सामग्री पर जाएँ

निरुत्तरतन्त्रम्/द्वादशः पटलः

द्वादशः पटलः

श्राशिव उवाच-

अथान्यत् सम्प्रवक्ष्यामि साधनं भुवि दुर्लभं ।

येन कृते लभेत् सिद्धि देवानामपि दुर्लभां ॥

ललाटे शक्ति-मन्त्रं तु त्रिरावृत्या लिखेद् बुधः ।

तन्मध्ये काम-वीजं च विलिखेत् काम-लाञ्छितं ॥

कामेन पुटितं कृत्वा पूजयेत् परमेश्वरीं ।

सम्पूज्य कालिकां देवीं यन्त्रं च परि-पूजयेत् ।

तत्त्व-चिन्ता-परो योगी जपेल्लक्षं निराकुलः ।

संगृह्य कुल-पुष्पं तु पूजयेच्च पुनः पुनः ॥

सहस्रं तर्पयेत् पीठे यन्त्र-प्रक्षालनोदकैः ।

एवं कृते लभेत् सिद्धि सत्यं सत्यं न संशयः ॥

अथान्यत् सम्प्रवक्ष्यामि पुरश्चरणमुत्तमं ।

शतं भाले शतं केशे शतं सिन्दूर-मण्डले ॥

शतमेकं मुखाब्जेषु पुष्प-वक्त्रे शत-द्वयं ।

शत-द्वन्द्वं कुच-द्वन्द्वे शतं च नाभि मण्डले ॥

शतमेकं कुलागारे प्रजपेद् भक्ति-भावतः ।

एवं दश-शतं जप्त्वा कुलागारे ततो जपेत् ॥

पूजयित्वा जपेन्मन्त्रं गजान्तक-सहस्रकं ।

ततस्तु तत्त्व-योगेन शतमष्टोत्तरं जपेत् ॥

पूजनं च पुनस्तत्र पुरश्चरणमुच्यते ।।

अथान्यत् सम्प्रवक्ष्यामि कुलागारस्य साधनं ।

येन कृते कुलेशा नि ! सर्व-पाप क्षयो भवेत् ॥

कुलागारे कुलाष्टम्यां कुलमाहूय पूजयेत् ॥

तर्पणं च जपं होमं तत्तदक्षरतां व्रजेत् ।

कदलो-तरु-मूलं च द्वि-गुणं यदि दृश्यते ॥

तत्रैव महतो पूजा कर्त्तव्या वर-र्वाणनि !

तद्-धृते ब्रह्म-वक्त्रेण होमं कुर्याद् विचक्षणः ॥

होमं कृत्वा जपेन्मन्त्रं कोटि-कोटि-गुणं भवेत् ।

द्वि-गुणं रजनी-मूलं संवीक्ष्य यो जपेन्मनुं ॥

स भवेत् सर्व-सिद्धीशस्तस्य पुण्यं न विद्यते ॥

रजनी स्वेच्छ्याहूय साधकं कुल-भूषणं ।।

विपरीता जपेन्मन्त्रं तस्याः पुण्यं न गण्यते ।

रजन्याथ कुलागारे पुलिने निपुणा यदि ॥

तत्समा रजनी कान्ता कमला वाथ राधिका ।

त्रिषु लोकेषु सा धन्या ब्रह्म-विष्णु-शिवात्मिका ॥

सिद्ध-विद्या महा-विद्या मन्त्र-यन्त्र-फल-प्रदा ।

तस्याः प्रसाद-मात्रेण दुष्ट-मन्त्रोऽपि सिद्धयति ।

तस्मात् सर्व प्रयत्नेन तामेव शरणं व्रजेत् ।

रजन्यां रजनी-योगं विहरेद् यदि साधकः ।।

जपेद्वा पूजयेत् तत्त्र सर्वं तत् निष्फलं भवेत् ।

येन तेन प्रकारेण रजनी-तोषणं चरेत् ॥

बाह्याद्वा क्रीडनाद्वापि रणाद्वा तोषयेत् सदा ।

यं यं भावं रजन्यां च तं तं भावं प्रकल्पयेत् ॥

अतिरिक्तः कृतो भावो रौरवं नरकं व्रजेत् ।

कलायाः सर्मांत कृत्वा साधयेत् कुल-साधनं ।।

अन्यथा नरकं याति सत्यं सत्यं न संशयः ।

कलापि साधकं ज्ञात्वा सर्मात नंव जायते ॥

सा चैवं नरके घोरे वसेदेव न संशयः ।

उभयोः सर्मात ज्ञात्वा साधयेत् कुल-साधनं ।।

श्रसम्मत-कुला-सङ्गात् सिद्धि-हानिः प्रजायते ।

यो गच्छेद् रजनी-गेहं कुल-साधन-जिते ।।

स एव नरकं याति सत्यं सत्यं न संशयः ।

क्रोधाद्वा कामतो वापि द्वेषाद्वा वर-वर्वाणनि ॥

न गच्छेद् रजनो-गेहं गच्छेच्च नरकं व्रजेत् ।

अज्ञात्वा कुल-सङ्केत कुल-मार्ग विशेद् यदि ॥

स याति नरकं घोरं का कथा पर-जन्मनि ।

गुरुं विलंघ्य शास्त्रेऽस्मिन् नाधिकारी कदाचन ।।

गुरोराज्ञां समादाय कुल-पूजां चरेत् सुधीः ।

पशोर्वापि शठाद्वापि धूर्ताद्वा चुल्लुकादपि ।।

न गृह्णीयात् सिद्धि-विद्यां गृह्णीयाद् दुःख-भाग् भवेत् ।

मधु-लुब्धो यथा भृङ्गः पुष्पात् पुष्पान्तरं व्रजेत् ॥

ज्ञान-लुब्धस्तथा शिष्यो गुरोर्गुर्वन्तरं व्रजेत् ।

तस्मात् सर्व-प्रयत्नेन कुलीनं गुरुमाश्रयेत् ॥

कुलीनस्तन्त्र-मन्त्राणां अधिकारोति गीयते ।

आजन्म च परं वस्तु कुलीनाय निवेदयेत् ।।

शुभे मासि शुभे पक्षे शुभे लग्ने शुभे दिने ।

पूर्वोक्त-मन्त्र-ज्ञानेन घटं संस्थापयेत् ततः ॥

भूर्ज-पत्रेण संलिख्य घटे संस्थाप्य यत्नतः ।

तत्र पूजां चरेद् धीमान् महा-चीन-क्रमेण च ।।

पूजयित्वा ततो देवीं गुरुः सूर्यं विचिन्तयेत् ।

ततः कुलीनामाश्रित्य मन्त्रं तन्त्रं विलोकयेत् ।।

अभिषेकं च तत्रैव कुर्यात् कुल-परायणः ।

पशोर्वा चुल्लुकाद् वापि धूर्ताद्वा कुल-पामरात् ।।

सिद्धि-विद्यां न गृह्णीयात् गृह्णीयान्नरकं व्रजेत् ।

जप-पूजां तथा होमं साधनं सर्व-कर्मसु ॥

सर्वं च निष्फलं याति दुःखं तस्य पदे पदे।

कुल-द्रव्याणि देवेशि ! पश्वादिभ्यो न दर्शयेत् ॥

तर्पयेत् सिद्धि-हानिः स्यात् रौरवं नरकं व्रजेत्।

कुल-पूजादिकं कर्म पशोरग्रे चरेद् यदि ॥

तत्कर्म निष्फलं याति का कथा पर-जन्मनि ।

पशोरालापनाद् देवि ! कुल-कर्म प्रणश्यति ॥

पशोर्दर्शन-मात्रेण सूर्य-दर्शनमाचरेत् ।

स एव द्विविधो देवि ! दीक्षितोऽदीक्षितः पशुः ॥

दीक्षितो हि भवेत् पूर्वोऽदोक्षितो हि महा-पशुः ।

पूर्व-सङ्गात् कुलेशानि ! सिद्धि-हानिः प्रजायते ॥

महा-पशु-समायोगान्न कुलं शरणं व्रजेत् ।

पशु-मात्र समायोगात् प्रेत-राज्याधिपो भवेत् ।।

पशु-मात्र-समायोगात् कुल-कर्म प्रणश्यति ।

तस्मात् सर्व-प्रयत्नेन कुलीनं गुरुमाश्रयेत् ।।

कुलीन-सेवितस्यापि मन्त्र-सिद्धिः प्रजायते ॥

पशुं शठं च धूर्त च चुल्लुकं च विशेषतः ।।

धर्मार्थ-काम-मोक्षार्थी गुरुत्वेन न चार्चयेत् ।

।। इति श्रीनिरुत्तर-तन्त्रे शिव-पार्वती-सम्वादे द्वादशः पटलः ।।