सामग्री पर जाएँ

निरुत्तरतन्त्रम्/द्वितीयः पटलः

विकिस्रोतः तः

द्वितीयः पटलः

श्रीदेव्युवाच -

देव-देव ! महा-देव ! सृष्टि-स्थिति-लयात्मक !

कीदृशी दक्षिणा कालो तस्या मन्त्रश्च कीदृशः ।।

पूजा वा कीदृशी तस्याः पूजायाः कीदृशं फलं ?

गुरुर्वा कीदृशो देव ! पुरश्चर्या च कीदृशी ॥

साधनं कोदृशं तस्याः फलं तस्य च कोदृशं ?

तत् प्रकाशय सम्यङ् मे येन यामि निरुत्तरम् ॥

श्रीशिव उवाच -

भगं भगवती ज्ञेया दक्षिणा त्रिगुणेश्वरी ।

चराचरमिदं सर्व भग-रूपं कुलेश्वरि ॥

महत्त्वादीनि सर्वाणि त्रिविधं परिकथ्यते ।

हकारार्द्ध-कला सूक्ष्मा योनि-मध्य-स्वरूपिणी ॥

योनिश्च दक्षिणा काली ब्रह्म-विष्णु-शिवात्मिका ।

त्रिकोणे च त्रयो देवाः शिव-विष्णु-पितामहाः ॥

योनि-मध्ये देवि ! वसेद् देवी कालिका कुल-सुन्दरी ।

ज्योति-रूपा महा-काली शुक्र-रूपा प्रपञ्च-सू ॥

शुक्रतो जायते विश्वं शिव-शक्ति-प्रभेदतः ।

शिव-शक्तिद्विधा देवि ! निर्गुणा सगुणापि च ॥

निर्गुणा ज्योतिषां वृन्यं पर-महा सनातनी ।

परं च पुरुषं विद्धि महा-नोल-मणि-प्रभम् ।।

ज्योतिश्च दक्षिणा कालो दूरस्था स्यात् प्रपञ्चसू ।

विपरीत-रता कालो निर्गुणा सगुणापि च॥

अमा स्यानिर्गुणे सापि प्रनिरुद्ध-सरस्वती ।

सगुणा सुर-गर्भे च महा-काल-निरूपिणी ।।

नारी-रूपं समास्थाय सैव विश्वं प्रसूयते ।

विष्णु-माया महा-लक्ष्मीर्मोहयत्यखिलं जगत् ।।

सहवानेय सा देवी योनि-मार्गे चराचरं ।

देव-मार्गमिदं विश्वं देव-मार्ग-निषेवितम् ।।

शिव-शक्ति-मयं तत्त्वं तत्व-ज्ञानस्य कारणं ।

बहूनां जन्मनामन्ते शक्ति-ज्ञानं प्रजायते ॥

शक्ति-ज्ञानं विना देवि निर्वाणं नैव जायते ।

सा शक्तिर्दक्षिणा काली सिद्ध-विद्या-स्वरूपिणी ॥

सिद्ध-विद्यासु सर्वासु दक्षिणा प्रकृतिः पुमान् ।

अविना-भाव-सम्बन्धस्तयोरेव परस्परं।।

शिवोऽपि तत्र युक्तश्चेच्छक्तिः स्याच्छिव-योगतः।

तयोर्योग-मयं तत्त्वं तयोर्योगेन चिन्तनम्।।

तयोयोंगमयं मन्त्रं तयोर्योगन सञ्जपेत् ।

तयोर्मन्त्रं महा-मन्त्रं भोग-मोक्ष-प्रदायकम् ।।

भोगेन लभते मोक्षं सालोक्यादि-चतुष्टयं ।

महा-कल्प-तरुः कालो अनिरुद्ध-सरस्वती ।॥

ब्रह्म-विष्णु-महेशानां भुक्ति-मुक्त्येक कारणं ।

सा काली गुरुतोऽऽराध्या मन्त्र-तन्त्र-स्वरूपिणो ।।

अथ वक्ष्ये कुलेशानि ! दक्षिणा-कालिका-मनुः ।

तेन विज्ञान-मात्रेण जीवन्मुक्तः प्रजायते ।।

ब्रह्मासन-युतं देवि ! नाद-विन्दु-समन्वितम् ।

वाम-नेत्रार्ण-संयुक्तं चित्-स्वरूपं परापरम् ।।

एकाक्षरी सिद्ध-विद्या मन्त्र-राज्ञी कुलेश्वर !

त्रिगुणा च कूर्च-युग्मं लज्जा-युग्मं ततः परं ॥

दक्षिणे कालिके चेति सप्त-वीजानि योजयेत् ।

अन्ते वह्नि-वधूं दद्याद् विद्या-राज्ञी प्रकीर्तिता ॥

सर्व-मन्त्र-मयी विद्या सृष्टि-स्थित्यन्त-कारिणी ।

अपि चेत् त्वत्समा नारी मत्समः पुरुषोऽस्ति चेत् ॥

अनिरुद्ध-सरस्वत्याः समो मन्त्रोऽस्ति वै तदा ।

ब्रह्मा रुद्रश्च विष्णुश्च सर्वे देवा उपासकाः ।।

वेदागम-पुराणेषु वन्दिता कालिका शुभा ।

कालिका काम-पीठेषु सर्व-काम-प्रदायिनी ॥

स्वर्गे मयें च पाताले ये केचित् सन्ति भैरवाः ।

ते सर्वे कालिका-पुत्रास्ते मुक्ता नात्र संशयः ॥

सङ्केत-मार्गाद् देवेशि ! नाभिषेकं गुरु-क्रमात् ।

पूजा-काले विशेषेण तं त्यजेदन्त्यजं यथा ।।

भैरवोऽस्य ऋषिः प्रोक्तः उष्णिक् छन्दः प्रकीर्तितं ।

देवता दक्षिणा-काली अनिरुद्ध-सरस्वती ।॥

ह्रीं वीजं हूं शक्तिश्च क्रीं चैव कीलकं स्मृतं ।

धर्मार्थ-काम-मोक्षेषु विनियोगः प्रकीर्तितः ।।

न्यास-जालं पुरा प्रोक्तं नाना-तन्त्रेषु पार्वति ! ।

न्यास-जाल-युतो मन्त्री वीर-भावेन पूजयेत् ॥

त्रिपञिचीरे महा-पोठे योनि-पोठं प्रपूजयेत् ।

ध्यायेत् कालों करालास्यां पीनोन्नत-पयोधरां ॥

महा-मेघ-प्रभां श्यामां घोर-रावां चतुर्भुजां ।

सद्यश्छिन्न-शिरः खड्ग-वामोद्धृधः-कराम्बुजां।।

अभयं वरदं चैव दक्षिणोर्ध्वाधः पाणिकां ।

पञ्चाशद्-वर्ण-मुण्डाली-गलद्-रुधिर-चर्चितां।।

सृक्क-द्वय-गलद्-रक्त-धारा-विस्फुरिताननां ।

शिवाभिर्घोर-रावाभिश्चतुर्दिक्षु समन्वितां ।।

शवानां कर-सङ्घातैः कृत-काञ्चीं हसन्मुखीं ।

दिगम्बरों मुक्त-केशीं चन्द्रार्ध-कृत-शेखरां ।॥

शव-रूप-महादेव-हृदयोपरि संस्थितां।

महा-कालेन च समं विपरीत-रतातुरां ।।

मदिराघूर्ण-नयनां स्मेरानन-सरोरुहां।

अट्टहासां महा-रौद्रों सर्वदानन्द-कारिणीं ।॥

एवं सञ्चिन्तयेत् कालीं श्मशानालय-वासिनीं ।

एवं ध्यात्वा यजेद् वोरो निशायां कुल मन्दिरे ।।

मानसं पूजनं कृत्वा कुल-पुष्पं समाहरेत् ।

मानसं पूजनं नैव गच्छेत्तु पितृ-कानने ॥

स पापिष्ठो यजेन्नैव कालीं कलुष-हारिणीं ।

उच्चैर्वोच्चारयेन्मन्त्रं मनसा च स्मेरन्मनुं ।।

तत्त्र चावाहनं नेष्टं कामाख्यायां कुलेश्वरि !

आराध्य मनसा भक्त्या बाह्य-पूजामथाचरेत् ।।

आत्म-शुद्धि द्रव्य-शुद्धि कृत्वा पात्त्राणि विन्यसेत् ।

अर्घ्य-पात्त्रादिकं तत्र विन्यसेद् विधि-पूर्वकं ॥

पीठ-पूजां विधायाथ पूजयेत् तत्र देवतां ।

चिन्तयेत् परया भक्त्या विधि-दृष्टेन कर्मणा ।।

आसनं स्वागतं पाद्यमर्थ्यमाचमनीयकं ।

स्नानं वस्त्रोपवीतं च भूषणानि च सर्वशः ॥

गन्धं पूष्पं धूप-दीपौ मधुपर्क ततः परं ।

मन्त्रमुच्चार्य वातव्यं तर्पणं च ततः परं ॥

माल्यानुलेपनं चैव पञ्च पुष्पाञ्जलींस्ततः ।

पुनः प्रपूजयेद् देवीं महा-कालेन लालितां ॥

षोडशोपचार-युक्ता ह्यष्टौ पूजा प्रकीर्तिता ।

अष्टाभिः शक्तिभिश्वापि लोक-पालैश्च सम्मतः ॥

पीठ-मन्त्र-क्रमाद् यागः स मार्गः परमः स्मृतः ।

पीठेनैव समस्तेन बहिरावरणं विना ॥

मन्त्रं पूर्व-कृतो यागो नित्य-यागः स मध्यमः ।

केवलं पुष्प-यागस्तु कनिष्ठ-पूजनं भवेत् ।।

कमलां मुकुटं मूध्नि कर्णे च प्रपूजयेत् ।

कुण्डले ततः ॥ तत आज्ञां समादायावरणं च

गुरु-पंक्तिं ततो देवि ! महा-कालं ततः परं ।

धूम्र-वर्णं महा-कालं जटा-तारान्वितं प्रिये ॥

त्रि-नेत्रं शव-रूपं च शक्ति-युक्तं निरामयं ।

दिगम्बरं घोर-रूपं नीलाञ्जन सम-प्रभं ।॥

निर्गुणं च गुणाधारं काली-स्थानं पुनः पुनः ।

काली कपालिनी कुल्ला प्रथमे च त्रिकोण के ।।

मात्रा-मुद्रा-मिता-देव्यः पञ्चमे च त्रिकोणके ।

दलाष्टे पूजयेद् देवि ! पूर्वादि-क्रम-योगतः ।।

ब्राह्मी नारायणी चैव कौमारी च महेश्वरी ।

अपराजिता च चामुण्डा वाराही नार्शसहिका ॥

चतुर्दारे यजेद् देवि ! असिताङ्गादि-भैरवान् ।

असिताङ्गो रुरुश्चण्डः क्रोधो भीषण एव च ॥


उन्मत्तश्च कपाली च संहारक इति क्रमात् ।

पूर्वादि-क्रमतो देवि ! द्वारि द्वारि द्वयं द्वयं ॥

इन्द्रादि-दश-दिक्-पालान् दश-विक्षु प्रपूजयेत् ।

खड्गं मुण्डं यजेद् वामे हस्ते च कुल-सुन्दरि ॥

पूजयेद् दक्षिणे हस्ते अभयं च वरं तथा ।

पुनश्च पूजयेद् देवीं सायुधां च सवाहनां ।।

कुल्लुकां मूर्ध्नि सञ्जप्य हृदि सेतुं विचिन्तयेत् ।

महा-सेतुं कण्ठ-देशे नाभौ योनिं विचिन्तयेत् ॥

सेतुं तु प्रणवं देवि ! हृदिस्थं तं प्रपूजयेत् ।

निज-वीजं महा-सेतुं कण्ठ-देशे विचिन्तयेत् ॥

सविन्दु-मातृका-युक्त्ता नाभि-मध्ये विचिन्तयेत् ।

काली-कूर्च वधूर्माया फट्‌कारान्तं सुरेश्वरि ।।

पश्वाक्षरी कालिकायाः कुल्लुकां परिचिन्तयेत् ।

तारायाः कुल्लुका देवी महा-नील सरस्वती ।।

श्रन्यासां च वधू-वीजं कुल्लुका परिकथ्यते ।

काली-कुल-प्रवृत्तानां पूजायामेवमाचरेत् ।।

अष्टोत्तर-शतं जप्त्वा पुनः पूजां प्रकल्पयेत् ।

पुनः प्रपूजयेद् देवीं महा-कालेन लालितां ॥

ततस्तु कवचं देवि ! स्तवं च प्रपठेत् ततः ॥

इति श्रीनिरुत्तर-तन्त्रे शिव-पार्वती-संवादे द्वितीयः पटलः ॥