सामग्री पर जाएँ

न्यायबिन्दुः

विकिस्रोतः तः
न्यायबिन्दुः
[[लेखकः :|]]


धर्मकीर्ति: न्यायबिन्दु प्रकरणकारिका
सूत्रपाठः


१ प्रथमः प्रत्यक्षपरिच्छेदः

१।१ सम्यग्ज्ञानपूर्विका सर्वपुरुषार्थसिद्धिरिति तद्वयुत्पादयते ।
१।२ द्विविधं सम्यग्ज्ञानम् ।
१।३ प्रत्यक्षम्, अनुमानं चेति ।
१।४ तत्र प्रत्यक्षं कल्पनापोढमभ्रान्तम् ।
१।५ अभिलापसंसर्गयोग्यप्रतिभासप्रतीतिः कल्पना
१।६ तया रहितं तिमिराशुभ्रमणनौयानसम्भ्रमाद्यनाहितविभ्रमं ज्ञानं प्रत्यक्षम् ।
१।७ तच्चतुर्विधम् ।
१।८ इन्द्रियज्ञानम् । (१)
१।९ स्वविषयानन्तरविषयसहकारिणेन्द्रियज्ञानेन समनन्तरप्रत्ययेन जनितं तन्मनोविज्ञानम् । (२)
१।१० सर्वचित्तचैत्तानामात्मसंवेदनम् । (३)
१।११ भूतार्थभावनाप्रकर्षपर्यन्तजं योगिज्ञानं चेति । (४)
१।१२ तस्य विषयः स्वलक्षणम् ।
१।१३ यस्यार्थस्य सन्निधानासन्निधानाभ्यां ज्ञानप्रतिभासभेदस्तत्स्वलक्षणम् ।
१।१४ तदेव परमार्थसत् ।
१।१५ अर्थक्रियासामर्थ्यलक्षणत्वाद्वस्तुनः ।
१।१६ अन्यत्सामान्यलक्षणम्
१।१७ सोऽनुमानस्य विषयः ।
१।१८ अत्देव च प्रत्यक्षं ज्ञानं प्रमाणफलम् ।
१।१९ अर्थप्रतीतिरूपत्वात् ।
१।२० अर्थसारूप्यमस्य प्रमाणम् ।
१।२१ तद्वशादर्थप्रतीतिसिद्धरेति ।

इति प्रथमः प्रत्यक्षपरिच्छेदः ॥

______________________________________________________________


द्वितीयः स्वार्थानुमानपरिच्छेदः

२।१ अनुमानं द्विधा ।
२।२ स्वार्थ परार्थ च ।
२।३ तत्र स्वार्थ त्रिरूपाल्लिङ्गाद्यदनुमेये ज्ञानं तदनुमानम् ।
२।४ प्रमाणलक्षणव्यवस्थात्रापि पूर्ववत् ।
२।५ त्रैरूप्यं पुनर्लिङ्गस्यानुमेये सत्त्वमेव, सपक्ष एव सत्त्वम्, असपक्षे चासत्त्वमेव निश्चितम् ।
२।६ अनुमेयोऽत्र जिज्ञासितविशेषो धर्मी ।
२।७ साध्यधर्मसामान्येन समानोऽर्थः सपक्ष ।
२।८ न सपक्षोऽसपक्षः ।
२।९ ततोऽन्यस्तद्विरुद्धस्तदभावश्चेति
२।१० त्रिरूपाणि च त्रीण्येव लिङ्गानि ।
२।११ अनुपलब्धिः स्वभावः कार्य चेति ।
२।१२ तत्रानुपलब्धिर्यथा- न प्रदेशविशेषे क्वचिद्घटः, उपलब्धिक्षणप्राप्तस्यानुपलब्धेरिति ।
२।१३ उपलब्धिलक्षणप्राप्तिरूपलम्भप्रत्ययान्तरसाकल्यं स्वभावविशेषश्च ।
२।१४ यः स्वभावः सत्स्वन्येषूषलम्भप्रत्ययेषु सन् प्रत्यक्ष एव भवति, स स्वभावविशेषः ।
२।१५ स्वभावः स्वसत्तामात्रप्रभाविनि साध्यधर्मे हेतुः ।
२।१६ यथा- वृक्षोऽयं शिशपात्वादिति ।
२।१७ कार्य यथा- बह्निरत्र धूमादिति ।
२।१८ अत्र द्वौ वस्तुसाधनौ । एकः प्रतिषेधहेतुः ।
२।१९ स्वभावप्रतिबन्धे हि सत्यर्थोऽर्थ गमयेत् ।
२।२० तदप्रतिबद्धस्य तदव्यभिचारनियमाभावात् ।
२।२१ स च प्रतिबन्धः साध्येऽर्थे लिङ्गस्य ।
२।२२ वस्तुतस्तादात्म्यात्तदुत्पत्तेश्च ।
२।२३ अतत्स्वभावस्यातदुत्पत्तेश्च तत्राप्रतिबद्धस्वभावत्वात् ।
२।२४ ते च तादात्म्यतदुत्पत्ती स्वभावकार्ययोरेवेति ताभ्यामेव वस्तुसिद्धिः ।
२।२५ प्रतिषेधसिद्धिरपि यथोक्ताया एवानुपलब्धेः ।
२।२६ सति वस्तुनि तस्या असम्भवात् ।
२।२७ अन्यथा चानुपलब्धिलक्षणप्राप्तेषु देशकालस्वभावविप्रकृष्टेष्वर्थेष्वात्मप्रत्यक्षनिवृत्तेरभवनिश्चयाभावात् ।
२।२८ अमूढस्मृतिसंस्कारस्यातीतस्य वर्तमानस्य च प्रतिपत्तृप्रत्यक्षस्य निवृत्तिरभावव्यवहारप्रसाधनी ।
२।२९ तस्या एवाभावनिश्चयात् ।
२।३० सा च प्रयोगभेदादेकादशप्रकारा ।
२।३१ स्वभावानुपलब्धिर्यथा- नात्र धूम उपलब्धिलक्षणप्राप्तस्यानुपलब्धेरिति । (१)
२।३२ कार्यानुपलब्धिर्यथा- नात्राप्रतिबद्धसामर्थ्यानि धूमकारणानि सन्ति, धूमाभावादिति । (२)
२।३३ व्यापकानुपलब्धिर्यथा- नात्र शिशपा, वृक्षाभावादिति । (३)
२।३४ स्वभावविरुद्धोपलब्धिर्यथा- नात्र शीतस्पर्शो वह्नेरिति । (४)
२।३५ विरुद्धकार्योपलब्धिर्यथा- नात्र शीतस्पर्शो धूमादिति । (५)
२।३६ विरुद्धव्याप्तोपलब्धिर्यथा- न ध्रुवभावी भूतस्यापि भावस्य विनाशः, हेत्वन्तरापेक्षणादिति । (६)
२।३७ कार्यविरुद्धोपलब्धिर्यथा- नेहाप्रतिल्बद्धसामर्थ्यानि शीतकारणानि सन्ति, वह्नेरिति । (७)
२।३८ व्यापकविरुद्धोपलब्धिर्यथा- नात्र तुषारस्पशो वह्नेरिति । (८)
२।३९ कारणानुपलब्धिर्यथा- नात्र धूमो वह्न्यभावादिति । (९)
२।४० कारणविरुद्धोपलब्धिर्यथा- नास्य रोमहर्षादिविशेषाः, सन्निहितदहनविशेषत्वादिति । (१०)
२।४१ कारणविरुद्धकायपिलब्धिर्यथा- न रोमहर्षादिविशेषयुक्तपुरुषावानयं प्रदेशः, धूमादिति । (११)
२।४२ इमे सर्वे कार्यानुपलब्ध्यादयो दशानुपलब्धिप्रयोगाः स्वभावानुपलब्धौ संग्रहमुपयान्ति ।
२।४३ पारम्पर्येणार्थान्तरविधिप्रतिषेधाभ्यां प्रयोगभेदेऽपि ।
२।४४ प्रयोगदर्शनाभ्यासात्स्वयमप्येवं व्यवच्छेदप्रतीतिर्भवति स्वार्थेऽप्यनुमानेऽस्याः प्रयोगनिर्देशः ।
२।४५ सर्वत्र चास्यामभावव्यवहारसाधन्यामनुपलब्धौ येषां स्वभावविरुद्धदीनामुपलब्ध्या कारणादीनामनुपलब्ध्या च प्रतिषेध उक्तस्तेषामुपलब्धिलक्षणप्राप्तानामेविपलब्धिश्च वेदितव्या ।
२।४६ अन्येषां विरोधकार्यकारणभावासिद्धेः ।
२।४७ विप्रकृष्टविषया पुनरनुपलब्धिः प्रत्यक्षानुमाननिवृत्तिलक्षणा संशयहेतुः ।
२।४८ प्रमाणनिवृत्तावप्यर्थाभावासिद्धेरिति ।

इति द्वितीयः स्वार्थानुमानपरिच्छेदः ॥

______________________________________________________________


तृतीयः परार्थानुमानपरिच्छेदः

३।१ त्रिरूपलिङ्गाख्यानं परार्थमनुमानम् ।
३।२ कारणे कार्योपचारात् ।
३।३ तद्द्विविधम् ।
३।४ प्रयोगभेदात् ।
३।५ साधम्यवद्वैधम्यवच्च ।
३।६ नानायोरर्थतः कश्चिद्भेदः ।
३।७ अन्यत्र प्रयोगभेदात् ।
३।८ तत्र साधर्म्यवत्प्रयोगः- यदुपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते सोऽसद्व्यवहारविषयः सिद्धः । यथा- अन्यो दृष्टः कश्चिद्शशविषाणादिः । नोपलभ्यते च क्वचित्प्रदेशविशेषे उपलब्धिलक्षणप्रापो घट इत्यनुपलब्धिप्रयोगः ।
३।९ तथा स्वभावहेतोः प्रयोगः- यत्सत्तत्सर्वमनित्यम्, यथा घटादिरिति शुद्धस्य स्वभावहेतोः प्रयोगः ।
३।१० यदुत्पत्तिमत्तदनित्यमिति स्वभावभूतधर्मभेदेन स्वभावस्य प्रयोगः ।
३।११ यत्कृतकं तदनित्यमित्युपाधिभेदेन ।
३।१२ अपेक्षितपरव्यापारो हि भावः स्वभावनिष्पत्तौ कृतक इति ।
३।१३ एवं प्रयत्नान्तरीयक- प्रत्ययभेदभेदित्वादयोऽपि द्रष्टव्याः ।
३।१४ सन्नुत्पत्तिमान् कृतको वा शब्द इति पक्षधर्मोपदर्शनम् ।
३।१५ सर्व एते साधनधर्मा यथास्वं प्रमाणैः सिद्धसाधनधर्ममात्रानुबन्धे एव साध्यधर्मेऽवगन्तव्याः ।
३।१६ तस्यैव तत्स्वभावत्वात् ।
३।१७ स्वभावस्य च हेतुत्वात् ।
३।१८ वस्तुतस्तयोस्तादात्म्यम् ।
३।१९ तन्निष्पत्तावनिष्पन्नस्य तत्स्वभावत्वाभावात् ।
३।२० व्यभिचारसम्भवाच्च ।
३।२१ कार्यहेतोः प्रयोगः - यत्र धूमस्तत्राग्निः । यथा महानसादौ । अस्ति चेह धूम इति ।
३।२२ इहापि सिद्धे एव कार्यकारणभावे कारणे साध्ये कार्यहेतुर्वक्तव्यः ।
३।२३ वैधर्म्यवतः प्रयोगः- यत्सदुपलब्धिलक्षणप्राप्तं तदुपलभ्यत एव । यथा नीलादिविशेषः । न चैवमिहोपलब्धिलक्षणप्राप्तस्य सत उपलब्धिर्घटस्येत्यनुपलब्धिप्रयोगः ।
३।२४ असत्यनित्यत्वे, नास्ति सत्त्वमुत्पत्तिमत्त्वं कृतकत्वं वा । संश्च शब्द उत्पत्तिमान् कृतको वेति स्वभावहेतोः प्रयोगः ।
३।२५ असत्यग्नौ न भवत्येव धूमः । अत्र चास्ति धूम इति कार्यहेतोः प्रयोगः ।
३।२६ साधर्म्येणापि हि प्रयोगेऽर्थाद्वैधर्म्यगतिरिति ।
३।२७ असति तस्मिन् साध्येन हेतोरन्वयाभावात् ।
३।२८ तथा वैधर्म्येणाप्यन्वयगतिः ।
३।२९ असति तस्मिन् साध्याभावे हेत्वभावस्यासिद्धेः ।
३।३० नहि स्वभावप्रतिबन्धेऽसत्येकस्य निवृत्तावपरस्य नियमेन निवृत्तिः ।
३।३१ स च द्विप्रकारः- सर्वस्य तादात्म्यलक्षणस्तदुत्पतिलक्षणश्चेत्युक्तम् ।
३।३२ तेन हि निवृत्ति कथयता प्रतिबन्धो दर्शनीयः । तस्मात्निवृत्तिवचनमाक्षिप्तप्रतिबन्धोपदर्शनमेव भवति । यच्च प्रतिबन्धोपदर्शनं तदेवान्वयवचनमित्येकेनापि वाक्येनान्वयमुखेन व्यतिरेकमुखेन वा प्रयुक्तेन सपक्षासपक्षयोर्लिङ्गस्य सदसत्त्वख्यापनं कृतं भवतीति नावशयं वाक्यद्वयप्रयोगः ।
३।३३ अनुपलब्धावपि - यत्सदुपलब्धिलक्षणप्राप्तंतदुपलभ्यत एवेत्युक्ते, अनुपलभ्यमानं तादृशमसदिति प्रतीरेरन्वयसिद्धिः ।
३।३४ द्वयोरप्यनयोः प्रयोगयोर्नावश्यं पक्षनिर्देशः ।
३।३५ यस्मात्साधर्म्यवत्प्रयोगेऽपि यदुपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते, सोऽसद्वयवहारविषयः । नोपलभ्यते चात्रोपलब्धिलक्षणप्राप्तो घट इत्युक्ते सामर्थ्यादेव नेह घट इति भवति ।
३।३६ तथा वैधर्म्यवत्प्रयोगेऽपि- यः सद्व्यवहारविषय उपलब्धिलक्षणप्राप्तः स उपलभ्यत एव । न तथात्र तादृशो घट उपलभ्यते- इत्युक्ते सामर्थ्यादेव नेह सद्वयवहारविषय इति भवति ।
३।३७ कीदृशः पुनः पक्ष इति निर्देश्यः?
३।३८ स्वरूपेणैव स्वयमिष्टोऽनिराकृतः पक्ष इति ।
३।३९ स्वरूपेणेति साध्यत्वेनेष्टः ।
३।४० स्वरूपेणैवेति साध्यत्वेनैवेष्टो न साधनत्वेनापि ।
३।४१ यथा शब्दस्यानित्यत्वे साध्ये चाक्षुषत्वं हेतुः, शब्देऽसिद्धत्वात्साध्यं भवतीति न पुनस्तदिह साध्यत्वेनैवेष्टम्, साधनत्वेनाप्यभिधानात् ।
३।४२ स्वयमिति वादिना ।
३।४३ यस्तदा साधनमाह ।
३।४४ एतेन यद्यपि क्वचिच्छास्त्रे स्थितः साधनमाह, तच्छास्त्रकारेण तस्मिन् धर्मिण्यनेकधर्माभ्युपगमेऽपि यस्तदा तेन वादिना धर्मः स्वयं साधयितु मिष्टः स एव साध्यो नेतर इत्युक्तं भवति ।
३।४५ इष्ट इति यत्रार्थे विवादेन साधनमुपन्यस्तं तस्य सिद्धिमिच्छता सोऽनुक्तोऽपि वचनेन साध्यो भवति ।
३।४६ तदधिकरणत्वाद्विवादस्य ।
३।४७ यथा परार्थाश्चक्षुरादयः सङ्घातत्वाच्छयनासनाद्यङ्गवदिति । अत्रात्मार्था इत्यनुक्तावप्यात्मार्थतैव साध्या । तेन नोक्तमात्रमेव साध्यम्- इत्युक्तं भवति ।
३।४८ अनिराकृत इति- एतल्लक्षणयोगेऽपि यः साधयितुमिष्टोऽप्यर्थः प्रत्यक्षानुमानप्रतीतिस्ववचनैर्निराक्रियते, न स पक्ष इति प्रदर्शनार्थम् ।
३।४९ तत्र प्रत्यक्षनिराकृतो यथा- अश्रावणः शब्द इति । (१)
३।५० अनुमाननिराकृतो यथा- नित्यः शब्द इति । (२)
३।५१ प्रतीतिनिराकृतो यथा- अचन्द्रः शशीति । (३)
३।५२ स्ववचननिराकृतो यथा- नानुमानं प्रमाणमिति । (४)
३।५३ इति चत्वारः पक्षाभास निराकृता भवन्ति ।
३।५४ एवं सिद्धस्य असिद्धस्यापि साधनत्वेनाभिमतस्य, स्वयं वादिना तदा साधयितुमनिष्टस्य, उक्तमात्रस्य, निराकृतस्य च विपर्येण साध्य इति । तेनैव स्वरूपेणाभिमतो वादिन इष्टोऽनिराकृतः पक्ष इति पक्षलक्षणमनवद्यं दर्शितं भवति ।
३।५५ त्रिरूपलिङ्गाख्यानं परार्थानुमानमित्युक्तम् । तत्र त्रयाणां रूपाणामेकस्यापि रूपस्यानुक्तो साधनाभासः ।
३।५६ उक्तावप्यसिद्धौ सन्देहे वा प्रतिपाद्यप्रतिपादकयो ।
३।५७ एकस्य रूपस्य धर्मिसम्बन्धस्यासिद्धो सन्देहे वासिद्धो हेत्वाभासः ।
३।५८ यथा -ऽअनित्यः शब्दःऽ इति साध्ये चाक्षुषत्वमुभयासिद्धम् ।
३।५९ऽचेतनास्तरवःऽ इति साध्ये सर्वत्वगपहरणे मरणं प्रतिवाद्यसिद्धम्, विज्ञानेन्द्रियायुर्निरोधलक्षणस्य मरणस्यानेनाभ्युपगमात्, तस्य च तरुष्वसम्भवात् ।
३।६०ऽअचेतनाः सुखादयऽ इति साध्ये उत्पत्तिमत्त्वम्, अनित्यत्वं व सांख्यस्य स्वयं वादिनोऽसिद्धम् ।
३।६१ तथा स्वयं तदाश्रयणस्य वा सन्देहेऽसिद्धिः ।
३।६२ यथा वाष्पादिभावेन सन्दिह्यमानो भूतसङ्घातोऽग्निसिद्धावुपदिश्यमानः सन्दिग्धासिद्धः ।
३।६३ यथेह निकुञ्जे मयूरः केकायितादिति ।
३।६४ तदापातदेशभ्रमे ।
३।६५ धर्म्यसिद्धावप्यसिद्धः- यथा सर्वगत आत्मेति साध्ये सर्वत्रोपलभ्यमानगुणत्वम् ।
३।६६ तथैकस्य रूपस्यासपक्षेऽसत्त्वस्यसिद्धावनैकान्तिको हेत्वाभासः ।
३।६७ यथा शब्दस्यानित्यत्वादिके धर्मे साध्ये प्रमेयत्वादिको धर्मः सपक्षविपक्षयोः सर्वत्रैकदेशे वा वर्तमानः ।
३।६८ तथा- अस्यैव रूपस्य सन्देहेऽप्यनैकान्तिक एव ।
३।६९ यथासर्वज्ञः कश्चिद्विवक्षितः पुरुषो राजादिमान् वेति साध्ये वक्तृत्वादिको धर्मः सन्दिग्धविपक्षव्यावृत्तिकः ।
३।७०ऽसर्वज्ञो वक्ता नोपलभ्यतेऽ इत्येवम्प्रकारस्यानुपलम्भस्यादृश्यात्मविषयत्वेन सन्देहहेतुत्वात् । ततोऽसर्वज्ञविपर्याद्वक्तृत्वादेर्व्यावृत्तिः सन्दिग्धा ।
३।७१ वक्तृत्वसर्वज्ञत्वयोर्विरोधाभावाच्च यः सर्वज्ञः स वक्ता न भवतीत्यदर्शनेऽपि व्यतिरेको न सिध्यन्ति, सन्देहात् ।
३।७२ द्विविधो हि पदार्थानां विरोध ।
३।७३ अविकलकारणस्य भवतोऽन्यभावेऽभावाद्विरोधगतिः
३।७४ शीतोष्णस्पर्शवत् ।
३।७५ परस्परपरिहारस्थितलक्षणतया वा भावाभाववत् ।
३।७६ स च द्विविधोऽपि विरोधो वक्तृत्वसर्वज्ञत्वयोर्न सम्भवति ।
३।७७ न चाविरुद्धविधेरनुपलब्धावप्यभावगतिः ।
३।७८ रागादीनां वचनादेश्च कार्यकारणभावासिद्धेः ।
३।७९ अर्थान्तरस्य चाकारणस्य निवृत्तौ न वचनादेर्निवृत्तिः ।
३।८० इति सन्दिग्धव्यतिरेकोऽनैकान्तिको वचनादिः ।
३।८१ द्वयो रूपयोर्विपर्ययसिद्धौ विरुद्धः ।
३।८२ कयोर्द्वयोः?
३।८३ सपक्षे सत्त्वस्य, असपक्षे चासत्त्वस्य । यथा कृतत्वं प्रयत्नानन्तरीय कत्वं च नित्यत्वे साध्ये विरुद्धो हेत्वाभासः ।
३।८४ अनयोः सपक्षेऽसत्त्वम्, असपक्षे च सत्त्वमिति विपर्ययसिद्धिः ।
३।८५ एतौ च साध्यविपर्ययसाधनाद्विरुद्धौ ।
३।८६ ननु च तृतीयोऽपीष्टविघातकृद्विरुद्धः ।
३।८७ यथा परार्थाश्चक्षुरादयः सङ्घातत्वाच्चयनासनाद्यङ्गवदिति ।
३।८८ तदिष्टासंहतपारार्थ्यविपर्ययसाधनाद्विरुद्धः ।
३।८९ स इह कस्मान्नोक्तः?
३।९० अनयोरेवान्तर्भावात् ।
३।९१ नह्ययमाभ्यां साध्याविपर्ययसाधनत्वेन भिद्यते ।
३।९२ नहीष्टोक्तयोः साध्यत्वेन कश्चिद्विशेष इति ।
३।९३ द्वयो रूपयोरेकस्यासिद्धावपरस्य च सन्देहेऽनैकान्तिक ।
३।९४ यथा वीतरागः कश्चित्सर्वज्ञो वा, वक्तृत्वादिति । व्यतिरेकोऽत्रासिद्धः । सन्दिग्धोऽन्वयः ।
३।९५ सर्वज्ञवीतरागयोर्विप्रकर्षाद्वचनादेस्तत्र सत्त्वमसत्त्वं वा सन्दिग्धम्
३।९६ अनयोरेव द्वयो रूपयोः सन्देहेऽनैकान्तिकः ।
३।९७ यथा सात्मकं जीवच्छरीरं प्राणादिमत्त्वादिति ।
३।९८ न हि सात्मकनिरात्मकाभ्यामन्यो राशिरस्ति यत्रायं प्राणादिर्वर्तेत ।
३।९९ आत्मनो वृत्तिव्यवच्छेदाभ्यां सर्वसंग्रहात् ।
३।१०० नाप्यनयोरेकत्र वृत्तिनिश्चयः ।
३।१०१ सात्मकत्वेनानात्मकत्वेन वा प्रसिद्धे प्राणादेरसिद्धेः ।
३।१०२ तस्माज्जीवच्छरीरसम्बन्धी प्राणादिः सात्मकादनात्मकाच्च सर्वस्माद्व्यावृत्तत्वेनासिद्धेस्ताभ्यां न व्यतिरिच्यते ।
३।१०३ न तत्रान्वेति ।
३।१०४ एकात्मन्यप्यसिद्धेः ।
३।१०५ नापि सात्मकादनात्मकाच्च तस्यान्वयव्यतिरेकयोरभावनिश्चयः ।
३।१०६ एकाभावनिश्चयस्यापरभावनिश्चयनान्तरीयकत्वात् ।
३।१०७ अन्वयव्यतिरेकयोरन्योन्यव्यवछेदरूपत्वात्, तत एवान्वयव्यतिरेकयोः सन्देहादनैकान्तिकः ।
३।१०८ साध्येतरयोरतो निश्चयाभावात् ।
३।१०९ एवमेषां त्रयाणां रूपाणामेकैकस्य द्वयोर्द्वयोर्वा रूपयोरसिद्धौ सन्देहे वा यथायोगमसिद्धविरुद्धानैकान्तिकास्त्रयो हेत्वाभासाः ।
३।११० विरुद्धाव्यभिचार्यपि संशयहेतुरुक्तः । स इह कस्मान्नोक्तः?
३।१११ अनुमानविषयेऽसम्भवात् ।
३।११२ न हि सम्भवोऽस्ति कार्यस्वस्वभावयोरुक्तलक्षणयोरनुपलम्भस्य च विरुद्धतायाः ।
३।११३ न चान्योऽव्यभिचारी ।
३।११४ तस्मादवस्तुदर्शनबलप्रवृत्तमागमश्रयमनुमानमाश्रित्व तदर्थविचारेषु विरुद्धाव्यभिचारी साधनदोष उक्तः ।
३।११५ शास्त्रकाराणामर्थेषु भ्रान्त्या विपरीतस्वभावोपसंहारसम्भवात् ।
३।११६ न ह्यस्य सम्भवो यथावस्थितवस्तुस्थितिष्वात्मकार्यानुपलम्भेषु ।
३।११७ तत्रोदाहरणम्- यत्सर्वदेशस्थितैः स्वसम्बन्धिभिर्युगपदभिसम्बध्यते तत्सर्वगतम् । यथाकाशम् । अभिसम्बध्यते च सर्वदेशावस्थितैः स्वसम्बन्धिभिर्युगपत्सामान्यमिति ।
३।११८ तत्सम्बन्धिस्वभावमात्रानुबन्धिनी तद्देशसन्निहितस्वभावता ।
३।११९ न हि यो यत्र नास्ति स तद्देशमात्मना व्याप्नोतीति स्वभावहेतुप्रयोगः ।
३।१२० द्वितीयोऽपि प्रयोगः- यदुपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते न तत्तत्रास्ति । तद्यथा- क्वचिदविद्यमाना घटः । नोपलभ्यते चोपलब्धिलक्षणप्राप्तं सामान्यं व्यक्त्यन्तरालेष्विति । अयमनुपलम्भः स्वभावश्च परस्परविरुद्धार्थसाधनादेकत्र संशयं जनयतः ।
३।१२१ त्रिरूपो हेतुरुक्तः । तावता नार्थप्रतीतिरिति नपृथग्दृष्टान्तो नाम साधनावयव कश्चित् । तेन नास्य लक्षणं पृथगुच्यतेः गतार्थत्वात् ।
३।१२२ हेतोः सपक्षः एव सत्त्वमसपक्षाच्च सर्वतो व्यावृत्तो रूपमुक्तमभदेन । पुनर्विशेषेण कार्यस्वभावयोरुक्तलक्षणयोर्जन्मतन्मात्रनुबन्धो दशनीयावुक्तौ । तच्च दर्शयता- यत्र धूमस्तत्राग्निः, असत्यग्नौ न क्वचिद्धूमा यथा महानसेतरयोः । यत्र कृतकत्वं तत्रानित्यत्वम्, अनित्यत्वाभावे कृतकत्वासम्भवो यथा घटाकाशयोरिति दर्शनीयम् । न ह्यन्यथा सपक्षविपक्षयाः सदसत्त्वे यथोक्तप्रकारे शक्ये दशयितुम् । तत्कार्यतानियमः कार्यलिङ्गस्य, स्वभावलिङ्गस्य च स्वभावेन व्याप्तिः । अस्मिश्चार्थे दर्शिते दर्शित एव दृष्टान्ता भवतिः, एतावन्मात्ररूपत्वान् तस्येति ।
३।१२३ एतेनैव दृष्टान्तदोषा अपि निरस्ता भवन्ति ।
३।१२४ यथा नित्यः शब्दोऽमूर्तत्वात्, कर्मवत्परमाणुवद्घटवदिति । एते दृष्टान्ताभासाः साध्यसाधनधर्मोभयाविकलाः ।
३।१२५ तथा सन्दिग्धसाध्यधर्मादयश्च । यथा- रागादिमानयं वचनाद्रथ्यापुरुषवत् । मरणधर्मायं पुरुषो रागादिमत्त्वाद्रथ्यापुरुषवत् । असर्वज्ञोऽयं(पुरुषो) रागादिमत्त्वाद्रथ्यापुरुषवदिति ।
३।१२६ तथानन्वयोऽप्रदर्शितान्वयश्च । यथा- यो वक्ता स रागादिमान्, इष्टपुरुषवत् । अनित्यः शब्दः कृतकत्वाद्घटवदिति ।
३।१२७ तथा विपरीतान्वयः- यदनित्यं तत्कृतकमिति ।
३।१२८ साधर्म्येण दृष्टान्तदोषाः ।
३।१२९ वैधर्म्येणापि- परमाणुवत्कर्मवदाकाशवदिति साध्याद्यव्यतिरेकिणः ।
३।१३० तथा सन्दिग्धसाध्यव्यतिरेकादयः । यथा- असर्वज्ञाः कपिलादयोऽनाप्ता वा अविद्यमानसर्वज्ञताप्ततालिङ्गभुतप्रमाणातिशयशासनत्वादिति । अत्र वैधर्म्योदाहरणम्- यः सर्वज्ञ आप्तो वा स ज्योतिर्ज्ञानादिकमु पदिष्टवान् । यथा- ऋषभवर्धमानादिरिति । तत्रासर्वज्ञतानाप्ततयोः साध्यधर्मयोः सन्दिग्धो व्यतिरेकः ।
३।१३१ सन्दिग्धसाधनवतिरेको यथा- न त्रयिविदा ब्राह्मणे ग्राह्यवचन कश्चिद्विविक्षितः पुरुषो रागादिमत्त्वादिति । अत्र वेधर्म्योदाहरणम्- ये ग्राह्यवचना न ते रागादिमन्तः, तद्यथा गौतमादयो धर्मशास्त्राणां प्रणेतार इति । गौतमादिभ्यो रागादिमत्त्वस्य साधनधर्मस्य व्यावृत्तिः सन्दिग्धा ।
३।१३२ सन्दिग्धोभयव्यतिरेको यथा- अवितरागाः कपिलादयः, परिग्रहाग्रहयोगादिति । अत्र वैधर्म्यणोदाहरनम्- यो वीतरागो न तस्य परिग्रहाग्रह, यथर्षभादेरिति । ऋषभादेरवीतरागत्वपरिग्रहाग्रहयोगयोः साध्यसाधनधर्मयोः सन्दिग्धो व्यतिरैकः ।
३।१३३ अव्यतिरेको यथा- अवीतरागोऽयं वक्तृत्वात् । वैधर्म्येणोदाहरणम् - यत्रावीतरागत्वं नास्ति, न स वक्ता । यथा - उपलखण्ड इति । यद्यप्युपलखण्डादुभयं व्यावृत्त तथापि सर्वो वीतरागो न वक्तेति व्याप्त्या व्यतिरैकासिद्धेरव्यतिरकः ।
३।१३४ अप्रदर्शितव्यतिरेको यथा- अनित्यः शब्दः कृतकत्वादाकाशवदिति वैधर्म्येण ।
३।१३५ विपरीतव्यतिरेको यथा- यदकृतक तन्नित्यं भवतीति
३।१३६ न ह्येभिर्दृष्टान्ताभासैर्हेतोः सामान्यलक्षणं सपक्ष एव सत्त्वं विपक्षो च सर्वत्रासत्त्वमेव निश्चयेन शक्यं दर्शयितुं विशेषलक्षणं वा । तदर्थापत्त्यैषां निरासो द्रष्टव्यः ।
३।१३७ दूषणा न्यूनताद्युक्तिः ।
३।१३८ ये पूर्वं न्यूनतादयः साधनदोषा उक्तास्तेषामुद्भावनं दूषणम् । तेन परेष्टार्थसिद्धिप्रतिबन्धात् ।
३।१३९ दूषणाभासास्तु जातयः ।
३।१४० अभूतदोषोद्भावनानि जात्युत्तरणीति ।

इति तृतीयः परार्थानुमानपरिच्छेदः ॥

न्यायबिन्दुप्रकरणं समाप्तम्

"https://sa.wikisource.org/w/index.php?title=न्यायबिन्दुः&oldid=340357" इत्यस्माद् प्रतिप्राप्तम्