सामग्री पर जाएँ

निरुत्तरतन्त्रम्/नवमः पटलः

नवमः पटलः

श्रीदेव्युवाच -

देवदेव महादेव सर्व-सिद्धीश्वर प्रभो !

सिद्ध-मन्त्री भवेत् केन कर्मणा वद मे प्रभो ॥

श्रीशिव उवाच -

आनीय मङ्गलं रम्यं कुल-भक्तं कुलार्चने ।

स्व-चक्रं विविधं कृत्वा शक्ति-भाले लिखेत् ततः ।।

तत्र काम-कलां देवीं वीर-कोणे लिखेत् प्रिये !

तन्मध्ये देव-मन्त्रं च विहितं कामलाञ्छितम्।।

तत्र देवीं समावाह्य ध्यात्वा तत्र प्रपूजयेत् ।।

ततो लक्षं च संजप्य स्थिर-धीः कुल-साधकः ॥

ततस्तच्छक्ति-कर्णे च ऋषिच्छन्दः समन्वितं ।

मूल-मन्त्रं विधावृत्या कथयेद् वाम-कर्णके ॥

अद्य प्रभृति शक्तिस्त्वं कुल-देवार्चनं चर ।

गुरोराज्ञां समादाय घृणा-लज्जा-विर्वाजता ।।

शिवोक्त-विधिना सैव करिष्यामि कुलार्चनं ।

त्राहि नाथ ! कुलाचार-कामिनी काम-नायक ॥

त्वत्पदाम्भोरुहच्छायां देहि मे कुल-वर्त्मनि ।

गते च प्रथमे यामे स्व-कुलं कुलिकोपरि ॥

वाम-भागे समासीनं रक्त-वस्त्र-समन्वितं ।

नाना गन्ध-समायुक्तं नाना रत्नेन भूषितं ॥

ललाटे मन्त्रमा लिख्य मध्ये नाम विभितं ।

ताम्बूल-पूरित-मुखस्ताम्बूलारुण-लोचनः ।।

कुलाकुल-जपं कृत्वा ध्रुवमायाति तत्क्षणात् ।

एवमार्काषतो मन्त्री सिद्ध-मन्त्री कुलेश्वरि ॥

तावत् प्रयोगः कर्तव्यो यावत् सिद्धिर्न जायते ।

सिद्ध-मन्त्री कुलाचारे पर-योषां प्रपूजयेत् ॥

सिद्ध-मन्त्री श्मशाने च पर-योषां प्रपूजयेत् ।

योषिदाकर्षणादेव कन्यां चैवावकर्षयेत् ।।

देव-कन्याकर्षणेन देवतां कर्षयेत् तदा ।

आकर्षण-प्रसादेन शिव एव प्रजायते ।।

आकर्षणं विना गच्छेत् तच्छ्रुक्त कौलिकों परां ।

आकर्षणाद् भवेत् सिद्धिर्देवानामपि दुर्लभा ॥

आकर्षणाच्च निर्वाणं लभते नात्र संशयः ।

यावन्न पूजये देवीं रजनीं कुल-मन्दिरे ।।

निर्वाणमपि चाङ्गस्य तावदाविर्भवेत् पुनः ।

प्रकृत्या जायते विश्वं प्रकृत्या च विलीयते ।।

शैवानां वैष्णवानां च सौराणां च महेश्वरि !

स्याच्च निर्वाणमेतेषां मातुराविर्भवन्ति हि ॥

ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ।

सर्वे मुक्ति-प्रदा देवा निर्वाणं श्रेयसं विनां ।।

निर्वाणं श्रेयसं देवि ! प्रकृत्या परिजायते ।


तस्मात् सर्व-प्रयत्नेन प्रकृति परिपूजयेत् ॥

प्रकृतिर्या महामाया सैव प्रकृति-रूपिणी ।

विकृतौ मन्त्र-सिद्धिः स्यात् प्रकृतेः कुहकं गृहे ॥

निर्वाणं श्रेयसं सैव प्रकृतेः कुहकं विना ।

लिखनं मन्त्र-यन्त्राणां पूजनं च जपं प्रिये।

नियतं गुरु-मार्गेण साधको विजने चरेत् ।

तच्चक्रं सिद्धि-मूलं च मन्त्र-यन्त्र-विलेखनात् ॥

मन्त्र-यन्त्रं विना देवि ! कुहकं विकृतेर्यदि ।

न गच्छेत् साधको वीरो न गच्छेन्नरकं व्रजेत् ।।

प्रकृतेः कुहक योनौ यन्त्रे भाले च पार्वति !

असंलिख्य यन्त्राणि दैन्यं गच्छेत् कुल-साधकः ॥

कामाद्वा मोहतो वापि लोभाद्वा वर-र्वाणनि !

प्रकृतेः कुहकं यन्त्रे यजेच्च नरकं व्रजेत् ॥

सिद्धि-मूलं कुलेशानि ! विकृतेः कुहकं स्मृतं ।

तत्र सम्मोहयेत् सर्वं जगदेतच्चराचरं ॥

विकृतेः कुहकापन्नो मन्त्र-तन्त्र-विशारदः।

तद्वरं च परिज्ञाप्य निर्वाणं श्रेयसं व्रजेत् ॥

ब्रह्मणि न न वा विष्णौ न गणेशे षडानने ।

प्रकृतेः कुहकं दानं न कुत्रापि प्रकाशितम् ॥

॥ इति श्रीनिरुत्तर-तन्त्रे शिव-पार्वती-संवादे नवमः पटलः ।।