सामग्री पर जाएँ

निरुत्तरतन्त्रम्/षष्ठः पटलः

षष्ठः पटल:

श्रोदेव्युवाच -

रजनी-पूजनादेव द्रुतं सिद्धिं कथं भवेत् ?

तत्त्वं कथय मे सर्वं यद्यहं तव वल्लभा ॥

श्रीशिव उवाच-

शृणु देवि ! प्रवक्ष्यामि लोक-संशय-भेदकम् ।

यस्य विज्ञान-मात्रेण जीवन्मुक्तिः प्रजायते ॥

अज्ञान-तिमिराच्छन्ना आवयोः स्मृति-वर्जिताः ।

उन्मज्जन्ति निमज्जन्ति संसार-जलधौ जनाः ॥

सर्वा नार्यस्त्वमेवासि सर्वेऽहं पुरुषाः प्रिये !

एतद्-विज्ञान-मात्रेण जायते सिद्धि-भाजनाः ॥

श्रीदेव्युवाच -

सर्वज्ञ ! जगतां नाथ ! सर्व-लोक-हिते रत !

केनैतत् द्रुत-सिद्धिः स्यात् तन्मे ब्रूहि कुलेश्वर ॥

श्रीशिव उवाच -

चपलासि वरारोहे ! हेम-गौराङ्गि पार्वति !

संसार-भेदकं ज्ञानं कथं ते कथयाम्यहम् ॥

श्रीदेव्युवाच -

चपलाहं सावहिता महादेव ! भवाम्यहम् ।

संसार-भेदकं तत्त्वं कथयस्व कृपां कुरु ॥


संसार-भेदकं ज्ञानं न प्रकाश्यं कदाचन ।

प्रकाश्यते यदा यस्मिन् स हि मत्सदृशो भवेत् ॥

भीत्या वाकर्षिता प्रीत्या धनाद्वा हीनजा तथा ।

चार्वङ्गी सस्मिता प्रीता यौवनाहित-विग्रहा ॥

वीक्ष्यमाणा तनु-क्षीणे प्रोक्षणस्य च तत्परा ।

आनीय वीरभावेन सुप्रीता चार्घ्य-दानतः ।।

विस्तीर्णमासनं दत्त्वा भवत्या ध्यानतत्परः ।

स्वयं मत्सदृशो भूत्वा निःस्पृहो विगत स्पृहः ।।

बिन्दु-मात्रेण मदन-सद्मनि निधाय चक्रम् ।

वश-कारी गिरीन्द्र-जाता आज्ञा करस्य रजनीमथवा ॥

निशीथे तु बलिं दत्वा निरुक्त-विधिना ततः ।

आवयोः प्रीति-जनकं ध्यात्वा तत्पर-कर्मणा ।।

न कार्यः कर्म-सन्देहो घृणा-लज्जा-विवर्जितः ।

भवत्या भावमापन्नः प्रकृति-सस्मित-प्रदः ॥

उत्तरादेव फलं तस्मिन् पुंसि तद्भावमागते ।

मनोजा सा तु विज्ञाने क्रमेण परितोषिता ।।

किं दातासि वरं त्वं मे मधु-ताम्बूल-तर्पिते ।

स्थिर-धीर्निरीक्ष्यमाणे तव चक्रं रति-विग्रहं वीरः ॥

अयुतमथवा सहस्रं शतमष्टाधिकं जपेन्मनुम् ।

स तु कार्तिकेय-विक्रमो मत्तस्य मम भावं प्रयाति ॥

विप्रास्ते मम पर्वणि नित्यं योगीन्द्रो भावना-निपुणः ।

कुरुते गुरूपविष्टं भुवि भरव-भावमर्हति ।।

कथयामि वरारोहे ! शृणु तत्त्वं परात्परम् ।

कथितं नैव कस्मैचित् यदि संसारमिच्छति ।

स्त्री-पुंसोः सङ्गमे सौख्यं जायते तत्परं पदम् ।

तदावयोश्च विन्यस्तं याभ्यां ताभ्यां कृतं नहि ॥

भाजनः सर्व-विद्यानां ब्राह्मणः कामिनी-गणे ।

वीराणां जायते श्रेष्ठो भुवि भुवि इवास्पदं ।।

आवयोर्मनसा प्रीतिं यः कुर्याद् विजितेन्द्रियः ।

योऽसौ कालीं भजेद् भक्त्या स एव हि न चान्यथा ।।

यः करोति सपर्यां ते देवि ! सद्गुरु-मार्गतः ।

सन्देहो नैव कर्तव्यो यदि संसिद्धिमिच्छति ।।

मनोरूपा हि संसिद्धिर्जायते नात्र संशयः ।

कुलागारे लभेत् सिद्धि देवानामपि दुर्लभाम् ॥

वर्तमाने पूजने तु यदि सन्देह-भाजनः ।

लभते नैव संसिद्धिर्जन्म-कोटि-सहस्रकः ।।

इति कथितं परं यत् सहसा सिद्धि-विधायकं महेशि !

जगदति-दूरं विशेषतस्ते मृगशावाक्षि ! विधेहि दक्षिणाम् ॥

श्रीदेव्युवाच -

प्रेयसी तव देवेश ! गिरीन्द्रस्य च नन्दिनी ।

दक्षिणा कीदृशी नाथ! वद तां च वदाम्यहं ॥

एवमाकर्ण्य देवेशः सस्मितो लोल-लोचनः ।

स्वं पश्यन् गिरिजां वीक्ष्य श्रृणु देवि ! वरानने ।।

अरुणमरुण-तल्पं तु प्रान्त-देशे निधाय।

पृथुल-कुच-युगलं कोडे प्रौढमालिङ्गनं यत् ॥

स्व-रस-वदनेभ्यः कर्मणा येन वक्षः।

सुतन्वालिङ्गिता दक्षिणा-भेद-सिद्धौ ॥

।॥ इति निरुत्तर-तन्त्रे शिव-पार्वती-सम्वादे षष्ठः पटलः ।।