निरुत्तरतन्त्रम्/सप्तमः पटलः
सप्तमः पटलः
श्रीदेव्युवाच -
भगवन् ! सर्व-जोवानां साक्षी त्वमति-हे प्रभो !
अभिषेकं पुरा प्रोक्तं कीदृशं कथय प्रभो ॥
श्रीशिव उवाच -
अभिषेकं च द्विविधं राज्ञां च ज्ञानिनामपि ।
राजाभिषेकं देवेशि ! वैकादि-क्रियां चरेत् ॥
ज्ञानिनामभिषेकं तु सर्व-तन्त्रेषु गोपितम् ।
कुल-चक्रं क्रमेणैव अभिषेकं चरेत् सुधीः ।।
कुल-नाथं गुरुं वीक्ष्य अभिषेकं गुरुश्चरेत् ।
सर्व-शान्ति-करं पुण्यं सर्व-रोग-निवारणं ।।
धनदं कामदं चैव आयुर्बुद्धि-करं नृणाम् ।
सर्व-सौभाग्य-जननं महा-पातक-नाशनम् ॥
सर्वाशा-पूरकं देवि ! मन्त्र-दोष-प्रणाशनम् ।
सर्वार्थ साधकं देवि ! धन-वृद्धि-करं परम् ॥
अभिचार-हरं सर्वं ग्रह-दोष-निवारणम् ।
भूतावेशादि-शमनं डाकिनीनां भयापहम् ॥
तेजो-वृद्धि-करं देवि ! सर्व-तीर्थ-फल-प्रदम् ।
स्त्री-गतेष्वपि दोषेषु शरीरे मानसे तथा ।।
तक्षकेणापि दंष्टस्य विष-पीडा-विनाशनम् ।
तेजो-ह्रासे बले ह्रासे बुद्धि-ह्रासे धन-क्षये ॥
विकारे देशिकः कुर्यादभिषेकं विचक्षणः ।
असौभाग्ये च नारीणामभिषेकः प्रवर्तते ।।
पूर्णाभिषेकी त्वनन्यानभिषेके प्रवर्तते ।
गुरुत्वं च लभेद् देवि ! कर्मणा चाभिषेकतः ॥
वैष्णवं गाणपत्यं च सौरः शैवः कुलेश्वरि !
अभिषेकः प्रकुर्वीत शाक्तश्च कुल-भूषणः ।।
मन्त्र-तन्त्रं च सर्वेषामभिषेकाद्धि सिध्यति ।
अभिषेकेण सर्वेषामधिकारी भवेद् ध्रुवम् ॥
अभिषेक-कृतो विप्रो ब्रह्मत्वं लभते ध्रुवम्।
अभिषेक-कृतः क्षत्री विप्र-धर्मत्वमागतः ।।
वैश्यः क्षत्रियतां याति शूद्रो वैश्यत्वमागतः ।
अभिषेकेण सर्वेबां बद्धोऽपि बद्धतां त्यजेत् ।।
ब्राह्मणस्य सुरा-पाने ब्राह्मण्यं त्यजते क्षणात् ।
अभिषेक-कृते विप्रे सुरा-पानं विधीयते ॥
आगमः पञ्चमो वेदः कुलमाश्रयः पार्वति !
शिवोऽपि पञ्चमो वर्णः सिद्ध-विद्यां जपेद् यतः ॥
सुवर्णत्वं परित्यज्य शिवत्वं सम्प्रजायते ।
अभिषेकं विना नैव ब्राह्मणः तु पिबेत् सुराम् ।।
प्रगृह्य सिद्ध-विद्यां च सङ्केतज्ञस्ततो भवेत् ।
सङ्केतज्ञः कुलागारे नाभिषेकं समाचरेत् ।।
अभिषेक-कृतो मन्त्री कुल-पूजां समाचरेत् ।
कुल-पूजा-कृतो मन्त्री पितृ-भूमि समाश्रयेत् ।।
पितृ-भूमि-कृतं स्थानं एकाकी विहरेत् सदा ।
एकाकी विहरेद् वीरः प्रान्तरे च त्रिप्रान्तरे ॥
तत्र सिद्धिं लभेद् देवि ! देवानामपि दुर्लभाम् ।
कुलाचारं विना देवि ! तन्त्र-मन्त्रं न सिद्धयति ॥
सिद्ध-विद्या कुलागारे द्रुतं सिद्धचति निश्चितम्।
अभिषेक-कृतो विप्रः सुरां दद्याद्युगे युगे ॥
सुरां पीत्वा जपेद् विद्यां कुलागारे विशेषतः।
विजया चानुकल्पं च सुराभावे निवेदयेत् ॥
आनन्देन विना भ्रंशो न च तृप्पन्ति देवताः ।
पञ्चमेनार्चयेत् कालीं कामाख्यायां विशेषतः ॥
कामाख्यायां विशेषेण कालिका सिद्धिदा भवेत् ।
कुलाचारं विना देवि! काली-मन्त्रः न सिद्धयति ।।
अभिषेकं विना देवि ! कुल-कर्म करोति यः ।
तस्य पूजादिकं कर्म चाभिचाराय कल्प्यते ॥
अभिषेकं विना देवि ! सिद्ध-विद्यां ददाति यः ।
तावत् कालं वसेद् घोरे यावच्चन्द्र-दिवाकरौ ॥
ब्रह्मत्वं च हरित्वं च शिवत्वं च कुलेश्वरि !
दिव्यो वीरश्च देवेशि ! कुल-भक्ति-परायणः ।
अभिषेकं चरेद् धीमान् मोक्षार्थी कुल-कर्मसु ।।
विमुखः कुल-धर्मेषु कुल-द्रव्य-परायणः ।
स याति नरकं घोरं काकं वा पर-जन्मनि ॥
तस्मात् सर्व-प्रयत्नेन अभिषेकं समाचरेत् ।
अभिषेकं चरेद् देवि ! अधिवास-पुरःसरम् ॥
वृद्धि-श्राद्धं ततः कुर्याच्छिव-शक्तिं प्रपूजयेत् ।
गुरुं सम्पूज्य विधिवत् स्वर्णालङ्कार-भूषणैः ।।
ततः सङ्कल्प-विधिना गुरूणां वरणं चरेत् ।
ततः पूजां चरेद् देव्यां पञ्चमैश्च पृथक् पृथक् ॥
प्रणम्य सद्गुरुं देव-देवीं च साधकेश्वरः ।
गुरु-पूजां विधायाथ देव्या ध्यानपरायणः।।
अभिषेकं विधायाथ शुचौ देशे च देशिकः।
शून्यागारे नदी-तीरे बिल्व-मूले त्रिपान्तरे।।
महा-त्रिपान्तरे वापि निर्जने पितृकानने।
ग्रामे पातालके वापि पर्वते तटिनी-तटे ॥
देवतायतने वापी स्थानं परिचिन्तयेत् ।
॥ इति श्री निरुत्तर-तन्त्रं शिव-पार्वती-सम्वादे सप्तमः पटलः ।।