस्य शरीरेन्द्रियस्य धर्माधर्माभावाद् अभावोऽपवर्गे। तत्र यद् उक्तम् ’’पवर्गेऽप्य् एवं प्रसङ्गऽऽ इति, तद् अयुक्तम्। तस्मात् सर्वदुःखविमोक्षोऽपवर्गः। यस्मात् सर्वदुःखबीजं सर्वदुःखायतनं चापवर्गे विच्छिद्यते तस्मात् सर्वेण दुःखेन विमुक्तिर् अपवर्गः। न निर्बीजं निरायतनं च दुःखम् उत्पद्यत इति॥ ४५ ॥


********************** न्यायभाष्यम्४,२.४६ **********************


न्याभा४,२.४६_ तदर्थं यमनियमाभ्याम् आत्मसंस्कारो योगाच् चाध्यात्मविध्युपायैः ॥
तस्यापवर्गस्याधिगमाय यमनियमाभ्याम् आत्मसंस्कारः। यमः समानम् आश्रमिणां धर्मसाधनम्, नियमस् तु विशिष्टम्। आत्मसंस्कारः पुनर् अधर्महानं धर्मोपचयश् च। योगशास्त्राच् चाध्यात्मविधिः प्रतिपत्तव्यः। स पुनस् तपः प्राणायामः प्रत्याहारो ध्यानं धारणेति। इन्द्रियविषयेषु प्रसंख्यानाभ्यासो रागद्वेषप्रहाणार्थः। उपायस् तु योगाचारविधानम् इति॥ ४६ ॥


********************** न्यायभाष्यम्४,२.४७ **********************


न्याभा४,२.४७_ ज्ञानग्रहणाभ्यासस् तद्विद्यैश् च सह संवादः ॥
तदर्थम् इति प्रकृतम्। ज्ञायतेऽनेनेति ज्ञानम् आत्मविद्याशास्त्रं तस्य ग्रहणम् अध्ययनधारणे, अभ्यासः सततक्रियाध्ययनश्रवणचिन्तनानि। तद्विद्यैश् च सह संवाद इति प्रज्ञापरिपाकार्थम्, परिपाकस् तु संशयच्छेदनम् अविज्ञातार्थबोधोऽध्यवसिताभ्यनुज्ञानम् इति। समयावादः संवादः॥ ४७ ॥


********************** न्यायभाष्यम्४,२.४८ **********************
तद्विद्यैश् च सह संवाद इत्य् अविभक्तार्थं वचनं विभज्यते ---
न्याभा४,२.४८_ तं शिष्यगुरुसब्रह्मचारिविशिष्टश्रेयोऽर्थिभिर् अनसूयिभिर् अभ्युपेयात् ॥
एतन् निगदेनैव नीतार्थम् इति॥ ४८ ॥


********************** न्यायभाष्यम्४,२.४९ **********************


यदि च मन्येत पक्षप्रतिपक्षपरिग्रहः प्रतिकूलः परस्येति ---
न्याभा४,२.४९_ प्रतिपक्षहीनम् अपि वा प्रयोजनार्ह्तम् अर्थित्वे ॥
तम् अभ्युपेयाद् इति वर्तते। परतः प्रज्ञाम् उपादित्समानस् तत्त्वबुभुत्साप्रकाशनेन स्वपक्षम् अनवस्थापयन् स्वदर्शनं परिशोधयेद् इति। अन्योन्यप्रत्यनीकानि च प्रावादुकानां दर्शनानि॥ ४९ ॥


********************** न्यायभाष्यम्४,२.५० **********************


स्वपक्षरागेण चैके न्यायम् अतिवर्तन्ते, तत्र ---
न्याभा४,२.५०_ तत्त्वाध्यवसायसंरक्षणार्थं जल्पवितण्डे बीजप्ररोहसंरक्षणार्थं कण्टकशाखावरणवत् ॥
अनुत्पन्नतत्त्वज्ञानानाम् अप्रहीणदोषाणां तदर्थं घटमानानाम् एतद् इति॥ ५० ॥


********************** न्यायभाष्यम्४,२.५१ **********************
विद्यानिर्वेदादिभिश् च परेणावज्ञायमानस्य ---
न्याभा४,२.५१_ ताभ्यां विगृह्य कथनम् ॥


विगृह्येति विजिगीषया, न तत्त्वबुभुत्सयेति। तद् एतद् विद्यापालार्थं न लाभपूजाख्यात्यर्थम् इति॥ ५१ ॥
इति श्रीवात्स्यायनीये न्यायभाष्ये चतुर्थोऽध्यायः समाप्तः॥ ४ ॥


न्यायदर्शनम्
अथ पञ्चमाध्यायस्याद्यम् आह्निकम्


********************** न्यायभाष्यम्५,१.१ **********************
साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानस्य ’’विकल्पाज् जातिबहुत्वम्ऽऽ इति सङ्क्षेपेणओक्तम्, तद् विस्तरेण विभज्यते --- ताः खल्व् इमा जातयः स्थापनाहेतौ प्रयुक्ते चतुर्विंशतिः प्रतिषेधहेतवः।
न्याभा५,१.१_ साधर्म्यवैधर्म्योत्कर्षापकर्षवर्ण्यावर्ण्यविकल्पसाध्यप्राप्त्यप्राप्तिप्रसङ्गप्रतिदृष्टान्तानुत्पत्तिसंशयप्रकरणाहेत्वर्थापत्त्यविशेषोपपत्त्युपलब्ध्यनुपलब्ध्यनित्यनित्यकार्यसमाः ॥


साधर्म्येण प्रत्यवस्थानम् अविशिष्यमाणं स्थापनाहेतुतः साधर्म्यसमः। अविशेषं तत्र तत्रोदाहरिष्यामः। एवं वैधर्म्यसमप्रभृतयोऽपि निर्वक्तव्याः॥१॥


********************** न्यायभाष्यम्५,१.२ **********************


लक्षणं तु ---
न्याभा५,१.२_ साधर्म्यवैधर्म्याभ्याम् उपसंहारे तद्धर्मविपर्ययोपपत्तेः साधर्म्यवैधर्म्यसमौ ॥
साधर्म्येणोपसंहारे साध्यधर्मविपर्ययोपपत्तेः साधर्म्येणैव प्रत्यवस्थानम् अविशिष्यमाणं स्थापनाहेतुतः साधर्म्यसमः प्रतिषेधः। निदर्शनम् क्रियावान् आत्मा, द्रव्यस्य क्रियाहेतुगुणयोगात्। द्रव्यं लोष्टः क्रियाहेतुगुणयुक्तः क्रियावान्, तथा चात्मा, तस्मात् क्रियावान् इति। एवम् उपसंहृते परः साधर्म्येणैव प्रत्यवतिष्ठते निष्क्रिय आत्मा विभुनो द्रव्यस्य निष्क्रियत्वाद्, विभु चाकाशं निष्क्रियं च, तथा चात्मा, तस्मान् निष्क्रिय इति।
-न् निष्क्रिय इति।] पृ.११०६
न चास्ति विशेषहेतुः क्रियावत्साधर्म्यात् क्रियावता भवितव्यम्, न पुनर् अक्रियसाधर्म्याद् निष्क्रियेणेति। विशेषहेत्वभावात् साधर्म्यसमः प्रतिषेधो भवति।
अथ वैधर्म्यसमः --- क्रियाहेतुगुणयुक्तो लोष्टः परिच्छिन्नो दृष्टो न च तथात्मा, तस्मान् न लोष्टवत् क्रियावान् इति। न चास्ति विशेषहेतुः क्रियावत्साधर्म्यात् क्रियावता भवितव्यं न पुनः क्रियावद्वैधर्म्याद् अक्रियेणेति, विशेषहेत्वभावाद् वैधर्म्यसमः।
वैधर्म्येण चोपसंहारः --- निष्क्रिय आत्मा विभुत्वात्, क्रियावद् द्रव्यम् अविभु दृष्टं यथा लोष्टः, न च तथात्मा, तस्मान् निष्क्रिय इति। वैधर्म्येण प्रत्यवस्थानम् --- निष्क्रियं द्रव्यम् आकाशं क्रियाहेतुगुणरहितं दृष्टम्, न च तथात्मा, तस्मान् न निष्क्रिय इति। न चास्ति विशेषहेतुः क्रियावद्वैधर्म्यान् निष्क्रियेण भवितव्यं न पुनर् अक्रियवैधर्म्यात् क्रियावतेति विशेषहेत्वभावाद् वैधर्म्यसमः।


अथ साधर्म्यसमः --- क्रियावान् लोष्टः क्रियाहेतुगुणयुक्तो दृष्टः, तथा चात्मा, तस्मात् क्रियावान् इति। न चास्ति विशेषहेतुः क्रियावद्वैधर्म्यान् निष्क्रियो न पुनः क्रियावत्साधर्म्यात् क्रियावान् इति विशेषहेत्वभावात् साधर्म्यसमः॥


********************** न्यायभाष्यम्५,१.३ **********************
अनयोर् उत्तरम् ---
न्याभा५,१.३_ गोत्वाद् गोसिद्धिवत् तत्सिद्धिः ॥
साधर्म्यमात्रेण वैधर्म्यमात्रेण च साध्यसाधने प्रतिज्ञायमाने स्याद् अव्यवस्था,


सा तु धर्मविशेषे नोपपद्यते, गोसाधर्म्याद् गोत्वाज् जातिविशेषाद् गौः सिध्यति, न तु सास्नादिसम्बन्धात्। अश्वादिवैधर्म्याद् गोत्वाद् एव गौः सिध्यति, न गुणादिभेदात्। तच् चैतत् कृतव्याख्यानम् अवयवप्रकरणे। प्रमाणानाम् अभिसम्बन्धाच् चैकार्थकारित्वं समानं वाक्य इति। हेत्वाभासाश्रया खल्व् इयम् अव्यवस्थेति॥


********************** न्यायभाष्यम्५,१.४ **********************


न्याभा५,१.४_ साध्यदृष्टान्तयोर् धर्मविकल्पाद् उभयसाध्यत्वाच् चोत्कर्षापकर्षवर्ण्यावर्ण्यविकल्पसाध्यसमाः ॥
दृष्टान्तधर्मं साध्ये समासञ्जयत उत्कर्षसमः। यदि क्रियाहेतुगुणयोगाल् लोष्टवत् क्रियावान् आत्मा, लोष्टवद् एव स्पर्शवान् अपि प्राप्नोति। अथ न स्पर्शवान्, लोष्टवत् क्रियावान् अपि न प्राप्नोति, विपर्यये वा विशेषो वक्तव्य इति।
साध्ये धर्माभावं दृष्टान्तात् प्रसञ्जयतोऽपकर्षसमः। लोष्टः खलु क्रियावान् अविभुर् दृष्टः,
-विभुर् दृष्टः,] पृ.१११०
कामम् आत्मापि क्रियावान् अविभुर् अस्तु, विपर्यये वा विशेषो वक्तव्य इति।
ख्यापनीयो वर्ण्यो विपर्ययाद् अवर्ण्यः। ताव् एतौ साध्यदृष्टान्तधर्मौ विपर्यस्यतो वर्ण्यावर्ण्यसमौ भवतः।
साधनधर्मयुक्ते दृष्टान्ते धर्मान्तरविकल्पात् साध्यधर्मविकल्पं प्रसञ्जयतो विकल्पसमः। क्रियाहेतुगुणयुक्तं किञ्चिद् गुरु यथा लोष्टः, किंचिल् लघु यथा वायुः, एवं क्रियाहेतुगुणयुक्तं किञ्चित् क्रियावत् स्यात् यथा लोष्टः, किञ्चिद् अक्रियं यथात्मा, विशेषो वा वाच्य इति।
हेत्वाद्यवयवसामर्थ्ययोगी धर्मः साध्यः, तं दृष्टान्ते प्रसञ्जयतः साध्यसमः। यदि यथा लोष्टस् तथात्मा, प्राप्तस् तर्हि यथात्मा तथा लोष्ट इति। साध्यश् चायम् आत्मा क्रियावान् इति कामं लोष्टोऽपि साध्यः। अथ नैवम्, न तर्हि यथा लोष्टः तथात्मा॥४॥


********************** न्यायभाष्यम्५,१.५ **********************


एतेषाम् उत्तरम् ---
न्याभा५,१.५_ किञ्चित्साधर्म्याद् उपसंहारसिद्धेर् वैधर्म्याद् अप्रतिषेधः ॥
अलभ्यः सिद्धस्य निह्नवः। सिद्धं च किञ्चित्साधर्म्याद् उपमानं यथा गौस् तथा गवय इति।
इति।] पृ.१११४
तत्र न लभ्यो गोगवययोर् धर्मविकल्पश् चोदयितुम्। एवं साधके धर्मे दृष्टान्तादिसामर्थ्ययुक्ते न लभ्यः साध्यदृष्टान्तयोर् धर्मविकल्पाद् वैधर्म्यात् प्रतिषेधो वक्तुम् इति॥५॥


********************** न्यायभाष्यम्५,१.६ **********************


न्याभा५,१.६_ साध्यातिदेशाच् च दृष्टान्तोपपत्तेः ॥
यत्र लौकिकपरीक्षकाणां बुद्धिसाम्यं तेनाविपरीतोऽर्थोऽतिदिश्यते प्रज्ञापनार्थम्। एवं साध्यातिदेशाद् दृष्टान्ते उपपद्यमाने साध्यत्वम् अनुपपन्नम् इति॥६॥


********************** न्यायभाष्यम्५,१.७ **********************


न्याभा५,१.७_ प्राप्य साध्यम् अप्राप्य वा हेतोः प्राप्त्याविशिष्टत्वाद् अप्राप्त्यासाधकत्वाच् च प्राप्त्यप्राप्तिसमौ ॥
हेतुः प्राप्य वा साध्यं साधयेद् अप्राप्य वा? न तावत् प्राप्य प्राप्त्याम् अविशिष्टत्वाद् असाधकः। द्वयोर् विद्यमानयोः प्राप्तौ सत्यां किं कस्य साधकं साध्यं वा?
अप्राप्य साधकं न भवति, नाप्राप्तः प्रदीपः प्रकाशयतीति। प्राप्त्या प्रत्यवस्थानं प्राप्तिसमः, अप्राप्त्या प्रत्यवस्थानम् अप्राप्तिसमः॥७॥


********************** न्यायभाष्यम्५,१.८ **********************


अनयोर् उत्तरम् ---
न्याभा५,१.८_ घटादिनिष्पत्तिदर्शनात् पीडने चाभिचाराद् अप्रतिषेधः ॥
उभयथा खल्व् अयुक्तः प्रतिषेधः कर्तृकरणाधिकरणानि प्राप्य मृदं घटादिकार्यं निष्पादयन्ति, अभिचाराच् च पीडने सति दृष्टम् अप्राप्य साधकत्वम् इति॥८॥


********************** न्यायभाष्यम्५,१.९ **********************


न्याभा५,१.९_ दृष्टान्तस्य कारणानपदेशात् प्रत्यवस्थानाच् च प्रतिदृष्टान्तेन प्रसङ्गप्रतिदृष्टान्तसमौ ॥
साधनस्यापि साधनं वक्तव्यम् इति प्रसङ्गेन प्रत्यवस्थानं प्रसङ्गसमः प्रतिषेधः। क्रियाहेतुगुणयोगी क्रियावान् लोष्ट इति हेतुर् नापदिश्यते, न च हेतुम् अन्तेरेण सिद्धिर् अस्तीति।


प्रतिदृष्टान्तेन प्रत्यवस्थानं प्रतिदृष्टान्तसमः। क्रियावान् आत्मा क्रियाहेतुगुणयोगाद् लोष्टवद् इत्य् उक्ते प्रतिदृष्टान्त उपादीयते --- क्रियाहेतुगुणयुक्तम् आकाशं निष्क्रियं दृष्टम् इति। कः पुनर् आकाशस्य क्रियाहेतुगुणः? वायुना संयोगः संस्कारापेक्षः, वायुवनस्पतिसंयोगवद् इति॥९॥


********************** न्यायभाष्यम्५,१.१० **********************


अनयोर् उत्तरम् ---
न्याभा५,१.१०_ प्रदीपओपादानप्रसङ्गविनिवृत्तिवत् तद्विनिवृत्तिः ॥
इदं तावद् अयं पृष्टो वक्तुम् अर्हति, अथ के प्रदीपम् उपाददते, किमर्थं वेति? दिदृक्षमाणा दृश्यदर्शनार्थम् इति। अथ प्रदीपं दिदृक्षमाणाः प्रदीपान्तरं कस्मान् नोपाददते? अन्तरेणापि प्रदीपान्तरं दृश्यते प्रदीपः, तत्र प्रदीपदर्शनार्थं प्रदीपोपादानं निरर्थकम्। अथ दृष्टान्तः किमर्थम् उच्यत इति? अप्रज्ञातस्य ज्ञापनार्थम् इति। अथ दृष्टान्ते कारणापदेशः किमर्थं देश्यते? यदि प्रज्ञापनार्थम्, प्रज्ञातो दृष्टान्तः। स खलु ’’लौकिकपरीक्षकाणां यस्मिन्न् अर्थे बुद्धिसाम्यं स दृष्टान्तऽऽ इति। तत्प्रज्ञापनार्थः कारणापदेशो निरर्थक इति प्रसङ्गसमस्योत्तरम्॥१०॥


********************** न्यायभाष्यम्५,१.११ **********************


अथ प्रतिदृष्टान्तसमस्योत्तरम् ---
न्याभा५,१.११_ प्रतिदृष्टान्तहेतुत्वे च नाहेतुर् दृष्टान्तः ॥
प्रतिदृष्टान्तं ब्रुवता न विशेषहेतुर् अपदिश्यते, --- अनेन प्रकारेण प्रतिदृष्टानतः साधको न दृष्टान्त इति। एवं प्रतिदृष्टान्तहेतुत्वे नाहेतुर् दृष्टान्त इत्य् उपपद्यते। स च कथम् अहेतुर् न स्यात्? यद्य् अप्रतिषिद्धः साधकः स्याद् इति॥११॥


********************** न्यायभाष्यम्५,१.१२ **********************


न्याभा५,१.१२_ प्रागुत्पत्तेः कारणाभावाद् अनुत्पत्तिसमः ॥
अनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद् घटवद् इत्य् उक्ते अपर आह --- प्रागुत्पत्तेर् अनुत्पन्ने शब्दे प्रयत्नानन्तरीयकत्वम् अनित्यत्वकारणं नास्ति, तदभावात् नित्यत्वं प्राप्तम्, नित्यस्य चोत्पत्तिर् नास्ति। अनुत्पत्त्या प्रत्यवस्थानम् अनुत्पत्तिसमः॥१२॥


********************** न्यायभाष्यम्५,१.१३ **********************


अस्योत्तरम् ---
न्याभा५,१.१३_ तथाभावाद् उत्पन्नस्य कारणोपपत्तेर् न कारणप्रतिषेधः ॥
तथाभावाद् उत्पन्नस्येति। उत्पन्नः खल्व् अयं शब्द इति भवति। प्रागुतपत्तेः शब्द एव नास्ति, उत्पन्नस्य शब्दभावाच् छब्दस्य सतः प्रयत्नानन्तरीयकत्वम् अनित्यत्वकारणम् उपपद्यते, कारणोपपत्तेर् अयुक्तोऽयं दोषः ’’प्रागुत्पत्तेः कारणाभावाद्ऽऽ इति॥१३॥


********************** न्यायभाष्यम्५,१.१४ **********************


न्याभा५,१.१४_ सामान्यदृष्टान्तयोर् ऐन्द्रियकत्वे समाने नित्यानित्यसाधर्म्यात् संशयसमः ॥
अनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद् घटवद् इत्य् उक्ते हेतौ संशयेन प्रत्यवतिष्टते --- सति प्रयत्नानन्तरीयकत्वे अस्त्य् एवास्य नित्येन सामान्येन साधर्म्यम् ऐन्द्रियकत्वम्, अस्ति च घटेनानित्येन, अतो नित्यानित्यसाधर्म्याद् अनिवृत्तिः संशय इति॥१४॥


********************** न्यायभाष्यम्५,१.१५ **********************


अस्योत्तरम् ---
न्याभा५,१.१५_ साधर्म्यात् संशये न संशयो वैधर्म्याद् उभयथा वा संशयेऽत्यन्तसंशयप्रसङ्गो नित्यत्वानभ्युपगमाच् च सामान्य्स्याप्रतिषेधः ॥
विशेषाद् वैधर्म्याद् अवधार्यमाणेऽर्थे पुरुष इति, न स्थाणुपुरुषसाधर्म्यात् संशयोऽवकाशं लभते। एवं वैधर्म्याद् विशेषात् प्रयत्नानन्तरीयकत्वाद् अवधार्यमाणे शब्दस्यानित्यत्वे नित्यानित्यसाधर्म्यात् संशयोऽवकाशं न लभते। यदि वै लभते, ततः स्थाणुपुरुषसाधर्म्यानुच्छेदाद् अत्यन्तं संशयः स्यात्। गृह्यमाणे च विशेषे नित्यं साधर्म्यं संशयहेतुर् इति नाभ्युपगम्यते। न हि गृह्यमाणे पुरुषस्य विशेषे स्थाणुपुरुषसाधर्म्यं संशयहेतुर् भवति॥१५॥


********************** न्यायभाष्यम्५,१.१६ **********************


न्याभा५,१.१६_ उभयसाधर्म्यात् प्रक्रियासिद्धेः प्रकरणसमः ॥
उभयेन नित्येन चानित्येन च साधर्म्यात् पक्षप्रतिपक्षयोः प्रवृत्तिः प्रक्रिया। अनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद् घटवद् इत्य् एकः पक्षं प्रवर्त्तयति, द्वितीयश् च नित्यसाधर्म्यात् प्रतिपक्षं प्रवर्त्तयति --- नित्यः शब्दः श्रावणत्वात् शब्दत्ववद् इति। एवं च सति प्रयत्नानन्तरीयकत्वाद् इति हेतुर् अनित्यसाधर्म्येण उच्यमानो न प्रकरणम् अतिवर्त्तते, प्रकरणानतिवृत्तेर् निर्णयानतिवर्तनम्। समानं चैतन् नित्यसाधर्म्येणोच्यमाणे हेतौ। तद् इदं प्रकरणानतिवृत्त्या प्रत्यवस्थानं प्रकरणसमः। समानं चैतद् वैधर्म्येऽपि, उभयवैधर्म्यात् प्रक्रियासिद्धेः प्रकरणसम इति॥१६॥


********************** न्यायभाष्यम्५,१.१७ **********************


अस्योत्तरम् ---
न्याभा५,१.१७_ प्रतिपक्षात् प्रकरणसिद्धेः प्रतिषेधानुपपत्तिः प्रतिपक्षोपपत्तेः ॥
उभयसाधर्म्यात् प्रक्रियासिद्धिं ब्रुवता प्रतिपक्षात् प्रक्रियासिद्धिर् उक्ता भवति। यद्य् उभयसाधर्म्यम्, तत्र एकतरः प्रतिपक्ष इत्य् एवं सत्य् उपपन्नः प्रतिपक्षो भवति। प्रतिपक्षोपपत्तेर् अनुपपन्नः प्रतिषेधः, यदि प्रतिपक्षोपपत्तिः प्रतिषेधो नोपपद्यते, अथ प्रतिषेधोपपत्तिः प्रतिपक्षो नोपपद्यते, प्रतिपक्षोपपत्तिः प्रतिषेधोपपत्तिश् चेति विप्रतिषिद्धम् इति। तत्त्वानवधारणाच् च प्रक्रियासिद्धिर् विपर्यये प्रकरणावसानात्, तत्त्वावधारणे ह्य् अवसितं प्रकरणं भवतीति॥१७॥


********************** न्यायभाष्यम्५,१.१८ **********************


न्याभा५,१.१८_ त्रैकाल्यासिद्धेर् हेतोर् अहेतुसमः ॥
हेतुः साधनम्, तत् साध्यात् पूर्वं पश्चात् सह वा भवेत्। यदि पूर्वं साधनम्, असति साध्ये कस्य साधनम्? अथ पश्चाद्, असति साधने कस्येदं साध्यम्? अथ युगपत् साध्यसादने, द्वयोर् विद्यमानयोः किं कस्य साधनं किं कस्य साध्यम् इति हेतुर् अहेतुना न विशिष्यते। अहेतुना साधर्म्यात् प्रत्यवस्थानम् अहेतुसमः॥१८॥


********************** न्यायभाष्यम्५,१.१९ **********************


अस्योत्तरम् ---
न्याभा५,१.१९_ न हेतुतः साध्यसिद्धेस् त्रैकाल्यासिद्धिः ॥
न त्रैकाल्यासिद्धिः। कस्मात्? हेतुतः साध्यसिद्धेः। निर्वर्तनीयस्य निर्वृत्तिर् विज्ञेयस्य विज्ञानम् उभयं कारणतो दृश्यते, सोऽयं महान् प्रत्यक्षविषय उदाहरणम् इति। यत् तु खलूक्तम् असति साध्ये कस्य साधनम् इति? यत् तु निर्वत्यते यच् च विज्ञाप्यते तस्येति॥१९॥


********************** न्यायभाष्यम्५,१.२० **********************


न्याभा५,१.२०_ प्रतिषेदानुपपत्तेश् च प्रतिषेद्धव्याप्रतिषेधः ॥
पूर्वं पश्चाद् युगपद् वा प्रतिषेध इति नोपपद्यते, प्रतिषेधानुपपत्तेः स्थापनाहेतुः सिद्ध इति॥२०॥


********************** न्यायभाष्यम्५,१.२१ **********************


न्याभा५,१.२१_ अर्थापत्तितः प्रतिपक्षसिद्धेर् अर्थापत्तिसमः ॥
अनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद् घटवद् इति स्थापिते पक्षे अर्थापत्त्या प्रतिपक्षं साधयतोऽर्थापत्तिसमः। यदि प्रयत्नानन्तरीयकत्वाद् अनित्यसाधर्म्याद् अनित्यः शब्द इति, अर्थाद् आपद्यते नित्यसाधर्म्यान् नित्य इति, अस्ति चास्य नित्येन साधर्म्यम् अस्पर्शत्वम् इति॥२१॥


********************** न्यायभाष्यम्५,१.२२ **********************


अस्योत्तरम् ---
न्याभा५,१.२२_ अनुक्तस्यार्थापत्तेः पक्षहानेर् उपपत्तिर् अनुक्तत्वाद् अनैकानतिकत्वाच् चार्थापत्तेः ॥
अनुपपाद्य सामर्थ्यम् अनुक्तम् अर्थाद् आपद्यते इति ब्रुवतः पक्षहानेर् उपपत्तिर् अनुक्तत्वात्, अनित्यपक्षसिद्धाव् अर्थाद् आपन्नं नित्यपक्षस्य हानिर् इति। अनैकानतिकत्वाच् चार्थापत्तेः।


उभयपक्षसमा चेयम् अर्थापत्तिः। यदि नित्यसाधर्म्याद् अस्पर्शत्वाद् आकाशवच् च नित्यः शब्दः अर्थाद् आपन्नम् अनित्यसाधर्म्यात् प्रयत्नानन्तरीयकत्वाद् अनित्य इति। न चेयं विपर्ययमात्राद् एकान्तेनार्थापत्तिः। न खलु वै घणस्य ग्राव्णः पतनम् इत्य् अर्थाद् आपद्यते --- द्रवाणाम् अपां पतनाभाव इति॥२२॥


********************** न्यायभाष्यम्५,१.२३ **********************


न्याभा५,१.२३_ एकधर्मोपपत्तेर् अविशेषे सर्वाविशेषप्रसङ्गात् सद्भावौपपत्तेर् अविशेषसमः ॥
एको धर्मः प्रयत्नानन्तरीयकत्वं शब्दघटयोर् उपपद्यत इत्य् अविशेषे उभयोर् अनित्यत्वे,


सर्वस्याविशेषः प्रसज्यते। कथम्? सद्भावोपपत्तेः। एको धर्मः सद्भावः सर्वस्योपपद्यते, सद्भावोपपत्तेः सर्वाविशेषप्रसङ्गात् प्रत्यवस्थानम् अविशेषसमः॥२३॥


********************** न्यायभाष्यम्५,१.२४ **********************
अस्योत्तरम् ---
न्याभा५,१.२४_ क्वचित् तद्धर्मोपपत्तेः क्वचिच् चानुपपत्तेः प्रतिषेधाभावः ॥
यथा साध्यदृष्टान्तयोर् एकधर्मस्य प्रयत्नानन्तरीयकत्वस्योपपत्तेर् अनित्यत्वं धर्मान्तरम् अविशेषः, नैवं सर्वभावानां सद्भावोपपत्तिनिमित्तं धर्मान्तरम् अस्ति, येन अविशेषः स्यात्।
अथ मतम् अनित्यत्वम् एव धर्मानतरं सद्भावोपपत्तिनिमित्तं भावानां सर्वत्र स्याद् इति, एवं खलु वै कल्प्यमाने अनित्याः सर्वे भावाः सद्भावोपपत्तेर् इति पक्षः प्राप्नोति। तत्र प्रतिज्ञार्थव्यतिरिक्तम् अन्यद् उदाहरणं नास्ति, अनुदाहरणश् च हेतुर् नास्तीति। प्रतिज्ञैएकदेशस्य चोदाहरणत्वम् अनुपपन्नम्,
-ज्ञैकदेशस्य ...] पृ.११३५
न हि साध्यम् उदाहरणं भवति। सतश् च नित्यानित्यभावात् अनित्यत्वानुपपत्तिः। तस्मात् सद्भावोपपत्तेः सर्वाविशेषप्रसङ्ग इति निरभिधेयम् एतद् वाक्यम् इति। सर्वभावानां सद्भावोपपत्तेर् अनित्यत्वम् इति ब्रुवताऽनुज्ञातं शब्दस्यानित्यत्वम्, तत्रानुपपन्नः प्रतिषेध इति॥२४॥


********************** न्यायभाष्यम्५,१.२५ **********************


न्याभा५,१.२५_ उभयकारणोपपत्तेर् उपपत्तिसमः ॥
यद्य् अनित्यत्वकारणम् उपपद्यते शब्दस्येत्य् अनित्यः शब्दो नित्यत्वकारणम् अप्य् उपपद्यतेऽस्यास्पर्शत्वम् इति नित्यत्वम् अप्य् उपपद्यते। उभयस्यानित्यत्वस्य नित्यत्वस्य च कारणोपपत्त्या प्रत्यवस्थानम् उपपत्तिसमः॥


********************** न्यायभाष्यम्५,१.२६ **********************
अस्योत्तरम् ---
न्याभा५,१.२६_ उपपत्तिकारणाभ्यनुज्ञानाद् अप्रतिषेधः ॥
उभयकारणोपपत्तेर् इति ब्रुवता नानित्यत्वकारणोपपत्तेर् अनित्यत्वं प्रतिषिध्यते, यदि प्रतिषिध्यते नोभयकारणोपपत्तिः स्यात्। उभयकारणोपपत्तिवचनाद् अनित्यत्वकारणोपपत्तिर् अभ्यनुज्ञायते, अभ्यनुज्ञानाद् अनुपपन्नः प्रतिषेधः।


व्याघातात् प्रतिषेध इति चेत्, समानो व्याघातः। एकस्य नित्यत्वानित्यत्वप्रसङ्गं व्याहतं ब्रुवतोक्तं प्रतिषेध इति चेत्? स्वपक्षपरपक्षयोः समानो व्याघातः, स च नैकतरस्य साधक इति॥२६॥


********************** न्यायभाष्यम्५,१.२७ **********************


न्याभा५,१.२७_ निर्दिष्टकारणाभावेऽप्य् उपलम्भाद् उपलब्धिसमः ॥
निर्दिष्टस्य प्रयत्नानन्तरीयकत्वस्यानित्यत्वकारणस्याभावेऽपि वायुनोदनाद् वृक्षशाखाभङ्गजस्य शब्दस्यानित्यत्वम् उपलभ्यते।
वृक्षशाखाभङ्गजस्य ...] पृ.११३८
निर्दिष्टस्य साधनस्याभावेऽपि साध्यधर्मोपलब्ध्या प्रत्यवस्थानम् उपलब्धिसमः॥२७॥


********************** न्यायभाष्यम्५,१.२८ **********************


अस्योत्तरम् ---
न्याभा५,१.२८_ कारणान्तराद् अपि तद्धर्मोपपत्तेर् अप्रतिषेधः ॥
प्रयत्नानन्तरीयकत्वाद् इति ब्रुवता कारणत उत्पत्तिर् अभिधीयते, न कार्यस्य कारणनियमः। यदि च कारणान्तराद् अप्य् उत्पद्यमानस्य शब्दस्य तद् अनित्यत्वम् उपपद्यते, किम् अत्र प्रतिषिध्यत इति॥२८॥


********************** न्यायभाष्यम्५,१.२९ **********************


न प्राग् उच्चारणाद् विद्यमानस्य शब्दस्यानुपलब्धिः, कस्मात् ? आवरणाअद्यनुपलब्धेः। यथा विद्यमानस्योदकादेर् अर्थस्यावरणादेर् अनुपलब्धिः नैवं शब्दस्याग्रहणकारणेनावरणादिनानुपलब्धिः। गृह्येत चैतद् अस्याग्रहणकारणम् उदकादिवत्, न गृह्यते। तस्माद् उदकादिविपरीतः शब्दोऽनुपलभ्यमान इति।
न्याभा५,१.२९_ तदनुपलब्धेर् अनुपलम्भाद् अभावसिद्धौ तद्विपरीतोपपत्तेर् अनुपलब्धिसमः ॥
तेषाम् आवरणादीनाम् अनुपलब्धिर् नोपलभ्यते। अनुपलम्भान् नास्तीत्य् अभावोऽस्याः सिध्यति। अभावसिद्धौ हेत्वभावात् तद्विपरीतम् अस्तित्वम् आवरणादीनाम् अवधार्यते। तद्विपरीतोपपत्तेर् यत्प्रतिज्ञातं ’’न प्राग् उच्चारणाद् विद्यमानस्य शब्दस्यानुपलब्धिर् इत्य्ऽऽ एतन् न सिध्यति। सोऽयं हेतुर् ’’ावरणाद्यनुपलब्धेर्ऽऽ इत्य् आवरणादिषु चावरणाद्यनुपलब्धौ च समयानुपलब्ध्या प्रत्यवस्थितोऽनुपलब्धिसमो भवति॥२९॥


********************** न्यायभाष्यम्५,१.३० **********************


अस्योत्तरम् ---
न्याभा५,१.३०_ अनुपलम्भाअत्मकत्वाद् अनुपलब्धेर् अहेतुः ॥
आवरणाद्यनुपलब्धिर् नास्ति, अनुपलम्भाद् इत्य् अहेतुः। कस्मात्? अनुपलम्भात्मकत्वाद् अनुपलब्धेः। उपलम्भाभावमात्रत्वाद् अनुपलब्धेः। यद् अस्ति तद् उपलब्धेर् विषयः, उपलब्ध्या तद् अस्तीति प्रतिज्ञायते। यन् नास्ति तद् अनुपलब्धेर् विषयः, अनुपलभ्यमानं नास्तीति प्रतिज्ञायते। सोऽयम् आवरणाद्यनुपलभेः अनुपलम्भ उपलब्ध्यभावेऽनुपलब्धौ स्वविषये प्रवर्त्तमानो न स्वविषयं प्रतिषेधति।


अप्रतिषिद्धा चावरणाद्यनुपलब्धिर् हेतुत्वाय कल्पते। आवरणादीनि तु विद्यमानत्वाद् उपलब्धेर् विषयाः, तेषाम् उपलब्ध्या भवितव्यम्। यत् तानि नोपलभ्यन्ते, तद् उपलब्धेः स्वविषयप्रतिपादिकाया अभावाद् अनुपलम्भाद् अनुपलब्धेर् विषयो गम्यते --- न सन्त्य् आवरणादीनि शब्दस्याग्रहणकारणानीति। अनुपलम्भात् त्व् अनुपलभिः सिध्यति, विषयः स तस्येति॥३०॥


********************** न्यायभाष्यम्५,१.३१ **********************


न्याभा५,१.३१_ ज्ञानविकल्पानां च भावाभावसंवेदनाद् अध्यात्मम् ॥
अहेतुर् इति वर्त्तते। शरीरे शरीरे ज्ञानविकल्पानां भावाभावौ संवेदनीयौ। अस्ति मे संशयज्ञानं नास्ति मे संशयज्ञानम् इति। एवं प्रत्यक्षानुमानागमस्मृतिज्ञानेषु। सेयम् आवरणाअद्यनुपलब्धिर् उपलब्ध्यभावः स्वसंवेद्यः --- नास्ति मे शब्दस्यावरणाद्युपलब्धिर् इति नोपलभ्यन्ते शब्दस्याग्रहणकारणान्य् आवरणादीनीति। तत्र यद् उक्तं तद् अनुपलब्धेर् अनुपलम्भाद् अभावसिद्धिर् इति, एतन् नोपपद्यते॥३१॥


********************** न्यायभाष्यम्५,१.३२ **********************


न्याभा५,१.३२_ साधर्म्यात् तुल्यधर्मोपपत्तेः सर्वानित्यत्वप्रसङ्गाद् अनित्यसमः ॥
अनित्येन घटेन साधर्म्याद् अनित्यः शब्द इति ब्रुवतोऽस्ति घटेनानित्येन सर्वभावानां साधर्म्यम् इति सर्वस्यानित्यत्वम् अनिष्टं सम्पद्यते। सोऽयम् अनित्यत्वेन प्रत्यवस्थानाद् अनित्यसम इति॥३२॥


********************** न्यायभाष्यम्५,१.३३ **********************


अस्योत्तरम् ---
न्याभा५,१.३३_ साधर्म्याद् असिद्धेः प्रतिषेधासिद्धिः प्रतिषेध्यसाधर्म्यात् ॥
प्रतिज्ञाद्यवयवयुक्तं वाक्यं पक्षनिवर्तकं प्रतिपक्षलक्षणं प्रतिषेधः। तस्य पक्षेण प्रतिषेध्येन साधर्म्यं प्रतिज्ञादियोगः। तद् यद्य् अनित्यसाधर्म्याद् अनित्यत्वस्यासिद्धिः, साधर्म्याद् असिद्धेः प्रतिषेधस्याप्य् असिद्धिः, प्रतिषेध्येन साधर्म्याद् इति॥३३॥


********************** न्यायभाष्यम्५,१.३४ **********************


न्याभा५,१.३४_ दृष्टान्ते च साध्यसाधनभावेन प्रज्ञातस्य धर्मस्य हेतुत्वात् तस्य चोभयथाभावान् नाविशेषः ॥
दृष्टान्ते यः खलु धर्मः साध्यसाधनभावेन प्रज्ञायते, स हेतुत्वेनाभिधीयते। स चोभयथा भवति,
चोभयथा भवति,] पृ.११४६
--- केनचित् समानः, कुतश्चिद् विशिष्टः। सामान्यात् साधर्म्यं विशेषाच् च वैधर्म्यम्। एवं साधर्म्यविशेषो हेतुः, नाविशेषेण साधर्म्यमात्रं वैधर्म्यमात्रं वा। साधर्म्यमात्रं वैधर्म्यमात्रं चाश्रित्य भवान् आह --- ’’साधर्म्यात् तुल्यधर्मोपपत्तेः सर्वानित्यत्वप्रसङ्गाद् अनित्यसम्ऽऽ इति, एतद् अयुक्तम् इति। अविशेषसमप्रतिषेधे च यद् उक्तं तद् अपि वेदितव्यम्॥३४॥


********************** न्यायभाष्यम्५,१.३५ **********************


न्याभा५,१.३५_ नित्यम् अनित्यभावाद् अनित्ये नित्यत्वोपपत्तेर् नित्यसमः ॥
अनित्यः शब्द इति प्रतिज्ञायते। तद् अनित्यत्वं किं शब्दे नित्यम् अथानित्यम्? यदि तावत् सर्वदा भवति? धर्मस्य सदा भावाद् धर्मिणोऽपि सदा भाव इति नित्यः शब्द इति। अथ न सर्वदा भवति? अनित्यत्वस्याभावान् नित्यः शब्दः। एवं नित्यत्वेन प्रत्यवस्थानान् नित्यसमः॥३५॥


********************** न्यायभाष्यम्५,१.३६ **********************


अस्योत्तरम् ---
न्याभा५,१.३६_ प्रतिषेध्ये नित्यम् अनित्यभावाद् अनित्येऽनित्यत्वोपपत्तेः प्रतिषेधाभावः ॥
प्रतिषेध्ये शब्दे नित्यम् अनित्यत्वस्य भावाद् इत्य् उच्यमानेऽनुज्ञातं शब्दस्यानित्यत्वम्, अनित्यत्वोपपत्तेश् च ’’नानित्यः शब्दऽऽ इति प्रतिषेधो नोपपद्यते। अथ नाभ्युपगम्यते, नित्यम् अनित्यत्वस्य भावाद् इति हेतुर् न भवतीति हेत्वभावात् प्रतिषेधानुपपत्तिर् इति।


उतपन्नस्य निरोधाद् अभावः शब्दस्यानित्यत्वम्, तत्र परिप्रश्नानुपपत्तिः। योऽयं परिप्रश्नः --- तद् अनित्यत्वं किं शब्दे सर्वदा भवति अथ नेति, अयम् अनुपपन्नः। कस्मात्? उत्पन्नस्य यो निरोधाद् अभावः शब्दस्य तद् अनित्यत्वम्॑ एवं च सत्य् अधिकरणाधेयविभागो व्याघातान् नास्तीति। नित्यानित्यत्वविरोधाच् च। नित्यत्वम् अनित्यत्वं च एकस्य धर्मिणो धर्माव् इति विरुध्येते, न सम्भवतः।
एकस्य धर्मिणो ...] पृ.११५०
तत्र यद् उक्तं --- नित्यम् अनित्यत्वस्य भावान् नित्य एव, तद् अवर्तमानार्थम् उक्तम् इति॥३६॥


********************** न्यायभाष्यम्५,१.३७ **********************


न्याभा५,१.३७_ प्रयत्नकार्यानेकत्वात् कार्यसमः ॥
प्रयत्नानन्तरीयकत्वाद् अनित्यः शब्द इति। यस्य प्रयत्नानन्तरम् आत्मलाभः तत् खल्व् अभूत्वा भवति, यथा घटादिकार्यम्॑ अनित्यम् इति च भूत्वा न भवतीत्य् एतद् विज्ञायते।


एवम् अवस्थिते प्रयत्नकार्यानेकत्वाद् इति प्रतिषेध उच्यते। प्रयत्नानन्तरम् आत्मलाभश् च दृष्टो घटादीनाम्, व्यवधानापोहाच् चाभिव्यक्तिर् व्यवहितानाम्। तत् किं प्रयत्नानन्तरम् आत्मलाभः शब्दस्याहोऽभिव्यक्तिर् इति विशेषो नास्ति। कार्याविशेषेण प्रत्यवस्थानम् कार्यसमः॥३७॥


********************** न्यायभाष्यम्५,१.३८ **********************


अस्योत्तरम् ---
न्याभा५,१.३८_ कार्यान्यत्वे प्रयत्नाहेतुत्वम् अनुपलब्धिकारणोपपत्तेः ॥
सति कार्यान्यत्वे अनुपलब्धिकारणोपपत्तेः प्रयत्नस्याहेतुत्वं शब्दस्याभिव्यक्तौ। यत्र प्रयत्नानन्तरम् अभिव्यक्तिस् तत्रानुपलब्धिकारणं व्यवधानम् उपपद्यते, व्यवधानापोहाच् च प्रयत्नानन्तरभाविनोऽर्थस्योपलब्धिलक्षणाऽभिव्यक्तिर् भवतीति,
प्रयत्नानन्तरभाविनो ...] पृ.११५३
न तु शब्दस्यानुपलब्धिकारणं किञ्चिद् उपपद्यते, यस्य प्रयत्नानन्तरम् अपोहाच् छब्दस्योपलभिलक्षणाऽभिव्यक्तिर् भवतीति, तस्माद् उत्पद्यते शब्दो नाभिव्यज्यते इति॥३८॥


********************** न्यायभाष्यम्५,१.३९ **********************


हेतोश् चेद् अनैकान्तिकत्वम् उपपद्यते अनैकातिकत्वाद् असाधकः स्याद् इति। यदि चानैकान्तिकत्वाद् असाधकत्वम् ---
न्याभा५,१.३९_ प्रतिषेधेऽपि समानो दोषः ॥
प्रतिषेधोऽप्य् अनैकान्तिकः, किञ्चित् प्रतिषेधति किञ्चिन् नेति अनैकान्तिकत्वाद् असाधक इति। अथ वा शब्दस्यानित्यत्वपक्षे प्रयत्नानन्तरम् उत्पादो नाभिव्यक्तिर् इति विशेषहेत्वभावः, नित्यत्वपक्षेऽपि प्रयत्नानन्तरम् अभिव्यक्तिर् नोत्पाद इति विशेषहेत्वभावः। सोऽयम् उभयपक्षसमो विशेषहेत्वभाव इत्य् उभयम् अप्य् अनैकातिकम् इति॥३९॥


********************** न्यायभाष्यम्५,१.४० **********************


न्याभा५,१.४०_ सर्वत्रैवम् ॥
सर्वेषु साधर्म्यप्रभृतिषु प्रतिषेधहेतुषु यत्र यत्राविशेषो दृश्यते तत्रोभयोः पक्षयोः समः प्रसज्यत इति॥४०॥


********************** न्यायभाष्यम्५,१.४१ **********************


न्याभा५,१.४१_ प्रतिषेधविप्रतिषेधे प्रतिषेधदोषवद् दोषः ॥
योऽयं प्रतिषेधेऽपि समानो दोषोऽनैकान्तिकत्वम् आपद्यते सोऽयं प्रतिषेधस्य विप्रतिषेधेऽपि समानः।
विप्रतिषेधेऽपि समानः।] पृ.११५६
तत्रानित्यः शब्दः प्रयत्नानन्तरीयकत्वाद् इति साधनवादिनः स्थापना प्रथमः पक्षः। ’’प्रयत्नकार्यानेकत्वात् कार्यसमऽऽ इति दूषणवादिनः प्रतिषेधहेतुना द्वितीयः पक्षः। स च प्रतिषेध इत्य् उच्यते। तस्यास्य प्रतिषेधेऽपि समानो दोष इति तृतीयः पक्षः विप्रतिषेध उच्यते। तस्मिन् प्रतिषेधविप्रतिषेधेऽपि समानो दोषोऽनैकान्तिकत्वं चतुर्थः पक्षः॥४१॥


********************** न्यायभाष्यम्५,१.४२ **********************


न्याभा५,१.४२_ प्रतिषेधं सदोषम् अभ्युपेत्य प्रतिषेधविप्रतिषेधे समानो दोषप्रसङ्गो मतानुज्ञा ॥
प्रतिषेधं द्वितीयं पक्षं सदोषम् अभ्युपेत्य तदुद्धारम् अकृत्वानुज्ञाय प्रतिषेधविप्रतिषेधे तृतीयपक्षे समानम् अनैकान्तिकत्वम् इति समानं दूषणं प्रसञ्जयतो दूषणवादिनो मतानुज्ञा प्रसज्यत इति पञ्चमः पक्षः॥४२॥


********************** न्यायभाष्यम्५,१.४३ **********************


न्याभा५,१.४३_ स्वपक्षलक्षणापेक्षोपपत्त्युपसंहारे हेतुनिर्देशे परपक्षदोषाभ्युपगमात् समानो दोषः ॥
स्थापनापक्षे प्रयत्नकार्यानेकत्वाद् इति दोषः स्थापनाहेतुवादिनः स्वपक्षलक्षणो भवति। कस्मात्? स्वपक्षसमुत्थत्वात्। सोऽयं स्वपक्षलक्षणं दोषम् अपेक्षमाणोऽनुद्धृत्यानुज्ञाय प्रतिषेधेऽपि समानो दोष इत्य् उपपद्यमानं दोषं परपक्षे उपसंहरति। इत्थं चानैकान्तिकः प्रतिषेध इति हेतुं निर्दिशति। तत्र स्वपक्षलक्षणापेक्षयोपपद्यमानदोषोपसंहारे हेतुनिर्देशे च सत्य् अनेन परपक्षदोषोऽभ्युपगतो भवति। कथं कृत्वा? यः परेण प्रयत्नकार्यानेकत्वाद् इत्यादिनानैकान्तिकदोष उक्तः, तम् अनुद्धृत्य प्रतिषेधेऽपि समानो दोष इत्य् आह। एवं स्थापनां सदोषाम् अभ्युपेत्य प्रतिषेधेऽपि समानं दोषं प्रसञ्जयतः परपक्षाभ्युपगमात् समानो दोषो भवति।
प्रसञ्जयतः परपक्षाभ्युपगमात्...] पृ.११५८
यथा परस्य प्रतिषेधं सदोषम् अभ्युपेत्य प्रतिषेधविप्रतिषेधेऽपि समानो दोषप्रसङ्गो मतानुज्ञा प्रसज्यत इति, तथास्यापि स्थापनां सदोषाम् अभ्युपेत्य प्रतिषेधेऽपि समानं दोषं प्रसञ्जयतो मतानुज्ञा प्रसज्यत इति। स खल्व् अयं षष्ठः पक्षः।
तत्र खलु स्थापनाहेतुवादिनः प्रथमतृतीयपञ्चमपक्षाः, प्रतिषेधहेतुवादिनः द्वितीयचतुर्थषष्ठपक्षाः। तेषां साध्वसाधुतायां मीमांस्यमानायां चतुर्थषष्ठयोर् अर्थाविशेषात् पुनरुक्तदोषप्रसङ्गः। चतुर्थपक्षे समानदोषत्वं परस्योच्यते --’’प्रतिषेधविप्रतिषेधे प्रतिषेधदोषवद् दोषऽऽ इति। षष्ठेऽपि ’’परपक्षदोषाभ्युपगमात् समानो दोषऽऽ इति समानदोषत्वम् एवोच्यते, नार्थविशेषः कश्चिद् अस्ति। समानस् तृटीयपञ्चमयोः पुनरुक्तदोषप्रसङ्गः, तृटीयपक्षेऽपि ’’प्रतिषेधेऽपि समानो दोषऽऽ इति समानत्वम् अभ्युपगम्यते। पञ्चमपक्षेऽपि ’’प्रतिषेधविप्रतिषेधे समानो दोषप्रसङ्गोऽऽऽभ्युपगम्यते, नार्थविशेषः कश्चिद् उच्यत इति। तत्र पञ्चमषष्ठपक्षयोर् अर्थाविशेषात् पुनरुक्तदोषप्रसङ्गः, तृतीयचतुर्थयोर् मतानुज्ञा, प्रथमद्वितीययोर् विशेषहेत्वभाव इति षट्पक्ष्याम् उभयोर् असिद्धिः।
कदा षट्पक्षी? यदा ’’प्रतिषेधेऽपि समानो दोषऽऽ इत्य् एवं प्रवर्त्तते। तदोभयोः पक्षयोर् असिद्धिः। यदा तु ’’कार्यान्यत्वे प्रयत्नाहेतुत्वम् अनुपलब्धिकारणोपपत्तेर्ऽऽ इत्य् अनेन तृटीयपक्षो युज्यते,
तृतीयपक्षो युज्यते,] पृ.११५९
तदा विशेषहेतुवचनात् ’’प्रयत्नानन्तरम् आत्मलाभः शब्दस्य, नाभिव्यक्तिर्ऽऽ इति सिद्धः प्रथमपक्षो न षट्पक्षी प्रवर्तत इति॥४३॥


इति श्रीवात्स्यायनीये न्यायभाष्ये पञ्चमाध्यायस्याद्यम् आह्निकम्।


न्यायदर्शनम्
पञ्चमाध्यायस्य द्वितीयम् आह्निकम्
विप्रतिपत्त्यप्रतिपत्त्योर् विकल्पान् निग्रहस्थानबहुत्वम् इति सङ्क्षेपेणोक्तम्, तद् इदानीं विभजनीयम्। निग्रहस्थानानि खलु पराजयवस्तून्य् अपराधाधिकरणानि प्रायेण प्रतिज्ञाद्यवयवाश्रयाणि तत्त्ववादिनम् अतत्त्ववादिनं चाभिसंप्लवन्ते।
प्रायेण ... चाभिसंप्लवन्ते।] पृ.११६२


********************** न्यायभाष्यम्५,२.१ **********************
तेषां विभागः ---
न्याभा५,२.१_ प्रतिज्ञाहानिः प्रतिज्ञान्तरं प्रतिज्ञाविरोधः प्रतिज्ञासन्न्यासो हेत्वन्तरम् अर्थान्तरं निरर्थकम् अविज्ञातार्थम् अपार्थकम् अप्राप्तकालं न्यूनम् अधिकं पुनरुक्तम् अननुभाषणम् अज्ञानम् अप्रतिभा विक्षेपो मतानुज्ञा पर्यनुयोज्योपेक्षणं निरनुयोज्यानुयोगोऽपसिद्धान्तो हेत्वाभासाश् च निग्रहस्थानानि ॥


तानीमानि द्वाविंशतिधा विभज्य, लक्ष्यन्ते ---


********************** न्यायभाष्यम्५,२.२ **********************
न्याभा५,२.२_ प्रतिदृष्टान्तधर्माभ्यनुज्ञा स्वदृष्टान्ते प्रतिज्ञाहानिः ॥
साध्यधर्मप्रत्यनीकेन धर्मेण प्रत्यवस्थिते प्रतिद्रष्टान्तधर्मं स्वदृष्टान्तेऽभ्यनुजानन् प्रतिज्ञां जहातीति प्रत्ज्ञाहानिः। निदर्शनम् --- ’’ैन्द्रियकत्वाद् अनित्यः शब्दो घटवद्ऽऽ इत्य् कृते अपर आह -- दृष्टम् ऐन्द्रियकत्वं सामान्ये नित्ये, कस्मान् न तथा शब्द इति प्रत्यवस्थिते इदम् आह ---
प्रत्यवस्थिते इदम् आह ---] पृ.११६४
यद्य् ऐन्द्रियकं सामान्यं नित्यं कामं घटो नित्योऽस्त्व् इति।


स खल्व् अयं साधकस्य दृष्टान्तस्य नित्यत्वं प्रसञ्जयन् निगमनान्तम् एव पक्षं जहाति, पक्षं जहत्प्रतिज्ञां जहातीत्य् उच्यते, प्रतिज्ञाश्रयत्वात् पक्षस्येति॥२॥


********************** न्यायभाष्यम्५,२.३ **********************


न्याभा५,२.३_ प्रतिज्ञातार्थप्रतिषेधे धर्मविकल्पात् तदर्थनिर्देशः प्रतिज्ञान्तरम् ॥
प्रतिज्ञातार्थो ’’नित्यः शब्द ऐन्द्रियकत्वाद् घटवद्ऽऽ इत्य् उक्ते योऽस्य प्रतिषेधः प्रतिदृष्टान्तेन हेतुव्यभिचारः --- सामान्यम् ऐन्द्रियकं नित्यम् इति, तस्मिंश् च प्रतिज्ञातार्थप्रतिषेधे, ’’धर्मविकल्पाद्ऽऽ इति दृष्टान्तप्रतिदृष्टान्तयोः साधर्म्ययोगे धर्मभेदात् सामान्यम् ऐन्द्रियकं सर्वगतम् ऐन्द्रियकस् त्व् असर्वगतो घट इति धर्मविकल्पात्, ’’तदर्थनिर्देशऽऽ इति साध्यसिद्ध्यर्थम्। कथम्? यथा घटोऽसर्वगत एवं शब्दोऽप्य् असर्वगतो घटवद् एवानित्य इति।


तत्रानित्यः शब्द इति पूर्वा प्रतिज्ञा, असर्वगत इति द्वितीया प्रतिज्ञा प्रतिज्ञान्तरम्। तत् कथं निग्रहस्थाम् इति? न प्रतिज्ञायाः साधनं प्रतिज्ञान्तरम्, किं तु हेतुदृष्टान्तौ साधनं प्रतिज्ञायाः, तद् एतद् असाधनोपादानम् अनर्थकम् इति। आनर्थक्यान् निग्रहस्थानम् इति॥३॥


********************** न्यायभाष्यम्५,२.४ **********************


न्याभा५,२.४_ प्रतिज्ञाहेत्वोर् विरोधः प्रतिज्ञाविरोधः ॥
गुणव्यतिरिक्तं द्रव्यम् इति प्रतिज्ञा, ’’रूपादितोऽर्थान्तरस्यानुपलब्धेर्ऽऽ इति हेतुः।


सोऽयं प्रतिज्ञाहेत्वोर् विरोधः। कथम्? यदि गुणव्यतिरिक्तं द्रव्यम्, रूपादिभ्योऽर्थान्तरस्यानुपलब्धिर् नोपपद्यते। अथ रूपादिभ्योऽर्थान्तरस्यानुपलब्धिः, गुणव्यतिरिक्तं द्रव्यम् इति नोपपद्यते।
नोपपद्यते।] पृ.११७१
गुणव्यतिरिक्तं च द्रव्यं रूपादिभ्यश् चार्थान्तरस्यानुपलब्धिर् इति विरुध्यते --- व्याहन्यते न सम्भवतीति॥४॥


********************** न्यायभाष्यम्५,२.५ **********************


न्याभा५,२.५_ पक्षप्रतिषेधे प्रतिज्ञातार्थापनयनं प्रतिज्ञासन्न्यासः ॥
अनित्यः शब्द ऐन्द्रियकत्वाद् इत्य् उक्ते परो ब्रूयात् सामान्यम् ऐन्द्रियकं न चानित्यम्,


एवं शब्दोऽप्य् ऐन्द्रियको न चानित्य इति। एवं प्रतिषिद्धे पक्षे यदि ब्रूयात् --- ’’क पुनर् आहानित्यः शब्दऽऽ इति, सोऽयं प्रतिज्ञातार्थनिह्नवः प्रतिज्ञासन्न्यास इति॥५॥


********************** न्यायभाष्यम्५,२.६ **********************


न्याभा५,२.६_ अविशेषोक्ते हेतौ प्रतिषिद्धे विशेषम् इच्छतो हेत्वन्तरम् ॥
निदर्शनम् --- एकप्रकृतीदं व्यक्तम् इति प्रतिज्ञा। कस्माद् धेतोः? एकप्रकृतीनां विकाराणां परिमाणात्। मृत्पूर्वकाणां शरावादीनां दृष्टं परिमाणम्, यावान् प्रकृतेर् व्यूहो भवति तावान् विकार इति। दृष्टं च प्रतिविकारं परिमाणम्। अस्ति चेदं परिमाणम् प्रतिव्यक्तं तदेकप्रकृतीनां विकाराणां परिमाणात् पश्यामो व्यक्तम् इदम् एकप्रकृतीति।


अस्य व्यभिचारेण प्रत्यवस्थानं --- नानाप्रकृतीनाम् एकप्रकृतीनां च विकाराणां दृष्टं परिमाणम् इति। एवं प्रत्यवस्थिते आह --- एकप्रकृतिसमन्वये सति शरावादिविकाराणां परिमाणदर्शनात्। सुखदुःखमोहसमन्वितं हीदं व्यक्तं परिमितं गृह्यते, --- तत्र प्रकृत्यन्तररूपसमन्वयाभावे सत्य् एकप्रकृतित्वम् इति। तद् इदम् अविशेषोक्ते हेतौ प्रतिषिद्धे विशेषं ब्रुवतो हेत्वन्तरं भवति। सति च हेत्वन्तरभावे पूर्वस्य हेतोर् असाधकत्वान् निग्रहस्थानम्। हेत्वन्तरवचने सति यदि हेत्वर्थनिदर्शनो दृष्टान्त उपादीयते,
दृष्टान्त उपादीयते,] पृ.११७५
नेदं व्यक्तम् एकप्रकृति भवति, प्रकृत्यन्तरोपादानात्। अथ नोपादीयते, दृष्टान्ते हेत्वर्थस्यानिदर्शितस्य साधकभावानुपपत्तेर् आनर्थक्याद् धेतोर् अनिवृत्तं निग्रहस्थानम् इति॥६॥


********************** न्यायभाष्यम्५,२.७ **********************


न्याभा५,२.७_ प्रकृताद् अर्थाद् अप्रतिसम्बद्धार्थम् अर्थान्तरम् ॥
यथोक्तलक्षणे पक्षप्रतिपक्षपरिग्रहे (शुद्ध ; पक्षपतिपक्ष-, सम्पादकः) हेतुतः साध्यसिद्धौ प्रकृतायां ब्रूयात् --- नित्यः शब्दोऽस्पर्शत्वाद् इति हेतुः। हेतुर् नाम हिनोतेर् धातोस् तुनि प्रत्यये कृदन्तं पदम्। पदं च नामाख्यातोपसर्गनिपाताः। अभिधेयस्य क्रियान्तरयोगाद् विशिष्यमाणरूपः शब्दो ’’नामऽऽ। क्रियाकारकसमुदायः कारकसङ्ख्याविशिष्टक्रियाकालयोगाभिधायाख्यातम्, धात्वर्थमात्रं च कालाभिधानविशिष्टम्। प्रयोगेष्व् अर्थाद् अभिद्यमानारूपा निपाताः।
-रूपा निपाताः।] पृ.११७७
उपसृज्यमानाः क्रियावद्योतका उपसर्गा इत्य् एवमादि। तदर्थान्तरं वेदितव्यम् इति॥७॥


********************** न्यायभाष्यम्५,२.८ **********************


न्याभा५,२.८_ वर्णक्रमनिर्देशवन् निरर्थकम् ॥
यथाऽनित्यः शब्दः --- कचटतपाः, जवगडदशत्वात्, झभञ् घढधषवद् इति ----


एवम्प्रकारं निरर्थकम्। अभिधानाभिधेयभावानुपपत्तौ अर्थगतेर् अभावाद् वर्णा एव क्रमेण निर्दिश्यन्त इति॥८॥


********************** न्यायभाष्यम्५,२.९ **********************


न्याभा५,२.९_ परिषत्प्रतिवादिभ्यां त्रिर् अभिहितम् अप्य् अविज्ञातम् अविज्ञातार्थम् ॥
यद् वाक्यं परिषदा प्रतिवादिना च त्रिर् अभिहितम् अपि न विज्ञायते श्लिष्टशब्दम् अप्रतीतप्रयोगम् अतिद्रुतोच्चरितम् इत्य् एवमादिना कारणेन,
-प्रतीतप्रयोगम् ... कारणेन,] पृ.११७९
तदविज्ञातम् अविज्ञातार्थम् असामर्थ्यसंवरणाय प्रयुक्तम् इति निग्रहस्थानम् इति॥९॥


********************** न्यायभाष्यम्५,२.१० **********************


न्याभा५,२.१०_ पौर्वापर्यायोगाद् अप्रतिसम्बद्धार्थम् अपार्थकम् ॥
यत्रानेकस्य पदस्य वाक्यस्य वा पौर्वापर्येणान्वययोगो नास्तीत्य् असम्बद्धार्थत्वगृह्यते, तत् समुदायार्थस्यापायाद् अपार्थकम्। यथा --- दश दाडिमानि, षड् अपूपाः॑


कुण्डम्, अजाजिनम्, पललपिण्डः, अथ रौरुकम् एतद्, कुमार्याः पायं तस्याः पिताऽप्रतिशीन इति॥१०॥


********************** न्यायभाष्यम्५,२.११ **********************


न्याभा५,२.११_ अवयवविपर्यासवचनम् अप्राप्तकालम् ॥
प्रतिज्ञादीनाम् अवयवानां यथालक्षणम् अर्थवशात् क्रमः, तत्रावयवविपर्यासेन वचनम् अप्राअप्तकालम् असम्बद्धार्थं निग्रहस्थानम् इति॥११॥


********************** न्यायभाष्यम्५,२.१२ **********************


न्याभा५,२.१२_ हीनम् अन्यतमेनाप्य् अवयवेन न्यूनम् ॥
प्रतिज्ञादीनाम् अवयवानाम् अन्यतमेनाप्य् अवयवेन हीनं न्यूनं निग्रहस्थानम्, साधनाभावे साध्यासिद्धिर् इति॥१२॥


********************** न्यायभाष्यम्५,२.१३ **********************


न्याभा५,२.१३_ हेतूदाहरणाधिकम् अधिकम् ॥
एकेन कृतत्वाद् अन्यतरस्यानर्थक्यम् इति, तद् एतन् नियमाभुपगमे वेदितव्यम् इति॥१३॥


********************** न्यायभाष्यम्५,२.१४ **********************


न्याभा५,२.१४_ शब्दार्थयोः पुनर् वचनं पुनरुक्तम् अन्यत्रानुवादात् ॥
अन्यत्रानुवादात् शब्दपुनरुक्तम् अर्थपुनरुक्तं वा, नित्यः शब्दो नित्यः शब्द इति शब्दपुनरुक्तम्। अर्थपुनरुक्तम् --- अनित्यः शब्दो निरोधधर्मको ध्वनिर् इति।
अनुवादे त्व् अपुनरुक्तं शब्दाभ्यासाद् अर्थविशेषोपपत्तेः। यथा हेत्वपदेशात् प्रतिज्ञायाः पुनर् वचनं निगमनम् इति॥१४॥


********************** न्यायभाष्यम्५,२.१५ **********************


न्याभा५,२.१५_ अर्थाद् आपन्नस्य स्वशब्देन पुनर्वचनम् ॥
पुनरुक्तम् इति प्रकृतम्। निदर्शनम् --- उत्पत्तिधर्मकत्वाद् अनित्यम् इत्य् उक्त्वा अर्थाद् आपन्नस्य योऽभिधायकः शब्दस् तेन स्वशब्देन ब्रूयाद् अनुत्पत्तिधर्मकं नित्यम् इति,
-पन्नस्य यो ... नित्यम् इति,] पृ.११८८
तच् च पुनरुकतं वेदितव्यम्। अर्थसम्प्रत्ययार्थे शब्दप्रयोगे प्रतीतः सोऽर्थोऽर्थाप्त्त्येति॥१५॥


********************** न्यायभाष्यम्५,२.१६ **********************


न्याभा५,२.१६_ विज्ञातस्य परिषदा, त्रिर् अभिहितस्याप्य् अप्रत्युच्चारणम् अननुभाषणम् ॥
विज्ञातस्य वाक्यार्थस्य परिषदा, प्रतिवादिना त्रिर् अभिहितस्य यद् अप्रत्यौच्चारणं तद् अननुभाषणं नाम निग्रहस्थानम् इति। अप्रत्युच्चारयन् किमाश्रयं परपक्षप्रतिषेधं ब्रूयात्॥१६॥


********************** न्यायभाष्यम्५,२.१७ **********************


न्याभा५,२.१७_ अविज्ञातं चाज्ञानम् ॥
विज्ञातार्थस्य परिषदा, प्रतिवादिना त्रिर् अभिहितस्य यद् अविज्ञातं तद् अज्ञानं नाम निग्रहस्थानम् इति। अयं खल्व् अविज्ञाय कस्य प्रतिषेधं ब्रूयाद् इति॥१७॥


********************** न्यायभाष्यम्५,२.१८ **********************


न्याभा५,२.१८_ उत्तरस्याप्रतिपत्तिर् अप्रतिभा ॥
परपक्षप्रतिषेध उत्तरम्, तद् यदा न प्रतिपद्यते तदा निगृहीतो भवति॥१८॥


********************** न्यायभाष्यम्५,२.१९ **********************


न्याभा५,२.१९_ कार्यव्यासङ्गात् कथाविच्छेदो विक्षेपः ॥
यत्र कर्तव्यं व्यासज्य कथां व्यवच्छिनत्ति --- इदं मे करणीयं विद्यते, तस्मिन् अवसिते पश्चात् कथयामीति, विक्षेपो नाम निग्रहस्थानम्। एकनिग्रहावसानायां कथायां स्वयम् एव कथान्तरं प्रतिपद्यत इति॥१९॥


********************** न्यायभाष्यम्५,२.२० **********************


न्याभा५,२.२०_ स्वपक्षे दोषाभ्युपगमात् परपक्षे दोषप्रसङ्गो मतानुज्ञा ॥
यः परेण चोदितं दोषं स्वपक्षेऽभ्युपगम्यानुद्धृत्य वदति --- भवत्पक्षेऽपि समानो दोष इति,
दोष इति,] पृ.११९४
स स्वपक्षे दोषाभ्युपगमात् परपक्षे दोषं प्रसञ्जयन् परमतम् अनुजानातीति मतानुज्ञां नाम निग्रहस्थानम् आपद्यत इति॥२०॥


********************** न्यायभाष्यम्५,२.२१ **********************


न्याभा५,२.२१_ निग्रहस्थानप्राप्तस्यानिग्रहः पर्यनुयोज्योपेक्षणम् ॥
पर्यनुयोज्यो नाम निग्रहोपपत्त्या चोदनीयः, तस्योपेक्षणं निग्रहस्थानं प्राप्तोऽसीत्य् अननुयोगः। एतच् च कस्य पराजय इत्य् अनुयुक्तया परिषदा वचनीयम्, न खलु निग्रहं प्राप्तः स्वकौपीनं विवृणुयाद् इति॥२१॥


********************** न्यायभाष्यम्५,२.२२ **********************


न्याभा५,२.२२_ अनिग्रहस्थाने निग्रहस्थानाभियोगो निरनुयोज्यानुयोगः ॥
निग्रहस्थालक्षणस्य मिथ्याध्यवसायाद् अनिग्रहस्थाने निगृहीतोऽसीति परं ब्रुवन् निरनुयोज्यानुयोज्गान् निगृहीतो वेदितव्य इति॥२२॥


********************** न्यायभाष्यम्५,२.२३ **********************


न्याभा५,२.२३_ सिद्धान्तम् अभ्युपेत्यानियमात् कथाप्रसङ्गोऽपसिद्धान्तः ॥
कस्यचिद् अर्थस्य तथाभावं प्रतिज्ञाय प्रतिज्ञातार्थविपर्ययाद् अनियमात् कथां प्रसञ्जयतोऽपसिद्धान्तो वेदितव्यः। यथा न सद् आत्मानं जहाति, न सतो विनाशो, नासद् आत्मानं लभते, नासद् उत्पद्यत इति सिद्धान्तम् अभ्युपेत्य स्वपक्षं व्यवस्थापयति --- एकप्रकृतीदं व्यक्तं विकाराणाम् अन्वयदर्शनात्। मृदन्वितानां शरावादीनां दृष्टम् एकप्रकृतित्वम्, तथा चायं व्यक्तभेदः सुखदुःखमोहान्वितो दृश्यते। तस्मात् समन्वयदर्शनात् सुखादिभिर् एकप्रकृतीदं विश्वम् इति। एवम् उक्तवान् अनुयुज्यते --- अथ प्रतृतिर् विकार इति कथं लक्षितव्यम् इति। यस्यावस्थितस्य धर्मान्तरनिवृत्तौ धर्मान्तरं प्रवर्तते, सा प्रकृतिः। यद् धर्मान्तरं प्रवर्तते निवर्तते वा स विकार इति। सोऽयं प्रतिज्ञातार्थविपर्यासाद् अनियमात् कथां प्रसञ्जयति। प्रतिज्ञातं खल्व् अनेन --- नासद् आविर्भवति,


न सत् तिरोभवतीति। सदसतोश् च तिरोभावाविर्भावम् अन्तरेण न कस्यचित् प्रवृत्तिः प्रवृत्त्युपरमश् च भवति। मृदि खल्व् अवस्थितायां भविष्यति शरावादिलक्षणं धर्मान्तरम् इति प्रवृत्तिर् भवति, अभूद् इति च प्रवृत्त्युपरमः। तद् एतद् मृद्धर्माणाम् अपि न स्यात्। एवं प्रत्यवस्थितो यदि सतश् चात्महानम् असतश् चात्मलाभम् अभ्युपैति, तद् अस्यापसिद्धानतो निग्रहस्थानं भवति। अथ नाभ्युपैति, पक्षोऽस्य न सिध्यति॥२३॥


********************** न्यायभाष्यम्५,२.२४ **********************


न्याभा५,२.२४_ हेत्वाभासाश् च यथोक्ताः ॥
हेत्वाभासाश् च निग्रहस्थानानि। किं पुनर् लक्षणान्तरयोगाद् हेत्वाभासा निग्रहस्थानत्वम् आपन्नाः यथा प्रमाणानि प्रमेयत्वम् इत्य् अत आह --- यथोक्ता इति। हेत्वाभासलक्षणेनैव निग्रहस्थानभाव इति।


त इमे प्रमाणादयः पदार्था उद्दिष्टा लक्षिताः परीक्षिताश् चेति॥२४॥
योऽक्षपादम् ऋषिं न्यायः प्रत्यभाद् वदतां वरम्।
तस्य वात्स्यायन इदं भाष्यजातम् अवर्तयत्॥
इति श्रीवात्स्यायनीये न्यायभाष्ये पञ्चमोऽध्यायः।

स्रोतः[सम्पाद्यताम्]

अपि पश्यतु[सम्पाद्यताम्]

"https://sa.wikisource.org/w/index.php?title=न्यायसूत्रभाष्यम्&oldid=337196" इत्यस्माद् प्रतिप्राप्तम्