सामग्री पर जाएँ

निरुत्तरतन्त्रम्/पञ्चमः पटलः

विकिस्रोतः तः

श्रोदेव्युवाच -

कीदृशों रजनीं देवीं पूजयेत् कि निवेदयेत् ?

तस्या वा कीदृशी पूजा तद्-गायत्री च कीदृशी ।।

जयं वा कीदृशं देव पुरुश्चर्या च कोदृशो ?

साधना कोदृशी तस्या वद मे परमेश्वर ॥

श्रीशिव उवाच -

निर्लोभा कामना-हीना निर्लज्जा द्वन्द्व-जिता ।

शिवा सत्व-गता साध्वी स्वेच्छया विपरीतगा ॥

एवं सा रजनी देवो त्रिषु लोकेषु गोपिता ।

आत्मना पूजने सैव समूले कुल-वर्मना ॥

अक्ष्णोरन्तर्गतं ज्योतिर्भ्रुवोरन्तः प्रतिष्ठितम् ।

यतो रूपं परं ज्योतिस्तदेव कुल-मन्दिरे ॥

मनसा साधकं वीक्ष्य क्रीडनात् पतितामृतम् ।

तेनामृतेन मूलेन तर्पयेद् रजनीं स्वयं ॥

कुल-नाथं कुलागारे नियोज्य भावयेच्छिवाम् ।

श्वासोच्छ्‌वासे च गायत्रीं त्वजपा-ब्रह्म-रूपिणीम् ॥

अजपा रजनी गायत्री ब्रह्म-गायत्री च योगिनाम् ।

अजपा रजनी गायत्री रजन्यां रजनीं जपेत् ॥

न जपेद् दिवसे विद्वान् ब्रह्म-विद्यात्मिकां परां ।

जपेन्नरकमाप्नोति इहैव दुःख-भाग् भवेत् ॥

कला-नाथं समानीय नियोज्य कुल-मन्दिरे ।

योजयित्वा जपेन्मन्त्रं कुलकेन च ताडयेत् ॥

विंशत्या महती पूजा शतेन शतधा भवेत् ।

रजन्याः कथिता पूजा ध्यानं च तत्त्व-चिन्तनम् ॥

सङ्केतज्ञः कला-नाथं साधयेदेकचेतसा ।

रजनी-मूल-योगेन निर्वाण-पदवीं व्रजेत् ॥

शठं च चुल्लुकं धूर्तं सङ्केत-हीन-दाम्भिकम् ।

सन्त्यज्य साधयेद् विद्यां महा-मोक्ष-प्रदायिनीम् ॥

धनाद्वा कामतो वापि लोभाद्वा निज-मन्दिरम् ।

कारयेद् यदि सा पूजा रौरवं नरकं व्रजेत् ॥

सङ्केतज्ञं दृढं ज्ञात्वा साधनं शिव-साधनं ।

अन्यथा दुःखमाप्नोति स याति नरकं ध्रुवम् ॥

प्रकृत्यथ व्रजेद्वापि ज्ञात्वा यच्च प्रपूजयेत् ।

सोऽपि निर्वाणतां प्राप्य पुनरावृत्य भूतले ॥

अभेद-प्रकृतिं ज्ञात्वा जप-होमादिकं चरेत् ।

सर्व-देव-स्वरूपं च सर्व-मन्त्र-स्वरूपिणी ।।

प्रकृतिस्तत्वमास्थाय कैवल्यं याति निश्चितम् ।

प्रकृतेस्तत्वविद् देवि ! न स योनौ प्रजायते ॥

अशोधितमनाचर्य स्त्रीषु मध्येषु सुव्रते।

स्वीकारे सिद्धि-हानिः स्याद् रौरवं नरकं व्रजेत्।

क्षुधार्तश्च तृषार्तश्च कालिकां नैव पूजयेत् ।

पूजयेद् यदि देवेशि ! कुद्धा भवति कालिका।।

साधके क्षोभमापन्ने देवी-क्षोभः प्रजायते ।

तस्माद् भुक्त्वा च पीत्वा च पूजयेत् कालिकां शुभाम् ॥

विना पीत्वा सुरां भुक्त्वा मत्स्य-मांसं रजस्वलां ।

यो जपेद् दक्षिणां कालीं तस्य दुःखं पदे पदे ।।

दिव्य-भावं वीर-भावं विना कालीं प्रपूजयेत् ।

पूजने नरकं याति तस्य दुःखं पदे पदे ॥

लतासवं विना देवि ! कलौ कालीं न पूजयेत् ।

पशु-भावाश्रितो देवि ! यदि कालीं प्रपूजयेत् ॥

रौरवं नरकं याति यावदाहुत-सम्प्लवम् ॥

लता-दर्शन-मात्रेण कालिका-दर्शनं भवेत् ॥

दृष्ट्वा च सुन्दरीं शक्तिं कालीं तत्रैव चिन्तयेत् ।

शून्यागारे श्मशाने वा प्रान्तरे निर्जने वने ।।

नदी-तीरे पर्वते वा शक्तिं तत्र प्रपूजयेत् ।

एकाकी पूजयेच्छक्तिं निःशङ्को भयवर्जितः ॥

गुरुं विना न सङ्गी स्यात् सङ्गी स्यान्नरकं व्रजेत् ।

सङ्गाच्च धन-हानिः स्यात् सर्वं सङ्गाद् विनश्यति ॥

मातङ्गीं च तथा धूम्नां वगलां भुवनेश्वरीम् ।

राज-राजेश्वरीं बालां त्वरितां महिष-मर्दिनीम् ॥

कलावेताश्चासवैश्च पूज्याश्च दक्षिणां विना ।

ब्राह्मणो वीर-भावेन सुरां पीत्वा जपन्मनुम्॥

सुराभावे च गो-क्षीरं द्विजो दद्यात् युगे युगे ।

द्रव्याभावे चानुकल्पैः पूजयेत् पर-देवतां ।।

एकादश्यां व्यतीपाते कर्म-लोपनं न कारयेत् ।

न कृते च गुरोरर्चां क्रमात् कोऽपि प्रलीयते ॥

केवलं विषयासक्तः पतत्येव न संशयः ।

अग्र-चक्रं वीर-भावं तत् कार्यं गुरु-सन्निधौ ॥

तदभावे भ्रातृभिः सार्द्धं कार्यं चैव विधानतः ।

पृथक् पात्रे पिबेद् द्रव्यं पृथक् पात्रे च भोजनम् ॥

शक्ति-युक्तं वसेद् वापि युग्मं युग्म-विधानतः ।

शक्त्युच्छिष्टं पिबेन्मद्यं वीरोच्छिष्टं च चर्वणम् ॥

स्व-ज्येष्ठस्य च भोक्तव्यं कनिष्ठस्य न भोजयेत् ।

निज-शक्तिं विना देवि ! शक्त्युच्छिष्टं पिबेद् यदि ॥

रौरवे नरके घोरे यावदिन्द्राश्चतुर्दश ।

एकासने वसेद् यस्तु भुञ्जीत चैक-भाजने ॥

परस्परमुप-स्पर्शेत् स याति नरकं ध्रुवम् ।

एकासनस्थो यो वोरो दिव्यो वा कुल-सुन्दरि ।।

सुधां पीत्वा वीर-चक्रे रौरवं नरकं व्रजेत्।

महा-सिद्धीश्वरो वापि भुङ्क्ते पीत्वा परस्परम् ॥

सिद्धि-हानिः पुरस्कृत्य स याति नरकं ध्रुवम् ।

विना शक्तिं पिबेद् द्रव्यं वीरो गुरु-परायणः ।

तथापि नरके घोरे पतत्येव न संशयः ।

शक्त्यभावे कुलेशानि ! तद्द्रव्यं जलतः क्षिपेत् ॥

गुरु-भावे तद्-भागं च जलतो विनिवेदयेत् ।

।। इति श्रीनिरुत्तर-तन्त्रे शिव-पार्वती-सम्वादे पञ्चमः पटलः ।॥