सामग्री पर जाएँ

न्यायबिन्दुः (विस्तरटीकासहितः)

विकिस्रोतः तः
न्यायबिन्दुः (विस्तरटीकासहितः)
[[लेखकः :|]]


प्रथमः प्रत्यक्षपरिच्छेदः

आर्यविनीतदेवकृतिः
न्यायबिन्दुविस्तरटीका
(शिष्यहिता)

यस्य कुलप्रभावेण विशुद्धन्यायवर्त्मनि ।
सिद्धि प्राहुःपरां, तस्मै प्रवाचे मुनये नमः ॥

आचार्येधर्मोत्तरकृता

न्यायबिन्दुटीका

जयन्ति जातिव्यसनप्रबन्धप्रसूतिहेतोर्जगतो विजेतुः ।
रागादयरतेः सुगतस्य वाचो मनस्तमस्तानवमादधानाः ॥

आचार्यधर्मोत्तरकृताया न्यायबिन्दुटीकायाः
आज्ञातकर्तुः टिप्पणी

सर्व एव हि विशिष्टो जनः शास्त्रारम्भे स्वेष्ठदेवतास्तुतिं कृतवान् । तथायमपि आर्यधर्मोत्तरः सदाचारानुवृत्तिमात्मनः ख्यापयन्, स्वेष्टदेवतास्तुतेश्च पुण्योपचयम्, ततश्च शास्त्रस्याबिध्नेन परिसमाप्तिं व्याख्यायाः, श्रोतृणां स्तुतिपुरःसरया प्रवृत्त्या पुण्यातिशयोत्पादनात्पारार्थ्य चालोच्य बुद्धस्य भगवतः स्तुतिमारब्धवान्- जयन्तीत्यादि । अनेन श्लोकेन बुद्धस्य भगवत एव पूजा स्तोत्रतः, नान्येपां निर्दिष्टगुणोद्भवात् ।

स्तोत्रमपि स्व- परार्थसम्पत्त्यै सम्भाव्तीति पूर्व स्वार्थसम्पद भगवती दर्सह्यति जयन्ति जातिव्यसनेत्यादिना सुगतपर्यन्तेनः मनस्तमस्तानबेत्यादिना परार्थसम्पदम् ।
जयन्ति =जयं कुर्वन्ति । वाच इति सम्बन्धः । कस्य वाचः? इत्याह- सुगतस्ये ति । सुशब्दोऽत्र शोभने, अतिशये, अपुनरावृतौ च वर्ततेः अनेकार्थत्वात्निपातानाम् । तदवमयंः-शोभनं गतः सुगतः सुचरितवत् । अतिशयेन गतः सुगतः सुपरिपूर्ण

१ सम्यग्ज्ञानपूर्विका सर्वपुरुषार्थसिद्धिरिति तद्व्युत्पादयते ॥
[न्या] अथ न्यायबिन्दुः प्रतिपदं विभज्यते- सम्यगिति ।

ऽसम्यग्ज्ञानपूर्विका सर्वप्रुषार्थसिद्धिरिति तद्वयुत्पादयतेऽ इति प्रथमवाक्येनास्य प्रकरणस्य सम्बन्ध-प्रयोजनाभिवेयानि, तथा प्रयोजनस्य प्रयोजनमप्युपदिश्यन्ते । तथा हि सम्बन्ध प्रयोजन अभिधेयानामभावे प्रकरणशास्त्रर्मदं प्रेक्षापूर्व[ध] सम्यग्ज्ञानपूर्विकेत्यादिना अस्य प्रकरणस्याभिधेय- प्रयोजनमुच्यते ।

[टि] घटवत् । अपुनरावृत्त्या गत सुगतः, प्रदीपवत् । किविशिष्टस्य तस्य? इत्याह- रागादयरातेरिति । रागशक्तिरादौ । स आदिर्येषां द्वेषादीनां ते रागादयो भवन्ति क्लेशाः । तेषामरातिः = शत्रुः । यतो भगवता सर्वक्लेशाः निःशेष निर्दग्धाः, यत एव रागादयरातिर्भगवान्, अत एव जगतस्त्रैधातुकजीवलोकस्य विजेता । अनेन स्वार्थसम्पत्सोपाया दर्शिता ।

किंविशिष्टस्य जगतो विजेतुः? इत्याह- जातिव्यसनेत्यादि । व्यसनम्= अनर्थसजननम् । जातौ व्यसनमिति "सप्तमीऽ (पा सू २ १ ४०) इति योगविभागात्समासः । तत्राभिलाष इति यावत् ।ऽदेवाहं स्याम्ऽ,ऽमनुष्योऽहं स्याम्ऽ इत्यभिलाषः । यद्वा- विविधमनेकप्रकारेणास्यते क्सिप्यते इति व्यसनम् । सामान्यन कमसाधनम् । पश्चाज्जातिशब्दस्य विशेषणसमासः- जातिरेव व्यसनम् । जात्या व्यसनं विशिष्यते । तेन जातिशब्दस्य विशेषणत्वात्पूर्वनिपातः । जातिव्यसनस्य प्रबन्धः=प्रवाहः, तस्य प्रसूतिः= प्रसवः, उत्पत्तिः । तस्या हेतुः= कारणम्, जगत्तस्य जगतो विजेतुरिति । तत्रायं समुदायार्थः- यस्माच्चोभनादिना गतो भगवान्, अतएव रागादयरातिः, यत एव निर्दग्धक्लेशोऽतो जगतो विजेतेति ।

किंविशिष्टा वाचो जयन्ति? इत्याह- मनस्तम इत्याद् । मनसः= विकल्पविज्ञानस्य । तृष्णा अविदया तम एव । तम इति कृत्वा न गमतया तमोऽन्धकारी धटादिप्रतिबन्धं करोति । तनोर्भवस्तानवम् । "इगन्ताच्च लघुपूर्वात्" (पा सू ५ १ १३१) इत्यण् । मनस्तमसि तानवम्, षष्ठी- समासो वा वचन प्रमाथो द्रष्टव्यः । मनस्तमस्तानवमादधानाः=तनुत्वं कुर्वाणाः सकलजनस्य श्रुतिचिन्ताभावनाक्रमेण सुगतस्य वाचः सुत्र अभिधर्म विनयस्वभावाः जयन्ति । जयः पुनस्तासा तीर्थिकशास्त्राभिभवलक्षणः । यस्माद्भगवत्प्रवचने प्रमाणपरिचिन्न उपायो विमुक्ति लक्षणश्च उपायो निर्दिश्यते, तेषां चागम उपायोपेययोः प्रमाणरहितत्वात्ततो भगवत एव वाचो जयन्ति, नान्येषामिति भगवतः स्तुतिः ।

सम्यग्ज्ञानेत्यादिना विनीतदेवव्याख्या दूषयति । यतोऽभिधेयस्यैव प्रयोजनम्, [न्या] गामिनामनुमर्त न स्यात् । ततश्च किमिह व्याख्येयम्?- इत्याशङ्कानिरासार्थमभिधेयमुक्तं फलाभावशङ्कानिराकरणार्थ प्रयोजनमुक्तम् । उपायाभावशङ्कानिराकरणार्थ सम्बन्ध उक्तः । तेन श्रोत्रुत्साहविवर्धनार्थ सम्बन्धादिकमुक्तमिति ।

तत्र तद्व्युत्पादयते इत्यनेन अभिधेयं प्रयोजनं च साक्षादुक्ते । सम्बन्दस्तु सामर्थ्यात्प्रतिपादयते । एतच्च तत्र सामर्थ्यम्- सम्यग्ज्ञानप्रतिपादनार्थ प्रकरणारम्भादर्थाद्प्रकरणमुपाय एवेति दर्शितमन्यथा यदि उपायो न स्यात्, किमर्थमारभ्येत । तस्मात्सम्बन्धोऽर्थात्प्रतिपादयते ।

अत्र सम्यग्ज्ञानमित्येतदभिधेयम् । सम्यग्ज्ञानव्युत्पत्तिस्तु प्रयोजनम् । तच्च व्युत्पत्तयात्मकं सम्यग्ज्ञानप्रतिपादनमनेन क्रियत इति प्रकरणमिदं तस्यार्थस्य साधनं भवति । तेन प्रकरन प्रयोजनयोः साध्यसाधनलक्षणः सम्बन्धः । तथा च- एतत्प्रकरणश्रवणात् । सम्यग्ज्ञानस्वरूपमभ्रान्ततया ज्ञायते । तेन प्रकरणं साधनम्, सम्यग्ज्ञान परिज्ञानं च उपायसाध्यमिति स्थितिः । स च साध्य साधनलक्षणः सम्बन्धः कार्यकारणलक्षण एव । तथा च प्रकरणं साधनं, फलं च साध्यम्ः प्रकाणं कारणम्, फलं च कार्यमिति । तस्मात्सम्यग्ज्ञानपरिज्ञानहेतोरेतत्प्रकरणारम्भ इति स्थितिः ॥

अथैवं स्थितेऽपि, यदि कश्चित्पृच्छति- कोऽर्थः सम्यग्ज्ञानब्युत्पादने? तदेव तावन्निष्प्रयोजनमिति । एतत्काकदन्ताप्रीक्षाकल्पम् ।

मा भूदुपदेशः, किमर्थमयं श्रम इति? तस्मादाह- सम्यग्ज्ञानपूर्विकां सर्वपुरुषार्थसिद्धिरिति । तेन प्रयोजनस्य प्रयोजनमुक्तम् । तत्रायं वाक्यार्थः- यस्मात्सर्वपुरुषार्थ द्विविधं हि प्रकरणशरीरम्- शब्दः अर्थश्च ।

तत्र शब्दस्य स्वाभिधेयप्रतिपादनमेव प्रयोजनम्, नान्यत् । अतस्तन्न निरूप्यते ।

न सम्यग्ज्ञानव्युत्पत्तेः शास्त्रप्रयोजनस्य प्रयोजनम् । सर्वपुरुषार्थसिद्धिर्ब्युत्पत्तेः सम्यग्ज्ञानपरिज्ञानस्यैव प्रयोजनम् । सर्वपुरुषार्थसिद्धिः प्रयोजनं येन स्यात्प्रयोजन प्रयोजनम्, तेन च प्रयोजन प्रयोजनमाख्यातमिति दूषितं सामर्थ्यात् ।

अथ कस्मात्प्रकरणस्याभिधेयप्रयोजनमित्युक्तम्, न पुनः प्रकरणस्य शरीर प्रयोजनम्? इत्याह- द्विविधं हीत्यादि । यतो द्विविधं प्रकरणस्य शरीरं प्रकरणस्य स्वभावः । तस्मातभिधेयेति विशेषणं कृतम् ।

ननु यथाभिधेयस्य प्रयोजनं चिन्त्यते, तथा शब्दस्यापि किमिति न चिन्त्यते? इत्याह- तत्रेत्यादि ।

तत्प्रतिपत्तय इति । अभिधेयप्रतिपत्तये । सब्दर्भो रचनाविशेषः । अपिशब्दादर्थसम्बन्धोऽपि गृह्यते । [न्या] सिद्धौ सम्यग्ज्ञानमावश्यकम्, तस्मादनुबद्धं पुरुषार्थसिद्धया । तच्च व्युत्पाद्दम् । तद्धि व्युत्पादनं प्रकरणाद्भवति । तेन आवश्यकसम्यग्ज्ञानव्युत्पत्तिहेतोः प्रकरणमिदमारब्धमिति । एष समासार्थः ॥

अवयवार्थस्तु- समय्ग्ज्ञानपूर्विका इति । अत्र अविसंवादकं ज्ञानमस्म्यग्ज्ञानम् । अर्थक्रियायां यदविसंवादकं तदभ्रान्तम्, तदेव च सम्यग्ज्ञानम् । अन्यथा प्रकरणेन योगाचारनयनिरासः स्यात् । इष्टश्च प्रकरणारम्भः सौत्रान्तिकः योगाचारोभयनयानु अभिधेयं तु यदि निप्प्रयोजनं स्यात्, तदा तत्प्रतिपत्तये शब्दसन्दर्भोऽपि नारम्भणीयः स्यात् । यथा काकदन्तप्रयोजनाभावात्न तत्परीक्षा आरम्भणीया प्रेक्षावता ।

तस्मादस्य प्रकरणस्यारम्भणीयत्वं दर्शयता अभिधेयप्रयोजनमनेनोच्यते । यस्मात्सम्यग्ज्ञानपूर्विका सर्वपुरुषार्थसिद्धिः, तस्मात्तत्प्रतिपत्तये इदमारभयते- इत्ययमत्र वाक्यार्थः ।

अत्र च प्रकरणाभिधेयस्य समय्ग्ज्ञानस्य सर्वपुरुषार्थसिद्धिहेतुत्वं प्रयोजनमुक्तम् ।

अस्मिंमश्चार्थ उच्यमाने सम्बन्धप्रयोजनाभिधेयानि उक्तानि भवन्ति ।

तथा हि-ऽपुरुषार्थोपयोगि सम्यग्ज्ञानं व्युत्पादयितव्यमनेन प्रकरणेनऽ इति ब्रुवता सम्यग्ज्ञानमरय शब्दसन्दर्भस्य अभिधेयम्, तद्वयुत्पादनं प्रयोजनम्, प्रकरणं चेदमुपायो व्युत्पादनस्य- इत्युक्त भवति ।

तस्मादभिधेयभागप्रयोजनाभिधानसामर्थ्यात्सम्बन्धादीनि उक्तानि भवन्ति । न त्विदमेकं वाकयं सम्बन्धम्, अभिधेयं, प्रयोजनं च वक्तुं साक्षात्समर्थम् । एकं तु वदत्त्रयं साक्षात्सामर्थ्याद्दर्शयति ।

परीक्षेति । परीक्ष्यतेऽनयेति परीक्षा, शास्त्रमुच्यते । अनेनेति । आदिवाक्येन । यस्मादित्यादिना समुदायार्थ दर्शयति । अत्रेति । आदिवाक्ये ।

ननु च यत्राभिधेयप्रयोजनं प्रेक्षावतां प्रवृत्तावङ्ग तथा सम्वन्धादीन्यपि, अतस्तानि किमिति न कथ्यन्ते? इत्याह- अस्मिन्निति । अस्मिन्नभिधेयप्रयोजने कथिते तान्यपि सामर्थ्यात्कथितानि भवन्तीत्यर्ह्तः । अभिधेय एव भागः= अंशः, सम्बन्धादिराशेः । तस्य प्रयोजनं कथयतीत्यर्थः । तद्दर्शयति । अभिधेयप्रयोजनमेव सक्षाद्वाच्यतया निर्दिश्यते, अभिधेयादीनि तु तद्विशेषणतया । चोदकेन प्रधानवाच्यतयाभिधेयादीन्यपश्यता चोदितम् । सामर्थ्यापाततया परिहृतं सिद्धान्तवादिना ।

न चैकेन वाक्येनार्थत्रयं साक्षाछक्यते दर्शयितुमिति दर्शयति- न त्विदमित्यादि ।

एकं त्वित्त्यादिवाक्यं प्राधान्येनैकं वददभिधेयव्युत्पत्तिप्रयोजनसम्बन्धार्थत्रयं प्रतिपदयति तत्र तदित्यादिना । अपोद्धारेणावयवार्थ दर्शयति तत्रेत्यादिवाक्ये । ननु च तद्धाअव्नार्थम् । तस्मादुभयनयसंग्रहादविसंवादक ज्ञानमेव सम्यग्ज्ञानमिति बोध्यम् ।

सम्यग्ज्ञानं पूर्व यस्याः सा सम्यग्ज्ञानपूर्विका । पूर्वशब्दोऽयं कारणपरः । यस्मात्कारणं पूर्व कार्यस्य, तस्मात्तत्पूर्वमित्युच्यते । सम्यग्ज्ञानक्रणिकेति शेषः ।

सर्वपुरुषार्थसिद्धिरिति । पुरुषस्यार्थः पुरुषार्थः । अर्थशब्देन प्रयोजनमुक्यते । पुरुषप्रयोजनमिति शेषः । सर्वश्चासौ पुरुषार्थश्चेति सर्वप्रुषार्थः । सर्व इति सन्निकृष्टविप्रकृष्ट लौकिक लोकोत्तर हेयोपादेयोपेक्षणीयाः । तत्र समीपदेशवर्ती सन्निकृष्टः । दूरदेशवर्ती विप्रकृष्टः । लौकिकः संसारमध्यपर्यापन्नः । लोकोत्तरस्तु दुःखातीतः । हेयः अनिष्टः, अहि कण्टक विष शूलादिलक्षणः । उपादेय इष्टः, स्त्रक्चन्दन वसनाशन तत्र तदित्याभिधेयम्, व्युत्पाद्यते इति प्रयोजनपदम् । प्रयोजने चात्र वक्तुः प्रकरणकरणव्यापारस्य चिन्त्यते, श्रोतुश्च श्रवणव्यापारस्य ।

तथा हि- सर्वे प्रेक्षावन्तः प्रवृत्तिप्रयोजनमन्विष्य प्रवर्तन्ते । ततश्चाचार्येण प्रकरणे किमर्थ कृतम्, श्रोतृभिश्च किमर्थ श्रूयते?- इति संशये व्युत्पादनं प्रयोजनमभिधौयते । सम्यग्ज्ञानं व्युत्पद्यमानानामात्मानं व्युत्पादकं कर्तु प्रकरणमिदं कृतम् । शिष्यैश्चाचार्यप्रयुक्तामात्मनो व्युत्पत्तिमिच्चद्भिः प्रकरणमिदं श्रूयत इति प्रकरणकरण श्रवणयो प्रयोजनं व्युत्पादनम् ।

सम्बन्धप्रदर्शनपदं तु न बिद्यते । सामर्थ्यादेव तु स प्रतिपत्तव्यः ।

व्युत्पत्तिः क्रियत इत्येवं युज्यते वक्तुं किमिति अत्द्वयुत्पाद्यते इति णिचा निर्देश इति । तत्फलमाह- प्रयोजनं चात्रेत्यादि । अत्रेति प्रकरणे । वक्तुरिति शास्त्रकर्तु श्रोतुश्च प्रकरणकरणश्रवणव्यापारस्य प्रयोजनं विन्त्यते ।

यस्माद्द्वयोरपि वक्तृश्रोत्रोस्तत्र प्रकरणे प्रकरणकरणश्रवणास्यो व्यापारौ स्तः, किमिति पुनस्तयोः करणश्रवणयोः प्रयोजनं चिन्त्यते? इत्याह- तथा हीत्यादि । तत आचार्येणेत्यादिना द्वयोर्व्यापारस्य प्रयोजनं दर्शयति । यस्मादनेन सम्यग्ज्ञानं व्युत्पादयते इत्यत्र वाक्ये व्युत्पत्तिक्रियानिष्पत्तौ करणश्रवणक्रियाद्वयकर्तव्यतया प्रविष्टम् । तच्च व्युत्पत्तिकरण शास्त्रकारस्यैव नान्यस्येति णिचा निदर्शितम् । यस्मात्सम्यग्ज्ञानं व्युत्पाद्यमानान् शिष्यान् प्रेरयति- व्युत्पादितं सम्यग्ज्ञानं व्युत्पद्यध्वमिति । आत्मानं व्युत्पादकं कर्तुमारब्धं प्रकरणम् । तस्माद्वक्तुरेव करणव्यापारस्य प्रयोजन व्युत्पादनम्, न भाजनादीनाम् । यद्यपि तैर्विना व्युत्पादनं न बवति, तथापि न तानि व्युत्पादकानिः तेषां शिष्यविषये प्रेरकत्वाभावात् । शिष्यैश्चेत्यादि । यस्माछिष्या आचार्यप्रयुक्तां व्युत्पत्तिमात्मनः सम्बन्धिनी कर्तुमिछन्ति यतस्ते प्रचिद्याः । तस्मात्तत्प्रकरणं तैः श्रूयते इति श्रवणस्य प्रयोजनं व्युत्पादनम् । एतच्चार्थद्वयंणिचा प्रतिपादितम् । अन्यथा असाधारणव्यापारो वक्तुर्व्युत्पत्तौ न दर्शितः स्यात्, शिष्याणां श्रवणव्यापारश्च । यस्मात्सर्व एव प्रयोजकपरतन्त्रो पान शय्यासनलक्षणः । इष्टानिष्टयोरो विपरीतः स उपेक्षणौयः । सरस्यैतस्य उरुषार्थस्य कारणं सम्यग्ज्ञानम् । तथाहि- प्रत्यक्षादिज्ञानेन विर्धार्य शूल विष कण्ठ कादिकं परिहरति पुष्पमाल्यादिकमादत्ते, तद्भिन्नानन्याश्चोपेक्षते ।

प्रेक्षावता हि सम्यग्ज्ञानव्युत्पादनाय प्रकरणमिदमारब्धवता अयमेविपायो नान्य इति दर्शित एवोपायोपेयभावः प्रकरणप्रयोजनयोः सम्बन्ध इति ।

ननु च प्रकरणश्रवणात्प्रागुक्तान्यपि अभिधेयादीनि प्रमाणाभावात्प्रेक्षावद्भिर्न गृह्यन्ते, तत्किमेतैरारम्भप्रदेश उक्तैः?

सत्यमश्रुते प्रकरणे कथितान्यपि न निश्चौयन्ते । उक्तेषु त्वप्रमाणकेष्वपि अभिधेयादिषु संशय उत्पद्यते, संशयाच्च प्रवर्तन्ते । अर्थसंशयोऽपि हि प्रवृत्यङ्ग प्रेक्षावताम् । अनर्थसंशयोऽपि निवृत्त्यङ्गम् । अतएव शास्त्रकारेणव सम्बन्धादीनि युज्यन्ते वक्तुम् ।

भवति, असतिणिचि शिय्या अप्रयोज्याः । ये चाप्रयोज्यास्ते स्वतन्त्राः । स्वतन्त्राणां चाचार्यप्रयुक्त व्युत्पत्तिमनिच्चतां श्रवणाभावात्कथं श्रवणव्यापारस्य प्रयोजनं चिन्त्यते?- इति स्यितम् । ननु च यथाभिधेयव्युत्पादनप्रयोजनयोरपोद्धारेण प्रतिपादकपदं कथं सम्बन्धस्यापि किमीत्न कथितम्? इत्याह- सम्बन्धप्रदर्शनपदं त्वित्यादि । अयमेव प्रकरणविशेषो लघूपायतया वक्ष्यमाणय नीत्योपायः व्युत्पादनम्= उपेयम् । उपायोपेयसम्बन्धश्च कार्यकारणसम्बन्ध एव, स च प्रतीयत इति न पदान्तरेण कथितः । तथा चोक्तम्-

"शास्त्रं प्रयोजनं चैव सम्बन्धस्याश्रयादुभौ ।
तदुक्त्यन्तर्गतस्तेन भिन्नो नोक्तः प्रयोजनात्" इति ।

एवमादिवाक्येनाभिधेयप्रयोजनादौ कथिते सति प्रामाणिकानां प्रबृत्तौ तदसङ्गत एम्वेति मन्यमानश्चोदयति- नन्वित्यादिना । एवं मन्यते- यो हि प्रामाणिकः, स प्रमाणे प्रवर्तते । न चादिवाक्ये प्रयोजनादिना कथितेन शास्त्रश्रवणात्प्राग्वर्तते शास्त्रम्, आदिवाक्यस्याप्रामाण्यात् । अप्रामाण्यं चार्थेन सहासम्बन्धाच्चब्दस्य । एतैरिति । अभिधेयादिभिः । आरम्भप्रदेशोक्तैरिति प्रकरणस्यै कदेशोक्तैः, आदावुक्तै रित्यर्थः ।

उक्तेष्वित्यादि । एवं मन्यते- यद्यप्यस्याप्रमाणं प्रयोजनप्रतिपादकमादिवचनम्, तथापि शास्त्रादौ प्रतिपादनीयमर्थसंशयजननार्थम् । यो हि समय्ग्ज्ञानार्थी स तथाभुतं शास्त्रकर्तु रादिवाक्यं श्रुत्वातत्र संशेते, संशयाच्च प्रवर्तत इति तात्पर्यम् । अत एवेति । यत एवादिवाक्ये नार्थसंशयः, संशयाच्च प्रवृतिः, अतएव शास्त्रकारेणैव सर्वपुरुषार्थसिद्धिरिति सर्वपुरुषार्थसाधकम् । सिद्धिशब्देनात्र साधकमुच्यते । तेन सर्वपुरुषार्थसिद्धौ निश्चितमेव सम्यग्ज्ञानं कारणं भवतीति प्रदर्शितम् । इतिशब्दः व्याख्यातणां हि वचन क्रीडाद्यर्थमन्यथापि सम्भाव्यते । शस्त्रकृतां तु प्रकरणप्रारम्भे न विपरीतभिधेयाद्यभिधाने प्रयोजनमुत्पश्यामः, नापि प्रवृत्तिम् । अतस्तेषु संशयो युक्तः । अनुक्तेषु तु प्रतिपत्तृभिर्निष्प्रयोजनमभिधेयं सम्भाव्येतास्य प्रकरणस्य, काकदन्तपरीक्षाया इव । अशक्यानुष्ठानं वा, ज्वरहरतक्षकचूडारत्नालङ्कारोपदेशवत् । अनभिमतं वा प्रयोजनम्ः मातृविवाहक्रमोपदेशवत्, अतो वा प्रकरणाल्लघुतर उपायः प्रयोजनस्य, अनुपाय एव वा प्रकरणं सम्भाव्येत ।

एतासु चानर्थसम्भावनासु एकस्यामप्यनर्थसम्भवनायां न प्रेक्षावन्तः प्रवर्तन्ते । अभिधेयादिषु तूक्तेष्वथसम्भावना अनर्थसम्भावनाविरुद्धा उत्पद्यते, तथा प्रेक्षावन्तः प्रवर्तन्ते । इति प्रेक्षावतां प्रवृत्त्यङ्गमर्थसम्भावनां कर्तु सम्बन्धादीन्यभिधीयन्त इति स्थितम् ।

युज्यते वक्तुम्, नाख्यानकर्त्रेति । तेन यदुक्तं केनचिद्-ऽव्याख्यानकारा एव प्रयोजनादीनि प्रतिपादयैसय्न्तिऽ इति, तत्प्रत्युक्तम् ।

उत्पश्याम इत्यादिनैतद्दर्शयति- यद्यपि प्रमाणं नास्ति, महता प्रबन्धेन शास्त्रकरणात्सम्भाव्यत इत्यर्थः । ननु च वाधकसाधकप्रमाणाभावात्सम्यग्ज्ञानव्युत्पत्त्यर्थी विनापि आविदचनेन संशयानस्तत्र प्रवर्तते- इति किमादिवाक्येन तत्रोक्तेन? इत्याह- अनुक्तेष्वित्यादि । एवं मन्यते- यो ह्यमूढः, तं प्रति न कर्तव्यमेव । यो हि काकदन्तपरीक्षादिशास्त्रं दृष्ट्वा प्रयोजनादिरहितम्, अत्राप्यप्रयोजना दीन् सम्भावयन्ननर्थ संशेते, अनर्थसंशयाच्च प्रवर्त्तते, तं प्रत्येतत्कथनस्य प्रयोजनम् । कथिते च वचने शास्त्रकारेण तदनुरोधाद्वचनादर्थसंशयो जायते, ततः प्रवर्तत इत्यर्थः ।

अनर्थसंशयो यैः कारणैर्भवति तन्निदर्शयति- निष्प्रयोजननित्यादिना । अतो वा प्रकरणादन्यस्य प्रकरणस्य लघुतरोपायतां सम्भाव्यास्य प्रकरणस्यसारतया अनुपायता स्यादित्यर्थः ।

एवं समुदायेन वाक्यस्य तात्पर्य व्याख्यायावयवार्थ दर्शयितुमाह- अविसंवादकमित्यादि ।ऽअविसंवादकं ज्ञानं सम्यग्ज्ञानंऽ इति ब्रुवता टीकाकृता अर्थावबोधकं ज्ञानं मीमांसकपरिकल्पितम्, अर्थदर्शनं च चार्वाकोपकल्पितम्, अथापि विपरीतं ज्ञानं कैश्चित्परिकल्पितं सम्यक्त्वेन, तन्निरस्तं सर्वम्, एतेषां सम्यग्ज्ञानलक्षणाभावात् । यथा न च तानि सम्यग्ज्ञानानि, तथा स्वयं टीकायामपहस्तितानि ।

तस्मादित्यर्थे । यत्तदो नित्यसंबन्धौ । तेन यस्मात्सर्वपुरुषार्थसिद्धौ सम्यग्ज्ञानं पूर्वभावि, तस्मादेव तद्व्युत्पाद्यत इत्युक्त भवति ।

अविसंवादकं ज्ञानं सम्यग्ज्ञानम् ।

लोके च पूर्वमुपदर्शितमर्थ प्रापयत्संवादकमुच्यते । प्रदर्शिते चार्थे प्रवर्तकत्वमेव प्रापकम्, नान्यत् । तथा हि- न ज्ञानं जनयदर्थ प्रापयति, अपि त्वर्थे पुरुषं प्रवर्तयत्प्रापयत्यर्थम् । प्रवर्तकत्वमपि प्रवृत्तिविषयप्रदर्शकत्वमेव । न हि पुरुषं हठात्प्रवर्तयितुं शक्नोति विज्ञानम् ।

अत एव चार्थाधिगतिरेव प्रमाणफलम् । अधिगते चार्थे प्रवर्तितः पुरुषः, प्रापितश्चर्थः । तथा च सति अर्थाधिगमात्समाप्तः प्रमाणव्यापारः । अत एव च अनधिगतविषयं प्रमाणम् । येनैव हि ज्ञानेन प्रथममधिगतोऽर्थः, तेनैव प्रवर्तित प्रुरुषः, प्रापितश्चार्थः । तत्रेव च अर्थे किमन्येन ज्ञानेनाधिकं कार्यम् । अतोऽधिगतविषयमप्रमाणम् ।

तत्र योऽर्थो दृष्टत्वेन ज्ञात्तः स प्रत्यक्षेण प्रवृत्तिविषयीकृतः । यस्माद्यस्मिन्नर्थे प्रत्यक्षस्य साक्षात्कारित्वव्यापारो विकल्पेनानुगम्यते, तस्य एकस्मिन्नेवार्थे त्रयाणां ज्ञानातां प्रदर्शक प्रवर्तक प्रापकभेदेन प्रामाण्यमिष्टं परेण, तन्निराकर्तु माह, प्रदर्शिते चार्थ इत्यादि । प्रदर्शिते चार्थे प्रथमेन दर्शकेन ज्ञानेन यद्द्वितीयं ज्ञानं तत्रैवार्थे पुरुषस्य प्रवर्त्तकम्, तृतीयमपि तत्रैवर्थे प्रापकम्, ततो नाद्यादधिकं प्रापणयोग्यीकरणेनेति तदेव प्रमाणम् । अमुमेवार्थ समर्थयति तथा ही त्यादिना । न जनयन्नोत्पादयदर्थम्ः स्वहेतोरेवार्थस्योत्पन्नत्वात् । अनेन प्रवर्तकात्प्रापकस्याभेदो दर्शितः । प्रवर्तकस्यापि प्रदर्शकादभेदं दर्शयितुमाह-३ प्रवृत्तीत्यादि । यत्प्रदर्शकमादावुत्पन्नमर्थे ज्ञानं तदेव प्रवृत्तिविषयं करोति, प्रवृत्तिविषययोग्यी करोतीत्यर्थः, न तु द्वितीयं ज्ञानम्, आदयेनैव प्रवृत्तिविषययोग्यीकृतत्वात् । अपिशब्दः पूर्वपेक्षः ।

अत एवेत्यादिना आचार्यग्रन्थे स्वमतं संवादयति । कुतोऽयं लभ्यते यदा प्रथमं दर्शयत्येव, न प्रवर्तयति न प्रापयति, द्वितीयमपि प्रवर्त्तयत्येव, न प्रापयति । एवं सत्यन्यत्प्रदर्शकप्रमाणम्ः अन्यत्प्रवर्तनादिकफलम्? न चैवम्, तस्माद्युक्तमुक्तम् ।

ननु च यद्यप्यर्थाधिगतिरेव प्रमाणफलं तथापि यावदुत्तरे प्रवर्तक-प्रापकज्ञने न भवतः, तत्रार्थे तावन्न प्रमाणव्यापारपरिसमाप्तिरित्याह- अधिगत इत्यादि । एवं मन्यते- अधिगते चार्थे समाप्तः प्रमाणव्यापार इति तयोः प्रामाण्ये कर्त्तव्येऽनुपयोगित्वम्, अतोऽप्रमाणे ते ।

कथं समाप्तः प्रमाणव्यापारः को वासौ? इत्याह- अत एवेति । स्वव्यापारः स्वविषयनिश्चयजनकर्त्व नाम । स च निश्चयः प्रथमया चार्थाधिगत्या कृत इति समाप्तो तद्वयुत्पाद्यत इति । अत्र तदिति सम्यग्ज्ञानं योजनीयं नपुसंकलिङ्गेन स्वरुपनिर्देशात् । नतु अव्यवहिता सर्वपुरुषार्थसिद्धिः, अप्राधान्यात् ॥ १ ॥

प्रदर्शकं प्रत्यक्षं तस्माद्दृष्टतया ज्ञातः प्रत्यक्षदर्शितः । अनुमानं तु लिङ्गदर्शनान्निश्चिन्वत्प्रवृत्तिदिषयं दर्शयति ।

तथा च प्रत्यक्षं पर्तिभासमानं नियतमर्थदर्शयति । अनुमानं च लिङ्गसम्बद्धं नियतमर्थ दर्शयति । अत एते नियतस्यार्थस्य प्रदर्शके । तेन ते प्रमाए, नान्यद्विज्ञानम् ।

प्राप्तुं शक्यमर्थमादर्शयत्प्रापकम् । प्रापकत्वाच्च प्रमाणम् ।

आभ्यां प्रमाणाभ्यामन्येन च ज्ञानेन दर्शितोऽर्थः कश्चिदत्यन्त विपर्त्यस्तः, यथा- मरीचिकासु जलम्ः स चासत्वात्प्राप्तुमशक्यः । कश्चिदनियतो भावाभावयोः, यथा- संशयार्थः । न च भावाभावाभ्यां युक्तोऽर्थो जगत्यस्तिः ततः प्राप्तुमशक्यस्तादृशः ।

व्यापारः तवतैव पुरुषस्य प्रवृत्तेः । अतो द्वितीयादीनामत्रैवार्थेऽधिको व्यापारो नास्तीति । अधिगतगन्तृत्वादप्रामाण्यमित्यर्थः । प्रवर्तितः पुरुष इति । प्रवर्तनयोग्यत्वात्प्रवर्तित इत्युच्यते । प्रापणयोग्यत्वात्प्रापितः । एवं सामान्येन संवादकं सम्यग्ज्ञानं प्रतिपाद्य विशेषेण च प्रत्यक्षानुमाने स्वव्यापारं कुर्वती सम्यग्ज्ञाने भवत इति दर्शयन्नाह- तत्र योऽर्थ इत्यादिना । तत्र तयोर्मध्ये प्रत्यक्षस्य व्यापारं दर्शयति । दृष्टत्वेन ज्ञातो दृष्टत्वेन निश्चितः । विकल्पेनानुगम्यत इति । तत्पृष्ठभाविना विकल्पे नावसीयते । एतदुक्तं भवति- प्रतिभासमानार्थव्यवसायं कुर्वत्प्रत्यक्षं प्रमाणं सम्वादकनित्यर्थः । अनुमानं त्वित्यादिना अनुमानस्य प्रवृत्तिविषयं दर्शयति । लिङ्गदर्शनम्=लिङ्गज्ञानम् । तच्च वह्नयव्यभिवारिधूमनिश्चयनं सामान्येन साध्याबिनाभावि च स्मरणज्ञानम् । यथा धूमंप्रत्यक्षेण गृहीत्वा सर्वत्र अयं वह्निजः इति स्मरणम् । तस्माल्लिङ्गज्ञानान्निश्चिन्वत्प्रवृत्तिविषयं दर्शयति । तदनुमानं विशिष्टसम्बन्धेन यदुदेति ज्ञानम्, यथा अत्रत्यो धूमो वह्निजः इति जानम् । एतदुक्तं भवति- प्रत्यक्षस्यस्वविषयनिश्चयजननव्यापारोऽभिन्नः, अनुमानस्य तुलिङ्गदर्शनात्स्वविषये निश्चयात्मनोत्पत्तिरेव निश्चयव्यापार इति ।

तथा चे यादिना अनयोर्दशितं व्यापारं स्पष्टयति । अत एते प्रमाणे नान्यद्विज्ञानमित्येवं ब्रुवता एते एव सम्यग्ज्ञाने नान्यानि शब्दादीनि । तेषां नियतार्थानुपदर्शकत्वा दिति सम्यग्ज्ञानस्य प्रवृत्तिर्दशिता । यथैते प्रमाणे, सशयादिज्ञानं न तथा प्रमाणम् ।

प्राप्तु शक्यम्त्यादिना दर्शयति । एतदुक्तं भवति- यथा प्रत्यक्षानुमाने स्वेनस्वेन प्रमाणेनोपदर्शितार्थस्य प्रापके, न तथा संशयविपर्ययज्ञानेः तथभूतस्यार्थस्या भावादिति । सर्वेण चालिङ्गजेन विकल्पेन विन्यामकमदृष्ट्वा प्रवृत्तेन भवाभावयो रनियत एवार्थो दर्शयितव्यः । स च प्राप्तुमशक्यः ।

तस्मादशक्यप्रापणम्- अत्यन्तविपरीतम्, भावाभावानियतं चार्थ दर्श यतप्रमाणमन्यद्विज्ञानम् ।

अर्थक्रियार्थिभिश्च अर्थक्रियासमर्थवस्तुप्राप्तिनिमित्तं ज्ञानं मृग्यते । यच्च तैर्मृग्यते तदेव शास्त्रे विचार्यते । ततोऽर्थक्रियावस्तुप्रदर्शकं सम्यग्ज्ञानम् ।

यच्च तेन प्रदर्शितं यदेव प्रापणीयम् । अर्थाधिगमात्मकं हि प्रापकम्- इत्युक्तम् । तत्र प्रदर्शितादन्यद्वस्तु भिन्नाकारम्, भिन्नकालम्, भिन्नदेशं च । विरुद्धधर्मसंसर्गाद्धि अन्यद्वस्तु । देशकालाकारभेदस्च विरुद्धधर्मसंसर्गः ।

यस्मादन्याकारवद्वस्तुग्राहि नाकारान्तरवति वस्तुनि प्रमाणं यथा प्रीतशङ्खग्राहि शुक्ले शङ्ख । देशान्तरस्थग्राहि च न देशान्तरस्थे प्रमाणं यथा- कुञ्चिकाविवरदिशस्थायां मणिप्रभायां मणिग्राहि ज्ञानं नापवरकस्ये मणौ । कालान्तरय्युक्तग्राहि च न कालान्तरवर्ति वस्तुनि प्रमाणं यथा अर्धरात्रे मध्याह्नकालवस्तुग्राहि स्वप्नज्ञानमर्धरात्रकाले वस्तुनि प्रमाणम् ।

ननु च मा भूत्संशर्यावपर्यज्ञनयोः प्रामाण्यम्, तथाभूतस्यार्थस्यासत्त्वादितिः यत्पुनः इह कूपे जलमिति ज्ञानं तत्प्रमाणान्तरं किमिति न भवति? न तावत्प्रत्यक्षम्, तत्र जलस्य परोक्षत्वात्नाप्यनुमानम्, लिङ्गाभावात्नापि संशयरूपम्, उभयांशाभावात्नापि विपरीतम्, विपरीतार्थाभावात्? इत्याशङ्कयाह- सर्वेण चालिङ्गजेनेत्यादि ।

एवं मन्यते- यदयपि साक्षात्संशयज्ञानं न प्रतीयते, यस्तु संशयविकल्पकस्य ज्ञानस्य इह कूपे जलमित्येवञ्जातीयस्यः तथापि नियामकं लिङ्गमन्तरेण तदप्रमाणम्, नियतार्थापरिच्चेदात् । ततश्चायमर्थः- स्यात्कदाचित्कूपे जलमिति तच्चैवं स्वरूपम्, तत्संशयज्ञानमेवेत्यप्रमाणम् । यत्पुनस्तत्र प्रवृत्तेन कदाचिज्जलं लभयते तज्ज्ञानान्तरादिति विनिश्चयटीकायां प्रतिपादितम् ।

ननु च यदयपि संशयादीनामुपदर्शितस्यार्थस्य प्रापकत्वं नास्ति, किं तानि न व्युत्पादयन्ते? इत्याह- अर्थक्रियार्थिभिश्चेत्यादि । पुरुषार्थसिद्धावनुपयोगगादित्यभिप्रायः ।

ननु च यदप्युपदर्शितार्थप्रापणात्प्रमाणं सम्यग्ज्ञानम्, शुक्लशङ्खे पीतज्ञानम्, कुञ्चिकाविवरे मणिप्रभायां मणिज्ञानम्, अर्धरत्रे मध्याह्नकालवस्तुग्राहि स्वप्नज्ञानं

ननु च देशनियतम्, आकारनियतं च प्रापयितु शक्यं यत्कालं तु परिच्चिन्नं तत्कालं न शक्यं प्रापयितुम्? नोच्यते- यस्मिन्नेव काले परिच्चिदयते तस्मिन्नेव काले प्रापयितव्यमिति, अयो हि दर्शनकालः, अन्यश्च प्राप्तिकालः, किन्तु यत्कालं परिच्चिन्नं तदेव तेन प्रापणीयम् । अभेदाध्यवसयाच्च सन्तानगतमेकत्वं द्रष्टव्यमिति ।

समयग्ज्ञानं पूर्व कारणं यस्याःसा यथोक्ता । कार्यात्पूर्व भवत्कारणं पूर्वमुक्तम् । कारणशब्दोपादाने तु प्रुषार्थसिद्धः साक्षात्कारणं गम्येत । पूर्वशब्दे पूर्वमात्रम् ।

द्विविधं च सम्यग्ज्ञानम्, अर्थक्रियानिर्भासम्, अर्थक्रियाअस्मर्थे च प्रवर्तकम् । तयोर्मध्ये यत्प्रवर्तकं तदिह परिक्षयते । तच्च पूर्वमात्रम्, न तु साक्षात्कारणम् । सम्यग्ज्ञाने हि सति पूर्वदृष्टस्मरणम्, स्मरणादभिलाषः अभिलाषात्प्रवृत्तिः, प्रवत्तेश्च प्राप्तिः । ततो न साक्षाधेतुः ।

च प्रमाणं प्राप्नोतीत्येभिरुपदशितस्यार्थमात्रस्य प्राप्तेः, ततश्च सम्यग्ज्ञानमित्याशङ्कयाह- अर्थाधिगमात्मकं हीत्यादि । एवं मन्यते- एभिरुपदर्शितस्यार्थस्य पीताकारस्य कुञ्जिकाविवरस्थस्य मणैर्नियतदेशस्य, नियतकालस्य चर्धरात्रेऽप्रापणात्, देशकालव्यतिरिक्तस्यावयवादेरभावात् । अत एव तान्यप्रमाणान्येव, न सम्यग्ज्ञानानीति । यदयप्येतान्यभ्रान्तग्रहणस्य व्यावर्त्त्यानि तत्रैवाभ्रान्तग्रहणप्रस्तावे दर्शयितव्यानि, तथापीह सम्यज्ञानव्यावर्त्यप्रस्तावात्कथितानीत्यदोषः ।

ननु चेत्यादि । एवं मन्यते चोदकः- देशाक्राभ्यां नियतस्य प्राप्तुं शक्यत्वाद भवत्वन्याकारस्यान्यदेशस्य च प्राप्तावप्रमाणम्, न त्वन्यकालस्य, नियत कालस्य चाप्राप्तेः क्षणिकत्वाद भगवानाम् । ततश्च यथा सत्यनीले नीलज्ञानस्यान्यो ग्राह्यकालोऽन्यश्च प्राप्यकालः, अथ च कालभेदेऽपि प्रामाण्यम्, तथा स्वपनज्ञानस्यार्थरात्रोपदर्शितं मध्याह्नकालपुत्रप्रापणस्य प्रामाण्यं भविष्यतीति ।

नोच्यते इत्यादिना सिद्धान्तवादी त्वेवं मन्यते- सत्यं क्षणभेदेन वस्तुनो भेदोऽस्त्येवः किन्तु क्षणापेक्षया न प्रामान्यलक्षणमुच्यते, अपि तु सन्तानापेक्षया । ततश्च नीलादो य एव सन्तानः परिच्चिन्नो नीलज्ञानेन, स एव तेन प्रापितः । तेन प्रमाणं नीलज्ञानम् । न तथा स्थूलकालभेदेन प्रदर्शितस्य पुत्रस्य स्वप्त्नज्ञानम् । न प्राप्तिकालभेदेनः, सन्तानैकाध्यवसायायोगात् । सन्तानगतमेकत्वं द्रष्टव्यमित्यनेन निश्चयप्रवृत्त्योर्हेतुहेतुमद्भावं दर्शयति । स च हेतुहेतुसद्भावः कथं भवति, यदि सन्तानापेक्षया प्रामाण्यमवतिष्ठते, न अल्क्षणापेक्षयेति

सम्यग्ज्ञानं पूर्वं कारणं यस्या इति । कथं पूर्वशब्दः कारणे वर्तते? इत्याह- कार्यादित्यादि । कारणशब्द एव कस्मान्नकृतः? इत्याह- कारणशब्द इत्यादि । किम अर्थक्रियानिर्भासं तु यद्यपि साक्षात्प्राप्तिः तथापि तन्न परीक्ष्यम् । यत्रैव हि प्रेक्षावन्तोऽर्थिनः साशङ्काः, यत्परीक्ष्यते । अर्थक्रियानिर्भासे च ज्ञाते सति सिद्धः पुरुषार्थः, तेन तत्र न साशङ्का अर्थिनः । अतस्तन्न परीक्षणीयम् । तस्मात्परीक्षार्हमसाक्षात्कारणं सम्यग्ज्ञानमादर्शयितुं कारणशब्दं परित्यज्य पूर्वग्रहणं कृतम् ।

पुरुषस्यार्थः पुरुषार्थः । अर्थ्यते इति अर्थः, काम्यते इति यावत् । हेयोऽर्थः, उपादेयो वा । हेयो ह्यर्थो हातुमिष्यते, उपादेयोऽपि उपादातुम् । न च हेयोपादेयाभ्यामन्यो राशिरस्ति । उपेक्षणीयो ह्यनुपादेयत्वाधेय नन्तकारणं ज्ञानं भवति, यदपेक्षया व्यवहितस्य ग्रहणार्थ पूर्वशब्दग्रहण कृतम्? इत्याह- द्विविधानित्यादि ।

ननु किमुच्यते अर्थक्रियानिर्भासं ज्ञानमनन्तरं कारणम्, नहि तत्कारणज्ञानम्, एवंं तुयुज्यते वक्तुम्- यत्साधननिर्भास्यनन्तरं ज्ञानमर्थक्रियानिर्भासज्ञानमुपजनयति, तत्साधनज्ञानमनन्तरकारणमित्युच्यते, तदेवात्राभिप्रेतमर्थक्रियानिर्भासशब्देन । कथम्? अर्थक्रियाया निर्भासः= प्रतिबिम्बनम्, तदाकारज्ञानोत्पत्तिर्यस्मादनन्तरज्ञानात्तत्साधनज्ञानम्, तदर्थक्रियानिर्भासं साधनज्ञानम् । एवमत्रापि समासः कर्तव्यः । अथवा- अर्थक्रियाज्ञानमेवानन्तरकारणम्, तत्प्रापितहेयोपादयानुष्ठाअन् व्यव्हारापेक्षया प्रवर्तकमिति व्यवहितं साधननिर्भासज्ञानम् ।

यद्येवम, अनन्तरमेव किमिति न परीक्षयते? इत्याह- अय्त्रैव हीत्यादि । यत्रैव ज्ञानेऽर्थक्रियासमर्थवस्तुप्रवर्तक पुरुषस्य सन्देहः, तदेव परीक्ष्यते । न चानन्तरसाधनज्ञाने सन्देहः तदनन्तरं सुखःदुखप्रतिभासज्ञानोदयात् । तयोरनुभवे सति साधनज्ञानात्प्रवतितुं वा युज्यत इति न प्रैक्षार्हम् । यद्वा- अर्थक्रियानिर्भासस्यानया युक्त्या न परीक्षार्हत्वमिति ।

अर्थ्यत इत्यादि । अर्थ याच्ञायामित्यस्य कर्मणि घञ् । अर्यते इत्यपि द्रष्टव्यम् । उपलक्षणत्वादस्यार्तेरौणादिकः स्थन्प्रत्ययः ।

हेयोऽर्थ इत्यादिना विनीतदेवस्य व्याख्या दूषिता । तेन ह्य वं व्याकयातमर्थशब्देन प्रयोजनमुच्यते,पुरुषस्य प्रयोजनं दारुपाकादि, तस्य सिद्धिर्निष्पत्तिः इति । तच्चायुक्तं यस्मादर्थस्य दारुपाकादेर्न सम्यग्ज्ञानान्निष्पत्तिः, किं तर्हि? स्वहेतोरेव वह्नयादेः धर्मोत्तरव्याख्याने तु हेयोपादेयार्थविषया या सिद्धिः= अनुष्ठितिः, सा सम्यग्ज्ञानपूर्विकेति न दोषः । अमुमेवार्थ दर्शयिष्यति हेयस्य च हानमनुष्थानमिति ।

ननु च हेयोपादेयाग्भ्यामन्योऽप्युपेक्षणीऽस्ति, तस्य किमिति न कथनम्? एव । तस्यसिद्धिः- हानम्, उपादानं च । हेतुनिबन्धना हि सिद्धिउत्पत्तिरुच्यते । ज्ञाननिबन्धना तु सिद्धिरनुष्थानम् । हेयस्य च हानमनुष्ठानम्, उपादेयस्य चोपादानम् । ततो हेयोपादेययोर्हानोपादानलक्षणानुष्ठितिः सिद्धिरुच्यते ।

सर्वा चासौ पुरुषार्थसिद्धिश्चेति । सर्वशब्द इह द्रव्यकार्त्स्न्ये वृत्तः, न तु प्रकारकात्स्न्र्ये । ततो नायमर्थः- द्विप्रकारापि सिद्धिः सम्यग्ज्ञाननिबन्धनैवेति । अपि त्वयमर्थः- या काचित्सिद्धिः सा सर्वा कृत्स्नैवासौ सम्यग्ज्ञाननिबन्धनेति । मिथ्याज्ञानाद्धि काकतालीयापि नार्स्त्यर्थसिद्धिः । तथा हि यदि प्रदर्शितमर्थ प्रापयति, एवं ततो भवत्यर्थसिद्धिः । प्रदर्शितं च प्रापयत्सम्यग्ज्ञानमेव । प्रदर्शितं चाप्रापयत्मिएथ्यज्ञानमप्रापकं च कथमर्थसिद्धिनिबन्धनं स्यात्तस्माद्यन्मिथ्याज्ञानं न ततोऽर्थसिद्धिः । यतस्च्चार्थसिद्धिस्तत्सम्यग्ज्ञानमेव । अत एव सम्यग्ज्ञानं यत्नतो व्युत्पादनीयं यतस्तदेव पुरुषार्थसिद्धिनिबन्धनम् ।

ततो यावदू ब्रूयात-या काचित्पुरुषार्थसिद्धिः सा सम्यग्ज्ञाननिबन्धनैवेति, तावदुक्तम्- सर्वा सा सम्यग्ज्ञानपूर्विकेति । इतिशब्दः तस्मादित्यस्मिन्नर्थ यत्तदोश्च नित्यमभिसम्बन्धः । तदयमर्थः- यस्मात्सम्यगित्याह- न च हेयेत्यादि । एवं मन्यते- सत्यमस्ति, किन्तु तस्यानुपादेयत्वाधेयत्वमेवेति न पृथक्कथनम् । तेन यदुक्तं कैश्चित्- हेयोपादेययोः पुरुषार्थोपयोगित्वात्कथनम्, उपेक्षणीयस्य तद्विपर्यमान्न कथनमिति, तत्प्रत्युक्तम् । अम्य्मेवार्थ व्याचष्टे उत्तरेण ग्रन्थेन ।

सर्वशब्द इत्यादिना टीकाकृतां व्याख्यां दूषयति । विनीतदेव शान्तभद्राभ्यामेवमाशङ्कय व्याख्यातम् । कथमाशङ्कितम्? नतु सर्वा हानोपादानार्थसिद्धिः सम्यग्, ज्ञानादेव, अपि तु मिथ्याज्ञानादपिव्काकतालीयेत्याशङ्कय परिहुतम् । सत्यमस्ति किन्त्वेवं व्याख्यायते- सर्वशब्धोऽयं प्रकारवाची । तेनायमर्थः- सर्वपुरुषार्थसिद्धिः द्विप्रकारा हानोपादानार्थसिद्धिलक्षणा, लौकिकलोकोत्तरार्थसिद्धिलक्षणा सम्यग्ज्ञाननिबन्धना बाहुल्येनेति । तद्दूषितं यस्मात्सर्वशब्दोऽत्र द्रष्टव्यः, कात्स्न्र्ये वरत्ते, सर्व ब्रह्मणा सृष्टमिति, तेनायमर्थः- यवत्ती कृत्स्नार्थसिद्धिर्हानोपादानलक्षणा, सर्वा सम्यग्ज्ञानादेव, न मिथ्याज्ञानादप्रार्थप्त्यसिद्धेरिति ।

अमुमेवार्थमनन्तरेण ग्रन्थेन दर्शयति । द्विप्रकारापीत्यादिना परव्याख्यां दर्शयति । अपि त्वयमर्थ इत्यादिनात्मीयां व्याख्याम् ।

ततो यावद्ब्रूयादित्यादिनोपसंहारव्याजेनेवशब्देन प्रयुक्तेनावधारणार्थवाचिना यावानर्थस्तावानेव सर्वशब्देन प्रयुक्तेन कृत्स्नार्थवाचिना भवतीति दर्शयति ।

२ द्विविधं सम्यग्ज्ञानम् ॥

तच्च सम्यग्ज्ञानं विप्रतिपत्तिचतुष्टयनिराकरणेन यथार्थतो ज्ञायते । विप्रतिपत्तिचतुष्टयं तु- १ संख्याविप्रतिपत्तिः, २ स्वरूपविप्रतिपत्तिः, ३ विषयविप्रतिपत्तिः, ४ फलविप्रतिपत्तिश्चेति ।

तत्र संख्याविप्रतिपत्तिः- केषाञ्चिदेकमिति, यथा बार्हस्पत्यानाम् । केषाञ्चित्त्रीणोति, यथा साङ्खयानाम् । नैयायिकानां चत्वारि । मीमांसकानां च षडिति ।

ज्ञानपूर्विका सर्वपुरुषार्थसिद्धिः तस्मात्तत्सम्यग्ज्ञानं व्युपादयते ।

यदयपि च समासे गुणीभूतं सम्यग्ज्ञानम्, तथापीह प्रकरणे व्युत्पादयितव्यत्वात्प्रधानम्, ततस्तस्यैव तच्चब्देन सम्बन्धः ।

व्युत्पादयते इति । विप्रतिपत्तिनिराकरणेन प्रतिपादयते ॥ १ ॥

चतुर्विधा चात्र विप्रतिपत्तिः संख्या लक्षण गोचर फलविषया । तत्र संख्याविप्रतिपत्ति निराकर्तुमाह- द्विविधमिति । द्वौ विधौ= प्रकारावस्येति द्विविधम् । संख्याप्रदर्शनद्वारेण च व्यक्तिभेदो दर्शितो भवति ।

नन् बहुब्रीहिणा पुरुषार्थसिद्धिरुच्यते, तस्याः प्राधान्यात्तच्चब्देन सम्बन्धो युक्तो न सम्यग्ज्ञनस्य? इत्याह- यदयपीत्यादि । एवं मन्यते- शब्दार्थी हि द्विविधः शाब्दः, प्रतिपादयश्च । शब्दापेक्षया चोदयं प्रतिपादयापेक्षया परिहृतम्, स्म्यग्ज्ञानस्यैव व्युत्पादयतया प्रस्तुतत्वादितरस्याः सिद्धस्तद्विपर्ययादिति । ननु च किमिदं ज्ञानस्य व्युत्पादनम्? कि ज्ञानस्योत्पादनम्, उतदोषापनयनम्, अथ स्वरूपकथनमिति? न तावदुत्पाद्नमनेन प्रकरणेन क्रियते, स्वहेतोरेवोत्पत्तेः । नापि दोषापनयनम्, न हयनेन प्रकरणेन दोषोऽपनेतु शक्यते, अकारकत्वादस्य । नापि ज्ञापयितुम्, अविदयमानत्वाद दोषास्य । नापि स्वरूपकथनं युज्यते, निष्प्रयोजनत्वात्प्रकरणस्य? इत्याशङ्कयाह- व्युत्पादयत इति विप्रतिपत्तिनिराकरणेनेति ।

एवं मन्यते- विप्रतिपत्तिनिराकरणद्वारेण सम्यग्ज्ञानस्वरूपं ज्ञाप्यतेऽनेन प्रकरणेनेति ॥ १ ॥

वक्ष्यमाणलक्षणयुक्तं सम्यग्ज्ञानं नान्यलक्षणयुक्तमिति स्वरूपकथनम् । तामेव विप्रतिपत्ति क्रमेण दर्शयति- चतुर्विधेति । चतुःप्रकारा संख्यालक्षणेत्यदिना । तत्रेत्यादिना संख्याप्रतिपत्त्तिनिराकरणं दर्शयति । अनेकप्रकारा पुनः सम्यग्ज्ञानस्य विप्रतिपत्तिः ।

तथाहि- मीमासकाः प्रत्यक्षानुमानशब्दोपमानार्थापत्त्यभावलक्षणं पदव्याख्यायुक्तं सम्यग्ज्ञानं मन्यन्ते । नैयायिकाश्चतुःसंख्यायुक्तं प्रत्यक्षानुमानशब्दोपमानलक्षणं मन्यन्ते । चार्वाकास्तु केचित्प्रत्यक्षमेवैकमिति । तन्निरासेन दर्शयति- द्विविधमिति ।

स्वरूपविप्रतिपत्तिर्यथा- केषाञ्चित्प्रत्यक्षं सविकल्पकम् । केषाञ्चित्निर्विकल्पकमीति ।

विषायविप्रतिपत्तिर्यथा- केचिदाहुः- प्रत्यक्षस्य विषयः स्वलक्षणमेव, अनुमानस्य विषयः सामान्यलक्षणमेवेति । अन्यैस्तु अन्ये उक्ताः ।

फलविप्रतिपत्तिर्यथा- केचित्प्रमाणपहल्योभेदभ्युपगच्चन्ति, केचित्पुनरभेदमभ्युपगच्चन्तीति । तस्मात्तादृशविप्रतिपत्तिचतुष्ठयनिराकरणेन स्र्वथा अभान्ततया सम्यग्ज्ञनस्वरूपं प्रतिपादितं भवति ।

तत्र च प्रथममेव सङ्खयाविप्रतिपत्तिनिराकरणार्थमुक्तम्- द्विविधं सम्यग्ज्ञानमिति । द्वे विधे अस्य इति द्विविधम् । सङ्खयाशब्दकथनं तु द्विविधमेवेति स्पष्टप्रतिपाद्नार्थम् । तेन त्रिविधत्वैकविधतादीनं निरासः । सङ्खयाया द्वैविध्यमात्रं प्रतिपादितम् ॥ २ ॥ ।

द्वे एव सम्यग्ज्ञानव्यक्ती इति । व्यक्तिभेदे च प्रदर्शिते प्रतिव्यक्तिनियतं सम्यग्ज्ञानलक्षणमाख्यातुं शक्यम् । अप्रदर्शिते तु व्यक्तिभेदे सकलव्यक्त्यनुयायि सम्यग्ज्ञानलक्षणमेकं न शक्यं वक्तुम् । ततो लक्षणकथनाङ्गमेव संख्याभेदकथनम् । अप्रदर्शिते तु व्यक्तिभेदात्मके संख्याहेदे लक्षणभेदस्य दर्शयितुमशक्यत्वात् । लक्षणनिर्देशाङ्गत्वादेव च प्रथमं संख्याभेदकथनम् ॥ २ ॥

किं पुनस्तद्द्वैविध्यम्? इत्याह- प्रत्यक्षमिति । प्रतिगतमाश्चितमक्षम् । " अत्याद्यः क्रान्ताद्यर्थे द्वितीयया" इति समासः । प्राप्तापन्नालङ्गतिसमासेषु परवल्लिङ्गप्रतिषेधातभिधेयवल्लिङ्गे सति सर्वलिङ्गः प्रत्यक्षशब्दः सिद्धः ।

ननु च सम्यग्ज्ञानस्य लक्षणे कथिते सति पश्चात्तद्भेदः प्रदर्शयितु युज्यते- इत्यम्भुतलक्षणं सम्यग्ज्ञानं द्विविधमिति, तत्किमित्यादावेव प्रदर्शितम्? इत्याह व्यक्तिभेदे चेत्यादि । एवं मन्यते- सत्यमेवमेव, किन्त्वत्र संख्याभेदेऽकथिते सम्यग्ज्ञानस्य लक्षणमेव न शक्यते कथयितुम्, अतः प्रत्यक्षस्यान्यल्लक्षणं प्रतिनियतं शक्यते कथयितुमित्यतो लक्षणाङ्गमेवादौ संख्याभेदकथनमिति । ननु च प्रत्यक्षमनुमानं च इति निर्देशाद्द्विविधमिति लब्धम्, किमर्थ द्विविधग्रहणम्? उच्यते द्विविधमेव सम्यग्ज्ञानमित्यवधारणार्थम्, तेनैकत्रिचतुरा संख्या निरस्ता स्यात् ।

असति द्वित्वकथने प्रत्यक्षानुमाने तावत्सम्भवतिऽन्यान्यपि प्रमाणानि भविष्यन्तीति स्यादाशङ्का ॥ २ ॥

प्रतिगतमक्षमित्यादिना गतिसमासं दर्शयति । अक्षमक्षं प्रति प्रत्यक्षमित्यव्ययीभावसमासः, कस्मान्न प्रदर्श्यतेऽयं समासः? यतोऽव्ययोभावश्चेन्नपुसकलिंगता स्यात्

३ प्रत्यक्षम, अनुमानं चेति ॥

कोदृशं च द्वैविव्यम्? कथं न वा चतुर्विधं ज्ञानमिति? अतः विशेषेणोक्तं प्रत्यक्षमनुमानं चेति ।
अक्षेषु आश्रितं प्रत्यक्षम् । निपातोऽयं ज्ञानविषयस्य प्रत्यक्षकारकत्वं सूचयित । यथा- गमनेन गौरिति । तत्र गमनं गोत्वस्योपलक्षणम्, तस्माद्गोत्वाश्चयपिण्डो गोशब्दाभिवेय इत्युपार्श्यते । तथात्रापि इन्द्रियाश्रितत्वेन ज्ञानविषयस्य प्रत्यक्षकारकत्वसूचनात्प्रत्यक्षचतुष्ठयमेव प्रत्यक्षत्वेनाश्रीयते ।

मोयतेऽनेनेति मानम् । परिच्चेदकमिति शेषः । अनुशब्दमानन्तर्यबोधकः । अप्श्चान्मानमनुमानम् । पक्षधर्मग्रनप्रतिबन्धस्मरणपूर्वकं प्रवर्तमानमिति शेषः ।

अक्षाश्रितत्वं च व्युत्पत्तिनिमित्तं शब्दस्य, न तु प्रवृत्तिनिमित्तम् । अनेन त्वक्षाश्रितत्वेनैकार्थसमवेतमर्थसाक्षात्कारित्वं लक्ष्यते । तदेव शब्दस्य प्रवृत्तिनिमित्तं ततश्चयत्किञ्चिदर्शस्य साक्षात्कारि ज्ञानं तत्प्रत्यक्षमुच्यते ।

यदि त्वक्षाश्रितत्वमेव प्रवृत्तिनिमित्तं स्यात्, इन्द्रियविज्ञानमेव प्रत्यक्षमुच्येत, न मानसादि । यथा गच्चतोति गौः इति गमनक्रियायां व्युत्पादितोऽपि गोशब्दो गमनक्रियोपलक्षितमेकार्थसमवेतं गोत्वंप्रवृत्तिनिमित्ती करोति । यथा च गच्चत्यगच्चति च गवि गोशब्दः सिद्धो भवति ।

मीयतेऽनेनेति मानम् । करणसाधनेन मान शब्देन सारूप्यलक्षणं प्रमाणमभिदीयते । लिङ्गग्रहणसम्बन्धस्य्मरणस्य पश्चात्मानमनुमानम् । गृहोते पक्षधर्म, स्मृते च साध्यसाधनसम्बन्धेऽनुमानं प्रवर्तते इति पश्चात्कालभावि उच्यते ।

प्रत्यक्षस्य्, ततश्व प्रत्यक्षा बुद्धिः, प्रत्यक्षो घटैति न स्यात्ः इदमेव स्यात्प्रत्यक्षाज्ञानम्, प्रत्यक्षं कुण्डं चेति । गतिसमासे तु सर्वलिगता भवति । ननु च प्रतिगतमक्षमित्यस्यां व्युत्पत्तावक्षाश्रितस्यैविद्न्रियज्ञनस्य प्रत्यक्षशब्दवाच्यता स्यात्, न योनिज्ञानादः, तेषाभक्षानाश्रयात्? इत्याशङ्कयाह- अक्षाश्रितत्वं चेत्यादि । एकार्थसमवेतमित्येकस्मिन्निन्द्रियज्ञाने समवेतमक्षाश्रितत्वमर्थसाक्षात्कारित्वं च सम्बद्धमित्यथम् ।

सारूप्यलक्षणमित्यनेनार्थसारूप्यलक्षितं ज्ञानमेवोच्यते, तन्न सारूप्यमात्रम्, अन्यथा विरूपाल्लिगादनुमेये ज्ञानमिति विरुद्धयेत । अपपि पश्चान्मानमनुमानमित्यव्ययीभावसमासे पूर्वच्चोदयमुद्भाव्य गतिसमास आश्रयितव्यः- अनुगतं मानमनुमानमिति । पश्चादित्यर्थकथनं कृतम्, न तस्मिन् वाक्ये समासः ।

प्रत्यक्षामनुमानं चेति विभक्तिभेदेन निर्विष्ठम् । अथदि विषयभेदो गम्यते । यथा तयोविभक्तिभेदः, तथा तयोर्विषयबेधोऽपीति शेषः ।

च शब्दः समुच्चायार्थः । तेन प्रत्यक्सानुमानयोः समबलत्वसंग्रहः । यथा प्रत्यक्षामर्थेनोत्पन्नं सदभ्रान्तमिति प्रमाणं भवतिव्तथानुमानमपि तादात्म्यदुत्पत्तिभ्यामर्थप्रतिबन्धादभ्रान्तमिति तत्प्रमाणं भवति । एतेन यदुवत कैश्चित्- सर्वेषु प्रमाणेषु मुख्यं प्रत्यक्षमिति तन्निरस्तम् ।

अभ्रान्तत्वमुभयोरपि समानमेव । प्रतिपादितं हि केनचित्प्रत्यक्षस्य मुख्यत्वम् ॥ ३ ॥

स्वरूपविप्रतिपत्तिनिराकरणार्थ तत्र प्रत्यक्षं कल्पनापोढमभ्रान्तमित्युक्तम् । तत्रेति शब्दः निर्धारणार्थः । सम्यग्ज्ञानस्य प्रत्यक्षमघोलक्षाणेन निर्धायते । प्रत्य्क्षमित्यनेन लक्ष्यमुक्तं कल्पनापोढमभ्रान्तमित्यनेन लक्षणमुक्तम् । तेन कल्पनापोढमभ्रान्तं यद्भवति तदेव प्रत्यक्षं विदितव्यमित्यर्थ उक्तो भवति ।

चकारः प्रत्यक्षानुमानयोस्तुल्यबलत्वं समुच्चिनोति । यथार्थाविनाभावित्वादर्थ प्रापयत्प्रत्यक्षं प्रमाणम्, तद्वदर्थाविनाभावित्वाद अनुमानमपि परिच्चन्नमर्थ प्रापयत्प्रमाणमिति ॥ ३ ॥

तत्रेति सप्तम्यर्थे वर्तमानो निर्धारणे वर्तते । ततोऽयं वाक्यार्थः- तत्र तयोः प्रत्यक्षानुमानयोरिति समुदायनिर्देशः । प्रत्यक्षमिति एकदेशनिर्देशः । चकारः प्रत्यक्षानुमानयोस्तुल्यवलत्वं समुच्चिनोतीत्यादिना यदुवतं शबरस्वामिप्रभृतिभिः- प्रत्यक्षं श्रेष्ठं नानुमानम्, तथा चोक्तं मीसांसाभास्ये- प्रत्यक्षे वलीयसि कथमनुमानमिति तत्प्रयुक्तं यतो द्वयोरपि स्वव्यापारे तुल्यबलत्बम् । अमुमेवार्थ दर्शयति- यथार्थाविनाभावीत्यादिना । अनेन विनीतदेव शान्तभद्रयोव्याख्या च दूषिता । ताभ्यामेवं व्याख्यातम्- प्रत्यक्षमनुमानं च इति भिन्नविभक्तिनिर्देशोऽर्थाद्विषयभेदं दर्शयति । यथानयोव्रिभक्तिभिन्ना, एवं विषयोऽपि भिन्नः इति, एतच्चायुक्तं यस्मादेकविभक्तिनिर्देशे क्रियमाणे चकारेण तुल्यबलत्वं न प्रदर्शितं स्यादिति ॥ ३ ॥

प्रत्य्क्षत्वजात्येति । प्रत्यक्षाणां बहुत्वात्तज्जात्या निर्यायते ।

प्रत्यक्षमनूद्भयेति लक्षयनिर्देशः । कल्पनापोढत्वमभ्रान्तत्वं च विधीयत इति लक्षणनिर्देश । अनेन लक्ष्यलक्षणभावं दर्शयता विनीतदेवव्याख्यानं संज्ञासंज्ञिसम्बन्धरूपं प्रत्युक्तम् । न हि संज्ञा यथार्थ सम्भवति । यथार्थकथनेन हि विप्रतिपत्तिनिराकृता स्यात् । यदयप्यन्वर्थसंज्ञया कल्पनापोढं यद्भ्रान्तं च तत्प्रत्यक्षमिति शक्यते यथार्थ कथयितुम्, तथापि न स्वरूपं प्रत्यक्षस्य कथितं स्यत्, यतोऽन्यदपि प्रत्यक्षस्य स्वरूपमर्थ अवयवार्थस्तु- कल्पनाभ्य अपोढमिति कल्पनापोढम् । कल्पनावियुक्तमिति शेषः । यद्धा- कल्पनया अपोढं कल्पनापोढम् । कल्पनाविवर्जितमिति शेषः । न भ्रान्तमभ्रान्तम् । प्रापकविषयेऽविसंवादकमिति शेषः ।

कस्माद्विशेषणद्वयमुक्तमिति चेद्? उच्यते, तिमिरवतो भ्रान्तज्ञानव्यच्चेदार्थमभ्रान्तमित्युक्तम् । कल्पनापोढमिति चानुमानव्यवच्चेदार्थमुक्तम् । एवमभ्रान्तत्वे

तत्र समुदायात्प्रत्यक्षत्वजात्यैकदेशस्य पृथक्करणं निर्धारणम् । प्रत्यक्षमनूदय कल्पनापोढत्वम्, अश्रान्तत्वं विधीयते । यत्तद्भवतामस्माकं चार्थेषु साक्षात्कारि ज्ञानि प्रसिद्धम्, तत्कल्पनापोढाभ्रान्तत्वयुक्तं द्रष्टव्यम् ।

न चैतन्मतव्यम्- कल्पनापोढाभ्रान्तत्वं चेदप्रसिद्धम्, किमन्यत्प्रत्यक्षस्य ज्ञानस्य रूपमवशिष्यते यत्प्रत्यक्षशब्दवाच्यं सदनूद्येतेति, यस्मादिन्द्रियान्वयव्यतिरेकानुविधाय्यर्थेषु साक्षात्कारि ज्ञानं प्रत्यक्षशब्द वाच्यं सर्वेषां प्रसिद्धम्, तदनुवादेन कल्पनापोढाभ्रान्तत्वविधिः ।

साक्षात्कारादिकमस्तीति । लक्ष्यलक्षणेतुकथिते यथार्थ कथितं भवति यत्किञ्चित्प्रत्यक्षं तत्कल्पनापोढाभ्रान्तमिति प्रतिपत्तव्यम् । अत एव लक्षणकरणं संज्ञाकरणं भवति, संज्ञाकरणत्वेनाप्रतीतेलक्षणकरणस्य । शब्दमनूदयानित्यत्वं लक्षणं विधीयते, न चानित्यत्वं संज्ञेति गम्यत इति संज्ञा लक्षणकरणयोर्भेदः ।

यस्त्वमयोः प्रदेशान्तरप्रदिस्शयोरनुवादं कृत्वा प्रत्यक्षत्वं विदधाति, तेनाप्यत्र लक्ष्यलक्षणभावो विपरीतमाख्यातं भङ्गयाः यतो लक्षणविधानकाले लक्ष्यमनूदय लक्षणविधीयते, न तु लक्षणमनूदय लक्ष्यं विधीयते । सिद्धे तु लक्ष्यलक्षणभावे सति लक्षणसनूदय लक्ष्यं विधीयते, अय्था- यः शिखावान् स परिव्राजकः इति । शिखालक्षणविधानकाले तु परिव्राजकानुवादेन शिखैव विधीयते । विपरीतविधानमित्यन्यदपि अस्मिन्मते दूषणं दत्त्वं विनिश्चयटीकाया टीकाकृत्तेति तत्रैव द्रष्टव्यम् ।

ननु च लक्षणविधिपक्षे प्रत्यक्षस्याद्याप्यसिद्धत्वादनूद्यं न सम्भवति, ततश्च कथं प्रत्यक्षलक्षणमनूद्य लक्षणं विज्ञाप्यते, अय्था- शिखया परिव्राजकः इत्यत्र शिखालक्षणमनूद्य कल्पनापोढादि विधीयते? इत्याशङ्क्याह- यत्तद्बवतामित्यादि । एवं मन्यते- यद्यपि कल्पनापोढत्वेन प्रत्यक्षं न सिद्धम्, तथापि अर्थसाक्षात्कारित्वेन सामान्यं प्रत्यक्षां प्रसिद्धम्, ततोऽप्युच्यते- प्रत्यक्षमनूद्येति ।

ननु च तयोरप्रसिद्धत्वात्प्रत्यक्षस्याप्रसिद्धिरेव, प्रत्यस्य तत्स्वभावत्वात्? इत्याशङ्कयाह- न चैतन्मन्तव्यमित्यादि । सुबोधम् ।

प्रापकविषये उपादेयम्, न तु आलम्बनविषये । यद्यालम्बनविषये अभ्रान्तत्वमभ्युपगम्यते, तहयत्र योगाचारनयनिरासः स्यात् । योगाचारा हि सर्वमालम्बनज्ञानं भ्रान्तं कल्पनायाः अपोढमपेत कल्पनापोढम् । कल्पनास्वभावरहितमित्यर्थः । अभ्रान्तमर्थक्रियाक्षमे च वस्तुरूपेऽविपर्यस्तमुच्यते । अर्थक्रियाक्षमं च वस्तुरूपं सन्निवेशोपाधिवर्णात्मकम् । तत्र यन्न भ्राम्यति तदभ्रान्ताम् ।

एतच्च लक्षणद्वयं विप्रतिपत्तिनिरासार्थम्, न त्वनुमाननिवृत्त्यर्थम्ः यतः कल्पनापोढग्रहणेनैवानुमानं विवर्तितम् ।

तत्रासति अभ्रान्तग्रहणे गच्चद्वृक्षदर्शनादि प्रत्यक्षं कल्पनापोढत्वात्स्यात् । ततो हि प्रवृत्तेन वृक्षमात्रमवाप्यते इति संवादकत्वात्सम्यग्ज्ञानम्, कल्पनापोढत्वाच्च प्रत्यक्षमिति स्यादाशङ्का । तन्निवृत्त्यर्यमभ्रान्तग्रहणम् ।

कल्पनास्वभावरहितमिति । भावप्रधानी निर्देशः । कल्पनात्वस्वभावरहितमिर्यर्थः । अभ्रान्तमर्थक्रियाक्षमे च वस्तुरूप इत्यादिनाविसंवादोऽर्थोऽभ्रान्तशब्दस्य न सम्भवतीति दर्शयति । अविसंवादार्थेऽभ्रान्तशब्दे गृह्यमाण उतरत्र दूषण प्रतिपादयति । सन्निवेशोपाधिवर्णात्मकमित्यनेनैतद्दर्शयति- वर्णादन्यत्संस्यानादिकं परपरिकल्पितं नास्तीति ।

एतच्च लक्षणद्वयमित्यादिना पदद्वयेन विप्रतिपत्तिनिरासं दर्शयता विनीतदेवव्यख्या पदद्वयव्यवचेदकथनरूपा दूषिता । तेन त्वेवं व्याख्यातम्- अभ्रान्तमिति यद्विसंवादि न भवति । एवं सत्यनुमास्यापि प्रत्यक्षलक्षणं प्राप्नोतीति कल्पनापोढग्रहणं तन्निवृत्त्यर्थम् । यद्येवं व्याख्यायते, आलम्बने यन्न भ्रान्तं तदभ्रान्तमित्येवमुच्यमाने सर्व प्रत्यक्षं ज्ञानमालम्बने भ्रान्तमिति न कस्यचित्प्रत्यक्षत्वं स्यात् ।

तथा चाह- सर्वमालम्बने भ्रान्तं मुक्त्वा तथागतज्ञानम्, इति योगाचारमतेनः तदप्यत्राचार्येण संगृहीतमिति तदयुक्तम्, यत आचार्येण विप्रतिपत्तिनिरासार्थ पदद्वयं कृतम्, न व्यवच्चेदार्थम् । अत एवाचार्यमनुमापयता धर्मोतत्रेण पदद्वयं व्याख्यामिति ।

ननु च भवतः पक्षेऽपि किमिति व्यवच्चेदार्थ न भवति? इत्याह- एतच्चेत्यादि । एवं मन्यते- भ्रान्तशब्दोऽयं नाविसंवादार्थो गृह्यते, अपि त्वर्थक्रियाक्षमे वस्तुरूप आलमबने यन्न भ्राम्यति तदभ्रान्तशब्देन गृह्यते । ननूक्रं योगाचारमतमसंगृहीतं स्यादिति? उच्यते बाह्यनयेन सौतान्त्रिकमतानुसारेणाचार्येण लक्षणं कृतमित्यदोषः । योगाचारमतेन त्वभ्रान्तग्रहणं न कर्तव्यम्ः संवादकस्य सम्यग्ज्ञानस्य प्रस्तुतत्वात् । अन्यव्यावर्त्यस्याभवात् । तस्मादभ्रान्तग्रहणेनानुमाने निरस्ते कल्पनापोढग्रहणमधिकं सिद्धिविप्रतिपत्ति निराकरोति । अत एवाह- न त्वनुमाननिवृत्त्यर्थमिति । अस्ति चात्र मन्यन्ते । ततश्च प्रकरणारम्भस्तन्नयनिराकरणार्थः स्यात् । इष्टश्च प्रकरणारम्भः सीत्रान्तिक- योगाचारोभयमतानुघावनार्थम् । प्रापकविषयेऽविसंवादकलक्षणम तद्दि भ्रान्तत्वान्न प्रत्यक्षम् । त्रिरूपलिङ्गजत्वाभावाच्च नानुमानम् । न च प्रमाणान्तरमस्ति । अतो गच्चद्{ब्रि}क्षदर्शनादि मिथ्याज्ञानम्- इत्युक्तं भवति । यदि मिथ्याज्ञानम्, कथं ततो वृक्षावाप्तिः? इति चेत्, न ततो वृक्षावाप्तिः । नानादेशगामी हि वृक्षस्तेन परिच्चिन्नः । एकदेशनियतश्च वृक्षोऽवाप्यते । ततो यद्देशो गच्चद्वृक्षो दृष्टः तद्देशो नावाप्यते । यद्देशश्चावाप्यते स न दृष्ट इति तस्मात्कश्चिदर्थोऽवाप्यते । ज्ञानानन्तरादेव तु वृक्षादिरर्थोऽवाप्यते । इत्येवमभ्रान्तग्रहणं विप्रतिपत्तिनिरासार्थम् ।

विप्रतिपत्तिः । तथा हि मोमांसकादय एवमाहुः यथा निर्विकल्पकं ज्ञानं सम्यग्ज्ञानं तथा जात्यादियोजनाज्ञानमपि सम्यग्ज्ञानमिन्द्रियजम्ः उपदर्शितस्यार्थस्य प्रापणात् । तथा चाह-

ततः परं पुनर्वस्तुधर्मैर्जात्यादिभिर्यया ।
बुद्धयावसीयते सापि प्रत्यक्षत्वेन सम्मता ।

तथा च वैयाकरणा आहुः-

वाग्रूपता चेदुत्कामेदवबोधस्य शाश्वती ।
न प्रकाशः प्रकाशेन सा हि प्रत्यवमशिनी ॥
न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमदृते ।
अनुबिद्धमिव ज्ञान सर्व शब्देन भासते ॥

तथा नैयायिकादीनां सविकल्पकं प्रत्यक्षमिति कल्पनापोढग्रहणेन निराक्रियते । तथा कल्पनापोढग्रहणेन निर्विकल्पे सिद्धेऽग्रहणमतिरिच्यमान द्विचन्द्रज्ञानादेःसम्यग्ज्ञानाधिकरण एव निरस्तत्वाद्विप्रतिपत्तिनिरासार्थत्वमेव भवति । तथाचार्यैकदेशीयाशुक्ले शंखे पीतज्ञानम्, गच्चद्वृक्षदर्शनज्ञानं चालातचक्रज्ञानमभ्रान्तमपि सम्यग्ज्ञानमिच्चन्तिः वस्तुनोऽभ्रान्तत्वात्पीताकारादेश्च भ्रान्तत्वाद- इत्यस्ति विप्रतिपत्ति, तन्निराक्रियतेऽब्र्हान्तग्रहणेनेति स्थितं द्वयोरपि विप्रतिपत्तिनिरासार्थत्वमिति । तथा सति अभ्रान्तग्रहण इत्यादिनाभ्रान्तविषयस्य विप्रतिपत्तिविषयं दर्शयति । न ततो वृक्षावाप्तिरित्युपदर्शितस्य गच्चद्वृक्षस्याप्राप्तेरित्यनिप्रायः । ज्ञानान्तरादेव त्वति । प्रत्यक्षान्तरात्स्थिरवृक्षस्य प्राप्तेः ।

५ अभिलापसंसगयोग्यप्रतिभासप्रतीतिः कल्पना ॥

भ्रान्तत्वं चोभयातुमतमेव । एवमनुमानस्यापि प्रत्यक्षत्वप्रसङ्गः, तदपि हि अविसंवादकमभ्रान्तमेवेष्टम् । अतः एवानुमाननिरासार्थ कल्पनापोढमित्युक्तम् । तस्माद्विशेषणद्वयमुक्तप्रयोजनकम् ॥ ४ ॥

सिद्धान्ते प्रसिद्धकल्पना निरस्ता । लौकिककल्पनोपदेशार्थमभिलापसंसर्गयोग्यप्रतिभासप्रतीतिः कल्पना इत्युक्तम् । अभिलप्यतेऽनेनेति अभिलापः=वाच्यः तथा अभ्रान्तग्रहणेनाप्यनुमाने निवर्तिते कल्पनापोढग्रहणं विप्रतिपत्तिनिराकरणार्थम् । भ्रान्तं हि अनुमानं स्वप्रतिभासेअनर्थऽध्यवसायेन प्रवृत्तत्वात् । प्रत्यक्षं तु ग्राह्य रूपे न विपर्यस्तम् ।

न त्वविसंवादकमभ्रान्तिमिह ग्रहीतव्यं यतः सम्यग्ज्ञानमेव प्रत्यक्षम्, नान्यत् । तत्र सम्यग्ज्ञानत्वादेवाविसंवादकत्वे लब्धे पुनरविसंवादकग्रहणं निष्प्रयोजनमेव । एवं हि वाक्यार्थः स्यात्- प्रत्यक्षाख्यं यदविसंवादकं ज्ञानं तत्कल्पनापोढमविसंवादकं चेति । न चनेन द्विरविसंवादकग्रहणेन किञ्चित् । तस्माद्ग्राह्यऽर्थक्रियाक्षमे वस्तुरूपे यदविपर्यस्तं तदभ्रान्तमिह वेदितव्यम् । ॥ ४ ॥

कीदृशी पनः कल्पनेह गृह्यते? इत्याह- अभिलापेत्यादि । अभिलप्यतेऽनेनेति अभिलापः, वाचकः शब्दः । अभिलापेन संसर्गः अभिलापसंसर्गः= एकस्मिन् ज्ञानेऽभिधेयाकारस्याभिधानाकारेण सह घ्राह्याकारतया मिलनम् । ततो यदैकस्मिन् ज्ञानेऽभिधेयाभिधानयोराकारौ सन्निविष्टौ भवतः तदा तथा भ्रान्तग्रहणेनेत्यादिना कल्पनापोढग्रहणद्य विप्रतिपत्तिनिरासार्थत्वं दर्शयति । विप्रतिपत्तिविषयश्च टीकाकृता न दर्शितः अतिप्रसिद्धत्वात् । यदुक्तं प्राक्नाविर्सवादार्थोऽभ्रान्तार्थ इति । तस्यार्थस्म ग्रहणे दोषं दर्शयति- न त्वविसंवादकमित्यादिना ॥ ४ ॥

कीदृशी पुनः कल्पनेत्यादिना कल्पनाबहुत्वात्कस्याः कल्पनाया ग्रहणमिति कल्पनाविशेषमजानन् पृच्चति । तथा हि- वैभाषिका इन्द्रियविज्ञानं वितर्क विचार चैतसिकसम्प्रयुक्तं कल्पनामिच्चन्ति । योगाचारमतेन च तथागतज्ञानमद्वयं मुक्त्वा सर्वज्ञानं ग्रह्यग्राहकत्वेन विकल्पितं कल्पना । जात्यादिसंसृष्टं तु मनोज्ञानं कल्पनेत्यन्ये कथयन्ति । अभिलापेत्यादिना शब्दसंसृष्टस्य विकल्पस्य ग्रहणं नागमपरिपठितानामिति दर्शयति । तेषां ग्रहणे सतीन्द्रियविज्ञानस्य प्रत्यक्षत्वानुपपत्तेः । अभिलप्यतेऽनेनेति करणसाधनेन एतद्दर्शयति- वाचकोऽभिलापशब्देनेष्ठः, न तु वाच्यं शब्दसामान्यरूपः । अभिलापेन संसर्ग इति अभिलापसंसर्गः । संसर्गस्तु सम्बन्धः । अभिलापसंसर्गस्य योग्यमिति अभिलापसंसर्गयोग्यम् । अर्थसामान्यम् । तदेव हि अन्वयव्यतिरेकवत्त्वाद्व्याप्तत्वादभिलापयितुं शक्यम् । अर्थविशेषः स्वलक्षणरूपस्तु संसृष्टे अभिधानाभिधेये भवतः । अभिलापसंसर्गस्य योग्योऽभिधेयाकाराभासो यस्यां प्रतीतौ सा तथोक्ता ।

तत्र काचित्प्रतीतिः अभिलापसंसृष्टाभासा भवति, यथा- व्युत्पन्न संकेतस्य घटार्थकल्पना घटशब्दसंसृष्टार्थावभासा भवति । काचित्तु अभिलापेनासंसृष्टापि अभिलापसंसर्गयोग्याभासा भवतिः यथा- बालकस्याव्युत्पन्नसंकेतस्य कल्पना । तत्र अभिलापसंसृष्टाभासा कल्पना इत्युक्तावव्युत्पन्नसंकेतस्य कल्पना न संगृह्येत । योग्यग्रहणे तु सापि संगृह्यते, यदयपि अभिलापसंसृष्टाभासा न भवति तदहर्जातस्य बालकस्य कल्पना, अभिलापसंसर्गयोग्यप्रतिभासा तु भवत्येव । या चाभिलापसंसृष्टा, सापि योग्या । तत उभयोरपि योग्यग्रहणेन संग्रहः ।

सामान्यदि तेन विनीतदेवव्याख्या दूषिता- अभिलप्यत इत्यभिलापः= वाच्यः सामान्यादिः इत्येवंरूपा । एवमेवात्राश्रयणीयम्, अन्यथा योग्यग्रहणेन शब्दसंसर्गयोग्यो न कथितः स्यादिति । यदयेवम्, धर्मोत्तरव्याख्याने जात्यादेर्वाचकस्य संसर्गभावो न प्रदर्शितः स्यात्? सत्यमनेन न प्रतिपादितः, विषयचिन्तायां सामान्यादेविषयभावकथनेन सामर्थ्यात्कथितं भवतीति निरोधः । एकस्मिन् ज्ञाने वाच्य वाचकाक्रतया संघटर्नामत्यर्थः । ननु च यदयपि तस्मिन् ज्ञाने आकारयोर्मीलनं तथपि शब्दार्थयोः संसर्गो नास्ति? इत्याह- ततो यदैकस्मिन्नित्यादि । शब्दार्थयोः ससर्गविज्ञानेऽपि तयोराकारयोर्मीलनं न सम्भवतीत्यभिर्पायः ।

तत्र काचित्प्रतीतिरित्यादिना योग्यग्रहणस्य विषयं दर्शयति । व्युत्पन्नसंकेतापक्षयाकारद्वयप्रतिभासनम् । ननु चाव्युत्पन्नसंकेतस्य बालमूकादेरनुमतो विज्ञाने न शब्दसंसर्ग इति तदयोग्यत्वमपि नास्ति । कश्च संसर्गयोग्यप्रतिभासः? यः शब्दप्रतिभासः । मूकादिज्ञाने तु संकेताभावे सति शब्दरतिभासोऽपि न सम्भवतीति ससर्गयोग्यत्वमपि नास्ति । किमिदं योग्यत्वं नाम? अभिधेयाकारस्य संकेतकरणयोग्यत्वम् । न चाभिघानोल्लेखाभावे सत्यभिधेयप्रतिभासम्, नापि योग्यत्वमिति । तथा च कुमारिलः प्राह-

अस्ति ह्यालोचनाज्ञानं प्रथमं निर्विकल्पकम् ।
बालमूकादिविज्ञानसदृश शुद्धवस्तुजम् ॥

अभिलापयितुं न शक्यतेः तद्वयाप्तत्वात् । ज्ञानेऽभिलापसंसर्गयोग्यो यः प्रतिभासः स एवाभिलापसंसर्गयोग्यप्रतिभासः । अर्थसामान्यस्यार्थाकार इति शेषः ।

यद्वा- न अभिलप्यते इति अभिलापः= अभिधेर्य यदर्थसामान्यम् । अभिलापेन संसर्ग इति अभिलापसंसर्गः । अभिलापसंसर्गस्य योग्यमिति अभिलापसंसर्गयोग्यम् । शब्दसामान्यम् । अन्वयव्यतिरेकवशात्तेनार्थाभिधानं शक्यम् । शब्दविशेषेण तु न शक्यम्ः तस्यासामानत्वात् । ज्ञानेऽभिलापसंसर्गयोग्यो यः प्रतिभासः स एवाभिलाप असत्यभिलापसंसर्गे कुतो योग्यतावसितिः? इति चेत्ः अनियतप्रतिभासत्वात् । अनियतप्रतिभासत्वं च प्रतिभासनियमहेतोरभावात् । ग्रह्यो ह्यर्थो विज्ञानं जनयन्नियतप्रतिभासं कुर्यात् । यथा रूपं चक्षुर्विज्ञानं जनयन्नियतप्रतिभासं जनयति, विकल्पविज्ञानं त्वर्थान्नोत्पदयते । ततः प्रतिभासनियमहेतोरभावादनियतप्रतिभासम् ।

कुतः पुनरेतद्- विकल्पोऽर्थान्नोत्पदयते इति? अर्थसन्निधिनिरपेक्षत्वात् । बालोऽपि हि यावद्दृश्यमानं स्तनं स एवायमिति पूर्वदुष्टत्वेन न प्रत्यवमृशति तावन्नोपरतरुदितो मुखमर्पयति स्तने । पूर्वदृष्टापरदृष्टं चार्थमेकीकुर्वद विज्ञानमसन्निहितविषयम्, पूर्वदृष्टस्यासन्निहितत्वात् । असन्निनहितविषयं चार्थनिरपेक्षम् । अनपेक्षं च प्रतिभासनियमहेतोरभावादनियतप्रतिभासम् । तादृशं चाभिलापसंसर्गयोग्यम् ।

ततश्च व्याअवर्त्त्याभवाद योग्यग्रहणं न कर्तव्यमित्याशङ्कां परस्य दर्शयति असत्यभिलापेत्यादिना । अनियतप्रतिभासेत्यादिनोत्तरमाह । एवं मन्यते- शब्दसंसर्गित्वं किमुच्यते? विकल्पज्ञानस्यानियतभसत्वमेव । कुतस्तत्सिद्धम्? इत्याह- अनियतेत्यादि । अर्थादेव ह्युत्पदयमानं नियतप्रतिभासं भवति । तथा चक्षुर्विज्ञानमित्यभिप्रायः । ननु कल्पनाज्ञानमप्यर्थादुत्पदयमानं नियताकाअर्ं भविष्यति? इत्याह- विकल्पविज्ञानमित्यादि । अर्थसन्निधि विना विकल्पज्ञानस्योत्पत्तिरित्यभिप्रायः ।तेनेन्द्रियज्ञानमेव नियतप्रतिभासम्, विकल्पज्ञानं त्वनियतप्रतिभासमिति । तथा नियतप्रतिभासं विकल्पज्ञानं बालमूकादेरप्यस्तीति दर्शयति- बालोऽपि हीत्यादिना । ननु च बालस्य ताल्वादिकरणपाटवाभावे सामान्यविशेषशब्दोच्चारणं नास्ति, तत्किमुच्यते- स एवायमिति? सत्यं नास्तिः किन्तु स एवायमित्येनेन विकल्पस्यावस्थोच्यते । स एवायमित्यनेन पूर्वदृष्टत्वमेवोच्यते । उपरतरुदितः= अपगतरुदितः । एतद्दर्शयति- बालस्यापि पूर्वपरपरामर्शरूपं विकल्पकं विज्ञानमस्ति, नियतविषये प्रवृत्तेः, यथा गृहीतसंकेतस्य पूर्वापरपरामशेन प्रवृतिरिति । यच्च पूर्वापरपरामर्श तदनियतप्रतिभासं पूर्वापरयोरा संसर्गयोग्यप्रतिभासः, शब्दसामान्याकार इति शेष इत्येतदुक्तं भवति ।

एवं श्लेषेण वाक्यस्य व्याख्यानेन उभयोरपि तद्विकल्पाकारः अभिलापसंसर्गयोग्यप्रतिभास इत्युक्तं वेदितव्यम् ।

इन्द्रियविज्ञानं तु सन्निहितार्थमात्रग्राहित्वादर्थसापेक्षम् । अर्थस्य च प्रतिभासनियमहेतुत्वान्नियतप्रतिभासम् । ततो नाभिलापसंसर्गयोग्यम् ।

अत एव स्वलक्षणस्याइ वाच्यवाचकभावमभ्युप्गम्य एतदविकल्पकत्वमुच्यते । यदयपि हि स्वलक्षणमेव वाच्यं वाचकं च भवेत्, तथापि अभिलापसंसृष्टार्थ विज्ञानं सविकल्पकम् । न चेन्द्रियविज्ञानमर्थेन नियमितप्रतिभासत्वातभिलापसंसर्गयोग्यप्रतिभासं भवतीति निर्विकल्पकम् ।

श्रोत्रविज्ञानं तर्हि शब्दस्वलक्षणग्राहि, शब्दस्वलक्षणं च किञ्चित्वाच्यं किञ्चिद्वाचकम्- इत्यभिलाकसंसर्गयोग्यप्रतिभासं स्यात्, तथा च सविकल्पकं स्यात्?

रोपितत्वादिति संसगंयोग्यं बालमूकादेर्विज्ञानमिति तन्निवृत्त्यर्थं योग्यग्रहणं कर्तव्यमिति स्थितम् ।

इन्द्रियविज्ञानमित्यादिना कुमरिलेन यदिन्द्रियविज्ञानस्यालोचनाख्यस्य बालमूकादिविज्ञानेन सादृश्यं प्रतिपादितम्, तद्दूषयितुमुकस्ंहारव्याजेन वैलक्षण्यं दर्शयति अत एवेत्वादि । यदिन्द्रियविज्ञानमर्थबलेनोत्पदयमानं नियतप्रतिभासं तन्निर्विकल्पसम् । अत एव स्वलक्षणस्यापि शब्दस्यार्थस्य च वाच्य वाचकत्वमम्युपगम्य निर्विकल्पकत्वमिन्द्रियविज्ञानस्य साध्यते । विकल्पविज्ञानस्य तु स्वलक्षणवाच्य वाचकत्वं प्रतिभासिनोऽपि सविकल्पकत्वमिति स्थितम् । यदयपीत्यनेन स्वलक्षणयोर्वाच्यवाचकभावाभ्युपगमं दर्शयति । परमार्थतः सामान्ययोरेव वाच्यवाचकत्वं नार्थशब्दविशेषस्येत्यादिना न्यानेन । अवश्यं च स्वलक्षणयोः वाच्यवाचकभवोऽभ्युपगम्य । कुतः? सामान्ययोर्विषयचिन्तायामेव निरस्यमानत्वादिति निर्विकल्पकत्वकथनं व्यर्थ स्यादिह । तदपि हि विषयाविषयचिन्ताद्वारेण निर्विकल्पकविषयमेवेति । तेन यद्विनीतदेवेन सामान्ययोर्वाच्यवाचकभावमङ्गीकृत्य निर्विकल्पकत्वमिन्द्रियाविज्ञानस्य प्रतिपादितम्, तद्दूषितं भङ्गया ।

श्रोत्रविज्ञानं तहींत्यादिना स्वलक्षणस्य वाच्यवाचकभावपक्षेऽतिप्रसङ्गमापादयति परः । किञ्चिन्निर्विकल्पकत्वमिन्द्रियविज्ञानस्य साधनीयम् । न सामान्ययोर्वाच्य वाचकभावमभ्युपगम्य शब्दस्वलक्षणं वाच्यम् । यदा घटशब्दः । शब्दशब्दो वा शब्दं शब्देन प्रतिपदयते, तदा किञ्चिद्वाच्यं शब्दस्वलक्षणं किञ्चिद्वाचकं शब्दस्वलक्षण

६। तया रहितं तिमिराशुभ्रमणनौयानसंक्षोभाद्यनाहितविभ्रमं ज्ञानं प्रत्यक्षम् ॥

प्रतीतिरिति संविदनम् । बुद्धरिति शेषः ॥ ५ ॥

तया रहितमिति कल्पनया रहितम् । कल्पनाकलुषेण रहितमिति शेषः । तेन एतदुक्त्या शब्दार्थसामान्याकाररहिताया प्रतीतिः सा एव प्रतीतिः, सा एव प्रत्यक्षप्रमाणमित्युक्तं भवति ।

तिमिराशुभ्रमण नौयान संक्षोभाद्यनाहितविभ्रममिति । अत्र तिमिरमिति अक्षिपीडा । आशुभ्र्रमणमिति अलातचक्रादि । नौयानमिति नावा यानम् । संक्षोम नैष दोषः, सत्यपि स्वलक्षणस्य वाच्यवाचकभावे संकेतकालदृष्टत्वेन गृह्यमाणं स्वलक्षणं वाच्यं वाचकं च गृहीतं स्यात् । न च संकेतकालभावि दर्शनविषयत्वं वस्तुनः संप्रत्यम्ति । यथा हि- संकेतकालभावि दर्शनमद्य निरुद्धम्, तद्वत्तद्विषयत्वमपि अर्थस्याद्य नास्ति । ततः पूर्वकालद्दष्टत्वमपश्यच्च्रोत्रज्ञानं च वाच्यवाचकभावग्राहि ।

अनेनैव न्यानेन योगिज्ञानमपि सकलशब्दार्थावभासित्वेऽपि संकेतकालदृष्टत्वाग्रहणणान्निर्विकल्पकम् ॥ ५ ॥

तयेति । तया कल्पनया कल्पनास्वभावेन रहितं शून्यं सह्ज्ञानं यदभ्रान्तं तत्प्रत्यक्षमिति परेण सम्बन्धः । कल्पनापोढत्वाभ्रान्तत्वे परस्परसापेक्षे मिति । ततः शुद्धयोः श्रवणे सति शब्दविज्ञाने द्वयोरपि शब्दयोः प्रतिभासनाच्चोत्रेन्द्रियज्ञानमनियतप्रतिभासित्वात्सविकल्पकं स्यादित्याकूतम् ।

सत्यपीत्यादि । एवं मन्यते- यद्यपि स्वलक्षणयोर्वाच्यवाचकत्वम्, तथापि श्रोत्रविज्ञाने न वाच्यवाचकतया तयोः प्रतिभासनम्, अपि तु शुद्धयोरेव प्रतिभासनम्, यस्मात्शब्दसन्निधिबलेन श्रोत्रविज्ञानमुत्पद्यते । न च सन्निहितयोः शब्दयोर्वाच्य वाचकत्वमस्ति । यावत्संकेतकालभावि शब्दस्मरणं न भवति, तावत्कुतो वाच्यत्वं वाचकत्वं वा स्यात्, एतत्प्रत्यभिज्ञया स एवायं वाचको भविष्यतोत्याह न च संकेतकालेत्यादि । विषयभेदात्तयोः पूर्वोत्तरयोर्भेदः । कश्च संकेतविषयः शब्दः? यः संकेतकालभाविना ज्ञानेन विषयीकृतः । यश्च पूर्व ज्ञानेन विषयीकृतः स इदानी नास्ति, पूर्वज्ञानविनाशे पूर्वज्ञानविषयत्वस्याभावात् । अतः पूर्वकालविषयत्वमपश्यत्सन्निहिते श्रोत्रवलेनोत्पद्यमानां निर्विकल्पकमेव ।

योगिज्ञानेन यद्येकस्मिन् काले मनोविज्ञानेन च युगपच्चब्दाथौ गृह्यते, तथापि सन्निहितवस्तुतया तेन गृहीतव्याविति दर्शयति- योगिज्ञानमित्यादिना ॥ ।५ ॥

ननु कल्पनाज्ञानमपि परया कल्पनया शून्यम्, ततश्च तस्यापि निर्विकल्पकत्वं प्राप्नोति? इत्याशङ्कयाह- तथा कल्पनया कल्पनास्वभावेनेत्यादि । एवमिति वातपित्तकफप्रकोपेण धातुखेदः । तिमिरं च आशुभ्रमणं च नौयानं च संक्षोभश्चेति ते आदयो येषां ते तिमिराशुभ्रमणनौयानसंक्षोभादयः । आदिशब्देन नष्टदृष्टिपीतदृष्टयादीनां संग्रहः । आहितो विभ्रभो यस्मिंमस्तदाहितविभ्रमम्, न आहितविभ्रममित्यनाहितविभ्रमम् । तिमिराशुभ्रमणनौयानसंक्षोभैरनाहितविभ्रममिति तिमिराशुभ्रमणनौयानसंक्षोभानाहितविभ्रमम् । तथा च तिमिररोगेण द्विचन्द्रदर्शनं भवति । नौयानगत्या तोरतरुश्चलन् दृश्यते । वातपित्तादिकोपेन वस्तु ज्वलितादिकं दृश्यते ।

प्रत्यक्षलक्षणम्, न प्रत्येकम्- इति दर्शयितुं तया रहितं यदभ्रान्तं तत्प्रत्यक्षमिति लक्षणयोः परस्परसापेक्षयोः प्रत्यक्षविषयत्वं दर्शितमिति ।

तिमिरम् {अस्णो}र्विप्लवः । इन्द्रियगतमिदं विभ्रमकारणम् । आशुभ्रमणमलातादेः । मन्दं हि भ्रम्यमाणेऽलातादौ नचक्रभ्रान्तिरुत्पद्यते । तदर्थमाशुग्रहणेन विशेष्यते भ्रमणम् । एतच्च विषयगतं विभ्रमकारणम् । नावा गमनं नौयानम् । गच्चन्त्यां नावि स्थितस्य गच्चद्वृक्षादिभ्रान्तिरुत्पद्यते इति यौनग्रहणम् । एतच्च बाह्याश्रयस्थितं विभ्रमकारणम् । संक्षाभो वातपित्तश्लेष्मणाम् । वातादिषु हि क्षोभङ्गतेषु ज्वलितस्तम्भाविभ्रान्तिरुत्पद्यते। एतच्चाध्यात्मगतं विभ्रमकारणम् ।

सर्वरेव च विभ्रमकारणैरिन्द्रियविषयबाह्याध्यात्मिकाश्रयगतैरिन्द्रिय- मन्यते-धर्मिणा कल्पनाज्ञानेन धर्मोऽत्र कल्पनात्वं लक्ष्यते । यथा विषाणीत्यव विषाणित्वम्ः ततश्च कल्पनात्वेन रहितं यज्ज्ञानं तन्निर्विकल्पकम् । न च कल्पनाज्ञानं कल्पनात्वरहितमित्यदोषः ।

कल्पनापोढाभ्रान्तत्वयोलंक्षणयोः परस्परं विशेषणविशेष्यत्वम्, न स्वातन्त्र्येण पृथग्लक्षणत्वमिति दर्शयितुमन्ते प्रत्यक्षशब्दं गृहीत्वा तयोरपि सम्बध्नाति-तत्प्रत्यक्षमिति परेण सम्बन्ध इत्यनेन । इन्द्रियगतमिदं विभ्रमकारणमिति । इन्द्रियस्य तिमिरेणाक्रान्तत्वात् । आशुभ्रमणमिति । मन्दं भ्रम्यमाणः इति विशेषणस्य व्यावृत्तिः । विषयगतमिति । विषयस्यालातादेश्चक्राकारं प्रति निमित्तत्वात् । नौयानमिति । समुदायप्रश्नः । गच्चत्यां नावीत्यादिना । प्रयोजनं दर्शयति बाह्याश्रयस्थितमिति । बाह्या नौः सैवाश्रयस्तत्र स्थितस्याश्रयद्वारको विभ्रम उच्चते । संक्षोभो वातादीनां विकारापत्तिराध्यात्मिकविभ्रमकारणम् ।

ननु चेन्द्रियगतमेव विभ्रमकारणं प्रत्युच्यतेः नान्यैरिन्द्रियगतैरिन्द्रियं बिक्रियां गतम्? इत्याह- सर्वैरेवेत्यादि । तिमिरस्य साक्षादलातादेः पारम्पर्येणेति । इतच्च विनिश्चयटीकायां विस्तरेण प्र्तिपादितमिति । संक्षोभपदेन सह द्वन्द्वं कृत्वा बहुव्रीहि-

७ तच्चतुर्विधम् ॥

ज्ञानं प्रयक्षमिति । सूत्रे ज्ञानं नोक्तम् । कथं तल्लम्यते इति चेद्? कल्पना ज्ञानेनैव प्रतिबद्धा, भ्रान्तिरपि ज्ञानधर्म इति दृष्टम् । तस्मात्कल्पनारहितमभ्रान्तं ज्ञाममेवेति । यथा अवत्सा गौरानीयतामित्यनेन काचितश्वा नानीयते घेनुरेवा नोयते तस्या एव वत्सम्बन्धदर्शनात् । तथा अवापि भ्रान्तिकल्पनयोर्ज्ञानेनैव सम्बन्धो दृष्टः, नान्येनेति ज्ञानमेव प्रत्यक्षतयेष्यते ॥ ६ ॥

तच्चतुर्विधमिति । प्रत्यक्षमिति यदुक्तं तत्- १ इन्द्रियजन्यम्, २ मानसम्, ३ आत्मसंवेदनम्, ४ योगिज्ञानं चेति चतुर्विधं ज्ञेयम् । प्रविभागोऽयं विप्रति- मेव विकर्तव्यमविकृते इन्द्रिये इन्द्रियभ्रान्त्ययोगात् । एते स्ंक्षोभपर्यन्ता आदयो येषां ते तथोक्ताः । आदिग्रहणेन काचकामलादय इन्द्रियस्था गृह्यन्ते, आशुनयनानयनादयो विषयस्थाः । आशुनयनायने हि कार्यमाणेऽलातेऽग्निवर्णदण्डाभाक्सा भ्रान्तिर्भवति । हस्तियानादयो बाह्याश्रयस्थाः, गाढमर्मप्रहारादय आध्यात्मिकाश्रयस्था व्हिभ्रमहेतवो गृह्यन्ते ।

तैरनाहितो विभ्रभो यस्मिस्तत्तथाविधं ज्ञानं प्रत्यक्षम् ॥ ६ ॥

तदेवं लक्षणमाख्याय यैरिन्द्रयमेव द्रष्ट कल्पिअत्म्, मानसप्रत्यक्षरिति दर्शयति । विनिश्चरो तु संक्षोभशब्देन षष्ठीसमासं कृत्वादिशब्देन बहुब्रीहिसमासं दर्शयतः कोऽभिर्पायष्ठीकाकृत इति । व्युत्पत्तिभेदकथनमेव, नार्थभेद इति । यदा संक्षोभशब्देन षष्ठीसमासस्तदाश्रयगतस्य विभ्रमकारणस्य उपलक्षणत्वाद्वातपित्तादेर्ग्रहणं भवतीति नार्थभेदः । अथ किमर्थमाशुभ्रमणग्रहणादेरुपादानम्, तिमिरादीत्येव क्रियताम्, आदिग्रहणेन सर्वेषां संग्रहो भविष्यति? उच्यतेः, असत्याशुभ्रमणादिग्रहणे इन्द्रियगतमेवादिशब्देन काचकामलादि गृह्यत इत्याशंक्येत । तस्मादाशुभ्रमणादिरुपादीयते । तेषामुपादाने, यद्यादिग्रहणं न क्रियेत, तदा तेषां स्वरूपग्रहणमेव स्यात्, न प्रकारोपलक्षणमित्यादिग्रहणम् । तत उभयोपादाने सति तिमिरादीम्य्भयकात्स्न्र्य लभ्यत इति स्थितम् । तत्तथाविधं ज्ञानमिति यदयपि सूत्रे ज्ञानग्रहणं नास्ति, तथापि भ्रान्ते ज्ञानधर्मत्वाद्तद्वयुदासेन ज्ञानमेव प्रत्यक्षं गृह्यत इत्यदोषः । विनीतदेवव्याख्यायां भवति तु प्रत्य्क्षसूत्रेस्यार्थकथनं ज्ञानं प्रत्य्क्षमिति, तस्मात्स्थितं निर्विकल्पकं ज्ञानं प्रत्यक्षमभ्रान्तमिति ॥ ६ ॥

यैरिन्द्रियमेव द्रष्ट परिकल्पतमिति । वैभाषिकैः- चक्षुः पश्यति रूपाणि इति अतिरिष्यते। मानसे च प्रत्यक्षे दोष उद्भावित इति । द्वाभ्यां, भिक्षवो, रूपं दृश्यते चक्षुर्विज्ञानेन तदाकृष्टेन मनोविज्ञानेन इति, तदाममसिद्धं मनो-

८ इन्द्रियजन्यम् ॥ (१)

पत्तिनिरासार्थम्पदिश्यते । केषाञ्चितिन्द्रियमेव दर्ह्सकर्तुमिष्टम्, तन्निरासार्थ प्रथमम् । इन्द्रियजन्यं ज्ञान्ं हि प्रत्यक्षम्, न त्विन्द्रियमिति । कैश्चित्मानसप्रत्यक्षे दोष उद्भावितः, तद्दोपपरिहारथ द्वितीयम् । केचित्चित्तचैतानामात्मसंवेदनं नाङ्गोकुर्वन्ति तन्निरासार्थ तृतीयम् । केचिद्योगिप्रत्यक्षं नानुमन्यन्ते, तन्निरासार्थ चतुर्थ प्रत्यक्षमुक्तम् ॥ ७ ॥

इन्द्रियजन्यमिति । चक्षुरादीनि पञ्चेन्द्रियाण्येव इन्द्रियत्वेनेष्यन्ते । मनस्तु इन्द्रियं नः मानसप्रत्यक्षस्य पृथङ्निर्देशात् । तस्मात्चक्षुरादीन्द्रियेषु आश्रितं ज्ञानमेव इन्द्रियजन्य प्रत्यक्षम् ॥ ८ ॥

लक्षणे च दोष उद्भावितः, स्वसंवेदनं च नाभ्युपगतम्, योगिज्ञानं च, तेषां विप्रतिपत्तिनिराकरणार्थ प्रत्यक्षस्य प्रकारभेदं दर्शयन्नाह- तच्चतुर्विधमिति ॥ ७ ॥

इन्द्रियज्ञानमिति । इन्द्रियस्य ज्ञानमिन्द्रियज्ञानम् । इन्दिर्याश्रितं यत्ज्ञानं तत्प्रत्यक्षम् ॥ ८ ॥

विज्ञानमाचार्यदिङ्नागेन प्रत्यक्षं दशितम् । तत्परैः कुमारिलोआदिभिलंक्षणमजानद्भिर्दूषितम् । तन्मनोज्ञानं यदीन्द्रियविज्ञानविषये प्रवतते तदा गृहीतग्राहितया प्रमाणमथान्यविषय प्रवर्तते, व्यवहिते प्रत्यक्षं भवत्कि तन्मनोविज्ञानमिन्द्रियसव्यपेक्षं स्यात्? निरपेक्ष वा? इन्द्रियसव्यपेक्षत्वे सतीन्द्रियविज्ञानमेव, निरपेक्षत्वे वानिन्द्रिस्यापि मनोविज्ञानं प्रत्यक्षं स्यादित्यन्धवधिराद्यभावचोदयं कृतम् ।

स्वसंवेदनं च नाभ्युपगतमिति । मीमांसकैः परीक्षं विज्ञानमर्थापतिगम्यं प्रत्यक्षोऽयमिप्यते, नैयायिकादिभिस्तु ज्ञानान्तरगम्यं ज्ञानमिष्यते, न स्वसंवेदनंसिद्धं स्वात्मनि कारित्वविरोधात् । योगिज्ञानं च नाभ्युपगतमिति सम्बन्धः । मीमांसकादय एवमाहुः- योगिन एव न सन्ति सम्प्रति प्रमाणाभावात्, कि पुनस्तेषां ज्ञानमिति ॥ ७ ॥

इन्द्रियाश्रितमिति । चक्षुरादीन्द्रियचतुष्टयं गृह्यते, न मनैन्द्रियम्, तस्य स्वसंवेदनप्रत्यक्षे प्रतिपादयमानत्वात् । इन्द्रियाश्रितं विज्ञानं प्रत्यक्षमिति ब्रुवता वार्त्तिककृता न चक्षुः प्रमाणमिति कथितं भवति यस्माज्ज्ञानस्यैवान्वयव्यतिरेकानुविधानाद्रूपादिदर्शने सामर्थ्यम्, न चक्षुषः । यत्तूक्तम्- ज्ञानं चेत्पश्यति, व्यवहितमपि कि न पश्यति? अमूर्तस्यावाचकाभावातिति, तदयुक्तं यतो योग्यदेशेनैवार्थेन तज्ज्ञानं जन्यते, न व्यवहितेन विज्ञानादर्शनात् ॥ ८ ॥

९ स्वविषयानन्तरविषयसहकारिणेन्द्रियज्ञानेन समनन्तरप्रत्ययेन जनितं तन्मनोविज्ञानम् ॥

स्वविषयानन्तरविषयसहकारिणा इन्द्रियज्ञानेन समनन्तरप्रत्येन जनितं मनोविज्ञानमिति । तत्र स्वस्य विषय इति स्वविषयः । स्वकौयमालम्बनमिति शेषः । स्वविषयेणानन्तरः स्वविषयानन्तरः । द्वितीयक्षणभवी सरूपश्चानन्तरशब्देनोच्यते। स्वविषयानन्तरश्चासौ विषयश्चेति स्वविसयानन्तरविषयः, स सहकारिई यस्य इन्द्रियज्ञानस्य तॠत्स्वविषयानन्तरविषयसहकारि इन्द्रियज्ञानम् । समनन्तरप्रत्ययभूतेन इन्द्रियज्ञानेन जनितं यत्तदेव मनोमात्राश्रयत्वान्मानसं प्रत्यक्षमिति ।

मानसप्रत्यक्षे परैर्योदोष उद्भावितः, तं निराकर्तु मानसप्रत्य्क्षलक्षणमाह- स्वविषयेत्यादि । स्व आत्मीयो विषय इन्द्रियज्ञानस्य तस्य अनन्तरः । न विद्यतेऽन्तरमस्येति अनन्तरः । अनन्तरं च व्यवधानं विशेषश्चोच्यते । ततश्चान्तरे प्रतिषिद्धे समानजातीयो द्वितीयक्षणभव्युपदेयक्षण इन्द्रियविज्ञानविषयस्य गृह्यते । तथा च सतीन्द्रियज्ञानविषयक्षणादुत्तरक्षण एकसन्तानान्तर्भूतो गृहीतः । स सहकारी यस्य इन्द्रियज्ञानस्य तत्तथोक्तम् ।

द्विविधश्च सहकारी- परस्परोपकारी, एककार्यकारी च । इह च क्षणिके वस्तुनि अतिशयाधानायोगादेककायकारित्वेन सहकारी गृह्यते । विषयविआनाभ्यां हि मनोविज्ञानमेकं क्रियते यतः, तदनयोः परस्पर सहकरित्वम् ।

स्वशब्दस्य विवरणम्- आत्मीय इति । इन्द्रियविज्ञानस्यात्मीयो विषयक्षणः । तस्यनन्तर इत्यस्य विवरणम्- न विदयत इत्यादि । अन्तरशब्दस्य विवरणं व्यवधानमित्यादि । समानजातीय उपादेयक्षण इन्द्रियविज्ञानविषयस्याव्यवहितः समनजातीयक्षण उच्यते । स विपादेयक्षणो विषयः । विषयग्रहणेनालोकस्यान्तरस्य निरासः । स तथाभूतः सहकारी यस्येति सम्बन्धः ।

ननु च कथं विषयक्षणस्य सहकारित्वम्, एकस्मिन् क्षणे उपकार्योपकारकभवाभावात्? इत्याह- द्विविधेश्चेत्यादि । एवं मन्यते- नात्रोपकारक्त्वात्सहकारित्वम्, अपि तु एककार्यकारित्वादिति । तदेव दर्शयति- विषयेत्यादिना । ईदृशेनेति । स्वविषयानन्तरविषयसहकारिणेन्द्रियज्ञानेन । आलम्बनप्रत्ययभूतेनेन्ति । यदा योगिज्ञानं परस्यैर्वविधज्ञानमालम्बते, तदालम्बनभूतेन योगिज्ञानं जन्यत इति । समश्चासाविति । अनन्तरक्षणस्यापि ज्ञानत्वात् । स्मन्तर इति च भवति शकन्ऽवादिषु पाठात्षररूपत्वम्, यतः स चेति इह स्वविषयानन्तरविषय इत्कथनं गृहीतग्रहणादवबोधकं न भवतीति दोषम्, तथा असमानजातीयविषयग्रहणदोषं च परिहतु बोध्यम् । तथा हि मानस प्रत्यक्षमिन्द्रियविज्ञानविषयानन्तरद्वितीयक्षणोत्पत्तिकं यत्तद्विषयकमिष्टम् । तस्मात्कुतो गृहीतग्रहणम् ।

ईदृशेनेन्द्रियविज्ञानेन आलम्बनभूतेनापि योगिज्ञानं जन्यते, तन्निरासार्थ समनन्तरप्रत्ययग्रहणं कृतम् । समश्चासो ज्ञानत्वेन, अनन्तरश्चासौ अव्यवहितत्वेन, स चासौ प्रत्ययश्च हेतुत्वात्समनन्तरप्रत्ययः, तेन जनितम् ।

तदनेनैकसन्तानान्तर्भूतयोरेव इन्द्रियज्ञान मनोविज्ञानयोजन्यजनकभावे मनोविज्ञानं प्रत्यक्षमिति उक्तं भवति । ततो योगिज्ञानं परसन्तानवर्ति निरस्तम् ।

यदा चेन्द्रियज्ञानविषयादन्यो विषयो मनोविज्ञानस्य, तदा गृहीतग्रहणादासञ्जितोऽप्रामाण्यदोषो निरस्तः ।

समनन्तरः । हेतुत्वादिति । प्रत्ययार्थकथनमेतत् । तेन जनितमित्यादिनेतत्कथयति- इन्द्रियविज्ञानेन स्वविषयान्तरविषयसहकारिणोपादानभूतेन यज्जनितं तदेव मनोविज्ञानं प्रत्यक्षम् । न आलम्बनभूतेन जनितमित्यर्था ।

यदा चेत्यादिना द्वयोरेकं विषयं गृहीत्वा यच्चोदितं परेण तत्परिहृतम् । पूर्वक्षणे इन्द्रियविज्ञानस्य विषयो द्वितीयक्षणे मनोविज्ञानस्य विषय इत्यगृहीतग्राहि मनोविज्ञानम् ।

यदा चित्यादिना यच्चोदयं कृतम्- यदि मनोविज्ञानमिन्द्रियसव्यपेक्षम्, न स्यान्मनोविज्ञानस्येन्द्रियविज्ञानविषयादन्यो विषायः, तदान्धबधिरादयभावः । व्यवहितस्य नीलादेर्ग्रहणै भवतु इति, तत्परिहृतम् । यस्मादिन्द्रियविज्ञानविषयस्य द्वितीयोपादेयभूतविषयक्षणो गृहीतो मनोविज्ञानविषयः, तस्माद्व्यवहितक्षणो विषयो न भवत्यस्यान्धवधिरादेश्चातीन्द्रियविज्ञानम् । विज्ञानविषयानन्तरविषयसहकारिविदयते । तेन तेषां न मनोविज्ञानं भवतीति परिहृतम् ।

स्वविषयानन्तरविषयसहकारिणेत्युच्यमाने शब्दविषयं मानसं न प्राप्नोतिः, श्रोत्रविज्ञानविषयाच्चव्दादपरस्योपादेयक्षणस्यानुत्पत्तेः, शब्दस्योच्चेदित्वात् । अपरस्य शब्दस्य शब्दादनुत्पत्तेरित्यवश्यं मानसं प्रत्यक्षशब्दविषयमेष्टव्यम्, अन्यथा पञ्च बाह्या विज्ञेयाः इत्यस्य व्यघातः स्यात् । स्वविषयानन्तरविषयशब्देन श्रोत्रविज्ञानविषयानन्तरयोग्यविषयो गृह्यते, नोपादेयक्षण एवः तेन विज्ञानविषयदेशेऽपरश्ब्दो यदोत्पद्यते तदा मानसं प्रत्य्क्षं स्वविषयानन्तरविषयसहकारिणा जनितं भवतीत्यदोषः ।

अनन्तरशब्दश्च समानजातीयपर तेन असमानजातीयविषयग्रहणप्रसङ्गो वा । कुतः? इन्द्रियविज्ञानेन समनन्तरप्रत्ययेन जनितमित्युक्तेरन्धवधिरादयभवयदा चिद्न्रियविज्ञानविषयोपादेयभूतः क्षणो गृहीतः, तदा इन्द्रियज्ञानेनागृहीतस्य विषयान्तरस्य ग्रहणादन्धवधिरादयभावदोषप्रसङ्गो निरस्तः ।

एतच्च मनोविज्ञानमुपरतव्यापारे चक्षुषि प्रत्यक्षमिष्यते । च्यपारवति तु चक्षुषि यद्रूपज्ञानं तत्सर्व चक्षुरश्रितमेवः इतरथा चक्षुराश्रितत्वानु पपत्तिः कस्यचिदपि विज्ञानस्य ।

एतच्च सिद्धान्तप्रसिद्धं मानसं प्रत्यक्षम्, न त्वस्य प्रसाधकमस्ति प्रमाणम् । एवञ्जातीयकं तद्यदि स्यात्न कश्चिद्दोषः स्याद्- इति वक्तुं लक्षणमाख्यातमस्येति ॥ ९ ॥

एतच्चेत्यादिना मनोविज्ञनस्योत्पत्तिविषयं दर्शयति । उपरुते चक्षुषौति । यदा चक्षुविषयमालोच्योपरतं भवति तदालोचनाविषये चक्षुर्विज्ञानमुत्पन्नं सत्पुनद्वितीये क्षण आत्मीयविषयानन्तरविषये नोत्पदयतेः इन्द्रियाणां तत्र व्यापाराभावात् । ततश्च तेनेन्द्रियविज्ञानेन स्वविषयानन्तरविषयसहकारिणा प्रत्यक्षमुत्पदयते इति स्थितम् । नन्वेकस्मिन् क्षणे तस्योत्पदके सति न तत्र काचिदर्थक्रियावाप्यते- इति पुरुषार्थानुपयोगित्वात्प्रामाण्यं प्राप्नोति? उच्यतेः न मानसप्रत्यक्षेणास्मद्विघानामर्थक्रियावाप्तिर्भवति, अपि तु योगिनो वीतरागादेः । ते च तस्मिन् क्षणे मानसे चोपदर्शितं विषयं प्रतिपदय धर्मदेशनादिकमर्थक्रियामासादयन्तीत्यनवदयम् ।

अथ व्यापारवति चक्षुषि किमिति मानसोत्पत्तिलुप्यते? इत्याह- व्यापारवतीत्यादि । सर्वेन्द्रियाश्रितं ज्ञानं चक्षुर्विज्ञानमेव, न मानसस्योपत्तिरस्तीत्यभिप्रायः । ननु व्यापारवति चक्षुषि प्रथमे क्षण इन्द्रियविज्ञानं भवति, द्वितीये क्षणे मानसं भवति, यदयपि समानजातीययोर्युगपदुत्पत्तिर्नास्ति? इत्याह- इतरथेत्यादि । एवं मन्यते- व्याआरवति चक्षुषि किमितीन्द्रियविज्ञानं नोत्पदयते, द्वितीये क्षणे योग्यकरणे सति समानरूपम्, तेन तयोः कथमिन्द्रियविज्ञानव्यप्देशो न स्यादिति । ननु च यदि मानसं प्रत्यक्षमिन्द्रियविज्ञानाद्भित्रे प्रत्यक्षादिप्रमाणसिद्धं भवेत्, तदा तस्य लक्षणं यावता प्रमाणसिद्धमेव नास्ति? इत्यह- एतच्चे त्यादि । एवञ्जातीयकमिति । इन्द्रियविज्ञानसदृशम् । तदेतद्धर्मोत्तरेणागमसिद्धं दर्शयतामाचार्यज्ञानगर्भप्रभृतीनां मानससिद्धये यत्प्रमाणमुपन्यस्तं विकल्पोदयातिति, तद्भङ्गयावधारणादेव दूषितम् ।

तेरेवं व्यख्यातम्- व्यापारवति चक्षुषि इन्द्रियज्ञानम्त्पदयते, मानसं च, न शक्यते

१० सर्वचित्तचैत्तानामात्मसंवेदनन् ॥ (३)

प्रसङ्गदोषो निरस्तः । अन्धवधिरयोमनोविज्ञाने समनन्तरप्रत्यय इन्द्रियविज्ञानं नास्ति । तेन यदाहुः केचित्- मनोविज्ञानेन बाह्याविषयप्रत्यक्षमङ्गीक्रियते, एवमन्धबबिरादयभावप्रसङ्ग इति, तद्वचनमपास्तं वेदितव्यम् ॥ ९ ॥

सर्वचित्तचैतानामात्मसंवेदनमिति । सर्वे च ते चित्तचैताश्चेति सर्वचितचैत्ताः । स्वसंवेदनमाख्यातुमाह- सर्वचित्तेत्यादि । चित्तमर्थमात्रग्राहि । चैत्ता विशेषावस्थाग्राहिणः सुखादयः । सर्वे च ते चित्त्चैत्ताश्च सर्वचित्त वक्तुम्- द्वयोयुगपदुत्पत्तिर्नास्तीतिः यतः समानेन्द्रिययोर्नास्ति, न भिन्नेन्द्रिययोः, षण्णा युगपदुत्पत्तिः इति वचनात् । ततश्च द्वयोर्भिन्नेन्द्रिययोयुगपदुत्पत्तिः । न च तत्र भेदेनानुपलभ्यमानं मानस नास्तीति शक्यते वक्तुम्ः समानजातीयनीलविकल्पीदयात् । यदि च तन्न मानसं स्यात्, तत्पृष्ठभावी नीलविकल्पो न स्यादेव । समानाद्धि मानसात्मनो विकल्पस्योत्पत्तिर्भवति, न विजातीयादिन्द्रियविज्ञानादिति । यथा- देवदत्तेन नीले गृहीते न यज्ञदत्तस्य नीलनिश्चयो भवति, तथेन्द्रियविज्ञानसन्तनयो भिन्नत्वात् । न था मानसमनोविकल्पसन्तानयोर्भिन्नसन्तानत्वं द्वयोरप्यनिन्द्रियत्वात्, मनोव्यपदेशाच्च इति ।

अत्रोच्यते- यदुक्तं तावत्समानजातीयविकल्पोदयातिति, तत्सद्धौ यत्साधनं तदनेकान्तिकम्ः विजातीयादप्युत्पत्तिदर्शनादन्वयव्यतिरेकाभ्याम् । न च व्यापारवति चक्षुषि मानसस्योत्पत्तिरस्ति । न च द्वयोनीलविज्ञानयोरुत्पत्तिनिर्विकल्पकयोर्दृश्यते, अनुपलभ्यमानत्वात्तयोः । तेनेन्द्रियविज्ञानादेव विजातीयाद्विकल्पकस्योत्पत्तेनं दिकल्पस्योदयादिति मानससिद्धौ हेतुः । न च देवदत्तयज्ञदत्तयोरिव भिन्नसन्तानवर्तित्वं सविकल्पकनिर्विकल्पकयोः, येन भिन्नसन्तानान्निर्विकल्पकादुत्पत्तिनं स्याद्, एकसन्तानपातित्वात्तयोः । अवश्यं चाङ्गीकर्तव्या विकल्पस्योत्पत्तिः, येन वार्त्तिककार एवमाह-

तद्दृष्टावेव दृष्टेषु संवित्सामर्थ्यभाविनः ।

स्वव्यापारत्वकरणात्स्मरणात् ॥ () इत्यादि ।

सविच्चब्देन इन्द्रियविज्ञानमेवोच्यते, न मानसम् । ततश्च तत्सामर्थ्यभवि कथं विकल्पविज्ञानं स्मरणम्? विजातीयत्वात् । न च तत्र मानसं संविदुच्यते इन्द्रियविज्ञानस्य व्यवहारेण, प्रामाण्यस्य चिन्त्यत्वात्किञ्च इन्द्रियविज्ञानस्य कथं प्रामान्यम्, यदि स्वव्यापारं करोति? स्वव्यापारस्तु स्वविषये विकल्पजनकत्वं नाम, ततश्च विजातीयादपि विकल्पस्योदयादिति यत्किञ्चिदेतत् ॥ ९ ॥

ननु चित्तचैता इति वक्तव्ये सर्वग्रहणस्य व्यावर्त्याभावादपार्थकं तद्ग्रहणम्? सर्वेत्युक्त्या भ्रमज्ञानान्यपि परिगृह्यन्ते । तेषा च यत्स्वरूपप्रकाशनं तदात्मसंवेदनम् ।

सर्वे हि चित्तचैत्ताः प्रतीतिस्वभावत्वात्स्वरूपज्ञापका भवन्ति । यथा प्रदीपः प्रकाशस्वभावत्वादात्मनोऽपि प्रकाशको भवति, स्वरूपप्रकाशे च प्रदीपान्तरं नापेक्षतेः चैत्ताः । सुखादय एव स्फुटानुभवत्वात्स्वसंविदिताः, नान्या चित्तायस्था- इत्पेतदाशङ्कानिवृत्त्यर्थ सर्वग्रहणं कृत्तम् । नास्ति सा काचित्चित्तावस्था, यस्यामात्मनः संवेदनं न प्रत्यक्षं स्यात् ।

येन हि रूपेणात्मा वेदयते तद्रूपमात्मसवेदनं प्रत्यक्षम् ।

इह च रूपादौ वस्तुनि दृश्यमाने आन्तरः सुखादयाकारस्तुल्यकालं संवेदयते । न च गृहयमाणाकारो नीलादिः सातरूपो वेदयते- इति वक्तुं शक्यम्ः यतो नीलादिः सातरूपेणानुभूयते इति च निश्चीयते ।

यदि हि सातरूपोऽयं नीलादिरनुभूयते इति निश्चीयेत, स्यात्तदा तस्य सातादिरुपत्वम् । यस्मिन् रूपे प्रत्यक्षस्य साक्षात्कारित्वव्यापारो विकल्पेनानुगम्यते तत्प्रत्य्क्षम् ।

इत्याह- सुखादय एवेत्यादि । न केवलं प्रसिद्धाः सुखः दयश्चित्तर्चत्ताः स्वसंवेदना गृह्यन्तेः अन्येऽपि स्वसंवेदना इति तात्पर्यम् । अमुमेवार्थ दर्शयति- नास्तीत्यादिना । शुद्धस्य चित्तावस्थारूपस्यासंवेदितस्याभावमाहेति भावः । एवं ब्रुबता टीकाकृतानेन निरोधसमापत्त्यस्थायां शुद्धचित्ताभाव एवेत्यभिप्रायः प्रदर्शितः । तस्यामवस्थायां न काचित्चित्तावस्था संवेदयते यतः ।

ननु चित्तचैत्तानामात्मसंवेदर्न नास्ति, स्वात्मनि कारित्वविरोधादित्युक्तम्? इत्याह- येन हीत्यादि । यस्मादनेन बोधस्वरूपेणात्मस्वरूपं वेदयते, तत्प्रत्यक्षमात्मसंवेदनमुच्यते । एवं मन्यते- यथा प्रदीपः प्रकाशतया स्वरूपं निवेदयन्नात्मप्रकाशने न प्रदीपान्तमपेक्षते, तथा चित्तादिकमपि संविद्रूपतया स्वरूपं निवेदयदात्मसंवेदने न ज्ञानान्तरमपेक्षते । न च स्वात्मनि कारित्वविरोधः, यतो वास्तवकारकत्वाभावः । अत्रापि कल्पनया प्रकाश्च्यप्रकाशकत्वेन कर्मकर्तृभावः । तत्रापि नीलाकारोत्पत्तिरेव प्रकाशकत्वं ज्ञानस्य प्रदीपस्यापि प्राग्भावित्वमेव । प्रकाशत्वं कल्पनापरो व्यापारः । बोधस्य तु बोधरूपतयोत्पत्तिरेव स्वप्रकाशकत्वम् । ततश्च विज्ञानं बोधरूपतया प्रत्यक्षेणानुभूयमानं कथमपह्नुयते भवता परोक्षं विज्ञानमिति । एवं तावत्मौसांसकादीन् प्रति विज्ञानं संवेदनप्रत्यक्षनिर्दिष्टम् ।

यस्तु सांख्योऽपि बाह्यारूपाः सुखादयः इति मन्यते, तं प्रत्याह- इह च

११ मूतार्थभावनाप्रकर्षपर्यन्तजं योगिज्ञानं चेति ॥ (४)

तथा चित्तचैता अपि स्वरूपावबोधे ज्ञानान्तरं नापेक्षन्ते । ततश्च स्वसिद्धभावाः स्वयं प्रत्यक्षप्रमाणं भवन्ति ॥ १० ॥

भूतार्थभावनाप्रकर्षपर्यन्तजं योगिज्ञानमिति । भूतः= अविपरीतः अर्थ इति भूतार्थः । यथा चत्वारि आर्यसत्यानि । तस्य भावना भूतार्थभावना । भावना इति न च नीलस्य सातरूपत्वमनुगम्यते । तस्मादसातान्नीलादयर्थादन्यदेव सातमनुभृयते नीलानुभवकाले । तच्च ज्ञानमेव । ततोऽस्ति ज्ञानानुभवः । तच्च ज्ञानरूपदेवदनमात्मनः साक्षात्कारि निर्विकल्पकम्, अभ्रान्तं च । ततः प्रत्यक्षम् ॥ १० ॥

योगिप्रत्क्षं व्याख्यातुकाम आह- भतार्थेत्यादि । भूतः सद्भूतोऽर्थः । प्रमाणेन दृष्टश्च सद्भूतः । यथा- चत्वार्यायसत्यानि ।

भूतस्य भावना पुनः पुनश्चेतसि विनिवेशनम् । भावनाया प्रकर्षः भाव्यमानार्थभासस्य ज्ञानस्य स्फुटाभत्वारम्भः । प्रकर्षस्य पर्यन्तो यदा स्फुटाभत्वमीषदसम्पूर्ण भवति । यावद्धि स्फुटाभत्वपरिपूर्ण तावत्तस्य प्रकर्षगमनम् ।

रूपादौ दृश्यमान इत्यादि । एवं मन्यते- नीलरूपात्सातादिकमन्तरं संवेदनं प्रत्यक्षेणानुभूयमानं न बाहयेनाभिन्नरूपं जडरूपं च शक्यते व्क्तुमिति ।

अमुम्वार्थ न च गृह्यमाणाकार इत्यादिना दर्शयति ।

साक्षात्कारित्वव्यापार इति । प्रत्यक्षस्य व्यापारः । विकल्पः तत्पृष्ठभावी ।

न च नीलस्य सातरूपत्वमनुगम्यत इति । तत्पृष्ठभाविना विकल्पेन सातरूपो नीलादिनानुगम्यत इत्यर्थः । तेन नीलादिः सातस्वभावो न प्रत्यक्षसिद्धः इति साङ्खयं निराकुर्वता ग्राह्याग्राहकं सातादिरूपं भिन्नं प्रत्यक्षं प्रदर्शितम् । तेन युक्तमुक्तं कैश्चित्- ग्राहयाद्भिन्नं ग्राहकं न प्रत्यक्षेणानुभूयते इति । तेन किञ्चिन्नाम नापह्वु तं भवतीत्युक्तम् । तस्मात्सर्वाण्येतानि चित्तचैतानि स्वसंवेदनप्रत्यक्षाणीति ।

तेषां लक्षणं योजयति- तच्चेत्यादिना । तत्प्रत्यक्षं स्वसंवेदनरूपं निर्विकल्पकं तत्र शब्दादियोजनाभावात् । कुतः? शब्देन संकेताभावात् । अभ्रान्तं च तद्विज्ञानं स्वरूपेऽविपर्यस्तत्वात्, बाधकाभावाच्चेति ॥ १० ॥

भाव्यमानार्थाभासस्येति । क्षणिकत्वादिग्राहिणः । स्फुटाभत्वारम्भ इत्यादयतिशयस्योपक्रमात् । ततः परेणातिशयाभावाद्ज्ञानस्य । ततश्च क्षणिकत्वादिग्राहि मनोविज्ञानं भाव्यमानमीषदसम्पूर्णमन्तक्षणः प्रकर्षपर्यन्त उच्यते । तदेव दर्शयति अभ्यासः । तस्याह्प्रकर्षो भूतार्थभावनाप्रकर्षः । स्मृत्युपस्थानोष्मगतमूर्धक्षान्तयः । तस्य पर्यन्तो भूतार्थभावनाप्रकर्षपर्यन्तः । पर्यन्तस्तु अग्रधमाः । तस्माज्जायत इति भूतार्थभावनाप्रकर्षपर्यन्तजम् । योगः= समाधिः, स येषामस्ति ते योगिनः । तेषां ज्ञान योगिज्ञानम् ।

तथा हि समाधिवलप्रभवं भूत-भावि-वर्तमानानां यथायर्थ प्रकाशकं ज्योतिः अविभ्रममाविर्भवति । यथा देवाद्यष्ठानप्रभावेण सत्यानि स्वप्नज्ञानानि भूत-भावि- सम्पूर्ण तु यदा, तदा नास्ति प्रकर्षगतिः । ततः सम्पूर्णावस्थायाः प्राक्तनी अवस्था स्फुटाभत्वप्रकर्षपर्यन्त उच्यते । तस्मात्पर्यन्तात्यज्जातं भाव्यमानस्याथस्य सन्निहितस्येव स्फुटतराकारग्राहि ज्ञानं योगिनः प्रत्यक्षम् ।

तदिह स्फुटाभत्वारम्भावस्था भावनाप्रकर्षः । अभ्रकव्यवहितमिव यदा भाव्यामानं वस्तु पश्यति सा प्रकर्षपर्यन्तावस्था । करतलामलकवत्भाव्यमानस्यार्थस्य यद्दर्शन तद्योगिनः प्रत्यक्षम् । तद्धि स्फुटाभम् ।

यदा स्फुटाभत्वमित्यादिना । तदिह स्फुटाभत्वारम्भेत्यादिना उपसंहारच्यजेन योगिनो मनोविज्ञानस्यावस्थात्रयं दर्शयति- भावनाप्रकर्षावस्थैका, प्रकर्षपर्यन्तावस्था द्वितीया, भाव्यमानस्य करतलामलकवद्दर्शनं योगिनस्तृतीयावस्थेति ।
तदिह स्फुटाभमित्यादिना योगिनो मनोविज्ञानमपि स्फुटाभत्वादेवेन्द्रियविज्ञानवन्निविकल्पकं दर्शयति ।

निर्विकल्पानुबद्धस्य स्पष्टार्थः प्रतिभासते ।

इति न्यायाद्यदयपि मनोविज्ञानेन भावनाप्रकर्षपर्यन्तेन शब्दार्थो युगपद गृह्यते तथापि द्वयोः स्वरूपस्य सन्निहिततया गृह्यमाणत्वात्तद्ग्राहि विज्ञानं निर्विकल्पकमिति ।

ननु च मनोविज्ञानं भाव्यमानं वाच्यवाचकसंसृष्टं प्रतिभासते यथा, तथैव भाव्यमानं प्रकर्षपर्यन्तर्ज मनोविज्ञानं वाच्यवाचकप्रतिर्भासि स्फुटाभं भवति । तदा स्फुटाभत्वान्निर्विकलकोऽयमित्यनैकन्तिको हेतुरिति यच्चोदितं परेण, तत्परिहतु मुपक्रमते- विकल्पविज्ञानं हीत्यादिना । एव मन्यते- अय्द्यपि मनोविज्ञानं वाच्य वाचकसंसृष्टिप्रतिभासि, तथापि स्फुटाभत्वावस्थायां तदलीकाकारं वाच्यवाचकरूपमपैति । वित्तिरूपं तु तस्य निजम् । अतस्तदेव चिद्रूपं ज्ञानं स्फुटं भवति, न वाच्य वाचकाकारतयाः तयोरारपितरूपत्वात् । आरोपितरूपग्रहणस्फुटत्वमेव न स्यादिति नानेकान्तिकत्वं हेतोः, स्फुटाभत्वादित्यस्य । यदा तु विकल्पविज्ञानं शब्दसंसर्गयोग्यवस्तु गृह्णति, तदा संकेतकालदृष्टत्वेन तद्वस्तु गृह्णाति । तदसन्निहितं तदा विविधवस्तुविषयाणि अविभ्रमाण्युत्पद्यन्ते, तथैव योगबलेन ध्येयानां ज्ञानमतीतानागत दूर सान्तर अणुभूतविषयाणा प्रकाशकं ज्योतीरूपमुत्पद्यते । तस्मात्प्रत्यक्षप्रमाणत्वमिषय्ते ।

अत्र प्रयोगः- योगीश्वराणामेकाग्रचित्तानां ज्ञानं भूत भावि वस्तुविषयकं प्रमाणममेयभूत भाविवस्तुजातस्य अभ्रान्तोपदर्शनहेतुत्वाद्, भूतग्रहविशेषाविष्टुज्ञानवत् । यन्न प्रामाणिकं तन्न अमेयभूतभावि वस्तुजातस्याभ्रान्तोपदर्शनहेतु, यथाउन्मत्तज्ञानम् । अप्रापकस्यापि अमेय भूत भाविवस्तुजातस्य अभ्रान्तोपदर्शनहेतवेऽयोग्यमपकारकमपि प्रमाणं ष्यात् । दम्भमात्रेणामेयस्य पदार्थस्य अभ्रान्तोपदर्शनं हि न सम्भवति ।

तस्य व्याख्यानम्- यथा ग्रहविशेषावेशे भूत भाविवस्तुसमूहानुशासनम्, तथा योगिष्वपि भूतभावि वस्तु अनुशासनमभ्रान्तमुपलभ्यते । यथा हरीतक्यादि भाविरोगनिर्{आअ}रणसमर्थमिति चरकादिमिनीनामभ्रान्तमनुशासनमुपलभ्यते । यथा वा भगवत शाक्यमुनेरुपदेशे भाविदेशनिमित्त सत्योपलब्धि मातृचेट कालक्षय राजाशोकादि आशावन कश्मीरादेशागमा अविपरीता उपलभ्यन्ते ॥ ११ ॥

स्फुटाभत्वादेव च निर्विकल्पकम् । विकल्पविज्ञानं हि संकेतकालदृष्टत्वेन वस्तु गृह्णत्शब्दसंसर्गयोग्यं गृह्णीयात् । संकेतकालदृष्टत्वं च संकेतकालोत्पन्नज्ञानविषयत्वम् । यथा च पूर्वोत्पन्नं विनष्टं ज्ञानं सम्प्रति असत्, तद्वत्पूर्वविनष्टज्ञानमपि सम्प्रति नास्ति वस्तुनः । तदसद्रूपं वस्तुनो गृह्णद्, असन्निहितार्थग्राहित्वादस्फुटाभं विकल्पकम् । ततः स्फुटाभत्वान्नि विकल्पकम् ।

प्रमाणशुद्धार्थग्राहित्वाच्च संवादकम् । अतः प्रत्यक्षम्, इतरप्रत्यक्षवत् ।

योगः= समाधिः, स यस्यास्तीति योगी, तस्य ज्ञानं प्रत्यक्षम् । इति शब्दः परिसमाप्तिवचनः । इयदेव प्रत्यक्षमिति ॥ ११ ॥

तस्य संकेताभावात् । तच्च पूर्वदृष्टं पूर्वविज्ञानस्य विषयः । तच्च पूर्वविज्ञानं संप्रति शब्दसंसर्गयोग्यवस्तुग्रहणकाले नास्ति, क्षणिकत्वाज्ज्ञानस्य । तद्वत्पूर्वविज्ञानविषय त्वमपि सम्प्रतिनास्ति, विषयिणो ज्ञानस्याभावे विषयस्याप्यर्थस्य संकेतकालभावि नोऽभाव इत्यसन्निहितं संकेतकालभावि तद्वस्त्वारोप्य गृह्णद्विकल्पविज्ञानमस्फुटं भवतीति । स्फुटत्वं ततो निवृत्तं निर्विकल्पेऽवत्तिष्ठते इति व्याप्तिः सिध्यति । ततः स्फुटत्वान्निर्विकल्पकं योगिज्ञानमभ्रान्तं च प्रमाणेन शुद्धार्थग्राहित्वात्संवादकम् ।

इयदेवेति । इन्द्रियविज्ञानादारभ्य योगिज्ञानपर्यन्तं नैकमेवेन्द्रियप्रत्यक्षमित्यर्थः । नाप्यधिकम्ः अधिकस्यानुपलभ्यात् ॥ ११ ॥

१२ तस्य विषयः स्वलक्षणम् ॥

विषयविप्रतिपत्तिनिरासार्थमाह- तस्य विषयः स्वलक्षणमिति । प्रत्यक्षं प्रमाणं यदुक्तम्- तस्य विषयः स्वलक्षणमेव इति द्रष्टव्यम्, न तु सामान्यलक्षणं सामान्यस्यावस्तुत्वात्, प्रत्यक्षेण च वस्तुस्वरूपोपलम्भात् ॥ १२ ॥

तदेवं प्रत्यक्षस्य कल्पनापोढत्वाभ्रान्तत्वयुक्तस्य प्रकारभेदं प्रतिपादय विषयविप्रतिपत्ति निराकतुकाम आह- तस्येत्यादि ।

तस्य चतुविधस्य प्रत्यक्षस्य विषयो बोद्धव्यः स्वलक्षणम् । स्वम्= असाधारणं लक्षणं तत्त्वं स्वलक्षणम् । वस्तुनो ह्यसाधारणं च तत्त्वमस्ति सामान्यं च । तत्र यदसाधारणं तत्प्रत्यक्षस्य ग्राह्यम् ।

द्विविधो हि विषयः प्रमाणस्य- ग्राह्यश्च यदाकारमुत्पद्यते, प्रापणीयश्च यमध्यवस्यति । अन्यो हि ग्राह्यः, अन्यश्चाध्यवसेयः । प्रत्यक्षस्य हि क्षण एको ग्राह्यः । अध्यवसेयस्तु प्रत्यक्षबलोत्पन्नेनन्निश्चयेन सन्तान एव ।

सन्तान एव च प्रत्यक्षस्य प्रापणीयः, क्षणस्य प्रापयितुमशक्यत्वात् ।

तथानुमानमपि स्वप्रतिभासेऽनर्थेऽर्थाध्यवसायेन प्रवृत्तेरनर्थग्राहि ।

प्रकारभेदमिति । प्रत्यक्षं सामान्यं निर्विकल्पकमभ्रान्ताम् । तस्य प्रकारभेद इन्द्रियज्ञानादिः । तं प्रतिपाद्येत्यर्थः । विषयविप्रतिपत्तिमिति । इह कैश्चिन्मीमांसकाबिधिः प्रत्यक्षस्य सामान्यविशेषो द्वावपि विषयकल्पितौ । अनुमानस्य सामान्यमेव विषयः, न विशेषः । साङ्खयेन द्वयोरपि विशेषो विषय इष्टः सामान्यस्याभावात् । वेदान्तवादिना च सामान्यमेव विषयो द्वयोः, आत्मार्द्वततया सर्वस्यैकत्वाद विशेषे भ्रान्तत्वाद द्वयोरिति विप्रतिपत्तिः प्रत्यक्षादिविषये ।

स्वलक्षणमिति । अनेनेष्टं विषायं दर्शयति । तत्त्वमिति । अर्थक्रियाकारि । अनेन लक्षणशब्दो विवृतः । लक्ष्यते दाहाद्यर्थक्रिया येन तत्लक्षणम् । एतद्दर्शयति असाधरणमेव तत्त्वं वस्तुनो रूपम् । साधारणं तु तत्त्वमारोपितं रूपं पूर्वापरक्षणा नामभेदाव्यवसायात् । अतो वस्तुनो रूपद्वयम्- असाधारणं, सामान्यं च । तत्रा साधारणतत्त्वं प्रत्यक्षस्य ग्राहविषय इति दर्शयति- यदसाधारणमित्यादिना । ननु किमुच्यते ग्राह्यविषय इति, यावता किमन्यो विषयोऽस्ति प्रत्यक्षस्य? अस्तीत्याह- द्विविध इत्यादि । य्मध्यवस्यतीति । यं सन्तानरूपेण स्थितमर्थ तत्पृष्ठ भाविन विकल्पेन विन्श्चिनोति । ननु च कथं प्रत्यक्षस्य सन्तानो विषयः, यतो विकल्पस्यासौ विषयः? उच्यते उपचारात् । प्रत्यक्षव्यापारेण विकल्पेनाध्यवसेयतया विषयीकृतत्वात्प्रत्यक्षविषय इत्युच्यते उपचारादित्यदोषः । द्वैविध्यमेव स्फुटयतिअन्यो हीत्यादिना ।

१३ यस्यार्थस्य सन्निधानासन्निधानाभ्यां ज्ञानप्रतिभासभेदस्तत्स्वलक्षणम् ॥

स्वलक्षणं च कीदृशमवगन्तव्यमिति चेत्? तत्राह- यस्येति ।

सन्निधानम्= योग्यदेशे स्थितिः । असनिधानम्= अयोग्यदेशे स्थितिः, सर्वथा सर्वत्राभावश्च । सन्निधानं च असन्निधानं चेति सन्निधानासन्निधाने, ताभ्यां हि ज्ञाने विस्फुटत्वास्फुटत्वविशेषः क्रियते । सन्निधाने स्फुटप्रतिभासं ज्ञानमुत्पद्यते । असन्निधाने स पुनरारोपितोऽर्थो गृह्यमाणः स्वलक्षणेत्वेनावसीयते यतः, ततः स्वलक्षणमवसितं प्रवृत्तिविषयोऽनुमानस्य । अनर्थस्तु ग्राह्यः । तदत्र प्रमाणस्य ग्राह्य विषयं दर्शयता प्रत्यक्षस्य स्वलक्षणं विषय उक्तः ॥ १२ ॥

कः पुनरसौ विषयो ज्ञानस्य यः स्वलक्षणं प्रतिपत्तव्यः? इत्याहयस्यार्थस्येत्यादि । अर्थशब्दो विषयपर्यायः । यस्य ज्ञानविषयस्य । सन्निधानं निकटदेशावस्थानम्, असन्निधानं दूरदेशावस्थानम्, तस्मात्सन्निधानादसन्निधानाच्च ज्ञानप्रतिभासस्य ग्राह्यकारस्य भेदः स्फुटत्वास्फुटत्वाभ्याम् ।

तथानुमानमित्यादिना प्रसंगेनानुमानस्यापि विषयद्वैविध्य दर्शयति ।

स्वलक्षणत्वेनावसीयत इति । दाहाद्यर्थक्रियासमर्थत्वेनावसीयत इत्यर्थः । तदनेत्यादिना प्रमाणचिन्तायां ग्राह्याविषयदर्शनोऽयम्, न प्राप्यं विषयमिति दर्शयति, ग्राह्य एव विषये सर्वेषां विप्रतिपत्तेः ॥ १२ ॥

कः पुनरसौ विषय इत्यादि । एवं मन्यते- ननु प्रत्यक्षस्य स्वलक्षणं विषयः इत्युक्ते सामान्यमपि तस्य विषय इति तदप्स्वलक्षणं प्राप्नोतीति प्रश्नः । असन्निधानं दूरदेशावस्थानमिति ब्रुवता विनीतदेव स्य व्याख्या दूषिता । तेन ह्येवैव्याख्यातम्- सर्वेण रूपेण वस्तुनोऽभावोऽसन्निधानमिति । एतदसङ्गतं यस्माद्वस्तुनस्तत्राभावे ज्ञानमेव ह भवति । ततश्च ज्ञानप्रतिभासभेद इति न घटते ।

यो हीत्यादिनेतद्दर्शयति । अर्थक्रियासमर्थस्यैव सन्निधानासन्निधानाभ्यां स्फुटास्फुटप्रतिभासभेदः, न सामान्यस्येति । न सामान्यं स्वलक्षणमारोपितरूपस्य दूरासन्नाभ्यां सर्वदवाद्फुटत्वादिति । ननु सामान्यमेव दूरे गृह्यमाणमस्फुटप्रतिभासं न स्वलक्षणम्? इत्याह- सर्वाण्येवेत्याहि । सामान्यस्याविद्यमानत्वादिति प्रश्नः । अतस्तान्येव स्वलक्षणानि स्फुटास्फुटप्रतिभासीनि,न सामान्यम् ।

ननु यदि दूरासन्नाभ्यां स्वलक्षणं स्पष्टास्पष्टप्रतिभासं रूपद्वयं तस्य स्यात्, ततश्च निकटस्थितस्य प्रतिभासद्वयं स्यात्न च नियमः- दूरेऽस्पष्टम्, निकटे स्पष्टमिति? उच्यते न हि नोलं वस्तु स्पष्टरूपमस्पष्टं च, अपितु नीलं साध्यार्थक्रियासमर्थ

१४ तदेव परमार्थसत् ॥

च अस्फुटं ज्ञानमुत्पद्यते । ज्ञाने योऽर्थः प्रतिभासवैलक्षण्यं करोति स एव स्वलक्षणम् ॥ १३ ॥

अस्तु परमार्थदेव वस्तु प्रत्यक्षस्य विषयः, कस्मात्स्वलक्षणं विषय इति चेत्? तत्राह- तदेवेति ।

परमश्चासावर्थश्चेति परमार्थः । परम इति अकृत्रिमः । आरोपशून्य इति शेषः । परमार्थः सदिति परमार्थसत् । स्वलक्षणमेव हि परमार्थसत् । तेन न यथोक्तदोषः ॥ १४ ॥

यो हि ज्ञानविषयः सन्निहितः सन् स्फुटाभासं ज्ञानस्य करोति, असन्निहितस्तु योग्यदेशस्थ एवास्फुटं करोति, तत्स्वलक्षणम् । सर्वाण्येव हि वस्तूनि दूरास्फुटानि दृश्यन्ते, समीपे स्फुटानि । तान्येव स्वलक्षणानि ॥ १३ ॥

कस्मात्पुनः प्रत्यक्षविषय एव स्वलक्षणम्, तथाहि विकल्पविषयोऽपि वह्निर्दृश्यात्मक एवावसीयते? इत्याह- तदेव परमार्थसदिति । परमोऽर्थः अकृत्रिममनारोपितं रूपम्, तेनास्तीति परमार्थसत् । य एवार्थः सन्निघानासन्निधानाभ्यां स्फुटमस्फुटं च प्रतिभासं करोति परमार्थसन् स एव । स च प्रत्यक्षस्य विषयो यतः, तस्मात्तदेव स्वलक्षणम् ॥ १४ ॥

नीलपरमाणुद्वयम् । स्पष्टास्पष्टाकारौ चोपाधिकृतौ । यदा दूरे नीलं पश्यति तदालोकपरमाणूनां च रजःपरमाणुभिरभिभूतत्वात्स्पष्टप्रतिभासं ज्ञान भवति । निकटे तु आलोकपरमाणूनां बहुत्वान्न ते रजःपरमाणुभिरभिभूता इति स्पष्टप्रतिभासं ज्ञानं जायते । ज्ञानस्य स्पष्टाद्वारेणार्थस्य स्पष्टास्पष्टरूपे भवतः, न परमार्थत इति । सामान्यस्य तु ज्ञानद्वारेण न स्पष्टास्पष्टरूपे, तेन न तत्स्वलक्षणम् ॥ १३ ॥

ननु तस्य विषयः स्वलक्षणमित्युक्तम्, तत्र यदि प्रत्यक्षस्यैव विषयो भवति स्वलक्षणम्, नान्यस्येति, तदानुमानादेनं स्वलक्षणविषयः, किन्तु प्रत्यक्षस्यान्यो विषयस्यात् । अथ प्रत्यक्षस्य स्वलक्षणं विषयो नान्यः, तदानुमानस्य स्वलक्षणं विषयो न विषिद्ध इति स्वलक्षणविषयमनुमानं स्यादिति मन्यमानः पृच्छति- कस्मात्पुनरित्यादिना । नानुमानस्य । विकल्पस्य विषयो वास्तवो न भवति । कथं स्वलक्षणं भवति? इत्याह- तथा हीत्यादि । यद्यपि विकल्पस्य विषयो वस्तु न भवति, तथापि स एव स्वलक्षणम्, दाहाद्यर्थक्रियारूपेण व्यवसायादित्यभिप्रायः ।

तदेव परमार्थसदिति । एवं मन्यते- न ह्यारोपबलादवस्तु वस्तु भवति,

१५ अर्थक्रियः सामर्थ्यलक्षणत्वाद्वस्तुनः ॥

१६ अन्यत्सामान्यलक्षणम् ॥

कस्मात्स्वलक्षणमेव परमार्थसदिति चेत्? तत्राह अर्थेति ।

अर्थः= प्रयोजनम् । क्रिया= निष्पत्तिः । अर्थस्य क्रिया अर्थक्रिया । प्रयोजन निष्पत्तिरिति शेषः । तस्यां सामर्थ्यमर्थक्रियासामर्थ्यम् । अर्थक्रियासामर्थ्य लक्षणं= स्वभावो यस्य वस्तुनस्तदर्थक्रियासामर्थ्यलक्षणम् । तस्य भावः अर्थक्रियासामर्थ्य लक्षणत्वम्, तस्मातर्थक्रियासामर्थ्यलक्षणत्वात् ।

एवं यदर्थक्रियासमर्थ तदेव वस्तु इति स्वलक्षणेनैवार्थक्रिया- इत्युपदर्शितं भवति । तस्मात्स्वलक्षणमेव परमार्थसत् ॥ १५ ॥

कस्मात्पुनस्तदेव परमार्थसत्? इत्याह- अर्थेत्यादि । अर्थ्यत इति अर्थः हेय उपादेयश्च । हेयो हि हातुमिष्यते, उपादेयश्चोपादातुम् । अर्थस्य प्रत्योजनस्य, क्रिया निष्पत्तिः, तस्यां सामर्थ्य शक्तिः, तदेव लक्षणं रूपं यस्य वस्तुनः, तदर्थक्रियासामर्थ्यलक्षणम्, तस्य भावस्तस्मात् ।

वस्तुशब्दः परमार्थपर्यायः । तदयमर्थः- यस्मादर्थक्रियासमर्थः परमार्थसदुच्यते, सन्निधानासन्निधानाभ्यां च ज्ञानप्रतिभासस्य भेदकोऽर्थोऽर्थक्रियासमर्थः, तस्मात्स एव परमार्थसत् । तत एव हि प्रत्यक्षविषयादर्थ क्रिया प्राप्यते, न विकल्पविषयात् । अत एव यदयपि विकल्पविषयो दृश्य इवावसीयते, तथापि न स दृश्य एव ततोऽर्तह्क्रियाया अभावात्, दृश्याच्च भावात् । अतस्तदेव स्वलक्षणम्, न विकल्पविषयः ॥ १५ ॥

अन्यदित्यादि । एतस्मात्स्वलक्षणात्यदन्यत्-स्वलक्षणं यो न सर्वस्य शशविषाणादेर्वस्तुत्वप्रसङ्गात् । वस्तु तदवानुपचरितस्वरूपम्, अतस्तदेव वलक्षणम् ॥ १४ ॥

ननु विकल्पविषयोऽप्यर्थः परमार्थसन्नेव । इदमेव परमार्थसत्त्वं यदुत ज्ञाने प्रतिभासनम् । सामान्यपि ज्ञाने प्रतिभासते, तदपि परमार्थसदिति मःयमानः पृच्चति- कस्मात्पुनस्तदेव परमार्थसदिति । अर्थ्यत इत्यादिना अर्थक्रियासामर्थ्य लक्षणत्वपदस्यार्थ विवृणोति । तदयमथ इत्यादिना समुदायस्य पदानां तात्पर्य दर्शयति । एवं मन्यते- यस्मादर्शक्रियासमर्थ परमार्थसत्, तस्मान्न सामान्यं परमार्थसत्, दाहादयर्थक्रियायामनुपयोगात् । न च प्रतिभासवलात्तत्त्वमसद्रूपस्या प्यविदयाबलप्रतिभासनात् । न च ज्ञानजनकत्वेनार्थक्रियाकारित्वम्, तस्य ज्ञानस्य विनापि सामान्येन वासनाबलात्सामान्यैषयोत्पत्तेरिति ॥ १५ ॥

एतस्मादित्यादिना अनुमानविषयं दर्शयति । तथा हीत्यादिना प्रत्यक्षविषक्येण

१७ सोऽनुमानस्य विषयः ॥

अन्यत्सामान्यलक्षणमिति । उक्तस्वलक्षणस्वभावाद्यदन्यत्प्रमेयं तदेव सामान्यलक्षणम् । यस्यार्यस्य सन्निधानेऽपि च ज्ञानमेकरूअमेव भवति इति ॥ १६ ॥

सोऽनुमानस्य विषय इति । सामान्यलक्षणमनुमन्नस्यैव विषयः, अन्वयव्यतिरेकवत्त्वेन व्याप्तत्वात् ।

अन्नानवसरेऽपि वचनबाहुल्यं स्यात्? इत्यासह्ङ्कया सामान्यलक्षणमुक्तम् । तथा हि- अन्न स्वलक्षणाभिधानावसरे अवतरणेन तद्विपरीतलक्षणस्य ज्ञानं सुकरमिति सामान्यलक्षणमुक्तम् ।

भवति ज्ञानविषयः, तत्सामान्यलक्षणम् । विकल्पज्ञानेनावसीयमानो सन्निधानासन्निधाभ्यां ज्ञानप्रतिभासमात्रं न भिनत्ति । तथाहि- आरोप्यमाणो वह्निरारोपादस्ति । आरोपाच्च दूरस्थो निकटस्थश्च । तस्य समारोपितस्य सन्निधानादसन्निधानाच्च ज्ञानप्रतिभासस्य न भेदः स्फुटत्वेन, अस्फुटत्वेन वा । ततः स्वलक्षणादन्य उच्यते । सामान्येन लक्षणं सामान्यलक्षणम् । साधारणं रूपमित्यर्थः । समारोप्यमाणं हि रूपं सकलवह्निसाधारणम् । ततः सामान्यलक्षणम् ॥ १६ ॥

तच्चानुमानस्य ग्राह्यं दर्शयितुमाह- सोऽनुमानस्येत्यादि । सोऽनुमानस्य विषयो ग्राह्यरूपः । सर्वनाम्नोऽभिधेयवत्लिङ्गपरिग्रहः ।

सामान्यलक्षणमनुमानस्य विषयं व्यख्यातुकामेनायं स्वलक्षणस्वरूपाख्यानग्रन्थः आवतनीयः स्यात् । ततो लाघवार्थ प्रत्यक्षपरिच्चेद एवानुमानविषय उक्तः ॥ १७ ॥

सह विकल्पविषयस्य सामान्यस्य विसदृशत्वं दर्शयति । कथं पुनर्विकल्पस्य विषयो भवति सामान्यम्? इत्याह- समारोप्यमाणमिति । सकलवह्निसाधारणतया सामान्याकारस्य संवेदयत्वादित्यभिर्पायः ॥ १६ ॥

सोऽनुमानस्य विषयो ग्राह्यरूप इति । ग्राह्यं रूपमस्येति बहुवीहिः । अत्रापि ग्राह्यापेक्षया विषयो व्यवस्थापितः, न प्राप्यापेक्षया तत्राविप्रत्तिपत्तेः । ननु सामान्यमिति न्पुंसकलिङ्गं प्रस्तुत्य स इत्यनेन पुंल्लिगे परामर्शः कथम्? इत्याह- सर्वनाम्न इत्यादि ।

कस्मात्पुनः प्रत्यक्षपरिच्चेद अनुमानस्य विषयविप्रतिपत्तिनिराकृता वार्तिककारेण, नानुमानपरिच्चेदे? इत्याह- सामान्यलक्षणमित्यादि । एवं मन्यते-

१८ तदेव च प्रत्यक्षं ज्ञानं प्रमाणफलम् ॥

सोऽनुमानस्य विषय इति हि स्वल्पवचनेनोपन्यासः । अन्यथा अनुमानविषय प्रदर्शनार्थ सर्वस्याप्येतद्वचनस्योच्चारणमावश्यकं स्यात् ॥ १७ ॥

फलविप्रतिपत्तिनिरासार्थमाह- तदेव चेति ।

अयं चास्य सम्बन्धः- यदि प्रत्यक्षस्य प्रमाणत्वमिष्टं तर्हि रूपादिप्रमेयपरीक्षणलक्षणेन प्रमाणफलेन भवितव्यम् । यथा कुठारिकया वृक्षादिचेदने द्विखण्डीकरणं फलं दृश्यते, इत्यत आह- तदेव प्रत्यक्षज्ञानं प्रमाणफलमिति । तदेव प्रत्यक्षज्ञानं प्रमाणफलम्, प्रत्यक्षात्प्रत्यक्षज्ञानादतिरिकतं फलं नास्तीति ॥ १८ ॥

विषयविप्रतिपत्ति निराकृत्य फलविप्रतिपत्ति निराकर्तुमाह- तदेवेति । यदेवानन्तरमुक्तं प्रत्यक्षं ज्ञानं तदेव प्रमाणस्य फलम् ॥ १८ ॥

यदयनुमानपरिच्चेदेऽनुमानस्य विषयो व्यवस्थाप्येत तदा तत्रैवं ग्रन्थः कर्तव्यः स्यात् । कोऽसावनुमानस्य विषयः? प्रत्यक्षविषयादन्यः । प्रत्यक्षस्यैव कोऽसौ विषयः? यदतेक्षयायमन्यः । पुनर्वक्तव्यं स्वलक्षणमित्येवमावत्त्यमाने गौरवं स्यात् । ततो लाघवार्थमत्रैव कथितमिति ॥ १७ ॥

फलविप्रतिपत्ति निराकर्तुमाहेति । कथं प्रमाणस्य फले विप्रतिपत्तिः । तथा हि- प्रमाणं कारणं प्रमितिक्रियां विना न भवति, यथा- चित्तिं विना न परशुः । ततश्च प्रमाणात्कारणात्पृथक फलेनार्थसम्प्रवृत्तिलक्षणेन भवितव्यं स्वात्मनि क्रियाकरणत्वविरोधात् । न हि परशुरेव चित्तिरिति । अतो मीमांसकेन इन्द्रियं प्रमाणमिन्द्रियार्थसन्निकर्षः, मन इन्द्रियसन्निकर्षः, आत्मन सन्निकर्षश्चेष्टः । सर्वे सन्निकर्षाश्चेति । तदुक्तम्-

यद्वेन्द्रियं प्रमाणं स्यात्तस्य चार्थेन सङ्गतिः ।
मनसो विन्द्रियैर्योग आत्मना सर्व एव वा ॥

इत्यर्थावबोधः फलम्, तत्र व्यापाराच्च प्रमाणतेति ।
तदा ज्ञान फलं तत्र व्यापाराच्च प्रमाणता ।
व्यापारो न यदा तेषां तदा नोत्पदयते फलम् ॥

था पूर्व पूर्व प्रमाणम्, उत्तरमुत्तरं फलमिति चोक्तम् ।
तत्रापि बुद्धिजन्म प्रमाणम्, प्रवृत्यादिकं फलमिति ॥
तथा नैयायिकादयो प्येवभूतमेव प्रमाणफलभिच्चन्ति, इदं त्वधिकम्- विशेषण

१९ अर्थप्रतीतिरूपत्व त् ॥

प्रत्यक्षस्यैव फलरूपत्वं कस्मात्? इत्याशङ्कायामाह- अर्थप्रतीतिरूपत्वादिति । प्रतीतिः=निश्चयः । रूपम्=स्वभावः । तदस्ति यस्य प्रत्यक्षस्य तदेव अर्थप्रतीतिरूपम्, तस्य भावः अर्थप्रतीतिरूपत्वम्, तस्मातर्थप्रतीतिरूपत्वात् ।

कथं प्रमाणफलम्? इत्याह- अर्थप्रतीतीत्यादि । अर्थस्य प्रतीतिः अवगमः, सैव रूप यस्य प्रत्यक्षज्ञानस्य तदर्थप्रतीतिरूपम्, तस्य भावस्तस्मात् ।

एतदुक्तं भवति- प्रापकं ज्ञानं प्रमाणम् । प्रापणशक्तिश्च न केवला दर्थाविनाभावित्वाद्भवतिः बीजादयविनाभाविनोऽप्यंकुराद्रप्रापकत्वात् ।

तस्मात्प्राप्यादर्थादुत्पत्तावप्यस्य ज्ञानस्यास्ति कश्चिदवश्यकर्तव्यः प्रापकव्यापारो येन कृतेनार्थः प्रापितो भवति ।

स एव च प्रमाणफलं यदनुष्ठानात्प्रापकं भवति ज्ञानम् । उक्तं च पुरस्तात्- प्रवृत्तिविषयप्रदर्शनमेव प्रापकस्य व्यापारो नाम ।

ज्ञानं प्रमाणम्, विशेष्यज्ञानं फलमिति । यथोक्तं कुमारिलेन-

प्रमाणफलते बुद्धयोर्विशेषणविशेष्ययोः ।
यदा तदापि पूर्विक्ता भिन्नार्थत्वनिवारणा ॥ इति ॥

तदेवा विप्रतिपत्तिः, तां निराकर्तुमाह- तदेवेति ॥ १८ ॥

कथं पुनरर्थपरिचित्तिरूपं प्रमाणस्य फलम्, नार्थप्रवर्तकादि विज्ञानम्? इत्याह- अर्थस्येत्यादि । एवं मन्यते- येन फलेन निष्पन्नेनानन्तरेण प्रमाणस्य करणत्वव्यपदेशो भवति तदेव फलम्, नान्यत् । अर्थपरिच्चेदकत्वेन विज्ञान उत्पन्ने स्वविषयनिश्चयजनकत्वे सति समाप्तो ज्ञानस्य पर्माणव्यापार इति । अर्थपरिच्चित्तिरेव फलम्, न प्रवर्तकादिकम् । अमुमेवार्थ दर्शयति- एतदुक्तमित्यादिना ।

प्रमाणादर्शपरिच्चित्तिरूपस्य फलस्य भिन्नत्वं दर्शयितुं प्रमाणज्ञानस्य स्वरूपं प्राग्दशितमपि पुनरपि दर्शयति- प्रापकं ज्ञानमित्यादिना । एवं मन्यते- यस्मात्प्रापकं विज्ञानं प्रमाणमिष्टमस्माभिः, तस्मात्सा च प्रापणशक्तिरर्थपरिच्चित्तिरेव, नार्थादुत्पत्त्यादिकमिति । एतदेव दर्शयति- प्रापणशक्तिरित्यादिना । कस्मादर्थाविनाभावित्वमेव प्रापणशक्तिर्न भवति? इत्याह- बीजादित्यादि । यतो बीजादेः सकाशादकुरस्यार्थावभासित्वोत्पत्तिरस्ति, न च बीजादिकं प्रापयति, खलबिलान्तर्गतस्यापि बीज्स्यांकुरोत्पादक्त्वादित्यभिप्रायः । तस्मादित्यादिना ज्ञानस्यार्थावसायात्प्राप्यादुत्पत्तावित्युक्तम् ।

२० अर्थसारूप्यमस्य प्रमाणम् ॥

२१ तद्वशादर्शप्रतीतिसिद्धेरिति ॥

तदेवं प्रमाणप्रमेयव्यवहारारोपेऽर्थनिश्चयलक्षणं फलं भवति । ज्ञानमर्थविनिश्चयनस्वभावम् । प्रत्यक्षमेव फलस्वभावमिष्टम् । तस्मात्प्रत्यक्षस्यार्थनिश्चयस्वभवत्वात्प्रत्यक्षमेव फलस्वभावं स्यादिति वेदितव्यमित्युक्तं भवति ॥ १९ ॥

यदि प्रत्यक्षमेव फलस्वभावम्, तर्हि प्रमाणं नाम किं वेदितव्यम्? इत्याशङ्कायामाह- अर्थेत्यादि ।

सारूप्यम्= सादृश्यम् । अस्येति प्रत्यक्षस्य । अर्थाकारं यत्प्रत्यक्षं तदेव प्रमाणमिति शेषः ॥ २० ॥

अर्थसारूप्यमेव कथं प्रमाणम्? इत्याशङ्कयाह- तद्वशादर्तप्रतीतिसिद्धेरिति ।

तदेव च प्रत्यक्षमर्थप्रतीतिरूपमर्थप्रदर्शनरूपम् । अतरतदेव प्रमाणफलम् ॥ १९ ॥

यदि तर्हि ज्ञानं प्रमितिरूपत्वात्प्रमाणफलम्, कि तर्हि प्रमाणफलम्? इत्याह- अर्थेत्यादि । अर्थेन सह यत्सारूप्यं सादृश्यमस्य ज्ञानस्य तत्प्रमाणम् । इह यस्माद्विषयात्विषयात्विज्ञानमुदेति तद्विषयसदृशं तद्भवति यथा- नीलादुत्पदयमानं नीलसदृशम् । तच्च सारूप्यम्= सादृश्यम्, आकार इति, आभास इत्यपि व्यपदिश्यते ॥ २० ॥

ननु च ज्ञानादव्यतिरिक्तं सादृश्यम्, तथा च सति तदेव ज्ञानं प्रमाणं स एवेति । प्रमाणव्यापारः । यद्येवं प्रापणशक्तिः फलम्, तर्हि नार्थपरिच्चित्तिरूपं फलम्, प्रापकत्वाद्, अर्थपरिच्चित्तेरन्यत्वादित्याह- उक्तं च पुरस्तादियादि । यदेव प्रापकं ज्ञानं तदेव प्रवर्तकम्, अर्थप्रदर्शकं च तदेवेति पुरस्तात्संवर्णितं प्रमाणस्वरूपचिन्तायाम् । ततश्च अर्थप्रदशेकमेव प्रापकम्, तस्य च प्रापणशक्तिरर्थपरिच्चित्तिरेव तावता परिसमाप्तत्वात्प्रमाणव्यापारस्येति स्थितम् । प्रमाणस्य फलमर्थपरिच्चित्तिरूपमेव, नान्यदिति ॥ १९ ॥

यदि ज्ञानस्य प्रमितिरूपं फलम्, ज्ञानात्तर्हि प्रमाणेन भिन्नेन भवितव्यमिति मन्यमानः पृच्चति- यदि तर्हीत्यादिना । अर्थसारूप्यमस्य प्रमाणमिति । एतस्य विवरणम्- अर्थेन यत्सारूप्यमित्यादि । एवं मन्यते- अर्थसारूप्यं विज्ञानस्य प्रमाणम्, नैन्द्रियादिकमिति । विषयादुत्पद्यमानं विषयसदृशं भवतीति तदेव सारूप्यं सादृश्यमुक्तमिति दर्शयति- इह यस्मादित्यादिना ॥ २० ॥

ननु चेत्यादि । एवं मन्यते परः- इन्द्रियादिकं प्रमाणमुक्तमस्माभिः, तदेव किं यस्मादर्थमारूप्यवशाद्निश्चयः, तस्मात्तत्सारूप्यमेव प्रमाणम् । एवं हि नीलस्य प्रतीतिरियं न पातस्य इति व्यवस्थाप्यते । तत्र च यो हेतुः स एव प्रमाणत्वेनेष्ठः ।

इन्द्रियस्य त्वेतद्वयवस्थितिकरणे नास्ति सामर्थ्यम् । तथा हि तच्चेन्द्रियं सर्वस्यैव ज्ञानस्य साधारणं कारणमिति प्रत्येकनिश्चयव्यवस्थितौ कथं समर्थ स्यात् । यदि तदेव च प्रमाणफलम्, न चैकं वस्तु साध्यं साधनं चोपपद्यते, तत्कथं सारूप्यं प्रमाणम्? इत्याह- तद्वशादिति । तदिति सारूप्यम्, तस्य वसात्सारूप्य समर्थ्यात् । अर्थस्य प्रतीतिः अवबोधः, तस्याः सिद्धिः । तत्सिद्धेः कारणात् । अर्थस्य प्रतीतिरूपं प्रत्यक्षं विज्ञानं सारूप्यवशात्सिध्यति, प्रतीतं भवती त्यर्थः । नीलानिर्भासं हि विज्ञानं यतः तस्मात्नीलस्य प्रतीतिरवसीयते । येभ्यो हि चक्षुरादिभ्यो विज्ञानमुत्पद्यते, न तद्वशात्तज्ज्ञानं नौलस्य संवेदनं शक्यतेऽवस्थापयितुम् । नीलसदृशं त्वनुभूयमानं नीलस्य संवेदनमवस्थाप्यते ।

न चात्र जन्यजनकभावनिबन्धनह्साध्यसाधनभावः, येनैकस्मिन् वस्तुनि विरोधः स्यात् । अपितु व्यवस्थप्य-व्यवस्थापकभावेन । तत एकस्य वस्तुनः बौद्धेनापि नेष्यते, येनार्थसारूप्यं प्रमाणमितिप्यते । किञ्चि- अर्थसारूप्ये प्रमाणेऽङ्गी क्रियमाणे प्रमाणफलयोरैक्यान्नैकं कर्म करणं भवतीति यच्चोदितं तत्तदवस्थमेवेति । तद्वशादित्यादि । एवं मन्यते- प्रमाणं करणं च साधकतमं कारकाणाम् । प्रकृष्टोपकारकं ज्ञानस्य सारूप्यमेव तद्वशादर्थाधिगतिसिद्धेः, नेन्द्रियादिकम्, अर्थसारूप्याभावेऽर्थप्रतीतेरभावादिति । अमुमेवार्थ दर्शयति- अर्थस्य प्रतीतिरवबोध इत्यादिना । नीलनिर्भासं हीत्यादिना । नीलाकारं नीलविज्ञानस्य नीलावगमव्यवस्थाया निमित्तं दर्शयति । यस्मान्नीलाकारे विज्ञानस्यावगते नीलप्रतीतिअर्वगम्यते, तस्मादर्थाकारः प्रमाणं करणधर्मत्वादस्येति । ननु च चक्षुरादिभ्यो विज्ञानमुत्पद्यते विशिष्टार्थ मवगच्चत्येव तत्कथमर्थाकारस्य प्रकृष्टोपकारकत्वम्? इत्याह- येभ्यो हीत्यादि । तत्कथयति- चक्षुरादीनामपि विज्ञानोत्पत्तौ निमित्ताभावोऽस्ति, किन्तु तेषां सर्वज्ञानोत्पत्ति प्रति निमित्तत्वान्न प्रतिनियतार्थव्यवस्थापनस्य निमित्तत्वम् । अर्थाकारस्य त्वसाधारणत्वात्प्रतिनियतार्थव्यवस्थापनं प्रति निमित्तत्वमिति तदेव प्रमाणम् ।

यत्तत्परेण चोदितम्- प्रमाणफलयोरैक्यात्र चैकं साध्यं साधन वा स्यादिति?तत्परिहरति- न चात्र जन्यजनकेत्यादिना । द्यादयमेकस्य विरोधो यद्ययं जन्यजनकभावः प्रमाणफलयोः साध्यसाधनभावः, कि तर्हि? व्यवस्थाप्यव्यवस्थापकभावः । कुतः? ज्ञानाधिकारात् ।यस्माज्ज्ञाने विशिष्ट उत्पन्ने प्रतिपत्त्रा विशिष्ठोऽर्थो ज्ञापय्ते,

अत्दिन्द्रियं नीलज्ञानस्यैव जनकं स्यात्, पीतादिज्ञानं च न जनयेत्तदैव व्यवस्थाय समर्थ स्यात् । सन्निधानमपि साधारणत्वादिन्द्रियवन्न व्यवस्थितिहेतुः ।

किञ्चिद्रूपं प्रमानम्, किञ्चित्प्रमणफलं न विरुध्यते ।

व्यवस्थापनहेतुर्हि सारूप्यं तस्य ज्ञानस्य । व्यवस्थाप्यं च नीलसंवेदनम् ।

व्यवस्थाप्य- व्यवस्थापकभावोऽपि कथमेकस्य ज्ञानस्य इति चेत्? उच्यते नीलसदृशमनुभूय तद्विज्ञानं यतो नीलस्य ग्राहकमवस्थाप्यते निश्चय प्रत्ययेन, तस्मात्सारूप्यमनुभूतं व्यवस्थापनहेतुः । निश्चयप्रत्ययेन च तज्ज्ञानं नीलसंवेदनमवस्थाप्यमानं व्यवस्थाप्यम् । तस्मादसारूप्यवव्यावृत्त्या सारूप्यं ज्ञानस्य व्यवस्थापनहेतुः । अनीलबोधवृत्त्या च नीलबोधरूपत्वं व्यवस्थाप्यम् ।

व्यवस्थापकश्च विकल्पप्रत्ययः प्रत्यक्षबलोत्पन्नो द्रष्टव्यः । न तु निर्विकल्पकत्वात्प्रत्यक्समेव नीलवोधरूपत्वेनात्मानमवस्थपयितुं शक्नोति । निश्चयप्रत्ययेनाव्यवस्थापितं सदपि नीलबोधरूपं विज्ञानमसत्कल्पमेव । तस्मान्निश्चयेन नीलबोधरूपं व्यवस्थापितं विज्ञानं नीलबोधात्मना सद्भवति ।

तस्मादश्यवसायं कुर्वदेव प्रत्यक्षं प्रमाणं भवति । अकृते त्वध्यवसाये नीलबोधरूपत्वेनाव्यवस्थापितं भवति विज्ञानम् । तथा च प्रमाणफलमर्था न त्वर्थ उत्पाद्यते । तथाहि- नीलाकारे विज्ञान उत्पन्न विशिष्टज्ञानं व्यवस्थापयति, नीलज्ञानमनुभूतमिति न ज्ञानमुत्पादयति । किञ्चिदित्यादिनैकस्यैव विज्ञानस्यांशाशितया व्यवस्थाप्यव्यवस्थापकत्वं दशयति ।

ननु च निर्विकल्पकं ज्ञानं विशिष्टाकारमुत्पन्नं कथं तस्य समानकाल एवांशांशितया व्यवस्थाप्य व्यवस्थापकभावो भवतीति मन्यमानः पृच्चति- व्यवस्थाप्यव्यवस्थापकेत्यादिना । सदृशमिति । एवं मन्यते- न विज्ञानमेव निर्विकल्पकमात्मानं व्यवस्थापयति, किन्तु प्रत्यक्षपृष्ठभाविना निश्चयप्रत्ययेन व्यवस्थाप्यते । तत्र चार्थाकारस्य व्यवस्थापनहेतुत्वमसारूप्यव्यावृत्तिभेदेनार्थबोधतया व्यवस्थाप्यस्योत्पादेन वेदनस्य तु व्यवस्थाप्यत्वं निश्चयप्रत्ययतु व्यवस्थापक इति । अमुमेवार्थ दर्शयति- तस्मादि त्यादिना । ननु नीलज्ञानम्त्पन्न स्वसंवेदनप्रत्यक्षसिद्धं यदि निश्चयवशात्प्रमाणव्यवस्था लभ्यते, तदा युप्यते वक्तुम्- निश्चयप्रत्ययेन व्यवस्थाप्यते इति, यावता निश्चयप्रत्ययं विनापिप्रमाणं भवत्येव? इत्याह- निश्चयप्रत्यसेनाव्यवस्थापितमित्यादि सारूप्यं तु असाधारणत्वात्प्रत्येकनिश्चयव्यवस्थितिहेतुर्भवति । तथाहि नीलविज्ञानस्य यो नीलाकारः स पीतादिज्ञाने नास्तीति व्यवस्था स्यात् । यस्माद्नीलाकारत्वादयं नीलः इत्ययेव प्रतीतिः न तु पीतः इति बुद्धिः, तस्मादर्थसारूपमेव प्रमाणमिति ॥ २१ ॥

इति न्यायबिन्दुविस्तरटीकायां शिष्यहितायां प्रथमः प्रत्यक्षपरिच्छेदः ॥

धिगमरूपमनिष्पन्नम् । अतः साधकतमत्वाभावात्प्रमाणमेव न स्याज्ज्ञानम् ।

हनितेन त्वध्यवसायेन सारूप्यवशान्नीलबोधरूपे ज्ञाने व्यवस्थाप्यमाने सारूप्यव्यवस्थापनहेतुत्वात्प्रमाणं सिद्धं भवति ।

यद्यवम्, अध्यवसायसहितमेव प्रत्यक्षं प्रमाणं स्यात्, न केवलम्- इति चेत्? नैतदेवं यस्मात्प्रत्यक्षबलोत्पन्नेनाध्यसायेन दृश्यत्वेनार्थोऽवसीयते, न उत्परेक्षितत्वेन । दर्शनं च अर्थसाक्षात्करणाख्यं प्रत्यक्षव्यापारः । उत्प्रेक्षणं तु विकल्पव्यापारः । तथाहि- परोक्षमर्थ विकल्पयन्त उत्प्रेक्षामहे, न तु पश्याम इति उत्प्रेक्षात्मकं विकल्पव्यापारमनुभवादू अध्यवस्यन्ति । तस्मात्स्वव्यापारं तिरस्कृत्य प्रत्यक्षव्यापारमादर्शयति- यत्रार्थ प्रत्यक्षपूर्वकोऽध्यवसायः, तत्र प्रत्यक्षं केवलमेव प्रमाणमिति ॥ २१ ॥

आचार्यधर्मोत्तरविरचितायां न्यायबिन्दुटीकायां प्रथमः प्रत्यक्षपरिच्छेदः समाप्तः ॥


दर्शयति । यावत्प्रत्यक्षं स्वविषये स्वात्मनि निश्चयं नित्पादयति, न तावत्प्रमाणं भवति आत्मव्यापारानिर्वर्तनात् । ततश्चाध्यवसायं कुर्वदेव प्रमाणमिति निश्चयमप्र्क्षते । ननु यदि निश्चयं विना प्रमाणमेव न भवति प्रत्यक्षं विकल्पसहितम्, तर्हि प्रत्यक्षं प्रमाणं स्यात्, न केवलं तदन्वयव्यतिरेकादिति मन्यमानश्चोदयति- यदयेवमित्यादिना । नैतदेवम्..............


द्वितीयः स्वार्थानुमानपरिच्छेदः

१ अनुमानं द्विधा ॥

२ स्वार्थ परार्थ च ॥

३ तत्र स्वार्थ त्रिरूपात्लिङ्गाद्यदनुमये ज्ञानं तदनुमानम् ॥

प्रत्यक्षानुमानभेदेन सम्यग्ज्ञानं द्विविधमुक्तम् । तत्र प्रत्यक्षं सप्रपञ्चं कृतव्याख्यानम् । अनुमानकथनानुज्ञार्थमाह- अनुमानं द्विधेति । अनुमानस्य प्रकारौ द्वौ वेदितव्यौ । ज्ञानाभिधानात्मकयोः स्वपरार्थानुमानयोः सामान्यलक्षणं किमपि नास्ति, कथं तावत्पूर्वं न लक्षणमभिदीयेत? विभागेन च प्रतिनियतं लक्षणं सुखेन वक्तु शक्यम् । तस्मात्पूर्वं विभाग उक्तः ॥ १ ॥

स्वार्थमिति । स्वार्थ परार्तह्चेति विशेषेण द्वैविध्यमेवोपदर्श्यते । अत्र अर्थ इति प्रयोहनम् । स्वप्रयोजनं परप्रयोजनं चेति शेषः । येनात्मनः प्रतीतिस्तत्स्वार्थम्, येन चापरस्य प्रतिपत्तिस्तत्परार्थमवगन्तव्यमिति ॥ २ ॥

एवं प्रत्यक्षं व्याख्याय, अनुमानं व्याख्यातुकाम आह- अनु मानमिति ॥ अनुमानं द्विधा द्विप्रकारम् । अथानुमानलक्षणे वक्तव्ये किमकस्मात्प्रकारभेद कथ्यते? उच्यते परार्थानुमानं शब्दात्मकम्, स्वार्थानुमानं तु ज्ञानात्मकम्, तयोरत्यन्तभेदात्नैकं लक्षणमस्ति । ततस्तयोः प्रतिनियतं लक्षणमाख्यातु प्रकारभेदः कथ्यते । प्रकारभेदो हि व्यक्तिभेदः, व्यक्तिभेदे च कथिते प्रतिव्यक्तिनियतं लक्षणं शक्यते वक्तुं नान्यथा । ततो लक्षणनिर्देशाङ्गमेव प्रकारभेदकथनम् । अशक्यतां च प्रकारभेदकथनमन्तरेण लक्षणनिर्देशस्य ज्ञात्वा प्राक्प्रकारभेदः कथ्यते इति ॥ १ ॥

किं पुनस्तद्द्वैविध्यम्? इत्याह- स्वार्थमिति । स्वस्मायिदं स्वर्थम् । येन स्वयं प्रतिपदयते तत्स्वार्थम् । परस्मायिदं परमार्थम् । येन परं प्रतिपादयति तत्परार्थम् ॥ २ ॥

तत्रेति । तत्र तयोः स्वार्थ- परार्थानुमानयोर्मध्ये स्वार्थ ज्ञानं किंविष्टम्? इत्याह- त्रिरूपादिति । त्रीणि रूपाणि यस्य वक्ष्यमाणलक्षणानि तत्त्रिरूपम् । लिङ्गयते= गम्यतेऽनेनार्थ इति लिङ्गम् । तस्मात्त्रिरूपाल्लिङ्गात्

४ प्रमाणफलव्यवस्थात्रापि प्रत्यक्षवत् ॥

५ त्रैरूप्यं पुनलिंगस्य अनुमेये सत्त्वमेव, सपक्षे एव सत्त्वम्, असपक्षे चासत्त्वमेव निश्चितम् ॥

तत्रेति । त्रीणि रूपाण्यस्य सन्तीति त्रिरूपम् । अर्थोलिङ्गयतेऽनेनेति लिङ्गम् । अनुमीयते इति अनुमेयः । त्रिलक्षणाधेतोरनुमेये यज्ज्ञानमुत्पदयते तदेव द्वार्थानुमानमिति । लिङ्गाभासाद्यज्ज्ञानमुत्पदयते तदप्यनुमानं स्यादिति तन्निरासार्थमनुमेय इत्युक्तम् । ज्ञानमिति कथनं तु लिङ्गमेव वस्तुतोऽनुमानं स्यादिति तन्निरासार्थम् ॥ ३ ॥

यदयनुमेयविषयज्ञानमेव प्रमाणमिष्ठम्, तर्हि फलं नाम किं स्यात्? इत्याशङ्कायामाह- प्रमाणेत्यादि ।

यथा प्रत्यक्षे तज्जन्यमेव प्रमाणफलमभिहितम्, तथात्राप्यनुमितिरेव प्रमाणफलं स्यातर्थविनिश्चयनस्वभावात् । यथा प्रत्यक्षस्यार्थसारूप्यं प्रमाणम्, तथानुमानस्यापि अर्थसारूप्यमेव प्रमाणं तद्वशादर्थविनिश्चयसिद्धेरिति ॥ ४ ॥

त्रिरूपाल्लिङ्गात्, इत्युक्तम् । कानि च तानि त्रीणि रूपाणि?- इत्याशङ्कायामाह- त्रैरूप्यमिति ।

यत्जातं ज्ञानमिति । एतधेतुद्वारेण विशेषणम् । तत्त्रिरूपाच्च लिङ्गात्त्रिरूपलिङ्गालम्बनमप्युत्पदयत इति विशिनष्टि- अनुमेय इत् । एतच्च विषयद्वारेण विशेषणम् ।

त्रिरूपाल्लिङ्गाद्यदुत्पन्नमनुमेयालम्बनं ज्ञानं तत्स्वार्थमनुमानमिति ॥ ३ ॥

लक्षणविप्रतिपत्ति निराकृत्य फलविप्रतिपत्तिं निराकर्तुमाह- प्रमाणत्यादि । प्रमाणास्य यत्फलं तस्य या व्यवस्था सा अत्र अनुमानेऽपि प्रत्यक्ष इव प्रत्यक्षवत्वेदितव्या ।

यथा हि नीलसरूपं प्रत्यक्षमनुभूयमानं नीलबोधरूपमवस्थाप्यते, तेन नीलसारूप्यं व्यवस्थापनहेतुः प्रमाणम्, नीलबोधरूपं तु व्यवस्थाप्यमानं प्रमाणफलम् । तद्वतनुमानं नीलाकारमुत्पदयमानं नीलबोधरूपमत्वस्थाप्यते, तेन नीलसारूप्यमस्य प्रमाणम्, नीलविकल्पनरूपं त्वस्य प्रमाणफलम् । सारूप्यवशाद्धि तन्नीलप्रतीतिरूपं सिध्यति नान्यथेति ॥ ४ ॥

एवमिह संख्या लक्षण फलविप्रतिपत्तयः, प्रत्यक्षपरिच्चेदे तु गोचर विप्रतिपत्तिनिराकृता । लक्षणनिरेशप्रसङ्गेन तु त्रिरूपं लिङ्गं प्रस्तुतम्, तदेवत्रिरूपस्य भावस्त्रैरूप्यम् । १ अनुमेये सत्त्वमेवेति । अधोनिर्दिष्ठानुमेयलक्षणे सत्त्वमेव प्रथमं रूपम् । तत्र सत्त्वमिति उक्त्वा चाक्षुषत्वादित्यादिकं निरस्तम् । एवेत्यधिककथनेन पाक्षिकदेशासिद्धयादिकं निरस्तम् ।

२ सपक्षे एव सत्त्वमिति । समजातीये सत्त्वमेव द्वितीयं रूपम् । अत्र सत्त्वमित्युक्त्वा असाधारणानैकान्तिको निरस्तः । एवेत्यधिककथनेन साधारणानैकान्तिको निरस्तः । उभयकथनेन विरुद्धो निरस्तः ।

३ असपक्षे चासत्त्वमेवेति । असमजातीये क्वचिदपि असत्त्वं तृतीयं रूपम् । अत्र असत्त्वमित्युक्त्वा साधारणानैकान्तिको निरस्तौ । एवेत्यधिककथनेन विपर्क्षकदेशावृत्तेः परिहारः ।

व्याख्यातुमाह- त्रैरूप्यमित्यादि । लिङ्गस्य यत्त्रैरूप्यं यानि त्रीणि रूपाणि । तदिदमुच्यत इति शेषः ।

किं पुनस्तत्त्रैरूप्यम्? इत्याहानुमेय इति ।

१ अनुमेयं वक्ष्यमाणलक्षणम्, तस्मिन् लिङ्गस्य सत्त्वमेव निश्चितम्-एकं रूपम् । यदयपि चात्र निश्चितग्रहणं न कृतम्, तथापि अन्ते कृतं प्रक्रान्तयोर्द्वयोरपि रूपयोरपेक्षणीयम् । यतो न योग्यतया लिङ्गं परोक्षज्ञानस्य निमित्तम्; यथा- बीजमंकुरस्य; अदृष्टाद्धूमादग्नेरप्रतिपत्तेः । नापि स्वविषयज्ञानापेक्षं परोक्षार्थप्रकाशनम्, यथा- प्रदीपो घटादेः, दृष्टादप्यनिश्चितसम्बन्धादप्रतिपत्तेः । तस्मात्परोक्षार्थनान्तरीय कतया निश्चियनमेव लिङ्गस्य परोक्षार्थप्रतिपादनव्यापारः, नापरः कश्चित् । अतोऽन्वयव्यतिरेकपक्षधर्मत्वनिश्चयो लिङ्गव्यापारात्मकत्वादवश्यकर्तव्य इति सर्वेषु रूपेषु निश्चितग्रहणमपेक्षणियम् ।

तत्र सत्त्ववचनेनासिद्धं चाक्षुषत्वादि निरस्तम् । एवकारेण पक्षैकदेशासिद्धो निरस्तः । यथा चितनास्तरवः, स्वापाद इति पक्षीकृतेषु तरुषु पत्रसङ्कोचलक्षणः स्वाप एकदेशे न सिद्धः । नहि सर्वे वृक्षा रात्रौ पत्रसङ्कोचभाजः, किन्तु केचिदेव । सत्त्ववचनस्य पश्चात्कृतेनैव कारणेनासाधारणो धर्मो निरस्तः । यदि हि अनुमेय एव सत्त्वमिति कुर्यात्, श्रावणत्वमेव हेतुः स्यात् । निश्चितग्रहणेन सन्दिग्धासिद्धः सर्वो निरस्तः ।

२ सपक्षो वक्ष्यमाणलक्षणः, तस्मिन्नेव सत्त्वं निश्चितमिति द्वितीयं रूपम् । इहापि सत्त्वग्रहणेन विरुद्धो निरस्तः । स हि नास्ति सपक्षे । एवकारेण साधारणानैकान्तिकः । स हि न सपक्ष एव वर्तते, किन्तूभय-

६ अनुमेयोऽत्र जिज्ञासितविशेषो धर्मी ॥

अन्ते निश्चितमित्युक्तेस्त्रिष्वेव निश्चितमिति वेदितव्यम् । तानि च त्रीणि रूपाणि स्वयं यथायथं प्रमाणैर्निश्चतान्येव ग्राहयाणी अन्यथानुमेये प्रत्यायनमशक्यमेवेति ॥ ५ ॥

कश्चानुमेय? इत्याशङ्कायामाह- अनुमेय इति ।

त्रापि । सत्त्वग्रहणात्पूर्वावधारणवचनेन सपक्षाव्यापिसत्ताकस्यापि प्रयत्नान्तरौयकस्य हेतुत्वं कथितम् । पश्चादवधारणे त्वयमर्थः स्यात्सपक्षे सत्त्वमेव यस्य स हेतुरिति प्रयत्नानन्तरीयकत्वं न हेतुः स्यात् । निश्चितवचनेन सन्दिग्धान्वयोऽनैकान्तिको निरस्तः, यथा- सर्वज्ञः कश्चित्, वक्तृत्वात् । वक्तृत्वं हि सपक्षे सर्वज्ञे सन्दिग्धम् ।

३ असपक्षो वक्ष्यमाणलक्षणः, तस्मिन्नसत्त्वमेव निश्चितम्- तृतीयं रूपम् । तत्रासत्त्वग्रहणेन विरुद्धस्य निरासः । विरुद्धो हि स विपक्षेऽस्ति । एवकारेण साधारणाय विपक्षैकदेशवृत्तेर्निरासः ।

प्रयत्नान्तरीयकत्वे साध्ये ह्यनित्यत्वं विपक्षैकदेशे विद्युदादौ अस्ति, आकाशादौ नास्ति । ततो नियमेनास्य निरासः । असत्त्वशब्दाद्धि पूर्वस्मिन्नवधारणेऽयमर्थः स्यात्-विपक्ष एव यो नास्ति स हेतुः । तथा च प्रयत्नानन्तरोयकत्वं सपक्षेऽपि सर्वत्र नास्ति, ततो न हेतुः स्यात् । अतः पूर्व न कृतम् । निश्चितग्रहणेन सन्दिग्धविपक्षव्यावृत्तिकोऽनैकान्तिको निरस्तः ।

ननु च सपक्ष एव सत्त्वमित्युक्ते, विपक्षेऽसत्त्वमेव इति गम्यत एव, तत्किमर्थ पुनरुभयोरुपादानं कृतम्? उच्यते अन्वयो व्यतिरेको वा नियमवानेव प्रयोक्तव्यो नान्यथा ति दर्शयितु द्वयोरप्युपादानं कृतम् । अनियते हि द्वयोरपि प्रयोगेऽयमर्थः स्यात्- सपक्षे योऽस्ति, विपक्षे च यो नास्ति च हेतुरिति । तथा च सति स श्यामः तत्पुत्रत्वात्, दृश्यमान पुत्रवतिति तत्पुत्रत्वे हेतुः स्यात् । तस्मात्नियमवतोरेवान्यव्यतिरेकयोः प्रयोगः कर्तव्यः, येन प्रतिबन्धो गम्येत साधनस्य साध्येन । नियमवतोश्च प्रयोगेऽवश्यकर्तव्ये द्वयोरेक एव प्रयोक्तव्यो न द्वाविति नियमवानेवान्वय व्यतिरेको वा प्रयोक्तव्यः इति शिक्षणार्थ द्वयोरूपादानमिति ॥ ५ ॥

त्ररूप्यकथनप्रसङ्गेनानुमेयः सपक्षो विपक्षश्चोक्तः, तेषां लक्षणं वक्तव्यम्, तत्र कोऽनुमेयः? इत्याह- अनुमेयोऽत्रेत्यादि । अत्र हेतुलक्षणे निश्चेतव्ये धर्मी अनुमेयः अन्यत्र तु साध्यप्रतिपत्तिकाले समुदायोऽनुमेयः, व्याप्तिनिश्चयकाले

७ साध्यधर्मसामान्येन समानोऽर्थः सपक्षः ॥

८ न सपक्षोऽसपक्षः ॥

९ ततोऽन्यस्तद्विरुद्धस्तदभावश्चेति ॥

अत्रेति । हेतुलक्षणे । जिज्ञासितः प्रत्येतुमिष्टः । विशेष इति । विलक्षणो धर्मः । जिज्ञासितो विशेषो यस्मिन् स जिज्ञासितविशेषः । धर्माः सन्ति यस्मिन् स धर्मी । तेन यस्य धर्मिणः कश्चिद्विशेषः प्रत्येनुमिष्टः सोऽनुमेय इत्यर्थः । स च हेतुलक्षणावसरे एव बोध्य इत्युक्तं भवति । अन्यत्र तु धर्मविशिष्टधर्मी अनुमेय इति ॥ ६ ॥

कस्तावत्सपक्षः? इत्याशङ्कायामाह- साध्येत्यादि ।

समानं मानमस्येति समानः । समानज्ञानपरिच्चेद्यः । सदृश इति शेषः । यश्च सदृशोऽर्थः स सपक्षः ।

कथम्प्रकारं सामान्यमिति चेत्? तत्रैवमाह- साध्यर्मसामान्येनेति । साध्यश्चासौ धर्मश्चेति साधयधर्मः । तस्य सामान्यं साध्यधर्मसामान्यम् । साध्यधर्मस्य हि विशेषो भवति, प्रत्यर्थनियमात् । तेन च समानत्वाद्विरोधः स्यादितिं साध्यधर्म सामान्येन इत्युक्तमिति ॥ ७ ॥ ।

कश्च असपक्षः? इत्याशङ्कायामाह- न सपक्ष इति ।
यश्च सपक्षो न भवति स सर्व एवासपक्ष इति ॥ ८ ॥

ततोऽन्य इति । सपक्षविरुद्धः । यथा- उष्णस्पर्शे साध्येऽनुष्णाशीतं द्रव्यम् । तु धर्मोऽनुमेयः- इति दर्शयितुमत्र ग्रहणम् । जिज्ञासितो ज्ञातुमिष्टो विशषो धर्मो यस्य धर्मिणः स यथोक्तः ॥ ६ ॥

कः सपक्षः? इत्याह- साध्यधर्मेत्यादि । समानोऽर्थः सपक्षः । समानः सदृशो योऽर्थः पक्षेण स सपक्ष उक्तः, उपचारात् । समानशब्देन विशेष्यते । समानः पक्षः= सपक्षः, समानस्य च स शब्दादेशः ।

स्यादेतत् । किं तत्पक्षसपक्षयोः सामान्यम्, येन समानः सपक्षः पक्षेण? इत्याह- साध्यदह्र्मसामान्येनेति । साध्यश्चासौ असिद्धत्वात्धर्मश्च पराश्रितत्वात्साध्यधर्मः । न च विशेषः साध्यः, अपितु सामान्यम् । अत इह सामान्य साध्यमुक्तम् । साध्यदह्र्मश्चासौ सामान्यं चेति साध्यधर्म सामान्येन समानः पक्षेण सपक्ष इत्यर्थः ॥ ७ ॥

कोऽसपक्षः? इत्याह- न सपक्षोऽसपक्षः । सपक्षो यो न भवति सोऽसपक्षः ॥ ८ ॥

कश्च सपक्षो न भवति? इत्याह- तत इति । ततः सपक्षादन्यः, तेन

१० त्रिऊपाणि च त्रीण्येव लिङ्गानि ॥

११ अनुपलब्धिः स्वभावः कार्य चेति ॥

१२ तत्रानुपलब्धिर्यथा- न प्रदेशविशेषे क्वचिद्घटः, उपलब्धिलक्षण प्राप्तस्यानुपलब्धेरिति ॥

तद्दिरुद्ध इति । सपक्षविरुद्धः । यथा- उष्णस्पर्श एव साध्ये शीतं द्रव्यम् । तद्भाव इति । सपक्षाभावः । यथा- सौवान्तिकस्य अनित्यत्वे साध्ये अनित्यत्वाभाव एवासपक्षः, तन्नये आकाशादिष्वपि नित्यत्वाङ्गीकारात् ।

त्रिविध एवार्थे न सपक्षः असपक्षः इति बोध्यम् । अभावस्तु वस्तुत एव न सपक्षः । अन्यविरोधी च अप्रम्परया न सपक्षाविति ॥ ९ ॥

यथोक्तहेतुफलणयुक्तो हेतुः कतिविधः? इत्याशङ्कायामाह- त्रिरूपाणीति । यथोक्तं रूपत्रयं त्रिष्वेव सम्भवति, नाधिक इत्यधिकारार्थ एवकारार्थः । त्रयाणां लिङ्गानां प्रत्येकमपि त्रिरूपमेव द्रष्टव्यम्, एकरूपं द्विरूपं वा नैवेति ॥ १० ॥

कानि च त्रीणि लिङ्गानि? इत्याशङ्कायामाह- अनुपलब्धिरिति ।

इह स्वनाम्ना त्रीणि लिङ्गानि निर्दिश्यन्ते ॥ ११ ॥

तत्रानुपलब्धिरिति । अनुपलब्धिस्वरूपमुच्यते । यथेति । उपप्रदर्शनशब्दः । प्रदेशविशेषे क्वचिद्घटो नेति सन्निहितदेशवचनम् । सम्बन्धस्तु एवम्- प्रदेशविशेष

च विरुद्धः । तस्य च सपक्षस्य अभावः । सपक्षादन्यत्वं तद्विरुद्धत्वं च न तावत्प्रत्येतुं शक्यम्, यावत्सपक्षस्वभावाभावो न विज्ञातः । तस्मादन्यत्व विरुद्धत्वप्रतीतिसामर्थ्यात्सपक्षाभावरूपौ प्रतीतावन्यविरुद्धौ ।

ततोऽभावः साक्षात्सपक्षाभावरूपः प्रतीयते । अन्यविरुद्धौ सामर्थ्यादभावरूपी प्रतीयेते । ततस्त्रयाणामपि असपक्षत्वम् ॥ ९ ॥

उक्तेन त्रैरूप्येण त्रिरूपाणि च त्रीण्येव लिङ्गानीति । चकारी वक्तव्यान्तरसमुच्चयार्थः । त्रैरूप्यमादौ पृष्टम्, त्रिरूपानि च लिङ्गानि परेण । तत्र त्रैरूप्यमुक्तम्, त्रिरूपाणि चोच्यन्ते- त्रीण्येव त्रीण्येव त्रिरूपाणि लिङ्गानि । त्रयस्त्रित्ररूपलिङ्गप्रकारा इत्यर्थः ॥ १० ॥

कानि पुनस्तानि? इत्याह- अनुपलब्धिरित्यादि । प्रतिषेध्यस्य साध्यस्यानुपलब्धिस्त्रिरूपा । बिधेयस्य साध्यस्य स्वभावश्च त्रिरूपः कार्य च ॥ ११ ॥

अनुपलब्धिमुदाहर्तुमाह- तत्रेत्यादि । यथेत्यादि । यथेत्युपदर्शनार्थम् । यथेयमनुपलब्धिस्तथान्यापि । न त्वियमेवेत्यर्थः । प्रदेश एकदेशः । इशिष्यत

१३ उपलब्धिलक्षणप्राप्तिरुपलम्भप्रत्ययान्तरसाकल्पं स्वभावविशेषश्च ॥

क्वचिद्घटो नेति क्वचिदित्यनेन धर्मी निर्दिश्यते । प्रदेशविशेष इति तस्यैव विशेषः क्रियते । वाद्यभिमतदेशे घटो नित्यर्थः । देश इत्युक्ते सर्वस्य पक्षत्वे घटाभावसिद्धिरेव न स्यात् । स च योग्योऽपि न भवति ।

उपलब्धिलक्षणप्राप्तस्येति । अनेन हेतुर्विशेषणमुक्तम् । उपलब्धिरिति ज्ञानमुच्यते । लक्ष्यते इति लक्षणम् । विषय इति शेषः । उपलब्धेर्लक्षणमिति उपलब्धिलक्षणम्, तं प्राप्त इति उपलब्धिलक्षणप्राप्तः । योग्योपलब्धिविषय इति शेषः ।

अनुपलब्धेरिति । अदर्शनादित्यर्थः । अयमर्थः- प्रदेशादौ दृश्यघटाद्यदर्शनात् । घटशून्यदेशदर्शनादिति शेष इति ॥ १२ ॥

ननु का सा उपलब्धिलक्षणप्राप्तिः? इत्याशङ्कायामाह- उपलब्धीत्यादि ।

इति विशेषः प्रतिपत्तुप्रत्यक्षः । तादृशश्च न सर्वः प्रदेशः । तदाह- क्वचिदिति । प्रतिपत्तृप्रत्यक्षेः क्वचिदेव प्रदेशे इति धर्मी । न घट इति साध्यम् । उपलब्धिर्ज्ञानम् । तस्या लक्षणं जनिका सामग्री । तया हि उपलब्धिर्लक्षयते । तत्प्राप्तोऽर्थो जनकत्वेन सामग्रयन्तर्भावात् । उपलब्धिलक्षणप्राप्तो दृश्य इत्यर्थः । तस्य अन पलब्धेः- इत्ययं हेतुः ।

अथ यो यत्र नास्ति स कथं तत्र दृश्यः? दृश्यत्वसमारोपादसन्नपि दृश्य उच्यते । यश्चैवं सम्भाव्यते- यद्यसावन्न भवेद्दृश्य एव भवेदिति । स तत्र अविध्यमानोऽपि दृश्यः समारोप्यः । कश्चैवं सम्भाव्यः? यस्य समग्राणि स्वावलम्बनदर्शनकारणानि भवन्ति । कदा च तानि समग्राणि गम्यन्ते? यदा एकज्ञानवस्त्वन्तरोपलम्भः । एकेन्द्रियज्ञानग्राह्यं लोचनादिप्रणिधानाभिमुखं वस्तुद्वयमन्योन्यापेक्षमेकज्ञानसंसर्गि कथ्यते । तयोर्हि सतोर्नैक नियमता भवति प्रतिपत्तिः, योग्यताया द्वयोरप्यविशिष्टत्वात् । तस्मादेकज्ञानसंसर्गिणि दृश्यमाने सत्येकस्मिनितरत्समग्रदर्शनसामग्रीकं यदि भवेद्, दृश्यमेव भवेदिति सम्भावितं दृश्यत्वमारोप्यते । तस्यानुपलम्भो दृश्यानुपलम्भः । तस्मात्स एव घटविविक्तर्पदेशः, तदालम्बनं च ज्ञानं दृश्यानुपलम्भनिश्चयहेतुत्वाद्दृश्यानुपलम्भ उच्यते ।

यावद्धि एकज्ञानसंसर्गि वस्तु न निश्चितम्, तज्ज्ञाअन्ं च न तावद्दृश्यानुपलम्भनिश्चयः । ततो वस्तु अनुपलम्भ उच्यते, तज्ज्ञानं च । दर्शननिवृत्तिमात्रं स्वयमनिश्चितत्वादगमकम् । ततो दृश्यघटरहितः प्रदेशः, तज्ज्ञानं च वचनसामर्थ्यादेव दृश्यानुपलम्भरूपमुक्तं द्रष्टव्यम् ॥ १२ ॥

का पुनरूपलब्धिलक्षणप्राप्तिः? इत्याह- उपलब्धीत्यादि । उपलब्धि-

१४ यः स्वभाव सत्स्वप्यन्येषूपलम्भप्रत्ययेषु सन् प्रत्यक्ष एव भवति स स्वभाव विशेषः ॥

१५ स्वभावः स्वसत्तामात्रभाविनि साध्यधर्मे हेतुः ॥

उपलम्भ इति । ज्ञानम् । तस्य प्रत्ययान्तराणि उपलम्भप्रत्ययान्तराणि । उपलम्भप्रत्ययस्तत्र घट एव । ततोऽन्यानि अनन्तरप्रत्ययादीनि । तेषां साकल्यमुपलम्भप्रत्ययान्तरसाकल्यम् । साकल्यशब्देन समावेश उच्यते । स्वभावश्च विशेषश्च इति स्वभावविशेषः । तद्द्वयमुपलब्धिलक्षणप्राप्तिशब्देनोच्यते इति ॥ १३ ॥

ननु कोऽयं स्वभावविशेषः? इत्याकाङ्क्षायामाह- सत्स्विति ।

यः स्वभावः सन् चक्षुरादिसन्निधाने विप्रकर्षप्रकारत्रयेण अविप्रकृष्टः शक्यदर्शनः, स एवात्र द्वभावविशेष उच्यते । तेन चक्षुरादिसन्निधानेऽपि प्रत्यक्षयोग्यघटानुपलब्धेः अत्र घटो नास्ति इत्ययमर्थ उक्त इति ॥ १४ ॥

स्वभावहेतुलक्षणनिर्देशार्थमाह- स्वभाव इति ।

लक्षणप्राप्तिः उलब्धिलक्षणप्राप्तत्वम्, घटस्य उपलम्भप्रत्ययान्तरसाकल्पमिति । ज्ञानस्य घटोऽपि जनकः, अन्ये च चक्षुरादयः । घटाद्दृश्यादन्ये हेतवः प्रत्ययान्तराणि, तेषां {साअ}ल्यं सन्निधिः । स्वभाव एव विशिष्यते तदन्यस्मादीत्विशेषो विशिष्ट इत्यर्थः । तदयं विशिष्टः स्वभावः प्रत्ययान्तरसाकल्पं च- एतद्द्वयमुपलब्धिलक्षणप्राप्तत्वं घटादेर्द्रष्टव्यम् ॥ १३ ॥

कीदृशः स्वभावविशेषः? इत्याह- यः स्वभाव इत्यादि ।

सत्स्वित्यादि । उपलम्भस्य यानि घटाद्दृश्यात्प्रत्ययान्तराणि तेषु सत्सु विद्यमानेषु यः स्वभावः सन् प्रत्यक्ष एव भवति स स्वभावविशेषः ।

तदयमत्रार्थः- एकप्रतिपत्त्रपेक्षमिदं प्रत्ययलक्षणम् । तथा च सति द्रष्टुं प्रवृत्तस्यैकस्य द्रष्टुर्द्दशयमान उभयवान् भावः । अदृश्यमानास्तु देशकाल स्वभावविप्रकृष्टाः स्वभावविशेषरहिताः प्रत्ययसाकल्पवन्तस्तु । यैर्हि प्रत्ययैः स द्रष्टा पश्यति ते सन्निहिताः । अतश्च सन्निहिता यद्द्रष्टुं प्रवृत्तः सः । द्रष्टुमप्रवृत्तस्य तु योग्यदेशस्था अपि द्रष्टुं ते न शक्याः प्रत्ययान्तरवैकल्पवन्तः स्वभावविशेषयुक्तास्तु । दूरकेशकालास्तु उभयविकलाः । तदेवं पश्यतः कस्यचिन्न प्रत्ययान्तरविकलो नाम, स्वभावविशेषविकलस्तु भवेत् । अपश्यतस्तु द्रष्टुं शक्यो योग्यदेशस्थः प्रत्ययान्तरविकलः, अन्ये तूभयविकला इति ॥ १४ ॥

अनुपलब्धिमुदाहृत्य स्वभावमुदाहर्तुमाह- स्वभाव इत्यादि । स्वभावो

१६ यथा- वृक्षोऽयम्, शिशपात्वातिति ॥

१७ कार्य यथा- वह्निरत्र धूमातिति ॥

१८ अत्र द्वौ वस्तुसाधनौ, एकः प्रतिषेहहेतुरिति ॥

सत्तामात्रमिति । साधनसत्तामात्रम् । सत्तामात्रे भवितुं शीलं यस्य स सत्तामात्रभावी, तस्मिन् सत्तामात्रभविनि साध्यधर्मे स्वभावहेतुर्बोध्यः ॥ १५ ॥

यथा वृक्ष इति । अत्र वृक्षस्य शिशपामात्रेण सम्बन्धः । तस्मात्तेन साध्यते ॥ १६ ॥

कार्यहेतुरुदाह्रियते । अग्निनिर्भरोत्पत्तिकत्वाद्यत्र धूमस्तत्र वह्निः इत्यवगम्यते ॥ १७ ॥

अथ कस्मात्लिगं त्रिविधमिति व्यवस्थितिः? इत्याशङ्कायामाह- अत्र द्वाविति ।

यस्मादनुमेयो भावाभावरूपो द्विविधः, तस्माधेतुरपि १ । भावसाधनः, २ अभावसाधनश्च द्विविध एव । अनुमेयोऽपि भावरूपो द्विविधः- १ भिन्नः, २ अभिन्नश्च ।

हेतुरिति सम्बन्धः । कीदृशो हेतुः साध्यस्य स्वभावः? इत्याह- स्वस्य आत्मनः सत्ता, सैव केवला स्वसत्तामात्रम् । तस्मिन् सति भवितुं शीलं यस्येति । यो हेतोरात्मनः सत्तामपेक्ष्य विद्यमानो भवति, न तु हेतुसताया व्यतिरिक्तं कञ्चिधेतुमपेक्षते स स्वसत्तामात्रभावी साध्यः । तस्मिन् साध्ये यो हेतुः स स्वभावस्तस्य साध्यस्य, नान्यः ॥ १५ ॥

उदाहरणम्- यथेति । अयमिति धर्मी । वृक्ष इति साध्यम् । शिशपात्वादिति हेतुः । तदयमर्थः- वृक्षव्यवहारयोग्योऽयम्, शिशपाव्यवहारयोग्यत्वादिति । तत्र प्रचुरशिशपे देशेऽविदितशिशपाव्यवहारो जडो यदा केनचिदुच्चां शिंशपामुपादर्श्योच्यते- अयं वृक्ष इति, तदा असौ जाडयाच्चिशपाया उच्चत्वमपि वृक्षव्यवहारस्य निमित्तमवस्यति । स मूढः शिशपात्वमात्र निमित्ते वृक्षव्यवहारे प्रवर्त्यते, निच्चत्वादि निमित्तान्तरमिह वृक्षव्यवहारस्य, अपितु शिशपात्वमात्रं निमित्तम् । शिशपागतशाखादिमत्वं निमित्तमित्यर्थः ॥ १६ ॥ ।

कार्यमुदाहर्तुमाह- कार्यमित्यादि । वह्निरिति साध्यम् । अत्रेति धर्मी । धूमादिति हेतुः । कार्यकारणभावो लोके प्रत्यक्षानुपलम्भनिबन्धनः प्रतीत इति न स्वभावस्येव कार्यस्य लक्षणमुक्तम् ॥ १७ ॥

ननु त्रिरूपत्वादेकमेव लिङ्ग युक्तम्, अत्र प्रकारभेद भेदः, एवं सति स्वभावहेतोरेकस्यानन्तप्रकारत्वात्त्रित्वमयुक्तम्? इत्याह- अत्र द्वाविति ।

१९ स्वभावप्रतिबन्धे हि सत्यर्थोऽर्थ गमयेत् ।

२० तदपर्तिबद्धस्य तदव्यभिचारनियमाभावात् ॥

अनुमेयस्य भावरूपस्य द्वैविध्येन भावसाधनोऽपि द्विविधो भवति । तथा हि- १ साध्यहेत्वोः स्वरूपभेदे अभिन्नं साध्यं साधयितुं न शक्नोति । २ साध्यहेत्वोः स्वरूपाभेदे च भिन्नं साध्यं साधयितुं न शक्नोति ।

तत्र साध्यसाधनयोरभेदे स्वभावहेतुः । साध्यसाधर्मयोर्भेदे च कार्यहेतुः । अनुपलब्धिस्तु अभावहेतुः । एतेन यस्माद्द्वाभ्यां भावसाधनम्, एकेन च प्रतिपेधसाधनम्, तस्मात्लिङ्गं त्रिविधम्- द्वे भावसाधने, एकं च प्रतिषेधकारणमीत्दर्शितमिति ॥ १८ ॥

अथ कस्माद्द्वावेव वस्तुसाधनो इति चेत्? तत्राह स्वभाव इति । स्वभावेन= स्वरूपेण प्रतिबन्धः स्वभावप्रतिबन्ध । तत्सत्त्वे एव लिङ्गलक्षणार्थेन साध्यलक्षणार्थस्य प्रत्यायनमिति शेषः ॥ १९ ॥

कस्मात्स्वभावप्रतिबन्धसत्त्व एव अर्थोऽर्थ गमयोदिति चेत्? तत्राह- तदप्रतीत्यादि ।

अत्रेति । एषु त्रिषु हेतुषु मध्येद्वौ हेतू वस्तुसाधनौ विधेः साधनौ गमकौ । एकः प्रतिषेधस्य हेतुर्गमकः । प्रतिषेध इति चाभावोऽभावव्यवहारश्चोक्तो द्रष्टव्यः ।

तदयमर्थः- हेतुः साध्यसिद्धाय्र्थत्वात्साध्याङ्गम्, साध्यां प्रधानम् । अतश्च साध्योपकरणस्य हेतोः प्रधानसाध्यभेदाद्भेदः, न स्वरूपभेदात् । साध्यश्च कश्चिद्विधिः, कश्चित्प्रतिषेधः । विधिप्रतिषेधयोश्च परस्परपरिहारेणानवस्थानात्तयोर्हेतूभिन्नौ । विधिरपि कश्चिद्धेतीर्भिन्नः, कश्चिदभिन्नः । भेदाधेदयोरप्यन्योन्यत्यागेनात्मस्थितेर्भिन्नौ हेतू । ततः साध्यस्य परस्परविरोधाथेतवो भिन्नाः, न तु स्वत एवेति ॥ १८ ॥

कस्मात्पुनस्त्रयाणां हेतुत्वम्, कस्माच्चान्येषामहेतुत्वम्?- इत्याशङ्कय यथा त्रयाणामेव हेतुत्वम्, अन्येषां चाहेतुत्वम्, तदुभयं दर्शयितुमाह- स्वभावप्रतिबन्ध इति । स्वभावेन प्रतिबन्धः स्वभावप्रतिबन्धः । साधने कृता इति समासः । स्वभावप्रतिबद्धत्वं प्रतिबद्धस्वभावत्वमित्यर्थः । कारणे स्वभावे च साध्ये स्वभावेन प्रतिबन्धः कार्यस्वभावयोरविशिष्ट इत्येकेन समासेन द्वयोरपि संग्रहः । हिर्यस्मादर्थे । यस्मात्स्वभावप्रतिबन्धे सति साधनार्थः साध्यं गमयेत्, तस्मात्त्रयाणां गमकत्वम्, अन्येषामगमकत्वम् ॥ १९ ॥

कस्मात्पुनः स्वभावप्रतिबन्ध एव सति गम्यगमकभावः, नान्यथा?

२१ स च प्रतिबन्ध साध्येऽर्थे लिङ्गस्य ॥

यतो यन्न प्रतिबद्धम्, तत्रार्थनिश्चयाव्यभिचारि, तस्मात्प्रतिबन्धे सत्येव गम्यगमकभावो वेदितव्यः, नान्यथेति ॥ २० ॥

स च तावत्कस्य प्रतिबन्धः, केन रूपेण व प्रतिबन्धः? इत्प्रदर्शनार्थमाह- स चेति ।

यस्मात्परमार्थतो लिगं क्वचित्साध्यार्थस्वभावमेव, तस्मात्तत्तेन प्रतिबद्धम् ॥ २१ ॥

इत्याह- तदपतिबद्धस्येति । तदिति स्वभावः उक्तः । तेन स्वभवेनाप्रति बद्धः तदप्रतिबद्धः । यो यत्र स्वभवेन प्रतिबद्धः तस्य तदप्रतिबद्धस्य । तदव्यभिचारनियमाभावात् । तस्याप्रतिबन्धविषयस्याव्यभिवारः तदव्यभिचारः,तस्य नियम तदव्यभिचारनियमः, तस्याभावात् ।

तदयमर्थः- न हि यो यत्र स्वभावेन न प्रतिबद्धः, स तमप्रतिबन्धविषय मवश्यमेव न व्यभिचारतीति नास्ति तयोरव्यभिचारनियमः= अविनाभावनियमः । अव्यभिचारनियमाच्च गम्य-गमकभावः । न हि योग्यतया प्रदीपवत्परोक्षार्थप्रतिपत्तिनिमित्तमिष्टं लिङ्गम्, अपि तु अब्यभिचारित्वेन निश्चितम् । ततः स्वभावप्रतिबन्धे सत्यविनाभावित्वनिश्चयः, ततो गम्य-गमकभावः । तस्मात्स्वभावप्रतिबन्धे सत्यर्थोऽर्थ गमयेत्, नान्यथेति श्थितम् ॥ ॥ २० ॥

ननु च परायत्तस्य प्रतिबन्धोऽपरायत्ते, तदिह साध्यसाधनयोः कस्य क्व प्रतिबन्धः? इत्याह- स चेति । स च स्वभावप्रतिबन्धो लिङ्गस्य साध्येऽर्थे । लिङ्ग परायत्तत्वात्प्रतिबद्धम् । साध्यस्त्वर्थोऽपरायत्तत्वात्प्रतिबन्धविषयः, न तु प्रतिबद्ध इत्यर्थः । तत्रायमर्थः- तादात्म्यविशेषेऽपि यत्प्रतिबद्धं तद्गमकम् । यत्प्रतिबन्धविषयस्तद्गम्यम् । यस्य च धर्मस्य यो नियत स्वभावः स तत्प्रतिवद्धः । यथा प्रयत्नानन्तरीयकत्वाख्योऽनित्यत्वे । यस्य तु स चान्यश्च स्वभावः स प्रतिबन्धविषयः, न तु प्रतिबद्धः । यथानित्यत्वाख्यः प्रयत्नानन्तरीयकत्वाख्ये । निश्चयापेक्षो हि गम्यगम्यकभावः । प्रयत्नानन्तरीयकत्वमेव चानित्यस्वभावं निश्चितम् । अतस्तदेवानित्यत्वे प्रतिबद्धम् । तस्मान्नियतविषय एव गम्यगम्यकभावः, नान्यथेति ॥ २१ ॥

२२ साध्यार्थतादात्म्यात्साध्यार्थादुत्पत्तेश्च ॥

२३ अतत्स्वभावस्यातदुत्पत्ते श्च तत्राप्रतिबद्धस्वभावत्वात् ॥

साध्यार्थतादात्म्यादिति । यस्मात्लिङ्गं क्वचित्साध्यार्थादेवोत्पदयते, तस्मात्तत्तेन प्रतिबद्धमिति ॥ २२ ॥

अथ कथमुच्यते- साध्यार्थतादात्म्यात्साध्यार्थादुत्पत्तेश्चैव लिङ्गस्य प्रतिबन्ध इति चेत्? तत्राह- अतत्स्वभावस्येति ।

यच्च न साध्यैकस्वभावम्, यदपि च नोत्पदयते साध्यार्थात्तस्य तेन प्रतिबन्ध । केन प्रकारेणाभिधीयेत अप्रतिबद्धं च न लिङ्गम्, अतिप्रसङ्गात् । तस्मात्तादात्म्य तदुत्पत्तिभ्यामेव प्रतिबन्धो वक्तव्यः, नान्यथेति ॥ २३ ॥

भवतु तावत्तथिव, ततश्च किमायातमिति चेत्? आह- ते चेति ।

कस्मात्पुनः स्वभावप्रतिबन्धो लिङ्गस्य? इत्याह- वस्तुत इत्यादि । स साध्योऽर्थ आत्मा स्वभावो यस्य तत्तदात्मा, तस्य भावस्तादात्म्यम्, तस्माद्धेतोः । यतः साध्यस्वभावं साधनं तस्मात् । तत्र स्वभावप्रतिबन्ध इत्यर्थः ।

यदि साध्यस्वभावं साधनम्, साध्यसाधनयोरभेदात्प्रतिज्ञार्थैकदेशो हेतुः स्यात्? इत्याह- वस्तुत इति । परमार्थसत्तारूपेणाभेदस्तयोः । विकल्पविषयस्तु यत्समारोपित रूपम्, तदपेक्षः साध्यसाधनभेदः । निश्चयापेक्ष एव हि गम्यगमकभावः । ततो निश्चयारूढरूपापेक्ष एव तयोर्भेदो युक्तः, वास्तवस्त्वभेद इति । न केवलात तादात्म्याद्, अपि तु ततः तदुत्पत्तश्च साध्येऽर्थे स्वभावप्रतिबन्धो लिङ्गस्य ॥ २२ ॥

कस्मान्निमित्तद्वयात्स्वभावप्रतिबन्धो लिङ्गस्य, नान्यस्मात्? इत्याह- अतत्स्वभावस्येत्यादि । स स्वभावोऽस्य सोऽयं तत्स्वभावः । न तत्स्वभावोऽतत्स्वभावः । तस्मादुत्पतिरस्य सोऽयं तदुत्पत्तिः, न तथातदुत्पत्तिः । यो यत्स्वभावो यदुत्पत्तिश्च न भवति तस्य अतत्स्वभावस्य अतदुपत्तेश्च । अत्र अतत्स्वभावे अनुत्पादके चाप्रतिबद्धः स्बभावोऽस्येति सोऽयमप्रतिबद्धस्वभावः, तस्य भावोऽप्रतिबद्धस्वभावत्वम्, तस्मादप्रतिबद्धस्वभावत्वात् ।

यदयतत्स्वभावेऽनुत्पादके च कश्चित्प्रतिबद्धस्वभावो भवेद्, भवेदन्यतोऽपि निमित्तात्स्वभावप्रतिबन्धः । प्रतिबधस्वभावत्वं हि स्वभावप्रतिबन्धः । न चान्यः कश्चिदायत्तस्वभावः । तस्मात्तादात्म्यतदुत्पत्तिभ्यामेव स्वभावप्रतिबन्धः ॥ २३ ॥

भवतु नाम तादात्म्यदुत्पत्तिभ्यामेव स्वभावप्रतिबन्धः, कार्यस्वभाव

२४ ते च तादात्म्यतदुत्पत्तौ स्वभावकार्ययोरेवेति ताभ्यामेव वस्तुसिद्धिः ॥

२५ प्रतिषेधसिद्धिरपि यथोक्ताया एवानुपलब्धेः ॥

२६ सति वस्तुनि तस्या असम्भवात् ॥

तादात्म्यं स्वभावहेतोः प्रतिबन्धः । तदुत्पत्तिः कार्यहेतोः प्रतिबन्धः । अत एव ताभ्यामेव वस्तुसिद्धिरित्युक्तम् । यस्मात्तादात्म्यतदुत्पत्ती स्वभावकार्ययोरेव, तस्मात्ताभ्यामेव वस्तुसिधिः शक्या, न त्वन्येन अप्रतिबद्धेन । ततश्च वस्तुसिद्धिर्द्वाभ्यामेवेति स्थितम् ॥ २४ ॥

एकश्च प्रतिषेधहेतुः इत्युक्तम्, को नामासौ? इत्याह- प्रतिषेधेत्यादि ।

उपलब्धिलक्षणप्राप्तस्यानुपलब्धेः इति यदुक्तं प्राक्, तद्द्वयमेव प्रतिषेधहेतुः ॥ २५ ॥

कथमिति चेत्? आह- सति वस्तुनीति ।

तथा हि- वस्तुनि विदयमाने सा न सम्भवति ॥ २६ ॥

यथोक्ता अनुपलब्धिरेव वस्त्वभावव्यवहारसाधिका इति, एतच्च कस्मादिति चेत्? आह- अन्यथेति ।

योरेव तु गमकत्वं कथम्? इत्याह- ते चेति । इतिः तस्मादर्थे । यस्मात्स्वभावे कार्ये एव च तादात्म्यतदुत्पत्ती स्थिते, तन्निबन्धनश्च गम्यगमकभावः, तस्मात्ताभ्यामेव कार्यस्वभावाभ्यां वस्तुनो विधेः सिद्धिः ॥ २४ ॥

अथ प्रतिषेधसिद्धिरदृश्यानुपलम्भादपि कस्मान्नेष्टा? इत्याह- प्रतिषेधेत्यादि । प्रतिषेधव्यवहारस्य सिद्धिर्यथोक्ता या दृश्यानुपलब्धिस्तत एव भवति यतस्तस्मादन्यतो नोक्ता ॥ २५ ॥

ततस्तावत्कस्माद्भवति? इत्याह- सतीत्यादि । सति तस्मिन् प्रतिषेध्ये वस्तुनि, यस्माद्दृश्यानुपलब्धिर्न सम्भवति तस्मादसम्भवात्ततः प्रतिषेधसिद्धिः ॥ २६ ॥

अथ तत एव कस्माद्? इत्याह- अन्यथा चेति । सति वस्तुनि तस्या अदृश्यानुपलब्धेः सम्भवाद्- त्यन्यथाशब्दस्यार्थः । एतस्मात्नान्यस्या अनुपलब्धेः प्रतिषेधसिद्धिः ।

कुत एतत्- सत्यपि वस्तुनि तस्याः सम्भवः? इप्याह- अनुपलब्धिलक्षणप्राप्तेष्वित्यादि । इह प्रत्ययान्तरसाकल्यात्स्वभावविशेषाच्चो

२७ अन्यथा चानुपलब्धिलक्षणप्राप्तेषु देश काल स्वभावविप्रकृष्टेष्वर्थेषु आत्मप्रत्यक्षनिवृत्तेरभावनिश्चयाभावात् ॥

२८ अमूढस्मृतिसंस्कारस्यातीतस्य वर्तमानस्य च प्रतिपत्तृप्रत्यक्षस्य निवृत्तिरभावव्यवहारसाधनो ॥

यदि यथोक्तो विशेषो नाश्रीयते, तदा देश कालस्वभावैर्विप्रकृष्टा व्यवहिता येऽर्था नोपलब्धिलक्षणप्राप्ताः तेषु च या प्रतिपत्तुप्रत्यक्षनिवृत्तिः, तया अभावनिश्चयो न शक्यते । च इति । यस्मादित्यर्थे बोध्यम् । देशश्च कालश्च स्वभावश्चेति देशकालस्वभावाव्तैविप्रकृष्टेष्वित्यर्थः । तत्रापरिमेयदेशेन व्यवहिता देशविप्रकृष्टाः, अनेक कल्पने व्यवहिताः कालविप्रकृष्टाः, अतीतिन्द्रियाश्च भावाः स्वभाविप्रकृष्टा वेदितव्याः ।

तस्मादिह अनुपलब्धिलक्षणप्राप्ता इत्यनेनोपलब्धिप्रत्ययसाकल्याभाव उक्तः । देशकालस्वभावविप्रकृष्टाः इत्यनेन स्वभावविशेषेण अभाव उपदर्शितः । तस्मात्यथोक्ता अनुपलब्धिरेव प्रतिषेधसाधिका इति स्थितम् । एवं क्वचित्कालविशेषेऽग्रहेऽपि यथोक्ता अनुपलब्धिरेव प्रतिषेशसाधिका भवतीत्युच्यते ॥ २७ ॥

इदानीमुक्तकालविशेषेण सिद्धिनिर्देशार्थमाह- अमूढेत्यादि ।

स्मृतिजनकः संस्कारः स्मृतिसंस्कारः । स्मृतिबीजंमिति शेषः । अमूढः स्मृति पलब्धिलक्षणप्राप्तोऽर्थ उक्तः । द्वयोरेकैकस्याप्यभावेऽनुपलब्धिलक्षणप्राप्तोऽर्थ उच्यते ।

तदिह अनुपलब्धिलक्षणप्राप्तेषु इति प्रत्ययान्तरवैकल्यवन्तः उक्ताः । देशकालस्वभावविप्रकृष्टेषु इति स्वभावविशेषरहिता उक्ताः । देशश्च कालश्च स्वभावश्च तैर्विप्रकृष्टा इति बिग्रहः । तेष्वभावनिश्चयस्याभावात्सत्यपि वस्तुनि तस्याभाव इष्टः ।

कस्मान्निश्चयाभावः? इत्याह- तेषु प्रतिपत्तु रात्मनो यत्प्रत्यक्षं तस्य निवृत्तेः कारणात्निश्चयाभावः । यस्मादनुपलब्धिलक्षणप्राप्तेषु आत्मप्रत्यक्षनिवृत्तेरभावनिश्चयाभावः, तस्मात्सत्यपि वस्तुनि आत्मप्रत्यक्षनिवृत्तिलक्षणाया अदृश्यानुपलब्धेः सम्भवः । ततो यथोक्ताया एव प्रतिषेधसिद्धिः ॥ २७ ॥

अथेयं दृश्यानुपलब्धिः कस्मिन् काले प्रमाणम्? किंस्वभावा? किंव्यापारा च? इत्याह- अमूढेत्यादि । प्रतिपत्तुः प्रत्यक्षो घटादिरर्थः, तस्य निवृत्तिरनुपलब्धिः, तदभावस्वभावेति यावत् । अत एवाभावो न साध्यः स्वभावानुपलब्धेः, सिद्धत्वात् । अविध्यमानोऽपि च घटादिरेकज्ञानसंसर्गिणि संस्कारो यस्मिन् घटादौ स तथोकः । अतीतस्य वर्तमानस्य च प्रतिपतृप्रत्यक्षस्य निवृत्तिरिति । अतीतवर्तमानकालयोर्यः शून्यप्रदेशादिरुपलब्धः तत्प्रदेशादिसमानयोग्यो यो घटादिः स एवातीतवर्तमानत्वेनोच्यते । अन्यथा प्रदेशादौ घटाद्यभावे चातीतत्वं वर्तमानत्वं च कुतः स्यात् ।

प्रतिपत्ता च देवदत्तादिः । तस्य प्रत्यक्षेण परिच्चेद्यत्वाद्घटादिः प्रत्यक्षः । अत्रापि प्रत्यक्षापरिच्चेद्यप्रदेशादिसमानयोग्यरूपत्वाद्घटादिः प्रत्यक्ष इत्युच्यते । परमार्थतस्तत्र घटाद्यभावे कथं प्रत्यक्षत्वं स्यात् । एवमुक्तप्रकारेण प्रतिपत्तु प्रत्यक्षस्यातीतस्य वर्तमानस्य च निवृत्तिरभावाश्रितत्वादपरवस्तुलक्षणा । घटादिशून्यदेशविशेषस्वरूपा भवतीति शेषः ।

अभावव्यवहारस्तु इह घटो नास्ति इत्येवमाकारं विज्ञानम्, तदभिधानम्, निःशङ्क पर्देशादौ गमनलक्षण प्रवृत्तिश्च । ज्ञानाभिधानप्रवृत्तिलक्षणो व्यवहारः भूतले भासमाने समग्रसामग्रीको ज्ञायमानो दृश्यतया सम्भावितत्वात्प्रत्यक्ष उक्तः । अत एवज्ञानसंसर्गी दृश्यमानोऽर्थस्तज्ज्ञानं च प्रत्यक्षनिवृत्तिरुच्यते । ततो हि दृश्यमानादर्थात्तद्बुद्धेश्च समग्रदर्शनसामग्रीकत्वेन प्रत्यक्षतया सम्भावितस्य निवृत्तिरवसीयते । तस्मादर्थज्ञाने एव प्रत्यक्षस्य घटस्याभाव उच्यते । न तु निवृत्तिमात्रमिहाभावः, निवृत्तिमात्राद्दृश्यनिवृत्य निश्चयात् ।

ननु च दृश्यनिवृत्तिरवसीयते, दृश्यानुपलम्भात्?३ सत्यमेवैतत्केवलमेकज्ञानसंसर्गिणि दृश्यमाने घटो यदि भवेद्दृश्य एव भवेदिति दृशय्सम्भावितः । ततो दृश्यानुपलब्धिर्निश्चिता । दृश्यानुपलब्धिनिश्चयसामर्थया देव च दृश्याभावो निश्चितः । यदि हि दृश्यस्तत्र भवेद्, दृश्यानुपलम्भो न भवेत् । अतो दृश्यानुपलम्भनिश्चयाद्दृश्याभावः सामर्थ्यादवसितः, न व्यवहृत इति दृश्यानुपलम्भेन व्यवहर्तव्यः ।

तस्मादर्थान्तरम्- एकज्ञानसंसर्गि दृश्यमानम्, तज्ज्ञानं च प्रत्यक्ष निवृत्तिनिश्चयहेतुत्वात्प्रत्यक्षनिवृत्तिरित्युक्तं द्रष्टव्यम् ।

यथा चैकज्ञानसंसर्गिणि प्रत्यक्षे घटस्य प्रत्यक्षत्वमारोपितमसतोऽपि, तथा तस्मिन्नेकज्ञानसंसर्गिण्यतीते चामूढस्मृतिसंस्कारे, वर्तमाने च घटस्य तत्तद्रूपमारोपितमसत इति द्रष्टव्यम् । अनेन च दृश्यानुपलब्धिः प्रत्यक्ष घटनिवृत्तिस्वभावोक्ता, सा च सिद्धा । तेन न घटाभावः साध्यः, अपितु अभावव्यवहार इत्युक्तम् ।

साध्यतेऽनयेति अभावव्यवहारसाधनी । तदेवमतीत वर्तमानोत्पन्नविषया अनुपलब्धिरेव अभावव्यवहारसाधनी, भाविविषया तु नेत्युक्तं भवति । तथा हि भाविकालस्य प्रदेशादिधर्मी न प्रत्यक्ष ।शून्यप्रदेशोपलब्धिलक्षणा अनुपलब्धिरपि न सिध्यति । अतीतकालस्य तु धर्मी प्रत्यक्षः घटशून्यप्रदेशश्च स्मर्यते । तदुभयहेतोरमूढस्मृतिसंस्कार इत्युक्तम् । तस्माद्विगतादिदिवसीयघटादिशून्यप्रदेशादिस्मरणे अभावव्यवहारसिद्धिर्भवति । वर्तमानकालस्य च धर्मी घटादिशून्यप्रदेशादिरपि प्रत्यक्षसिद्धः । तस्मात्तत्राभावव्यवहारसम्बन्धः सुलभः ।

अमूढस्मृतिसंस्कार इत्युक्त्वा हेत्वसिद्धिनिरस्ता । अन्यथा शून्यप्रदेशाद्यस्मरणेऽनुपलब्धिरेव न सिध्यति । अतीत वर्तमान इत्यनेनोक्तः कालविशेषो निर्दिष्ठः ।

अमूढोऽभ्रष्टो दर्शनाहितः स्मृतिजननरूपः संस्कारो यस्मिन् घटादौ स तथोक्तः । तस्यातीतस्य प्रतिपत्तप्रत्यक्षस्येति सम्बन्धः । वर्तमानस्य च प्रतिपत्तृप्रत्यक्षस्येति सम्बन्धः । अमूढस्मृतिसंस्कारग्रहणं तु न वर्तमानविशेषणम् । यस्मादतीते घटविविक्तप्रदेशदर्शने स्मृतिसंस्कारो मूढो दृश्यघटानुपलम्भे दृश्ये च घटेऽमूढो भवति । वर्तमाने तु घटरहितप्रदेशदर्शने न स्मृति संस्कारमोहः । अत एव न घटाभावे नापि घटानुपलम्भे घटे मोहः । तस्मान्न वर्तमाननिषेध्यविशेषणममूढस्मृतिसंस्कारग्रहणम् । स्मृतिसंस्कारव्यभिचाराभावाद्वर्तमानस्यार्थस्य । अत एव वर्तमानस्य चेति । च शब्दः कृतो विशेषणरहितस्य वर्तमानस्य विशेषणवतातीतेन समुच्चयो यथा विज्ञायेतेति ।

तदयमर्थः- अतीतोऽनुपलम्भः स्फुटं स्मर्यमाणः प्रमाणं वर्तमानश्च । ततो नासीदिह घटोऽनुपलब्धत्वान्नास्त्यनुपलभ्यमानत्वादिति शक्यं ज्ञातुम् । न तु नभविष्यत्यत्र घटोऽनुपलप्स्यमानत्वादि शक्यं ज्ञातुम् । अनागताया अनुपलब्धेः सत्त्वसन्देहादिति कालविशेषोऽनुपलब्धेर्व्याख्यातः ।

व्यापारं दर्शयति- अभावस्य व्यवहारः नास्ति इत्येवमाकारकं ज्ञानम्, शब्दश्चैवमाकारः, निश्शङ्क गमनागमनलक्षणा च प्रवृत्तिः कायिकोऽभावव्यवहारः । घटाभावे हि ज्ञाते निःशङ्क गन्तुमागन्तुं च प्रवर्तते ।

तदेतस्य त्रिविधस्यापि अभावव्यवहारस्य दृश्यानुपलब्धिः प्रवर्तनी साधनी प्रवर्तिका ।
यद्यपि च नास्ति घटः इति ज्ञानमनुपलब्धेरेव भवति । अयमेव चाभावनिश्चयः, तथापि यस्मात्प्रत्यक्षेण केवलः प्रदेश उपलब्धस्तस्मातिह घटो नास्ति इत्येव च प्रत्यक्षव्यापारमनुसरत्यभावनिश्चयः, तस्मात्प्रत्यक्षस्य केवलप्रदेशग्रहणव्यापारानुसार्यभावनिश्चयः प्रत्यक्षकृत ।

२९ तस्या एवाभावनिश्चयात् । ॥

३० सा च प्रयोगभेदादेकादशप्रकारा ॥

प्रतिपत्त प्रत्यक्ष इत्युक्त्वा च निखिलप्रतिपत्त प्रत्यक्षं निरस्तम् । निखिलप्रतिपत्तप्रत्यक्षोक्तो हि हेतुरसिद्ध एव स्यात् । सकलप्रतिपत्तप्रत्यक्षनिवृत्तिस्तु प्रतिवाद्यसिद्धा इति ॥ २८ ॥ ।

अनन्तरोक्ता अनुपलब्धिरेवाभावव्यवहारसाधनी इत्येतदेव कस्मातिति चेत्? आह- तस्या इति ।

अनुपहतस्मृतिबीजस्य प्रतिपत्तप्रयक्षस्यातीतवर्तमानोत्पन्नविषयवस्तुनो या निवृत्तिस्तयैवाभावनिश्चयः शक्यते, अन्यया भाविविषयया तु न ॥ २९ ॥

तदेवं पूर्वोक्तहेतुना अनुपलब्धिस्वरूपं कालवेशेषश्चाभिहितः । तस्या प्रयोगभेदप्रदर्शनार्थमाह- सा चैति ।

प्रयोग इति त्रिलक्षणसाधनस्य शब्देनाभिधानम् । तद्भदादनुपलब्धिरेकादशप्रकारा भवति ॥ ३० ॥

किञ्च- दृश्यानुपलम्भनिश्चयकरणसामर्थ्यादेव पूर्वोक्तया नीत्या प्रत्यक्षणैवाभावो निश्चितः । केवलमदृष्टानामपि सत्त्वसम्भवात्, सत्त्वशङ्कया न शक्नोत्यसत्त्वं व्यवहर्तुम् । अतोऽनुपलम्भोऽभावं व्यवहारयति- दृश्यो यतोऽनुपलब्धः, तस्मान्नास्ति इति । अतो दृश्यानुपलम्भोऽभावज्ञानं कृत प्रवर्तयति, न त्वकृतं करोति- इत्यभावनिश्चयोऽनुपलम्भात्प्रवृत्तोऽपि प्रत्यक्षेण कृतोऽनुपलम्भेन प्रवर्तित उक्त इत्यभावव्यवहारप्रवर्तन्यनुपलब्धिः ॥ २८ ॥

कस्मात्पुनरतीते, वर्तमाने चानुपलब्धिर्गमिका? इत्याह- तस्या एव यथोक्तकालाया अनुपलब्ध्रभावनिश्चयात् । अनागता ह्यनुपलब्धिः स्वयमेव सन्दिग्धस्वभावा । तस्या असिद्धाया नाभावनिश्चयः, अपि त्वतीतवर्तमानाया इति ॥ २९ ॥

सम्प्रत्यनुपलब्धेः प्रकारभेदं दर्शयितुमाह- सा चेत्यादि । सा च एषानुपलब्धिः एकादशप्रकारा एकादश प्रकारा अस्य इत्येकादशप्रकारा ।

कुतः प्रकारभेदः? प्रयोगभेदात् । प्रयोगः= प्रयुक्तिः, शब्दस्याभिधाव्यापार उच्यते । शब्दो हि साक्षात्क्वचिदर्थान्तराभिधायी, क्वचित्प्रतिषेधान्तराभिधायो। सर्वत्रैव तु दृश्यानुपलब्धिरशब्दोपात्तापि गम्यत इति वाचकव्यापारभेदादनुपलम्भप्रकारभेदः, न तु स्वरूपभेदादिति याअव्त् ॥ ३० ॥

३१ स्वभावानुपलब्धिर्यथा- नात्र धूमः इति उपल्ब्धिलक्षणप्राप्तस्यानुपलब्धिरिति ॥ (१)

३२ कार्यानुपलब्धिर्यथा- नात्राप्रतिबद्धसामर्थ्यानि धूमकारणानि सन्ति, धूमाभावादिति ॥ (२)

प्रकारभेदनिर्देशार्थमाह- स्वभावानुपलब्धिरिति ।

स्वभावस्य वस्तुस्वरूपस्य अनुपलब्धिरित्यर्थः । दृष्टान्तप्रदर्शनार्थमाह- यथेति । दृष्टान्तशब्दः । इह सर्वत्र तथा द्रष्टव्यम् । अत्र इति । अनेन धर्मोउक्तः । धूमो न इति । अनेन साध्यधर्म उक्तः ।

उपलब्धिप्रत्ययान्तरसत्त्वेऽपि योग्यस्वभावधूमानुपलब्धिरिति शेषः । ॥ ३१ ॥

कार्यानुपलब्धिरिति । कार्यस्य अनुपलब्धिरिति । विग्रहः । दृष्टान्तमाह- यथा नात्र अप्रतिबद्धसामर्थ्यानि धूमकारणानि सन्तीति । अप्रतिबद्धसामर्थ्यानि यानि प्रकारभेदाताह- स्वभावेत्यादि । प्रतिषेध्यस्य यः स्वभावस्तस्यानुपलब्धिर्यथेति । अत्रेति धर्मी । न धूमः इति साध्यम् । उपलब्धिलक्षणप्राप्तस्यानुपलब्धेरिति हेतुः । अयं च हेतुः पूर्ववद्व्याख्येयः ॥ ३१ ॥

प्रतिषेध्यस्य यत्कार्यम्, तस्यानुपलब्धिरुदाह्रियते- कार्येत्यादि । यथेति । इहेति धर्मी । अप्रतिबद्धम्= अनुपहतं धूमजननं प्रति सामर्थ्य येषां तान्यप्रतिबद्धसामर्थ्यानि । न सन्तीति साध्यम् । धूमाभावादिति हेतुः । कारणानि च नावर्श्यं कार्यवन्ति भवन्तीति कार्यादर्शनादप्रतिबद्धसामर्थ्यानामेवाभावः साध्यः, न त्वन्येषाम् । अप्रतिबद्धशक्तीनि चान्त्यक्षण भावीन्येव, अन्येषां पर्तिबन्धसम्भवात् ।

कार्यानुपलब्धिश्च यत्र कारणदृश्यं तत्र प्रयुज्यते । दश्ये तु कारणे दृश्यानुपलब्धिरेव गमिका ।

तत्र धवलगृहोपरिस्थितो गृहाङ्गणमपश्यन्नपि चतुर्षु पार्श्वष्वङ्गणभित्तिपर्यन्तं पश्यति । भित्तिपर्यन्तसम चालोकसंज्ञकमाकाशदेशे धूमविविक्तं पश्यतिः, तत्र धूमाभावनिश्चयात् । यद्देशस्थेन वह्निना जन्यमानो धूमस्तद्देशः स्यात् । तस्य च वह्नरेप्रतिबद्धसामर्थ्यस्याभावः प्रतिपत्तव्यः । तद्गृहाङ्गणदेशेन च वह्निना जन्यमानो धूमस्तद्देशः स्यात् । तस्माद्तद्देशस्य वहनरभावः प्रतिपत्तव्यः । तद्गृहाङ्गणदेश भित्तिपरिक्षिप्तं भित्तिपर्यन्तपरिक्षिप्तेन चालोकात्मना धूमविविक्तेनाकाशदेशेन सह धर्मिणं करोति । तस्माद्दृश्यमानादृशय्मानाकाशदेशावयवः प्रत्यक्षाप्रत्यक्षसमुदायो वह्नयभावप्रतीतिसामर्थ्यायातो धर्मी, न दुश्यमान एव । अत्र इति तु प्रत्यक्षनिर्देशो दृश्यमानभागापेक्षः ।

३३ व्यापकनुपलब्धिर्यथा- नात्र शिशपा, वृक्षाभावादिति ॥ (३)

३४ स्वभावविरुद्धोपलब्धिर्यथा- नात्र शीतस्पर्शः, अग्नेरिति ॥ (४)
धूमकारणानि अनलेग्धनादीनि तानि तथोक्तानि । अत्र इत्यनेन धर्मी उक्तः । अप्रतिबद्धसामर्थ्यानि धूमकारणानि न सन्तीत्यनेन साध्यधर्म उक्तः । धुमाभावादिति । यस्मादत्र धूमस्यैभावः, तस्मादिति शेषः । यद्यत्राप्रतिबद्धसामर्थ्यानि धूमकारणानि स्युः, तर्हि धूमोऽप्युत्पद्यमानः स्यादेव ॥ ३२ ॥

व्यापकानुपलब्धिरिति । व्याप्नोतीति व्यापकम्, तस्यानुपलब्धिरित्यर्थः । यथा नात्र सिशपा वृक्ष्त्वादिति । अनेन दृष्टान्त उक्तः । वृक्षस्तु शिशपाया व्यापकः, तस्य निवृतौ सापि निवर्तिता भवति । अत्रेति । अनेन धर्मी उक्तः । वृक्षाभावादिति । अनेन हेतुरुक्तः । शिशपा न इति । अनेन साध्यधर्म उक्तः ॥ ३३ ॥

स्वभावविरुद्धोपलब्धिरिति । स्वभावेन विरुद्धः स्वभावविरुद्धः, तस्योपलब्धिरित्यर्थः । दृष्टान्तमाह- यथा नात्र शीतस्पर्शः, अग्नेरिति । अत्रेत्यनेन धर्मी उक्तः । न केवलमिहैव दृश्यादृश्यसमुदायो धर्मी, अपि तु अन्यत्रापि । शब्दस्य क्षणिकत्वे साध्ये कश्चिदेव शब्दः प्रत्यक्षः, अन्यस्तु परोक्षः । तद्वदिहापि । यथा चात्र धर्मी साध्यप्रतिपत्त्यधिकरणभूतो दृश्यादृश्यावयवो दर्शितः, तद्वदुत्तरेष्वपि प्रयोगेषु स्वयं पर्तिपत्तव्यः ॥ ३२ ॥

प्रतिषेध्यस्य व्याप्यस्य यो व्यापको धर्मरतस्यानुपलब्धिरुदाह्रियते- व्यापवेत्यादि । यथेति । अत्रेति धर्मी । न शिशपेति । शिशपाभावः साध्यः । वृक्षस्य व्यापकस्य अभावादिति हेतुः । इयमप्यनुपलब्धिर्व्याप्यस्य शिशपात्वस्यदृशय्स्याभावे प्रयुज्यते । उपलब्धिलक्षणप्राप्ते तु व्याप्ये दृश्यानुपलब्धिर्गमिका । तत्र यदा पूर्वापरावुपलिप्टौ समुन्नतौ देशौ भवतः, तयोरेकरतरुगहनोपेतः, अपरश्चैकशिलाघटितो निर्वृक्षकक्षकः । द्रष्टापि तत्स्थान् वृक्षान् पश्यन्नपि शिशपादिभेदं यो न विवेचयति, तस्य वृक्षत्वं प्रत्यक्षम्, अप्रत्यक्षं तु शिशपात्वम् । स हि निर्वृक्ष एकशिलाघटिते वृक्षाभावं दृश्यत्वाद्दृश्यानुअलम्भादवस्यति । शिशपात्वाभावं तु व्यापकस्य वृक्षत्वस्याभावादिति । तादृशे विषयेऽस्या अभावसाधनाय प्रयोगः ॥ ३३ ॥

प्रतिषेध्यस्य स्वभावेन विरुद्धरयोपलब्धिरदाह्रियते- स्वभावेत्यादि । यथेति । अत्रति धर्मी । न शीतरपर्श इति शीतस्पर्शप्रतिषेधः साध्यः ।

३५ विरुद्धकायपलब्धिर्यथा- नात्र शीतस्पर्शो धूमादिति ॥ (५)

३६ विरुद्धव्याप्तोपलब्धिर्यथा- न ध्रुवभावो भूतस्यापि भावस्य विनाशो हेत्वन्तरापक्षणादिति ॥

अग्नेरित्यनेन हेतुरुक्तः । न शीतस्पर्श इत्यनेन साध्यधर्म उक्तः । तथा हि- अग्नेः शीतस्पर्शेन विरोधात्तत्सत्त्वे शीतस्पर्शो निवार्यते ॥ ३४ ॥

विरुद्धकार्योपलब्धिरिति । विरुद्धस्य कार्य विरुद्धकार्यम्, तस्योपलब्धिरित्यर्थः । यथा नात्र शीतस्पर्शो धूमादिति । अनेन सा अभिधीयते । अत्रेति धर्मी । धूमादिति हेतुः । न शीतस्पर्श इति साध्यधर्मः । शीतस्पर्शविरुद्धोऽग्निः, तस्य कार्य धूमः । तस्माद्यत्र धूमस्तत्राग्निरपि, तत्राग्निस्तत्र च कुतः शीतस्पर्शः ॥ ३५ ॥

विरुद्धव्याप्तोपलब्धिरिति । विरुद्धेन व्याप्तं विरुद्धव्याप्तम् । तस्योपलब्धिरित्यर्थः । दृष्टान्तमाह- यथा न ध्रुवभावो भूतस्यापि भावस्य विनाश इति । ध्रुवभावीति निश्चितभवनधर्मा इति शेषः । भूतस्यपि भावस्येति । जातस्य भावस्येति वह्नेरिति हेतुः । इयं चानुपलब्धिस्तत्र प्रयोक्तव्या यत्र शीतस्पर्शोऽदृश्यः, दृश्ये दृश्यानुपलब्धिप्रयोगात् ।

तस्माद्यत्रे वर्णविशेषाद्वह्निर्द्दश्यः, शीतस्पर्शो दूरस्थत्वात्सन्नप्यदृश्यः, तत्र प्रयोगः ॥ ३४ ॥

प्रतिषेध्येन यद्विरुद्धं तत्कार्यस्योपलब्धिर्गमिका । यथेति । अत्रेति धर्मी । न शीतस्पर्श इति शीतस्पर्शाभावः साध्यः । धूमादिति हेतुः । यत्र शीतस्पर्शः सन् दृश्यः स्यात्, तत्र दृश्यानुपलब्धिर्गमिका । यत्र वह्निः प्रत्यक्षः, तत्र विरुद्धोपलब्धिर्गमिका । द्वयोरपि तु परोक्षत्वे विरुद्धकार्योपलब्धिः प्रयुज्यते ।

तत्र समस्तपवरकस्थं शीतं निवर्तयितुं समर्थस्याग्नेरनुमापकं यदा विशिष्टं धूमकलापं निर्यान्तमपवरकात्पश्यति, तदा विशिष्टाद्वह्नरनुमिताद्शीतस्पर्शनिवृत्तिमनुमिमीते । इह दृश्यमानद्वारप्रदेशसहितः सर्वोऽपवरकाभ्यन्तरदेशो धर्मी साध्यप्रतिपत्त्यनुसरणात्पूर्ववद्द्रष्टव्य इति ॥ ३५ ॥

प्रतिषेधस्य यद्विरुद्धं तेन व्याप्तस्य धर्मान्तरस्य उपलब्धिरुदाहर्तव्या । यथेति । ध्रुवम्= अवश्यं भवतीति ध्रुवभावो । नेति ध्रुवभावित्वनिषेधः साध्यः । विनाशो धर्मी । भूतस्यापि भवस्येति धर्मिविशेषणम् । भूतस्य जातस्यापि विनश्वरः स्वभावो नावश्यम्भावी, किमुत अजातस्य इति अपिशब्दार्धः । जनकाधेतोरन्यो हेतुः हेत्वन्तरं मुद्गरादि । तदपेक्षते

३७ कार्यविरुधोअलब्धिर्यथा- नेहाप्रतिबद्धसामर्थ्यानि शीतकारणानि सन्ति, वह्नेरिति ॥

शेष । भूतस्यापि भाव्स्य विनाशः इत्यनेन धर्मी उक्तः । न ध्रुवभावी इत्यनेन साध्यधर्म उक्तः । तेन जातस्यैव भावस्य विनाशो न नित्य इत्यमर्थः पर्यवसितः ।

कथमेतदिति चेद्? आह- हेत्वन्तरापेक्षणादिति ।

एवं हि हेत्वन्तरापेक्षा अङ्गीक्रियते । येषां हेत्वन्तरापेक्षा, ते नावश्यम्भाविनः, यथा कार्षासे रक्तता । इहापि ध्रुवभावित्वमध्रुवभावित्वेन विरुद्धम् । तेन हेत्वन्तरापेक्षणं व्याप्तम् । तस्माद्यत्र हेत्वनन्तरापेक्षा तत्राध्रूवभावित्वम् । यत्राध्रुवभावित्वं तत्र ध्रुवभावित्वं कुतः ॥ ३६ ॥

कार्यविरुद्धोपलब्धिरिति । कार्येण विरुद्धं कार्यविरुद्धम्, तस्योपलब्धिरिति शेषः । विनश्वरः । अपेक्षणादिति हेतुः । हेत्वन्तरापेक्षणं नाम अध्रुवभावित्वेन व्याप्तम् । यथा- वाससि रागस्य रञ्जनादिहेत्वन्तरापेक्षणमद्रुवभावित्वेन व्याप्तम् । ध्रुवभावित्वविरुद्धं चाध्रुवभावित्वम् । विनाशश्च विनश्चरस्वभावात्मा हेत्वन्तरापेक्ष इष्टः । ततो विरुद्धव्याप्तहेत्वन्तरापेक्षणदर्शनात्ध्रुवभावित्वनिषेधः ।

इह ध्रुवभावित्वं नित्यत्वम्, अध्रुवभावित्वं चानित्यत्वम् । नित्यत्वानित्यत्वयोश्च परस्परपरिहारेणावस्थानादेकत्र विरोधः । तथा च सति परस्परपरिहारवतोर्द्वयोर्यदैकं दृश्यते तत्र द्वितीयस्य तादात्म्यनिषेधः कार्यः । तादात्म्यनिषेधश्च दृश्यताभ्युपगतस्य सम्भवति । यत एवं तादात्म्यनिषेधः क्रियते- यदययं दृश्यमानो नित्यो भवेत्, नित्यरूपो दृश्येतः, न च नित्यरूपो दृश्यते, तस्मान्न नित्यः । एवं च प्रतिषेधस्य नित्यत्वस्य दृश्यमानात्मकत्वमभ्युपगम्य प्रतिषेदह्ः कृतो भवति । वस्तुनोऽप्यदृश्यस्य पिशाचादेर्यदि दृश्यघटात्मकत्वनिषेधः क्रियते, दृश्यात्मकत्वमभ्युपगम्य कर्तव्यः । यदययं घटो दृश्यमानः पिशाचात्मा भवेत्पिशाचो दृष्टो भवेत्, न च दृष्टः, तस्मान्न पिशाच इति । दृश्यात्मत्वाभ्युपगमपूर्वको दृश्यमाने घटादौ वस्तुनि वस्तुनोऽवस्तुनो वा दृश्यस्यादृश्यस्य च तादात्म्यप्रतिषेधः । तथा च सति यथा घटस्य दृश्यत्वमभ्युपगम्य प्रतिषेधो दृश्यानुपलम्भादेव, तद्वत्सरव्स्य परस्परपरिहारवतोऽन्यत्र दृश्यमाने निषेधो दृश्यानुपलम्भदेव । तथा चास्यैवञ्जातीयकस्य प्रयोगस्य स्वभावानुपलब्धावन्तर्भावः ॥ ३६ ॥

प्रतिषेध्यस्य यत्कार्य तस्य यद्विरुद्धं तस्योपलब्धेरुदाहरणम्- यथेति ।

३८ व्यापकविरुद्धोपलब्धिर्यथा- नात्र तुषारस्पर्शो वह्नरिति ॥

३९ कारणानुपलब्धिर्यथा- नात्र धूमोऽग्न्यभावादिति ॥

दृष्टान्तमाह- यथा नेहाप्रतिबद्धसामर्थ्यानि शीतकारणानि सत्यग्नेरिति । इहेति धर्मी । अग्नेरिति हेतुरुक्तः । नाप्रतिवद्धसामर्थ्यानि शीतकारणानि सन्तीति । साध्यधर्म उक्तः ।

अत्र शीतकारणानां कार्य शीतम् । शीतं चाग्निना विरुद्धम् । यत्राग्निस्तत्र कुतः शीतप्रवेशः । यत्र शीतस्पर्शस्तत्राप्रतिबद्धसामर्थ्यानि शीतकारणानि च कथमपि न । यदि स्युस्तादृशानि, तर्हि अवश्यं शीतस्पर्शोऽपि स्यात् ॥ ३७ ॥

व्यापकविरुद्धोपलब्धिरिति । व्यापकेन विरुद्धं व्यापकविरुद्धम्, तस्योपलब्धिरित्यर्थः । दृष्टान्तमाह- यथा नात्र तुषारस्पर्शोऽग्नेरिति । अत्रेति । अनेन धर्मी उक्तः । अग्नेरिति । अनेन हेतुरुक्तः । न तुषारस्पर्श इति । अनेन साध्यधर्म उक्तः । तुषारस्पर्शः= हिमस्पर्शः । तस्य व्यापकः शीतस्पर्श, तद्विरुद्धोऽग्निः । तस्माद्यत्राग्निस्तत्र शीतस्पर्शः कुतः । यत्रा च शीतस्पर्शस्तत्र तुषारस्पर्शोऽपि कथमपि न ॥ ३८ ॥

कारणानुपलब्धिरिति । कारणस्यानुपलब्धिः कारणानुपलब्धिरिति विग्रहः । इहेति धर्मी । अप्रतिबद्धं सामर्थ्यंयेषां शीतकारणानां शीतजननं प्रति, तानि न सन्ति- इति साध्यम् । वह्नरिति हेतुः ।

यत्र शीतकारणानि अदृश्यानि, शीतस्पर्शोऽप्यदृश्यः, तत्रायं हेतुः प्रयोक्तव्यः । दृश्यत्वे तु शीतस्पर्शस्य तत्कारणानां वा कार्यानुपलब्धिः, दृश्यानुपलब्धर्वा गमिका । तस्मादेषाप्यभावसाधनी । ततो यस्मिन्नुद्देशे सदपि शीतकारणमदृश्यं शीतस्पर्शश्च दूरस्थत्वात्, प्रतिपत्तु र्वह्निर्भास्वरवर्णत्वाद्दूरादपि दृश्य तत्रायं प्रयोग इति ॥ ३७ ॥

प्रतिषेध्यस्य यद्व्यापकं तेन यद्विरुद्धं तस्योपलब्धिरुदाहतव्या यथेति । अत्रेति धर्मी । तुषारस्पर्शो नेति साध्यम् । वह्नरिति हेतुः ।

यत्र व्याप्यस्तषारस्पर्शो व्यापकश्च शीतस्पर्शो न दृश्यः, तत्रायं हेतुः । तयोदृश्यत्वे स्वभावस्य व्यापकस्य चानुपलब्धिर्यतः प्रयोक्तव्या । तथा च सत्यभावसाधनीयम् । दूरवर्तिनश्च प्रतिपत्तुस्तुषारस्पर्शः शीतस्पर्शविशेषः । शीतमात्रं च परोक्षम् । वह्निस्तु रूपविशेषाद्दूरस्थोऽपि प्रत्यक्षः । ततो वह्नः शीतमात्राभावः । ततः शीतविशेषतुषारस्पर्शाभावनिश्चयः । शीतविशेषस्य शीतसामान्येन व्याप्तत्वादिति विशिष्टविषयेऽस्याः प्रयोगः ॥ ३८ ॥

प्रतिषेध्यस्य यत्कारणं तस्यानुपलब्धेरुदाहरणम्- यथेति । अत्रेति

४० कारणविरुद्धोपलब्धिर्यथा- नास्य रोमहर्षादिविशेषः, सन्निहितदहनविशेषात्वादिति ॥

दृष्टान्तमाह- यथा नात्र धूमोऽग्न्यभावादिति । अत्रेति, अनेन धर्मी उक्तः । अग्न्यभावादित्यनेन च निर्दुष्टो हेतुः कीर्तितः । न धूम इति । अनेन साध्यधर्म उक्तः । इह चाग्नेः कार्य धूम इति । यत्राग्न्यभावस्तत्र धूमोऽपि कथमपि न ॥ ३९ ॥

कारणविरुद्धोपलब्धिरिति । कारणेन विरुद्धं कारणविरुद्धम्, तस्योपलब्धिरित्यर्थः । दृष्टान्तमाह- यथा नास्य रोमहर्षादिविशेषा इति । अस्यति । अनेन धर्मी उक्तः । न रोमहर्षादिविशेष इत् । अनेन साध्यधर्म उक्तः । रोमहर्षास्तु रोम्णामुद्भदेः । स आदिर्येषां ते रोमहर्षादयाः । आदिशब्देन दन्तसङ्घर्षण- शरीरकम्पादीनां परिग्रहः । ते च रोमहर्षादय एव विशेषा इति रोमहर्षादिविशेषाः । भय- प्रीत्यादिभिरपि रोमहर्षादिर्जायते । तस्य व्यवच्चेदार्थ विशेष इत्युक्तम् । इह च शीतवायुपीडितस्य ये रोमहर्षास्ते एव बोध्याः ।

सन्निहितदहनविशेषत्वादिति । अत्र दहनविशेषस्त्वग्निविशेषः । सन्निहित इति । समीपवर्ती । सन्निहितो दहनविशेषो यस्य स सन्निहितदहनविशेषः, तस्य भावस्तत्त्वम्, तस्मात्सन्निहितदहनविशेषत्वात् । यादृशोऽग्निविशेषः शीतधर्मी । न धूम इति साध्यम् । वह्नयभावादिति हेतुः । यत्र कार्य सदपि अदृश्यं भवति, तत्रायं प्रयोगः । दृश्ये तु कार्ये दृश्यानुपलब्धिर्गमिका । ततोऽयमप्यभावसाधनः । निष्कम्पायतसलिलपूरिते ह्नदे हेमन्तोचितबाष्पोद्गमे विरले सन्ध्यातमसि सति सन्नपि अत्त्र धूमो न दृश्यत इति कारणानुपलब्ध्या प्रतिषेध्यते । वह्निस्तु यदि तस्याम्भसः उपरि ष्लवमानो भवेत्प्रज्वलितः, रूपविशेषादेवोपलब्धो भवेत् । अज्वलितस्तु इन्धनमध्यनिविष्टो भवेत् । तत्रापि दहनाधिकरणनिबन्धनं प्रत्यक्षमिति स्वरूपेण, आधाररूपेण वा दृश्य एव वह्निरिति तत्रास्य प्रयोग इति ॥ ३९ ॥

प्रतिषेध्यस्य यत्कारणं तस्य यद्विरुद्धं तस्योपलब्धेरुदाहरणम्- यथेति । अस्येति धर्मी । रोम्णां हर्ष उद्भदः, स आदिर्येषां दन्तवीणादीनां शीतकृतानां ते विशिष्यन्ते तदन्येभ्यो भयश्रद्धादिकृतेभ्य इति रोमहर्षादिविशषाः । ते न सन्तीति साध्यम् । दहन एव विशिष्यते तदन्यस्माद्दहनाच्चीतनिवर्तनसामर्थ्यनेति दहनविशषः । कश्चिद्दहनह्सन्नपि न शीतनिवर्तनक्षमः, यथा प्रदीपः । तादृशनिवृतये विशेषग्रहणम् । सन्निहितो दहनविशेषो यस्य स तथोक्तः तस्य भावस्तस्मादिति हेतुः । यत्र शीतस्पर्शः सन्नप्यदृश्यः, रोम-

४१ कारणविरुद्धकार्योपलब्धिर्यथा- न रोमहर्षादिविशेषयुक्तपुरुषवा यं प्रदेशः धूमादिति ॥

निराकरणसमर्थस्तादृशस्य सिद्धयर्थ विशेष इत्युक्तम् । तथाहि- अत्र रोमहर्षादि विशेषस्य हेतुः शीतस्पर्शः, तद्विरुद्धोऽनिः । अग्नितापः शीतनिवारकः । शीतविवृतौ रोमहर्षादिविशेषाः कथमपि न स्युः ॥ ४० ॥

कारणविउर्द्धकार्योपलब्धिरिति । कारणेन विरुद्धं कारणविरुद्धम्, तस्य कार्य कारणविरुद्धकार्यम्, तस्योपलब्धिः । कारणविरुद्धकार्योपलब्धिः । दृष्टान्तमाह- यथा न रोमहर्षादिविशेषयुक्तपुरुषवानयं प्रदेशो धूमादिति । अयं प्रदेश इत्यनेन धर्मी उक्तः । धूमादित्यनेन हेतुरुक्तः । न रोमहर्षादिविशेषयुक्तपुरुषवानित्यनेन साध्यधर्म उक्तः ।

रोमहर्षादिविशेषेण युक्तो रोमहर्षादिविशेषयुक्तः । रोमहर्षादिविशेषयुक्तश्चासौ पुरुषश्चेति रोमहर्षादिविशेषयुक्तपुरुषाः, स विदयते यस्मिन् प्रदेशे स रोम हर्षादिविशेषयुक्तपुरुषवान् ।

इह रोमहर्षादिविशेषस्य कारणं शीतस्पर्शः । तद्विरुद्धोऽग्निः । अग्निकार्य धूमः ।

हर्षादिविशेषाश्चादृश्याःव्तत्रायं प्रयोगः । रोमहर्षादिविशेषस्य दृश्यत्वे दृश्यानुपल्ब्धिः प्रयोक्तव्या । शीतस्पर्शस्य दृश्यत्वे कारणानुपलब्धिः । तस्माद्भवसाधनोऽयम् । रूपविशेषाद्धिदूराद्दहनं पश्यति । शीतस्पर्शस्त्वदृश्यो रोमर्षादिविशेषाश्च । तेषां कारणविरुद्धोपलब्ध्याभावं प्रतिपद्यत इति तत्रास्य प्रयोग इति ॥ ।४० ॥

प्रतिषेध्यस्य यत्कारणं तस्य यद्विरुद्धं तस्य यत्कार्यं तस्योपलब्धिरुदाहर्तव्या- यथेति । अयं प्रदेश इति धर्मी । योगो युक्तम् । रोमहर्षादिविशेषाइयुक्तं रोमहर्षादिविशेषयुक्तम्, तस्य सम्बन्धी पुरुषो रोमहर्षादिविशेषयुक्तपुरुषः, तद्वान्न भवतीति साध्यम् । धूमादिति हेतुः ।

रोमहर्षादिविशेषस्य प्रत्यक्षत्वे दृश्यानुपलब्धिः । कारणस्य शीतस्पर्शस्य प्रत्यक्षत्वे कारणानुपलब्धिः । वहन्स्तु प्रत्यक्षत्वे कारणविरुद्धोपलब्धिः प्रयोक्तव्याः । त्रयाणामप्यदृस्यत्वेऽयं प्रयोगः । तस्मादभावसाधनोऽयम् । तत्र दूरस्थस्य प्रतिपत्तुर्दहनशीतस्पर्शरोमहर्षादिविशेषा अप्रत्यक्षाः सन्तोऽपि, धूमस्तु प्रत्यक्षो यत्र, तत्रैतत्प्रमाणम् । धूमस्तु यदुशस्तद्देशे स्थितं शीतं निवर्तयितुं समर्थस्य वह्नरनुमापकः स इह ग्राह्यः ।

धूममात्रेण तु वह्निमात्रेऽनुमितेऽपि न शीतस्पर्शनिवृतिः, नापि रोम

४२ इमे सर्वे कार्यानुपलब्ध्यादयो दशानुपलब्धिप्रयोगाः स्वभावानुपलब्धो संग्रहनुपयान्तीति ॥

४३ पारम्पयेणार्थान्तरविधिप्रतिषेधाभ्यां प्रयोगभेदेऽपि ॥

तस्माद्यत्र धूमस्तत्राग्निः । यत्राग्निस्तत्र न शीतस्पर्शः । यत्र न शीतस्पर्शस्तत्र शीतकार्याणि रोमहर्षादिविशेषाः कथं स्युः ॥ ४१ ॥

पूर्वमुपलब्धिक्षणप्राप्तस्यानुपलब्धिरेकः प्रतिषेधहेतुरुक्तः, अथ कथं कार्यानुपलब्ध्यादिभिः स्वभावविरुद्धोपलब्ध्यादिभिश्च प्रतिषेध इति चेत्? तत्राह-

इमे इति । अव्यवहितोक्ताः । सर्वे इति निखिला दशसङ्खयापरिच्चिन्नाः । अनुपलब्धिप्रयोगाश्च स्वभावानुपलब्धावन्तभवन्ति ॥ ४२ ॥

स्वभावानुपलब्धिप्रयोगश्चान्यः, कार्यानुपलब्ध्यादिरप्यन्यः । तथा हि- कार्यानुपलब्ध्यादिषु अर्थान्तरप्रतिषधः, स्वभावविरुद्धोपलब्ध्यदिषु चार्थान्तरविधिः । कथं तर्हि तस्यामन्तर्भव इति चेत्? तत्राह- अर्थान्तरेत्यादि ।

हर्षादिविशेषनिवृत्तिरवसातुं शक्येति न धूममात्रं हेतुरिति द्रष्टव्यमिति ॥ ४१ ॥

यदि एकः प्रतिषेधहेतुरुक्तः, कथमेकदशाभावहेतवः? इत्याह- इमे सर्वे इत्यादि । इमे अनुपल्ब्धिप्रयोगाः । इदमननरप्रक्रान्ता निर्दिष्टाः । तत्र कियतामपि ग्रहणे प्रसक्तः? आह- कार्यानुपलब्ध्यादय इति । कार्यानुपलब्ध्यदीनामै त्रयाणां चतुर्णा वा गरहणे प्रसक्तः? आह- दशेति । तत्र दशानामप्युदाहरणमात्राणां ग्रहणप्रसङ्ग सत्याह- सर्व इति ।

एतदुक्तं भवति- अप्रयुक्ता अपि प्रयुक्तोदाहरणसदशाश्च । सर्व एवेति । दशग्रहणमन्तरेन सर्वग्रहणे क्रियमाणे प्रयुक्तोदाहरणकात्स्न्र्य रम्येत । दशग्रहणात्तु उदाहरणकात्स्न्र्येऽवगते सर्वग्रहनामतिरिच्यमानमुदाहृतसदृशकात्स्न्र्यावगतये जायते ।

ते स्वभावानुपलब्धौ संग्रहं तादात्म्येन गच्चन्ति । स्वभावानुपलब्धिस्वभावा इत्यर्थः ॥ ४२ ॥

ननु च स्वभावानुपलब्धिप्रयोगाद्भिद्यन्ते कार्यानुपल्ब्ध्यादयः, तत्कथमन्तर्भवन्ति? इत्याह- पारम्पर्येणेति । प्रयोगभेदेऽपीति । प्रयोगस्य शब्दव्यापारस्य भेदेऽप्यन्तर्भवन्ति । कथं प्रयोगभेदः? इत्याह- अर्थान्तरविधीति । प्रतिषेध्यादर्थादर्थान्तरस्य विधिरुपलब्धिः स्वभावविरुद्धादयुपलब्धिप्रयोगेषु । प्रतिषेधः कार्यानुपलब्ध्यादिषु प्रयोगेषु । अर्थान्तरविधिना, अर्थान्तरप्रतिषेधेन

४४ प्रयोगदर्शनाभ्यासात्स्वयमप्येवं व्यवच्चेदप्रतीतिर्भवतीति स्वार्थेऽप्यनुमानेऽस्या प्रयोगनिर्देशः ॥

यह्यपर्थान्तरविधिप्रतिषेधाभ्या प्रयोगभेद एव, तथापि परम्परया तस्या मन्तर्भावोऽभिप्रेतः, न तु वस्तुतः । तथाहि क्वचित्कार्यानुपल्ब्धी धूमाभावेन धूमहेतोरप्रतिबद्धसामर्थ्यस्य अभावे सिद्धे अभावप्रतीतिर्भवति । यत्र यत्र धूमाभावस्तत्र तत्रोपलब्धिलक्षणाप्राप्तस्यैव तद्धेतोरनुपलब्धिरिति स्वभावानुपलब्धावन्तर्भवति ।

प्रतिपत्तु णां चिन्ताभेदाद्भेदः- कस्यचित्कार्याभावद्वारेण हेत्वभावप्रतीतिः, कस्यचित्तु स्वभावद्वारेण । तथैव व्यापकानुपलब्धेः कारणानुपलब्धेश्च परम्परया अन्तर्भावोऽवगन्तव्यः । स्वभावविरुद्धोपलब्धी चाग्निना शोताभावप्रतीतिः । यत्राग्निस्तत्रोपलब्धिलक्षणप्राप्तस्य शीतस्पर्शस्यैवानुपलब्धिरिति स्वभावानुपलब्धावन्तर्भावः ।

विरुद्धव्याप्तोपलब्धावपि हेत्वन्तरापेक्षया सर्ववर्णेषु प्रकाशस्वभावोऽपि स्वभावानुपलब्धिवदेव । तथा कारणविरुद्धकार्योपलब्धावपि धूमेनाग्निसिद्धिः । शीतनिवृतौ च तत्र तद्विपरीतस्य रोमहर्षादिविशेषयुक्तपुरुषस्याभावसिद्धिः । सा च तत्रोपलब्धिलक्षणप्राप्तता{द्सि}हपुरुषस्यानुपलब्धिरिति स्वभावानुपलब्धावेवान्तर्भवति । ॥ ४३ ॥

ये च कार्यकारणद्वयव्याप्त्यभेदैर्भेदाभवेनोपचारात्स्वभावानुपलब्धो अन्तर्भवन्ति इत्याहुः, तेषां तदुपचारेणन्तर्भावः, परमार्थतस्तु न प्रतिज्ञैकदेशस्यापि हेतुत्वे सति परम्परार्थोऽपि न रम्यः ।

स्वभावविरुद्धोपलब्ध्यादिषु च विजातीयप्रमाणेन निवृत्याभिधानमिति किं केन समानं स्यात् । स्वार्थानुमाने प्रयोगे न सम्भवति । तत्रानुपलब्धिप्रयोगप्रकारविशेषा एकादश इति कुत इति चेत्? तस्मादाह- प्रयोगदर्शनेत्यादि ।

च प्रयोगाः भिद्यन्ते । यदि प्रयोगान्तरेष्वर्थान्तरविधिप्रतिषेधौ, कथं तर्हि अन्तर्भवन्ति? इत्याह- पारम्पर्येणेति । प्रणालिकयेत्यर्थः ।

एतदुक्तं भवति- न साक्षादेते प्रयोगा दृश्यानुपलब्धिमभिदधति, दृश्यानुपलभ्द्यभिचारिणस्त्वर्थान्तरस्य विधि निषेधं वाभिदधति । ततः प्रणालिकयामीषां स्वभावानुपलब्धौ संग्रहः, न साक्षादिति ॥ ४३ ॥

यदि प्रयोगभेदादेष भेदः, पराथानुमाने वक्तव्य एषः, शब्दभेदो हि प्रयोगभेदः, शब्दश्च परार्थानुमानम्? इत्याशङ्कयाह- प्रयोगदर्शनेत्यादि । प्रयोगाणां शास्त्रपरिपठिटानां दर्शनम्= उपलम्भः, तस्य अभ्यासः= पुनः पुनरावर्तनम्, तस्मान्निमित्तात् ।

स्वयमपीति । प्रतिपत्तुरात्मनोऽपि । एवमित्यनन्तरोक्तेन कमेण । व्यवच्चेदस्य प्रतीतिर्भवतीति इतिशब्दस्तस्मादर्थे ।

४५ सर्वत्र चास्यामभवव्यवह्रसाधन्यामनुपलब्धौ येषां स्वभावविरुद्धादीनामुपलब्ध्या कारणादीनामनुपलब्ध्या च प्रतिषेध उक्तः, तेषामुपलब्धिलक्षणप्राप्तानामेवो पलब्धिरनुपलब्धिश्च वेदितव्या ॥

प्रयोगाणां दर्शनम्= प्रतीतिः । तस्याः पौनःपुन्येनावर्तनम्= अभ्यासः । तस्मात्प्रयोगेष्वभ्यासातिशयात्स्वयमपि यदा कस्यचित्व्यवच्चेदप्रतीतिर्भवति, तदा प्रयोगरूपेणैव प्रतीतिर्भवति । अत एव स्वार्थानुमानेऽपि अनुपलब्धिप्रयोगस्य विशेषनिर्देशः । व्यवच्चेदप्रतीतिः प्रतिषेधप्रत्यायनमिति शेषः । यद्वा- व्यवच्चेदप्रतीतिः विशेषप्रतिपत्तिरिति शेषः ॥ ४४ ॥

स्वभावानुपलब्धेर्विशेष उक्तः । कार्यानुपलब्ध्यादौ तद्भावात्कथमव्यभिचारित्वमिति चेत्? तत्राह- अभावेति । अभावव्यवहारसाधन्यो बहुप्रकारा या अनुपलब्धयोऽभिहिताः, ताः सर्वास्तद्विशेता एव द्रष्टव्याः । यदि कारणादेरुपलब्धि-

तदयमर्थः- यस्मात्स्वयमप्येवमनेनोपायेन प्रतिपद्यते, प्रयोगाभ्यासात्ः तस्मात्स्वप्रतिपत्तावप्युपयुज्यमानस्यास्य प्रयोगभेदस्य स्वार्थानुमाने निर्देशः । यत्पुनः परप्रतिपत्तावेवोयुज्यते, तत्परार्थानुमान एव वक्तव्यमिति ॥ ४४ ॥

ननु च कार्यानुपलब्ध्यादिषु कारणादीनामदृश्यानामेव निषेधः, दृश्यनिषेधे स्वभावानुपलब्धिप्रयोगप्रसङ्गात्तथा च सति न तेषां दृश्यानुपलब्धेनिषेधः, तत्कथमेषां प्रयोगाणां दृश्यानुपलब्धावन्तर्भावः? इत्याह सर्वत्र चेत्यादि । अभवश्च तद्वयवहारश्च अभावव्यवहारौ । स्वभावानुपलब्धावभावव्यवहारः साध्यः । शिष्टेष्वभावः । तयोः साधन्यामनुपलब्धौ । सर्वत्र चेति । च शब्दो हिशब्दस्यार्थे । यस्मात्सर्वत्रानुपलब्धौ येषां प्रतिषेध उक्तस्तेषामुपलब्धिलक्षणप्राप्तानां दृश्यानामेव प्रतिषेधः । तस्माद्दृश्यानुपलब्धावन्तर्भवः ।

कुत एतद्दृश्यानामेव? इत्याह- स्वभावेत्यादि । अत्रापि चकारो हेत्वर्थः । यस्मात्स्वभावविरुद्ध आदिर्यषां तेसामुपलब्ध्या, कारणमादिर्येषां तेषामनुपलब्ध्या प्रतिषेध उक्तः, तस्माद्दृश्यानामेव प्रतिषेध इत्यर्थः ।

यदि नाम स्वभावविरुद्धाद्युपलब्ध्या कारणाद्यनुपलब्ध्या च प्रतिषेध उक्तः, तथापि कथं दृश्यानामेव प्रतिषेधः? इत्याह- उपलब्धिरित्यादि । अत्रापि चकारो हेत्वर्थः । यस्माद्ये विरोधिनः व्याप्य- व्यापकभूताः कार्यकारणभूताश्च ज्ञाताः, तेषामवश्यमेवोपलब्धिः, उपलब्धिपूर्वा चानुपलब्धि-

४६ अन्येषां विरोध कार्य कारणभावाभावासिद्धेः ॥

लक्षणप्राप्तस्यानुपलब्धिः स्यात्, तदा कार्यादेः प्रतिषेधसिद्धिः सम्भवति, नान्यत्र ॥ ४५ ॥

स्वभावविरुद्धादिरपि यदि उपलब्धिलक्षणप्राप्त एव स्यात्, तदा विपरीतप्रतिषेधे समर्थः, नान्यथा । कथमिति चेत्? तत्राह- अन्येषामिति ।

विरोधश्च कार्यकारणभावश्च अभावश्च विरोधकार्यकारणभावाभावाः, तेषाममसिद्धिरित्युक्तम् । तदेवं ये नोपलब्धिलक्षणप्राप्तास्तेषां विरोधीऽसिद्धः, विरोधाभावोऽप्यसिद्धः, कार्यकारणभावोऽसिद्धः, कार्यकारणभावाभावोऽप्यसिद्धः- इत्येतत्प्रदर्शितं भवति ।

वेदितव्या= ज्ञातव्या । उपलब्ध्यनुपलब्धी च द्वेयेषां स्तः, ते दृश्या एव । तस्मात्स्वभाप्रविरुद्धाद्यु पलब्ध्या कारणाद्यनुपलब्ध्या चोपलब्ध्यनुपलब्धिमतां विरुद्धादीनां प्रतिषेधः क्रियमाणो दृश्यानामेव कृतो द्रष्टव्यः ।

बहुषु चोद्येषु प्रक्रान्तेषु परिहारसमुच्चयार्थश्चकारो हेत्वर्थो भवति । यस्मादिदं चेदं च समाधानमस्ति, तस्माद्तत्तच्चोद्यमयुक्तमिति चकारार्थः ॥ ४५ ॥

कस्मात्पुनः प्रतिषेध्यानां विरुद्धादीनामुपलब्ध्यनुपलब्धी वेदितव्ये? इत्याह- अन्येषामिति । उपलब्ध्यनुपलब्धिमद्भयोऽन्येऽनुपलब्धा एव ये तेषां विरोधश्च कार्यकारणभावश्च केनचित्सह अभावश्च व्याप्यस्य व्यापकस्याभावे न सिध्यति, यस्मात्ततो विरोधकार्यकारणभावाभावासिद्धे कारणादुपलब्ध्यनुपलब्धिमन्त एव विरुद्धादयो निषेध्याः । उभयवत्नश्च दृश्या एव । तस्माद्दृश्यानामेव प्रतिषेधः ।

तदयमर्थः- विरोधश्च कार्यकारणभावश्च व्यापकाभावे व्याप्याभावश्च दृश्यानुपलब्धेरेवेति । एकसन्निधावपराभावप्रतीतो ज्ञातो विरोधः । कारणाभिमताभावे च कार्याभिमताभावप्रत्ययेऽवसितः कार्यकारणभावः । व्यापकाभिमताभावे च व्याप्याभिमताभावे निश्चिते निश्चितो व्याप्यव्यापकभावः । तत्र व्याप्यव्यापकभावप्रतीतेनिमित्तमभावः प्रतिपत्तव्यः । इह गृहीते वृक्षाभावे हि शिशपात्वाभावप्रतीतौ प्रतीतो व्याप्यव्यापकभावः । अभावप्रतिपत्तिश्च सर्वत्र दृश्यानुपलब्धेरेव । तस्माद्विरोधम्, कार्यकारणभावम्, व्याप्यव्यापकभावं च स्मरता विरोध कार्यकाअर्णभाव व्याप्यव्यापकभावविषयाभावप्रतिपत्तिनिबन्धनं दृश्यानुपलब्धिः स्मर्तव्या । दृश्यानुपलब्ध्यस्मरणे विरोधादीना

४७ विप्रकृष्टविषया पुनरनुपलब्धिः प्रत्यक्षानुमाननिवृत्तिलक्षणा संशयहेतुः ॥

तथाहि- उपलब्धिलक्षणप्राप्तस्य नियतानुषङ्गीणो ये दृष्टास्तत्सन्निधाने कस्यचित्तिरोभावे तेन सह विरोधस्य प्रत्यायनं शक्यम् । यच्च सन्निहितं तदपि तथैव विरुद्धम् । तदुपलब्धौ तु विरोधाभव इति निश्चीयते ।

एवमुपलब्धिलक्षणप्राप्तस्य यस्य सत्त्वे उपलब्धिलक्षणप्राप्तमदृष्टपूर्व यदुपलभ्यते, तदभावे नोपलभ्यते । तत्तस्मादुत्पदयते इति तद्द्वयोः कार्यकारणभावो निश्चीयते । यदभावेऽपि यदुपलब्धिः, तद्द्वयोः कार्यकारणभावाभावो निश्चीयते । एवमपि अभावव्यवहारसिद्धिरुपलब्धिलक्षणप्राप्तस्यानुपलब्धिसमाश्रिता इत्युक्तं भवति ॥ ४६ ॥

ननु तदन्येनापि क्वचित्सिद्धिरिति चेत्? उच्यते- विप्रकृष्टेत्यादि । विप्रकृष्टी यो विषयः प्रत्यक्षानुमाननिवृत्तिस्वभावः स संशयस्य हेतुः, न स्वभावव्यवहारहेतुः ॥ ४७ ॥

मस्मरणम् । तथा च सति न विरुद्धादिविधिप्रतिषेधाभ्यामितराभावप्रतीतिः स्यात् । विरोधादिग्रहणकालभाविन्यां च दृश्यानुपलब्धाववश्यस्मर्तव्यार्या तत एवाभावप्रतीतिः ।

तत्र यद्यपि सम्प्रतितनी नास्ति दृश्यानुपलब्धिः, विरोधादिग्रहणकाले त्वासीत् । या दृश्यानुपलब्धिः सम्प्रति स्मर्यमाणा सैवाभावप्रतिपत्तिनिबन्धनम् । ततः सम्प्रति नास्ति दृश्यानुपलब्धिप्रयोगाद्भिद्यन्ते कार्यानुपलब्ध्यादिप्रयोगाः ।

विरुद्धविधिना कारणादिनिषेधेन च यतो दृश्यानुपलब्धिराक्षिप्ता, ततो दृश्यानुपलब्धेरेव कालान्तरवृत्तायाः स्मृतिविषयभूताया अभावप्रतिपत्तिः । अमीषां च प्रयोगाणां दृश्यानुपलब्धावन्तर्भावः । तदनेन सर्वेण दृश्यानुपलब्धावन्तर्भावो दशानाममनुपलब्धिप्रयोगाणां पारम्पर्येण दर्शित इत्यवसेयम् ॥ ४६ ॥

उक्ता दृश्यानुपलब्धिरभावे, अभावव्यवहारसाध्ये च प्रमाणम्, अदृश्यानुपलब्धिस्तु किंस्वभावा? किंव्यापारा? इत्याह- विप्रकृष्टेत्यादि । विप्रकृष्टस्त्रिभिर्देशकालस्वभवविप्रकर्षैर्यस्या विषयः स विप्रकृष्टविषयेति संशयहेतुः । किस्वभावा सा? इत्याह- प्रत्यक्षानुमाननिवृत्तिर्लक्षाणं स्वभावो यस्याः सा प्रत्यक्षानुमाननिवृत्तिलक्षाणा । न ज्ञानज्ञेयस्वभावेति यावत् ॥ ४७ ॥

४८ प्रमाणनिवृत्तावपि अर्थाभावसिद्धेरिति ॥

तदेव कस्मात्? इत्याह- प्रमानेत्यादि ।

प्रमाणनिवृत्तिलक्षणा विप्रकृष्टविषयानुपलब्धिः, प्रमाननिवृत्तिरपि अर्थाभावं न साध्यति । प्रमाणं तु अर्थकार्यमिति प्रमाणनिवृत्त्या कारणमात्रनिवृत्तिनं सिध्यतीति ॥ ४८ ॥

इति न्यायविन्दुविस्तरटीकायां शिष्यहितायां द्वितीयः परिच्चेदः ॥


ननु च प्रमाणात्प्रमेयसत्ताव्यवस्था, ततः प्रमाणाभावात्प्रमेयाभावप्रतिपत्तिर्युक्ता? इत्याह- प्रमाणनिवृत्तावपीत्यादि । कारणं व्यापकं च निवर्तमानं कार्य व्याप्यं च निवर्तयेत् । न च प्रमाणं प्रमेयस्य करणम्, नापि व्यापकम् । अतः प्रमाणयोनिवृत्तवपि अर्थस्य प्रमेयस्य निवृत्तिनसिध्यति । ततोऽसिद्धः संशयहेतुरदृश्यानुपलब्धिः, न निश्चयहेतुः । यत्पुनह्प्रमाणसत्तया प्रमेयसत्ता सिध्यति, तद्युक्तम् । प्रमेयकार्य हि प्रमाणम् । न च कारणमन्तरेण कार्यमस्ति । न तु कारणान्यवश्यं कार्यवन्ति भवन्ति । तस्मात्प्रमाणात्प्रमेयसत्ता व्यवस्थाप्या, न प्रमाणाभावात्प्रमेयाभावव्यवस्थेति ॥ ४८ ॥

आचार्यधर्मोत्तरकृतायां व्यायबिन्दुटीकायां स्वार्थानुमानं नाम द्वितीयः परिच्छेदः ॥


तृतीयः परार्थानुमानपरिच्छेदः

१ त्रिरूपलिङ्गाख्यानमप्रार्थमनुमानम् ॥

२ कारणे कार्योपचारात् ॥

सम्यग्ज्ञाननिरूपणप्रसङ्गेन स्वार्थपरार्थभेदेन अनुमानं द्विविधमङ्गीकृतम् । तत्र स्वार्थ सप्रपञ्चं निरूपितम् । परार्थानुमानाभिधानार्थमेवमनुजानीते त्रिरूपेत्यादि ।

आख्यायतेऽनेनेति आख्यानम् । वचनमिति । त्रीणि रूपाणि सन्ति यस्य तत्त्रिरूपम् । त्रिरूपं च तल्लिङ्गं चेति त्रिरूपलिङ्गम् । तस्य आख्यानमित्यर्थः ॥ १ ॥

अनुमानं च सम्यग्ज्ञानमित्युक्तम्, कथमनुमानं वचनमिति चेत्? तत्राह- कारण इति ।

स्वार्थ- परार्थानुमानयोः स्वार्थ व्याख्याय, परार्थ व्याख्यातुकाम आहत्रिरूपलिङ्गाख्यानमिति । त्रीणि रूपाणि- अन्वय व्यतिरेक पक्षधर्मत्वसंज्ञकानि यस्य तत्त्रिरूपम् । त्रिरूपं च तल्लिङ्गं च तस्याख्यानम् । आख्यायते= प्रकाश्यतेऽनेनेति त्रिरूपं लिङ्गमिति आख्यानम् । किं पुनस्तत्? वचनम् । वचनेन हि त्रिरूपं लिङ्गमाख्यायते । परस्मायिदं परार्थम् ॥ १ ॥

ननु च सम्यग्ज्ञानात्मकमनुमानमुक्तम्, तत्किमर्थ सम्प्रति वचनात्मकमनुमानमुच्यते? इत्याह-कारणे कार्योपचारादिति । त्रिरूपलिङ्गाभिधानात्त्रिरूपलिङ्गस्मृतिरुत्पदयते, स्मृतेश्वानुमानम् । तस्मादनुमानस्य परंपरया त्रिरूपलिङ्गाभिधानं कारणम् । तस्मिन् कारणे वचने कार्यस्यानुमानस्य उपचारः समारोपः क्रियते । ततः समारोपात्कारणं वचनमनुमानशब्दे नोच्यते । औपचारिकं वचनमनुमानम्, न मुख्यमित्यर्थआः । न यावत्किञ्चितुपचारादनुमानशब्देन वक्तुं शक्यं तावत्सर्व व्याख्येयम्, किन्त्वनुमानं व्याख्यातुकामेन अनुमानस्वरूपस्य व्याख्येयत्वान्निमितं व्याख्येयम् । निमित्तं च त्रिरूपं लिङ्गम् । तच्च स्वयं वा प्रतीतमनुमानस्य निमित्तं भवति, परेण वा प्रतिपादितं भवति । तस्माल्लिङ्गस्य स्वरूपं च व्याख्येयम्, तत्प्रतिपादकश्च शब्दः । तत्र स्वरूपं स्वार्थानुमाने व्याख्यातम् । प्रतिपादकश्च शब्द

३ तद्द्विविधम् ।

४ प्रयोगभेदात् ॥

५ साधर्म्यवद्वैधर्म्यवच्च ॥

कारणं हि वचनम्, कार्य चानुमानमिति वचने तस्मिन्ननुमानारोपात्तद्वचनमेवानुमानमित्यभिधीयते । अनुमानकारणत्वातनुमानमित्युच्यते इति शेषः ॥ २ ॥

तद्द्विविधमिति । अत्र तदिति परार्थानुमानम् । त्रिरूपलिङ्गाख्यानं तत् ॥ ३ ॥

कथं द्विविधमिति चेत्? आह- प्रयोगभेदादिति । प्रयोगस्तु शब्दत उपस्थानम् । तस्य भेदेन द्वैविध्यमिति ॥ ४ ॥

किं तत्प्रकारहेयमिति आह? आह- साधर्म्यवदिति ।
समानो धर्मो यस्य स सधर्मा, सधर्मणो भावः साधर्म्यम्, तदयस्यास्ति तत्साधर्म्यवत् । विसदृशो धर्मो यस्य स विधर्मा, विधर्मणो भावो वैधर्म्यम्, तदयस्यास्ति तद्वैधर्म्यवत् । अन्वयवत्व्यतिरेकवच्चेति शेषः ॥ ५ ॥

इह व्याख्येयः । ततः प्रतिपादकं शब्दमवश्यं वक्तव्यं दर्शयननुमानशब्देनोक्तवानाचार्य इति परमार्थः ॥ २ ॥

परार्थानुमानस्य प्रकारभेदं दर्शयितुकाम आह- तद्द्विविधमिति । तदिति परार्थनुमानम् । द्वौ विधौ= प्रकारौ यस्य तद्द्विविधम् ॥ ३ ॥

कुतो द्विविधम्? इत्याह- प्रयोगस्य शब्दव्यापारस्य भेदात् । प्रयुक्तिः= प्रयोगः, अर्थाभिधानम् । शब्दस्यार्थाभिधानव्यापारभेदाद्द्विविधमनुमानम् ॥ ४ ॥

तदेवाभिधानव्यापारनिबन्धनं द्वैविध्यं दर्शयितुमाह- साधर्म्यवत्वैधर्म्यवच्चेति । समानो धर्मोऽस्य सोऽयं सधर्मा, तस्य भावः साधर्म्यम् । विसदृशो धर्मोऽस्य विधर्मा, विधर्माणो भावो वैधर्म्यम् । दृष्टान्तधर्मिणा सह साध्यधर्मिणः सादृश्यं हेतुकृतं साधर्म्यमुच्यते । असादृश्यं च हेतुकृतं वैधर्म्यमुच्यते । तत्र यस्य साधनवाक्यस्य साधर्म्यमभिधेयं तत्साधर्म्यवत् । यथा यत्कृतकं तदनित्यम्, यथा घटः, तथा च कृतकः शब्दः इत्यत्र कृतकत्वकृतं दृष्टान्त साध्यधर्मिणोः सादुश्यभिधेयम् । यस्य तु वैधर्म्यमभिधेयं तद्वैधर्म्यवत् । यथा- यन्नित्यं तदकृतकं दृष्टम्, यथा आकाशम्, शब्दस्तु कृतकः इति कृतकत्वाकृतकत्वकृतं शब्दाकाशयोः साध्य दृष्टान्तधर्मोणोरसादृश्यमिहाभिधेयम् ॥ ५ ॥

६ नानयोरर्थतः कश्चिद्भेदः ॥

७ अन्यत्र प्रयोगभेदात् ॥

८ तत्र साधर्म्यवत्प्रयोगः- यदुपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते सोऽद्वयव हारविषयः सिद्धः, यथान्यो दृष्टः कश्चिद्शशविषाणादिः । नोपलभ्यते च क्वचित्प्रदेशविशषे उपलब्धिलक्षणप्राप्तो घटः- इत्यनुपलब्धिप्रयोगः ॥

यदि साधर्म्यप्रयोगोऽन्वयवान्, वैधर्म्यप्रयोगश्च व्यतिरेकवान्, तर्हि अर्थतोऽपि भेदः स्यात्, तत्कस्मात्प्रयोगभेदेन द्विविधमित्युच्यते इति चेत्? तत्राह नानयोरिति ।

साधर्म्यवानपि त्रिरूपापेक्षः, वैधर्म्यवानपि त्रिरूपापेक्षः । तस्मात्सर्वत्र त्रिरूपसत्त्वादर्थतो भेदलेशोऽपि नास्ति ।६ ॥

अन्यत्र प्रयोगभेदादिति । इह प्रयोगस्यैव भेदः, न तु सर्वथापि । तथा हि- प्रथमे वस्तुतोऽन्वयाभिधानेऽपि व्यतिरेकः सामर्थ्यादवगम्यते । द्वितीये च वस्तुतो व्यतिरेका भिधानेऽपि अन्वयोऽर्थाज्ज्ञायते ॥ ७ ॥

तत्र साधर्म्यवतः प्रथममुपन्यासः । यदुपलब्धिलक्षणप्राप्त सन्नोपलभ्यते सोऽसद्वयय्द्यनयोः प्रयोगयोरभिधेयं भिन्नम्, कथं तर्हि त्रिरूपं लिङ्गमभिन्नं प्रकाश्यम्? इत्याह- नानयोरर्थत इति । अर्थः प्रयोजनम् । यत्प्रयोजनं प्रकाशयितव्यं वस्तु उद्दिश्यानुमाने प्रयुज्यते, ततः प्रयोजनादनयोर्न भेदः कश्चित् । त्रिरूपं हि लिङ्ग प्रकाशयितव्यम् । तदुद्दिश्य द्वे अप्येते प्रयुज्येते । द्वाभ्यामपि त्रिरूपं लिङ्ग प्रकाश्यत एव । ततः प्रकाशयितव्यं प्रयोजनमनयोरभिन्नम् । तथा च न ततो भेदः कश्चित् ॥ ६ ॥

अभिधेयभेदोऽपि तर्हि न स्यात्? इत्याह- अन्यत्र प्रयोगभेदादिति । प्रयोगः अभिधानम्, वाचकत्वम् । वाचकत्वभेदादन्यो भेदः प्रयोजनकृतो नास्तीत्यर्थः ।

एतदुक्तं भवति- अन्यदभिधेयमन्यत्प्रकाश्यं प्रयोजनम् । तत्राभिधेयापेक्षया वाचकत्वं भेद्यते, प्रकाश्यं त्वभिन्नम् । अन्वये हि कथिते वक्ष्यमाणेन न्यायेन व्यतिरेकगतिर्भवति । व्यतिरेके चान्वयगतिः । ततस्त्रिरूपं लिङ्गं प्रकाश्यमभिन्नम् । न च यत्राभिधेयभेदः, तत्र सामर्थ्यगम्योऽप्यर्थो भिद्यते । यस्मात्पीनो देवदत्तो दिवा न भुंक्ते पीनो देवदत्तो रात्रौ भुंक्ते इत्यनयोवक्यियोरभिधेयभेदेऽपि गम्यमानमेकमेव, तद्वदिहाभिधेयभेदेऽपि गमय्मानं वस्तु एकमेव ॥ ७ ॥

९ तथा स्वभावहेतोः प्रयोगः- यत्सत्तत्सर्वमनित्यम्, यथा घटादिरिति शुद्धस्य स्वभावहेतोः प्रयोगः ॥

वहारविषयः सिद्ध इति । अत्रानुपलब्धेरन्वय उक्तः । यथा दृष्टः कश्चित्शशविषाणादिरिति । असद्वयवहारस्य विषयो दृष्टः । तस्योदाहरणम्- शशविषाणादिः दृष्ट इति सिद्धः । परीक्षित इति शेषः । तेन दृष्टान्तकथनं नोपलभ्यते इति अनेन पक्षधर्म उक्तः ॥ ८ ॥

स्वभावहेतोः प्रयोग इति । द्वितीयस्य हेतोः साधर्म्यवान् प्रयोग उपदर्श्यते यत्तत्रेति । तयोः साधर्म्यवैधर्म्यवतोरनुमानयोः साधर्म्यवत्तावदुदाहरन्ननुपलब्धिमाह- यदित्यादिना । यद्दृश्यम् । सन्नोपलभ्यते- इत्यनेन दृश्यानुपलम्भोऽनुद्यते । सोऽसद्वयवहारवीषयः सिद्धः । तदसदिति व्यवहर्तव्यमित्यर्थः । अनेनासद्वयवहारयोग्यत्वस्य विधिः कृतः । ततश्चास्द्वयवहारयोग्यत्वे दृश्यानुपलम्भो नियतः कथितः । दृश्यमनुपलब्धमसद्वयवहारयोग्यमेवेत्यर्थः । साधनस्य च साध्येऽर्थे नियतत्वकथनं व्याप्तिकथनम् । यथोक्तम्- व्याप्तिर्व्यापकस्य तत्र भाव एव व्याप्यस्य वा तत्रैव भावः इति । व्याप्तिसाधनस्य प्रमाणस्य विषयो दृष्टान्तः । तमेव दर्शयितुमाह- यथान्य इति । साध्यधर्मिणोऽन्यो दृष्टान्त इत्यर्थः । दृष्ट इति । प्रमाणेन निश्चितः । शशविसाणं हि न चक्षुषा विषयीकृतम् । अपि तु प्रमाणेन दृश्यानुपलम्भेनासद्वयवहारयोग्यं विज्ञातम् । शशविषाणमादिर्यस्य असद्वयवहारविषयस्य स तथोक्तः । शशविषाणादौ हि दृश्यानुपलम्भमात्रनिमित्तोऽसद्वयवहारः प्रमाणेन सिद्धः । तत एव प्रमाणादनेन वाक्ये नाभिधीयमाना व्याप्तिर्ज्ञातव्या ।

सम्प्रति व्याप्ति कथयित्वा दृश्यानुपलम्भस्य पक्षधर्मत्वं दर्शयितुमाह नोपलभ्यते चेति । प्रदेशः= एकदेशः पृथिव्याः । स एव विशिष्य्तेऽन्यस्मादिति विशेष एकः । प्रदेशविशष इति । एकस्मिन् प्रदेशे । क्वचिदिति । प्रतिपत्तः प्रत्यक्ष एकोऽपि प्रदेशः । स एवाभावव्यवहाराधिकरणं यः प्रतिपत्तः प्रत्यक्षः, नान्यः । उपलब्धिलक्षणप्राप्त इति । दृश्यः । यथा चासतोऽपि घटस्य समारोपितमुपलब्धिलक्षणप्राप्तत्वं तथा व्याख्यातम् ॥ ८ ॥

स्वभावहेतोः साधर्म्यवन्तं प्रयोगं दर्शयितुमाह- तथेति । यथानुपलब्धेः, तथा स्वभावहेतोः साधर्म्यवान् प्रयोग इत्यर्थः । यत्सदिति सत्त्वमनूद्य तत्सर्वमनित्यमित्यनित्यनित्यत्वं विधीयते । सर्वग्रहणं च नियमार्थम् ।

१० यदुत्पत्तिमत्तदनित्यमिति स्वभावभूतधर्मभेदेन स्वभावस्य प्रयोगः ॥

११ यत्कृतकं तदनित्यमित्युपाधिभेदेन ॥

सत्तत्सर्वमनित्यम्, यथा घटादिरिति । यदिति योग्यं वस्तुमात्रं सत्, तत्सर्वमखिलमनित्यम् । अनेन अन्वय एवोक्तः ।

शुद्धस्य स्वभावहेतोः प्रयोग इति । निर्विशेषणस्य स्वभावहेतोः प्रयोग इति शेषः ॥ ९ ॥

यदुतप्त्तिमत्तदनित्यमिति वचनं स्वभावहेतोद्वितीयस्यान्वयः ।

स्वभावभूतधर्मभेदेन स्वभावस्य प्रयोग इति । आत्मभूतधर्मस्यैव भेदं कृत्वा स्वभावहेतोः प्रयोगः कृतः । तथा हि- उत्पत्तिर्वस्तुनो हन्मलाभः । अभेद एव उत्पत्तिर्यस्यास्ति तदुत्पत्तिमदिति भेदेनोक्तः ॥ १० ॥

यत्कृतकं तदनित्यमिति । अनेन स्वभावहेतोस्तृतीयस्यान्वय उक्तः । उपाधि भेदेनेति । अत्र उपाधिः= विशेषणम् । अनभिव्यक्तविशेषणः स्वभावहेतुप्रयोग इति शेषः ॥ ११ ॥

सर्वमनित्यम् । न किञ्चिन्नानित्यम् । यत्सत्तदनित्यमेव । अनित्यत्वादन्यत्र नित्यत्वे सत्त्वं नास्तीत्येवं सत्त्वमनित्यत्वे साध्ये नियतं ख्यापितं भवति । तथा च सति व्याप्तिप्रदर्शनवाक्यमिदम् । यथा घटादिरिति । व्याप्तिसाधकस्य प्रमाणस्य विषयकथनमेतत् । शुद्धस्येति । निर्विशेषणस्य स्वभावस्य प्रयोगः ॥ ९ ॥

सविशेषणं दर्शयितुमाह- यदुत्पत्तिमदिति । उत्पत्तिः स्वरूपलाभो यस्यास्ति तदुत्पत्तिमत् । उत्पत्तिमत्त्वमनुद्य तदनित्यमित्यनित्यत्वविधिः । तथा च सति उत्पत्तिमत्त्वमनित्यत्वे नियतमाख्यातम् ।

स्वभावं भूतः तदात्मको धमः, तस्य भेदेन । भेदं हेतूकृत्य प्रयोगः । अनुत्पन्नेभ्यो हि व्यावृतिमाश्रित्योत्पन्नो भाव इत्युच्यते । सैव व्यावृत्तिर्यदा व्यावृत्त्यन्तरनिरपेक्षा वक्तुमिषय्ते, तदा व्यतिरेकिणीव निर्देश्यते- भावस्य उत्पत्तिरिति । तथा च व्यतिरिक्तमेवोत्पत्त्या विशिष्ट वस्तु उत्पत्तिमदुक्तम् । तेन स्वभावभूतेन धर्मेण कल्पितभेदेन विशिष्टः स्वभावः प्रयुक्तो विदितव्यः ॥ १० ॥

यत्कृतकमिति । कृतकत्वमनूद्यानित्यत्वं विधीयते- इति अनित्यत्वे नियतं कृतकत्वमुक्तम् । अतो व्याप्तिरनित्यत्वेन कृतकत्वस्य दर्शिता । उपाधिभेदेन स्वभावस्य प्रयोग इति सम्बन्धः । उपाधिर्विशेषणम् । तस्य भेदेन भिन्नेनोपाधिना विशिष्टः स्वभावः प्रयुक्त इत्यर्थः ।

१२ अपेक्षितपरव्यापारो हि भावः स्वभावनिष्पत्तौ कृतक इति ।

१३ एवं प्रयत्नान्तरीयकप्रत्ययभेदभेदित्वादयोऽपि द्रष्टव्याः ॥

कथमनभिव्यक्तविशेषाणमिति चेत्? तत्राह- अपेक्षितपरव्यापारो हि भावः स्वभावनिष्पतौ कृतक इति । अपेक्षितः परस्य व्यापारो येनेति विग्रहः । यश्च भावः स्वभानिष्पत्तये हेतूनां व्यापारमपेक्षते इति । यथा कृतकमित्युक्तम्, तस्मातनभिव्यक्तविशेषणं स्वभावहेत्वन्तरमेतत् ॥ १२ ॥

एवमिति । एतेऽपि उपाधिभेदापेक्षिताः स्वभावहेत्व एव द्रष्टव्याः । तथा हि प्रयत्ने= हेतुव्यापारे सति यस्य सिद्धिः स प्रयत्नान्तरीयक इति । तेन अनित्यं प्रयत्नान्तरोयकत्वाद इत्ययनपि अनभिव्यक्तविशेषणः स्वभावहेतुरेव । प्रत्ययस्य भेदः प्रत्ययभेदः । प्रत्ययभेदेन भेत्तुं शील यस्य स प्रत्ययभेदभेदी, तस्य भावः प्रत्ययभेदभेदित्वम् । कारणभेदानुकूलरूपवत्त्वमिति शेषः ।

तथा हि- स्वल्पकर्दमपिण्डाद्घटः क्षुद्रो भवति, महतस्तु महान् भव्वति । निपुणैह कदाचिच्चुद्ध एवार्थ उच्यते, कदाचिदव्यतिरिक्तेन विशेषणेन विशिष्टः, कदाचिद्व्यतिरिक्तेन । देवदत्तः इति शुद्धः, लम्बकर्णः इति अभिन्नकर्णद्वयविशिष्टः, चित्रगुरिति व्यतिरिक्तचित्रगवीविशिष्टः । तद्वत्शुद्धम्, उत्पत्तिमत्वमव्यतिरिक्तविशेषणम्, कृतकत्वं व्यतिरिक्तविशेषणम् ॥ ११ ॥

ननु च चित्रगुशब्दे व्यतिरिक्तस्य विशेषणस्य वाचकश्चित्रशब्दो गोशब्दश्वास्ति, कृतकशब्दे तु निर्विशेषणवाचिनः शब्दस्य प्रयोगोऽस्ति? इत्याशङ्कयाह- अपेक्षितेति । परेषां कारणानां व्यापारः स्वभावस्य निष्पत्तौ निष्पत्यर्थमपेक्षितः परव्यापारो येन स तथोक्तः । हीति यस्मादर्थे । यस्मादपेक्षितपरव्यापारः कृतक उच्यते, तस्माद्व्यतिरिक्तेन विशेषणेन विशिष्टः स्वभाव उच्यते । यद्यपि व्यतिरिक्तं विशेषणपदं न प्रयुक्तम्, तथापि कृतशब्देनैव व्यतिरिक्तं विशेषणपदमन्तर्भावितम् । अतएव संज्ञाप्रकारोऽयं कृतकशब्दः, यस्मात्संज्ञायामयं कन् प्रत्ययो विहितः । यत्र च विशेषणमन्तर्भाव्यते, तत्र विशेषणाप्दं न प्रयुज्यते ।

क्वचित्तु प्र्तीयमानं विशेषणम्, यथा कृत इत्युक्ते हेतुबिरित्येतत्प्रतीयते । तत्र च हेतुशब्दः प्रयुज्यते, कदाचिन्न वा प्रयुज्यते ॥ १२ ॥

प्रयुज्यमानस्वशब्दश्च यथा प्रत्ययभेदभेदिशब्दे प्रत्ययभेदशब्दः, यथा च कृतशब्दो भिन्नविशेसणस्वभवाभिधायो, एवं प्रत्ययभेदभेदित्वमादिर्येषां

१४ सन्नुत्पत्तिमान् कृतको वा शब्द इति पक्षधर्मोपदर्शनम् ॥

१५ सर्वे एते साधनधर्माः यथास्वं प्रमाणैः सिद्ध साधन धर्ममात्रानुबन्धे एव साध्यधर्मेऽवगन्तव्याः ॥

कुम्भकारव्यापारे सति शोभनो भवति,अनिपुणकुम्भकारवापारेऽशोभनो भवति । तस्मादनित्यं प्रत्ययभेदभेदित्वादित्ययमपि अनभिव्यक्तविशेषणः स्वभावहेतुरेव ॥ १३ ॥

पूर्व त्रयाणां स्वभावहेतूनामन्वयमात्रमुक्तम्, इदानी तेन कारणेन पक्षधर्मा उच्यन्ते । सन् शब्दः, उत्पत्तिमान् शब्दः, कृतकः शब्द इति प्रयोगभेददर्शनाथं वा इति ॥ १४ ॥

तन्मात्रानुबन्धिनि साध्यधर्मे स्वभावो हेतुः इति पूर्व स्वभावहेतुलक्षणं यदभिहितम्, तत्प्रयोगार्थमाह- सर्वे एते साधनधर्मा इति । पूर्व येषां त्रिविधानां स्वभावहेतूनां पक्षधर्मा उक्ताः, ते यथास्वं प्रमाणैरिति । यस्य यदात्मीयं प्रमाणं तैः स्वप्रमाणैः ।

प्रयत्नानन्तरीयकत्वादीनां तेऽपि स्वभावहेतोः प्रयोगाः भिन्नविशेषणस्वभावाभिधायिनो द्रष्टव्याः ।

प्रत्ययानाम्= कारणानाम्, भेदः= विशेषः, तेन प्रत्ययभेदेन भेत्तुं शीलं यस्य स प्रत्ययभेदो शब्दः, तस्य भावः प्रत्ययभेदभेदित्वम् । ततः प्रत्ययभेदभेदित्वाच्चब्दस्य कृतत्वं साध्यते । प्रयत्नानन्तरीयकत्वानित्यत्वम् । तत्र प्रत्ययभेदशब्दो व्यतिरिक्तविशेषणाभिधायी प्रत्ययभेदभेदिशब्दे प्रयुक्तः । प्रयत्नानन्तरीयकशब्दे च प्रयत्नशब्द ।

तदेवं त्रिविधः स्वभवहेतुप्रयोगो दर्शितः- १ शुद्धः, २ अव्यतिरिक्तविशेषणः, ३ व्यतिरिक्तविशेषणश्च । एवमर्थ चैतदाख्यातम्- वाचकभेदान्मा भूत्कस्यचित्स्वभावहेतावपि प्रयुक्ते व्यामोह इति ॥ १३ ॥

अथ किमेते स्वभावहेतवः सिद्धसम्बन्धे स्वभावे साध्ये प्रयोक्तव्याः? आहोस्वितसिद्धसम्बन्धे? इत्सर्धयितुमाह- सर्वे एते इति । गमकत्वात्साधनानि, पराश्रितत्वाच्च धर्माः, साधनधर्मा एव साधनधर्ममात्रम् । मत्र शब्देनाधिकस्यापेक्षणीयस्य निरासः । तस्यानुबन्धः= अनुगमनम्, अन्वयः । सिद्धः साधनकर्ममात्रानुबन्धो यस्य स तथोक्तः । केन सिद्धः? इत्याह-

१६ तस्यैव तत्स्वभावत्वात् ॥

सिद्धसाधनदह्र्ममात्रानुबन्धे एव साध्यधर्मेऽवगन्तव्या इति । साधनधर्मस्वरूपमेव साधनधर्ममात्रम् । साधनधर्ममात्रेण अनुबन्धः= साधनधर्ममात्रानुबन्धः । अनुबन्धः= सम्बन्धः । अन्वय इति शेष । सिद्धः साधनधर्मामात्रानुबन्धो यस्य साध्य धर्मस्य तस्मिन् ।

यथास्वं साध्यधर्मे साधनधर्ममात्रानुबन्धे साधिते एव ते पक्षधर्मा हेतुत्वेनाभिधेया इति ॥ १५ ॥

कस्माच्च साध्यधर्मे साधनदह्र्ममात्रानुबन्ध इति चेत्? तत्राह- तस्यैवेति । तथाहि- परमार्थतोऽनित्यस्वभाव एव कृतकः । अन्यश्च कृतकः, अन्यश्च अनित्य इति तु न । कथमिति चेत्? हेतुप्रत्ययैर्यत्क्रियते तद्विनश्यत्स्वभावमेवेति ॥ १६ ॥

यथास्वं प्रमाणैरिति । यस्य साध्यधर्मस्य यदात्मीयं प्रमाणं तेनैव प्रमाणेन सिद्ध इत्यर्थः । स्वभावहेतूनां च बहुभेददत्वात्सम्बन्धसाधनान्यपि प्रमाणानि बहूनीति प्रमाणैरिति बहुवचन निर्देशः । गमयितव्यत्वात्साध्यः, पराश्रितत्वाच्च धर्मः साध्यधर्मः ।

तदयं परमार्थः- न हेतुः प्रदीपवत्योग्यतया गमकः, अपितु नान्तरीयकतया विनिश्चितः । साध्याविन्भावित्वनिश्चयनमेव हि हेतोः साध्यप्रतिपादनव्यापारः, नान्यः कश्चित् ।

प्रथमं बाधकेन प्रमाणेन साध्यप्रतिबन्धो निश्चेतव्यो हेतोः । पुनरनुमानकाले साधनं साध्यनान्तरीयकं सामान्येन स्मर्तव्यम् । कृतकत्वं नामानित्यस्वभावमिति सामान्येन स्मृतमर्य पुनर्विशेषे योजयति- इदमपि कृतकत्वं शब्दे वर्तमानमनित्यस्वभावमेवेति ।

तत्र सामान्यस्मरणं लिङ्गज्ञानम् । विशिष्टस्य तु शब्दगतकृतकत्वस्यानित्यत्वस्वभावस्य स्मरणमनुमानज्ञानम् । तथा च सत्यविनाभावित्वज्ञानमेव परोक्षार्थप्रतिपादकतवं नाम । तेन निश्चिततन्मात्रानुबन्धे साध्यधर्मे स्वभाव हेतवः प्रयोक्तव्याः, नान्यत्रेत्युक्तम् ॥ १५ ॥

यद्येवं सम्बन्धो निश्चेतव्यः साश्यस्य साधनेन सह, साहनधर्ममात्रानुबन्धस्तु साधयस्य कस्मान्निश्चितो मृग्यते? इत्याह- तस्यैवेति । सिद्ध साधनधर्ममात्रानुबन्धस्य । तत्स्वभावत्वादिति । साधनधर्मस्वभावत्वात् । यो हि साध्यधर्मः साधनधर्ममात्रानुबन्धवान् स एव तस्य साधनधर्मस्य स्वभावः, नान्यः ॥ १६ ॥

१७ स्वभावस्य च हेतुत्वात् ॥

१८ वस्तुतस्तयोस्तादात्म्यम् ॥

१९ तन्निष्पत्तावनिष्पन्नस्य तत्स्वभावत्वाभावात् ॥

स्वभावस्येति । अत्र साध्यस्य स्वभव एव हेतुरुक्तः, कथं साध्याननुबन्धी स्यात्तथा हि तन्मात्रानुबन्धो स्वभाव एवेति ॥ १७ ॥

तच्च कस्मातिति चेत्? तत्राह- तन्निष्पत्ताविति ।

यदि साधनधर्मस्य कृतकत्वादेः सिद्धौ साध्योऽनित्यत्वादिनं सिद्धयति, तदा कृतकत्वानित्यत्वे परमार्थत एकस्वभावे न स्याताम् ॥ १९ ॥

भवतु ईदृश एव स्वभावः, स्वभाव एव तु साध्ये कस्माधेतुप्रयोगः? स्वभावस्य च हेतुत्वादिति । स्वभाव एवेह हेतुः प्रक्रान्तः । तस्मात्स एव साध्यः कर्तव्योः यः साधनस्य स्वभावः स्यात् । साधनधर्ममात्रानुबन्धवाश्च स्वभावः, नान्यः ॥ १७ ॥

यदि साध्यधर्मः साधनस्य स्वभवः स्यात्, प्रतिज्ञार्थैकदेशस्तर्हि हेतुः स्यात्? इत्याह- वस्तुत इति । वस्तुतः परमार्थतः साध्यसाधनयोस्तादात्म्यम् । समारोपितस्तु साध्यसाधनभेदः । साध्यसाधनभावो हि निश्चयारूढे रूपे । निश्चयारूढं च रूपं समारोपितेन भेदेनेतरेतरव्यावृत्तिकेन भिन्नमिति अन्यत्साधनम्, अन्यत्साध्यम् । दूराद्धि शाखादिमानर्थो वृक्षः इति निश्चीयते न शिशपेति । अथ च स एव वृक्षः, सैव शिशपा । तस्मादभिन्नमपि वस्तु निश्चयो भिन्नमादर्शयति व्यावृतिभेदेन । तस्मात्निश्चयरूढरूपापेक्षया अन्यत्साधनम्, अन्यत्साध्यम् । अतो न प्रतिज्ञार्थैकदेशो हेतुः । वास्तवं च तादात्म्यमिति ॥ १८ ॥

कस्मात्पुनः साधनधर्ममात्रानुबन्ध्येव साध्यः स्वभावः, नान्यः? इत्याह- तन्निषप्त्ताविति । यो हि यत्रानुबध्नाति स तन्निष्पत्तावनिष्पन्नः, तस्य तन्निष्पत्तावनिष्पन्नस्य साधनस्वभवत्वमयुक्तम् । यतो निष्पत्त्यनिषप्त्ती भवाभावस्वरूपे । भावाभावौ च अप्रस्परपरिहारेण स्थितौ । यदि च पूर्व निष्पन्नस्य, अनिष्पन्नस्य चैक्यं भवेदू, एकस्यैवार्थस्य भावाभावो स्यातां युगपत् । न च विरुद्धयोर्भावाभावयोरैक्यं युज्यतेः, विरुद्धधर्मसंसर्गात्मक कत्वादेकत्वाभवस्य ।

किञ्च, पश्चादुत्पदयमानं पूर्वनिष्पन्नाद्भिन्नहेतुकम्, हेतुभेदपूर्वकश्च

२० व्यभिचारसम्भवाच्च ॥

२१ कार्यहेतोः प्रयोगः- यत्र धूमस्तत्राग्निः, यथा महानसादौ । अस्ति चेह धूम इति ॥

२२ इहापि सिद्धे एव कार्यकारणभावे कारणे साध्ये कार्यहेतुर्वक्तव्यः ॥

यदि कृतत्वापरिनिष्पत्तावुत्तरकाले दण्डादिकारणान्तरेणानित्यत्वं क्रियते, तदा व्यभिचारः स्यत्, दण्डादेरपि स्वप्रत्ययसपेक्षतयोत्पन्नत्वात् । तदवश्यमेवानुत्पन्नस्य कस्यापि विनाशस्यापि न सम्भव इति ॥ २० ॥

कार्यहेतोः प्रयोग इति । साध्र्म्यवदनुमानस्य कार्यहेतोः प्रयोग उपदर्श्यते । यत्र धुमस्तत्राग्निरिति । यत्रेति अस्मिन् पर्देशे धूमस्तत्र सर्वत्राग्निरित्यन्वय इति । यथा महानसादाविति । अनेन दृष्टान्तो दर्शितः । अस्ति च इह धूम इति । अभिमतदेशे च धूमो दृश्यत इति पक्षधर्मो दर्शितः ॥ २१ ॥

कार्यहेतावपि पूर्व कार्यकारणभावः साधनीयः अनन्तरं च कारणसाधनार्थ कार्यहेतुर्वक्तव्यः । तथा हि- स्वरूपेण निश्चितमेव लिङ्ग ज्ञेयम्, न तु अनिश्चितमेवेति ॥ २२ ॥

कार्यभेदः, ततो निष्पन्नानिष्पन्नयोविरुद्धर्मसंसर्गात्मको भेदो भेदहेतुश्च कारणभेद इति कुत एकत्वम् । तस्मात्साधनधर्ममात्रानुबन्ध्येव साध्यः स्वभावः, नान्यः ॥ १९ ॥

मा भूत्पश्चान्निष्पन्नः पूर्वजस्य स्वभावः, साध्यस्तु कस्मान्न भवति? इत्याह- व्यभिचरेत्यादि ॥ पूर्वजेन पश्चान्निष्पन्नस्य व्यभिचारः= परित्यागो यस्तस्य सम्भवाच्च न पूर्वनिष्पन्नस्य पश्चान्निष्पन्नः साध्यः । तस्मात्साधन धर्ममात्रानुबन्ध्येव स्वभावः । स एव च साध्यः । तथा च सिद्धसाधनधर्म मात्रनुबन्ध एव स्वभावे स्वभवहेतवः प्रयोक्तव्या इति स्थितम् ॥ २० ॥

कार्यहेतोः प्रयोग इति । साधर्म्यवानिति प्रकरणादपेक्षणीयम् । यत्र धूम इति धूममनूद्य तत्राग्निरिति अग्नेविधिः । तथ च नियमार्थः पूर्ववदवगन्तव्यः । तदनेन कार्यकारणभवनिमित्ता व्याप्तिदर्शिता ।

व्याप्तिसाधनप्रमाणविषयं दर्शयितुमाह- यथामहानसादाविति । महानसादौ हि प्रत्यक्षानुपलम्भाभ्यां कार्यकारणभावात्माविनाभावो निश्चितः । अस्ति चेहेति साध्यधर्मिणि पक्षधर्मोपसंहारः ॥ २१ ॥

इहापीति । न केवलं स्वभावहेती, इहापि कार्यहेतौ । सिद्ध एवेति । निश्चिते कार्यकारणत्वे । कार्यकारणभावन्श्चयो ह्यवश्यं कर्तव्यः, यतो न योग्यतया हेतुर्गमकोऽपितु नान्तरीकत्वादित्युक्तम् ॥ २२ ॥

२३ वैधर्म्यवतः प्रयोगः- यत्सदुपलब्धिलक्साणप्राप्तं तदुपलभ्यत एव । यथा नीलादिविशेषः । न चैव मिहोपलब्धिलक्षणप्राप्तस्य सत उपलब्धिः र्घटस्येति अनुपलब्धिप्रयोगः ॥

२४ असति अनित्यत्वे, नास्ति सत्त्वमुत्पत्तिमत्त्वं कृतकत्वं वा । सन् च शब्द उत्पत्तिमान् कृतको वेति स्वभावहेतोः प्रयोगः ॥

वैधर्म्यत्यादि । यानि च वैधर्म्यवदनुमानानि, तानि वक्तव्यानि ।

यत्सदुपलब्धिलक्षणप्राप्तं तदुपलभ्यत एवेति । सच्च वस्तु किमप्युपलब्धिलक्षणप्राप्तं यदि स्यात्, तदा अवश्यमुपलभ्येत । एतेन व्यतिरेक उक्तः । यथा नोलादिविशेष इति । वैधर्मदृष्टान्तः ।

न चैवमिहोपलब्धिलक्षणप्राप्तस्य घटस्योपलब्धिरिति । उपलब्धिरित्युपलब्धिलक्षणप्राप्तो यादृशो नीलादिविशेष उपलभ्यते, तादृशो घट इह नास्ति । इहेति अनेनाभिमतः प्रदेश उक्तः । अनुपलब्धिप्रयोग इति । अयमनुपलब्धेर्वैधर्म्यवान् ॥ २३ ॥

असति अनित्यत्वे नास्ति सत्त्वमुत्पत्तिमत्त्वं वेति । अनेन त्रयाणां स्वभावहेतूनां व्यतिरेक उपदिष्टः । सन् च शब्द उत्पत्तिमान्, कृतको वेति पक्षधर्मा उक्ताः । स्वभावहेतोः प्रयोग इति । एते च स्वभावहेतोर्वैधर्म्यवन्तः प्रयोगा इति ॥ २४ ॥

साधर्म्यवान् स्वभावकार्यानुपलम्भानां प्रयोगो दर्शितः, वैधर्म्यवन्तं दर्शयितुमाह- वैधर्म्यवत इति । यत्सदुपलब्धिलक्षणप्राप्तमिति । यत्सद्दृश्यमित्यस्तित्वानुवादः । तदुपलभ्यत इति उपलम्भविधिः । तदनेन दृश्यस्य सत्त्वं दर्शनविषयत्वेन व्याप्तं कथितम्, असत्त्वनिवृतिश्च । सत्त्वम्, अनुपलम्भनिवृतिश्च उपलम्भः । तेन साध्यनिवृत्त्यनुवादेन साधननिवृत्तिविहिता । तथा च साध्यनिवृत्तिः साधननिवृत्ति नियतत्वात्साधननिवृत्त्या व्याप्ता कथिता । यदि च धर्मिणि साधयधर्मो न भवेद्, हेतुरपि न भवेत् । हेत्वभावेन साध्याभावस्य व्याप्तत्वात् । अस्ति च हेतुः । अतो व्यापकस्य साधनाभावस्याभावाद्व्याप्यस्य साध्याभावस्याभाव इति साध्यगतिर्भवति । ततो वैधर्म्यप्रयोगे साध्नाभावे साध्याभावो नियतो दर्शनीयः सर्वत्रेति न्यायः ॥ २३ ॥

स्वभावहेतोर्वैधर्म्यप्रयोगमाह- असत्यनित्यत्व इति । इहानित्यत्वस्य साध्यस्याभावो हेतोरभावे नियत उच्यते । तेन हेत्वभावेन साध्याभावो

२५ असत्यग्नौ न भवत्येव धूमः । अत्र चास्ति धूम इति कार्यहेतोः प्रयोगः ॥

२६ साधर्म्येणापि हि प्रयोगेऽर्थाद्वैधर्म्यगतिरिति ॥

२७ असति तस्मिन् साध्येन हेतोरन्वयाभावात् ॥

असत्यग्नौ न भवत्येव धूम इति । अनेन व्यतिरेक उक्तः अत्र च । अस्तीति अनेन पक्षधर्म उक्तः । कार्यहेतोः प्रयोग इति । कर्यहेतोर्वैधर्म्यवान्, प्रयोग उपदर्शित इति ॥ २५ ॥

साधर्म्यवदनुमाने चान्वयः, पक्षधर्मी व्यतिरेकश्चेति त्रीणि रूपाणि नाभिव्यक्तानि, कथं परार्थानुमानं तिरूपलिङ्गाख्यानमिति चेत्? तत्राह- साधर्म्येणेति । यस्मात्सामर्थ्यद्वारेण साधर्म्यवत्प्रयोगेऽपि वैधर्म्यस्य प्रतीतिः, तस्मात्यथोक्तप्रसङ्गी नास्तीति ॥ २६ ॥

सामर्थ्य च कीदृशमीत्चेत्? आह- असतीति ।

यदि व्यतिरेको न स्यात्, तदा साध्येन हेतोरन्वयोऽप्यसिध एव स्यादिति ॥ २७ ॥

व्याप्त उक्तस्त्रिष्वपि स्वभावहेतुषु । सन्नुत्पत्तिमान् कृतको वा शब्द इति । त्रयाणामपि पक्षधर्मत्वकथनम् । इह च साधनाभावस्य व्यापकस्याभाव उक्तः । ततो व्याप्योऽपि साध्याभावो निवर्तत इति साध्यगति ॥ २४ ॥

कार्यहेतोर्वैधर्म्यवत्प्रयोगमाह- असत्यग्नाविति । इहापि वह्नयभावो धूमाभावेन व्याप्त उक्तः । अस्ति चात्र धूम इति । व्यापकस्य धूमाभावस्य भाव उक्तः । ततो व्याप्यस्य वह्नयभावस्याभावे साध्यगतिः ॥ २५ ॥

ननु च साधर्म्यवति व्यतिरेकोनोक्तः, वैधर्म्यवति चान्वयः, तत्कथमेतत्त्रिरूपालिङ्गाख्यानाम्? इत्याह- साधर्म्यैणेति । साधर्म्यैणाप्यभिधेयेन युक्ते प्रयोगे क्रियमाणे अर्थात्सामर्थ्यात्वैधर्म्यस्य व्यतिरेकस्य गतिर्भवतीति । हीति यस्मात् । तस्मात्त्रिरूपलिङ्गाख्यानमेतत् ।

यदि नाम व्यतिरेकोऽन्वयवता नोक्तः, तथापि अन्वयवाचकः सामर्थ्या देवावसीयते ॥ २६ ॥

कथम्? असति तस्मिन् व्यतिरेके बुद्धया व्यवसिते साध्येन हेतोरन्वयस्य बुद्धयाश्यवसितस्याभावात् । साध्ये नियतं साधनमन्वयवाक्यादवस्यता साध्याभावे साधनं नाशङ्कनीयम् । इतरथा साध्यनियतमेव न प्रतीतं स्यात् । साध्याभावे च साधनाभावगतिर्व्यतिरेकगतिः । अतः साध्यनियतस्य साधनस्याभिधानसामर्थ्यादन्वयवाक्येऽवसितो व्यतिरेकः ॥ २७ ॥

२८ तथा वैधर्म्येणाप्यन्वयगतिः ॥

२९ असति तस्मिन् साध्याभावे हेत्वभावस्यासिद्धेः ॥

३० नहि स्वभावप्रतिबन्धेऽसत्येकस्य निवृत्तावपरस्य नियमेन निवृत्तिः ॥

३१ स च द्विप्रकारः सर्वस्य तादात्म्यलक्षणः, तदुत्पत्तिलक्षणश्चेत्युक्तम ॥

वैधर्म्यवत्प्रयोगेऽपि सामर्थ्येनान्वयप्रतीतिर्भवतीति ॥ २८ ॥

अथ तच्च साधर्म्य कीदृशमिति चेत्? आह- असतीति ।

यदि साध्येन हेतोरन्वयो न स्यात्तदा साध्याभावेऽपि हेतोरभावः कथं स्यात् ॥ २९ ॥

अन्वयाभावे व्यतिरेकोऽसिद्ध इत्येतत्कस्मादिति चेत्? तत्राह- नहीत्यादि । यदि स्वभावप्रतिबन्ध आत्मा स्वरूपेण प्रतिबन्धो न स्यात्तदा एकनिवृत्तावपि अपरस्य निवृत्तिर्नियमेन न स्यात् । यथा क्वचिदश्वाभावे गवामप्यभावो नेति ॥ ३० ॥

सच सर्वस्य द्विप्रकार इति । सर्वस्यैव पदार्थस्य यः कोऽपि प्रतिबन्धो योग्यः समुपलभ्यते स सर्वः प्रकारद्वय एवान्तर्भवति । तादात्म्यलक्षणस्तदुत्पत्तिलक्षणश्चेत्युक्त-

तथेति । यथा अन्वयवाक्ये, तथा अर्थादेव वैधर्म्येण प्रयोगेऽन्वयस्याभिधीयमानस्यापि गतिः ॥ २८ ॥

कथम्? असति तस्मिनन्वये बुद्धिगृहीते साध्याभावे हेत्वभावस्यासिद्धे रनवसायात् । हेत्वभावे साध्याभावं नियतं व्यतिरेकवाक्यादवस्यता हेतुः सम्भवे साध्याभावो नाशङ्कनीयः, इतरथा हेत्वभावे नियतो न स्यात्प्रतीतः । हेतुमत्त्वे च साध्यसत्त्वगतिरन्वयगतिः । अतः साधनाभावनियतस्य साध्याभावस्यभिधानसामर्थ्याद्व्यतिरेकवाक्येऽन्वयगतिः ॥ २९ ॥

यदि नामाकाशादौ साध्याभावे साधनाभावः,तथापि किमीथेतुसम्भवे साध्यसम्भवः? इत्याह- नहीति । स्वभावेन प्रतिबन्धो यस्त्स्मिन्नसत्येकस्य साध्यस्य निवृत्त्या नापरस्य साधनस्य नियमेन युक्ता नियमवती निवृत्तिः ॥ ३० ॥

स च स्वभावप्रतिबन्धो द्विप्रकारः सर्वस्य प्रतिबद्धस्य । तादात्म्यं लक्षणं निमित्तं यस्य स तथोक्तः । तदुत्पत्तिर्लक्षणं निमित्तं तस्य स तथोक्तः । यो यत्र प्रतिबद्धस्तस्य स प्रतिबन्धविषयोऽर्थः स्वभावः कारणं वास्यतन्यस्मिन् प्रसिद्धत्वानुपपत्तेः । तस्माद्द्विप्रकारः सः इत्युक्तम् । स च साध्येऽर्थे लिङ्गस्य इत्यत्रान्तरेऽभिहितः ॥ ३१ ॥

३२ तेन हि निवृत्ति कथयता प्रतिबन्धो दर्शनीयः । यस्माद्निवृत्तिवचनमाक्षप्तप्रतिबन्धोपदर्शनमेव भवति । यच्च प्रतिबन्धोपदर्शनं तदेवान्वयवचनमियेकेनापि वाक्येन अन्वयमुखेन व्यतिरेकमुखेन वा प्रयुक्तेन सपक्षासपक्षयोर्लिङ्गस्य सदसत्त्वख्यापनं कृतं भवतीति नावश्यं वाक्यद्वयप्रयोगः ॥

मिति तस्य आत्मा तदात्मा, तदात्मनो भावस्तादात्म्यम्, तादात्म्यं लक्षणं यः स तादात्म्यलक्षणः । तस्मादुत्पत्तिस्तदुत्पत्तिः, तदुत्पत्तिर्लक्षणं यस्य स तदुत्पत्तिलक्षण इति विग्रहः । एतच्च पूर्वमुक्तमेव ॥ ३१ ॥

यस्मात्प्रतिबन्धे सति एकनिवृत्त्या अपरनिवृत्तिर्भवति, अभावे न तेन हेतुना कस्यचिदेकस्य निवृत्या अपरनिवृत्तिरमिधीयते । एतेन निवर्त्त्यनिवर्तकयोः प्रतिबन्ध उक्त इति । निवृत्तिवचनेनैव प्रैबन्ध आक्षिप्यत इति ।

यदयवं स्यादेव, ततश्च किमायातम्? इति चेदाह- यदेव प्रतिबन्धोपदर्शनं तदेवान्वय इति । तस्मादेकेनापि वाक्येनान्वयमुखेन व्यतिरेकमुकेन वा प्रयुक्तेन सपक्षासपक्षयोर्लिङ्गस्य सदसत्त्वख्यापनं कृत भवतीति । यदयपि अन्वयमुखेन

हिर्यस्मादर्थे । यस्मात्स्वभावप्रतिबन्धे निवर्त्यनिवर्तकभावः, तेन साध्यस्य निवृत्तौ साधनस्य निवृत्ति कथयता प्रतिबन्धो निवर्त्त्य निवर्तकयोर्दर्शनीयः । यदि हि साधनं साध्ये प्रतिबद्धं भवेत्, एवं साध्यनिवृतौ तन्नियमेन निवर्तेत । यतश्च तस्य प्रतिबन्धो दर्शनीयः, तस्मात्साध्यनिवृतौ यत्साधन निवृत्तिवचनं तेनाक्षिप्तं प्रतिबन्धोपदर्शनम् । यच्च तदाक्षिप्तं प्रतिबन्धोपदर्शन तदेवान्वयवचनम् । प्रतिबन्धश्चेदवश्यं दर्शयितव्यः, न वक्तव्यस्तर्हि अन्वयः । यस्मात्दृष्टान्ते प्रमाणेन प्रतिबन्धो दर्श्यमान एवान्वयः, नापरः कश्चित्, तस्मात्निवर्त्य निवर्तकयोः प्रतिबन्धो ज्ञातव्यः । तथा च अन्वय एव ज्ञातो भवति । इतिशब्दो हेतौ । यस्मादन्वयेऽपि व्यतिरेकगतिः व्यतिरेके चान्वयगतिः, तस्मादेकेनापि सपक्षे चासपक्षे च सत्त्वासत्त्वयोः ख्यापनं कृतम् ।

अन्वयो मुखम्= उपायोऽभिधेयत्वाद्यस्य तदन्वयमुखं वाक्यम् । एवं व्यतिरेको मुखं यस्येति । इति हेतो । यस्मादेकेनापि वाक्येन द्वयगतिः, तस्मादेकस्मिन् साधनवाक्ये द्वयोरन्वय व्यतिरेकयोरवश्यमेव प्रयोगौ न न कर्तव्याः ॥

३३ अनुपलब्धावपि यत्सदुपलब्धिलक्षणप्राप्तं तदुपलभ्यत एवेत्युक्तेऽनुपलभ्यमानं तादृशमसदिति प्रतीतेरन्वयदिस्शिः ॥

३४ द्वयोरप्यनयोः प्रयोगयोर्नावश्यं पक्षनिर्देशः ॥

प्रयोगः क्रियते चेद्व्यतिरेकमुखेन करणमपि युक्तमेव, तथापि उक्तप्रकारेण सपक्षासपक्षयोः सत्त्वासत्त्वयोरभिधानमेव सत्त्वासत्त्वप्रदर्शनं भवतीति उभयेनापि लिङ्गेन प्रत्येकं क्रियते ।

इति नावश्यं वाक्यद्वयप्रयोग इति । तस्मादेकस्मिन्नेव प्रयोगे साधर्म्यवतो वैधर्म्यवतश्च वाक्यद्वयस्य प्रयोगो नावश्यं कार्यः ॥ ३२ ॥

एवं कार्य स्वभावहेत्वोरन्वय व्यतिरेकयोः परस्पराक्षेपोऽभिहितः । तृतीयहेतुनिर्देशार्थमाह- अनुपलब्धावपीति ।

कार्य स्वभावहेतुभ्यामनधिगतस्येति शेषह् । यदोपलब्धिलक्षणप्राप्तं यदि स्याद्, अवश्यमुपलभ्येत इति व्यतिरेक उच्यते, तदोपलभ्दिलक्षणप्राप्तस्यानुपलम्भे सामर्थ्यात्रास्तीति प्रतीतिजयिते । तस्मादन्वयसिद्धिराक्षिप्त एव । एवमन्वयाक्षेप उक्तः । अनुपलब्धौ व्यतिरेकाक्षेपस्तु स्वयं द्रष्टव्य इति ॥ ३३ ॥

साधर्म्यवति वैधर्म्यवति चानुमाने उभयत्राइ पक्षनिर्देशो नास्ति । एवं च पक्षानिर्धेशाभाव एव कल्प्यत इति चेत्? तत्राह- द्वयोरपीति ।

अवश्यमेव पक्षो निदेह्स्यः इति यो नियमः, स तु नास्ति ॥ ३४ ॥

अर्थगत्यर्थो हि शब्दप्रयोगः । अर्थश्चेदवगतः कि शब्दप्रयोगेण । एकमेवान्वयवाक्यं व्यतिरेकवाक्यं वा प्रयोक्तव्यम् ॥ ३२ ॥

अनुपलब्धावपि व्यतिरेकेणोक्तेनान्वयगतिः । यत्सदुपलब्धिलक्षणप्राप्तमिति । साध्यस्य असद्वयवहारयोग्यत्वस्य निवृत्ति दृश्यसत्त्वरूपामाह । तदुपलभ्यत एवेति । अनुपलम्भस्य निवृत्तिमुपलम्भरूपामाह । तदनेन साध्यनिवृत्तिः साधननिवृत्या व्याप्ता दर्शिता । यदि च साधनसम्भवेऽपि साध्यनिवृत्तिर्भवेत्न साधनाभावेन व्याप्ता भवेत् । अतो व्याप्तिं प्रतिपद्यमानेन साधनसम्भवः साध्यसम्भवेन व्याप्तः प्रतिपत्तव्यः । अत एवाह- अनुपलभ्यमानं तादृशमिति । दृशयम् । असदिति प्रतीतेः सम्प्रत्यातन्वयसिद्धिरिति ॥ ३३ ॥

यतश्च साधनं साध्यधर्मप्रतिबद्धं तादात्म्य तदुत्पत्तिभ्यां प्रतिपत्तव्यं द्वयोरपि प्रयोगयोः, तस्मात्पक्षोऽवश्यमेव न निर्धेश्यः । यत्साधनं साध्यनियतं प्रतीतं तत एव साध्यधर्मिणि दृष्टात्साध्यप्रतीतिः । अतो न किञ्चित्साध्यनिर्दशनेति ॥ ३४ ॥

३५ यस्मात्साधर्म्यवत्प्रयोगेऽपि यदुपलब्धिलक्षणप्राप्तं तन्नोपलभ्यते सोऽसद्वयवहारविषयः । नोपलभ्यते चात्रापि उपलब्धिलक्षणप्राप्तो घट इति सामर्थ्यादेव इह घटो नास्तीति भवति ॥

३६ तथा वैधर्म्यवत्प्रयोगेऽपि यः सद्वयवहारविषय उपलब्धिलक्साणप्राप्तः स उपलभ्यत एव । न तथात्र तादृशो घट उपलभ्यते इत्युक्ते सामर्थ्यादेव नेह सद्वयवहारविषय इति भवति ॥

उपलब्धिलक्षणर्पाप्तो यावान्नोपलभ्यते स सर्वोऽसद्वयवहारविषय इति निखिलपदार्थोसंहारेण अन्वयः कार्य इति । निखिलपदार्थोपसंहारेणान्वयो यत्र च पक्षधर्मः इत्येतयोनिर्देश तच्च साध्यं तत्र सामर्थ्येन सिद्धयतीति पक्षनिर्देशस्य किं प्रओजनम्? ॥ ३५ ॥

निखिलपदार्थोपसंहारेण यो व्यतिरेकनिर्देशः पक्षधर्मश्चेति तदुभयसामर्थ्येन प्रतिज्ञाप्रतीतेनं प्रतिज्ञानिर्देशः । अन्यथा यन्न प्रतीयते तन्निदिश्येत । यदा सामर्थ्येन प्रतिज्ञार्थप्रतीतिर्जायते तदा प्रतिज्ञावचनश्रवणे उपरोधेनापि क आग्रही स्यात् । एवं च यदा सामर्थ्येन वितर्कविषयार्थविनिश्चयः, पक्षधर्मव्याप्तिनिर्देशबलाच्च प्रतिज्ञार्थावगमस्तत्र पक्षनिर्देशेन किम्? एतच्च विनिश्चयवचनाभिधाने द्रष्टव्यम् । प्रपञ्चा एनमेवार्थमनुपलब्धिप्रयोगे दर्शयति यस्मादिति । साधर्म्यवति प्रयोगेऽपि सामर्थ्यादेव नेह प्रदेशे घटः इति भवति ।

कि पुनस्तत्सामर्थ्यम्? इत्याह- यदुपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते इति अनुपलम्भानुवादः सोऽसद्वयवहारविषय इति । असद्वयवहरयोग्यत्वविधिः ।तथा च सति दृश्यानुपलम्भोऽसद्वयवहारयोग्यत्वेन व्याप्तो दर्शितह् । नोपलभ्यते च इत्यादिना साध्यधर्मिणि सत्त्वं लिङ्गस्य दर्शितम् । यदि च साध्यधर्मस्तत्र साध्यधर्मिणि न भवेत्, साधनधर्मोऽपि न भवेत् । साध्यनियतत्वात्तस्य साधनधर्मस्येति सामर्थ्यम् ॥ ३५ ॥

यथा साधर्म्यवत्प्रयोगे तथा वैधर्म्यवत्प्रयोगेऽपि नेह सद्वयवहारविषयोऽस्ति घट इति भवति ।

सामर्थ्य दर्शयितुमाह- यः सद्वयवहारविषय इति । विदयमानः । उपलब्धिलक्षणप्राप्त इति । दृश्य इत्येषा साध्यनिवृत्तिः । स उपलभ्यत एवेति । साध्यनिवृत्तिरिति । अनेन च साध्यनिवृतिः साधननिवृत्त्या व्याप्ता दर्शिता । न तथेति । यथान्यो दृश्य उपलभ्यते न तथात्र प्रदेशे तादृश इति । दृश्यो घटः । उपलभ्यते इति । अनेन साध्यनिवृत्तेर्व्यापिका निवृत्तिरसती साध्यधर्मिणि दर्शिता । यदि च साध्यधर्मः साध्यधर्मिणि न स्यात्साधन

३७ कीदृशा पुनः पक्ष इति निर्देश्यः ॥

३८ स्वरूपेणैव स्वयमिष्टोऽनिराकृतो निर्देश्यः पक्ष इति ॥

३९ स्वरूपेणेति साध्यत्वेनेष्ट इति ॥

४० स्वरूपेणैवेति साध्यत्वेनैवेष्टो न साधनत्वेनापि ॥

भिधानार्थे पक्षनिर्देशे च दोषः कोऽपि नास्ति । अत एव नियमो नेत्युक्तम् । यदि पुनः सर्वथा पक्षनिर्देशप्रतिषेध एवाभिर्पेतः स्यात्, तर्हि वचनमेतदवश्यं नोपदिश्येत इत्युक्तं भवतीति ॥ ३६ ॥

यदि विनिश्चयवचनाभिधाने च पक्षनिर्देश इति उच्यते, यत्र प्रपञ्चाभिधानं तत्र निर्देशः, तर्हि कीदृग्लक्षणविशिष्टः पक्षत्वेनाभिधेय इति चेद्? आह- कीदृश इति ।

यश्चार्थो वादयभिमतेन विषयीकृतः साध्यरूपेणैव निर्दिश्यते, तथा प्रत्यक्षादिना च न निराक्रियते तादृशोऽर्थः पक्ष इति अभिधेयः । एव समासार्थः ॥ ३८ ॥

अवयवार्थस्तु- स्वरूपेणेति ।

साध्यरूपेण विना अन्यरूपेण न युज्यते इति स्वरूपेणोक्तमेव साध्यत्वेनावगन्तव्यमिति ॥ ३९ ॥

अनयोक्त्या केवलसाध्यरूपेण निर्देश्यस्यैव पक्षत्वेनाभिधानम् । अन्यरूपेण निर्देश्यस्य तु नेति ॥ ४० ॥

धर्मोऽपि न भवेत् । अस्ति च साधनधर्म इति सामर्थ्यम् । अतः सामर्थ्यात्नास्त्यत्र घट इति प्रतीतेन पक्षनिर्देशः । एवं कार्य स्वभावहेत्वोरपि समर्थ्यात्सम्प्रत्यय इति न पक्षनिर्देशः ॥ ३६ ॥

कीदृशः पुनरर्थः पक्ष इति । अनेन शब्देन निर्देश्यो वक्तव्यः?: इति ॥ ३७ ॥

आप-स्वरूपेणैवेति । साध्यत्वेनैव । स्वयमिति वादिना । इष्ट इति । नोक्त एव, अपि त्विष्टोऽपीत्यर्थः । एवम्भूतः सन् प्रत्यक्षादिभिः अनिराकृतो योऽर्थः स पक्ष इत्युच्यते ।

अथ यदि पक्षो न निर्देश्यः, कथमनिर्देश्यस्य लक्षणमुक्तम्? न साधनवाक्यावयवत्वादस्य लक्षणमुक्तम्, अपि त्वसाध्ये केचित्साध्यम्, साध्यं चा साध्यमिति । केचित्प्रतिपन्नाः, तत्साध्यासाध्यप्रतिपत्तिनिराकरणार्थ पक्षलक्षणमुक्तम् ॥ ३८ ॥

स्वरूपेणेष्ट इत्यस्य विवरणम्- स्वरूपेणेति । साध्यत्वेनेष्ट इति । पक्षस्य साध्यत्वान्नापरमस्ति रूपम् । अतः स्वरूपं साध्यत्वमिति ॥ ३९ ॥

एवशब्दं विवरीतुमाह- स्वरूपेणैवेति । ननु चैवशब्दः केवल एव

४१ यथा शब्दस्यानित्यत्वे साध्ये चाक्षुषत्वं हेतुः, शब्देऽसिद्धत्वात्साध्यं भवतीति न पुअन्रत्र साध्यत्वेनैवेष्टम्, साधनत्वेनाप्यभिधानात् ॥

४२ स्वयमिति वादिना ॥

४३ यस्तदा साधनमाह ॥

साध्यरूपान्यरूपविशिष्टस्य निर्देशः कीदृशः? इति चेदाह-यथेति ।

यः शब्दः सोऽनित्यः इत्युच्यमाने तच्च चाक्षुषत्वं शब्देऽसिद्धमिति साध्यं भवति । तस्मात्स्वरूपेणैवेति निर्देशाभावे चाक्षुषत्त्वनिर्देशस्यापि पक्षत्वप्रसङ्गः ।

यदि तस्मिन् साध्यरूपमस्त्येव, कस्मान्न पक्ष इति चेद्? आह- अत्रेति ।

चाक्षुषत्वे साध्यरूपता अस्त्येव । तथापि हेतुत्वेन निर्देशान्न केवलं साध्यस्वरूपत्वमेव । साधनरूपताप्यस्ति । तस्मात्साध्यत्वेऽपि अतिरिक्तसाधनरूपसत्त्वादधिकवचनस्य पक्षत्वं निरस्तम् ॥ ४१ ॥

साधनं कथयता स्वयं निर्देश्यो योऽर्थः स एव पक्षः, शास्त्रकारेण निर्देश्यस्तु नेति शेषः ॥ ४२ ॥

प्रत्यवम्रष्टव्यः, तत्किमर्थ स्वरूपशब्देन सह प्रत्यवमुष्टः? उच्यतेः एवशब्दो निपातो दयोतकः । पदान्तराभिहितस्यर्थस्य विशेष दयोतयति- इति पदान्तरेण विशेष्यवाचिना सह निर्दिष्टः । न साधनत्वेनापीति । यत्साधनत्वेन निर्धिष्टं तत्साधनत्वेनेष्टम् । असिद्धत्वाच्च साध्यत्वेनापीष्टम् । तस्य निवृत्त्यर्थमेवशब्दः ॥ ४० ॥

तदुदाहरति- यथेति । शब्दयानित्यत्वे साध्ये चाक्षुषत्वं हेतुः शब्देऽसिद्धत्वात्साध्यमित्यनेन साध्यत्वेनेष्टिमाह । तदिति चक्षुषत्वम् । इहेति शब्दे । साध्यत्वेनैवेष्टमिति । साध्यत्वेनेष्टिनियमाभावमाह । साधनत्वेनाभिधानादिति । यतः साधनत्वेनाभिहितम्, अतः साधनत्वेनापीष्टम्, न साध्यत्वेनैवेति ॥ ४१ ॥

स्वयमित्यनेन स्वयं शब्दं व्याख्येयमुपक्षिप्य तस्यार्थमाह- स्वयमिति । स्वयंशब्दो निपातः आत्मनः इति षष्ठयन्तस्य आत्मना इति च तृतीयान्तस्यार्थे वर्तते । तदिह स्वात्मशब्दस्यार्थे वृत्तः स्वयं शब्दः । आत्म शब्दश्च सम्बन्धिशब्दः । वादी च प्रत्यासन्नः । ततो यस्य वादिन आत्मा तृतीयार्थ युक्तः, स एव तृतीयार्थयुक्तो निर्दिष्टो वादिनेति । न तु स्वयंशब्दस्य वादिना इत्येष पर्यायः ॥ ४२ ॥

कः पुनरसौ वादी? इत्याह- यस्तदेति । वादकाले, साधनमाह । अनेक

४४ एतेन यदयपि क्वचित्शास्त्रे स्थितः साधनमह, तच्चास्त्रकारेण तस्मिन् धर्मिण्यनेकधर्माभ्युपगमेऽपीति यस्तदा तेन वादिना धर्मः स्वयं साधयितुमिष्टः स एव साध्यो नेतर इत्युक्तं भवति ॥

४५ इष्ट इति यत्रार्थे विवादेन साधनमुपन्यस्तं तस्य सिद्धिमिच्चता सोऽनुक्तो पि वचनेन साध्यो भवति ॥

तेनेति वादिना निर्देश्य एव पक्ष उच्यते ॥ ४३ ॥

कश्चित्क्वचित्शास्त्रे स्थितः पक्षे कृतनिश्चय एव । अस्तु तादृशो निश्चयः, तथापि यदि शास्त्रादुद्धृत्य प्रमाणिक्रियते इति शेषः ।

वादी यस्मिन् शास्त्रे साधनं कथयति तच्चास्त्रकारेण वितर्कविषयधर्मिणि यदि बहवो धर्मा अङ्गीक्रियन्ते, तथापि च । वादिनैव यो धर्म साधयितुमिष्टः स एव साध्यः । शास्त्रकारेरोष्टस्तु न यस्माद्वादिना निर्देश्यस्य पक्षत्वमङ्गीक्रियते तस्माद्वादिना शास्त्राङ्गीकारद्वारेणोपकारको यो धर्मः परिष्कर्तुमिष्यते स एव साध्यः, शास्त्रकारेणाङ्गीकृतस्तु न- इत्यनेन वचनेनोक्तं भवति ॥ ४४ ॥

वादिसम्भवेऽपि स्वयं शब्दवाच्यस्य, वादिनो विशेषणमेतत् । यदयवम्, वादिनः इष्टः साध्यः इत्युक्तम्, एतेन च किमुक्तेन? अनेन तदा वादकाले तेन वादिना स्वयं यो धर्मः साधयितुमिष्टः, स एव साध्यः, नेतरो धर्मः- इत्युक्तं भवति । वादिनोऽनिष्टधर्मसाध्यत्वनिवर्तनमस्य वचनस्य फलमिति यावत् ॥ ४३ ॥

अथ कस्मिन् सति अन्यधर्मसाध्यत्वस्य सम्भवः, यन्निवृत्तयर्थ तद्वक्तव्यम्? इत्याह- तच्चास्त्रकारेणेति । यच्चास्त्रं तेन वादिनाभ्युपगतं तच्चास्त्रकारेण तस्मिन् साध्यधर्मिणि अनेकस्य धर्मस्याभ्युपगमे सति अन्यधर्मसाध्यत्वसम्भवः । तथा हि- शास्त्रं येनाभ्युपगतं तत्सिद्धो धर्मः सर्व एव तेन साध्य इत्यस्ति विप्रतिपत्तिः, अनेनापास्यते । अनेकधर्माभ्युपगमेऽपि सति स एव साध्यो यो वादिना इष्टः, नान्य इति ।

ननु च शास्त्रानपेक्षं वस्तुवलप्रवृतं लिङ्गम्, अतोऽनपेक्षणीयत्वान्न शास्त्र स्थित्वा वादः कर्तव्यः? सत्यम्ः आहोपुरुषिकया तु यदयपि क्वचिच्चास्त्रे स्थित इति किञ्चिच्चास्त्रमभ्युपगतः साधनमाह, तथापि य एव तस्येष्टः स एव साध्यः इति ज्ञापनायेदमुक्तम् ॥ ४४ ॥

इष्टशब्दमुक्षिप्य व्याचष्टे- इष्ट इति । यत्रार्थ आत्मनि विरुद्धो

४६ तदधिकरणत्वाद्विवादस्येति ॥

४७ यथा परार्थाश्चक्षुरादयः सङ्घातत्वात्शयनासनादयङ्गवदिति ।

अत्र आत्मार्था इत्यनुक्तेऽपि आत्मार्थतैव साध्यं भवतीति । तेन नोक्तमात्रमेव साध्यमित्युक्तं भवति ॥

इष्टशब्दार्थ आख्यायते । यस्मिन् वस्तुनि विवाद उत्पन्नः, विवादाधिकरणं तद्वस्तु साधयितुमिच्चता साध्यत्वेनोपन्यस्तोऽर्थ एवेष्ट इति ।

यदि वितर्कविषयार्थोऽसो वचनेन नाभिधीयते, तथापि स एव साध्यो भवति ॥ ४५ ॥

तच्च कस्मादिति चेद्? आह- तदधिकरणत्वादिति ।

तत एव यस्माद्विवादः कथमसौ विवाद एव साध्यो न स्यात् ॥ ४६ ॥

यच्च विवादाधिकरणं तद्वचनेनानुक्तमपि साध्यमेवेष्यत इति कथमिति चेद्? तथाह- यथेति ।

वादः प्रक्रान्तः- नास्ति आत्मा इत्यात्मप्रतिषेधवादः आत्मसत्तावादविरुद्धः, विधिप्रतिषेधयोर्विरोधात् । तेन विवादेन हेतुना साधनमुपन्यस्तन्, तस्यात्मार्थस्य सिद्धि निश्चयमिच्चता वादिना सोऽर्थः साध्य इत्युक्तं भवति- इष्टशब्देन । यत्तदित्युक्त भवति इति ग्रहणमन्ते तदिहापेक्ष्य वाक्यं समापयितव्यम् ।

यद्यपि परार्थानुमाने उक्त एव साध्यो युक्तः, अनुक्तोऽपि तु वचनेन साध्यः, सामर्थ्योक्तत्वात्तस्य ॥ ४५ ॥

कुत एतद्? इत्याह- तदिति । सोऽर्थः अधिकरणम्= आश्रयो यस्य स तदधिकरणो विवादः, तस्य भावस्तत्त्वम्, तस्मादिति ।

एतदुक्तं भवति- यस्माद्विवादं निराकर्तुमिच्चता वादिना साधनमुपन्यस्तम्, तस्माद्यदधिकरणं विवादस्य तदेव साध्यम् । यतो विरुद्धं वादमपनेतुं साधनमुक्पन्यस्तं तच्चेत्न साध्यम्, किमिदानीं जातिनियतं किञ्चित्साध्यं स्यादिति ॥ ४६ ॥

अनुक्तमपि परार्थानुमाने साध्यमिष्टम्, तदुदाहरति- परार्था इति । चक्षुरादिर्येषां श्रोत्रादीनां ते चक्षुरादय इति धर्मी । परस्मायिमे परार्था इति साध्यं पारार्थ्यम् । सङ्घातत्वादिति हेतुः । व्याप्तिविषयप्रदर्शनं च शयनासदाद्यङ्गवदिति । शयनमासनं च ते आदौ यस्य तच्चयनासनादि पुरुषोपभोगाङ्गं सङ्घातरूपम् । तद्वदत्र प्रमाणे यदप्यात्मार्थाश्चक्षुरादय इत्यात्मार्थता नोक्ता । अनुक्तावप्यात्मार्थता साध्या ।

४८ अनिराकृत इति- एतल्लक्षणयोगेऽपि यः साधयितुमिष्टोऽप्यर्थः प्रत्यक्षानुमानप्रतीतिस्वचनैर्निराक्रियते, न स पक्ष इति प्रदर्शनार्थम् ॥

४९ तत्र प्रत्यक्षनिराकृतो यथा- अश्रावणः शब्दः इति ॥

यथा शयनासनादीन्यङ्गानि सङ्घातरूपत्वात्परार्थानि दृष्टानि, तथा चक्षुरादयोऽपि सङ्घातरूपत्वात्परार्था एवेति प्रयोगार्थः ॥ ४७ ॥

अस्मिन् प्रयोगे यदयपि चक्षुरादय आत्मार्था इति नोक्तम्, तथापि आत्मार्थतैव साध्यते । अन्यथा परार्थत्वमात्रे साध्ये सिद्धसाधनं स्यात् । आत्मनि (आत्मार्थतायाम्) विप्रतिपत्त्या साध्यत्वेन उपस्थाप्यते । तस्मात्तदेव साध्यं भवति ।

यस्मादेवमनुयुक्तमपीष्टत्वेन विषयीकरणात्साध्यत्वेनैवष्टम्, तस्मात्केवलमुक्तमेव न साध्यं भवति । कथमिति चेत्? यस्मादिष्टत्वेन विषयीकृतमपि साध्यमेव ॥ ४८ ॥

तथा हि साङ्खयनोक्तम्- अस्ति आत्मा, तद्विरुद्धं बौद्धेनोक्तम्- नास्त्यात्मा इति, ततः साङ्खयेन स्ववादविरुद्धं बौद्धवादं हेतूकृत्य विरुद्धवादनिराकरणाय स्ववादप्रतिष्ठापनाय च साधनमुपन्यस्तम् । अतोऽनुक्तावप्यात्मार्थता साध्या, तदशिकरणत्वाद्विवादस्य । शयनासनादिषु हि पुरुषोपभोगाङ्गेषु आत्मार्थत्वेनाव्वयो न प्रसिद्धः । सङ्घातत्वस्य पारार्थ्यमात्रेण तु सिद्धः । ततः परार्था इत्युक्तम् ।

चक्षुरादय इति । अत्रादिग्रहणाद्विज्ञानमपि परार्थ साधयितुमिष्टम् । विज्ञानाच्च परआत्मैव स्यात् ।

परस्यार्थकारि विज्ञानं सेत्स्यतीति सामर्थ्यातात्मार्थत्वं सिध्यति चक्षुरादीनाम्- इति मत्वा परार्थग्रहणं कृतम् । तेन इष्टसाध्यत्ववचनेन नोक्तमात्रम्, अपि तु प्रतिवादिनो विवादास्पदत्वाद्वादिनः साधयितुमिष्टमुक्तमनुक्तं वा प्रकरणगम्यं साध्यम्- इत्युक्तं भवति ॥ ४७ ॥

अनिराकृत इति । व्याख्येयम् । एतदिति । अनन्तरप्रक्रान्तं यत्पक्षलक्षणमुक्तम्- साध्यत्वेनेष्टः इत्यादि, एतल्लक्षणेन योगेऽप्यर्थो न पक्ष इति प्रदर्शनार्थं प्रतिपादनाय अनिराकृतग्रहणं कृतम् ।

कीदृशोऽर्थो न पक्षः साधयितुमिष्टोऽपि? इत्याह- यः साधयितुमिष्टोऽर्थः प्रत्यक्षं च अनुमानं च प्रतीनिश्च स्ववचनं च- एतैर्निराक्रियते विपरीतः साध्यते, न स पक्ष इति ॥ ४८ ॥

तत्रेति । तेषु चतुर्षु प्रत्यक्षादिनिराकृतेषु प्रत्यक्षनिराकृतः कीदृशः? यथिति । यथायं निराकृतस्तथान्येऽपि द्रष्टव्या इति यथाशब्दस्यार्थः ।

५० अनुमाननिराकृतो यथा- नित्यः शब्द इति ॥

५१ प्रतीतिनिराकृतो यथा- अचन्द्रः शशी इति ॥

यथोक्तलक्षणयुक्तोऽप्यर्थो यदि साधनदशायां प्रत्यक्षानुमानप्रसिद्धिस्ववचनैर्निराक्रियते, तदा सोऽर्थः पक्षो न भवतीति प्रदर्शनार्थमनिराकृत इत्युक्तम् ॥ ४८ ॥

अत्र श्रवणम्= आकर्णनम् । कर्णविज्ञानमिति शेषः । श्रावणप्रतीर्तिर्वा । श्रवणेन ग्राह्यः श्रावणः । न श्रावणः अश्रावणः । कर्णविज्ञानेन अप्रतीत इति शेषः । तथा चात्र शब्दो धर्मी । अश्रावणत्वै साध्यधर्मः । अश्रावणः शब्दः इति पर्तिज्ञा तु प्रत्यक्षेण निराक्रियते। तथा हि- कर्णविज्ञानस्य शब्दप्रकाशकत्वं प्राणीभिः सर्वैः स्वयमवगम्यते । तेन शब्दे श्रावणत्वस्य स्वकीयज्ञानेन प्रतीतेरश्रावणत्वं निराक्रियते ॥ ४९ ॥

अत्र- घटस्य नित्यत्वं प्रतिज्ञातं कृताद्यनुमानेन निराक्रियते । तथा हि कृतकमनित्यं दृष्टम्, घटोऽपि कृतक इति, तेन कुतो नित्यत्वम् ॥ ५० ॥

यदि केनचित्शशी न चन्द्रशब्दभिधेयः इति प्रतिज्ञा क्रियते, स तु शशी चन्द्रशब्दाभिधेय एव इति प्रसिद्धया निराक्रियते । अपि च सर्वेष्वर्थेषु सर्वस्य शब्दस्य वाच्यतयापि निराक्रियते । शब्दार्थसम्बन्धस्य सङ्केतसूचितत्वात् । यथा घटस्थापि चन्द्रशब्दाभिधानयोग्यता ॥ ५१ ॥

श्रवणेन ग्राहयः श्रावणः, न श्रावणोऽश्रावणः । श्रोत्रेण न ग्राह्य इति प्रतिज्ञार्थेः । श्रोत्राग्राह्यत्वं शब्दस्य प्रत्यक्षसिद्धेन श्रोत्रग्राह्यत्वेन बाध्यते ॥ ४९ ॥

अनुमाननिराकृतो यथा- नित्यः शब्द इति । शब्दस्य प्रतिज्ञातं नित्यत्वमनित्यत्वेनानुमानसिद्धेन निराक्रियते ॥ ५० ॥

प्रतीत्या निराकृतः अचन्द्र इति चन्द्रशब्दवाच्यो न भवति । शशीति प्रतिज्ञातार्थः । अयं च प्रतीत्या निराकृतः । प्रतीतोऽर्थ उच्यते विकल्पविज्ञानविषयः । प्रतीतिः = प्रतीतत्वम्, विकल्पविज्ञानविषयत्वमेच्यते । तेन विकल्पज्ञानेन प्रतीतिरूपेण शशिनश्चन्द्रशब्दवाच्यत्वं सिद्धमेव । तथाहि-

यद्विकल्पविज्ञानग्राह्यं तत्शब्दाकारसंसर्गयोग्यम् । यच्चब्दाकारसंसर्गयोग्यं तत्साङ्केतिकेन शब्देन वक्तुं शक्यम् । अतः प्रतीतिरूपेण विकल्पविज्ञानविषयत्वेन सिद्धं चन्द्रशब्दवाच्यत्वम्, अचन्द्रत्वस्य बाधकम् । स्वभावहेतुश्च प्रतीतिः । यस्माद्विकल्पविषयत्वमात्रानुबन्धनी साङ्केतिकशब्दवाच्यता, ततः स्वभावहेतुसिद्धं चन्द्रशब्दवाच्यत्वमवाच्यत्वस्य बाधकं द्रष्टव्यम् ॥ ५१ ॥

५२ स्ववचननिराकृतो यथा- नानुमानं प्रमाणमिति ॥

केनचिदनुमानं प्रमाणं न भवति इत्युच्यमाने तत्स्ववचनेन विरुद्धम् । अनुमानं प्रमाणमेव यदि न स्यात्, एतत्वचनमपि न वक्तव्यम् । तथा हि वाक्यमपि अनुमानन्तभूर्तमेव । अनुमानं च यदि प्रमाणं न स्यात्वाक्यं तावत्कुतः प्रमाणम् । तद्वाक्यमप्रमाणं चेत्, कस्मादुच्यते इति स्ववचनेन विरुद्धम् ॥ ५२ ॥

स्ववचनं प्रतिज्ञार्थस्यात्मौयो वाचकः शब्दः, तेन निराकृतः प्रतिज्ञार्थो न साध्यः । यथा नानुमानं प्रमाणमिति । अत्र अनुमानस्य प्रामाण्यनिषेधः पर्तिज्ञार्थः । स नानुमानं प्रमाणमित्यनेन स्ववाचकेन वाक्येन बाध्यते । वाक्यं हि एतत्प्रयुज्यमानं वक्तुः शाब्दप्रत्ययस्य सदर्थत्वमिष्टं सूचयति । तथा हि- मद्वाक्याद्योऽर्थसम्प्रत्ययस्तवोत्पद्यते सोऽसत्यार्थः इति दर्शयन् वाक्यमेव नोच्चारयेद्वक्ता, वचनार्थश्चेदसत्यः परेण ज्ञातव्यः, ववनमपार्थकम् । योऽपि हि सर्व मिथ्या ब्रवीमि इति वक्ति, सोऽप्यस्य वाक्यस्य सत्यार्थत्वमादर्शयन्नेव वाक्यमुच्चारयति । यदि एतद्वाक्यं सत्यार्थत्वमादर्शितम्, एवं वाक्यान्तराण्यात्मायान्यसत्यार्थानि दर्शितानि भवन्ति । एतदेव तु यद्यसत्यार्थम्, अन्यान्यसत्यार्थानि न दर्शतानि भवन्ति । ततश्च न किञ्चिदुच्चारणस्य फलमिति नोच्चारयेत् । तस्माद्वाक्यप्रभववाक्यार्थालम्बनं विज्ञानं सत्यार्थ दर्शयन्नेव्वक्ता वाक्यमुच्चारयति । तथा च सति वाह्यवस्तुनान्तरीयकं शब्दं दर्शयता शब्दजं विज्ञानं सत्यार्थ दर्शयितव्यम् । ततो बाह्यार्थकार्याच्चब्दादुत्पन्नं विज्ञानं सत्यार्थमादर्शयता कार्यलिङ्गजमनुमानं प्रमाणं शाब्दं दर्शितं भवति ।

तस्मात्नानुमानं प्रमाणमिति ब्रुवता शाब्दस्य प्रत्ययस्यासत्रार्थो ग्राह्य उक्तः । असदर्थत्वमेव ह्यप्रामाण्यमुच्यते, नान्यत् । शब्दोच्चारणसामर्थ्याच्च अथाविनाभावी स्वशब्दो दर्शितः । तथा च सन्नर्थो दर्शितः । ततः कल्पितादर्शकार्याच्चचब्दाच्चाब्दप्रत्ययार्थस्यानुमितं सत्त्वं प्रतिज्ञायमानमसत्त्वं प्रतिबध्नाति ।

तदेवं स्ववच्नानुमितेन सत्त्वेनासत्त्वं बाध्यमानं स्ववचनेन बाधितमुक्तमित्ययमत्रार्थः । अन्ये त्वाहुः- अभिप्रायकार्याच्चब्दाज्जातं ज्ञानमभिप्रायालम्बनम् । सदर्थमिच्चतः शब्दप्रयोगः । तेनाप्रामाण्यं प्रतिज्ञातं बाध्यते इति ।

तदयुक्तम्ः यत इह प्रतीतेः स्वभावहेतुत्वम्, स्ववचनस्य च कार्य

५३ इति चत्वारा पक्षाभासा निराकृता भ्वन्तीति ॥

५४ एवं सिद्धस्य, असिद्धस्यापि साधनत्वेनाभिमतस्य, तदा स्वयं वादिना साधयितुमनिष्टस्य, उक्तमात्रस्य, निराकृतस्य च विपर्ययेण साध्य इति । तेनैव स्वरूपेण वादिन इष्टोऽनिराकृतः पक्ष इति पक्षलक्षणमन वदयं दर्शितं भवति ॥

अत्रागमविरुद्ध स्ववचनविरुद्धेऽन्तभूत इति सर्वे पक्षाभासाश्चत्वार इत्युक्तम् । किञ्च- आगमस्य वस्तुबलप्रवृत्तेऽनुमानेऽनाश्रयणीयतयाविरोधादपि उक्तम् । इति इति । उक्तप्रकारेण ॥ ५३ ॥

अत्र विपरीतमिति प्रत्येकं योजनीयम् । एतेन सिद्धस्य विपरीतमसिद्धस्यापि विपरीतम्, साधनत्वेनाभिमतस्य विपरीतम्, तदा वादिना स्वयं साधयितुमनिष्टस्य विपरीतम्, उक्तमात्रस्य विपरीतम्, निराकृतमात्रस्य च विपरीतं पक्षत्वेन द्रष्टव्यमित्ययमर्थ उक्तो भवति । तथा च वैपरीत्यमुखेन पक्षलक्षणकथनमेतत् ।

हेतुत्वं कल्पितमिष्टम्, न वास्तवम् । अभिप्राकार्यत्वं च वास्तवमेव शब्दस्य ततस्तदिह न गृह्यते ।

किञ्चि- यथा अनुमानमिचन्, वह्नयव्यभिचारित्वं धूमस्य प्रत्येति, तथा शब्दस्याप्यभिप्रायाव्यभिचारित्वं न प्रत्येष्यति । बाह्यवस्तुप्रत्यायनाय च शब्दः प्रयुज्यते । तत्र शब्दस्याभिप्रायाविनाभावित्वाभ्युपगमपूर्वकः शब्दप्रयोगः । अपि च, न स्वाभिप्रायनिवेदनाय शब्द उच्चार्यते, अपि तु बाह्यसत्त्वप्रतिपादनाय । तस्माद्बाह्यवस्त्वविनाभावित्वाभ्युपगमपूर्वकः शब्दप्रत्योगः । ततः पूर्वकमेव व्याख्यातमनवद्यम् ॥ ५२ ॥

एवं च सति अनिराकृतग्रहणेन अनन्तरोक्ताश्चत्वारः पक्षवदवभासन्त इति पक्षाभासा निरस्ता भवन्ति ॥ ५३ ॥

सम्प्रति पक्षलक्षणपदानि येषां व्यवच्चेदकानि तेषां व्यवच्चेदेन यादृशः पक्षार्थो लभ्यते, तं दर्शयितुं व्यवच्चेदयान संक्षिप्य दर्शयति- एवमिति । अनन्तरोक्तक्रमेण । सिद्धस्य विपर्ययेण विपरीत्वेन हेतुना साध्यो द्रष्टव्यः । यस्मादर्थात्सिद्धोऽर्थो विपरीतः स साध्य इत्यर्थः । सिद्धश्च विपरीतोऽसिद्धस्य । यस्मादसिद्धः साध्यः । असिद्धोऽपि न सर्वः, अपि तु साधनत्वेनोक्तस्यासिद्धस्यापि विपर्ययेण । स्वयं वादिना साधयितुमनिष्टस्य असिद्धस्य विपर्ययेण । तथा उक्तमात्रस्य असिद्धस्यापि विपर्ययेण । तथा निराकृतस्यासिद्धस्यापि विपर्ययेण साध्यः ।

५५ त्रिरूपलिङ्गाख्यानं परार्थानुमानमित्युक्तम् । तत्र त्रयाणां रूपाणामेकस्यापि रूपस्यानुक्तौ साधनाभासः ॥

५६ उक्तावप्यसिद्धौ सन्देहे वा प्रतिपादयप्रतिपादकयोः ॥

तेनैव रूपेणेति । साध्यत्वेनैवेति शेषः । वादिना इष्ट इति । शास्त्रकारस्पेष्टो निरस्तः । इष्ट इति उक्तमात्रेमेव नेति प्रदर्शनार्थम् । अनिराकृत इति अपरिहारणीय इति शेषः । पक्ष इति । साध्य इति शेषः । इति पक्षलक्षणमनवदयं दर्शितं भवतीति । एव पक्षस्य लक्षणं दोषरहितमभितमिति ।

तदेवं यथार्थलक्षणकमनुमानं कृतव्याख्यानम् ॥ ५४ ॥

अनुमानभासाभिधानानुज्ञार्थमाह- उक्तमिति ।

उक्त्वा हेत्वाभासासस्य सम्बन्ध उच्यते । तदा न्यूनमिति साधनदोषो भवति ॥ ५५ ॥

त्रयाणां रूपाणां योग्यमेकमपि यदयुक्तमै वादिप्रतिवादिनोरसिद्धं सन्दिग्धं वा स्यत्, तदापि साधनाभासः, स्यात् । तदेवं साधनाभासयोगो दर्शितः ॥ ५६ ॥

यश्चायं पञ्चभिर्व्यव्च्चेदयै रहितोऽर्थोसिद्धोऽसाधनं वादिनः स्वयं साधयितुमिष्ट उक्तोऽनुक्तो वा प्रमाणैरनिराकृतः साध्यः, स एवासो स्वरूपेणैव स्वयमिष्टोऽनिराकृत एतैः पदैरुक्त इत्यर्थः । यश्चायं साधय्ः स पक्ष इति उच्यते । इतिशब्द एवमर्थे । एवं पक्षलक्षणमनवदयमिति । अविद्यमानमवदयम्= दोषो यस्य तदनवदयम् । दर्शितं कथितम् ॥ ५४ ॥

त्रिरूपलिङ्गाख्यानं परिसमापय्य, प्रसङ्गागतं च पक्षलक्षणमभिधाय हेत्वाभासान् वक्तुकामस्तेषां प्रस्तावं रचयति- त्रिरूपेत्यादिना ।

एतदुक्तं भवति- त्रिरूपलिङ्गं वक्तुकामेन स्फुटं तद्वक्तव्यम् । एवं च तत्स्फुटमुक्तं भवति यदि तच्च, तत्प्रतिरूपकं चोच्यते । हेयज्ञाने हि तद्विविक्तमुपादेयं सुज्ञातं भवतीति । त्रिरूपलिङ्गाख्यानं परार्थमौमानमिति प्रागुक्तम् ।

तत्रेति । तस्मिन् सति । त्रिरूपलिङ्गाख्याने परार्थानुमाने सतीत्यर्थः । त्रयाणां रूपाणां मध्ये एकस्याप्यनुक्तौ । अपिशब्दाद्द्वयोरपि । साधनस्य आभासः सदृशं साधनस्य, न साधनमित्यर्थः । त्रयाणां रूपाणां न्यूनता नाम साधनदोषः ॥ ५५ ॥

न केवलमनुक्तावुक्तावप्यसिद्धौ सन्देहे वा । कस्य? इत्याह- प्रतिपावयस्य प्रतिवादिनः प्रतिपादकस्य च वादिनो हेत्वाभासः ॥ ५६ ॥

५७ एकस्य स्वरूपस्य धर्मिसम्बन्धस्यासिद्धौ सन्देहे वासिद्धो हेत्वाभासः ॥

५८ यथा- अनित्यः शब्दः इति साध्ये चाक्षुषत्वमुभयासिद्धम् ॥

५९ चेतनास्तरवः इति साध्ये सर्वत्वगपहरणे मरणं प्रतिवादयसिद्धम् । विज्ञानेन्द्रियायुनिरोधलक्षणस्य मरणस्यानेनाभ्युपगमात् । तस्य च तरुष्वसम्भवात् ॥

विशेषकथनार्थमाह- एकस्येति ।

धर्मिणा सम्बन्धो धर्मिसम्बन्धः । पक्षधर्म इत्यर्थह् । तस्यासिद्धौ सन्देहे चासिद्धो नाम हेत्वाभासो भवति ॥ ५७ ॥

दृष्टान्तनिर्देशर्थमाह- यथेति ॥

शब्दस्य चाक्षुषत्वं हि वादि- प्रतिवादिनोरुभयोरप्यननुमतम् ॥ ५८ ॥

यदि दिगम्बरैरुक्तम्-वृक्षाः चेतनाः सर्वत्वगपहरणै मरणातिति बौद्धैः प्रयोगते, तर्हि वृक्षाणां सर्वत्वगपहरणे मरणं बौद्धानामसिद्धम् । कस्मादसिद्धमिति चेद्? आह- विज्ञानेत्यादि ।

अथ कस्यैकस्य रूपस्यासिद्धौ सन्देहे वा किसंज्ञको हेत्वभासः?

इत्याह- एकस्य रूपस्येति । धर्मिणा सह सम्बन्धः धर्मिसम्बन्धः । धर्मिणि सत्त्वं हेतोः तस्य असिद्धौ सन्देहे वा असिद्धसंज्ञको हेत्वाभासः । असिद्धत्वादेव च धर्मिण्यप्रतिपत्तिहेतुः । न साध्यस्य, न विरुद्धस्य, न संशयस्य हेतुः, अपि त्वप्रतिपत्तिहेतुः । न कस्यचिदतः प्रतिपत्तिरिति कृत्वा । अयं चार्थोऽसिद्धसंज्ञाकरणादेव प्रतिपत्तव्यः ॥ ५७ ॥

उदाहरणमाह-यथेत्यादि । अनित्यः शब्द इत्यनित्यत्वविशिष्टे शब्दे साव्ये चाक्षुषत्वं चक्षुर्ग्राह्यत्वं शब्दे द्वयोरपि वादिप्रतिवादिनोर सिद्धम् ॥ ५८ ॥

चेतनास्तरव इति । तरूणां चैतन्ये साध्ये । सर्वा त्वक्सर्वत्वक्तस्या अपहरणे सति मरणं दिगम्बरैरूपन्यस्तं प्रतिवादिनो बौद्धस्य असिद्धम् ।

कस्मादसिद्ध? इत्याह- विज्ञानमित्यादि । विज्ञानं चेन्द्रियं चायुश्चेति द्वन्द्वः तत्र विज्ञानं चक्षुरादिजनितम् । रूपादिविज्ञानोत्पत्त्या यदनुमितं कार्यान्तर्भूतं चक्षुर्गोलकादिस्थितं रूपं तदिन्द्रियम् । आयुरिति लोके प्राणा उच्यते । न चागमसिद्धिरिह युज्यते वक्तुम् । अतः प्राणस्वभावमायुरिह । तेषां निरोधो निवृत्तिः । स लक्षणं तत्त्वं यस्य तत्तथोक्तम्ः तथाभूतस्य मरणस्यानेन बौद्धेन प्रतिज्ञातत्वात् ।

६० अचेतनाः सुखादयः इति साध्ये उत्पत्तिमत्त्वमनित्यत्वं वा साङ्खयस्य स्वयं वादिनोऽसिद्धम् ॥

विज्ञानं च इन्द्रियाणि च आयुश्चेति विग्रहः । तेषां विरोधो विज्ञानेन्द्रियायु निरोधः । स एव लक्षणं यस्य मरणस्य तद्विज्ञानेन्द्रियायुनिरोधलक्षणं मरणम् । बौद्धानां तु तथाविधं मरणमनुमतम् । न तु शोषमात्रम् । तादृशं हि मरणं वृक्षेषु न सम्भवतीति ॥ ५९ ॥

यदा साङ्ख्यैरुक्तम्- सुखादयोऽचेतनाः, उत्पत्तिमत्त्वादनित्यत्वातिति बौद्धैः प्रमीयते, तदा सुखादिषूत्पत्तिरनित्यत्वं वा साङ्खयानां स्वयमेवासिद्धम्ः तस्य हि किमपि नोत्पद्यते, किमपि वा न विनश्यति ॥ ६० ॥

यदि नामैवम्, तथापि कथमसिद्धम्? इत्याह- तस्य च विज्ञानादिनिरोधात्मकस्य तरुष्वसम्भवात् । सत्तापूर्वको निरोधः । ततश्च यो विज्ञाननिरोधं तरुष्विच्चेत्, स कथं विज्ञानं नेच्चेत् । तस्माद्विज्ञानानिष्टेर्निरोधोऽपि नेष्टस्तरुषु ।

ननु च शोषोऽपि मरणमुच्यते, स च तरुषु सिद्धः? सत्यम्ः केवलं विज्ञानसत्तया व्याप्तं यत्मरणं तदिह हेतुः । विज्ञाननिरोधश्च तत्सत्तया व्याप्तः, न शोषमात्रम् । ततो यन्मरणं हेतुस्तत्तरुष्वसिद्धम् । यत्तु सिद्धं शोषात्मकं तदहेतुः ।

दिगम्बरस्तु साध्येन व्याप्तव्याप्तं वा मरणमविविच्य मरणमात्रं हेतुमाह । तदस्य वादिनो हेतुभूतं मरणं न ज्ञातम् । अज्ञानात्सिद्धं शोषरूपम्, शोषरूपस्य मरणस्य तरुषु दर्शनात्प्रतिवादिनस्तु ज्ञातम्, अतोऽसिद्धम् । यदा तु वादिनोऽपि ज्ञातम्, तदा वादिनोऽप्यसिद्धं स्यादिति न्यायः ॥ ५९ ॥

अचेतनाः सुखादय इति । सुखमादिर्येषां दुःखादीनां ते सुखादयः । तेषामचैतन्ये साध्ये उत्पत्तिमत्त्वम्, अनित्यत्वं वा लिङ्गमुपन्यस्तम् । य उत्पत्तिमन्तोऽनित्या वा ते न चेतनाः, यथा रूपादयः । तथा च- उत्पत्ति मन्तोऽनित्या वा सुखादयः तस्मादचेतनाः । चैतन्यं तु पुरुषस्य स्वरूपम् । अत्र चोत्पत्तिमत्त्वमनित्यत्वं वा पर्यायेण हेतुः न युगपत् । तच्च द्वयमपि सांख्यस्य वादिनो न सिद्धम् । परार्थो हि हेतूपन्यासः । तेन यः परस्य सिद्धः स हेतुर्वक्तव्यः । परस्य चासत उत्पतिमत्त्वम्, सतश्च निरन्वयो विनाशोऽनित्यत्वं सिद्धम् । तादृशं सांख्यस्यासिद्धम् । इहापि अनित्यत्वोत्पत्ति-

६१ तथा स्वयं तदाश्रयणस्य वा सन्देहेऽसिद्धिः ॥

६२ यथा वाष्पादिभावेन सन्दिह्यमानो भूतसङ्घातोऽग्निसिद्धावुपदिश्यमानः सन्दिग्धासिद्धः ॥

६३ यथा- इह निकुञ्जे मयूरः,केकायितादिति ॥

यदा हेतोरात्मनस्तदधिकरणस्य वासन्देहः, तदा असिद्धएत्वाभासो भवति ॥ ६१ ॥

तत्र दृष्टान्तः- यथेति ।

वाष्प आदिर्यस्य स वाष्पादिः, तेषां भावो वाष्पादिभावः । वाष्पादिस्वरूपमिति शेष । भूतानां सङ्घातो भूअसङ्घातः । अग्निसिद्धौ हेतुः क्रियते चेद्? असौ वाष्पो वा धूलिर्वा कुहेलिका वा? इति वाष्पादिभावेन सन्दिह्यमानः असिद्धहेत्वाभासो भवति ॥ ६२ ॥

तदाश्रय- सन्देहनिर्देशार्थमाह- यथेति ॥

मयूरध्वनिप्रवाहः= केकायितमिति । निकुञ्चः= पर्वतप्रदेशविशेषः । यदि केनचितिह निकुञ्जे मयुरोऽस्ति, केकायितादु इति प्रमीयते, तदा मयूरध्वनिस्तत्र तदभिमतानिकुञ्जे सन्दिग्ध एव ॥ ६३ ॥

मत्त्वसाधनाज्ञानाद्वादिनोऽसिद्धम् । यदि त्वनित्यत्वोत्पत्तिमत्त्वयोः प्रामाण्यं वादिना ज्ञातं स्यात्, तदा वादिनोऽपि सिद्धं स्यात् । ततः प्रमाणाप्रैज्ञानादिदं वादिनोऽसिद्धम् ॥ ६० ॥

सन्दिग्धासिद्धं दर्शयितुमाह- तथेति । स्वयमिति हेतोरात्मनः सन्देहेऽसिद्धह् । तदाश्रयणस्य वेति । तस्य हेतोराश्रयणम् । आश्रीयतेऽस्मिन् हेतुरित्याश्रयणम्, हेतोर्व्यतिरिक्त आश्रयभूतः सध्यधर्मी कथ्यते । तत्र हि हेतुर्वर्तमानो गमकत्वेनाश्रीयते तस्यश्रयणस्य सन्देहे सन्दिग्धः ॥ ६१ ॥

आत्मना सन्दिह्यमानमुदाहर्तुमाह- यथेति । वाष्प आदिर्यस्य स वाष्पादिः, तद्भावेन वाष्पादित्वेन सन्दिह्यमानो भूतसङ्घात इति । भूतानां पृथिव्यादीनां संघातः समूहः । अग्निसिद्धौ अग्निसिद्धयर्थमुपादीयमानोऽसिद्धः ।

एतदुक्तं भवति- यदा धूमोऽपि वाष्पादित्वेन सन्दिग्धो भवति, तदासिद्धः, गमकरूपानिश्चयात् । धुमतया निश्चितो वह्निजन्यत्वाद्गमकः । यदातु सन्दिग्धः, तदा न गमकः- इत्यसिद्धताख्यो दोषः ॥ ६२ ॥

आश्रयणासिद्धमुदाहरति- यथेति । इह निकुञ्ज इति धर्मी । पर्वतो परिभागेन तिर्यङ्निर्गतेन प्रच्चादितो भूभागो निकुञ्जः । मयूर इति साध्यम् । केकायितादिति हेतुः । केकायितम्= मयूरध्वनि ।६३ ॥

६४ तदापातदेशविभ्रमे ॥

६५ धम्यंसिद्धावप्यसिद्धः- यथा सर्वगत आत्मा इति सध्ये सर्वत्रो पलभ्यमानगुणत्वम् ॥

कथं सन्दिग्ध इति चेत्? आह- तदेति ।

मयूरध्वन्यापातदेशः सन्दिग्ध एव । स हि मयूरध्वनिः कस्मान्निकुञ्जप्रदेशान्निः सरतीत्यत्र संशय एव । ६४ ॥

सर्वगतः निखिलव्यापी । विभुरिति शेषः । सर्वत्रोपलभमाना गुणा यस्येति विग्रहः । तस्य भावः सर्वत्रोपलभ्यमानगुणत्वम् । कश्चित्सर्वत्रोपलभ्यमानगुणत्वेन सर्वगतत्वमात्मनः साधयति । तत्राश्रयसिद्धो हेतुः । तथाहि- सर्वत्रोपलभ्यमानगुणत्वं यस्य धर्म उक्तः स आत्मैव नास्ति ।

अयं तु परसंवादः । सुखादय आत्मगुणा इति प्रसिद्धम् । ते च सर्वदेशस्य एव देवदत्त उपलभ्यन्ते । क्रियाभावादात्मनि गमनागमने न स्तः । यस्मात्तस्य गुणाः सर्वत्रोपलभ्यन्ते, तस्मात्नूनमात्मा सर्वत्र स्थित इति ॥ ६५ ॥

कथमयमाश्रयणासिद्धः? इत्याह तदापात इति । तस्य केकायितस्य आपात आगमनम्, तस्य देशः स उच्यते यस्माद्देशादागच्चति केकायितम् । तस्य विभ्रमे व्यामोहे सत्ययमाश्रयणासिद्धः । निरन्तरेषु बहुषु निकुञ्जेषु सत्सु यदा केकायितापातनिकुञ्जे विभ्रमः- किमस्मान्निकुञ्जात्केकायितमागतम्? आहोस्विदन्यस्मादिति? तदायमाश्रयणासिद्ध इति ॥ ६४ ॥

धर्म्मिण्ऽसिधावप्यसिद्धत्वमुदाहरति- यथेति । सर्वस्मिन् गतः स्थितः सर्वगतः । व्यापीति यावत् । व्यापित्व आत्मनः साध्ये सर्वत्रोपलभ्यमानगुणत्व लिङ्गम् । सर्वत्र देशे उपलभ्यमानाः सुखदुःखेच्चारागद्वेषादयो गुणा यस्यात्मनस्तस्य भावस्तत्त्वम् । न गुणा गुणिनमन्तरेण वर्तन्ते, गुणानां गुणिनि समवायात् । निष्क्रियश्चात्मा । ततश्च यदि व्यापी न भवेत्, कथं दर्क्षिणापथे उपलब्धः दुखादयो मध्यदेशे उपलभ्येरन् तस्मात्सर्वगत आत्मा ।

तदिह बौद्धस्य आत्मैव न सिद्धः, किमुत सर्वत्रोपलभ्यमानगुणत्वं सिध्येत्तस्य इत्यसिद्धौ हेत्वाभासः पूर्वमाश्रयणसन्देहेन धर्मिणि सन्देह उक्तः । सम्प्रति त्वसिद्धो धर्म्युक्त इत्यनयोर्विशेषः ।

तदेवमेकस्य रूपस्य धर्मिसम्बन्धस्यासिद्धावसिद्धो हेत्वाभासः ॥ ६५ ॥

६६ तथैकस्य रूपस्यासपक्षे सत्वस्यासिद्धावनैकान्तिको हेत्वाभासः ॥

६७ यथा शब्दस्यानित्यत्वादिके धर्मे साध्ये प्रमेयत्वादिको धर्मः सपक्षविपक्षयोः सर्वत्रैकदेशे वा वर्तमानः ॥

व्यतिरेकासिद्धौ अनैकान्तिको हेत्वाभासो प्रष्टव्यह् ॥ ६६ ॥

दृष्टान्तनिर्देशार्थमाह- यथेति ॥

नित्यत्वमादिर्यस्य धर्मस्य स नित्य्त्वादिकः । तथा प्रमेयत्वमादिर्यस्य स प्रमेयत्वादिकः । शब्दोऽनित्यः प्रमेयत्वातिति साध्ये प्रमेयत्वं सपक्षविपक्षयोः सर्वत्रास्ति । शब्दो न प्रयत्नान्तरीयकः अनित्यत्वातिति साध्ये, अनित्यत्यत्वं सपक्षस्य एकदेशे विपक्षस्य च सर्वत्रैवास्ति । शब्दः प्रयत्नान्तरीयकः, अनित्यत्वातिति

तथा अपरस्यैकस्य रूपस्य असपक्षेऽसत्त्वाख्यस्यासिद्धावनैकान्तिको हेत्वाभासः ॥

एकोऽन्त एकान्तः= निश्चयः, स प्रयोजनमस्येति ऐकान्तिकः, नैकान्तिकोऽनैकान्तिकः । यस्मान्न साध्यस्य न विपर्ययस्य निश्चयः, अपि तु तद्विपरीतः संशयः । साध्येतरयोः संशयेहेतुरनकान्तिक उक्तः ॥ ६६ ॥

तमुदाहरति- यथेत्यादिना । अनित्यत्वमादिर्यस्यामी अनित्यत्वादिको धर्मः । आदि शब्दादप्रयत्नानन्तरीयकत्वं प्रयत्नानन्तरीयकत्वं नित्यत्वं च परिगृह्यते । प्रमेयत्वमादिर्यस्य स प्रमेयत्वादिकः । आदि शब्दादनित्यत्वम्, पुनरनित्यत्वम्, अमूर्तत्वं च गृह्यते । शब्दस्य धर्मिणोऽनित्यत्वादिके धर्मे साध्ये प्रमेत्वादिको धर्मोऽनैकान्तिकः । चतुर्णामपि हि विपक्षेऽसत्त्वमसिद्धम् ।

तथा हि- अनित्यः शब्दः, प्रमेयत्वात्, घटवताकाशवत्- इति प्रमेयत्वं सपक्षविपक्षव्यपि ।

अप्रयत्नानन्तरीयकः शब्दः, अनित्यवाद विद्युदाकाशवद्घटवच्च इत्यनित्यत्वं सपक्षैकदेशवृत्ति विद्युदादावस्ति, नाकाशादौः विपक्षव्यापि प्रयत्नानतरीयके सर्वत्र भावात् ।

अनित्यत्वात्प्रयत्नानन्तरीयकः शब्दः घटवत्, विद्युदाकाशवच्च इत्यनित्यत्वं विपक्षैकदेशवृत्ति । विद्युदादावस्ति, नाकाशादौः, सपक्षव्यापि सर्वत्र प्रयत्नान्तरीयके भावात् ।

नित्यः शब्दः अमूर्तत्वाद्, आकाशपरमाणुवत्, कर्मघटवच्चं- इत्यमूर्तत्वमुभयैकदेशवृत्ति, उभयोरेकदेशे आकाशे कर्मणि च वर्ततेः परमाणौ तु

६८ तथा अस्यैव रूपस्य सन्देहेऽप्यनैकान्तिक एव ।

६९ यथा असर्वज्ञः कश्चिद्विवक्षितः पुरुषो रागादिमान् वेति साध्ये वक्तृत्वादिको धर्मः सन्दिग्धविपक्षवावृत्तिकः ॥

साध्ये, अनित्यत्वमुपक्षस्य सर्वत्र विपक्षस्य चैकदेशेऽस्ति । शब्दो नित्यः, अस्पर्शातिति साध्ये, स्पर्शाभावः सपक्षविपक्षयोरुभयोकदेशेऽस्ति । एतेन साधारणानैकान्तिकश्चतुर्विध उक्तः ॥ ६७ ॥

विपक्षेऽसत्त्वमेव यदा सन्दिग्धस्तदापि अनैकान्तिक एव ॥ ६८ ॥

दृष्टान्तनिदर्शनार्थमाह- यथेति ।

केनचिद्विवक्षितः- कश्चित्पुरुषो न सर्वज्ञो वक्तृत्वात्तथा रागादिमान् वा वक्तृत्वादेव इति उच्यमाने तस्य वक्तृत्वादिधर्मोऽनैकान्तिक एव ।

स चानैकान्तिकः किन्नामक इति चेत्? आह- सन्दिग्धेत्यादि । विपक्षाद्व्यावृत्तिः सन्दिग्धा अस्येति स सन्दिग्धविपक्षव्यावृत्तिकः । सन्दिग्धव्यतिरेक इति शेषः । सर्वज्ञः कश्चिद्वक्ता न दृश्यते इति अदर्शनेऽपि व्यतिरेक सिद्धिर्न भवति ॥ ६९ ॥

सपक्षैकदेशे घटादौ च विपक्षैकदेशे न वर्ततेः, मूर्तत्वाद्घटपरमाणुप्रभतीनाम् ।

नित्यास्तु परमाणवो वैशेषिकैरभ्युपगम्यन्ते । ततः सपक्षान्तर्गताः ।
अस्य चतुर्विधस्य पक्षधर्मस्यसत्त्वमसिद्धं विपक्षे । ततोऽनैकान्ति कता ॥ ६७ ॥

यथा चास्य रूपस्यासिद्धवनैकान्तिकः, तथा अस्यैव विपक्षेऽसत्त्वाख्यस्य रूपस्य सन्देहेऽनैकान्तिकः ॥ ६८ ॥

तमुदाहरति- यथेति । असर्वज्ञ इति । असर्वज्ञत्वं साध्यम् । कश्चिद्विवक्षित इति । वक्तुरभिप्रेतः । पुरुषो धर्मी । राग आदिर्यस्य द्वेषादेः स रागादिः, स यस्यास्ति स रागादिमानिति द्वितीयं साध्यम् । वा ग्रहणं रागादिमत्त्वस्य पृथक्साध्यत्वख्यापनार्थम् । ततोऽसर्वज्ञत्वे रागादिमत्त्वे वा साध्ये प्रकृते वक्तृत्वम्= वचनशक्तिः, तदादिर्यस्योन्मेषनिमेषादेः स वक्तृत्वादिको धर्मोऽनैकान्तिकः ।

सन्दिग्धाविपक्षाद्व्यावृत्तिर्यस्य स तथोक्तः । असर्वज्ञत्वे साध्ये सर्वज्ञत्वं विपक्षः । तत्र वचनादेः सत्त्वमसत्त्वं वा सन्दिग्धम् । अतो न ज्ञायतेकि वक्ता सर्वज्ञः? उत असर्वज्ञः?- इत्यनैकान्तिकं वक्तृत्वम् ॥ ६९ ॥

७० सर्वज्ञो वक्ता नोपलभ्यते इत्येवम्प्रकारस्यानु पलम्भस्यादृश्यात्मविषयत्वेन सन्देहहेतुत्वात् । ततोऽसर्वज्ञविपर्ययाद्वक्तृत्वादेर्व्यावृतिः सन्दिग्धा ।

७१ वक्तृत्वसर्वज्ञत्वयोविरोधाभावाच्च यः सर्वज्ञःस वक्ता न भवतीत्य दर्शनेऽपि व्यतिरेको न सिद्धयति, सन्देहात् ॥

कथमयमनैकान्तिक इति चेत्? तत्राह- एवमिति ।

सर्वज्ञस वक्तुर्दर्शनेऽपि, अदृश्यात्मविषयेयमनुपलब्धिरिति अदृश्यात्मविषयत्वात्सन्देहेतुरेव भवति । व्यतिरेकसिद्धि नाभिधत्ते ।

अदृश्यविषयानुपलम्भः संशयस्यैव हेतुरिति असर्वज्ञपर्ययात्सर्वज्ञात्वक्तृत्वलक्षणहेतोर्निवृत्तिः सन्दिग्धैव ॥ ७० ॥

अनुपलब्धिरदृश्यात्मविषयत्वाद्व्यतिरेकं मा साधयतु, स्वभावविरोधोपलब्ध्या सिद्धिः, स्यादिति चेत्? तत्राह- वक्तृत्वेति ।

वक्तृत्व- सर्वज्ञयोस्तु विरोधो नास्ति । तस्मात्- सर्वज्ञस्य वक्तुरदर्शनेऽपि वक्तृत्वसर्वज्ञत्वयोविरोधाभावाद्वक्तृत्वस्य सर्वज्ञत्वाद्व्यावृत्तिरिति न सिध्यति सन्देहसत्त्वात् ॥ ७१ ॥

ननु च सर्वज्ञो वक्ता नोपलभ्यते, तत्कथं वचनं सर्वज्ञे सन्दिग्धम्? अत एव सर्वज्ञो वक्ता नोपलभ्यते इत्येवम्प्रकारस्य एवञ्जातीयस्य अनुपलम्भस्य सन्देहहेतुत्वात् । कुतः? इत्याह- अदृश्य आत्भा विषयो यस्य तस्य भावोऽदृश्यात्मविषयत्वम् । तेन सन्देहहेतुत्वम् । यतोऽदृश्यविषयोऽनुपलम्भः सन्देहहेतुः न निश्चयहेतुः, ततोऽसर्वज्ञविपक्षात्सर्वज्ञाद्वक्तृत्वादेर्व्यावृत्तिः सन्दिग्धा ॥ ७० ॥

नानुपलम्भात्सर्वज्ञे वक्तृत्वमसद्ब्रूमः, अपितु सर्वज्ञत्वेन सह वक्तृत्वस्य विरोधात् । एतन्न । सर्वज्ञत्ववक्तृत्वयोर्विरोधो नास्ति । विरोधाभावाच्च कारणात्व्यतिरेको न सिध्यति- इति सम्बन्धः ।

व्याप्तिमन्तं व्यतिरेकं दर्शयति- यः सर्वज्ञ इति । सध्याभावरूपं सर्वज्ञत्वमनूद्य स वक्ता न भवति इति साधनस्य वक्तृत्वस्याभावो विधीयते । तेन साध्याभावः साधनाभावे नियतत्वात्साधनाभावेन व्याप्त उक्त इति । व्याप्तिमानीदृशो व्यतिरेको विरोधे सति वक्तृत्वसर्वज्ञत्वयोः सिध्येत् । न चास्ति विरोधः, तस्मान्न सिध्यति । कुतः? इत्यह- सन्देहाद् । यतो विरोधह्बावः, तस्मात्सन्देहः । सन्देहाद्व्यतिरेकासिद्धिः ॥ ७१ ॥

७२ द्विविधो हि पदार्थानां विरोधः ॥

७३ अविकलकारणस्य भवतोऽन्यभावेऽभवाद्विरोधगतिः ॥

कथं तयोर्विरोधाभाव इति चेत्? तत्राह= द्विविध इति ।

यत्र यः कोऽपि विरोध उपलभ्यते स सर्व एव प्रकारद्वयेऽन्तर्भवति । एको वास्तवविरोधः, द्वितीयो लाक्षणिकविरोधः ॥ ७२ ॥

वास्तवविरोधकथनार्थमाह- अविकलेति ।

यदा भावस्य कारणसमूहानामवैकल्ये कारणनिवर्त्यस्याभिर्भावः । अन्यभावपरिनिष्पत्तौ च निवृत्तिस्तदा विरोधप्रतीतिः ॥ ७३ ॥

कथं विरोधाभावः? द्विविध इति । हीति । यस्माद्द्विविध एव विरोधः, नान्यः, तस्मान्न वक्तृत्वसर्वज्ञत्वयोविरोधः ॥ ७२ ॥

कः पुनरसौ द्विविधो विरोधः? इत्याह- अविकलकारणस्येति । अविकलानि समग्राणि कारणानि यस्य स तथोक्तः । यस्य कारणवैकल्यादभावः, न तस्य केनचिदपि विरोधगतिः । तदर्थमविकलकारणम् ।

ननु च यस्यापि कारणसाकल्पम्, तस्यापि निवृत्तिरशक्या केनचिदपि कर्तुम्, तत्कुतो विरोधगतिः? एवं तर्हि अविकलकरणस्यापि यत्कृतात्कारणवैकल्यादभावस्तेन विरोधगतिः ।

तथा च सति, यो यस्य विरुद्धः स तस्य किञ्चित्कर । एव तथाहि- शीतस्पर्शस्य जनको भूत्वा शीतस्पर्शान्तरजननशक्ति प्रतिबध्नन् शीतस्पर्शस्य निवर्तको विरुद्धः । तस्माद्धेतुवैकल्यकारी विरुद्धो जनक एव निवत्वस्य । सहानवस्थानविरोधश्चायम् । ततो विरुद्धयोरेकस्मिन्नपि क्षणे सहावस्थानं परिहृतव्यम् । दूरस्थयोर्विरोधाभावाच्च निकटस्तह्योरेव निवर्त्यनिवर्तकभावः ।

तस्माद्यो यस्य निवर्तकः स तं यदि परं तृतीयक्षणे निवर्तयति, प्रथमे क्षणे सन्निपतन्नसमर्थवस्थाधनयोग्यो भवति, द्वितीये विरुद्धमसमर्थ करोति, तृतीये त्वसमर्थे निवृत्ते तद्देशमाक्रामति ।

तत्रालोको गतिधर्मा क्रमेण जलतरङ्गन्यायेन देशमाक्रामन् यदान्धकारनिरन्तरमालोकक्षणं जनयति, तदालोकसमीपवर्तिनमन्धकारमसमर्थ जनय्ति । ततोऽसामर्थ्य तस्य यस्य समीपवर्त्त्यालोकः । असमर्थे निवृत्ते तद्देशे जायत आलोक इत्येवं क्रमेणालोकेनान्धकारोऽपनेयः । तथोष्णः स्पर्शेन शीतस्पर्शो निवर्तनीयः ।

यदा त्वालोकस्तत्रैवान्धकारदेशे जन्यते, तदा यतः क्षणादन्धकारदेशस्या लोकस्य जनकः क्षण उतप्दयते, तत एवान्धकारोऽन्धकारान्तरजननासमर्थ

७४ शीतोष्णस्पर्शवत् ॥

७५ परस्परपरिहारस्थितलक्षणतया वा भावाभाववत् ॥

यथा शीतोष्णस्पर्शयोः शीतस्याविकलकारणस्य सतो यदा उष्णत्वापरिनिष्पत्तिस्तद शीतत्वनिवृत्तिः । तयोश्च लोके विरोधप्रतीतिः ॥ ७४ ॥

परस्परपरिहारेण स्थितं लक्षणं येषां तानि परस्परपरिहारस्थितलक्षाणानि, तेषां भावः परस्परिहारशितलक्षणता, तया विरोधः । यथा भावाभावयोः भावोऽभावपरिहारेण व्यवस्थितः, अभावश्च भवप्रिहारेण व्यवस्थितः ॥ ७५ ॥

उत्पन्नः । ततोऽसमर्थवस्थाजनकत्वमेव निवर्तकत्वम् । अतश्च यस्मिन् क्षणे जनकः, ततस्तृतीये क्षणे निवृत्तो विरुद्धो यदि शीघ्रं निवर्तते ।

जन्यजनकभावाच्च सन्तानयोविरोधः, न क्षणयोः । यद्यपि च न सन्तानो नाम वस्तु, तथापि सन्तानिनो वस्तुभूताः । ततोऽयं परमार्थः न क्षणयोविरोधः, अपितु बहूनां क्षणानाम् । यतः सत्सु दहनक्षणेषु प्रवृत्ता अपि शीतक्षणा निवृत्तिधर्माणो भवन्तीति सन्तानयोर्निवर्त्यनिवर्तकत्वनिमित्ते च विरोधे स्थिते सर्वेषां परमाणूनां सत्यप्येकदेशावस्थानाभावे न विरोधः, इतरेतरसन्तानानिवर्तनात्तेषाम् । गतिधर्मा चालोको यां दिशमाक्रामति, तद्दिग्वर्तिनो विरोधिसनानान्निवर्तयति । ततोऽपवरकैकदेशस्था प्रदीपप्रभान्धकारनिकटवर्तिन्यपि नान्धकारं निवर्तयतिः अन्धकाराक्रान्तायां दिश्यालोकक्षणान्तरजननासामर्थ्यत् । कारणसामर्थ्यहेतुत्वकृतं सन्ताननिष्ठमेव विरोधं दर्शयता भवता इति कृतम् । भवतः प्रबन्धेन प्रवर्तमानस्य शीतस्पर्शसन्तानस्याभावोऽन्यस्योष्णसन्तानस्य भावे सतीति ।

ये त्वाहुः- न विरोधो वास्तवः इति, त इदं तक्तव्याः- यथा न निष्पन्ने कार्ये कश्चिज्जन्य जनकभावो नाम द्विष्ठोऽस्ति, कारणपूर्विका तु कार्यवृत्तिः । अतो वास्तव एव । तद्वन्न निवृत्ते वस्तुनि कश्चिद्द्विष्ठो नाम विरोधोऽस्ति । दहननिमित्तं तु शीतस्पर्शस्य क्षणान्तरजननासामर्थ्यम् । अतो विरोधोऽपि वास्तव एव । ॥ ७३ ॥

उदाहरणभाह- शीतेति । शीतश्चोष्णश्च तावेव शीतस्पर्शौ, तयोरिव । शीतोष्णस्पर्शयोर्हि पूर्ववद्विरोधो योजनीयः ॥ ७४ ॥

द्वितीयमपि विरोधं दर्शयितुमाह- परस्परेत्यादि । परस्परस्य परिहारः= परित्यागः, तेन स्थितं लक्षणम्= रूपं ययोःव्तद्भावः परस्परपरिहारस्थितलक्षणता, तया ।

७६ स च द्विविधोऽपि विरोधो वक्तृत्वसर्वज्ञत्वयोर्न सम्भवति ॥

स चोभयविधोऽपि विरोधो वक्तृसर्वज्ञयोर्न सम्भवति । वक्तृत्वस्य हि इह यस्मिन् परिच्चिद्यमाने यद्व्यवच्चिद्यते, तत्परिच्चिद्यमानमविच्चद्यमानपरिहारेण स्थितरूपं द्रष्टव्यम् । नीले च परिच्चेद्यमाने ताद्रूप्यप्रच्युतिरवच्चिद्यते, तदव्यवच्चेदे नीलापरिच्चेदप्रसङ्गात् । तस्माद्वस्तुनो भावाभावौ परस्परपरिहारेण स्थितरूपौ । नीलात्तु यदन्यद्रूपं तन्नीलाभावा व्यभिचारि । नीलस्य दृश्यस्य पीतादावुपलभ्यमानेऽनुपलम्भादभावनिश्चयात् । यथा च नीलं स्वभावं परिहरति, तद्वदभावाव्यभिचारि पीतादिकमपीति । तथा च भावाभवयोः साक्षाद्विरोधः, वस्तुनोस्त्वन्योन्या भावाव्यभिचारित्वाद्विरोधः ।

कस्य चान्यत्राभावावसायः? यो नियताकारोऽर्थः, तस्य । न त्वनियताकारः । क्षणिकत्वादिवत् । क्षणिकत्वं हि सर्वेषां नीलादीनां स्वरूपात्मकम् । अतो न नियताकारं यतः क्षणिकत्वपरिहारेण न किञ्चिद्दृश्यते ।

यद्यवम्, अभावोऽपि न नियताकारः । कथमनियताकारो नाम? यावता वस्तुरूपविविक्ताकारः कल्पितोऽभावः । ततो दृस्टं कल्पितं वा नियतं रूपमन्यत्रासदित्यवसीयते, नानियतम् । एवं नित्यत्वपिशाचादिरपि नियताकारः कल्पितो द्रष्टव्यः । एकात्मत्वविरोधस्चायम् । ययोर्हि परस्परपरिहारेणावस्थानं तयोरेकत्वाभावः ।

अत एव लाक्षणिकोऽयं विरोध उच्यते । लक्षणं रूपम्, वस्तूनां प्रयोजनमस्येति कृत्वा । विरोधेन ह्यनेन वस्तुत्वं विभक्तं व्यवस्थाप्यते । अत एव दृश्यमाने रूपे यन्निषिध्यते, तद्दृश्यमेवाभ्युपगम्य निषिध्यते । तथा हि- अभावोऽपि पिशाचोऽपि यदा पीते निषेद्भूमिष्यते, तदा दृश्यात्मतय निषेध्य इति दृश्यत्वमभ्युपगम्य दृश्यानुपलब्धेरेव निषेधः । तथा च सति रूपे परिच्चिद्यमान एकस्मिस्तदभावो दृश्यो व्यवच्चिद्यते । यच्च तदभाववन्नि यताकारं रूपम्, तदपि दृश्यं व्यवच्चिद्यते । ततः द्वप्रच्युतिवत्प्रच्युतिमन्तोऽपि व्यवच्चिन्ना इति ये परस्परपरिहारस्थितरूपाः सर्वे तेऽनेन निषिद्धकत्वादिति । सत्यपि चास्मिन् विरोधे सहावस्थानं स्यादपि ।

ततो भिन्नव्यापारो विरोधौ । एकेन विरोधेन शीतोष्णस्पर्शयोरेकत्वं वार्यते । अन्येन सहावस्थानम्, भिन्नविषायौ च । सकले वस्तुन्यवस्तुनि च परस्परपरिहारविरोधः । वस्तुन्येव कतिपये सहानवस्थानविरोधः । तस्माद्भिन्नव्यापरो । भिन्नविषयौ च । ततो नानयोरन्योन्यान्तर्भाव इति ॥ ७५ ॥

स चायं द्विविधोऽपि विरोधो वक्तृत्वं च सर्वज्ञत्वं च तयोर्न सम्भवति ।

७७ न चाविरुद्धविधेरनुपलब्धावप्यभावगतिः ॥

७८ रागादीनां वचनादेश्च कार्यकारणभावसिद्धेः ॥

७९ अर्थान्तरस्य चाकारणस्य निवृत्तौ न वचनादेनिर्वृत्तिः ॥

अविकलकारणस्य सतः सर्वज्ञत्वपरिनिष्पत्तावपि निवृत्तिनमिष्टा । वक्तृत्वपरिहारेणापि सर्वज्ञत्वस्य न व्यवस्थितिः, नापि वा सर्वज्ञत्वपरिहारेण वक्तृत्वस्य व्यवस्थितिः ॥ ७६ ॥

विरोधाभावे च अविरुद्धवद्वक्तृत्वं सर्वज्ञत्वावविपर्ययेणोपलभ्यत इति चेत्? तत्राह- नचेति ।

यत्र विरुद्धत्वेन नाभिधानं तत्र वस्तुनोरनुपलब्धावपि नाभावनिश्चयः सम्भवति । असर्वज्ञत्वे साध्ये वक्तृत्वस्य व्यतिरेकस्तथैव सन्दिग्धः ॥ ७७ ॥

रागादिमत्त्वेन निर्देशेऽपि व्यतिरेकसन्देहकथनार्थमाह- रागादीनामिति ।

रागादिर्वचनस्य हेतुरित्येतदसिद्धम् ॥ ७८ ॥

अस्तु रागादिवचनयोः कार्यकारणभावोऽसिद्धः, ततः किमिति चेत्? आह-

न ह्यविकलकारणस्य सर्वज्ञत्वस्य वक्तृत्वभावादभावगतिः । सर्वज्ञत्वं ह्यदृश्यम् । अदृष्टस्य चाभावो नावसीयतेः, ततो नानेन विरोधगतिर्भवति ।

न च वक्तृत्वपरिहारेण सर्वज्ञत्वमवस्थितम् । काष्ठादयो हि वक्तृत्वपरिहृताः, तेषामपि सर्वज्ञत्वप्रसङ्गात् । नापि सर्वज्ञत्वपरिहारेण वक्तृत्वम्ः काष्ठादीनामपि वक्तृत्वप्रसङ्गात् । तत एवाविरोधाद्वक्तृत्वविधेर्न सर्वज्ञत्वनिषेधः ॥ ७६ ॥

स्यादेतत्- यदि नास्त्येव विरोधो घटपटयोरिव, स्यादपि तयोः सहावस्थितिदर्शनम् । सहावस्थित्यदर्शनात्तु विरोधगतिः, विरोधाच्चाभावगतिः? इयाशङ्कयाह- न चाविरुद्धविधेरिति । अनुपलब्धावपि नायं विरुद्धविधिः । यदयपि सहावस्थानानुपलम्भस्तथापि न तयोविरोधः । यस्मान्न सहानुपलम्भमात्राद्विरोधः, अपि तु द्वयोरुपलभ्यमानयोनिवर्त्यनिवर्तकभावावसायात् । तस्मादनुपलब्धावपि न वक्तृत्वविधेविरुद्धविधिः । अतोऽस्मान्नान्यस्याभावगतिः ॥ ७७ ॥

तथा न वक्तृत्वाद्रागादिमत्त्वगतिः । यतो यदि वचनादि रागादीनां कार्य स्याद्, वचनादेः रागादिगतिः स्यात् । रागादिनिवृत्तो वचनादिनिवृत्तिः स्यात्, न च कार्यम् । कुतः? रागादीनां वचनादेश्च कार्यकारणभावसासिद्धेः । कारणान्न कार्यम् । अतोऽस्मान्न गतिः ॥ ७८ ॥

मा भूद्रागादिकार्यम्, वचनं सहचारि तु भवति । ततो रागादौ

८० इति सन्दिग्धव्यतिरेकोऽनैकान्तिको वचनादिः ॥

८१ द्वयो रूपयोर्विपर्यसिद्धौ विरुद्धः ॥

८२ कयोर्द्वयोः?

८३ सपक्षे सत्त्वस्य, असपक्षे वासत्त्वस्य । यथा कृतकत्वं प्रयत्नानन्तरोयकत्वं च नित्यत्वे साध्ये विरुद्धो हेत्वाभासः ॥

अर्थान्तरस्येति । अर्थान्तरं रागादिकम् । अकारणस्य तस्य निवृत्तौ कथं वचनादेर्निवृत्तिः स्यात्? ॥ ७९ ॥

तथाहि यस्माद्वक्तृत्वसर्वज्ञत्वयोः कोऽपि विरोधो नास्ति । रागादिवचनयोर्वा न कार्यकारणभावः । तत्मातसर्वज्ञनिवृत्त्या रागादिनिवृत्त्या वा वचननिवृत्तिः सन्दिग्धा । तस्मात्, सन्दिग्धव्यतिरेको नामानैकान्तिकः ॥ ८० ॥

यदि द्वयो रूपयोर्विपर्ययसिद्धिस्तदा विरुद्धहेत्वाभासः स्यात् ॥ ८१ ॥

कयोर्द्वयो रूपयोर्विपर्यप्रतीतौ विरुद्धहेत्वाभास उच्यते? ॥ ८२ ॥

अन्वय व्यतिरेकाविति शेषः । एवं विरुद्धस्य सामान्यं लक्षणमुक्तम् ।

विशेषेण कथनार्थमाह- कृतकत्वमित्यादि ।

सहचारिणि निवृत्ते निवर्तते वचनम्? इत्याशङ्कयाह- अर्थान्तरस्य चाकरणस्य निवृतौ सहचारित्वदर्शनमात्रेण नान्यस्य वचनादेनिवृत्तिः । अतो वक्तृत्वं भवेद्रागादिविरहश्च ॥ ७९ ॥

इतिशब्दस्तस्मादर्थे । तस्मादसर्वज्ञत्वविपर्ययाद्विपक्षात्सर्वज्ञत्वाद्रागादिमत्त्वविपर्ययादरागादिमत्त्वात्सन्दिग्धो व्यतिरेको वचनादे । अतोऽनैकान्तिको वचनादिः ॥ ८० ॥

एवमेकैकरूपादिसिद्धिसन्देहे हेतुदोषानाख्याय, द्वयोर्द्वयो रूपयोरसिद्धिसन्देहे हेतुदोषान् वक्तुकाम आह- द्वयोर्द्वयोरिति । द्वयो रूपयोविपर्ययसिद्धौ सत्यां विरुद्धह् ॥ ८१ ॥

त्रीणि च रूपाणि सन्ति, ततो विशेषज्ञापनार्थमाह- कयोद्वयोरिति ॥ ८२ ॥

विशिष्टे रूपे दर्शयति- सपक्षे सत्त्वस्य, असपक्षे चासत्त्वस्य । विअप्र्ययसिद्धाविति सम्बन्धः । कृतकत्वमिति स्वभावहेतुः । प्रयत्नानन्तरीयकत्वं हि कार्यहेतुः । प्रयत्नान्तरीयकशब्देन हि प्रयत्नानन्तरं जन्मज्ञानं च प्रयत्नानन्तरीयकमुच्यते । जन्म= जायमानस्य स्वभावः । ज्ञानम् = ज्ञेयस्य कार्यम् । तदिह प्रयत्नानन्तरं ज्ञानं गृह्यते । तेन कार्यहेतुः ।

८४ अनयोः सपक्षेऽसत्त्वम्, असपक्षे च सत्त्वमिति विपर्यसिद्धिः ॥

८५ एतौ च साध्यविपर्ययसाधनाद्विरुद्धौ ।

८६ ननु च तृट्योऽपीष्ट्

८७ यथा परार्थाचक्षु रादयः संघातत्वाच्चयनासनाद्यङ्गवदिति ॥

यदि कृतकत्वेन प्रयत्नान्तरीयक्त्वेन वा नित्यत्वं साध्यते, तर्हि विरुद्धो हेत्वाभासः स्यात् ॥ ८३ ॥

कथमिह विपर्ययासिद्धिरिति चेद्? आह- अनयोरिति ।

वित्यत्वे साध्ये सपक्ष आकाशादिः, तत्र कृतकत्वप्रयत्नान्तरीकत्वयोरुभयोरेवासम्भवः । विपक्षश्चानित्या घटादिः । तत्र तयोरुभयोरेव सत्त्वम्, तथा च तयोविपर्ययसिद्धिः ॥ ८४ ॥

यस्माद्द्वयो रूपयोर्विपर्ययसिद्धिः, तस्मात्साध्यविर्ययसिद्द्धिः । साध्यविपर्ययसाधनाच्च विरुद्धो हेत्वाभासः ॥ ८५ ॥

इष्टसय्विघातः क्रियतेऽनेनेति इष्टविघातकृत् । तृतीयो हि विरुद्धः शास्त्रकारैरुक्तः ॥ ८६ ॥

दृष्टान्तकथनम्- अय्थेति । तस्यार्थस्तु व्याख्यात एव ॥ ८७ ॥

एतौ हेतू नित्यत्वे साध्ये हेत्वाभासौ ॥ ८३ ॥

कस्मात्पुनरेतौ विरुद्धौ? इत्याह- अनयोरिति । सपक्षे हि नित्ये कृतकत्वप्रयत्नानन्तरीयकत्वयोरसत्त्वमेव निश्चितम् । अनित्ये विपक्षे एव सत्त्वं निश्चितमिति विपर्ययसिद्धिः ॥ ८४ ॥

कस्मात्पुनर्विपर्यसिद्धवप्येतौ विरुद्धौ? इत्याह- एतौ च साध्यस्य नित्यत्वस्य विपर्ययमनित्यत्वं साधय्तः । ततः साध्यविपर्ययसाधनाद्विरुद्धौ ॥ ८५ ॥

यदि साध्यविपर्ययसाधनाद्विरुद्धवेतो, उक्तं च परार्थानुमाने साध्यम्, न त्वनुक्तम्, इष्टं चानुक्तम्, अतोऽन्य इष्टविघातकृदाभ्यामिति दर्शन्नाह- ननौ च तृतीयोऽपि विरुद्ध उक्तः । उक्तविपर्ययसाधनौ द्वौ । तृतीयोऽयमिष्टस्य शब्देनानुपात्तस्य विघातं करोति विपर्ययसाधनादिति इष्टविघातकृत् ॥ ८६ ॥

तमुदाहरति- यथेति । चक्षुरादय इति धर्मी । परोऽर्थः प्रयोजनं परार्थः प्रयोजकः संस्कार्य उपकर्तव्यो येषां ते परार्था इति साध्यम् । सङ्घातत्वात्सञ्चितरूपत्वादिति हेतुः । चक्षुरादयो हि परमाणुसञ्चितिरूपाः । ततः सङ्घातरूपा उच्यन्ते । शयनम्, आसनं चादिर्यस्य तत्शयनासनादि । तदेव अङ्गं पुरुषोपभोगाङ्गत्वत् । अयं व्याप्तिप्रदर्शनविषयो दृष्टान्तः । अत्र हि

८८ तदिष्टासंहतपारार्थ्यविपर्यसाधनाद्विरुद्धः ॥

८९ स इह कस्मान्नोक्तः?

९० अनयोरेवान्तर्भावात् ॥

९१ न ह्यमाभ्यां साध्यविपर्ययसाधनत्वेन भिद्यते ॥

विरुद्धश्चार्य कथमिति चेद्? आह- तदिष्टेति । परेभ्योऽयमिति परार्थः, तस्य भावः पारार्थ्यम् । असंहृतस्य पारार्थ्यमिति असंहृतपारार्थ्यम् । इष्टं च तस्य तदसंहृतपारार्थ्य चेति विग्रहः, तद्विपर्ययः असंहृतपारार्थ्यविषयः । तस्य साधन इत्यर्थः । तस्मात्तदिष्टासहृतपारार्यविपर्ययसाधनादसौ विरुद्ध एव द्रष्टव्यः ॥ ८८ ॥

शास्त्रकारेणानुमतस्तथा विरुद्धलक्षणयुक्तोऽपीति भावः ॥ ८९ ॥

यच्च विरुद्धद्वयमुक्तं तयोरेवान्तर्भावेण पृथ्ग्नाभिधानम् ॥ ९० ॥

अन्तर्भावस्यैव प्रदर्शनार्थमाह- न हीति ।

कृतकत्वप्रयत्नान्तरीयकवलक्षणं हेतुनित्यत्वे साध्ये साध्यविपर्ययसाधनाद्विरुद्ध इत्युक्तम् । अयमपि साध्यविपर्ययसाधनात्ताभ्यां समान एव विरुद्धह् ॥ ९१ ॥

पारार्थ्येनं संहतत्वं व्याप्तम् । यतः शयनासनादयः सङ्घातरूपाः पुरुषस्य भोगिनो भवन्ति उपकारका इति परार्था उच्यन्ते ॥ ८७ ॥

कथमयमिष्टविघातकृत्? इत्याह- तदिष्टासंहृतपारार्थ्यविपर्ययसाधनादिति । असंहृते विषये पारार्थ्यमसंहृतपारार्थ्यम् । तस्य साङ्खयस्य वादिनः इष्टमसंहृतपारार्थ्य तदिष्टासंहृतपारार्थ्यम् । तस्य विपर्ययः संहृतपारार्थ्य नाम । तस्य साधनाद्विरुद्धह् ।

आत्मा अस्ति इति ब्रुवाणः साङ्ख्यः कुत एतदिति पर्यनुयुक्तो बौद्धेन, इदमात्मनः सङ्ख्ये प्रमाणमाह । तस्मादसंहृतस्यात्मनः उपकारकत्वं साध्यं चक्षुरादीनाम् । अयं तु हेतुर्विपर्ययव्याप्तः । यस्माद्यो यस्योपकारकः स तस्य जनकः । जन्यमानश्च युगपत्क्रमेण वा भवति संहृतः, तस्मात्परार्थाश्चक्षुरादयः संहृतपरार्था इति सिद्धम् ॥ ८८ ॥

अयं च विरुद्ध आचार्यदिङ्नागेनोक्तः, स कस्माद्वात्तिककारेण सता त्वया नोक्तः ॥ ८९ ॥

इतर आह- अनयोरेव साध्यविपर्ययसाधनयोरन्तर्भावात् ॥ ९० ॥

ननु च उक्तविपर्ययं न साधयति, तत्कथमुक्तविपर्यसधनयोरेवान्तभव्तिः? इत्याह- न ह्यमिति । हीति यस्मादर्थे । यस्मादयमिष्टविघातकृदाभ्यां हेतुभ्यां साध्यविपर्यस्य साधनत्वेन न भिद्यते । यथा तो साध्यविपर्ययसधनी, तथायमपीति । उक्तविपर्ययं तु साधयतु वा मा वा, किमुक्तविपर्ययसाधनेन तस्मादनयोरेघान्तर्भावः ॥ ९१ ॥

९२ न हीष्टोक्तयोः साध्यत्वेन कश्चिद्विशेष इति ॥

९३ द्वयो रूपयोरेकस्यासिद्धावपरस्य च सन्देहेऽनैकान्तिकः ॥

९४ यथा वीतरागः कश्चित्सर्वज्ञो वा वक्तृत्वादिति । व्यतिरेकोऽत्रासिद्धः । सन्दिग्धोऽन्वयः ॥
९५ सर्वज्ञवीतरागयोर्विप्रकर्षाद्वचनादेस्तत्र सत्त्वमसत्त्वं व संदिग्धम् ॥

पूर्वं शब्देनोक्तस्यैव साध्यस्य विपर्ययसिद्धिः । तत्र च नेष्टार्थविपर्ययसिद्धिः । तस्मात्कथमयं ताभ्यां समान इति चेत्? तत्राह- न हीति ।

यच्चेष्टं यच्चोक्तं तद्द्वयोः साध्यत्वे विशेषः कोऽपि नास्तीत्येतदुक्तमेव ॥ ९२ ॥

अन्वयव्यतिरेकयोरेवैकस्यासिद्धौ अपरस्य च सन्देहे हेतोरनैकान्तिकत्वम् ॥ ९३ ॥

दृष्टान्तकथनम्- यथेति । तस्याथमुक्त एव ।

अत्रेति । अस्मिन् प्रयोगे । व्यतिरेको नास्ति । अन्वयस्तु सन्दिग्धः । तथा हि सर्वज्ञत्वे साध्ये असर्वज्ञो विपक्षः । असर्वज्ञेभ्यश्च वचनं च व्यावृत्तम् ॥ ९४ ॥

अन्वयसन्देहकथनार्थमाह- सर्वज्ञेति ।

यस्मात्सर्वज्ञत्वं वीतरागत्वं चेन्द्रियस्याविषयस्यैव, तस्मात्तयोः कुत्रापि वचनमस्ति नास्ति वेति सन्दिग्धमेव । तथहि- दृष्टान्तत्वेन यः पुरुष उक्तः स कि सर्वज्ञ सन् वक्ता, किमुत असर्वज्ञः सन् वक्ता? इत्यत्र निश्चयो नास्ति ॥ ९५ ॥

ननु च उक्तमेव साध्यम्, तत्कथं साध्यविपर्ययसाधनेत्वेनाभेदः? इत्याह- न हीति । यस्मादिष्टोक्तयोः परस्परस्मात्साध्यत्वेन न कश्चिद्विशेषो भेद इति । तस्मादनयोरेव अन्तर्भाव इत्युपसंहार ।

प्रतिवादिनो हि यज्जिज्ञासितं तत्प्रकरणापन्नम् । यच्च प्रकरणापन्नं तत्साधनेच्चया विषयीकृते साध्यमिष्टमुक्तम्, अनुक्तं वा, न तूक्तमात्रेमेव साध्यम् । तेनाविशेष इति ॥ ९२ ॥

द्वयो रूपयोर्विपर्ययसिद्धौ विरुद्धः उक्तः । तयोस्तु द्वयोर्मध्ये । एकस्यासिद्धौ, अपरस्य च संदेहे चानैकान्तिकः ॥ ९३ ॥

कीदृशोऽसौ? इत्याह- यथेति । विगतो रागो यस्य स वीतराग इत्यकं साध्यम् । सर्वज्ञो वेति द्वितीयम् । वक्तृत्वादिति हेतुः । व्यतिरेकोऽत्रासिद्धैति । स्वात्मन्येव सरागे च असर्वज्ञे च विपक्षे वक्तृत्वं दृष्टम् । अतोऽसिद्धोव्यतिरेकः सन्दिग्धोऽन्वयः ॥ ९४ ॥

कुतः? इत्याह- सपक्षभूतयोः सर्वज्ञवीतरागयोः । विप्रकर्षादिति अतीन्द्रियत्वाद् । वचनादेरतीन्द्रियगम्यस्यापि तत्र अतीन्द्रिययोः सर्वज्ञवीतरागयोः सत्त्वमसत्त्वं व सन्दिग्धम् । ततश्च न ज्ञायते किं वक्तृत्वात्सर्वज्ञः? उत न- इत्यनैकान्तिक इति ॥ ९५ ॥

९६ अनयोरेव द्वयो रूपयोः सन्देहेऽनिकान्तिकः ॥

९७ यथा सात्मकं जीवच्चरीरं प्राणादिमत्त्वादिति ॥

९८ न हि सात्मकनिरात्मकाभ्यामन्यो राशिरस्ति यत्रायं प्राणादिर्वर्तेत ॥

यद्यन्वयो व्यतिरेकश्च द्वावेव सन्दिग्धौ, तदापि अनैकान्तिकहेत्वाभासः ॥ ९६ ॥

दृष्टान्तकथनार्थयाह- यथेति । प्राण आदिर्यस्य स प्राणादिः । प्राणशब्देन उन्मेषनिमेषप्रसारणसङ्कोचादीनां परिग्रहः । सात्मकमिति । आत्मनो भोगायतनभूतम् । जीवच्चरीरमिति । अनेन मृतशरीरस्य निरासः ॥ ९७ ॥

तत्र च व्यतिरेकसन्देहकथनार्थमाह- नहीति ।

द्विविधो हि राशिः- सात्मकः, निरात्मकश्च । तत्रान्तर्भूतोऽपरो नास्ति ।

प्राणादिमत्त्वस्य वस्तुधर्मत्वे तच्च सात्मकनिरात्मकाभ्यां निवृतम् ॥ ९८ ॥

सम्प्रति द्वयोरेव सन्देहेऽनैकान्तिकं वक्तुमाह- अनयोरेव अन्वयव्यतिरेकयोः । सन्देहात्संशयहेतुः ॥ ९६ ॥

उदाहरणम्- यथेति । सह आत्मना वर्तते सात्मकमिति साध्यम् । शरीरमिति धर्मी । जीवद्ग्रहणं धर्मिवेशेषणम् । मृते ह्यात्मानं नेच्चति ।

प्राणाः= श्वासादय आदिर्यस्योन्मेषनिमेषादेः प्राणिधर्मस्य स प्राणादिः, स यस्यास्ति तत्प्राणादिमत्जीवच्चरीरम्, तस्य भावस्तत्त्वम्, तस्मादित्येष हेतुः ॥ ९७ ॥

अयमसाधारणः संशहेतुरुपपादयितव्यः । पक्षधर्मस्य च द्वाभ्यां कारणाभ्यां संशयहेतुत्वम् । संशयविषयौ यावाकारौ, ताभ्यां सर्वस्य वस्तुनह्संग्रहात् । तयोश्च व्यापकयोराकारयोरकत्रापि वृत्त्यनिश्चयात् । याभ्यां ह्याकाराभ्यां सर्व वस्तु न संगृह्यते तयोराकारयोर्न संशयह् । प्रकारान्तरसम्भवे हि पक्षधर्मो धर्मिणमवियुक्तं द्वयोरेकेन धर्मेण दर्शयितुं न शक्नुयात्, अतो न संशयहेतुः स्यात् । द्वयोर्धर्मयोरनियतं भावं दर्शयन् संशयहेतुः । द्वयोस्त्वनियतमपि भावं दर्शयितुमशक्तोऽप्रतिपत्तिहेतुः । नियतं तु भावं दर्शयन् सम्यघेतुविरुद्धो वा स्यात् । तस्माद्यभ्यां सर्व वस्तु संगृह्यते, तयोः संशयहेतुः, यदि यतोरेकत्रापि सद्भावनिश्चयो न स्यात् । सद्भावनिश्चये तु यद्येकत्र नियतसत्तानिश्चयो हेतुरिवुद्धो वा स्यात् । अनियतसत्तानिश्चये तु साधारणानैकान्तिकः, सन्दिग्धविपक्षव्यवृत्तिकः, संदिग्धान्वयोऽसिद्धव्यतिरेको वा स्यात् । एकत्रापि तु वृत्त्यनिश्चयादसाधारणानैकान्तिको भवति । ततोऽसाधारणानैकान्तिकस्यानैकान्तिकत्वे हेतुद्वयं दर्श-

९९ आत्मनो वृत्तिव्यवच्चेदाभ्यां सर्वसंग्रहात् ॥

१०० नाप्यनयोरेकत्र वृत्तिनिश्चयः ॥

१०१ सात्मकत्वेनानात्मकत्वेन वा प्रसिद्धे प्रमाणादेरसिद्धेः ॥

तिष्ठत्वन्यत्र कुत्रापि, कथं तृतीयराश्यसम्भव इति चेद्? आह- आत्मन इति । वृतिश्च व्यवचेदश्च वृत्तिव्यवच्चेदौ । वृत्तिः= सद्भावः । व्यवच्चेदः= अभावः । आत्मनो वृत्तिव्यवच्चेदौ आत्मवृत्तिव्यवच्चेदौ । ताभ्यां हि सकलवस्तुसंग्रहः । तथा हि- यस्मिनात्मनो वृत्तिस्तत्सात्मकम् । तत्रानन्तभूतमन्यत्सर्व निरात्मकम् । तस्मात्कुतस्तृतीयरशिसम्भवः । एवं हि प्राणादिमत्त्वस्य सात्मकनिरात्मकाभ्यां व्यतिरेकोऽसिद्धः ॥ ९९ ॥

यद्यपि ताभ्यां व्यतिरेकोऽसिद्धः तथापि तत्रान्वय एवास्त्विति चेद्? तत्राह-नापीति । प्राणादिमत्त्वस्य सात्मके निरात्मके वा सत्त्वमिति निश्चयो न शक्यते कर्तुम् ॥ १०० ॥

तच्च कस्मादिति चेद्? आह- सात्मकत्वेनेति ।

सात्मकत्वेन निश्चेति वस्तुनि, निरात्मकत्वेन वा निश्चिते वस्तुनि प्राणादिमत्त्वमदृष्टम्, तस्मात्कुतो वृत्तिनिश्चयः? ॥ १०१ ॥

यितुमाह- न हीति । सहात्मना वर्तते सात्मकः । निष्क्रान्तः आत्मा यस्मात्स निरात्मकः । ताभ्यां यस्मान्नान्यो राशिअर्स्ति । किम्भूतः? यत्रायं वस्तुधर्मः प्राणादिर्वर्तेतः । तस्माययं यतोर्भवति संशयहेतुः ॥ ९८ ॥

कस्मादन्यराश्यभावः? इत्याह- आत्मनो वृत्तिः= सद्भावः, व्यवच्चेदः= अभावः, ताभ्यां सवस्य वस्तुनः संग्रहात्क्रोडीकरणात् । यत्र ह्यात्मा अस्ति तत्सात्सकम्, अन्यन्निरात्मकम् । ततो नान्यो रशिरस्तोति संशयहेतुत्वकारणम् ॥ ९९ ॥

प्रकाराभ्यां सर्ववस्तुसंग्रहं प्रतिपाद्य द्वितीयमाह- नाप्यनयोः सात्मकानात्मकयोर्मध्य एकत्र सात्मकेऽसात्मके वा वृत्ते सद्भावस्य निश्चयोऽस्ति । द्वावपि राशी त्यक्त्वा न वर्तते प्राणादिः वस्तुधर्मत्वात् । ततश्चानयोरेव वर्तते इत्येतावदेव ज्ञातम् । विशेषे तु वृत्तिनिश्चयो नास्तीत्यमर्थः ॥ १०० ॥

तदाह- सात्मकत्वेनानात्मकत्वेन वा विशेषेण युक्ते प्रसिद्धे निश्चिते वस्तुनि प्राणादेर्धर्मस्य सर्ववस्तुव्यापिनोः प्रकारयोरेकत्र नियतसद्भावस्य असिद्धे रनैकान्तिकः, अनिश्चितत्वात् ।

तदेवमसाधारणस्य धर्मस्यानैकान्तिकत्वे कारणद्वयमभिहितम् ॥ १०१ ॥

१०२ तस्माज्जीवच्चरीरसम्बन्धी घ्राणादिः सात्मकादनात्मकाच्च सर्वस्माद्व्यावृत्तत्वेनासिधेस्ताभ्यां न व्यतिरिच्यते ॥

१०३ न तत्रान्वेति ॥

१०४ एकात्मन्यप्यसिद्धेः ॥

१०५ नापि सात्मकादनात्मकाच्च तस्यान्वयव्यतिरेकयोरभावनिश्चयः ॥

उपसंहारे पक्षधर्मो निर्दिश्यते । जीवच्चरीरेण सम्बन्ध इति विग्रहः । स यस्यास्ति स जीवशरीरसम्बन्धी । पक्षधर्म इति शेषः । अनेनोपसंहारेण व्यतिरेकाभावो दर्शितः ॥ १०२ ॥

अनेनोपसंहारेणान्वयाभावो दर्शितः ॥ १०३ ॥

एवं चान्वयव्यतिरेकयोर्द्वयोः सत्त्वमसिद्धम् ॥ १०४ ॥

ननु तयोस्तत्राभावनिश्चय एव स्यादिति चेत्? तत्राह- नापीति ।

यथा सात्मकेऽन्वयव्यतिरेकयोः सत्त्वमनिश्चियम्, तथैवासत्त्वमपि अनिश्चितम् ।

एवमेव निरात्मकस्यापि वक्तव्यम् ॥ १०५ ॥

पक्षधर्मश्च भवन् सर्वः साधारणोऽसाधारणो वा भवत्यनैकान्तिकः । तस्मादुपसंहारव्याजेन पक्षधर्मत्वं दर्शयति- तस्मादित्यादिना । जीवच्चरीरस्य संबन्धी पक्षधर्म इत्यर्थः । यस्मात्तयोरेकत्रापि न निवृत्तिनिश्चयः तस्मात्ताभ्यां न व्यतिरिच्यते ।

वस्तुधर्मे हि सर्ववस्तुव्यापिनोः प्रकारयोरेकत्रनियतसद्भावो निश्चितः प्रकारान्तरान्निवर्तेत । अत एवाह- सात्मकादनात्मकत्वाच्च सर्वस्माद्वस्तुनो व्यवृत्तत्वेनासिद्धरिति । प्राणादिस्तावत्कुतश्चित्घटादेर्निवृत्त एव । तत एतावदवसातुं शक्यम्- सात्मकादनात्मकाद्वा कियतो निवृत्तः । सर्वस्मात्तु निवृत्तो नावसीयते । ततो न कुतश्चिद्व्यतिरेकः ॥ १०२ ॥

यदयेवम्, अन्वयोऽस्तु तयोर्निश्चितः? इत्याह- न तत्र सात्मकेऽनात्मके वार्थेऽन्वेति अन्वयवान् प्राणादिः ॥ १०३ ॥

कुतः? इत्याह- एकात्मन्यपीति । एकात्मनि सात्मकेऽनात्मके वासिद्धेः कारणात् । वस्तुधर्मतया तयोर्द्वयोरेकत्र वा वर्तत इत्यवसितः प्राणादिः । न तु सात्मक एव निरात्मक एव वा वर्तत इति कुतोऽन्वयनिश्चयः ॥ १०४ ॥

ननु च प्रतिवादिनो न किञ्चित्सात्मकमस्ति, ततोऽस्य हेतोर्न सात्मकेऽन्वयो न व्यतिरेक इत्यन्वयव्यतिरेकयोरभवनिश्चयः सात्मके, न तु सद्भाव-

१०६ एकाभावनिश्चयस्यपरभावनिश्चयनान्तरीयकत्वात् ॥

१०७ अन्वय व्यतिरेकयोरन्योन्यव्यवच्चेदरूपत्वात्, तत एवान्वयव्यतिरेकयोः सन्देहादनैकान्तिकः ॥

सत्त्वनिश्चयाभावेऽपि असत्त्वनिश्चयः कथं न स्यादिति चेत्? तत्राह- अन्वय इति ।

अन्योन्यवच्चेदरूपेण तौ स्थितावित्युच्यते, ततश्च किमिति चेत्? आह- एकेति ।

यदि तयोः परस्पराभावरूपेण स्थितिस्तदा यत्रान्वयाभावनिश्चयस्तत्र व्यतिरेकसत्त्वनिश्चयोऽवश्यम्भवी । तथा व्यतिरेकाभवनिश्चयेऽपि अन्वतसत्त्वनिश्चयोऽवश्यम्भावी । एवं यत्र प्राणादिमत्त्वस्य सत्त्वंनेति निश्चयस्तत्राभावनिश्चयः । यत्र च तदसत्त्वं नेति निश्चयस्तत्र भावनिश्चयः । यस्मादेवमन्वयव्यतिरेकयोरेकस्याभाव- निश्चय एव, अपरस्य सत्त्वनिश्चयोऽवश्यम्भावी, तस्मात्सात्मक- निरात्मकयोः प्राणादिमत्त्वाभावनिश्चयोऽपि नास्त्येव ॥ १०६ ॥

सत्त्वनिश्चयाभावेऽपि असत्त्वनिश्चयः कथं न स्यादिति चेत्? तत्रा- अन्वयेति । अन्वयव्यतिरेको हि परस्पराभाअरूपेणावस्थितौ । तथा हि यत्रान्वयाभावस्तत्र व्यतिरेकसत्त्वम्, यत्र वा व्यतिरेकाभावस्तत्रान्वयसत्त्वम् ।

संशयः? इत्याशङ्कयाह- नापीति । नापि सात्मकाद्वस्तुनः तस्य प्राणादेरन्वयव्यतिरेकयोरभावनिश्चयः । नापि च निरात्मकात् । सात्मकादनात्मकादिति च पञ्चमी व्यतिरेकशब्दापेक्षया द्रष्टव्या ॥ १०५ ॥

कथमन्वयव्यतिरेकयोर्नाभावनिश्चयः? इत्याह- एकेति । एकस्य अन्वयस्य व्यतिरेकस्य वा योऽभावनिश्चयः सोऽपरस्य द्वितीयस्य भावनिश्चयनान्तरीयकः भावनिश्चयस्याव्यभिवारी, तस्य भावस्तत्वं तस्मात् । यत एकाभावनिश्चयोऽपरभावनिश्चयनान्तरीयकः, तस्मान्न द्वयोरेकत्राभावनिश्चयः ॥ १०६ ॥

कस्मात्पुनरेकस्याभावनिश्चयोऽपरसद्भावनिश्चयाव्यभिचारी? इत्याह- अन्वयव्यतिरेकयोरन्योन्यव्यवचेदरूपत्वादिति । अन्योन्ययस्य व्यवच्चेदः अभावः, स एव रूपं ययोस्तयोर्भावस्तत्त्वम्, तस्मात्कारणात् ।

अन्वयव्यतिरेकौ भावाभावौ । भवाभावौ च परस्परव्यवच्चेदरूपौ । यस्य व्यवच्चेदेन यत्परिच्चेदयते तत्तत्परिहारेण व्यवस्थितम् । स्वभावव्यवच्चेदेन च भावः परिच्चेदयते ।

तस्मात्स्वभावव्यवच्चेदेन भवो व्यवस्थितः । अभावो हि नीरूपो यादृशो विकल्पेन दर्शितः । नीरूपतां च व्यवच्च्दय रूपमाकारवत्

१०८ साध्येतरयोरतो निश्चयाभावत् ॥

१०९ एवमेषां त्रयाणां रूपाणामेकैकस्य द्वयोर्द्वयोर्वा रूपयोरसिद्धौ सन्देहे वा यथायोगमसिद्धविरुद्धानैकान्तिकास्त्रयो हेत्वाभासाः ॥

तस्मादन्वयव्यतिरेकयोः सन्देहादसौ अनैकान्तिक एव ॥ १०७ ॥

अन्वय व्यतिरेकयोः सन्देहे सत्यपि कस्मादनैकान्तिकत्वमेव स्यादिति चेत्?

तत्राह- साध्येत्यादि । यस्मात्साध्य साध्यविपक्षयोः प्राणादिमत्त्वनिश्चयो नास्ति, तस्मादनैकान्तिकः ॥ १०८ ॥

एवमिति । उक्तप्रकारेण । त्रयाणां रूपाणमिति । पक्षधर्मः, अन्वयः, व्यतिरेकश्चेति । एकैकस्य द्वयोर्द्वयोर्वा रूपयोरसिद्धौ सन्देहे चेति । क्वचिदेकस्य रूपस्या-

परिच्चिदयते । तथा च सत्यन्वयाभावो व्यतिरेकः, व्यतिरेकाभावश्चान्वयः ।

ततोऽन्वयाभावे निश्चिते व्यतिरेको निश्चितो भवति । व्यतिरेकाभावे च निश्चितेऽन्वयो निश्चितो भवति । तस्माद्यदि नाम सात्मकमवस्तु, निरात्मकं च वस्तुः तथापि तयोर्न प्राणादेरन्वयव्यतिरेकयोरभावनिश्चयः । एकत्र वस्तुनि एकस्य वस्तुनो युगपद्भावाभवविरोधात्तयोरभावनिश्चयायोगात् ।

न च प्रतिवादयनुरोधात्सात्मकानात्मके वस्तुनी सदसती, किन्तु प्रमाणानुरोधात् । इत्युभे सन्दिग्धे । ततस्तयोः प्राणादिमत्त्वस्य सदसत्त्वसंशयः ॥

यत एव क्वचिदन्वयव्यतिरेकयोर्न भावनिश्चयः, नाप्यभावनिश्चयः, तत एवान्वयव्यतिरेकयोः सन्देहः ।

यदि तु क्वचिदप्यन्वयव्यतिरेकयोरेकस्याप्यभावनिश्चयः स्यात्, स एव द्वितीयस्य । भावनिश्चय इत्यन्वयव्यतिरेकसन्देह एव न स्यात् । यतश्च न क्वचिद्भावाभावनिश्चयः, तत एवान्वयव्यतिरेकयोः सन्देहः । सन्देहाच्चातैकान्तिकः ॥ १०७ ॥

कस्मादनैकान्तिकः? इत्याह- साध्येति । साध्यस्य इतरस्य च विरुद्धस्य, अतः सन्दिग्धान्वयव्यतिरेकान्निश्चयाभावात् । सपक्षविपक्सयोर्हि सदसत्त्वसन्देहे न साध्यस्य न विरुद्धस्य सिद्धिः । न च सात्मकानात्मकाभ्यां परः प्रकारः सम्भवति । ततः प्राणादिमत्त्वाद्धर्मिणी जीवच्चरीरे संशय आत्मभावाभावयोः- इत्यनैकान्तिकः प्राणादिरिति ॥ १०८ ॥

त्रयाणां रूपाणामसिद्धौ सन्देहे च हेतुदोषानुपपाद्योपसंहरन्नाह- एव-

११० विरुद्धव्यभिचार्यपि संशयहेतुरुक्तः । स इह कस्मान्नोक्तः?

१११ अनुमानविषयेऽसम्भवात् ॥

११२ न हि सम्भवोऽस्ति कार्यस्वभावयोरुक्तलक्षणयोरनुपलम्भस्य च विरुद्धतायः ॥

सिद्धिः सन्देहो वा, क्वचितु द्वयो रूपयोः । यथायोगमिति प्रयोगानुरूपम् । अमिद्धविरुद्धानैकान्तिकास्त्रयो हेत्वाभासा इति । असिद्धश्च विरुद्धश्च अनैकान्तिकश्चेति विग्रहः ॥ १०९ ॥

विरुद्धेनाव्यभिचारो विरुद्धाव्यभिचारः । सोऽत्रस्तीति विरुद्धाव्यभिचारी । यदा- विरुद्धश्चसौ न व्यभिचरितुं शीलं चास्येति विरुद्धाव्यभिचारी । स च शास्त्रकारेणानैकान्तिक उक्तः । स इहेति । स्वयं न निर्दिष्ट इत्यर्थः ॥ ११० ॥

तच्च कस्मादिति चेत्? आह- अनुमान इति ।

तथा हि- वस्तुवलप्रवृत्ते तस्यासम्भवः ॥ १११ ॥

कथमसम्भव इति चेत्? आह- न हीति ।

कारणसत्त्वे कार्यसत्त्वमेव कार्यहेतोर्लक्षणम् । तन्मात्रानुबन्धिहेतुत्वमेव स्वभाव मिति अनन्तरोक्तेन क्रमेण । एषां मध्य एकैकं रूपं यदा असिद्धं सन्दिग्धं वा भवति, द्वे द्वौ वासिद्धे सन्दिग्धे वा भवतः, तदासिद्धश्च विरुद्धश्च अनैकान्तिकश्च ते हेत्वाभासाः । यथायोगमिति । यस्यासिद्धौ सन्देहे वा यो हेत्वाभासो युज्यते स तस्यासिद्धेः सन्देहाच्च व्यवस्थाप्यत इति यस्य यस्य येन येन योगो यथायोगमिति ॥ । १०९ ॥

ननु च आचार्येण विरुद्धाव्यभिचार्यपि सम्शयहेतुरुक्तः । हेत्वन्तरसाधितस्य विरुद्धं यत्तन्न व्यभिचरतीति विरुद्धाभिचारी । यदि वा विरुद्धश्चासौ साधनान्तरसिद्धस्य धर्मस्य विरुद्धसाधनात्, अव्यभिचारी च स्वसाध्यव्यभिचाराद्विरुद्धव्यभिचारी? ॥ ११० ॥

सत्यम्, उक्त आचर्येण, मया तु नोक्तः । कस्मात्? इत्याह- अनुमानेति । अनुमानस्य विषयः प्रमाणसिद्धं त्रैरूप्यम् । यतो हि अनुमानसम्भवः, सोऽनुमानस्य विषयः । प्रमाणसिद्धाच्च त्रैरूप्यादनुमानसम्भवः । तस्मात्तदेवानुमानविषयः । तस्मिन् प्रक्रान्ते न विरुद्धाव्यभिचारिसम्भवः । प्रमाणसिद्धे हि त्रैरूप्ये प्रस्तुते स एव हेत्वाभासः सम्भवति यस्य प्रमाणसिद्धं रूपम् । न च विरुद्धाव्यभिचारिणः प्रमाणसिद्धमस्ति रूपम् । अतो न सम्भवः । ततोऽसम्भवान्नोक्तः ॥ १११ ॥

कस्मादसम्भवः? इत्याह- नहीति । यस्मान्न सम्भवोऽस्ति विरुद्धतायाः । कार्य च स्वभावश्च तयोरुक्तलक्साणयोरिति ।

११३ न चान्योऽन्यभिचारी ।

११४ तस्मादवस्तुदर्शनबलप्रवृत्तमागमाश्रयमनुमानमाश्रित्य तदर्थविचारेषु विरुद्धाव्यभिचारी साधनदोष उक्तः ॥

हेतोर्लक्षणम् । उपलब्धिलक्षणप्राप्तस्यानुपलब्धिरनुपलब्धेर्लक्षणम् । विरुद्धश्र्चोक्तलक्षणविशिष्टेषु न सम्भवति । तथा हि शिशपया वृक्षसंसिद्धौ विजातीयवृक्षसाधनं यथोक्तलक्षणस्य द्वितीयस्यसम्भवः ॥ ११२ ॥

यद्युक्तलक्षणेषु त्रिषु असम्भवः, अस्तु तर्हि अपरत्र सम्भव इति चेत्? तत्राह- न चेति । त्रिषु हेतुषु अनन्तभूतमव्यभिचारिहेत्वन्तरं नास्ति यस्मिन् विरुद्धाव्यभिचारिसम्भवः ॥ ११३ ॥

कस्मात्त्रिषु असम्भव इति चेद्? आह- तस्मादिति ।

यत्र अतिबद्धेन प्रमाणेन न निर्णयस्तदवस्तुदर्शनबलप्रवृत्तमिति । आगमाश्रयमनुमानमश्रित्येति । आगम आश्रयोऽस्येति आगमाश्रयम् । यत्र आगमद्वारेण धर्मिपक्षधर्मादिकमुपस्थाप्यते तदागमाश्रयमनुमानमिति । तदर्थविचारेष्विति ।

कार्यस्य कारणाज्जन्मलक्षणं तत्त्वम् । स्वभावस्य च साध्यव्याप्तत्वं तत्त्वम् । यत्कार्य यश्च स्वभावः, स कथमात्मकारणं व्यापकं च स्वभावं परित्यज्य भवेद्, येन विरुद्धह्स्यात् । अनुपलम्भस्य च उक्तलक्षणस्येति । दृश्यानुपलम्भत्वं चानुपलम्भलक्षणम् । तस्यापि वस्त्वभावाव्यभिचारित्वान्न विरुद्धत्वसम्भवः ॥ ११२ ॥

स्यादेतत्, एतेभ्योऽन्यो भविष्यति? इत्याह- न चान्य एतेभ्योऽव्यभिचारी त्रिभ्यः । अत एवैष्वेव हेतुत्वम् ॥ ११३ ॥

क्व तर्ह्याचार्यदिङ्नगेनायं हेतुदोष उक्तः? इत्याह- तस्मादिति । यस्माद्वस्तुबलप्रवृत्तेऽनुमाने न सम्भवति तस्मादागमाश्रयानुमानमाश्रित्य विरुद्धाव्यभिचायुक्तः । आगमसिद्धं हि यस्यानुमानस्य लिङ्गत्रैरूप्यं तस्यागम आश्रयः ।

ननु चागमसिद्धमपि त्रैरूप्यं प्रमाणसिद्धः? इत्याह- अवस्तुदर्शनबलप्रवृत्तमिति । अवस्तुनो दर्शनं विकल्पमात्रम्, तस्य बलं सामर्थ्यम्, ततः प्रवृत्तमप्रमाणाद्विकल्पमात्राद्व्यवस्थितं त्रैरूप्यमागमसिद्धमनुमानस्य, न तु प्रमाणात् ।

तत्तहर्यनुमानमागमसिद्धत्रैरूप्यं क्वाधिकृतम्? इत्याह- तदर्थेति । तस्य आगमस्य योऽर्थोऽतीन्द्रियः प्रत्यक्षानुमानाभ्यामविषयीकृतः सामान्या

११५ शास्त्रकाराणामर्थेषु भ्रान्त्या विपरीतस्वभावोपसंहाअर्सम्भवात् ॥

११६ न ह्यस्य सम्भवो यथावस्थितवस्तुस्थितिष्वात्मकार्यानुपलम्भेषु ॥

११७ तत्रोदाहरणम्- यत्सर्वदेशस्थितः स्वसम्बन्धिभियुगपदभिसम्बध्यते तत्सर्वगतं यथाकाशम् । अभिसम्बध्यते च सर्वदेशावस्थितः स्वसम्बन्धिभियु गपत्सामान्यमिति ॥

आगमार्थविचारेषु । विरुद्धाव्यभिचारी साधनदोष उक्त इति । सुगमम् ॥ ११४ ॥

यद्ययमयोग्य एव, तर्हि आगमाश्रयानुमानेऽपि तस्य कथं सम्भव इति चेद्? आह- शास्त्रेति ।

सर्वैश्च शास्त्रकारैस्तद्दर्शनानुत्पन्ना अपि केचन अर्थाः स्वभावविपर्ययेणाभिहिता बवन्ति । ततस्तया विरुद्धाव्यभिचारी भवति ॥ ११५ ॥

यदि तस्यागमप्रतिबद्धानुमाने सत्त्वमेवेष्यते, तर्हि वस्तुबलेन प्रवृत्तिरपि कस्मान्नेष्यते इति चेत् । तत्राह- न हीति ।

यथा वस्तुनोऽवस्थितिस्तथैव स्थितिर्येषां ते यथावस्थितवस्तुस्थितयः । स्थितिः= व्यवस्था । आत्मा च कार्य चानुपलम्भश्चेति विग्रहः । आत्मा स्वभावो नाम । यथा सदर्थे वस्तुव्यवस्था, तथा स्वभाव- कार्य अनुपलम्भहेतवस्ते व्याव्स्थिता तेषु विरुद्धाव्यभिचारिणः कुतः सम्भवः ॥ ११६ ॥

तत्रोदाहार्णमिति । आगमाश्रितप्रमाणोपदर्शनम् । यत्सर्वदेशावस्थितैः दिस्तस्य विचारेषु प्रक्रान्तेषु आगमाश्रयमनुमानं सम्भवति । तदाश्रयो विरुद्धाव्यभिचार्युक्त आचार्येणोति ॥ ११४ ॥

कस्मात्पुनरागमाश्रयेऽप्यनुमाने सम्भवः? इत्याह- शास्त्रकाराणामीत् । शास्त्रकृताम् । विपरीतस्य वस्तुविरुद्धस्य स्वभावस उपसंहारो ढौकनमर्थेषु, तस्य सम्भवाद्विरुद्धाव्यभिचारिसम्भवः । भ्रान्त्येति । विपर्यासेन । विपर्यस्ता हि शास्त्रकाराः सन्तमसन्तं स्वभावमारोपयन्तीति ॥ ११५ ॥

यदि शास्त्रकृतोऽपि भ्रान्ताः, पुनरन्येष्वपि पुरुषेषु क आश्वासः? इत्याह- न हीति । न हेतुषु कल्पनया हेतुत्वव्यवस्था, अपि तु वस्तुस्थित्या । ततो यथावस्थितवस्तुस्थितिष्वात्मकार्यानुपलम्भेष्वस्य सम्भवो नास्ति ।

अवस्थितं परमार्थसद्वस्तु तदनतिक्रान्ता यथावस्थिता वस्तुस्थितिः= व्यवस्था येषां ते यथावस्थिदवस्तुस्थितयः । ते हि यथा वस्तु स्थितं तथा स्थिताः, न कल्पनया । ततस्तेषु न भ्रान्तेरवकाशोऽस्ति, येन विरुद्धाव्यभिचारि सम्भवः स्यात् ॥ ११६ ॥

११८ तत्सम्बन्धस्वभवमात्रानुबन्धिनी तद्देशसन्निहितस्वभावता ॥

स्वसम्बन्धिभिर्यु पगपदभिसम्बद्धयते तत्सर्वगतमिति । सर्वस्मिन् देशेऽवस्थिताः सर्वदेशावस्थिताः । त एव स्वस्य च सम्बन्धिनः स्वसम्तन्धिनः । यदपि वस्तु सर्वदेशावस्थितस्वसम्बन्धिभियु गपदभिसम्बध्यते तत्सर्वगतमेव दृष्टम् । यथा आकाशमिति । आकाशं हि सर्वदेशावस्थितस्वसम्बन्धिभिर्यु गपदभिसम्बध्यते तच्च सर्वगतमेवेष्टम् । एतद्वचनेनान्वयो दर्शितः ।

सामान्यमपि सर्वदेशावस्थितैः स्वसम्बन्धिभिर्यु गपदभिसम्बध्यते इति । सामान्यस्य सम्बन्धिनो हि व्यक्तिविशेषाः सर्वेषु विद्यमानाः । तैश्च सामान्यं युगपदभिसम्बद्धयते । अनेन पक्षधर्म उक्तः ॥ ११७ ॥

स्वभावहेतुलणत्वं प्रयोगस्य दर्शयितुमाह- तत्सम्बन्धोति ।

तस्य सम्बन्धितः तत्सम्बन्धिनः । तत्सम्बन्धिनां स्वभावमात्रमनुबन्धु शीलं यस्या सा तत्सम्बन्धिस्वभवमात्रानुबन्धिनी । तेषां सम्बन्धिनां देशास्तद्देशाः । तत्देशे सन्निहितस्तद्देशसन्निहितः । तद्देशन्निहितः स्वभावो यस्य स तद्देशसन्नि हितस्वभावः । तस्य भावः तद्देशसन्निहितस्वभावता । सम्बन्धिदेशे उपस्थितिरिति शेष ॥ ११८ ॥

तत्र विरुद्धाव्यभिचार्युदाहरणम्- यदिति । यत्सर्वस्मित्देशेऽवस्थितैः स्वसम्बन्धिभिर्यु गपदभिसम्बद्धयते इति सर्वदेशावस्थितैरभिसम्बध्यमानत्वं सामान्यस्य अनूदय सर्वगतत्वं विधीयते । तेन युगपदभिसम्बध्यमानत्वं सर्वगतत्वे नियतं तेन व्याप्तं कथ्यते ।

इह सामान्यं कणादमहर्षिणा निष्क्रियं दृश्यमेकं चोक्तम् । युगपच्च सर्वैः स्वैः सम्बन्धिभिः समवायेन सम्बद्धम् । तत्र पैलुकेन कणादशिष्येण व्यक्तिषु व्यक्तिरहितेषु च देशेषु सामान्यं स्थितं साधयितुं प्रमाणमिदमुपन्यस्तम् । यथा आकाशमिति । व्याप्ति प्रदर्शनविषयो दृष्टान्तः । आकाशमपि हि सर्वदेशावस्थितैवृक्षादिभिः स्वसंयोगिभिर्युगपदभिसम्बध्यमानं सर्वगतं च । अभिसम्बध्यते च सर्वदेशावस्थितैः स्वसम्बन्धिभिरिति । हेतोः पक्षधर्मत्वप्रदर्शनम् ॥ ११७ ॥

अस्य स्वभावहेतुत्वं योजयितुमाह- तत्सम्बन्धीति । तेषां सर्वदेशावस्थितानां द्रव्याणां सम्बन्धी सामान्यस्य स्वभावः स एव तत्सम्बन्धिस्वभावमात्रम्, तदनुबध्नातीति तदनुबन्धिनी ।

कासौ? इत्याह- तद्दे शसन्निहितस्देभावता । तेषां सम्बन्धिनां देशः तद्देशः । तद्देशे सन्निहितः स्वभावो यस्य तत्तद्देशन्निहितस्व-

११९ न हि यो यत्र नास्ति स तद्द्शमात्मना व्याप्नोतीति स्वभावहेतुप्रयोग इति ।

१२० द्वितीयोऽपि प्रयोगः- यदुपलब्धिलक्षप्राप्तं सन्निपलम्यते न तत्तन्नास्ति । तदयथा- क्वचिदविदयमानो घटः । नोपलभ्यते चोपलभिलक्षणप्राप्तं सामान्यं व्यक्त्यन्तरालेष्विति । अयमनुपलम्भह्स्वभावश्च परस्परविरुद्धासाथनादे कत्र संशयं जनयतः ॥

सर्वगतत्वेनव हि सम्बन्धिनो व्याप्यन्ते इत्येतच्च कस्मादिति चेत्? आह- य इति ।

यश्च यत्र नास्ति तस्य तद्देशव्यापन्नं कथं शक्यम्? तद्देश इति । स देशो यस्य स तद्देश इति यस्मिन् देशे स नास्ति तद्देशसम्बन्धिनं स न सक्नोति व्यापयितुमीत्शेषः । स्वभावहेतुप्रयोग इति । सुगमम् ॥ ११९ ॥

अथ काणादैः कैश्चित्सामान्यस्य सर्वगतत्वमुक्तम्, अपरैश्च काणादैः सामाभावम्, तस्य हि येषां सम्बन्धी स्वभावः, तन्नियमेन तेषां देशे सन्निहितं भवति । ततस्तत्सम्बन्धित्वानुबन्धिनी तद्देशसन्निहिता सामान्यस्य ॥ ११८ ॥

ननु च गवां सम्बन्धी स्वामी, न च गोदेशे सन्निहितस्वभावः, तत्कथं तत्सम्बन्धित्वात्तद्देशत्वम्? इत्याह- न हीति । यो यत्र देशे नास्ति स देशो यस्य स तद्देशः तं न व्याप्नोतीत्यात्मना स्वरूपेण । इह सामान्यस्य तद्वतां च समवायलक्षणः सम्बन्धह्, स चाभिन्नदेशयोरेव । तेन यत्र तय्समवेतं तत्तदात्मीयेन रूपेण क्रोडीकुर्वत्समवायिरूप देशे स्वात्मानं निवेशयति ।

तद्देशरूपनिवेशनमेव तत्क्रोडीकरणम् । ततस्तत्समवायः ।

तस्माद्यत्तत्र समवेतं तत्तद्द्रव्यं व्याप्नुवदात्मा तद्देशे सन्निहितं भवति ।

तदयमर्थह्- तद्देशस्थवस्तुव्यापनं तद्देशसत्तया व्याप्तम् । तद्देशसत्ताभावे तद्वयापनाभावात्व्यापनलक्षणः समवायसम्बन्धो न स्यात् । अस्ति च व्यापनम् । अतस्तद्देशे सन्निहितत्वमिति यदयं स्वभावहेतुः ॥ ११९ ॥

पैठरप्रयोगं दर्शयन्नाह- द्वितीयऽपीति । यदुपलब्धेर्लक्षणतां विषयतां प्राप्तं दृश्यमित्यर्थः । एतेन दृश्यानुपलब्धिमनूदय न तत्तत्रास्ति इत्यसद्वयवहार्यत्वं विहितम् । ततो व्याप्यदृश्यानुपलब्धेर्व्यापकमसद्वयवहार्यत्वं दर्शितम् । तदयथेति क्वचिदसन् घटो दृष्टान्तः ।

१२१ त्रिरूपी हेतुरुक्तः । तावता नार्थप्रतीतिरिति न पृथग्दृष्टान्तो नाम साधनावयवः कश्चित् । तेन नास्य लक्षणं पृथगुच्यते गतार्थत्वात् ।

न्यस्य केवलाश्रयसर्वगतत्वमेवाङ्गीकृतम्, तन्नयप्रदर्शनार्थमाह- द्वितीय इति । तच्च सुगमम् ।

यदुपलब्धीति । अत्रानुपलब्धेरन्वयः कथितः ।

व्यक्तेरन्तरालानि व्यक्त्यन्तरालानि व्यक्त्यन्तराणि । तेषु उपलब्धिलक्षण प्राप्तं सामान्यं नोपलभ्यते । अनेन पक्षधर्म उक्तः । तद्वादिना च केवलाश्रयसर्वगतत्वमुक्तम् ॥ ११९ ॥

अव्यवहितोक्त्यानुपलब्ध्या सामान्यस्य केवलाश्रयसर्वगतत्वं साध्यते । प्राक्च स्वभावहेतुना सर्वसर्वगतत्वं साधितमिति द्वाभ्यां परस्परविरुद्धार्थसाधनात्किं व्यक्त्यन्तरालेषु सामान्यानुपलब्धेः केवलाश्रयसर्वगतत्वमेव सर्वदेशावस्थितस्वसम्बन्धिषु अनुबद्धत्वात्सर्वसर्वगतत्वमेव वेति अनुभवादेकस्मिन्नेव सामान्ये सन्देही जायते । एवमियता परार्थानुमानं तत्स्वरूपैर्दर्शितम् ॥ १२० ॥

ननुन् दृष्टान्तलक्षणं कस्मान्नोक्तमिति चेत्? तत्राह- त्रिरूप इति ।

पूर्व हेतोर्लक्षणत्रयं यदुक्तं तेनैव रूपत्रयेण साध्यार्थसिद्धिर्भवति । तेन दृष्टान्तो नाम पृथक्साधनावयवो नास्ति । ततश्च तल्लक्षणं पृथग्नोक्तम् ।

पक्षधर्मत्वं दर्शयितुमाह- नोपलभ्यते चेति । व्यक्त्यन्तरालं व्यक्त्यन्तरं च व्यक्तिशून्यं चाकाशम् । दृश्यमपि कस्याञ्चिद्व्यक्ती गोसामान्यमश्वादिषु व्यक्त्यन्तरेषु व्यक्तिशून्ये चाकाशे नोपलभ्यते । तस्मान्न तेष्वस्तीति गम्यते ।

अयमनुपलम्भः पूर्वोक्तश्च स्वभावः परस्य विरुद्धौ यवथौ तयोः साधनात्तावेकस्मिन् धर्मिणि संशयं जनयतः । न ह्येकोऽर्थः परस्परविरुद्धस्वभावो भवितुमर्हति । एकेन चात्र व्यक्त्यन्तरेषु व्यक्तिशून्ये चाकाशे सत्त्वम् । अपरेण चानुपलम्भेन असत्त्वं साध्यते । न चैकस्यैकसैकत्र सत्त्वमसत्त्वं च युक्तम्ः तयोविरोधात् । तदागमसिद्धस्य सामान्यस्य सर्वगतत्वासर्वगतत्वयोः साध्ययोरेतो विरुद्धाव्यभिचारिणी जातौ । यतः सामान्यस्यैकस्य युगपत्सर्वदेशावस्थितैरभिसम्बन्धित्वं चाभ्युपगतम्, दृश्यत्वं च ततः सर्वसम्बन्धित्वात्सर्वगतत्वम्, दृश्यत्वादन्तरालादनुपलम्भादसर्वगतत्वम् । ततः शास्त्रकार्रेणैव विरुद्धव्यप्तत्वमपश्यता विरुद्धव्याप्ती धर्मावुक्त्वा विरुद्धाव्यभिचार्यवकाशो दत्त इति । न च वस्तुन्यस्य सम्बह्वः ॥ १२० ॥

इत्युक्ता हेत्वाभासाः ॥

ननु च साधनावयवत्वाद्यथा हेतव उक्ताः, तत्प्रसङ्गेन च हेत्वा-

१२२ हेतोः सपक्ष एव सत्त्वमसपक्षाच्च सर्वतो व्यावृत्तो रूपमुक्तमभेदेन । पुनर्विशेषेण कार्यस्वभावयोरुक्तलक्षणयोर्जन्मतन्मात्रानुबन्धी दर्शनीयावुक्तौ । तच्च दर्शयता- यत्र धूमस्तत्राग्निः, असत्यग्नौ न क्वचिद्धूमः, यथा महानसेतरयोः । यत्र कृतकत्वं तत्रानित्यत्वम्,

गतार्थत्वादिति हेत्वर्थेनैव दृष्टान्तार्थस्यावगमात् ॥ १२१ ॥

कथमिति चेदाह- हेतोरिति ।

प्रयोगमात्र एतदेव हेतोर्लक्षणम्- सपक्ष एव सत्त्वमित्येवरूपम् । तथा सर्वस्माद्विपक्षाद्व्यावृतिः इत्येवंरूपं च ।

विशेषेण च हेतोर्लक्षणम्- कार्यहेतोर्जन्म प्रदर्शनीयमित्युक्तम्, स्वभावहेतो स्तन्मात्रानुबन्धः कथनीय इत्युक्तम् ।

सामानय्लक्षणं विशेषलक्षणं च दर्शयतेति शेषः ।

कार्यहेतोर्हि स्वकीयक्षणं(विशेषलक्षणं) तथा सामानय्लक्षणं च योग्यम् । एवं च दर्शयता विशेषेण कथयता इत्यर्थः । तथाहि- अत्र सपक्षसत्त्वं प्रदर्शयता

भासाः, तथा साधनावयत्वाद्दृष्टान्ता वक्तव्याः तत्प्रसङ्गेन च दृष्टान्ता भाषाः तत्कथं नोक्ताः? इत्याह- त्रिरूपो हेतुरुक्तः, तत्कि दृष्टान्तैः?

स्यादेतत्, तावता नार्थप्रतीतिः? इत्याह- तावता चेति । उक्तलक्षणेनैव हेतुना भवति साध्यप्रतीतिः, अतः स एव गमकः, ततस्तद्वचनमेव गमकम् । न दृष्टान्तो नाम साधनस्यावयवः । यतश्चार्य नावयवः, तेन नास्य दृष्टान्तस्य लक्षणं हेतुलक्षणात्पृथगुच्यते ।

कथं तर्हि हेतोर्व्याप्तिनिश्रयः, यद्यदृष्टान्तको हेतुरिति चेद्? नोच्यते हेतुरदृष्टान्तक एव, अपि तु न हेतोः पृथग्दृष्टान्तो नाम । हेत्वन्तर्भूत एव दृष्टान्तः । अत एवोक्तम्- नास्य पृथग्लक्षणमुच्यते इति । न त्वेवमुक्तं नास्य लक्षणमुच्यते इति ।

यद्येवम्, हेतूपयोगिनोऽपि लक्षणं वक्तव्यमेव? इत्याह- गतार्थत्वात् । गतोऽर्थः प्रयोजनम्, अभिधेयं वा यस्य दृष्टान्तलक्षणस्य, तत्तथा । तस्य भावस्तत्वम्, तस्मात् । दृष्टान्तलक्षणं ह्युच्यते दृष्टान्तप्रतीतिर्यथा स्यात् । दृष्टान्तश्च हेतुलक्षणादेवावसितः, ततो दृष्टान्तलक्षणस्य यत्प्रयोजनं दृष्टान्तप्रतीतिः, तद्गतम्= निष्पन्नम् । अभिधेयं व गतम्= ज्ञातं दृष्टान्ताख्यम् ॥ १२१ ॥

कथं गतार्थत्वम्? इत्याह- हेतोः रूपमुक्तमभेदेन । सामान्येन । साधारणं कार्य स्वभाव अनुपलम्भनामेतल्लक्षणमित्यर्थः । किं पुनस्तत्?

अनित्यत्वाभावे कृतकत्वासम्भवः, यथा घटाकाशयोरिति दर्शनीयम् ।

न ह्यन्यथा सपक्ष विपक्षयोः सदसत्त्वे यथोक्तप्रकारे शक्ये दर्शयितुम् ।

तत्कार्यतानियमः कार्यलिङ्गस्य, स्वभावलिङ्गस्य च स्वभावेन

अवश्यं यथा महानसः इत्यभिधेयम् । अन्यथा सपक्षसत्त्वमेव कथयितु न शक्यते । तथैव व्यावृत्ति कथयताप्यवश्यं यथा जलमित्याभिधेयम् । अन्यथा व्यावृत्तिरेव नोक्ता स्यात् ।

अनेन स्वभावहेतोः सामान्यलक्षणं विशेषलक्षणं च यथा वक्तव्यं तथा दर्श्यते । इह यदि यथा घटः इति नोच्यते तदा सपक्षसत्त्वमेव कथयितुं न शक्यते । यदि यथा आकाशमिति नोच्यते, तदा व्यावृत्तिरपि कथयितुं न शक्यते । तन्मात्रानुबन्धोऽपि तथैव दर्शयितुं न शक्यम् । तथाहि यदि यत्र यत्र कृतकत्वं तत्र तत्रावश्यं नित्यत्वम्, यथा घटे इति निर्दिश्यते, तदा तन्मात्रानुबन्ध एवोक्तो भवति । सपक्ष एव यत्सत्त्वम्, विपक्षाच्च सर्वस्माद्व्यावृत्तिर्या- रूपद्वयमेतदभेदेनोक्तम् ।

नच सामान्यमुक्तमपि शक्यं ज्ञातुम्, अतस्तदेव विशेषनिष्ठं वक्तव्यम् ।

अतः पुनरपि विशेषेण विशेषवन्तौ जन्मतन्मात्रानुबन्धौ दर्शनीयावक्तौ । कार्यस्य जन्म ज्ञातव्यमुक्तम् । जन्मनि हि ज्ञाते कार्यस्य सपक्षे एव सत्त्वम्, विपक्षाच्च सर्वस्माद्व्यावृत्तिर्ज्ञाता भवति । स्वभवस्य तन्मात्रानुबन्धो दर्शनीय उक्तः । तदिति साधनम् । तदेव तन्मात्रम्= साधनमात्रम् । तस्यानुबन्धः= अनुगमनम् । साधनमात्रस्य भावे भावः साध्यस्य । तन्मात्रभावित्वमेव हि साध्यस्य तादात्म्यम् । साधनस्य यदा स्वभावो ज्ञातो भवति तदा स्वभावहेतोः- सपक्षे एव सत्त्वम्, विपक्षाच्च सर्वस्माद्व्यावृत्तिर्ज्ञाता भवति ।

तदेवं सामान्यलक्षणं विशेषात्मकं ज्ञातव्यम्, नानय्था । ततो विशेषलक्साणमुक्तम् ।

किमतो यदि नामैवम्? इत्याह- तच्चेति । तच्च सामान्यलक्षणं दर्शयितुकामेन विशेषलक्षणं दर्शयता एव दर्शनीयम्- इति सम्बन्धः । यत्र धूमस्तत्राग्निरिति । कार्यहेतोर्व्याप्तिदर्शिता । व्याप्तिश्च कार्यकरणभावसाधनात्प्रमाणान्निश्चौयते । ततो यथा महानस इति दर्शनीयम्, असत्यग्नौ न भवत्येव धूम इति व्यतिरेको दर्शितः । स च यथेतरस्मिन्निति दर्शनीयः । वह्निनिवृत्तिर्हि धूमनिवृत्तौ नियता दर्शनीया । सा च महानसादितरत्रेति दर्शनीया ।

व्याप्तिः । अस्मिश्चार्थे दर्शिते एव दृष्टान्तो भवति । एतावन्मात्ररूपत्वात्तस्येति ॥

सपक्षत्वं दर्शयता यदि यथा महानसः यथा घटः इति वा नोच्यते, तदा सपक्षसत्त्वमेवोक्त न स्यात् । यदि च विपक्षासत्त्वं दर्शयता यथा जलं यथा आकाशमिति वा निच्यते, तदा व्यावृत्तिरेव नोक्ता स्यात् ।

एवं सामान्यलक्षणमुक्त्वा अशक्यत्वमुक्तम् । विशेषलक्षणेन अशक्यत्वकथनानन्तरमाह- तत्कार्यतेत्यादि ।

तस्य कार्य तत्कार्यम्, तस्य भावस्तत्कार्यता, तस्या नियमः तत्कार्यतानियमः । कारणसत्त्वे कार्यस्यापि सत्त्वमित्येष नियम एव तत्कार्यतानियमः ।

स्वरूपेण व्याप्तिरेव स्वभावेन व्याप्तिः । तन्मात्रानुबन्ध इति शेषः । तदुभयमपि दृष्टान्तमनुक्त्वा वक्तुं न शक्यते । यदा यथोक्तन्यायेन क्वचिद्धर्मिणि हेतुः सामान्यलक्षणतो विशेषलक्षणतश्चोच्यते, तदा दृष्टान्तोऽप्युक्त एव ।

तच्च कस्मादिति चेद्? आह- एतावदित्यादि ।

यत्र कृतकत्वं तत्र । नित्यत्वमिति स्वभावहेतोर्व्याप्तिदर्शिता । अनित्यत्वाभावे न भवत्येन कृतकत्वमिति व्यतिरेको दर्शितः । व्याप्त्रेश्च साधकै प्रमाणं साधर्म्यदृष्टान्ते दर्शनीयम् । प्रसिद्धव्याप्तिकस्य च हेतोः साध्यनि वृत्तौ निवृत्तिर्नियता दर्शनीया । तदवश्यं यथा घटे, यथा आकाशे चेति दर्शनीयम् ।

कस्मादेवम्? इत्याह- न होति । यस्मादन्यथा सामान्य लक्षणरूपे सपक्षविपक्षयोः सदसत्त्वे यथोक्तप्रकारे इति नियते- सपक्षे एव सत्त्वम्, विपक्षऽसत्त्वमेवेति नियमो यथोक्तप्रकारः । ते न शक्ये दर्शयितुम् । विशेषलक्षणे हि दर्शिते यथोक्तप्रकारे सदसत्वे दर्शिते भवतः । न च विशेषलक्षणमन्यथा शक्यं दर्शयितुम् ।

तस्य साध्यस्य कार्यधूमः, तस्य भावस्तत्कार्यता, सैव नियमो यतस्तत्कार्यताया धूमो दहने नियतः । सोऽयं तत्कार्यतानियमो विशेषलक्षणरूपोऽन्यथा दर्शयितुमशक्यः । स्वभावलिङ्गस्य च स्वभावेन साध्येन व्याप्ति विशेषलक्षणरूपा न शक्या दर्शयितुम् । यस्मात्कार्यकारणभावस्तादात्म्यं च महानसे घटे च ज्ःातव्यम्, तस्माद्व्याप्तिसाधनं प्रमाणं दर्शयता साधर्म्यदृष्टान्तो दर्शनीयः वैधर्म्यदृष्टान्तस्तु प्रसिद्धे तत्कार्यत्वे कारणाभावे कार्याभावप्रतिपत्त्यर्थम् । तत एव नावश्यं वस्तु भवति । कारणाभावे कार्याभावो वस्तुन्यव्स्तुनि वा बवति । ततो वस्त्ववस्तु वा वैधर्म्य

१२३ एतेनैव दृष्टान्तदोषा अपि निरस्ता भवन्ति ॥

१२४ यथा नित्यः शब्दोऽमूर्तत्वात्, कर्मवत्परमाणुवद्घटवदिति । एते दृष्टान्ताभासाः साध्यसाधनधर्मोभयविकलाः ।

तथाहि तस्य रूपमेतावन्मात्रेमेव । यत्र साध्येन हेतोरन्वयो दृश्यते, स साधर्म्यदृष्टान्तः । यत्र च साध्याभावे हेत्वभावो निर्दिश्यते स वैधर्म्यदृष्टान्तः ॥ १२२ ॥

यस्माद्यदा हेतोः सामान्यविशेषलक्षणयोनिर्देशः क्रियते स निर्दुष्ठदृटान्त इत्युच्यते तस्माद्यत्र तल्लक्षणयोर्निर्देशो न सम्भवति स दृष्टान्ताभासो भवतीत्युक्तं भवति ॥ १२३ ॥

उदाहार्णान्याह- यथेति । साध्य- साधनधर्मोभयविकला इति । शब्दो नित्यः, अमूर्तत्वत्कर्मवतिति साधय्धर्मविकलः । परमाणुवतिति साधनधर्मविकलः । घटवतित्युभयविकलः ॥ १२४ ॥

दृष्टान्त इष्यते । तस्माद्दृष्टान्तमन्तरेण न हेतोरन्वयो व्यतिरेको वा शक्यो दर्शयितुम् । अतो हेतुरूपाख्यानादेव हेतोर्व्याप्तिसाधनस्य प्रमाणस्य दर्शकः साधर्म्यदृष्टान्तः ।

प्रसिद्धव्याप्तिकस्य साध्याभवे हेत्वभावप्रदर्शनाद्वैधर्म्यदृष्टान्त उपादेय इति च दर्शितं भवति ।

अस्मिश्चार्थे दर्शिते एव दृष्टान्तो भवति । योऽयमर्थो व्याप्ति प्रसाधनप्रमाणप्रदर्शनः कश्चिदुपादेयो निवृत्तिप्रदर्शनश्च- इत्यस्मिन्नर्थे दर्शिते दर्शितो दृष्टान्त इत्याह । एताबन्धमात्रं रूपं यस्य, तस्य भावस्तत्त्वम्, तस्मादिति । एतावदेव हि रूपं दृष्टान्तस्य, यदुत व्याप्तिसाधनप्रमाणप्रदर्शकत्वं नाम साधर्म्यदृष्टान्तस्य, प्रसिद्धव्याप्तिकस्य च साध्यनिवृतौ साधननिवृत्तिप्रदर्शकत्वम्- इत्येतद्वैधर्म्यदृष्टान्तस्य । एतच्च हेतूपाख्यानादेवाख्यातमिति किं दृष्टान्तलक्षणेन ॥ १२२ ॥

एतेनैव च हेतुरूपाख्यानाद्दृष्टान्तत्वप्रदर्शनेन दृष्टान्तदोषा दृष्टान्तभासाः कथिता भवन्ति । तथा हि- पूर्विक्तिसिद्धये य उपादीयमानोऽपि दृष्टान्तो न समर्थः स्वकार्य साधयितुं स दृष्टान्तदोष इति सामर्थ्यादुक्तं भवति ॥ १२३ ॥

दृष्टान्ताभासानुदाहरति- यथा नित्यः शब्द इति । शब्दस्य नित्यत्वे साध्ये अमूर्तत्वादिति हेतुः । साधर्म्येण कर्मवत्, परमाणुवत्, घटवदित्येते दृष्टान्ता उपन्यस्ताः । एते च दृष्टान्तदोषाः । साध्यं च साधनं च

१२५ तथा सन्दिग्धसाध्यधर्मादयश्च । यथा- रागादिमानयं वचनाद्रथ्यापुरुषवत् । मरणधर्माय पुरुषो रागादिमत्त्वाद्रथ्यापुरुषवत् । असर्वज्ञोऽयं (पुरुषो) रागादिमत्त्वाद्रथ्यापुरुषवदिति ।

१२६ तथानन्वयोऽप्रदर्शितान्वयश्च । यथा- यो वक्ता स रागादिमानिष्टपुरुषवत् । अनित्यः शब्दः कृतकत्वाद्घटवदिति ।

सन्दिग्धः साध्यधर्मोऽस्मिन्निति विग्रहः । साध्यधर्म आदिर्येषां ते तथोक्ताः ।

उदाहरणान्याह- रागादिमानिति । अयं सन्दिग्धसाध्यधर्मः । मरणधर्मेति । अयं सन्दिग्धसाधनधर्मः । असवज्ञ इति । अयं सन्धिग्धोभयधर्मः ॥ १२५ ॥

अनन्वय इति । यत्रान्वयो नास्त्येव । अप्रदर्शितान्वय इति । यत्रान्वयो विद्यमानोऽपि न प्रदर्शितः ।

उदाहरणमाह- यथेति । तत्रान्वयो नास्ति । तेन तत्र वचनरागादयोर्व्याप्यव्यपकभवः कार्य कारणभावो वा नैव विद्यते ।

अनित्य इति । इहान्वयो विद्यमानोऽपि न प्रदर्शितः ॥ १२६ ॥

उभयं चेति च तैर्विकलाः । १ साध्यविकलं कर्म तस्यानियतत्वात् ।

२ साधनविकलः परमाणुः, मूर्तत्वात्परमाणूनाम् । असर्वगताद्रव्यपरिमाणम् =मूर्तिः । असर्वगतश्च द्रव्यरूपाश्च परमाणवः । नित्यास्तु वैशेषिकैरिष्यन्ते । ततो न साध्यविकलः । ३ घटस्तूभयविकलः, अनित्यत्वात्मूर्तत्वाच्च घटस्येति ॥ १२४ ॥

तथा सन्दिग्धः साध्यधर्मो यस्मिन् स सन्दिग्धसाध्यधर्मः । स आदिर्येषां ते तथोक्तः । सन्दिग्धसाध्यधर्मः, सन्दिग्धसाधनधर्मः, सन्दिग्धिभयः ।

उदाहरणम्- रागादिमनिति । रागादिमत्त्वं साध्यम् । वचनादिति हेतुः । रथ्यापुरुषवदिति दृष्टान्ते रागादिमत्तव्ं सन्दिग्धम् । मरणे धर्मोऽस्येति मरणधर्मा, तस्य भावो मरणधर्मत्वं साध्यम् । अयं पुरुष इति धर्मी । रागादिमत्त्वादिति हेतुः । तदुभयमपि रथ्यापुरुषे दृष्टान्ते सन्दिग्धम्- असर्वज्ञत्वं रागादिमत्वं चेति ॥ १२५ ॥

तथानन्वय इति । यस्मिन् दृष्टान्ते साध्यसाधनयोरसम्भवमात्रे दृश्यते, नतु साध्येन व्याप्तो हेतुः सोऽनन्वयः । अप्रदर्शितान्वयश्च यस्मिन् दृष्टान्ते विद्यमानोऽप्यन्वयो न प्रदर्शितो वक्त्रा, सोऽप्रदर्शितान्वयः ।

अनन्वयमुदाहरति- यथेति । यो वक्तेति । वक्तृत्वमनूद्य स रागादिमानिति रागादिमत्त्वं विहितम् । ततो वक्तृत्वस्य रागादिमत्त्वे प्रतिनियमः ।

१२७ तथा विपरीतान्वयः- यदनित्यं तत्कृतकमिति ॥

विपरीतेति । अन्वयो विपरीतो यस्मिन् दृष्टान्ते इति विग्रहः ।

उदाहरणमाह यदनित्यमिति । इह यत्कृतकं तदनित्यमिर्यामधेये यदनित्यं तत्कृतकमिति विपरीताभिधानम् ॥ १२७ ॥

तेन व्याप्तिरुक्ता । इष्टपुरुषवदिति । इष्टाग्रहणेन प्रतिवाधय्पि संगृह्यते, वाद्यपि । तेन वक्तृत्वरागादिमत्त्वयोस्सत्त्वमात्रेमिष्टे पुरुषे सिद्धम् । व्यप्तिस्तु न सिद्धा । तेनानन्वयो दृष्टान्त इति ।

अनित्यः शब्द इति । अनित्यत्वं साध्यम् । कृतकत्वादिति हेतुः । घटवदिति दृष्टान्ते न प्रदर्शितोऽन्वयः ।

इह यद्यपि कृतकत्वेन घटसदृशः शब्दः, तथापि नानित्यत्वेनापि सदृशः प्रत्येतु शक्यते, अतिप्रसङ्गात् । यदि तु कृतकत्वमनित्यस्वभवं विज्ञातं भवति, एवं कृतकत्वादनित्यत्वप्रतीतिः स्यात् । तस्माद्यत्कृतकं तदनि त्यमिति कृतकत्वमनित्यत्वे नियतमभिधाय नियमसधनायान्वयवाक्यार्थप्रतिपत्तिविषयो दृष्टान्त उपादेयः । स च प्रदर्शितान्वय एव । अनेन त्वन्वयवाक्यमनुक्त्वैव दृष्टान्त उपात्तः । ईद्दशश्च साधर्म्यमाट्रेणैवोपयोगी, न च साधर्म्यात्साध्यसिद्धिरतोऽन्वयार्थो दृष्टान्तस्तदर्थश्चानेन नोपात्तः । साधर्म्यार्थश्चोपात्तो निरुपयोग इति वक्तृदोसादयं दृष्टान्तदोषः । वक्ता हयत्र परःप्रतिपदयोतव्यः । ततो यदि नाम न दुष्टां वस्तु, तथापि वक्त्रा दुष्टां दर्शिततमिति दुष्टमेव ॥ १२६ ॥

तथा विपरीतोऽन्वयो यस्मिन् दृष्टान्ते स तथोक्तः । तमेवोदाहरति यदनित्य तत्कृतकमिति । कृतकत्वमनित्यत्वनियतं दृष्टान्ते दर्शनीयम् । एवं कृतकत्वादनित्यावर्गतिः स्यात् । अत्र त्वनित्यत्वं कृतकत्वे नियत दर्शितम् । कृतकत्वं त्वनियतमेवानित्यत्वे । ततो यादृशमिह कृतकत्वमनियत मनित्यत्वे दर्शितम्, तादृशान्नास्त्यनित्यत्वप्रतीतिः । तथाहि- यदनित्यमित्यनित्यत्वमनूदय तत्कृतकमिति कृतकत्वं विहितम् । अतोऽनित्यत्वं नियतमुक्तं कृतकत्वे, न तु कृतकत्वमनित्यत्वे । ततो यथानित्यत्वादनियतात्प्रयत्नानन्तरीयकत्वे न प्रयत्नानन्तरीयकत्वप्रतीतिः, तद्वत्कृतकत्वादनित्यत्वप्रतिपत्तिर्न स्यात्, अनित्यत्वेऽनियतत्वात्कृतकत्वस्य ।

यद्यपि च कृतकत्वं वस्तुस्थित्यानित्यत्वे नियतम्, तथाप्यनियतं वक्त्र दर्शितम् । अतः स्वयमदुष्टमपि वक्तृदोषाद्दृष्टम् ।

तस्माद्विपरीतान्वयोऽपि वस्तुरपराधात्, न वस्तुनः । परार्थानुमाने च वक्तुरपि दोषश्चिन्त्यते इति ॥ १२७ ॥

१२८ साधर्म्येण दृष्टान्तदोषाः ॥

१२९ वैधर्म्येणापि- परमाणुवत्कर्मवदाकशवदिति साध्यादयव्यतिरेकिणः ॥

१३० तथा सन्दिग्धसाध्यव्यतिरेकादयः । यथा असर्वज्ञाः कपिलादयोऽनाप्ता वा अविदयमानसर्वज्ञताप्ततालिङ्गभूतप्रमाणातिशयशासन

एते सर्वे साधर्म्यदृष्टान्ताभासाः ॥ १२८ ॥

वैधर्म्यदृष्टान्ताभासा उच्यन्ते ।

साध्यमादिर्येषां तानि साध्यादीनि, तेषामव्यतिरेकः साध्याद्यव्यतिरेकः । ते च यत्र सन्ति ते साध्याद्यवय्तिरेकिणह् । तत्र परमाणुवदिति साध्याव्यतिरेकी । नित्यत्वात्परमाणूनां साध्याद्यव्यतिरेकः । कर्मवदिति साधनाव्यतिरेकी । अमूर्तत्वात्कर्मणां साधनाव्यतिरेकः । आकशवदिति उभयाव्यतिरेकी । आकाशस्य चोभयाव्यतिरेकः ॥ १२९ ॥

सन्दिग्धेति । साध्यस्य व्यतिरेकः सन्दिग्धो यस्मिन्निति विग्रहः । सन्दिग्धसाध्यव्यतिरेक आदिर्येषामिति विग्रहः । उदाहरणान्याह- यथेति । प्रतिज्ञाद्वयमुपन्यस्तम् ।

साधर्म्येण नव दृष्टान्तदोषा उक्ताः ॥ १२८ ॥

वैधर्म्येणापि दृष्टान्तदोषान् वक्तुमाह- वैधर्म्येणापीनि । नित्यत्वे शब्दस्य साध्ये हेतावमूर्तत्वे परमाणुवैधर्म्ये दृष्टान्तः साध्याव्यतिरेकी नित्यत्वात्परमाणूनां कर्म साधनाव्यतिरेकि । अमीष्र्तत्वात्कर्मणः । आकाशमुभयाव्यतिरेकि नित्यत्वाद्, अमीष्र्तत्वाच्च । साध्यमादिर्येषां तानि साध्यादीनि साध्यसाधनोभयानि । तेषामव्यतिरेको निवृत्यभअः । स येषामस्ति ते साध्यादयव्यतिरेकिणः । ते चोदाहुताः ॥ १२९ ॥

अपरानुदाहर्तुमाह- तथेति । साध्यस्य व्यतिरेकः सध्यव्यतिरेकः । सन्दिग्धः साध्यव्यतिरेको यस्मिन् स सन्दिग्धसाध्यव्यतिरेकः, स आदिर्येषां ते तथोक्ताः ।

सन्दिग्दसाध्यव्यतिरेकमुदार्हर्तुमाह- यथेति । असर्वज्ञा इत्येकं साध्यम्, अनाप्ता अक्षीणदोषा इति द्वितीयम् । कपिलादय इति धर्मी । अविद्यमानसर्वज्ञतेत्यादिहेतुः । आप्तता च तयोर्लिङ्गभूतः प्रमाणतिशयो लिङ्गात्मकः प्रमाणविशेषोऽविदयमानः सर्वज्ञताप्ततालिङ्गभूतः प्रमाणातिशयो यस्मिन् तथोक्तं शासनम् । तादृशं शासनं तेषां ते तथोक्ताः तेषां भावस्तत्त्वम् । तस्मात्प्रमाणातिशयो ज्योतिर्ज्ञानोपदेश इहाभिप्रेतः । यदि त्वादिति । अत्र वैधर्म्योदहरणम्- यः सर्वज्ञ आप्तो वा स ज्योतिर्ज्ञानादिकमुपदिष्टवान् । यथा ऋषभवर्धमानादिरिति । तत्रासर्वज्ञतानाप्ततयोः साध्यधर्मयोः सन्दिग्धो व्यतिरेकः । १३१ सन्दिग्धसाधनव्यतिरेको यथा- न त्रयीविदा राम्हणेन ग्राह्यवचनः कश्चिद्विवक्षितः पुरुषो रागादिमत्त्वदिति । अत्र वैधर्म्योदाह-

सर्वज्ञत्व च वीतरागत्वं सर्वज्ञत्ववीतरागत्वे, तयोलिङ्गभूतं प्रमाणातिशयशासनमविध्यमानं येषु ते अविद्यमानसर्वज्ञत्ववीतरागत्वलिङ्गभूतप्रमाणातिशयशासनाः, तेषां भावस्तत्तवम्। तस्मादविद्यमानसर्वज्ञत्ववीतरागत्वलिङ्गभूतप्रमाणातिशयशासनत्वात् । परीक्ष्यते इत्युपरितः सम्बन्धः ।

ज्योतिर्ज्ञानम्= नक्षत्रविपरीक्षणमिति हेतुः । तच्च सर्वज्ञत्व वीतरागत्वलिङ्गभूतमृषभ- वर्धमानादिभिरनुशिष्टाम् । तस्मात्ते सर्वज्ञा वीतरागा वेति निश्चेतुं शक्यत इति ।

अत्र ऋषभमहावीरादिवैधर्म्यदृष्टान्त उक्त, तेषु च असर्वज्ञत्वावीतरागत्वयोर्व्यतिरेकनिश्चयो नास्ति ॥ १३० ॥

सन्दिग्धेत्यदि । तदर्थस्तु गत एव । उदाहरणम्- यथेति ।

हि कपिलादयः सर्वज्ञा आप्ता वा स्युः, तदा ज्योतिर्ज्ञानादिकं कस्मान्नो पदिष्टावन्तः? न चोपदिष्टावन्तः, तस्मान्न सर्वज्ञा आप्ता वा ।

अत्र प्रमाणे । वैधर्म्योदाहरणम्- यः सर्वज्ञ आप्तो वा स ज्योतिर्ज्ञानादिकं सर्वज्ञताप्ततलिङ्गभूतमुपदिष्टावान् । यथा ऋषभो वर्धमानश्च तावादी यस्य स ऋषभ्वर्धमानादिर्दिगम्बराणां शास्ता सर्वज्ञश्च आप्तश्चेति । तदिह वैधर्म्योदाहरणमृषभादेरसर्वज्ञत्वस्यनाप्ततयाश्च व्यतिरेको व्यावृत्तिः सन्दिग्धा । यतो ज्योतिर्ज्ञानं चोपदिशेत्, असर्वज्ञश्च भवेदनाप्ता वा । कोऽत्र विरोधः? नैमित्तिकमेतज्ज्ज्ञानं व्यभिचारि न सर्वज्ञत्वमनुमापयेत् ॥ १३० ॥

सन्दिग्धः साधनव्यतिरेको यस्मिन् स तथोक्तः? तमुदाहरति- यथेति । ऋक्सामयजूषि त्रीणि= त्रयी, तां वेत्तीति त्रयीवित् । तेन न ग्राह्यं वचनं यस्येति साध्यम् । विवक्षितमिति । कपिलादिधर्मी । रागादिसत्त्वादिति हेतुः ।

अत्र प्रमाणे वैधर्म्योदाहरणम्- साध्याभावः साधनाभावेन यत्र व्याप्तो दर्श्यते तद्वैधर्योदहरणम् । ग्राह्यं वचनं येषां ते ग्राह्यवचना इति साध्यनिवृत्तिमनूदय न ते रागादिमन्त इति साधनाभवो विहितः । गौरमरणम्- ये ग्राह्यवचना न ते रागादिमन्तः, तदयथा गौतमादयो धर्मशास्त्राणां प्रणेतार इति । गौतमादिभ्यो रागादिमत्त्वस्य साधनधर्मस्य व्यवृत्तिः सन्दिग्धा ॥

१३२ सन्दिग्धोभयव्यतिरेको यथ- अवीतरागाः कपिलादयः, अप्रिग्रहाग्रहयोगादिति । अत्र वैधर्म्येणोदाहरणम्- यो वीतरागो न तस्य परिग्रहाग्रहः, यथर्षभादेरिति । ऋषभादेरवीरतागत्वपरिग्रहाग्रहयोगयोः साध्यसाधनधर्मयोः सन्दिग्धो व्यतिरेकः ।

ऋग्वेदः, यजुर्वेदः, सामवेदश्चेति त्रयो वेदाः । त एव त्रयी शब्देनोच्यन्ते । त्रयी वेत्तीति त्रयीवित् । ग्राह्यं वचनमस्येति ग्राह्यवचनः । प्रामाण्यवचन इति शेषः । तेनतदुक्त भवति- त्रयीविद्यो ब्राम्हणस्तदभिमतपुरुषवचनं नित्यप्रमाणं नास्तीति । अत्रेति । तदर्थस्तु गत एव । ये हि ग्राह्यवचना न ते रागादिमन्तः । तद्यथेति । गौतम व्यासमुनिप्रभृत्तिभिर्यानि धर्मशास्त्राणि प्रणीतानिव्तानि हि त्रयीविदां प्रामाण्यवचनानि ।

तेभ्यो हि रागादिमत्त्वस्य व्यवृत्तेनिश्चयो नास्ति ॥ १३१ ॥

सन्दिग्ध उभयोर्व्यतिरेको यस्मिन्निति समासः । उदाहरणम्- यथेति ।

प्रैग्रहः= द्रव्यस्य स्वीकरणम् । आग्रहः= स्वीकारादूर्ध्वमासक्तिः । परिग्रहश्चाग्रहश्चेति प्रैत्ग्रहग्रहौ । ताभ्यां योग इत्यर्थः ।

आदिर्येषां ते तथोक्ता मन्बादयो धर्मशास्त्राणि= स्मृतयस्तेषां कर्तारः । त्रयीविदा हि ब्राम्हणेन ग्राह्यवचना धर्मशास्त्रकृतो वीतरागाश्च त ईतीह धर्मी व्यतिरेकविषयो गौतमादय इति । गौतमादिभ्यो रागादिमत्त्वस्य साधनस्य निवृत्तिः सन्दिग्धा । यद्यपि ते ग्राह्यवचनास्त्रयीविदा, तथपि कि सरागा उत वीतरागाः? इति सन्देहः ॥ १३१ ॥

सन्दिग्ध उभयोर्व्यतिरेको यस्मिन् स तथोक्तः । तमुदाहरति- तथेति । अवीतरागा इति । रागादिमत्त्वं साध्यम् । अकपिलदय इति धर्मी । परिग्रहो लभ्यमानस्य स्वीकार्ः प्रथमः । स्वीकारादूर्ध्व यद्गार्ध्य मात्सर्य स आग्रहः । परिग्रहश्च आग्रहश्च तभ्यां योगात्कपिलादयो लभ्यमानं स्वीकुर्वन्ति स्वीकृतं न मुञ्चन्ति- इति ते रागादिमन्तो गम्यन्ते । अत्र प्रमाणे वैधर्म्योदाहरणम्- यत्र साह्द्याभाव साधनाभवो दर्शयितव्यः । यो वीतराग इति । साध्याभावमनूदय न तस्य परिग्रहाग्रहाविति साधनाभवो विहितः । यथर्षभादेरिति दृष्टान्तः । एतस्मादृषभादेदृष्टान्तादवीतरागत्वस्य साध्यपरिग्रहाग्रहयोगस्य च साधनस्य निवृत्तिः सन्दिग्धा । ऋषभदीनां हि परि

१३३ अव्यतिरेको यथा- अवीतरागोऽयं वक्तृत्वात् । वैधर्म्येणोदाहरणम्- यत्रावीतरागत्वं नास्ति, न स वक्ता ।यथा उपलखण्ड इति । यदयप्युपलखण्डादुभयं व्यावृतं तथापि सर्वो वीतरागो न वक्तेति व्याप्त्या व्यतिरेकासिद्धेरव्यतिरेकः ॥

१३४ अर्पदर्शितव्यतिरेको यथा- अनित्य शब्दः, कृतकत्वादाकाशवतिति वैधर्म्येण ॥

ऋषभादयो हि स्वल्पमत्रमपि व्यञ्जनं न परिगृह्णन्ति । तस्मात्तेसां परिग्रहो नास्ति । परिग्रहाभवे चाग्रहाभावः, तेन च वीतरागाः ।

अवीतरागो रागादिमानित्यर्थः । परिग्रहश्च मनसा स्वीकरणम् । आग्रहश्च तृष्णा । ते च सर्वे मानसत्त्वातिन्द्रियगोचरा न भवन्ति । तस्मातृषभादिभ्यो व्यावृत्तिरेवेति निश्चेतुं न शक्यते ॥ १३२ ॥

अव्यतिरेक इति । अविद्यमानो व्यतिरेकोऽस्मिन्निति विग्रहह् । यथेति । तदर्थस्तु गत एव । वैधर्म्येति । वैधर्म्ये दृष्टान्तोऽयम् ।

यद्यपि उपलखण्डस्याचेतनत्वाद्रागादिमत्त्वं वक्तृत्वं वा नैव, तथापि सर्वो वीतरागो न वक्तेति व्याप्तिरसिद्धा । रागवत्त्ववक्तृत्वयोः सम्बन्धाभावाद्रागवत्त्वव्यावृतौ वक्तृत्वविनिवृत्तिनं भवति । तस्मादन्न वस्तुनो व्यतिरेको नास्ति ॥ १३३ ॥

अप्रदर्शित इति । यत्र व्यतिरेको वर्तमानोऽपि नोच्यते ।

ग्रहाग्रहयोगोऽपि सन्दिग्धः वीतरागत्वं च । यदि नाम तत्सिद्धान्ते वीतरागाश्च निष्परिग्रहाश्च पठयन्ते, तथापि सन्देह एव ॥ १३२ ॥

अपरानपि त्रीनुदाहर्तुमाह- अव्यतिरेक इतविद्यमानो व्यतिरेको यस्मिन् सोऽव्यतिरेकः । अवीतराग इति । रागादिमत्वं साध्यम् । वक्तृत्वादिति हेतुः । इति व्यतिरेकमाह- यत्रावीतरागत्वं नास्तीति । साध्याभवानुबादः । तत्र वक्रृत्वमपि नास्तीति साधनाभावविधिः । तेन सधनाभवेन साध्याभावो व्याप्त उक्तः । दृष्टान्तो यथोपलखण्ड इति । कथमयमव्यतिरेको यावतोपलखण्डादुभयं निवृतम्? किमतः? यद्यपि उपलखण्डादुभयं व्यवृत्तम्- सरागत्वं वीतरागत्वं च तथापि व्यप्त्या व्यतिरेको यस्तस्यसिद्धेः कारणादव्यतिरेकोऽयम् ।

कीदृशी पुनर्व्याप्तिः? इत्यह- सर्वो वीतराग इति । साध्याभावानुवादः ।

न वक्तेति साधनाभवविधिः । तेन साध्यभावः सधनाभवनियतः ख्यापितो भवति । ईदृशी व्याप्तिः । तया व्यतिरेको न सिद्धः । अस्य चार्थस्य प्रसिद्धगे दृष्टान्तः । तत्स्वीकार्याकरणाद्दुष्टः ॥ १३३ ॥

१३५ विपरीतव्यतिरेको यथा- यदकृतकं तन्नित्यं भवतीति ।

उदाहरणमाह- शब्दोऽनित्य इति ।

केनचिद्वैधर्म्यदृष्टान्तत्वेन शब्दोऽनित्य कृतकत्वात्, आकाशवतित्युक्त, तत्र व्यतिरेको विद्यमानोऽप्यनुक्त एव भवति । तथाहि यदि ये ये च अप्दार्था नित्याः ते सर्व एवाकृतकाः इत्युच्यते, तदा व्यतिरेको दर्शितो भवति । न तु दृष्टान्तमात्रेण ॥ १३४ ॥

अप्रदर्शितो व्यतिरेको यस्मिन् स तथोक्तः । अनित्यः शब्द इति । अनित्यत्वं साध्क्यम् । कृतकत्वादिति हेत् । आकशवदिति वैधर्म्येण दृष्टान्तः ।

इह पराथानुमाने परस्मादर्थः प्रतिपत्तव्यः । स शुद्धोऽपि स्वतो यदि परेणाशुद्धः ख्याप्यते स तावद्यथा प्रकाशितस्तथा न युक्तः । यथा युक्तस्तथा न प्रकाशितः । पर्काशितश्च हेतुः । अतो वक्तुरपराधादपि पराथानुमाने हेतुर्दृष्टान्तो वा दुष्टाः स्यादपि । न च सादृश्यादसादृश्याद्वा साध्यप्रतिपत्तिः, अपितु साध्यनियताद्धेतोः । अतः साध्यनियतो हेतुरन्वयवाक्येन, व्यतिरेकवाक्येन वा वक्तव्यः । अन्यथा गमको नोक्तः स्यात् । स तथोक्तो दृष्टान्तेन सिद्धो दर्शयितव्यः । तस्माद्दृष्टान्तो नामन्वयव्यतिरेकवाक्यार्थप्रदर्शनः । न चेह व्यतिरेकवाक्यं प्रयुक्तम्, अतो वैधर्म्यदृष्टान्त इहासादृशय्मात्रेण साधक उपन्यस्तः । न च तथा साधकः । व्यतिरेकविषयत्वेन स साधकः न च तथोपन्यस्त इति अयमप्रदर्शितव्यतिरेको वक्तुरपराधाद्दुष्टाः ॥ १३४ ॥

विपरीतो व्यतिरेको यस्मिन् वैधर्म्यदृष्टान्ते स तथोक्तः । तमुदाहरति- यथा यदकृतकमित्यादि । इह अन्वयव्यतिरेकाभ्यां साध्यनियतो हेतुर्दशयितव्यः, यदा च साध्यनियतो हेतुर्दर्ह्सयितव्यः, तदा व्यतिरेकवाक्ये साध्याभावः साधनाभावे नियतो दर्शयितव्यः । एवं हि हेतुः साध्यनियतो दर्शितः स्यात् । यदि तु साध्याभावः साधनाभावे नियतो नाख्यायते, साधनसत्तायामपि साध्याभ्वः सम्भाव्येत । तथा च साधनं साध्यनियतं न प्रतीयेत । तस्मात्साध्याभावः साध्याभावे नियतो वक्तव्यः । विपरीतव्यतिरेके च साध्याभावः साध्याभावे नियत उच्यते, न साध्याभावः साधना भावे । तथा हि- यदकृतकमिति । साधनाभावमनूदय । तन्नित्यमिति साध्याभावविधिः ।

ततोऽयमर्थः- अकृतको नित्य एव । तथा च सति अकृतकत्वं नित्यत्वे साध्याभावे नियतमुक्तम्, न नित्यत्वं साधनाभावे । ततो न साध्यनियतं

१३६ न ह्येभिर्दृष्टान्ताभासैर्हेतोः सामान्यलक्षणं सपक्ष एव सत्त्वं विपक्षे च सर्वत्रासत्त्वमेव निश्चयेन शक्यं दर्शयितुं विशेषलक्षणं वा । तदर्थापत्त्यैषां निरासो द्रष्टव्यः ॥

१३७ दूषणा न्यूनतादयुक्तिः ॥

विपरीतो व्यतिरेकोऽस्मिन्निति विग्रहः । उदाहरणमाह- यथेति । इह यन्नित्यं तदकृतकमित्यभिधेये तद्विपरीतमुक्तम् ॥ १३५ ॥

तैश्च दृष्टान्ताभासैर्हेतोयच्च सामान्यलक्षणं तदपि विशेषलक्षणं तच्च न शक्यते दर्शयितुम् । तत एव ते दृष्टान्ताभासा इति दृष्टान्ताभासाः ।

यस्माद्द्विविधमपि हेतिर्लक्षणं दर्शयितुं न शक्यते, तस्मादर्थापत्त्या तेषां निरासो द्रष्टव्यः । इयता सम्यग्ज्ञानं तत्स्वरूपैर्व्याख्यातम् ॥ १३६ ॥

इदानी तत्सहायकाभिधानमनुज्ञातुमाह-

न्यूनता आदिर्येषां ते न्यूनतादयः । तेषामुक्तिन्यूनताद्युक्तिः । ताश्च प्रत्येकं दूषणाः ॥ १३७ ॥

अत्र आदि- इत्युक्तेरसिद्धविरुद्धानैकान्तिकदोषाणां परिग्रहः । उच्यतेऽनेति उक्तिः= वचनम्। येन वचनेन दोसा उद्ध्रियन्ते तद्दूषणमिति । हेतु व्यतिरेकवाक्यमाह । तथा च विपरीतव्यतिरेकोऽपि वक्तुरपराधाद्दुष्टः ॥ १३५ ॥

दृष्टान्तदोषानुदाहृत्य दुष्टत्वनिबन्धनत्वं दर्शयितुमाह- न हयेभिरिति । साध्यनियतप्रदर्शनाय हि दृष्टान्ता वक्तव्याः । एभिश्च हेतोः सपक्ष एव सत्त्वं विपक्षे च सर्वत्रासत्त्वमेव यत्सामान्यलक्षणं तत्निश्चयेन न शक्यं दर्शयितुम् ।

ननु च सामान्यलक्षणं विशेषनियतमेव प्रतिपत्तव्यम्, न स्वत एव? इत्याह- विशेषलक्षणं वा । यदि विशेषलक्षणं प्रतिपादयितुं शक्येत, स्यादेव सामान्यलक्षणप्रतिपत्तिः । विशेषलक्षणमेव तु न शक्यमेभिः प्रतिपादयितुम् । तस्मादर्थापत्त्या सामर्थ्येन एषां निराकरणं द्रष्टव्यम् । साध्यनियतसाधनप्रतीतये उपाताः । तदसमर्था दुष्टाः, स्वकार्याकरणादिति असामर्थ्यम् ॥ १३६ ॥

इयता साहनमुक्तम् ॥

दूषणं वक्तुमाह- दुषणेति । दूषणा का द्रष्टव्या? न्यूनतादोनामुक्तिः ।

उच्यतेऽनयेत्युक्तिः= वचनम् । न्यूनतादेर्वचनम् ॥ १३७ ॥

१३८ ये पूर्व न्यूनतादयः साधनदोषा उक्तास्तेषामुद्भावनं दूषणं तेन परेष्टार्थसिद्धिप्रतिबन्धात् ॥

१३९ दूषणाभासास्तु जातयः ।

१४० अभूतदोषोद्भावनानि जात्युत्तराणीति ॥

तच्च कस्मादिति चेत्? तत्राह- तेनेति ।

यस्मात्तेन वचनेन पूर्वपक्षिणा साधयितुमिष्टस्यार्थस्य सिद्धिः प्रतिबध्यते, तस्मात्तद्दूषणम् । तदेतानि अनुद्भूतदूषणाति ॥ १३८ ॥

जातय एव दूषणाभासा विदितव्याः ॥ १३९ ॥

काश्च पुनस्ता जातय इति? आह- अभूतेति ।

न भूतोऽभूतः, अभूता दोषा अभूतदोषाः तेषामुद्भवनानि अभूतदोषोद्भावनानि । यैश्च वचनैः साधनदोषा अबिध्यमाना अपि उद्भाव्यन्ते तानि जातयो वेदितव्याः ।

सम्यग्ज्ञाननिरूपणावसरे कथं दूषण- तदाभासानामुपदर्शनमिति चेत्? उच्यते, दूषणानां तया दूषणाभासानां च निरूपणे सम्यग्ज्ञानमपि ससहायं निरूपितं भवतोति । तथा चैता ह्यत्र दूषणा इति तासां परिहरो विधेयः । यदा वा एते दूषणाभासाः, एतेभ्यः शङ्काभाव एव वेदितव्य इत्यभिधीयते, तदा सम्यग्ज्ञानमेव सर्वथा निरूपितं भवति । तस्माद्यथोक्तदोषप्रसङ्गो नास्ति ॥ १४० ॥

दूषणं विवरीतुमाह- ये पूर्व न्यूनतादयोऽसिद्धविरुद्धानैकान्तिका उक्ताः, तेषामुद्भावकं यद्वचनं तद्दूषणम् ।

ननु च न्यूनतादयो न विपर्ययसाधनाः, तत्कथं दूषणम्? इत्याह- तेन न्यूनतादिवचनेन परेषामिष्टश्चासावर्थश्च तस्य सिद्धिः निश्चयः, तस्याः प्रतिबन्धात् । नावश्यं विपर्ययसाधनादेव दूषणं विरुद्धवत्, अपि तु परस्याभिप्रेतनिश्चयविबन्धान्निश्चयाभावो भवति निश्चयविपर्यय इत्यस्त्येव विपर्ययसिद्धिरिति ॥ १३८ ॥

उक्ता दूषणा ॥

दूषणाभासा इति । दूषणवदाभासन्त इति दूषणाभाषा । के ते? जातय इति । जातिशब्दः सादृश्यवचनः । उत्तरसदृशानि जात्युत्तराणि । उत्तरस्याप्रयुक्तत्वादुत्तरसदृशानि जात्युत्तराणि ॥ १३९ ॥

तदेवोत्तरसादृश्यमुत्तरस्थानप्रयुक्तत्वेन दर्शयितुमाह- अभूतेति । अभूतस्य असत्यस्य दोषस्य उद्भवनानि । उद्भाव्यत एतैरित्यौद्भावनानि = वचनानि । तानि जात्युत्तराणि । जात्या सादृश्येनोत्तराणि जात्युत्तराणीति ॥ १४० ॥

पृथु यच्चाजितं पुण्यं न्यायबिदोः पदं पदम् ।
व्याख्यानेन मयाद्यैव ततो लब्ध्वामृतं ध्रुवम् ॥

प्राणिकुलमशेषं हि यातु भवपरिक्षयम् ।
यथोचित्तेन मार्गेण निर्देशेन नृपस्य च ॥

इयं विनीतदेवेन शिष्यकल्याणसिद्धये ।
विस्तरो नाम टीका हि न्यायबिन्दोर्विनिर्मित्ता ॥

न्यायबिन्दुविस्तरटीकायां शिष्यहितायां तृतीयः परिच्छेदः समाप्तः ॥

सहस्त्रमेकं श्लोकानां त्रिशच्श्लोकास्तथैव च ।
ग्रन्थे विस्तरटीकायामिनोक्तं परिपिण्डितम् ।

आचार्यविनीतदेवकृतिर्न्यायबिन्दुविस्तरटीका शिष्यहिता समाप्ता ॥

धर्मोत्तरटीका

कतिपयपदवस्तुव्याख्यया यन्मयाप्तम्,
कुशलममलमिन्दोरंशुवन्न्यायबिन्दोः ॥

पदमजरमवाप्य ज्ञानधर्मोत्तरं यद्,
जगदूपकृतिमात्रव्यापृतिः स्यामतोऽहम् ॥

आचार्यधर्मोत्तरविरचित्तायां न्यायबिन्दुटीकायां तृतीयः परिच्चेदः समाप्तः ॥

समाप्तं च न्यायबिन्दुप्रकरणम् ॥

ये धर्मा हेतुप्रभवा हेतुं तेषां तथागतो हयवदत् ।
तेषां च यो निरोध एवंवादी महाश्रमणः ॥�