निरुत्तरतन्त्रम्/द्वितीयः पटलः
द्वितीयः पटलः
श्रीदेव्युवाच -
देव-देव ! महा-देव ! सृष्टि-स्थिति-लयात्मक !
कीदृशी दक्षिणा कालो तस्या मन्त्रश्च कीदृशः ।।
पूजा वा कीदृशी तस्याः पूजायाः कीदृशं फलं ?
गुरुर्वा कीदृशो देव ! पुरश्चर्या च कीदृशी ॥
साधनं कोदृशं तस्याः फलं तस्य च कोदृशं ?
तत् प्रकाशय सम्यङ् मे येन यामि निरुत्तरम् ॥
श्रीशिव उवाच -
भगं भगवती ज्ञेया दक्षिणा त्रिगुणेश्वरी ।
चराचरमिदं सर्व भग-रूपं कुलेश्वरि ॥
महत्त्वादीनि सर्वाणि त्रिविधं परिकथ्यते ।
हकारार्द्ध-कला सूक्ष्मा योनि-मध्य-स्वरूपिणी ॥
योनिश्च दक्षिणा काली ब्रह्म-विष्णु-शिवात्मिका ।
त्रिकोणे च त्रयो देवाः शिव-विष्णु-पितामहाः ॥
योनि-मध्ये देवि ! वसेद् देवी कालिका कुल-सुन्दरी ।
ज्योति-रूपा महा-काली शुक्र-रूपा प्रपञ्च-सू ॥
शुक्रतो जायते विश्वं शिव-शक्ति-प्रभेदतः ।
शिव-शक्तिद्विधा देवि ! निर्गुणा सगुणापि च ॥
निर्गुणा ज्योतिषां वृन्यं पर-महा सनातनी ।
परं च पुरुषं विद्धि महा-नोल-मणि-प्रभम् ।।
ज्योतिश्च दक्षिणा कालो दूरस्था स्यात् प्रपञ्चसू ।
विपरीत-रता कालो निर्गुणा सगुणापि च॥
अमा स्यानिर्गुणे सापि प्रनिरुद्ध-सरस्वती ।
सगुणा सुर-गर्भे च महा-काल-निरूपिणी ।।
नारी-रूपं समास्थाय सैव विश्वं प्रसूयते ।
विष्णु-माया महा-लक्ष्मीर्मोहयत्यखिलं जगत् ।।
सहवानेय सा देवी योनि-मार्गे चराचरं ।
देव-मार्गमिदं विश्वं देव-मार्ग-निषेवितम् ।।
शिव-शक्ति-मयं तत्त्वं तत्व-ज्ञानस्य कारणं ।
बहूनां जन्मनामन्ते शक्ति-ज्ञानं प्रजायते ॥
शक्ति-ज्ञानं विना देवि निर्वाणं नैव जायते ।
सा शक्तिर्दक्षिणा काली सिद्ध-विद्या-स्वरूपिणी ॥
सिद्ध-विद्यासु सर्वासु दक्षिणा प्रकृतिः पुमान् ।
अविना-भाव-सम्बन्धस्तयोरेव परस्परं।।
शिवोऽपि तत्र युक्तश्चेच्छक्तिः स्याच्छिव-योगतः।
तयोर्योग-मयं तत्त्वं तयोर्योगेन चिन्तनम्।।
तयोयोंगमयं मन्त्रं तयोर्योगन सञ्जपेत् ।
तयोर्मन्त्रं महा-मन्त्रं भोग-मोक्ष-प्रदायकम् ।।
भोगेन लभते मोक्षं सालोक्यादि-चतुष्टयं ।
महा-कल्प-तरुः कालो अनिरुद्ध-सरस्वती ।॥
ब्रह्म-विष्णु-महेशानां भुक्ति-मुक्त्येक कारणं ।
सा काली गुरुतोऽऽराध्या मन्त्र-तन्त्र-स्वरूपिणो ।।
अथ वक्ष्ये कुलेशानि ! दक्षिणा-कालिका-मनुः ।
तेन विज्ञान-मात्रेण जीवन्मुक्तः प्रजायते ।।
ब्रह्मासन-युतं देवि ! नाद-विन्दु-समन्वितम् ।
वाम-नेत्रार्ण-संयुक्तं चित्-स्वरूपं परापरम् ।।
एकाक्षरी सिद्ध-विद्या मन्त्र-राज्ञी कुलेश्वर !
त्रिगुणा च कूर्च-युग्मं लज्जा-युग्मं ततः परं ॥
दक्षिणे कालिके चेति सप्त-वीजानि योजयेत् ।
अन्ते वह्नि-वधूं दद्याद् विद्या-राज्ञी प्रकीर्तिता ॥
सर्व-मन्त्र-मयी विद्या सृष्टि-स्थित्यन्त-कारिणी ।
अपि चेत् त्वत्समा नारी मत्समः पुरुषोऽस्ति चेत् ॥
अनिरुद्ध-सरस्वत्याः समो मन्त्रोऽस्ति वै तदा ।
ब्रह्मा रुद्रश्च विष्णुश्च सर्वे देवा उपासकाः ।।
वेदागम-पुराणेषु वन्दिता कालिका शुभा ।
कालिका काम-पीठेषु सर्व-काम-प्रदायिनी ॥
स्वर्गे मयें च पाताले ये केचित् सन्ति भैरवाः ।
ते सर्वे कालिका-पुत्रास्ते मुक्ता नात्र संशयः ॥
सङ्केत-मार्गाद् देवेशि ! नाभिषेकं गुरु-क्रमात् ।
पूजा-काले विशेषेण तं त्यजेदन्त्यजं यथा ।।
भैरवोऽस्य ऋषिः प्रोक्तः उष्णिक् छन्दः प्रकीर्तितं ।
देवता दक्षिणा-काली अनिरुद्ध-सरस्वती ।॥
ह्रीं वीजं हूं शक्तिश्च क्रीं चैव कीलकं स्मृतं ।
धर्मार्थ-काम-मोक्षेषु विनियोगः प्रकीर्तितः ।।
न्यास-जालं पुरा प्रोक्तं नाना-तन्त्रेषु पार्वति ! ।
न्यास-जाल-युतो मन्त्री वीर-भावेन पूजयेत् ॥
त्रिपञिचीरे महा-पोठे योनि-पोठं प्रपूजयेत् ।
ध्यायेत् कालों करालास्यां पीनोन्नत-पयोधरां ॥
महा-मेघ-प्रभां श्यामां घोर-रावां चतुर्भुजां ।
सद्यश्छिन्न-शिरः खड्ग-वामोद्धृधः-कराम्बुजां।।
अभयं वरदं चैव दक्षिणोर्ध्वाधः पाणिकां ।
पञ्चाशद्-वर्ण-मुण्डाली-गलद्-रुधिर-चर्चितां।।
सृक्क-द्वय-गलद्-रक्त-धारा-विस्फुरिताननां ।
शिवाभिर्घोर-रावाभिश्चतुर्दिक्षु समन्वितां ।।
शवानां कर-सङ्घातैः कृत-काञ्चीं हसन्मुखीं ।
दिगम्बरों मुक्त-केशीं चन्द्रार्ध-कृत-शेखरां ।॥
शव-रूप-महादेव-हृदयोपरि संस्थितां।
महा-कालेन च समं विपरीत-रतातुरां ।।
मदिराघूर्ण-नयनां स्मेरानन-सरोरुहां।
अट्टहासां महा-रौद्रों सर्वदानन्द-कारिणीं ।॥
एवं सञ्चिन्तयेत् कालीं श्मशानालय-वासिनीं ।
एवं ध्यात्वा यजेद् वोरो निशायां कुल मन्दिरे ।।
मानसं पूजनं कृत्वा कुल-पुष्पं समाहरेत् ।
मानसं पूजनं नैव गच्छेत्तु पितृ-कानने ॥
स पापिष्ठो यजेन्नैव कालीं कलुष-हारिणीं ।
उच्चैर्वोच्चारयेन्मन्त्रं मनसा च स्मेरन्मनुं ।।
तत्त्र चावाहनं नेष्टं कामाख्यायां कुलेश्वरि !
आराध्य मनसा भक्त्या बाह्य-पूजामथाचरेत् ।।
आत्म-शुद्धि द्रव्य-शुद्धि कृत्वा पात्त्राणि विन्यसेत् ।
अर्घ्य-पात्त्रादिकं तत्र विन्यसेद् विधि-पूर्वकं ॥
पीठ-पूजां विधायाथ पूजयेत् तत्र देवतां ।
चिन्तयेत् परया भक्त्या विधि-दृष्टेन कर्मणा ।।
आसनं स्वागतं पाद्यमर्थ्यमाचमनीयकं ।
स्नानं वस्त्रोपवीतं च भूषणानि च सर्वशः ॥
गन्धं पूष्पं धूप-दीपौ मधुपर्क ततः परं ।
मन्त्रमुच्चार्य वातव्यं तर्पणं च ततः परं ॥
माल्यानुलेपनं चैव पञ्च पुष्पाञ्जलींस्ततः ।
पुनः प्रपूजयेद् देवीं महा-कालेन लालितां ॥
षोडशोपचार-युक्ता ह्यष्टौ पूजा प्रकीर्तिता ।
अष्टाभिः शक्तिभिश्वापि लोक-पालैश्च सम्मतः ॥
पीठ-मन्त्र-क्रमाद् यागः स मार्गः परमः स्मृतः ।
पीठेनैव समस्तेन बहिरावरणं विना ॥
मन्त्रं पूर्व-कृतो यागो नित्य-यागः स मध्यमः ।
केवलं पुष्प-यागस्तु कनिष्ठ-पूजनं भवेत् ।।
कमलां मुकुटं मूध्नि कर्णे च प्रपूजयेत् ।
कुण्डले ततः ॥ तत आज्ञां समादायावरणं च
गुरु-पंक्तिं ततो देवि ! महा-कालं ततः परं ।
धूम्र-वर्णं महा-कालं जटा-तारान्वितं प्रिये ॥
त्रि-नेत्रं शव-रूपं च शक्ति-युक्तं निरामयं ।
दिगम्बरं घोर-रूपं नीलाञ्जन सम-प्रभं ।॥
निर्गुणं च गुणाधारं काली-स्थानं पुनः पुनः ।
काली कपालिनी कुल्ला प्रथमे च त्रिकोण के ।।
मात्रा-मुद्रा-मिता-देव्यः पञ्चमे च त्रिकोणके ।
दलाष्टे पूजयेद् देवि ! पूर्वादि-क्रम-योगतः ।।
ब्राह्मी नारायणी चैव कौमारी च महेश्वरी ।
अपराजिता च चामुण्डा वाराही नार्शसहिका ॥
चतुर्दारे यजेद् देवि ! असिताङ्गादि-भैरवान् ।
असिताङ्गो रुरुश्चण्डः क्रोधो भीषण एव च ॥
उन्मत्तश्च कपाली च संहारक इति क्रमात् ।
पूर्वादि-क्रमतो देवि ! द्वारि द्वारि द्वयं द्वयं ॥
इन्द्रादि-दश-दिक्-पालान् दश-विक्षु प्रपूजयेत् ।
खड्गं मुण्डं यजेद् वामे हस्ते च कुल-सुन्दरि ॥
पूजयेद् दक्षिणे हस्ते अभयं च वरं तथा ।
पुनश्च पूजयेद् देवीं सायुधां च सवाहनां ।।
कुल्लुकां मूर्ध्नि सञ्जप्य हृदि सेतुं विचिन्तयेत् ।
महा-सेतुं कण्ठ-देशे नाभौ योनिं विचिन्तयेत् ॥
सेतुं तु प्रणवं देवि ! हृदिस्थं तं प्रपूजयेत् ।
निज-वीजं महा-सेतुं कण्ठ-देशे विचिन्तयेत् ॥
सविन्दु-मातृका-युक्त्ता नाभि-मध्ये विचिन्तयेत् ।
काली-कूर्च वधूर्माया फट्कारान्तं सुरेश्वरि ।।
पश्वाक्षरी कालिकायाः कुल्लुकां परिचिन्तयेत् ।
तारायाः कुल्लुका देवी महा-नील सरस्वती ।।
श्रन्यासां च वधू-वीजं कुल्लुका परिकथ्यते ।
काली-कुल-प्रवृत्तानां पूजायामेवमाचरेत् ।।
अष्टोत्तर-शतं जप्त्वा पुनः पूजां प्रकल्पयेत् ।
पुनः प्रपूजयेद् देवीं महा-कालेन लालितां ॥
ततस्तु कवचं देवि ! स्तवं च प्रपठेत् ततः ॥
इति श्रीनिरुत्तर-तन्त्रे शिव-पार्वती-संवादे द्वितीयः पटलः ॥