सामग्री पर जाएँ

निरुत्तरतन्त्रम्/पञ्चदशः पटलः

पञ्चदशः पटलः

श्रीदेव्युवाच -

देव-देव महा-देव कुल-मार्ग-प्रकाशक !

पञ्चमं कीदृशं द्रव्यं तेषां शुद्धिस्तु कीदृशी ॥

तत्प्रकाशय सम्यङ् मे मयि नाथ ! कृपां कुरु ।

श्रीशिव उवाच -

मद्यं मांसं तथा मीनं मुद्रा मैथुन-पञ्चमं ।

एषां शुद्धि प्रवक्ष्यामि मन्त्र-कोष-क्रमेण च ॥

निशीथे मुक्त-केशश्च सुकुलं वाम-भागतः ।

संस्थाप्य न्यास-जालं च तद्-गात्रे विन्यसेत् क्रमात् ॥

स्व-गात्रे च ततो न्यस्य न्यास-जाल-क्रमेण च ।

भूत-शुद्धिविधेया च वर्ण-न्यासं ततश्चरेत् ॥

अङ्ग-न्यास-कर-न्यासौ लिपि-न्यासं तु तत्परम्।

ततोऽन्तर्मातृकां कृत्वा मातृका-न्यासमाचरेत् ॥

प्राणायामं ततः कृत्वा ऋषि-न्यासं ततः परं ।

पीठ-न्यासं व्यापकं च काली-कुलस्य पूजने ॥

क्रम-भङ्गो भवेन्नैव भवेच्च विफलं ध्रुवम्।

जप-पूजादिकं कर्म सर्वं निष्फलतामियात्।।

तस्मात् सर्व-प्रयत्नेन क्रम-भङ्ग न कारयेत् ।

जीव-न्यासं व्यापका दौ विद्या-राज्ञीं प्रपूजयेत् ॥

बोढा-न्यासं नील-कण्ठं कामं च परि-कीर्तितं ।

ततो ध्यात्वा महा-कालीं मानसैः परि-पूजयेत् ।।

ततश्च पञ्चमं शुद्धं विशेषार्ध्य ततःपरम्।

ततः कुलं च सम्पूज्य पञ्चानां शुद्धिमाचरेत् ।।

स्व-वामे विन्दु-षट्-कोणं वृत्तं च चतुरस्रकं ।

चतुर्दारं च संलिख्य सामान्यार्थ्योदकेन च ॥

अभ्युक्षणं ततः स्थानं तत्न देवीं विचिन्तयेत् ।

नम इति क्षालिताधार-यन्त्रं संस्थाप्यः पूजयेत् ॥

वह्न देश-कलां तत्त्र पूजयेंद् विधि-पूर्वकम् ।

आद्यष्ट-देव्यः सम्पूज्याः तथा धूम्रार्चिका कला ॥

पूर्वं त्रि-पदिकामिष्ट्‌वा गन्ध-पुष्पेण पूजयेत् ।

अष्टदिक्षु च सूर्यस्य द्वादशीं कलां ॥

ततश्च रक्त-वस्त्रेण वेष्टयेद् घटमुत्तमं ।

घटं सम्पूरयेद् देवि ! हेतुना मूलमुच्चरन् ।॥

ॐ अमृतादिक-सोमस्य कलास्तत्रैवं पूजयेत् ।

तत्रापि पञ्च-मुद्राभिः प्रणम्य तु कुलेश्वरि ॥

नितम्ब-सवशाकारैर्नमो करतलद्वयम्।

ह्रीं नमः इति नमस्कुर्यात् चतुरस्त्रा तु सा स्मृता ॥

पुटाकार करं बध्वा मुष्टि-बद्धं च भू-तले ।

विधाय च नमस्कुर्यात् ह्रीं नमः सम्वृताः स्मृताः ॥

कृत्वा पुटाञ्जल भूमौ क्लीं नमः प्रणमेत् प्रित्रे !

कथिता सम्पुटा मुद्रा शृणु देवि ! पुटाञ्जल ॥

वृद्धा-कनिष्ठयोर्मूले निःक्षिप्य च पुटाञ्जलिम् ।

कृत्वा च हूं नमो भूमौ प्रणमेत् सा पुटाञ्जलिः ॥

सः नमो योनि-मुद्रायाः पञ्च-मुद्राः प्रकीर्तिताः ।

ततः कुम्भ-समीपे तु चन्दनेन च संलिखेत् ।।

त्रिकोण-वृत्त-भू-बिम्बं तत्र सर्व-पथिकाय च ।

पूजयित्वा बलिं तत्र निधाय परमेश्वरि ॥

माया-त्रि-सर्व-पथिकाभ्यो नमः प्रिये !

बलिमुत्सृज्य देवेशि ! तत्त्व-मुद्रा-क्रमेण च ॥

वाम-हस्तेन तत्त्वस्य मुद्रां बध्वा महेश्वरि !

त्रि-परिभ्राम्य मूलेन द्रव्योपरि कुलेश्वरि ॥

देवता-पश्चिमे भागे स्थापयेत् तत् कुलेश्वरि !

एवं सुधूपितं कृत्वा पञ्चीकरणमाचरेत् ॥

द्रव्यं दर्भेश्चास्त्र-मन्त्रैः सन्ताड्य परमेश्वरि !

हमिति वाम-हस्तेन मुष्टि कृत्वा कुलेश्वरि ॥

अधोमुख्या च तर्जन्या वेष्टयेत् त्रिः कुलेश्वरि !

मूलेन वीक्षणं देवि ! अस्त्रेणाभ्युक्षणं चरेत् ॥

त्रि-सुगन्धश्च मूलेन गृह्णीयात् परमेश्वरि !

पञ्चीकरणमित्युक्तं क्रमशो विद्धि पार्वति ॥

कुम्भे पुष्पं ततो दत्त्वा प्रणवेन कुलेश्वरि !

त्रिकोणं तत्र संलिख्य तन्मध्ये च हसौः प्रिये ॥

ह्सौः ह्सौः नमोऽन्तेन त्रिश्च तत्र प्रपूजयेत् ।

प्रणवं पूर्वमुच्चार्य वरुणं तदनन्तरं ।।

बामदेवं ततो डेन्तं वौषट् मन्त्रेण पूजयेत् ।

सम्पूज्य वाम-देवं च पशुति ततो यजेत् ॥

प्रणवं कूर्च-वीजं च ङेन्तं पशु-पतिं ततः ।

कूर्च-युग्ममस्त्र-वीज-मन्त्रे पशुर्पात यजेत् ॥

माया-वीजं समुच्चार्य काली-वीजं ततः परं ।

ततः परं पदं देवि ! स्वामिनि च ततः परं ॥

परा-कोष-गता देवी शून्य-वाहिनी ततः परं ।

चन्द्र-सूर्याग्नि-भक्षिणी पश्चात् पात्रं च तदनन्तरं ॥

विष-युग्मं वह्नि-जाया दशधा संजपेत् प्रिये !

वाग्भवं भुवना लक्ष्मीः आनन्देश्वर-ङेन्तकं ॥

विद्महे च ततो देवि ! धीमहीति तदनन्तरं ।

इति गायत्रीं त्रिर्जप्त्वा ऋक्-त्रयं च जपेदिति ॥

ॐ रां रीं रूं समुद्धृत्य रैं रौं क्रौं क्रौं क्रस्ततः परं ।

ततः स्वधा कृष्ण-शापं मोचय-द्वय ततः परं ॥

अमृतं स्त्रावय-द्वन्द्वं वह्नि-जाया कुलेश्वरि !

इति द्वादशधा जप्त्वा मन्त्राण्येतानि त्रिर्जपेत् ॥

ॐ एक एव परं-ब्रह्म स्थूल-सूक्ष्म-मयं ध्रुवं ।

कचोद्भवां ब्रह्म-हत्यां तेन ते नाशयाम्यहं ।।

ॐ सूर्य-मण्डल-सम्भूते वरुणालय-सम्भवे ।

अमा-वीज-मये देवि ! शुक्र-शापाद् विमुच्यते ॥

ॐ देवानां प्रणवो वीजं ब्रह्मानन्द-वयं यदि ।

तेन सत्येन मे देवि ! ब्रह्म-हत्यां व्यपोहतु ।

इति मन्त्र-त्रयेणैव त्रिधा समभिमन्त्रय च ।

ह्रीं श्रीं श्रूं श्रींकारेति शोभिनि च ततः परं ।।

ततो विकारानस्येति द्रव्यस्य हरद्वय वह्नि वल्लभा ।

इति त्रयं जप्त्वा द्रीं श्रीं ऐं च ततः परं ॥

इति प्रकाशिनों त्रिश्च जप्त्वा तिरस्करणीं जपेत् ।

ह्रीं क्लीं ऐं श्रौं समुद्धृत्य तिरस्करणी ततः परं ॥

सकल-जन-वाग्वादिनि ततः सकल-पशु-वृते ।

जन-मनश्चक्षुस्ततो देवि ! श्रोत्र-जिह्वा ततः परं ॥

प्राणोक्ति-तिरस्करणं कुरु-युग्मं ततः परं ।

नीलं हयं समधिरुह्य पुरः प्रयान्ती ॥

नीलांशुकाभरण-माल्य-विलेपनाढ्या।

निद्रा-पटेन भुवनानि तिरोदधाना ॥

खड्गेन भुजैर्भगवती परिपातु भक्तान् ।

इति ध्यात्वा कुलेशानि ! इमं मन्त्रं त्रिधा जपेत् ॥

ठः ठः बह्नि-वधूर्वेवि ! द्रव्योपरि त्रिधा जपेत् ।

पवमानः परानन्दः परिमाणः परो रसः ॥

पवमानं परं ज्ञानं तेन त्वां पावयाम्यहं ॥

पावमानं च त्रिर्जप्त्वा वायु-वीजेन शोधयेत् ॥

रमिति वह्नि-वीजेन सन्दह्य प्रणमेदिति ।

काली तारा महाविद्या षोडशी भुवनेश्वरी ॥

भैरवी छिन्नमस्ता च विद्या धूमावती तथा।

वगला सिद्ध-विद्या च मातङ्गी कमलात्मिका ॥

एता दश महा-विद्याः सिद्ध-विद्याः प्रकीर्तिताः ।

काली तारा तथा छिन्ना मातङ्गी भुवनेश्वरी ।।

अन्नपूर्णा तथा नित्या दुर्गा महिष-मर्दिनी ।

त्वरिता त्रिपुरा पुटा भैरवी वगला तथा।

धूमावती तथा ज्ञेया कमला च सरस्वती।।

जय-दुर्गा तथा भद्रे ! तथा त्रिपुर-सुन्दरी ॥

अष्टादश महा-विद्या तन्त्रादौ कथिताः प्रिये !

नात्र काल-विशुद्धिः स्यात् समया समयादिकं ॥

न वार-तिथि-नक्षत्रं न योग करणं तथा ।

सिद्ध-विद्या महा-विद्या युग-सेवा प्रकीर्तिताः ॥

॥ इति श्रीनिरुत्तर-तन्त्रे शिव-पार्वती-संवादे पञ्चदशः पटलः ।।